मित्र-लाभः
अथ प्रासाद-पृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्ताव-क्रमेण पण्डितो ऽब्रवीत्-भो राज-पुत्राः शृणुत-
काव्य-शास्त्र-विनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ हित्_१।१ ॥
तद् भवतां विनोदाय काक-कूर्मादीनां विचित्रां कथां कथयिष्यामि । राज-पुत्रैर् उक्तम्-आर्य ! कथ्यतां । विष्णु-शर्मोवाच-शृणुत यूयम् । सम्प्रति मित्र-लाभः प्रस्तूयते । यस्यायम् आद्यः श्लोकः-
असाधना वित्त-हीना बुद्धिमन्तः सुहृन्-मताः ।
साधयन्त्य् आशु कार्याणि काक-कूर्म-मृगाखुवत् ॥ हित्_१।२ ॥
राजपुत्रा ऊचुः-कथम् एतत् ?