२-०० वर्धमानकथा

अथ राज-पुत्रा ऊचुः-आर्य ! मित्रलाभः श्रुतस् तावद् अस्माभिः । इदानीं सुहृद्-भेदं श्रोतुम् इच्छामः ।

विष्णुशर्मोवाच-सुहृद्-भेदं तावच् छृणुत, यस्यायम् आद्यः श्लोकः-

वर्धमानो महान् स्नेहो मृगेन्द्र-वृषयोर् वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ हित्_२।१ ॥

राज-पुत्रैर् उक्तम्-कथम् एतत् ?

विष्णुशर्मा कथयति-अस्ति दक्षिणा-पथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम वणिग् निवसति । तस्य प्रचुरेऽपि वित्तेऽ परान् बन्धून् अतिसमृद्धान् समीक्ष्य पुनर् अर्थ-वृद्धिः करणीयेति मतिर् बभूव । यतः,

अधो ऽधः पश्यतः कस्य महिमा नोपचीयते ।
उपर्य् उपरि पश्यन्तः सर्व एव दरिद्रति ॥ हित्_२।२ ॥

अपरं च-
ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् ।
शशिनस् तुल्य-वंशो ऽपि निर्धनः परिभूयते ॥ हित्_२।३ ॥

अन्यच् च-
अव्यवसायिनम् अलसं दैव-परं सहसाच् च परिहीणम् ।
प्रमदेव हि वृद्ध-पतिं नेच्छत्य् अवगूहितुं लक्ष्मीः ॥ हित्_२।४ ॥

किं च-
आलस्यं स्त्री-सेवा स-रोगता जन्म-भूमि-वात्सल्यम् ।
सन्तोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥ हित्_२।५ ॥

यतः-
सम्पदा सुस्थिरं-मन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर् मन्ये न वर्धयति तस्य ताम् ॥ हित्_२।६ ॥

अपरं च-
निरुत्साहं निरानन्दं निर्वीर्यम् अरि-नन्दनम् ।
मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ॥ हित्_२।७ ॥

तथा चोक्तम्-
अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः ।
रक्षितं वर्धयेच् चैव वृद्धं पात्रेषु निक्षिपेत् ॥ हित्_२।८ ॥

यतो ऽलब्धम् इच्छतो ऽर्थ-योगाद् अर्थस्य प्राप्तिर् एव । लब्धस्याप्य् अरक्षितस्य निधेर् अपि स्वयं विनाशः । अपि च, अवर्धमानश् चार्थः काले स्वल्प-व्ययो ऽप्य् अञ्जनवत् क्षयम् एति । नौपभुज्यमानश् च निष्प्रयोजन एव सः । तथा चोक्तम्-

धनेन किं यो न ददाति नाश्नुते
बलेन किं यश् च रिपून् न बाधते ।
श्रुतेन किं यो न च धर्मम् आचरेत्
किम् आत्मना यो न जितेन्द्रियो भवेत् ॥ हित्_२।९ ॥

यतः,
जल-बिन्दु-निपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्व-विद्यानां धर्मस्य च धनस्य च ॥ हित्_२।१० ॥

दानोपभोग-रहिता दिवसा यस्य यान्ति वै ।
स कर्म-कार-भस्त्रेव श्वसन्न् अपि न जीवति ॥ हित्_२।११ ॥

इति सञ्चिन्त्य नन्दक-सजीवक-नामानौ वृषभौ धुरि नियोज्य शकटं नानाविध-द्रव्य-पूर्णं कृत्वा वाणिज्येन गतः कश्मीरं प्रति । अन्यच् च-

अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम् ।
अवन्ध्यं दिवसं कुर्याद् दानाध्ययन-कर्मभिः ॥ हित्_२।१२ ॥

यतः-

को ऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ॥ हित्_२।१३ ॥

अथ गच्छतस् तस्य सुदुर्ग-नाम्नि महारण्ये सञ्जीवको भग्न-जानुर् निपतितः । तम् आलोक्य वर्धमानो ऽचिन्तयत्-

करोतु नाम नीति-ज्ञो व्यवसायम् इतस् ततः ।
फलं पुनस् तद् एव स्याद् यद् विधेर् मनसि स्थितम् ॥ हित्_२।१४ ॥

किन्तु-

विस्मयः सर्वथा हेयः प्रत्यूहः सर्व-कर्मणाम् ।
तस्माद् विस्मयम् उत्सृज्य साध्ये सिद्धिर् विधीयताम् ॥ हित्_२।१५ ॥

इति सञ्चिन्त्य सञ्जीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायम् अन्यं वृषभम् एकं समानीय धुरि नियोज्य चलितः ।