करटको ब्रूते-मित्र दमनक ! अस्मन्-मतेनास्य सेवैव न क्रियते । यदि तथा भवति तर्हि किम् अनेन स्वामि-चेष्टानिरूपेणास्माकम् । यतो ऽनेन राज्ञा विनापराधेन चिरम् अवधीरिताभ्याम् आवाभ्यां महद्-दुःखम् अनुभूतम् ।
सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम् ।
स्वातन्त्र्यं यच् छरीरस्य मूढैस् तद् अपि हारितम् ॥ हित्_२।२० ॥
अपरं च-
शीत-वातातप-क्लेशान् सहन्ते यान् पराश्रिताः ।
तद्-अंशेनापि मेधावी तपस् तप्त्वा मुखी भवेत् ॥ हित्_२।२१ ॥
अन्यच् च-
एतावज् जन्मसाफल्यं देहिनाम् इह देहिषु ।
प्राणैर् अर्थैर् धिया वाचा श्रेय एवाचरेत् सदा ॥ हित्_२।२२ ॥ +++(सम्पादकटिप्पनी- ३,४ पादौ पुस्तके भिन्नौ ।)++++
अपरं च-
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
इति वित्रस्त-सारङ्ग-नेत्रया को न वञ्चितः ॥ हित्_२।२३ ॥+++(सम्पादकटिप्पनी- ३,४ पादौ पुस्तके भिन्नौ ।)++++
अपरं च-
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
इति वित्रस्त-सारङ्ग-नेत्रया को न वञ्चितः ॥ हित्_२।२३ ॥
किं च-
अबुधैर् अर्थ-लाभाय पण्य-स्त्रीभिर् इव स्वयम् ।
आत्मा संस्कृत्य संस्कृत्य परोपकरणी-कृतः ॥ हित्_२।२४ ॥
किं च-
या प्रकृत्यैव चपला निपतत्य् अशुचाव् अपि ।
स्वामिनो बहु मन्यन्ते दृष्टिं ताम् अपि सेवकाः ॥ हित्_२।२५ ॥
अपरं च-
मौनान् मूर्खः प्रवचन-पटुर् बातुलो जल्पको वा
क्षान्त्या भीरुर् यदि न सहते प्रायशो नाभिजातः ।
धृष्टः पार्श्वे वसति नियतं दूरतश् चाप्रगल्भः
सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥ हित्_२।२६ ॥
विशेषतश् च-
प्रणमत्य् उन्नति-हेतोर् जीवित-हेतोर् विमुञ्चति प्राणान् ।
दुःखीयति सुख-हेतोः को मूढः सेवकाद् अन्यः ॥ हित्_२।२७ ॥
दमनको ब्रूते-मित्र सर्वथा मनसापि नैतत् कर्तव्यम्, यतः-
कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः ।
अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥ हित्_२।२८ ॥
अन्यच् च-
कुतः सेवा-विहीनानां चामरोद्धूत-सम्पदः ।
उद्दण्ड-धवल-च्छत्रं वाजि-वारण-वाहिनी ॥ हित्_२।२९ ॥
करटको ब्रूते-तथापि किम् अनेनास्माकं व्यापारेण । यतो ऽव्यापारेषु व्यापारः सर्वथा परिहरणीयः । पश्य-
अव्यापरेषु व्यापारं यो नरः कर्तुम् इच्छति ।
स एव निधनं याति कीलोत्पटीव वानरः ॥ हित्_२।३० ॥
दमनकः पृच्छति–कथम् एतत् ?
करकटः कथयति-
अतो ऽहं ब्रवीमि-अव्यापरेषु व्यापारम् इत्य् आदि ।
दमनको ब्रूते-तथापि स्वामि-चेष्टा-निरूपणं सेवकेनावश्यं करणीयम् ।
करटको ब्रूते-सर्वस्मिन्न् अधिकारे य एव नियुक्तः प्रधान-मन्त्री स करोतु । यतो ऽनुजीविना पराधिकार-चर्चा सर्वथा न कर्तव्या । पश्य-
पराधिकार-चर्चा यः कुर्यात् स्वामि-हितेच्छया ।
स विषीदति चीत्काराद् गर्दभस् ताडितो यथा ॥ हित्_२।३१ ॥
दमनकः पृच्छति–कथम् एतत् ?
करटको ब्रूते-
अतो ऽहं ब्रवीमि-पराधिकार-चर्चाम् इत्य् आदि । पश्य, पशूनाम् अन्वेषणम् एवास्मन्-नियोगः । स्व-नियोग-चर्चा क्रियताम् । किन्त्व् अद्य तया चर्चया न प्रयोजनम् । यत आवयोर् भक्षित-शेषाहारः प्रचुरो ऽस्ति ।
दमनकः सरोषम् आह-कथम् आहारार्थी भवान् केवलं राजानं सेवते ? एतद् अयुक्तम् उक्तं त्वया । यतः-
सुहृदाम् उपकार-कारणाद्
द्विषताम् अप्य् अपकार-कारणात् ।
नृप-संश्रय इष्यते बुधैर्
जठरं को न बिभर्ति केवलम् ॥ हित्_२।३५ ॥
जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः ।
सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥ हित्_२।३६ ॥
अपि च-
यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु ।
काको ऽपि किं न कुरुते चञ्च्वा स्वोदर-पूरणम् ॥ हित्_२।३७ ॥
पश्य-
पञ्चभिर् याति दासत्वं पुराणैः को ऽपि मानवः ।
को ऽपि लक्षैः कृती को ऽपि लक्षैर् अपि न लभ्यते ॥ हित्_२।३८ ॥
अन्यच् च-
मनुष्य-जातौ तुल्यायां भृत्यत्वम् अति-गर्हितम् ।
प्रथमो यो न तन् नापि स किं जीवत्सु गण्यते ॥ हित्_२।३९ ॥
तथा चोक्तं-
वाजि-वारण-लोहानां काष्ठ-पाषाण-वाससाम् ।
नारी-पुरुष-तोयानाम् अन्तरं हद-हन्तरम् ॥ हित्_२।४० ॥
तथा हि स्वल्पम् अप्य् अतिरिच्यते-
स्वल्प-स्नायु-वसावशेष-मलिनं निर्मांसम् अप्य् अस्थिकं
श्वा लब्ध्वा परितोषम् एति न भवेत् तस्य क्षुधः शान्तये ।
सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्र-गतो ऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ हित्_२।४१ ॥
अपरं च, सेव्य-सेवकयोर् अन्तरं पश्य-
लाङ्गूल-चालनम् अधश् चरणावपातं
भूमौ निपत्य वदनोदर-दर्शनं च ।
श्वा पिण्डदस्य कुरुते गज-पुङ्गवस् तु
धीरं विलोकयति चाटु-शतैश् च भुङ्क्ते ॥ हित्_२।४२ ॥
किं च-
यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर्
विज्ञान-विक्रम-यशोभिर् अभज्यमानम् ।
तन् नाम जीवितम् इह प्रवदन्ति तज्-ज्ञाः
काको ऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ हित्_२।४३ ॥
अपरं च-
यो नात्मजे न च गुरौ न च भृत्य-वर्गे
दीने दयां न कुरुते न च बन्धु-वर्गे ।
किं तस्य जीवित-फलेन मनुष्य-लोके
काको ऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ हित्_२।४४ ॥
अपरम् अपि-
अहित-हित-विचार-शून्य-बुद्धेः
श्रुति-समयैर् बहुभिर् बहिष्कृतस्य ।
उदर-भरण-मात्र-केवलेच्छोः
पुरुष-पशोश् च पशोश् च को विशेषः ॥ हित्_२।४५ ॥
करटको ब्रूते-आवां तावद् अप्रधानौ । तदाप्य् आवयोः किम् अनया विचारणया ।
दमनको ब्रूते-कियता कालेनामात्याः प्रधानताम् अप्रधानतां वा लभन्ते, यतः-
न कस्यचित् कश्चिद् इह स्वभावाद्
भवत्य् उदारो ऽभिमतः खलो वा ।
लोके गुरुत्वं विपरीततां वा
स्व-चेष्टितान्य् एव नरं नयन्ति ॥ हित्_२।४६ ॥
किं च-
आरोप्यते शिला शैले यत्नेन महता यथा ।
निपात्यते क्षणेनाधस् तथात्मा गुण-दोषयोः ॥ हित्_२।४७ ॥
यात्य् अधो ऽधः व्रजत्य् उच्चैर् नरः स्वैर् एव कर्मभिः ।
कूपस्य खनिता यद्वत् प्राकारस्येव कारकः ॥ हित्_२।४८ ॥
तद् भद्रम् । स्वयत्नायत्तो ह्य् आत्मा सर्वस्य ।
करटको ब्रूते-अथ भवान् किं ब्रवीति ?
स आह-अयं तावत् स्वामी पिङ्गलकः कुतो ऽपि कारणात् स-चकितः परिवृत्योपविष्टः ।
करटको ब्रूते-
- “किं तत्त्वं जानासि?” । दमनको ब्रूते किमत्राविदितमस्ति ? +++(सम्पादकटिप्पनी - पुस्तकेऽयमधिकः पाठः ।)+++
उदीरितो ऽर्थः पशुनापि गृह्यते हयाश् च नागाश् च वहन्ति चोदिताः ।
अनुक्तम् अप्य् ऊहति पण्डितो जनः परेङ्गित-ज्ञान-फला हि बुद्धयः ॥ हित्_२।४९ ॥
आकार-रिङ्गतैर् गत्या चेष्टया भाषणेन च ।
नेत्र-वक्त्र-विकारेण लक्ष्यतेऽन्तर्गतं मनः ॥ हित्_२।५० ॥
अत्र भय-प्रस्तावे प्रज्ञा-बलेनाहम् एनं स्वामिनम् आत्मीयं करिष्यामि । यतः-
प्रस्ताव-सदृशं वाक्यं सद्-भाव-सदृशं प्रियम् ।
आत्म-शक्ति-समं कोपं यो जानाति स पण्डितः ॥ हित्_२।५१ ॥
करटको ब्रूते-सखे त्वं सेवानभिज्ञः । पश्य-
अनाहूतो विशेद् यस् तु अपृष्टो बहु भाषते ।
आत्मानं मन्यते प्रीतं भू-पालस्य स दुर्मतिः ॥ हित्_२।५२ ॥
दमनको ब्रूते-भद्र ! कथम् अहं सेवानभिज्ञः ? पश्य-
किम् अप्य् अस्ति स्वभावेन सुन्दरं वाप्य् असुन्दरम् ।
यद् एव रोचते यस्मै भवेत् तत् तस्य सुन्दरम् ॥ हित्_२।५३ ॥
यतः-
यस्य यस्य हि यो भावस् तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रम् आत्म-वशं नयेत् ॥ हित्_२।५४ ॥
अन्यच् च-
को ऽत्रेत्य् अहम् इति ब्रूयात् सम्यग् आदेशयेति च ।
आज्ञाम् अवितथां कुर्याद् यथा-शक्ति महीपतेः ॥ हित्_२।५५ ॥
अपरं च-
अल्पेच्छुर् धृतिमान् प्राज्ञश् छायेवानुगतः सदा ।
आदिष्टो न विकल्पेत स राज-वसतिं वसेत् ॥ हित्_२।५६ ॥
करटको ब्रूते-कदाचित् त्वाम् अनवसर-प्रवेशाद् अवगम्यते स्वामी ।
स चाह-अस्त्व् एवम् । तथाप्य् अनुजीविना स्वामि-सान्निध्यम् अवश्यं करणीयम् ।
यतः-
दोष-भीतेर् अनारम्भस् तत् कापुरुष-लक्षणम् ।
कैर् अजीर्ण-भयाद् भ्रातर् भोजनं परिहीयते ॥ हित्_२।५७ ॥
पश्य-
आसन्नम् एव नृपतिर् भजते मनुष्यं विद्या-विहीनम् अकुलीनम् असंस्तुतं वा ।
प्रायेण भूमि-पतयः प्रमदा-लताश् च यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ हित्_२।५८ ॥
करटको ब्रूते-अथ तत्र गत्वा किं वक्ष्यति भवान् ।
स आह-शृणु ! किम् अनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि ।
करटको ब्रूते-किं तज् ज्ञान-लक्षणम् ।
दमनको ब्रूते-शृणु-
दूराद् अवेक्षणं हासः सम्प्रश्नेष्व् आदरो भृशम् ।
परोक्षेऽपि गुण-श्लाघा स्मरणं प्रिय-वस्तुषु ॥ हित्_२।५९ ॥
असेवके चानुरक्तिर् दानं स-प्रिय-भाषणम् ।
अनुरक्तस्य चिह्नानि दोषेऽपि गुण-सङ्ग्रहः ॥ हित्_२।६० ॥
अन्यच् च–
काल-यापनम् आशानां वर्धनं फल-खण्डनम् ।
विरक्तेश्वर-चिह्नानि जानीयान् मतिमान् नरः ॥ हित्_२।६१ ॥
एतज् ज्ञात्वा यथा चायं ममायत्तो भविष्यति । तथा वदिष्यामि ।
अपायसं दर्शनजां विपत्तिम्
उपाय-सन्दर्शन-जां च सिद्धिम् ।
मेधाविनो नीति-विधि-प्रयुक्तां
पुरः स्फुरन्तीम् इव दर्शयन्ति ॥ हित्_२।६२ ॥
करटको ब्रूते-तथाप्य् अप्राप्ते प्रस्तावे न वक्तुम् अर्हसि, यतः-
अप्राप्त-कालं वचनं बृहस्पतिर् अपि ब्रुवन् ।
लभते बुद्ध्य्-अवज्ञानम् अवमानं च भारत ॥ हित्_२।६३ ॥+++(सम्पादकटिप्पनी - ३,४ पादौ पुस्तके भिन्नौ ।)+++
दमनको ब्रूते-मित्र ! मा भैषीः ! नाहम् अप्राप्तावसरं वचनं वदिष्यामि । यतः-
आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च ।
अपृष्टो ऽपि हितान्वेषी ब्रूयात् कल्याण-भाषितम् ॥ हित्_२।६४ ॥+++(सम्पादकटिप्पनी - ३,४ पादौ पुस्तके भिन्नौ ।)+++
यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस् तदा मन्त्रित्वम् एव ममानुपपन्नम् । यतः-
कल्पयति येन वृत्तिं येन च लोके प्रशस्यते ।
स गुणस् तेन गुणिना रक्ष्यः संवर्धनीयश् च ॥ हित्_२।६५ ॥
तद् भद्र ! अनुजानीहि माम् । गच्छामि ।
करटको ब्रूते-शुभम् अस्तु । शिवास् ते पन्थानः । यथाभिलषितम् अनुष्ठीयताम् इति ।