१-०४ काकस्य विरक्तिः

ततः-प्रभृति तयोः अन्यो ऽन्याहार-प्रदानेन कुशल-प्रश्नैः विश्रम्भालापैश् च कियत्-कालो ऽतिवर्तने । एकदा लघु-पतनको हिरण्यकम् आह-सखे ! वायसस्य कष्टतरलभ्याहारम् इदं स्थानम् । तद् एतत् परित्यज्य स्थानान्तरं गन्तुम् इच्छामि ।

हिरण्यको ब्रूते-

स्थान-भ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्व-स्थानं न परित्यजेत् ॥ हित्_१।१०३ ॥

काको ब्रूते-मित्र ! कापुरुषस्य वचनम् एतत् । यतः-

स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्-पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ हित्_१।१०४ ॥

अन्यच् च-

को वीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतः
यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम् ।
यद् दंष्ट्रानख-लाङ्गुल-प्रहरणः सिंहो वनं गाहते
तस्मिन्न् एव हत-द्विपेन्द्र-रुधिरैस् तृष्णां छिन्नत्त्य् आत्मनः ॥ हित्_१।१०५ ॥

हिरण्यको ब्रूते-मित्र क्व गन्तव्यम् ? +++(सम्पादकटिप्पनी- पद्यसङ्ख्या १०३,१०४,१०५ च पुस्तके नास्ति । )+++) तथा चोक्तम्–

चलत्य् एकेन पादेन तिष्ठत्य् एकेन बुद्धिमान् ।
नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ॥ हित्_१।१०६ ॥

वायसो ब्रूते-मित्र ! अस्ति सुनिरूपितं स्थानम् ।

हिरण्यको ऽवदत्-किं तत् ?

वायसः कथयति-अस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः । तत्र चिर-कालोपार्जितः प्रिय-सुहृन् मे मन्थराभिधानः कूर्मः सहज-धार्मिकः प्रतिवसति । पश्य मित्र !

परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥ हित्_१।१०७ ॥

स च भोजन-विशेषैर् मां संवर्धयिष्यति । हिरण्यको ऽप्य् आह-तत् किम् अत्रावस्थाय मया कर्तव्यम् ? यतः-

यस्मिन् देशे न सम्मानो न वृत्तिर् न च बान्धवः ।
न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥ हित्_१।१०८ ॥

अपरं च–

धनिकः श्रोत्रियो राजा नदी वैद्यस् तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ हित्_१।१०९ ॥ +++(सम्पादकटिप्पनी - इदं पद्यं पुस्तके नास्ति ।)+++

अपरं च–

लोक-यात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥ हित्_१।११० ॥

अन्यच् च-

तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
ऋण-दाता च वैद्यश् च श्रोत्रियः सजला नदी ॥ हित्_१।१११ ॥

अतो माम् अपि तत्र नय ।

वायसो ऽवदत्-एवम् अस्तु ।

अथ वायसस् तेन मित्रेण सह विचित्रालाप-सुखेन तस्य सरसः समीपं ययौ । ततो मन्थरो दूराद् एव लघु-पतनकम् अवलोक्य उत्थाय यथोचितम् आतिथ्यं विधाय मूषिकस्याप्य् अतिथि-सत्कारं चकार । यतः-

बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः ।
तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥ हित्_१।११२ ॥

तथा-

गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिर् एको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ हित्_१।११३ ॥

अपरं च-

उत्तमस्यापि वर्णस्य नीचो ऽपि गृहम् आगतः ।
पूजनीयो यथा-योग्यं सर्व-देव-मयो ऽतिथिः ॥ हित्_१।११४ ॥+++(सम्पादकटिप्पनी- इदं पद्यं पुस्तके नास्ति ।)+++