ततो दमनको विस्मित इव पिङ्गलक-समीपं गतः । अथ दूराद् एव सादरं राज्ञा प्रवेशितः साष्टाङ्ग-प्रणिपातं प्रणिपत्योपविष्टः । राजाह-चिराद् दृष्टो ऽसि ।
दमनको ब्रूते-यद्यपि मया सेवकेन श्रीमद्-देवपादानां न किञ्चित् प्रयोजनम् अस्ति, तथापि प्राप्त-कालम् अनुजीविना सान्निध्यम् अवश्यं कर्तव्यम् इत्य् आगतो ऽस्मि । किं च-
दन्तस्य निर्घर्षणकेन राजन्
कर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्यं भवतीश्वराणां
किम् अङ्ग-वाक्-पाणि-मता नरेण ॥ हित्_२।६६ ॥
यद्यपि चिरेणावधीरितस्य देव-पादैर् मे बुद्धि-नाशः शक्यते, तद् अपि न शङ्कनीयम् । यतः-
कदर्थितस्यापि च धैर्य-वृत्तेर्
बुद्धेर् विनाशो नहि शङ्कनीयः ।
अधः-कृतस्यापि तनूनपातो
नाधः शिखा याति कदाचिद् एव ॥ हित्_२।६७ ॥
देव ! तत् सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः-
मणिर् लुठति पादेषु काचः शिरसि धार्यते ।
यथैवास्ते तथैवास्तां काचः काचो मणिर् मणिः ॥ हित्_२।६८ ॥
अन्यच् च-
निर्विशेषो यदा राजा समं सर्वेषु वर्तते ।
तदोद्यम-समर्थानाम् उत्साहः परिहीयते ॥ हित्_२।६९ ॥
किं च-
त्रिविधाः पुरुषा राजन्न् उत्तमाधम-मध्यमाः ।
नियोजयेत् तथैवैतांस् त्रिविधेष्व् एव कर्मसु ॥ हित्_२।७० ॥
यतः-
स्थान एव निज्योज्यन्ते भृत्याश् चाभरणानि च ।
नहि चूडामणिः पादे नूपुरं शिरसा कृतम् ॥ हित्_२।७१ ॥
अपि च-
कनक-भूषण-सङ्ग्रहणोचितो यदि मणिस् त्रपुणि प्रणिधीयते ।
न स विरौति न चापि न शोभते भवति योजयितुर् वचनीयता ॥ हित्_२।७२ ॥
अन्यच् च-
मुकुटे रोपिता काचश् चरणाभरणे मणिः ।
नहि दोषो मणेर् अस्ति किन्तु साधोर् अविज्ञता ॥ हित्_२।७३ ॥
पश्य-
बुद्धिमान् अनुरक्तो ऽयम् अयं शूर इतो भयम् ।
इति भृत्य-विचारज्ञो भृत्यैर् आपूर्यते नृपः ॥ हित्_२।७४ ॥
तथा हि-
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश् च नारी च ।
पुरुष-विशेषं प्राप्ता भवन्त्य् अयोग्याश् च योग्याश् च ॥ हित्_२।७५ ॥
अन्यच् च-
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा ।
भक्तं शक्तं च मां राजन् नावज्ञातुं त्वम् अर्हसि ॥ हित्_२।७६ ॥
यतः-
अवज्ञानाद् राज्ञो भवति मति-हीनः परिजनस्
ततस् तत्-प्रामाण्याद् भवति न समीपे बुध-जनः ।
बुधैस् त्यक्ते राज्ये न हि भवति नीतिर् गुणवती
विपन्नायां नीतौ सकलम् अवशं सीदति जगत् ॥ हित्_२।७७ ॥
अपरं च-
जनं जनपदा नित्यम् अर्चयन्ति नृपार्चितम् ।
नृपेणावमतो यस् तु स सर्वैर् अवमन्यते ॥ हित्_२।७८ ॥
किं च-
बालाद् अपि गृहीतव्यं युक्तम् उक्तं मनीषिभिः ।
रवेर् अविषये किं न प्रदीपस्य प्रकाशनम् ॥ हित्_२।७९ ॥
पिङ्गलको ऽवदत्-भद्र दमनक ! किम् एतत् ? त्वम् अस्मदीय-प्रधानामात्य-पुत्र इयन्तं कालं यावत् कुतो ऽपि खल-वाक्यान् नागतो ऽसि । इदानीं यथाभिमतं ब्रूहि ।
दमनको ब्रूते-देव ! पृच्छामि किञ्चित् । उच्यताम् । उदकार्थी स्वामी पानीयम् अपीत्वा किम् इति विस्मित इव तिष्ठति ।
पिङ्गलको ऽवदत्-भद्रम् उक्तं त्वया । किन्त्व् एतद् रहस्यं वक्तुं काचिद् विश्वास-भूमिर् नास्ति । तथापि निभृतं कृत्वा कथयामि । शृणु, सम्प्रति वनम् इदम् अपूर्व-सत्त्वाधिष्ठितम् अतो ऽस्माकं त्याज्यम् । अनेन हेतुना विस्मितो ऽस्मि । तथा च श्रुतो मयापि महान् अपूर्व-शब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् ।
दमनको ब्रूते-देव ! अस्ति तावद् अयं महान् भय-हेतुः । स शब्दो ऽस्याभिर् अप्य् आकर्णितः । किन्तु स किं मन्त्री यः प्रथमं भूमि-त्यागं पश्चाद् युद्धं चोपविशति अस्मिन् कार्य-सन्देहे भृत्यानाम् उपयोग एव ज्ञातव्यः । यतः-
बन्धु-स्त्री-भृत्य-वर्गस्य बुद्धेः सत्त्वस्य चात्मनः ।
आपन्-निकष-पाषाणे नरो जानाति सारताम् ॥ हित्_२।८० ॥
सिंहो ब्रूते-भद्र ! महती शङ्का मां बाधते ।
दमनकः पुनर् आह स्वगतम्-अन्यथा राज्य-सुखं परित्यज्य स्थानान्तरं गन्तुं कथं मां सम्भाषसे ? प्रकाशं ब्रूते-देव ! यावद् अहं जीवामि तावद् भयं न कर्तव्यम् । किन्तु करटकादयो ऽप्य् आश्वास्यन्तां यस्माद् आपत्-प्रतीकार-काले दुर्लभह् पुरुष-समवायः ।
ततस् तौ दमनक-करटकौ राज्ञा सर्वस्वेनापि पूजितौ भय-प्रतीकारं प्रतिज्ञाय चलितौ ।