१-०७ मन्थरस्य बन्धमोचनम्

ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः । स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्यो ऽस्मीत्य् अभिधाय भ्रमण-क्लेशात् क्षुत्-पिपासाकुलः स्व-गृहाभिमुखं प्रयातः । अथ ते मृग-वायस-मूषिकाः परं विषादम् उपगताः तम् अनुगच्छन्ति स्म । ततो हिरण्यको विलपति-

एकस्य दुःखस्य न यावद् अन्तं गच्छाम्य् अहं पारम् इवार्णवस्य ।
तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुली-भवन्ति ॥ हित्_१।१९३ ॥

स्वभावजं तु यन् मित्रं भाग्येनैवाभिजायते ।
तद्-अकृत्रिम-सौहार्दम् आपत्स्व् अपि न मुञ्चति ॥ हित्_१।१९४ ॥

अपि च-

न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्वासस् तादृशः पुंसां यादृङ् मित्रे स्वभावजे ॥ हित्_१।१९५ ॥

इति मुहुः विचिन्त्य प्राह-अहो मे दुर्दैवम् । यतः-

स्व-कर्म-सन्तान-विचेष्टितानि
कालान्तरावर्ति-शुभाशुभानि ।
इहैव दृष्टानि मयैव तानि
जन्मान्तराणीव दशान्तराणि ॥ हित्_१।१९६ ॥

अथवा इत्थम् एवैतत् ।

कायः सन्निहितापायः सम्पदः पदम् आपदाम् ।
समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥ हित्_१।१९७ ॥

पुनर् विमृश्याह-

शोकाराति-भय-त्राणं प्रीति-विश्रम्भ-भाजनम् ।
केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम् ॥ हित्_१।१९८ ॥

किं च-

मित्रं प्रीति-रसायनं नयनयोर् आनन्दनं चेतसः
पात्रं यत् सुख-दुःखयोः समम् इदं पुण्यात्मना लभ्यते ।
ये चान्ये सुहृदः समृद्धि-समये द्रव्याभिलाषाकुलास्
ते सर्वत्र मिलन्ति तत्त्व-निकष-ग्रावा तु तेषां विपत् ॥ हित्_१।१९९ ॥

इति बहु विलप्य हिरण्यकश् चित्राङ्ग-लघुपतनकाव् आह-यावद् अयं व्याधो वनान् न निःसरति, तावन् मन्थरं मोचयितुं यत्नः क्रियताम् ।

ताव् ऊचतुः-सत्वरं यथा-कार्यम् उपदिश ।

हिरण्यको ब्रूते-चित्राङ्गो जल-समीपं गत्वा मृतम् इवात्मानं निश्चेष्टं दर्शयतु । काकश् च तस्योपरि स्थित्वा चञ्च्वा किम् अपि विलिखतु । नूनम् अनेन लुब्धकेन मृग-मांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गन्तव्यम् । ततो ऽहं मन्थरस्य बन्धनं छेत्स्यामि । सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् ।

ततश् चित्राङ्ग-लघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोर् अधस्ताद् उपविष्टः सन् तथाविधं मृगम् अपश्यत् । ततः कच्छपं जल-समीपे निधाय कर्तरिकाम् आदाय प्रहृष्ट-मना मृगान्तिकं चलितः । अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् । छिन्न-बन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः । स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः । प्रत्यावृत्त्य लुब्धको यावत् तरु-तलम् आयाति तावत् कूर्मम् अपश्यन्न् अचिन्तयत्-उचितम् एवैतत् ममासमीक्ष्य-कारिणः । यतः-

यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टम् एव हि ॥ हित्_१।२०० ॥

ततो ऽसौ स्व-कर्म-वशान् निराशः कटकं प्रविष्टः । मन्थरादयश् च सर्वे मुक्तापदः स्व-स्थानं गत्वा यथा-सुखम् आस्थिताः ।

अथ राज-पुत्रैः सानन्दम् उक्तम्-सर्वे श्रुतवन्तः सुखिनो वयम् । सिद्धं नः समीहितम् ।

विष्णु-शर्मोवाच-एतद् भवताम् अभिलषितम् अपि सम्पन्नम् । अपरम् अपीदम् अस्तु-

मित्रं यान्तु च सज्जना जनपदैर् लक्ष्मीः समालभ्यतां
भूपालाः परिपालयन्तु वसुधां शश्वत् स्व-धर्मे स्थिताः ।
आस्तां मानस-तुष्टये सुकृतिनां नीतिर् नवोढेव वः
कल्याणं कुरुतां जनस्य भगवांश् चन्द्रार्ध-चूडामणिः ॥ हित्_१।२०१ ॥