२-०१ पिङ्गलकभीतिः

ततः सञ्जीवको ऽपि कथं कथम् अपि खुर-त्रये भरं कृत्वोत्थितः । यतः-

निमग्नस्य पयो-राशौ पर्वतात् पतितस्य च ।
तक्षकेणापि दष्टस्य आयुर् मर्माणि रक्षति ॥ हित्_२।१६ ॥

नाकाले मिर्यते जन्तुर् विद्धः शर-शतैर् अपि ।
कुशाग्रेणैव संस्पृष्टः प्राप्त-कालो न जीवति ॥ हित्_२।१७ ॥

अरक्षितं तिष्ठति दैव-रक्षितं
सुरक्षितं दैव-हतं विनश्यति ।
जीवत्य् अनाथो ऽपि वने विसर्जितः
कृत-प्रयत्नो ऽपि गृहे न जीवति ॥ हित्_२।१८ ॥

ततो दिनेषु गच्छत्सु सञ्जीवकः स्वेच्छाहार-विहारं कृत्वारण्यं भ्राम्यन् हृष्ट-पुष्टाङ्गो बलवन् ननाद । तस्मिन् वने पिङ्गलक-नामा सिंहः स्व-भुजोपार्जित-राज्य-सुखम् अनुभवन् निवसति । तथा चोक्तम्-

नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
विक्रमार्जित-राज्यस्य स्वयम् एव मृगेन्द्रता ॥ हित्_२।१९ ॥

स चैकदा पिपासाकुलितः पानीयं पातुं यमुना-कच्छम् अगच्छत् । तेन च तत्र सिंहेनाननुभूत-पूर्वकम् अकाल-घन-गर्जितम् इव सञ्जीवक-नर्दितम् अश्रावि । तच् छ्रुत्वा पानीयम् अपीत्वा स-चकितः परिवृत्य स्व-स्थानम् आगत्य किम् इदम् इत्य् आलोचयंस् तूष्णीं स्थितः । स च तथाविधः करट-कदमनकाभ्याम् अस्य मन्त्रि-पुत्राभ्यां दृष्टः । तं तथाविधं दृष्ट्वा दमनकः करटकम् आह-सखे करटक ! किम् इत्य् अयम् उदकार्थी स्वामी पानीयम् अपीत्वा सचकितो मन्दं मन्दम् अवतिष्ठते ।