१-०३ कपोतकथा

सो ऽब्रवीत्-अस्ति गोदावरी-तीरे विशालः शाल्मली-तरुः । तत्र नाना-दिग्-देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचल-चूडावलम्बिनि भगवति कुमुदिनी-नायके चन्द्रमसि । लघुपतन-नामा वायसः प्रबुद्धः कृतान्तम् इव द्वितीयम् अटन्तं पाश-हस्तं व्याघम् अपश्यत् । तम् आलोक्याचिन्तयत्-अद्य प्रातर् एवानिष्ट-दर्शनं जातम् । न जाने किम् अनभिमतं दर्शयिष्यति । इत्य् उक्त्वा तद् अनुसरण-क्रमेण व्याकुलश् चलति । यतः-

शोक-स्थान-सहस्राणि भय-स्थान-शतानि च ।
दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् ॥ हित्_१।३ ॥

अन्यच् च-विषयिणाम् इदम् अवश्यं कर्तव्यम् ।
उत्थायोत्थाय बोद्धव्यं किम् अद्य सुकृतं कृतम् ।
आयुषः खण्डम् आदाय रविर् अस्तं गमिष्यति ॥ हित्_१।४ ॥

अथ तेन व्याधेन तण्डुल-कणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्न् एव काले चित्रग्रीव-नामा कपोत-राजः स-परिवारो वियति विसर्पंस् तण्डुल-कणान् अवलोकयामास । ततः कपोत-राजस् तण्डुल-कण-लुब्धान् कपोतान् प्राह-कुतो ऽत्र निर्जने वने तण्डुल-कणानां सम्भवः । तन् निरूप्यतां तावत् । भद्रम् इदं न पश्यामि प्रायेणानेन तण्डुल-कण-लोभेनास्माभिर् अपि तथा भवितव्यम् ।

कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे ।
वृद्ध-व्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥ हित्_१।५ ॥

कपोता ऊचुः-कथम् एतत् ?

अतो ऽहं ब्रवीमि-कङ्कणस्य तु लोभेनेत्य् आदि । अत एव सर्वथाविचारितं कर्म न कर्तव्यम् इति । यतः-

सुजीर्णम् अन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घ-कालेऽपि न याति विक्रियाम् ॥ हित्_१।२२ ॥

एतद् वचनं श्रुत्वा कश्चित् कपोतः स-दर्पम् आह-आः ! किम् एवम् उच्यते ?

वृद्धस्य वचनं ग्राह्यम् आपत्-काले ह्य् उपस्थिते ।
सर्वत्रैवं विचारे च भोजनेऽपि प्रवर्तताम् ॥ हित्_१।२३ ॥

यतः-

शङ्काभिः सर्वम् आक्रान्तम् अन्नं पानं च भूतले ।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ? ॥ हित्_१।२४ ॥

यथा चोक्तम्-

ईर्ष्यी घृणी त्व् असन्तुष्टः क्रोधनो नित्य-शङ्कितः ।
पर-भाग्योपजीवी च षड् एते नित्य-दुःखिताः ॥ हित्_१।२५ ॥

एतच् छ्रुत्वा तण्डुल्-कण-लोभेन नभो-मण्डलाद् अवतीर्यस् अर्वे कपोतास् तत्रोपविष्टाः । यतः-

सुमहान्त्य् अपि शास्त्राणि धारयन्तो बहु-श्रुताः ।
छेत्ताः संअयानां च क्लिश्यन्ते लोभ-मोहिताः ॥ हित्_१।२६ ॥

अन्यच् च-

लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते ।
लोभान् मोहश् च नाशश् च लोभः पापस्य कारणम् ॥ हित्_१।२७ ॥

अन्यच् च-

असम्भवं हेम-मृगस्य जन्म
तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्न-विपत्ति-काले
धियो ऽपि पुंसां मलिना भवन्ति ॥ हित्_१।२८ ॥

अनन्तरं ते सर्वे जाल-निबद्धा बभूवुः, ततो यस्य वचनात् तत्रावलम्बितास् तं सर्वे तिरस्कुर्वन्ति स्म । यतः,

न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् ।
यदि कार्य-विपत्तिः स्यान् मुखरस् तत्र हन्यते ॥ हित्_१।२९ ॥

तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच-नायम् अस्य दोषः, यतः

आपदाम् आपतन्तीनां हितो ऽप्य् आयाति हेतुताम् ।
मातृ-जङ्घा हि वत्सस्य स्तम्भी-भवति बन्धने ॥ हित्_१।३० ॥

अन्यच् च-

स बन्धुर् यो विपन्नानाम् आपद्-उद्धरण-क्षमः ।
न तु भीत-परित्राण-वस्तूपालम्भ-पण्डितः ॥ हित्_१।३१ ॥

विपत्-काले विस्मय एव कापुरुष-लक्षणम् । तद् अत्र धैर्यम् अवलम्ब्य प्रतीकारश् चिन्त्यताम्, यतः-

विपदि धैर्यम् अथाभ्युदये क्षमा
सदसि वाक्य-पटुता युधि विक्रमः ।
यशसि चाभिरुचिर् व्यसनं श्रुतौ
प्रकृति-सिद्धम् इदं हि महात्मनाम् ॥ हित्_१।३२ ॥

सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् ।
तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥ हित्_१।३३ ॥

अन्यच् च-

षड्-दोषाः पुरुषेणेह हातव्या भूतिम् इच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घ-सूत्रता ॥ हित्_१।३४ ॥

इदानीम् अपि एवं क्रियताम्-सर्वैर् एकचित्तीभूय जालम् आदाय उड्डीयताम् । यतः-

अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका ।
तृणैर् गुणत्वम् आपन्नैर् बध्यन्ते मत्त-दन्तिनः ॥ हित्_१।३५ ॥

संहतिः श्रेयसी पुंसां स्वकुलैर् अल्पकैर् अपि ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ हित्_१।३६ ॥

इति विचित्य पक्षिणः सर्वे जालम् आदाय उत्पतिताः । अनन्तरं च व्याधः सुदूराज् जालापहारकांस् तान् अवलोक्य पश्चाद् धावितो ऽचिन्तयत्-

संहतास् तु हरन्त्य् एते मम जालं विहङ्गमाः ।
यदा तु निपतिष्यन्ति वशम् एष्यन्ति मे तदा ॥ हित्_१।३७ ॥

ततस् तेषु चक्षुर् विषयम् अतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः । अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुः-स्वामिन् ! किम् इदानीं कर्तुम् उचितम् ?

चित्रग्रीव उवाच-

माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् । कार्य-कारणतश् चान्ये भवन्ति हित-बुद्धयः ॥ हित्_१।३८ ॥

तन् मे मित्रं हिरण्यको नाम मूषिक-राजो गण्डकी-तीरे चित्र-वने निवसति । सो ऽस्माकं पाशांश् छेत्स्यति इत्य् आलोच्य सर्वे हिरण्यक-विवर-समीपं गताः । हिरण्यकश् च सर्वदा अपाय-शङ्कया शत-द्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपात-भयाच् चकितः तूष्णीं स्थितः । चित्रग्रीव उवाच-सखे हिरण्यक ! कथम् अस्मान् न सम्भाषसे ?

ततो हिरण्यकस् तद्-वचनं प्रत्यभिज्ञाय स-सम्भ्रमं बहिर् निःसृत्य अब्रवीत्-आः ! पुण्यवान् अस्मि प्रिय-सुहृन् मे चित्रग्रीवः समायातः ।

यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः ।
यस्य मित्रेण संलापस् ततो नास्तीह पुण्यवान् ॥ हित्_१।३९ ॥

अथ पाश-बद्धांश् चैतान् दृष्ट्वा स-विस्मयः क्षणं स्थित्वा उवाच-सखे ! किम् एतत् ?

चित्रग्रीव उवाच-सखे ! अस्माकं प्राक्तन-जन्म-कर्मणः फलम् एतत् ।

यस्माच् च येन च यथा च यदा च यच् च
यावच् च यत्र च शुभाशुभम् आत्म-कर्म ।
तस्माच् च तेन च तथा च तदा च तच् च
तावच् च तत्र च विधातृ-वशाद् उपैति ॥ हित्_१।४० ॥

राग-शोक-परीताप-बन्धन-व्यसनानि च । आत्मापराध-वृक्षाणां फलान्य् एतानि देहिनाम् ॥ हित्_१।४१ ॥

एतच् छ्रुत्वा हिरण्यकश् चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरम् उपसर्पति । तत्र चित्रग्रीव उवाच-मित्र ! मा मैवं कुरु । प्रथमम् अस्मद्-आश्रितानाम् एतेषां तावत् पाशांश् छिन्धि । मम पाशं पश्चाच् छेत्स्यसि ।

हिरण्यको ऽप्य् आह-अहम् अल्प-शक्तिः । दन्ताश् च मे कोमलाः । तद् एतेषां पाशांश् छेत्तुं कथं समर्थो भवामि ? तत् यावन् मे दन्ता न त्रुट्यन्ति, तावत् तव पाशं छिनद्मि । तद्-अनन्तरम् अप्य् एतेषां बन्धनं यावत् शक्यं छेत्स्यामि ।

चित्रग्रीव उवाच-अस्त्व् एवम् । तथापि यथा-शक्ति बन्धनम् एतेषां खण्डय ।

हिरण्यकेनोक्तम्-आत्म-परित्यागेन यदाश्रितानां परिरक्षणं तन् न नीति-वेदिनां सम्मतम् । यतः-

आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि ।
आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥ हित्_१।४२ ॥

अन्यच् च–

धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थित-हेतवः ।
तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ हित्_१।४३ ॥

चित्रग्रीव उवाच-सखे ! नीतिस् तावद् ईदृश्य् एव, किन्त्व् अहम् अस्मद्-आश्रितानां दुःखं सोढुं सर्वथासमर्थस् तेनेदं ब्रवीमि । यतः-

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ हित्_१।४४ ॥

अयम् अपरश् चासाधारणो हेतुः ।

जाति-द्रव्य-बलानां च साम्यम् एषां मया सह ।
मत्-प्रभुत्व-फलं ब्रूहि कदा किं तद् भविष्यति ॥ हित्_१।४५ ॥

अन्यच् च-

विना वर्तनम् एवैते न त्यजन्ति ममान्तिकम् ।
तन् मे प्राण-व्ययेनापि जीवयैतान् ममाश्रितान् ॥ हित्_१।४६ ॥

किं च-

मांस-मूत्र-पुरीषास्थि-पूरितेऽत्र कलेवरे ।
विनश्वरे विहायास्थां यशः पालय मित्र मे ॥ हित्_१।४७ ॥

अपरं च पश्य-

यदि नित्यम् अनित्येन निर्मलं मल-वाहिना ।
यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम् ॥ हित्_१।४८ ॥

यतः-

शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् ।
शरीरं क्षण-विध्वंसि कल्पान्त-स्थायिनो गुणाः ॥ हित्_१।४९ ॥

इत्य् आकर्ण्य हिरण्यकः प्रहृष्ट-मनाः पुलकितः सन् अब्रवीत्-साधु मित्र ! साधु । अनेनाश्रित-वात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । एवम् उक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि । ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आह-सखे चित्रग्रीव ! सर्वथात्र जाल-बन्धन-विधौ सति दोषम् आशङ्क्य आत्मनि अवज्ञा न कर्तव्या । यतः-

यो ऽधिकाद् योजन-शतान् पश्यतीहामिषं खगः ।
स एव प्राप्त-कालस् तु पाश-बन्धं न पश्यति ॥ हित्_१।५० ॥

अपरं च-

शशि-दिवाकरयोर् ग्रह-पीडनं
गज-भुजङ्गमयोर् अपि बन्धनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिर् अहो बलवान् इति मे मतिः ॥ हित्_१।५१ ॥

अन्यच् च-

व्योमैकान्त-विहारिणो ऽपि विहगाः सम्प्राप्नुवन्त्य् आपदं
बध्यन्ते निपुणैर् अगाध-सलिलान् मत्स्याः समुद्राद् अपि ।
दुर्नीतं किम् इहास्ति किं सुचरितं कः स्थान-लाभे गुणः
कालो हि व्यसन-प्रसारित-करो गृह्णाति दूराद् अपि ॥ हित्_१।५२ ॥

इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश् चित्रग्रीवो ऽपि सपरिवारो यथेष्ट-देशान् ययौ, हिरण्यको ऽपि स्व-विवरं प्रविष्टः ।

यानि कानि च मित्राणि कर्तव्यानि शतानि च ।
पश्य मूषिक-मित्रेण कपोता मुक्त-बन्धनाः ॥ हित्_१।५३ ॥

अथ लघु-पतनक-नामा काकः सर्व-वृत्तान्त-दर्शी साश्चर्यम् इदम् आह-अहो हिरण्यक ! श्लाघ्यो ऽसि, अतो ऽहम् अपि त्वया सह मैत्रीं कर्तुम् इच्छामि । अतस् त्वं मां मैत्र्येणानुग्रहीतुम् अर्हसि । एतच् छ्रुत्वा हिरण्यको ऽपि विवराभ्यन्तराद् आह-कस् त्वम् ?

स ब्रूते-लघुपतनक-नामा वायसो ऽहम् । हिरण्यको विहस्याह-का त्वया सह मैत्री ? यतः-

यद् येन युज्यते लोके बुधस् तत् तेन योजयेत् ।
अहम् अन्नं भवान् भोक्ता कथं प्रीतिर् भविष्यति ॥ हित्_१।५४ ॥

अपरं च-

भक्ष्य-भक्षयोः प्रीतिर् विपत्तेः कारणं मतम् ।
शृगालात् पाशबद्धो ऽसौ मृगः काकेन रक्षितः ॥ हित्_१।५५ ॥

वायसो ऽब्रवीत्– कथम् एतत् ?

हिरण्यकः कथयति-

अतो ऽहं ब्रवीमि-भक्ष्य-भक्ष्यकयोः प्रीतिर् इत्य् आदि ।

इति मृग-वायस-शृगाल-कथा

काकः पुनर् आह-

भक्षितेनापि भवता नाहारो मम पुष्कलः ।
त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥ हित्_१।८५ ॥

अन्यच् च-
तिरश्चाम् अपि विश्वासो दृष्टः पुण्यैक-कर्मणाम् ।
सतां हि साधु-शीलत्वात् स्वभावो न निवर्तते ॥ हित्_१।८६ ॥

किं च-

साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् ।
न हि तापयितुं शक्यं सागराम्भस् तृणोल्कया ॥ हित्_१।८७ ॥

हिरण्यको ब्रूते-चपलस् त्वम् । चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम्-

मार्जारो महिषो मेषः काकः कापुरुषस् तथा ।
विश्वासात् प्रभवन्त्य् एते विश्वासस् तत्र नो हितः ॥ हित्_१।८८ ॥

किं चान्यत्-शत्रु-पक्षो भवान् अस्माकम् । शत्रुणा सन्धिर् न विधेयम् । उक्तं चैतत्-

शत्रुणा न हि सन्दध्यात् संश्लिष्टेनापि सन्धिना ।
सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ॥ हित्_१।८९ ॥

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतो ऽपि सन् ।
मणिना भूषितः सर्पः किम् असौ न भयङ्करः ॥ हित्_१।९० ॥

यद् अशक्यं न तच् छक्त्यं यच् छक्त्यं शक्यम् एव तत् ।
नोदके शकटं याति न च नौर् गच्छति स्थले ॥ हित्_१।९१ ॥

अपरं च-

महताप्य् अर्थ-सारेण यो विश्वसिति शत्रुषु ।
भार्यासु च विरक्तासु तद्-अन्तं तस्य जीवनम् ॥ हित्_१।९२ ॥

लघु-पतनको ब्रूते-श्रुतं मया सर्वं, तथापि ममैतावन् एव सङ्कल्पः । यत् त्वया सह सौहृद्यम् अवश्यं करणीयम् इति । अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि-

मृद्-घटवत् सुख-भेद्यो दुःसन्धानश् च दुर्जनो भवति ।
सुजनस् तु कनक-घटवद् दुर्भेद्यश् चाशु सन्धेयः ॥ हित्_१।९३ ॥

किं च-

द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् ।
भयाल् लोभाच् च मूर्खाणां सङ्गतः दर्शनात् सताम् ॥ हित्_१।९४ ॥

किं च-

नारिकेल-समाकारा दृश्यन्ते हि सुहृज्जनाः ।
अन्ये बदरिकाकारा बहिर् एव मनोहराः ॥ हित्_१।९५ ॥

अन्यच् च-

स्नेह-च्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् ।
भङ्गेऽपि हि मृणालानाम् अनुबध्नन्ति तन्तवः ॥ हित्_१।९६ ॥

अन्यच् च-

शुचित्वम् त्यागिता शौर्यं सामान्यं सुख-दुःखयोः ।
दाक्षिण्यं चानुरक्तिश् च सत्यता च सुहृद्-गुणाः ॥ हित्_१।९७ ॥

एतैर् गुणैर् उपेतो भवद्=अन्यो मया कः सुहृत् प्राप्तव्यः ? इत्य् आदि तद्-वचनम् आकर्ण्य हिरण्यको बहिः निःसृत्याह-आप्यायितो ऽहं भवताम् एतेन वचनामृतेन । तथा चोक्तम्-

घर्मार्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली
न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गम् अप्य् अर्पितम् ।
प्रीत्यै सज्जन-भाषितं प्रभवति प्रायो यथा चेतसः
सद्-युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मन्त्रोपमम् ॥ हित्_१।९८ ॥

अन्यच् च-

रहस्य-भेदो याच्ञा च नैष्ठुर्यं चल-चित्तया ।
क्रोधो निःसत्यता द्यूतम् एतन् मित्रस्य दूषणम् ॥ हित्_१।९९ ॥

अनेन वचन-क्रमेण तत् एकम् अपि दूषणं त्वयि न लक्ष्यते । यतः-

पटुत्वं सत्यवादित्वं कथा-योगेन बुद्ध्यते ।
अस्तब्धत्वम् अचापल्यं प्रत्यक्षेनावगम्यते ॥ हित्_१।१०० ॥

अपरं च-

अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः ।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहत-चेतसः ॥ हित्_१।१०१ ॥

मनस्य् अन्यद् वचस्य् अन्यत् कर्मण्य् अन्यद् दुरात्मनाम् ।
मनस्य् एकं वचस्य् एकं कर्मण्य् एकं महात्मनाम् ॥ हित्_१।१०२ ॥

तद् भवतु भवतः अभिमतम् एव इत्य् उक्त्वा हिरण्यको मैत्र्यं विधाय भोजन-विशेषैर् वायसं सन्तोष्य विवरं प्रविष्टः । वायसो ऽपि स्व-स्थानं गतः ।