वायसो ऽवदत्-सखे ! मन्थर ! स-विशेष-पूजाम् असमि विधेहि, यतो ऽयं पुण्य-कर्मणां धुरीणः कारुण्य-रत्नाकरो हिरण्यक-नामा मूषिक-राजः । एतस्य गुण-स्तुतिं जिह्वा-सहस्र-द्वयेनापि यदि सर्प-राजः कदाचित् कर्तुं समर्थः स्यात् इत्य् उक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह-भद्र ! आत्मनो निर्जन-वनागमन-कारणम् आख्यातुम् अर्हसि ?
हिरण्यको ऽवदत्-कथयामि, श्रूयताम् ।
यतः–
वरं वनं व्याघ्र-गजेन्द्र-सेवितं
द्रुमालयः पत्र-फलाम्बु-भक्षितम् ।
तृणानि शय्या वसनं च वल्कलं
न बन्धु-मध्ये धन-हीन-जीवनम् ॥ हित्_१।१४५ ॥
- ततोऽस्मत् पुण्योदयाद् अनेन मित्रेणाहं स्नेहानुवृत्त्यानुगृहीतः । अधुना च पुण्य-परम्परया भवद् आश्रयः स्वर्ग एव मया प्राप्तः । +++(सम्पादकटिप्पनी - पुस्तके अधिकः पाठः ।)+++
अतः-
संसार-विषय-वृक्षस्य द्वे एव रसवत् फले ।
काव्यामृत-रसास्वादः सङ्गमः सज्जनैः सह ॥ हित्_१।१४६ ॥
- अपरं च-
सत्-सङ्गः केशवे भक्तिर् गङ्गाम्भसि निमज्जनम् ।
असारे खलु संसारे त्रीणि साराणि भावयेत् ॥ हित्_१।१४७ ॥
+++(सम्पादकटिप्पनी - पुस्तके इदं पद्यं नास्ति । )+++
मन्थर उवाच-
अर्थाः पाद-रजोपमा गिरि-नदी-वेगोपमं यौवनम्
आयुष्यं जल-बिन्दु-लोल-चपलं फेनोपमं जीवनम् ।
धर्मं यो न करोति निश्चल-मतिः स्वर्गार्गलोद्घाटनं
पश्चात्-ताप-हतो जरा-परिणतः शोकाग्निना दह्यते ॥ हित्_१।१४८ ॥
युष्माभिर् अतिसञ्चयः कृतः । तस्यायं दोषः । शृणु-
उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।
तडागोदर-संस्थानां परीवाहैवाम्भसाम् ॥ हित्_१।१४९ ॥
अन्यच् च-
यद् अधो ऽधः क्षितौ वित्तं निचखान मितम्पचः ।
तद्-अधो निलयं गन्तुं चक्रे पन्थानम् अग्रतः ॥ हित्_१।१५० ॥
यतः-
निज-सौख्यं निरुन्धानो यो धनार्जनम् इच्छति ।
परार्थ-भार-वाहीव स क्लेशस्यैव भाजनम् ॥ हित्_१।१५१ ॥
तथा चोक्तं-
दानोपभोग-हीनेन धनेन धनिनो यदि ।
भवामः किं न तेनैव धनेन धनिनो वयम् ॥ हित्_१।१५२ ॥
यतः-
धनेन किं यो न ददाति नाश्नुते
बलेन किं यश् च रिपून् न याधत्ते ।
श्रुतेन किं यो न च धर्मम् आचरेत्
किम् आत्मना यो न जितेन्द्रियो भवेत् ॥ हित्_१।१५३ ॥
+++(सम्पादकटिप्पनी - पुस्तके इदं पद्यं नास्ति ।)+++ )
अन्यच् च–
असम्भोगेन सामान्यं कृपणस्य धनं परैः ।
अस्येदम् इति सम्बन्धो हानौ दुःखेन गम्यते ॥१५४॥
अपि च–
न देवाय न विप्राय न बन्धुभ्यो न चात्मने ।
कृपणस्य धनं याति वह्नितस्करपार्थिवैः ॥१५५॥
- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ +++(सम्पादकटिप्पनी - पुस्तके अधिकः पाठः ।)+++
तथा चोक्तम्-
दानं प्रिय-वाक्-सहितं
ज्ञानम् अगर्वं क्षमान्वितं सौर्यम् ।
त्यागं सहितं च वित्तं
दुर्लभम् एतच् चतुर् भद्रम् ॥ हित्_१।१५६ ॥
उक्तं च-
कर्तव्यः सञ्चयो नित्यं न तु कार्यो ऽतिसञ्चयः ।
अतिसञ्चय-शीलो ऽयं धनुषा जम्बुको हतः ॥ हित्_१।१५७ ॥
ताव् आहतुः-कथम् एतत् ?
मन्थरः कथयति-
अतो ऽहं ब्रवीमि कर्तव्यः सञ्चयो नित्यम् इत्य् आदि । तथा च-
यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् ।
अन्ये मृतस्य क्रीडन्ति दारैर् अपि धनैर् अपि ॥ हित्_१।१६१ ॥
किं च-
यद् ददासि विशिष्टेभ्यो यच् चाश्नासि दिने दिने ।
तत् ते वित्तम् अहं मन्ये शेषं कस्यापि रक्षसि ॥ हित्_१।१६२ ॥
यातु, किम् इदानीम् अतिक्रान्तोपवर्णनेन । यतः-
नाप्रायम् अभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्स्व् अपि न मुह्यन्ति नराः पण्डित-बुद्धयः ॥ हित्_१।१६३ ॥
तत् सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः-
शास्त्राण्य् अधीत्यापि भवन्ति मूर्खा
यस् तु क्रियावान् पुरुषः स विद्वान् ।
सुचिन्तितं चौषधम् आतुराणां
न नाम-मात्रेण करोत्य् अरोगम् ॥ हित्_१।१६४ ॥
अन्यच् च-
न स्वल्पम् अप्य् अध्यवसाय-भीरोः
करोति विज्ञान-विधिर् गुणं हि ।
अन्धस्य किं हस्त-तल-स्थितो ऽपि
प्रकाशयत्य् अर्थम् इह प्रदीपः ॥ हित्_१।१६५ ॥
तद् अत्र सखे दशातिशेषेण शान्तिः करणीया । एतद् अप्य् अतिकष्टं त्वया न मन्तव्यम् ।
- यतः,—
राजा कुलवधूर्विप्रा मन्त्रिणश्च पयोधराः ।
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ॥१७३॥
इति विज्ञाय मतिमान्स्वस्थानं न परित्यजेत् । कापुरुषवचनमेतत् ।
यतः–
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥१७४॥
को वीरस्य मनस्विनः स्वविषयः, कोपा विदेशस्तथा
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यद्दंष्ट्रानखलाङ्गलप्रहरणः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः ॥१७५॥ +++(सम्पादकटिप्पनी- पुस्तकेऽयमत्र अधिकः पाठः ।)+++
अन्यच्च
सुखम् आपतितं सेव्यं दुःखम् आपतितं तथा ।
चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ॥१६६॥
अपरं च–
सुखम् आपतितं सेव्यं दुःखम् आपतितं तथा ।
चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ॥ हित्_१।१६६ ॥
अपरं च-
निपानम् इव मण्डूकाः सरः पूर्णम् इवाण्डजाः ।
सोद्योगं नरम् आयान्ति विवशाः सर्व-सम्पदः ॥ हित्_१।१६७ ॥
अपि च-
उत्साह-सम्पन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम् ।
शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ॥ हित्_१।१६८ ॥
विशेषतश् च-
विनाप्य् अर्थैर् धीरः स्पृशति बहुमानोन्नति-पदं
समायुक्तो ऽप्य् अर्थैः परिभव-पदं याति कृपणः ।
स्वभावाद् उद्भूतां गुण-समुदयावाप्ति-विषयां
द्युतिं सैंहीं श्वा किं धृत-कनक-मालो ऽपि लभते ॥ हित्_१।१६९ ॥
किं च-
धनवान् इति हि मदस् ते किं गत-विभवो विषादम् उपयासि ।
कर-निहत-कन्दुक-समाः पातोत्पाता मनुष्याणाम् ॥ हित्_१।१७० ॥
अन्यच् च–
- अभ्रच्छाया खलप्रीतिर्नवस्यानि योषितः ।
किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ॥१८१॥+++(सम्पादकटिप्पनी- पुस्तके इदं पद्यम् अधिकम् ।)+++
वृत्त्य्-अर्थं नातिचेष्टते सा हि धात्रैव निर्मिता ।
गर्भाद् उत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ हित्_१।१७१ ॥
अपि च सखे शृणु-
येन शुक्ली-कृता हंसाः शुकाश् च हरितीकृताः ।
मयूराश् चित्रिता येन स ते वृत्तिं विधास्यति ॥ हित्_१।१७२ ॥
अपरं च सतां रहस्यं शृणु, मित्र !
जनयन्त्य् अर्जने दुःखं तापयन्ति विपत्तिषु ।
मोहयन्ति च सम्पत्तौ कथम् अर्थाः सुखावहाः ॥ हित्_१।१७३ ॥
अपरं च-
धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता ।
प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥ हित्_१।१७४ ॥
यतः-
यथाआमिषम् आकाशे पक्षिभिः श्वापदैर् भुवि ।
भक्ष्यते सलिले मत्स्यैस् तथा सर्वत्र वित्तवान् ॥ हित्_१।१७५ ॥
अन्यच् च-
राजतः सलिलाद् अग्नेश् चोरतः स्वजनाद् अपि ।
भयम् अर्थवतां नित्यं मृत्योः प्राण-भृताम् इव ॥ हित्_१।१७६ ॥
तथा हि-
जन्मनि क्लेश-बहुले किं नु दुःखम् अतः परम् ।
इच्छा-सम्पद् यतो नास्ति यच् चेच्छा न निवर्तते ॥ हित्_१।१७७ ॥
अन्यच् च भ्रातः शृणु-
धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते ।
लब्ध-नाशो यथा मृत्युस् तस्माद् एतन् न चिन्तयेत् ॥ हित्_१।१७८ ॥
सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः ।
तस्याश् चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥ हित्_१।१७९ ॥
अपरं च-
यद् यद् एव हि वाञ्छेत ततो वाञ्छा प्रवर्तते ।
प्राप्त एवार्थतः सो ऽर्थो यतो वाञ्छा निवर्तते ॥ हित्_१।१८० ॥
किं बहुना, विश्रम्भालापैर् मयैव सहात्र कालो नीयताम् । यतः-
आम्रणान्ताः प्रणयाः कोपाश् च क्षण-भङ्गुराः ।
परित्यागाश् च निःसङ्गा न भवन्ति महात्मनाम् ॥ हित्_१।१८१ ॥
इति श्रुत्वा लघुपतनको ब्रूते-धन्यो ऽसि मन्थर ! सर्वथा आश्रयणीयो ऽसि । यतः-
सन्त एव सतां नित्यम् आपद्-उद्धरण-क्षमाः ।
गजानां पङ्क-मग्नानां गजा एव धुरन्धराः ॥ हित्_१।१८२ ॥
अपरं च-
श्लाघ्यः स एको भुवि मानवानां
स उत्तमः सत्-पुरुषः स धन्यः ।
यस्यार्थिनो वा शरणागता वा
नाशाविभङ्गा विमुखाः प्रयान्ति ॥ हित्_१।१८३ ॥
तद् एवं ते स्वेच्छाहार-विहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म ।