अथ कदाचित् चित्राङ्ग-नामा मृगः केनापि त्रासितस् तत्रागत्य मिलितः । तत्-पश्चाद् आयान्तं भय-हेतुं सम्भाव्य मन्थरो जलं प्रविष्टः । मूषिकश् च विवरं गतः, काको ऽपि उड्डीय वृक्षाग्रम् आरूढः । ततो लघुपतनकेन सुदूरं निरूप्य भय-हेतुर् न को ऽप्य् अवलम्बितः । पश्चात् तद्-वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मन्थरेणोक्तं-भद्र मृग ! कुशलं ते ? स्वेच्छया उदकाद्याहारो ऽनुभूयताम् । अत्रावस्थानेन वनम् इदं सनाथीक्रियताम् ।
चित्राङ्गो ब्रूते-लुब्धक-त्रासितो ऽहं भवतां शरणम् आगतः । ततश् च, भवद्भिः सह मित्रत्वम् इच्छामि । भवन्तश् च अनुकम्पयन्तु मैत्र्येण । यतः-
- लोभाद् वाथ भयाद् वापि यस् त्यजेच् छरणागतम् ।
ब्रह्म-हत्या-समं तस्य पापम् आहुर् मनीषिणः ॥ हित्_१।१८४ ॥
+++(सम्पादकटिप्पनी - पुस्तके इदं पद्यं नास्ति ।)+++
हिरण्यको ऽप्य् अवदत्-मित्रत्वं तावद् अस्माभिः सह, अयत्नेन निष्पन्नं भवतः । यतः-
औरसं कृत-सम्बन्धं तथा वंश-क्रमागतम् ।
रक्षकं व्यसनेभ्यश् च मित्रं ज्ञेयं चतुर्-विधम् ॥ हित्_१।१८५ ॥
तद् अत्र भवता स्व-गृह-निर्विशेषेण स्थीयताम् । तच् छ्रुत्वा मृगः सानन्दो भूत्वा कृत-स्वेच्छाहारः पानीयं पीत्वा जलासन्न-वट-तरु-च्छायायाम् उपविष्टः ।
अथ मन्थरो ब्रूते-सखे मृग ! केन त्रासितो ऽसि ? अस्मिन् निर्जने वने कदाचित् किं व्याधाः सञ्चरन्ति ?
मृगेणोक्तम्-अस्ति कलिङ्ग-विषये रुक्माङ्गदो नाम नृपतिः । स च दिग्विजय-व्यापार-क्रमेण आगत्य चन्द्रभागा-नदी-तीरे समावेशित-कटको वर्तते, प्रातश् च तेनात्रागत्य कर्पूर-सरः समीपे भवितव्यम् इति व्याधानां मुखात् किंवदन्ती श्रूयते । तद् अत्रापि प्रातर्-अवस्थानं भय-हेतुकम् इत्य् आलोच्य यथा कार्यं तथा आरभ्यताम् ।
तच् छ्रुत्वा कूर्मः स-भयम् आह-मित्र ! जलाशयान्तरं गच्छामि ।
काक-मृगाव् अपि उक्तवन्तौ-मित्र ! एवम् अस्तु !
हिरण्यको विमृश्याब्रवीत्-पुनर् जलाशये प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतो ऽस्य का विधा ?
अम्भांसि जल-जन्तूनां दुर्गं दुर्ग-निवासिनाम् ।
स्व-भूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ हित्_१।१८६ ॥
- सखे लघुपतनक ! अनेनोपदेशेन तथा भवितव्यम्,
स्वयं वीक्ष्य यथा वध्वाः पीडितं कुचकुड्मलम् ।
वणिक्पुत्रोऽभवद्दुःखी त्वं तथैव भविष्यसि ॥१९७॥
ते ऊचुः—“कथमेतत् ?"। हिरण्यकः कथयति— +++(सम्पादकटिप्पनी - पुस्तकेऽयमत्राधिकः पाठः ।)+++
- अतोऽहं ब्रवीमि—“स्वयं वीक्ष्य” इत्यादि । “तथा त्वयापि भवितव्यम्” इति । +++(सम्पादकटिप्पनी - पुस्तकेऽत्रायम् अधिकः पाठः । )+++
ततस् तद्-धित-वचनम् अवधीर्य महता भयेन विमुग्ध इव मन्थरस्स् तज्-जलाशयम् उत्सृज्य प्रचलितः । तेऽपि हिरण्यकादयः स्नेहाद् अनिष्टं शङ्कमानास् तम् अनुजग्मुः ।