२-०४ दमनकस्य विश्वासः

करटको गच्छन् दमनकम् आह-सखे ! किं शक्त्य-प्रतीकारो भय-हेतुर् अशक्य-प्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथम् अयं महा-प्रसादो गृहीतः ? यतो ऽनुपकुर्वाणो न कस्याप्य् उपायनं गृह्णीयाद् विशेषतो राज्ञः । पश्य-

यस्य प्रसादे पद्मास्ते विजयश् च पराक्रमे ।
मृत्युश् च वसति क्रोधे सर्व-तेजोमयो हि सः ॥ हित्_२।८१ ॥

तथा हि-

बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्य् एषा नर-रूपेण तिष्ठति ॥ हित्_२।८२ ॥

दमनको विहस्याह-मित्र ! तूष्णीम् आस्यताम् । ज्ञातं मया भय-कारणम् । बलीवर्द-नर्दितं तत् । वृषभाश् चास्माकम् अपि भक्ष्याः । किं पुनः सिंहस्य ।

करटको ब्रूते-यद्य् एवं तदा किम् पुनः स्वामि-त्रासस् तत्रैव किम् इति नापनीतः ।

दमनको ब्रूते-यदि स्वामि-त्रासस् तत्रैव मुच्यते तदा कथम् अयं महा-प्रसाद-लाभः स्यात् । अपरं च-

निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन ।
निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद् दधि-कर्णवत् ॥ हित्_२।८३ ॥

करटकः पृच्छति–कथम् एतत् ?

दमनकः कथयति-

अतोहं ब्रवीमि “निरपेक्षो न कर्तव्यः” इत्यादि।

ततो दमनक-करटकौ सञ्जीवक-समीपं गतौ । तत्र करटकस् तरु-तले साटोपम् उपविष्टः ।

दमनकः सञ्जीवक-समीपं गत्वा ऽब्रवीत् - अरे वृषभ ! एषोहं राज्ञा पिङ्गलकेनारण्य-रक्षणार्थे नियुक्तः । सेनापतिः करटकः समज्ञापयति - “सत्वरमागच्छ । न चेद् अस्माद् अरण्याद् दूरम् अपसर । अन्यथा ते विरुद्धं फलं भविष्यति ।” न जाने क्रुद्धः स्वामी किं विधास्यति । तच्-छ्रुत्वा सञ्जीवकश् चायात् ।

आज्ञा-भङ्गो नरेन्द्राणां ब्राह्मणानाम् अनादरः ।
पृथक् शय्या च नारीणाम् अशस्त्र-विहितो वधः ॥ हित्_२।८५ ॥

ततो देश-व्यवहारानभिज्ञः सञ्जीवकः सभयम् उपसृत्य साष्टाङ्ग-पातं करटकं प्रणतवान् । तथा चोक्तम्-

मतिर् एव बलाद् गरीयसी यद्-अभावे करिणाम् इयं दशा ।
इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ हित्_२।८६ ॥

अथ सञ्जीवकः साशङ्कम् आह-सेनापते ! किं मया कर्तव्यम् । तद् अभिधीयताम् ।

करटको ब्रूते-वृषभ ! अत्र कानने तिष्ठसि । अस्मद्-देव-पादारविन्दं प्रणय ।

सञ्जीवको ब्रूते-तद्-अभय-वाचं मे यच्छ । गच्छामि ।

करटको ब्रूते-शृणु रे बलीवर्द ! अलम् अनया शङ्कया । यतः-

प्रतिवाचम् अदत्त केशवः शपमानाय न चेदि-भूभुजे ।
अनुहुङ्कुरुते घन-ध्वनिं न हि गोमायु-रुतानि केसरी ॥ हित्_२।८७ ॥

अन्यच् च-

तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणलानि सर्वतः ।
समुच्छ्रितान् एव तरून् प्रबाधते
महान् महत्य् एव करोति विक्रमम् ॥ हित्_२।८८ ॥

ततस् तौ सञ्जीवकं कियद् दूरे संस्थाप्य पिङ्गलक-समीपं गतौ । ततो राजा सादरम् अवलोकितौ प्रणम्योपविष्टौ । राजाह-त्वया स दृष्टः ?

दमनको ब्रूते-देव ! दृष्टः । किन्तु यद् देवेन ज्ञातं तत् तथा । महान् एवासौ देवं द्रष्टुम् इच्छति । किन्तु महाबलो ऽसौ ततः सज्जीभूयोपविश्य दृश्यताम् । शब्द-मात्राद् एव न भेतव्यम् । तथा चोक्तम्-

शब्द-मात्रान् न भेतव्यम् अज्ञात्वा शब्द-कारणम् ।
शब्द-हेतुं परिज्ञाय कुट्टनी गौरवं गता ॥ हित्_२।८९ ॥

राजाह-कथम् एतत् ?

दमनकः कथयति-

अतो ऽहं ब्रवीमि-शब्द-मात्रान् न भेतव्यम् इत्य् आदि ।

ततः सञ्जीवकम् आनीय दर्शनं कारितवन्तौ । पश्चात् तत्रैव परम-प्रीत्या निवसति ।