मङ्गलाचरणम्
सिद्धिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः ।
जाह्नवी-फेन-लेखेव यन्-मूर्ध्नि शशिनः कला ॥ हित्_०।१ ॥
श्रुतो हितोपदेशो ऽयं पाटवं संस्कृतोक्तिषु ।
वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च ॥ हित्_०।२ ॥
विद्या-प्रशंसा
अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ हित्_०।३ ॥
सर्व-द्रव्येषु विद्यैव द्रव्यम् आहुर् अनुत्तमम् ।
अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच् च सर्वदा ॥ हित्_०।४ ॥
संयोजयति विद्यैव नीचगापि नरं सरित् ।
समुद्रम् इव दुर्घर्षं नृपं भाग्यम् अतः परम् ॥ हित्_०।५ ॥
विद्या ददाति विनयं विनयाद् याति पात्रताम् ।
पात्रत्वात् धनम् आप्नोति धनाद् धर्मं ततः सुखम् ॥ हित्_०।६ ॥
विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये ।
आद्या हास्यय वृद्धत्वे द्वितीयाद्रियते सदा ॥ हित्_०।७ ॥
यन् नवे भाजने लग्नः संस्कारो नान्यथा भवेत् ।
कथा-च्छलेन बालानां नीतिस् तद् इह कथ्यते ॥ हित्_०।८ ॥
मित्र-लाभः सुहृद्-भेदो विग्रहः सन्धिर् एव च ।
पञ्च-तन्त्रात् तथान्यस्माद् ग्रन्थाद् आकृष्य लिख्यते ॥ हित्_०।९ ॥
अथ कथा-मुखम्
अस्ति भागीरथी-तीरे पाटलिपुत्र-नामधेयं नगरम् । तत्र सर्व-स्वामि-गुणोपेतः सुदर्शनो नाम नरपतिर् आसीत् । स भूपतिर् एकदा केनापि पाठ्यमानं श्लोक-द्वयं शुश्राव-
अनेक-संशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्य् अन्ध एव सः ॥ हित्_०।१० ॥
यौवनं धन-सम्पत्तिः प्रभुत्वम् अविवेकिता ।
एकैकम् अप्य् अनर्थाय किम् उ यत्र चतुष्टयम् ॥ हित्_०।११ ॥
इत्य् आकर्ण्यात्मनः पुत्राणाम् अनधिगत-शास्त्राणां नित्यम् उन्मार्ग-गामिनां शास्त्राननुष्ठानेनोद्विग्न-मनाः स राजा चिन्तयामास ।
को ऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ।
काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥ हित्_०।१२ ॥
अजात-मृत-मूर्खाणां वरम् आद्यौ न चान्तिमः ।
सकृद् दुःख-कराव् आद्याव् अन्तिमस् तु पदे पदे ॥ हित्_०।१३ ॥
किं च-
वरं गर्भ-स्रावो वरम् अपि च नैवाभिगमनं
वरं जातः प्रेतो वरम् अपि च कन्यावजनिता ।
वरं बन्ध्या भार्या वरम् अपि च गर्भेषु वसतिर्
न वाविद्वान् रूप-द्रविण-गुण-युक्तो ऽपि तनयः ॥ हित्_०।१४ ॥
स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ हित्_०।१५ ॥
अन्यच् च-
गुणि-गण-गणनाऽरम्भे
न पतति कठिनी स-सम्भ्रमाद् यस्य ।
तेनाम्बा यदि सुतिनी
वद बन्ध्या कीदृशी भवति ? ॥ हित्_०।१६ ॥
अपि च-
दाने तपसि शौर्ये च यस्य न प्रथितं मनः ।
विद्यायाम् अर्थ-लाभे च मातुर् उच्चार एव सः ॥ हित्_०।१७ ॥
अपरं च-
वरम् एको गुणी पुत्रो न च मूर्ख-शतैर् अपि ।
एकश् चन्द्रमस् तमो हन्ति न च तारा-गणैर् अपि ॥ हित्_०।१८ ॥
पुण्य-तीर्थे कृतं येन तपः क्वाप्य् अतिदुष्करम् ।
तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः ॥ हित्_०।१९ ॥
तथा चोक्तं-
अर्थागमो नित्यम् अरोगिता च प्रिया च भार्या प्रिय-वादिनी च ।
वश्यश् च पुत्रो ऽर्थ-करी च विद्या षड् जीव-लोकस्य सुखानि राजन् ॥ हित्_०।२० ॥
को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
वरम् एकः कुलालम्बी यत्र विश्रूयते पिता ॥ हित्_०।२१ ॥
ऋण-कर्ता पिता शत्रुर् माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुर् अपण्डितः ॥ हित्_०।२२ ॥
- अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् ।
विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम् ॥+++(सम्पादकटिप्पनी- पुस्तकेऽत्र अधिकःपाठः ।)+++
यस्य कस्य प्रसूतो ऽपि गुणवान् पूज्यते नरः ।
धनुर् वंश-विशुद्धो ऽपि निर्गुणः किं करिष्यति ॥ हित्_०।२३ ॥
हा हा पुत्रक नाधीतं गतास्व् एतासु रात्रिषु ।
तेन त्वं विदुषां मध्ये पङ्के गौर् इव सीदसि ॥ हित्_०।२४ ॥
+++(सम्पादकटिप्पनी- पुस्तके इदं पद्यं नास्ति ।)+++
तत् कथम् इदानीम् एते मम पुत्रा गुणवन्तः क्रियन्ताम् ? यतः-
आहार-निद्रा-भय-मैथुनानि सामान्यम् एतत् पशुभिर् नराणाम् ।
ज्ञानं नराणाम् अधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ हित्_०।२५ ॥
यतः-
धर्मार्थ-काम-मोक्षाणां यस्यैको ऽपि न विद्यते ।
अजागल-स्तनस्येव तस्य जन्म निरर्थकम् ॥ हित्_०।२६ ॥
यच् चोच्यते-
आयुः कर्म च वित्तं च विद्या निधनम् एव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ हित्_०।२७ ॥
किं च-
अवश्यं भाविनो भावा भवन्ति महताम् अपि ।
नग्नत्वं नीलकण्ठस्य महाहि-शयनं हरेः ॥ हित्_०।२८ ॥
अन्यच् च-
यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा ।
इति चिन्ता-विष-घ्नो ऽयम् अगदः किं न पीयते ॥ हित्_०।२९ ॥
एतत् कार्याक्षमाणां केषाञ्चिद् आलस्य-वचनम् । पुरुषकारौत्कार्ष्यम् आह-
यथा ह्य् एकेन चक्रेण न रथस्य गतिर् भवेत् ।
तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥ हित्_०।३० ॥
तथा च-
पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते ।
तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः ॥ हित्_०।३१ ॥
न दैवम् अपि सञ्चिन्त्य त्यजेद् उद्योगम् आत्मनः ।
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुम् अर्हति ॥ हित्_०।३२ ॥
+++(सम्पादकटिप्पनी- पुस्तके इदं पद्यं नास्ति ।)+++
अन्यच् च-
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर्
दैवेन देयम् इति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या
यत्ने कृते यदि न सिध्यति को ऽत्र दोषः ॥ हित्_०।३३ ॥
यथा मृत्-पिण्डतः कर्ता कुरुते यद् यद् इच्छति ।
एवम् आत्म-कृतं कर्म मानवः प्रतिपद्यते ॥ हित्_०।३४ ॥
काकतालीयवत् प्राप्तं दृष्ट्वापि निधिम् अग्रतः ।
न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते ॥ हित्_०।
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ हित्_०।३६ ॥
- मातृपितृकृताभ्यासो गुणितामेति बालकः ।
न गर्भच्युतिमात्रेण पुत्रो भवति पण्डितः ॥+++(सम्पादकटिप्पनी- पुस्तकेऽत्र अधिकः पाठः ।)+++
तथा चोक्तं-
माता शत्रुः पिता वैरी येन बालो न पाठितः ।
न शोभते सभा-मध्ये हंस-मध्ये बको यथा ॥ हित्_०।३७ ॥
रूप-यौवन-सम्पन्ना विशाल-कुल-सम्भवाः ।
विद्या-हीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ हित्_०।३८ ॥
- मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्टितः ।
तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषते ॥ +++(सम्पादकटिप्पनी- पुस्तकेऽत्र अधिकः पाठः ।)+++
अपरच् च-
पुस्तकेषु च नाधीतं नाधीतं गुरु-सन्निधौ ।
न शोभते सम्भा-मध्ये जार-गर्भ इव स्त्रियाः ॥ हित्_०।३९ ॥
+++(सम्पादकटिप्पनी- पुस्तके इदं पद्यं नास्ति ।)+++
एतच् चिन्तयित्वा राजा पण्डित-सभां कारितवान् । राजोवाच-भो भोः पण्डिताः ! श्रूयतां मम वचनम् । अस्ति कश्चिद् एवम्भूतो विद्वान् यो मम पुत्राणां नित्यम् उन्मार्ग-गामिनाम् अनधिगत-शास्त्राणाम् इदानीं नीति-शास्त्रोपदेशेन पुनर् जन्म कारयितुं समर्थः ? यतः-
काचः काञ्चन-संसर्गाद् धत्ते मारकतीर् द्युतीः ।
तथा सत्-सन्निधानेन मूर्खो याति प्रवीणताम् ॥ हित्_०।४० ॥
उक्तं च-
हीयते हि मतिस् तात हीनैः सह समागमात् ।
समैश् च समताम् एति विशिष्टैश् च विशिष्टताम् ॥ हित्_०।४१ ॥
अत्रान्तरे विष्णु-शर्म-नामा महा-पण्डितः सकल-नीइति-शास्त्र-तत्त्व-ज्ञो बृहस्पतिर् इवाब्रवीत्-देव महाकुल-सम्भूता एते राजपुत्राः । तत् मया नीतिं ग्राहयितुं शक्यन्ते । यतः-
नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् ।
न व्यापार-शतेनापि शुकवत् पाठ्यते बकः ॥ हित्_०।४२ ॥
अन्यच् च-
अस्मिंस् तु निर्गुणं गोत्रे नापत्यम् उपजायते ।
आकरे पद्य-रागानां जन्म काच-मणेः कुतः ॥ हित्_०।४३ ॥
अतो ऽहं षण्-मासाभ्यन्तरे भवत्-पुत्रान् नीति-शास्त्राभिज्ञान् करिष्यामि । राजा स-विनयं पुनर् उवाच ।
कीटो ऽपि सुमनः-सङ्गाद् आरोहति सतां शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ हित्_०।४४ ॥
अन्यच् च-
यथोदय-गिरेर् द्रव्यं सन्निकर्षेण दीप्यते ।
तथा सत्-सन्निधानेन हीन-वर्णो ऽपि दीप्यते ॥ हित्_०।४५ ॥
गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
आस्वाद्य-तोयाः प्रवहन्ति नद्यः
समुद्रम् आसाद्य भवन्त्य् उपेयाः ॥ हित्_०।४६ ॥
तद् एतेषाम् अस्मत्-पुत्राणां नीति-शास्त्रोपदेशाय भवन्तः प्रमाणम् इत्य् उक्त्वा तस्य विष्णु-शर्मणो करे बहुमान-पुरःसरं पुत्रान् समर्पितवान् ॥