अथ कदाचित् तस्य सिंहस्य भ्राता स्तब्ध-कर्ण-नामा सिंहः समागतः । तस्यातिथ्यं कृत्वा सिंहम् उपवेश्य पिङ्गलकस् तद्-आहाराय पशुं हन्तुं चलितः । अत्रान्तरे सञ्जीवको वदति-देव ! अद्य हत-मृगाणां मांसानि क्व ?
राजाह-दमनक-करटकौ जानीतः ।
सञ्जीवको ब्रूते-ज्ञायतां किम् अस्ति नास्ति वा ?
सिंहो विमृश्याह-नास्त्य् एव तत् ।
सञ्जीवको ब्रूते-कथम् एतावन् मांसं ताभ्यां खादितम् ?
राजाह-खादितं व्ययितम् अवधीरितं च । प्रत्यहम् एष क्रमः ।
सञ्जीवको ब्रूते-कथं श्रीमद्-देव-पादानां अगोचरेणैव क्रियते ?
राजाह-मदीयागोचरेणैव क्रियते ।
अथ सञ्जीवको ब्रूते-नैतद् उचितम् । तथा चोक्तम्-
नानिवेद्य प्रकुर्वीत भर्तुः किञ्चिद् अपि स्वयम् ।
कार्यम् आपत्-प्रतीकाराद् अन्यत्र जगती-पते ॥ हित्_२।९० ॥
अन्यच् च-
कमण्डलूपमो ऽमात्यस् तनु-त्यागी बहु-ग्रहः ।
नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ॥ हित्_२।९१ ॥
स ह्य् अमात्यः सदा श्रेयान् काकिनीं यः प्रवर्धयेत् ।
कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः ॥ हित्_२।९२ ॥
किं चार्थैर् न कुलाचारैः सेवताम् एति पूरुषः ।
धन-हीनः स्व-पत्न्यापि त्यज्यते किं पुनः परैः ॥ हित्_२।९३ ॥
एतच् च राज्ञः प्रधानं दूषणम्-
अतिव्ययो ऽनपेक्षा च तथार्जनम् अधर्मतः ।
मोषणं दूर-संस्थानां कोष-व्यसनम् उच्यते ॥ हित्_२।९४ ॥
यतः-
क्षिप्रम् आयतम् अनालोच्य व्ययमानः स्व-वाञ्छया ।
परिक्षीयत एवासौ धनी वैश्रवणोपमः ॥ हित्_२।९५ ॥
स्तब्धकर्णो ब्रूते-शृणु भ्रातः चिराश्रिताद् एतौ दमनक-करटकौ सन्धि-विग्रह-कार्याधिकारिणौ च कदाचिद् अर्थाधिकारे न नियोक्तव्यौ । अपरं च नियोग-प्रस्तावे यन् मया श्रुतं तत् कथ्यते ।
ब्राह्मणः क्षत्रियो बन्धुर् नाधिकारे प्रशस्यते ।
ब्राह्मणः सिद्धम् अप्य् अर्थं कृच्छ्रेणापि न यच्छति ॥ हित्_२।९६ ॥
नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् ।
सर्वस्वं ग्रसते बन्धुर् आक्रम्य ज्ञाति-भावतः ॥ हित्_२।९७ ॥
अपराधेऽपि निःशङ्को नियोगी चिर-सेवकः ।
स स्वामिनम् अवज्ञाय चरेच् च निरवग्रहः ॥ हित्_२।९८ ॥
उपकर्ताधिकार-स्थः स्वापराधं न मन्यते ।
उपकारं ध्वजी-कृत्य सर्वम् एव विलुम्पति ॥ हित्_२।९९ ॥
उपंशु-क्रीडितो ऽमात्यः स्वयं राजायते यतः ।
अवज्ञा क्रियते तेन सदा परिचयाद् ध्रुवम् ॥ हित्_२।१०० ॥
अन्तर्-दुष्टः क्षमा-युक्तः सर्वानर्थ-करः किल ।
शकुनिः शकटारश् च दृष्टान्ताव् अत्र भूपते ॥ हित्_२।१०१ ॥
सदामत्यो न साध्यः स्यात् समृद्धः सर्व एव हि ।
सिद्धानाम् अयम् आदेशः ऋद्धिश् चित्त-विकारिणी ॥ हित्_२।१०२ ॥
प्राप्तार्थ-ग्रहणं द्रव्य-परीवर्तो ऽनुरोधनम् ।
उपेक्षा बुद्धि-हीनत्वं भोगो ऽमात्यस्य दूषणम् ॥ हित्_२।१०३ ॥
नियोग्य् अर्थ-ग्रहोपायो राज्ञा नित्य-परीक्षणम् ।
प्रतिपत्ति-प्रदानं च तथा कर्म-विपर्ययः ॥ हित्_२।१०४ ॥
निपीडिता वमन्त्य् उच्चैर् अन्तः-सारं महीपतेः ।
दुष्ट-व्रणा इव प्रायो भवन्ति हि नियोगिनः ॥ हित्_२।१०५ ॥
मुहुर् नियोगिनी बाध्या वसुधारा महीपते ।
सकृत् किं पीडितं स्नान-वस्त्रं मुञ्चेद् धृतं पयः ॥ हित्_२।१०६ ॥
एतत् सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम् ।
सिंहो ब्रूते-अस्ति तावद् एवम् । किन्त्व् एतौ सर्वथा न मम वचन-कारिणौ ।
स्तब्धकर्णो ब्रूते-एतत् सर्वम् अनुचितं सर्वथा । यतः-
आज्ञा-भङ्ग-करान् राजा न क्षमेत सुतान् अपि ।
विशेषः को नु राज्ञश् च राज्ञश् चित्र-गतस्य च ॥ हित्_२।१०७ ॥
स्तब्धस्य नश्यति यशो विषम् अस्य मैत्री
नष्टेन्द्रियस्य कुलम् अर्थ-परस्य धर्मः ।
विद्या-फलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्त-सचिवस्य नराधिपस्य ॥ हित्_२।१०८ ॥
अपरं च-
तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृप-वल्लभात् ।
नृपतिर् निज-लोभाच् च प्रजा रक्षेत् पितेव हि ॥ हित्_२।१०९ ॥
भ्रातः ! सर्वथास्मद्-वचनं क्रियताम् । व्यवहारो ऽप्य् अस्माभिः कृत एव । अयं सञ्जीवकः सस्य-भक्षको ऽर्थाधिकारे नियुज्यताम् ।
एतद्-वचनात् तथानुष्ठिते सति तद् आरभ्य पिङ्गलक-सञ्जीवकयोः सर्व-बन्धु-परित्यागेन महता स्नेहेन कालो ऽतिवर्तते ।