[[हितोपदेशः Source: EB]]
[
[TABLE]
[TABLE]
[TABLE]
॥श्रीः॥
हितोपदेशः।
प्रस्ताविका।
सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः।
जाह्नवीफेनलेखेव यन्मूर्ध्नि शशिनः कला॥१॥
श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु।
वाचां सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च॥२॥
अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत्।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥३॥
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम्।
अहार्यत्वादनर्घत्वादक्षयत्वाच्च सर्वदा॥४॥
संयोजयति विद्यैव नीचगापि नरं सरित्।
समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम्॥५॥
विद्या ददाति विनयं विनयाद्याति पात्रताम्।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥६॥
विद्या शस्त्रस्य शास्त्रस्य द्वे विद्ये प्रतिपत्तये।
आद्या हास्यायं वृद्धत्वे द्वितीयाद्रियते सदा॥७॥
यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत्।
कथाच्छलेन बालानां नीतिस्तदिह कथ्यते॥८॥
मित्रलाभः सुहृद्भेदोविग्रहः संधिरेव च।
पञ्चतन्त्रात्तथान्यस्माद्ग्रन्थादाकृष्य लिख्यते॥९॥
अस्ति भागीरथीतीरे पाटलिपुत्रनामधेयं नगरम्। तत्र सर्वस्वामिगुणोपेतः सुदर्शनो नाम नरपतिरासीत्। स भूपतिरेकदा केनापि पट्यमानं लोकद्वयं शुश्राव—
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम्।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥१०॥
यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्॥११॥
इत्याकर्ण्यात्मनः पुत्राणामनधिगतशास्त्राणां नित्यमुन्मार्गगामिनां शास्त्राननुष्ठानेनोद्विग्नमनाः स राजा चिन्तयामास—
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः।
काणेन चक्षुषा किं वा चक्षुःपीडैव केवलम्॥१२॥
अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे॥१३॥
किं च।
स जातो येन जातेन याति वंशः समुन्नतिम्।
परिवर्तिनि संसारे मृतः को वा न जायते॥१४॥
गुणिगणगणनारम्भे न पतति कठिनी सुसम्भ्रमाद्यस्य।
तेनाम्बा यदि सुतिनी वद बन्ध्या कीदृशी नाम॥१५॥
अपि च।
दाने तपसि शौर्ये च यस्य न प्रथितं मनः।
विद्यायामर्थलाभे च मातुरुच्चार एव सः॥१६॥
अपरं च।
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि।
एकश्चन्द्रस्तमो हन्ति न च तारागणा अपि॥१७॥
पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम्।
तस्य पुत्रों भवेद्वश्यः समृद्धो धार्मिकः सुधीः॥१८॥
अर्थागमो नित्यमरोगिता च
प्रियश्च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या
षड् जीवलोकस्य सुखानि राजन्॥१९॥
को धन्यो बहुभिः पुत्रैः कुशलापूरणाढकैः।
चरमेकः कुलालम्बी यत्र विश्रूयते पिता॥२०॥
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः॥२१॥
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम्।
विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम्॥२२॥
यस्य कस्य प्रसूतोऽपि गुणवान्पूज्यते नरः।
धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति॥२३॥
हा हा पुत्रक नाधीतं सुगतैतासु रात्रिषु।
तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि॥२४॥
तत्कथमिदानीमेते मम पुत्रा गुणवन्तः क्रियन्ताम्।
आहारनिद्राभयमैथुनं च
सामान्यमेतत्पशुभिर्नराणाम्।
धर्मो हि तेषामधिको विशेषो
धर्मेण हीनाः पशुभिः समानाः॥२५॥
यतः—
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्॥२६॥
यच्चोच्यते—
आयुः कर्म च वित्तं च विद्या निधनमेव च।
पञ्चैतान्यपि सृज्यन्ते गर्भस्थस्यैव देहिनः॥२७॥
किं च।
अवश्यं भाविनो भावा भवन्ति महतामपि।
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः॥२८॥
अपि च।
यदभावि न तद्भावि भावि चेन्न तदन्यथा।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते॥२९॥
एतत्कार्याक्षमाणां केषांचिदालस्यवचनम्।
न दैवमपि सञ्चिन्त्य त्यजेदुद्योगमात्मनः।
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति॥३०॥
अन्यच्च।
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवेन देयमिति कापुरुषा वदन्ति।
देवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः॥३१॥
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्।
एवं पुरुषकारेण विना दैवं न सिध्यति॥३२॥
तथा च।
पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते।
तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः॥३३॥
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते॥३४॥
काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः।
न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते॥३५॥
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥३६॥
मातृपितृकृताभ्यासो गुणितामेति बालकः।
न गर्भच्युतिमात्रेण पुत्रो भवति पण्डितः॥३७॥
माता शत्रुः पिता वैरी येन बालो न पाठितः।
न शोभते सभामध्ये हंसमध्ये बको यथा॥३८॥
रूपयौवनसंपन्ना विशालकुलसंभवाः।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥३९॥
मूर्खोऽपि शोभते तावत्सभायां वस्त्रवेष्टितः।
तावच्च शोभते मूर्खो यावत्किंचिन्न भाषते॥४०॥
एतच्चिन्तयित्वा स राजा पण्डितसभां कारितवान्। राजोवाच—
भो भोः पण्डिताः, श्रूयताम्। अस्ति कश्विदेवंभूतो विद्वान्यो मम पुत्राणां नित्यमुन्मार्गगामिनामनधि- गतशास्त्राणामिदानीं नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः। यत—
कामः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिम्।
तथा सत्संनिधानेन मूर्खो याति प्रवीणताम्॥४१॥
उक्तं च—
हीयते हि मतिस्तात हीनैः सह समागमात्।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम्॥४२॥
अत्रान्तरे विष्णुशर्मनामा महापण्डितः सकलनीतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवाब्रवीत्—‘देव, महाकुलसंभूता एते राजपुत्राः। तन्मया नीतिं ग्राहयितुं शक्यन्ते। यतः—
नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत्।
न व्यापारशतेनापि शुकवत्पाठ्यते बकः॥४३॥
अन्यच्च।
अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते।
आकरे पद्मरागाणां जन्म काचमणेः कुतः॥४४॥
अतोऽहं षण्मासाभ्यन्तरे तव पुत्रान्नीतिशास्त्राभिज्ञान्करिष्यामि। राजा सविनयं पुनरुवाच—
‘कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः॥४५॥
अन्यच्च।
यथोदयगिरेर्द्रव्यं संनिकर्षेण दीप्यते।
तथा सत्संनिधानेन हीनवर्णोऽपि दीप्यते॥४६॥
गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रभवन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः॥४७॥
तदेतेषामस्मत्पुत्राणां नीतिशास्त्रोपदेशाय भवन्तः प्रमाणम्’ इत्युक्त्वा तस्य विष्णुशर्मणो बहुमानपुरःसरं पुत्रान्समर्पितवान्॥
इति प्रस्ताविका।
<MISSING_FIG href="../books_images/U-IMG-1720536634Screenshot2024-07-09202024.png"/>
मित्रलाभः।
अथ प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात्प्रस्तावक्रमेण स पण्डितोऽब्रवीत् —
‘काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा॥१॥
तद्भवतां विनोदाय काकूर्मादीनां विचित्रां कथां कथयामि।’ राजपुत्रैरुक्तम्—‘आर्य, कध्यताम्।’ विष्णुशर्मोवाच— ‘शृणुत।
संप्रति मित्रलाभः प्रस्तूयते यस्यायमाद्यः श्लोकः—
असाधना वित्तहीना बुद्धिमन्तः सुहृत्तमाः।
साधयन्त्याशु कार्याणि काककूर्ममृगास्वुवत्॥२॥
राजपुत्रा ऊचुः— ‘कथमेतत्।’ विष्णुशर्मा कथयति—
अस्ति गोदावरीतीरे विशालः शाल्मलीतरुः। तत्र नानादिग्देशादागत्य रात्रौ पक्षिणो निवसन्ति। अथ कदाचिदवसन्नायां रात्रावस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि लघुपतनकनामा वायसः प्रबुद्धः कृतान्तमिव द्वितीयमायान्तं व्याधमपश्यत्। तमवलोक्याचिन्तयत्—‘अद्य प्रातरेवानिष्टदर्शनं जातम्। न जाने किमनभिमतं दर्शयिष्यति। इत्युक्त्वा तदनुसरणक्रमेण व्याकुलश्चलितः। यतः—
शोकस्थानसहस्राणि भयस्थानशतानि च।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥३॥
अन्यच्च। विषयिणामिदंमवश्यं कर्तव्यम्।
उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम्।
मरणव्याधिशोकानां किमद्य निपतिष्यति॥४॥
अथ तेन व्याधेन तण्डुलकणान्विकीर्य जालं विस्तीर्णम्। स च प्रच्छन्नो भूत्वा स्थितः। तस्मिन्नेव काले चित्रग्रीवनामा कपोतराजः सपरिवारो वियति विसर्पंस्तांस्तण्डुलकणामवलोकयामास।
ततः कपोतराजस्तण्डुलकणलुब्धान्कपोतान्प्रत्याह—‘कुतोऽत्र निर्जने वने तण्डुलकणानां संभवः। तन्निरूप्यतां तावत्। भद्रमिदं न पश्यामि। प्रायेणानेन तण्डुलकणलोभेनास्माभिरपि तथा भवितव्यम्।
कङ्कणस्य तु लोभेन ममः पङ्केसुदुस्तरे।
वृद्धव्याघ्रेण सम्प्राप्तः पथिकः स मृतो यथा॥५॥
कपोता ऊचुः—‘कथमेतत्।’ सोऽब्रवीत्—
कथा १।
‘अहमेकदा दक्षिणारण्ये चरन्नपश्यम्। एको वृद्धव्याघ्रः स्नातः कुशहस्तः सरस्तीरे ब्रूते—‘भो भोः पान्थाः, इदं सुवर्णकङ्कणं गृह्यताम्।’ ततो लोभाकृष्टेन केनचित्पान्थेनालोचितम्— ‘भाग्येनैतत्संभवति। किंत्वस्मिन्नात्मसन्देहे प्रवृत्तिर्न विधेया। यतुः—
अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा।
यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे॥६॥
किंतु सर्वत्रार्थार्जने प्रवृत्तिः संदेह एव। तथा चोक्तम्—
न संशयमनारुह्य नरो भद्राणि पश्यति।
संशयं पुनरारुह्य यदि पश्यन्न पश्यति॥७॥
तन्निरूपयामि तावत्।’ प्रकाशं ब्रूते— ‘कुत्र तव कङ्कणम्।’ व्याघ्रो हस्तं प्रसार्य दर्शयति। पान्थोऽवदत्—‘कथं मारात्मके त्वयि विश्वासः।’ व्याघ्र उवाच—शृणु रे पान्थ, प्रागेव यौवनदशायामतिदुर्वृत्त आसम्। अनेकगोमानुषाणां वधान्मे पुत्रा मृता दाराश्च। वंशहीनश्वाहम्। ततः केनचिद्धार्मिकेणाहमादिष्टः—‘दानधर्मादिकं चरतु भवान्।’ तदुपदेशादिदानींमहं स्नानशीलो दाता वृद्धो गलितनखदन्तो न कथं विश्वासभूमिः। यतः—
इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥८॥
तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते।
उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति॥९॥
मम चैतावांल्लोभविरहो येन स्वहस्तस्थमपि सुवर्णकङ्कणं यस्तै कस्मैचिद्दातुमिच्छामि। तथापि व्याघ्रो मानुषं खादतीति लोकप्रवादो दुर्निवारः। यतः—
मतानुगतिको लोकः कुट्टनीमुपदेशिनीम्।
प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम्॥१०॥
मया च धर्मशास्त्राण्यधीतानि। शृणु—
मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा।
दरिद्रे दीयते दानं सफलं पाण्डुनन्दन॥११॥
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः॥१२॥
अपरं च।
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति॥१३॥
अन्यच्च।
मातृवत्परदारेषु परद्रव्येषु लोष्टवत्।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः॥१४॥
त्वं चातीव दुर्गतस्तेन तत्तुभ्यं दातुं सयत्नोऽहम्। तथा चोक्तम्—
दरिद्रान्भर कौन्तेय मा प्रयच्छेश्वरे धनम्।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः॥१५॥
अन्यच्च।
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।
देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम्॥१६॥
तदत्र सरसि स्नात्वा सुवर्णकङ्कणं गृहाण।’ ततो यावदसौ तद्वचः प्रतीतो लोभात्सरः स्नातुं प्रविशति तावन्महापङ्केनिमग्नः पलायितुमक्षमः। पङ्के पतितं दृष्ट्वा व्याघ्रोऽवदत्—‘अहह, महापङ्के पतितोऽसि। अतस्त्वामहमुत्थापयामि। इत्युक्त्वा शनैः शनैरुपगम्य तेन व्याघ्रेण धृतः पान्थोऽचिन्तयत्—
‘न धर्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः॥१७॥
किं च।
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना॥ १८॥
तन्मया भद्रं न कृतं यदत्र मारात्मके विश्वासः कृतः। तथा ह्युक्तम्—
नदीनां नखिनां चैव शृङ्गिणां शस्त्रपाणिनाम्।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च॥१९॥
अपरं च।
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः।
अतीत्य हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते॥२०॥
अन्यच्च।
स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी।
विधुरपि विधियोगाद्रस्यते राहुणासौ
लिखितमपि ललाटे प्रोज्झितुं कः समर्थः’॥२१॥
इति चिन्तयन्नेवासौ व्याघ्रेण व्यापादितः खादितश्च। अतोऽहं ब्रवीमि—‘कङ्कणस्य तु लोभेन’ इत्यादि। अतः सर्वथाऽविचारितं कर्म न कर्तव्यम्। यतः—
सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः।
सुचिन्त्य चोक्तं सुविचार्य यत्कृतं
सुदीर्घकालेऽपि न याति विक्रियाम्॥२२॥
एतद्वचनं श्रुत्वा कश्चित्कपोतः सदर्पमाह—‘आः, किमेवमुच्यते।
वृद्धानां वचनं ग्राह्यमापत्काले ह्युपस्थिते।
सर्वत्रैवं विचारेण भोजनेऽप्यप्रवर्तनम्॥२३॥
यतः—
शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा॥२४॥
ईष्यीं वृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः।
परभाग्योपजीवी च षडेते दुःखभागिनः॥२५॥
एतच्छ्रुत्वा सर्वे कपोतास्तत्रोपविष्टाः। यतः—
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः।
छेत्तारः संशयाना च क्लिश्यन्ते लोभमोहिताः॥२६॥
अन्यच्च।
लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम्॥२७॥
अन्यच्च।
असंभवं हेममृगस्य जन्म
तथापि रामो लुलुभे मृगाय।
प्रायः समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिना भवन्ति॥२८॥
अनन्तरं सर्वे जालेन बद्धा बभूवुः। ततो यस्य वचनात्तत्रावलम्बितास्तं सर्वे तिरस्कुर्वन्ति। यतः—
न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम्।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते॥२९॥
तस्य तिरस्कारं कृत्वा चित्रग्रीव उवाच–‘नायमस्य दोषः। यतः—
आपदामापतन्तीनां हितोऽप्यायाति हेतुताम्।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने॥३०॥
अन्यच्च।
स बन्धुर्योविपन्नानामापदुद्धरणक्षमः।
न तु भीतपरित्राणवस्तूपालम्भपण्डितः॥३१॥
विपत्काले विस्मय एव कापुरुषलक्षणम्। तदत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यताम्। यतः—
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधिविक्रमः।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम्॥३२॥
संपदि यस्य न हर्षो विपदि विषादो रणे च धीरत्वम्।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम्॥३३॥
अन्यच्च।
षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता॥३४॥
इदानीमप्येवं क्रियताम्। सर्वैरेकचित्तीभूय जालमादायोड्डीयताम्। यतः—
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः॥३५॥
संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः॥३६॥
इति विचिन्त्य पक्षिणः सर्वे जालमादायोत्पतिताः। अनन्तरं स व्याधः सुदूराज्जालापहार- कांस्तानवलोक्य पश्चाद्धावन्नचिन्तयत्—
संहतास्तु हरन्त्येते मम जालं विहंगमाः।
यदा तु निपतिष्यन्ति वशमेप्यन्ति मे तदा॥३७॥
ततस्तेषु चक्षुर्विषयातिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः।
अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुः– ‘किमिदानीं कर्तुमुचितम्।’ चित्रग्रीव उवाच—
‘माता मित्रं पिता चेति स्वभावात्त्रितयं हितम्।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः॥३८॥
तदस्माकं मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवने निवसति। सोऽस्माकं पाशांश्छेत्स्यति।’ इत्यालोच्य सर्वे हिरण्यकविवरसमीपं गताः। हिरण्यकश्च सर्वदाऽपायशङ्कया शतद्वारं विवरं कृत्वा निवसति। ततो हिरण्यकः कपोतावयातभयाच्चकित-
स्तूष्णीं स्थितः। चित्रग्रीव उवाच—‘सखे हिरण्यक, किमस्मान्न संभाषसे।’ ततो हिरण्यकस्तद्वचनं प्रत्यभिज्ञाय ससंभ्रमं बहिर्निःसृत्याब्रवीत्—‘आः, पुण्यवानस्मि। प्रियसुहृन्मे चित्रग्रीवः समायातः।
यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः।
यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान्॥३९॥
पाशबद्धांश्चैतान्दृष्ट्वा सविस्मयः क्षणं स्थित्वोवाच—‘सखे किमेतत्।’
चित्रग्रीवोऽवदत्— ‘सखे, अस्माकं प्राक्तनजन्मकर्मणः फलमेतत्।
यस्माच्च येन च यथा च यदा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म।
तस्माच्च तेन च तथा च तदा च तच्च
तावच्च तत्र च विधातृवशादुपैति॥४०॥
रोगशोकपरीतापबन्धनव्यसनानि च।
आत्मापराधवृक्षाणां फलान्येतानि देहिनाम्॥४१॥
एतच्छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरमुपसर्पति।
चित्रग्रीव उवाच—‘मित्र, मा मैवम्। अस्मदाश्रितानामेषां तावत्पाशांश्छिन्धि तदा मम पाशं पश्चाच्छेत्स्यसि।’ हिरण्यकोऽप्याह—‘अहमल्पशक्तिः। दन्ताश्च मे कोमलाः। तदेतेषां पाशांश्छेत्तुं कथं समर्थः। तद्यावन्मे दन्ता न त्रुट्यन्ति तावत्तव पाशं छिनद्मि। तदनन्तरमेषामपि बन्धनं यावच्छक्यं छेत्स्यामि।’ चित्रग्रीव उवाच—‘अस्त्वेवम्। तथापि यथाशक्त्येतेषां बन्धनं खण्डय।’ हिरण्यकेनोक्तम्— ‘आत्मपरित्यागेन यदाश्रितानां परिरक्षणं तन्न नीतिविदां संगतम्। यतः—
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥४२॥
अन्यच्च।
धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः।
तान्निघ्नता किं न हतं रक्षता किं न रक्षितम्॥४३॥
चित्रग्रीव उवाच—‘सखे, नीतिस्तावदीदृश्येव। किं त्वहमस्मदाश्रितानां दुःखं सोढुं सर्वथाऽसमर्थः। तेनेदं ब्रवीमि। यतः—
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
सन्निमित्ते वरं त्यागो विनाशे नियते सति॥४४॥
अयमपरश्चासाधारणो हेतुः।
जातिद्रव्यगुणानां च साम्यमेषां मया सह।
मत्प्रभुत्वफलं ब्रूहि कदा किं तद्भविष्यति॥४५॥
अन्यच्च।
विना वर्तनमेवैते न त्यजन्ति ममान्तिकम्।
तन्मे प्राणव्ययेनापि जीवयैतान्ममाश्रितान्॥४६॥
किं च।
मांसमूत्रपुरीषास्थिनिर्मितेऽस्मिन्कलेवरे।
विनश्वरे विहायास्थां यशः पालय मित्र मे॥४७॥
अपरं च पश्य—
यदि नित्यमनित्येन निर्मलं मलवाहिना।
यशः कायेन लभ्येत तन्न लब्धं भवेन्नु किम्॥४८॥
यतः—
शरीरस्य गुणानां च दूरमत्यन्तमन्तरम्।
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः॥४९॥
इत्याकर्ण्य हिरण्यकः प्रहृष्टमनाः पुलकितः सन्नब्रवीत्—‘साधु मित्र, साधु। अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते। एवमुक्त्वा तेन सर्वेषां बन्धनानि छिन्नानि। ततो हिरण्यकः सर्वान्सादरं संपूज्याह—‘सखे चित्रग्रीव, सर्वथात्र जालबन्धनविधौ दोषमाशङ्क्यात्मन्यवज्ञा न कर्तव्या। यतः—
योऽधिकाद्योजनशतात्पश्यतीहामिषं खगः।
स एव प्राप्तकालस्तु पाशबन्धं न पश्यति॥५०॥
अपरं च।
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजंगमयोरपि बन्धनम्।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः॥५१॥
अन्यच्च।
व्योमैकान्तविहारिणोऽपि विहगाः संप्राप्नुवन्त्यापदं
वध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि।
दुर्नातं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि॥५२॥
इति प्रबोध्यातिथ्यं कृत्वालिङ्ग्य च चित्रग्रीवस्तेन संप्रेषितो यथेष्टदेशान्सपरिवारो ययौ। हिरण्यकोऽपि स्वविवरं प्रविष्टः।
यानि कानि च मित्राणि कर्तव्यानि शतानि च।
पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः॥५३॥
अथ लघुपतनकनामा काकः सर्ववृत्तान्तदर्शी साश्चर्यमिदमाह ‘अहो हिरण्यक, श्लाध्योऽसि। अतोऽहमपि त्वया सह मैत्रीमिच्छामि। अतो मां मैत्र्येणानुग्रहीतुमर्हसि। एतच्छ्रुत्वा हिरण्यकोऽपि विवराभ्यन्तरादाह—‘कस्त्वम्।’ स ब्रूते—‘लघुपतनकनामा वायसोऽहम्।’ हिरण्यको विहस्या— ‘का त्वया सह मैत्री। यतः—
यत्नेन युज्यते लोके बुधस्तत्तेन योजयेत्।
अहमन्नं भवान्भोक्ता कथं प्रीतिर्भविष्यति॥५४॥
अपरं च।
भक्ष्यभक्षकयोः प्रीतिर्विपत्तेरेव कारणम्।
शृगालात्पाशबद्धोऽसौ मृगः काकेन रक्षितः॥५५॥
वायसोऽब्रवीत्— ‘कथमेतत्। हिरण्यकः कथयति—
कथा २।
अस्ति मगधदेशे चम्पकवती नामारण्यानी। तस्यां चिरान्महता स्नेहेन मृगकाकौ निवसतः। स च मृगः स्वेच्छया भ्राम्यन्हृष्टपुष्टाङ्गः केनचिच्छृगालेनावलोकितः। तं दृष्ट्वा शृगालोऽचिन्तयत्—‘आः, कथमेतन्मांसं सुललितं भक्षयामि। भवतु। विश्वासं तावदुत्पादयामि।’ इत्यालोच्योपसृत्याब्रवीत्—‘मित्र, कुशलं ते।’ मृगेणोक्तम्—‘कस्त्वम्।’ स ब्रूते—‘क्षुद्रबुद्धिनामा जम्बुकोऽहम्। अत्रारण्ये बन्धुहीनो मृतवन्निवसामि। इदानीं त्वां मित्रमासाद्य पुनः सबन्धुर्जीवलोकं प्रविष्टोऽस्मि। अधुना तवानुचरेण मया सर्वथा भवितव्यम्।’ मृगेणोक्तम्—‘एवमस्तु।’ ततः पश्चादस्तंगते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमिं गतौ। तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति। तौ दृष्ट्वा काकोऽवदत्—‘सखे चित्राङ्ग, कोऽयं द्वितीयः। मृगो ब्रूते ‘जम्बुकोऽयम्। अस्मत्सख्यमिच्छन्नागतः’। काको ब्रूते—‘मित्र, अकस्मादागन्तुना सह मैत्री न युक्ता। तथा चोक्तम्—
अज्ञातकुलशीलस्य वासो देयो न कस्यचित्।
मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः’॥५६॥
तावाहतुः— ‘कथमेतत्।’ काकः कथयति—
कथा ३।
अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महापर्कटीवृक्षः। तस्य कोटरे दैवदुर्विपाकाद्गलितनखनयनो जरद्गवनामा गृध्रःप्रतिवसति। अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात्किंचित्किंचिदुद्धृत्य ददति। तेनासौ जीवति। अथ कदाचिद्दीर्घकर्णनामा मार्जारः पक्षिशावकान्भक्षितुं तत्रागतः। ततस्तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्तैः कोलाहलः कृतः। तच्छ्रुत्वा जरद्गवेनो-
क्तम्—‘कोऽयमायाति।’ दीर्घकर्णो गृध्रमवलोक्य समयमाह—‘हा, हतोऽस्मि। यतः—
तावद्भयस्य भेतव्यं यावद्भयमनागतम्।
आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम्॥५७॥
अधुनास्य संनिधाने पलायितुमक्षमः। तद्यथा भवितव्यं तद्भवतु तावद्विश्वासमुत्पाद्यास्य समीपमुपगच्छामि।’ इत्यालोच्योपसृत्याब्रवीत्—‘आर्य, त्वामभिवन्दे।’ गृध्रोऽवदत्—‘कस्त्वम्।’ सोऽवदत्—‘मार्जारोऽहम्।’ गृध्रो ब्रूते—‘दूरमपसर। नो चेद्धन्तव्योऽसि मया। मार्जारोऽवदत्— ‘श्रूयतां तावदस्मद्वचनम्। ततो यद्यहं वध्यस्तदा हन्तव्यः। यतः—
जातिमात्रेण किं कश्चिद्धन्यते पूज्यते क्वचित्।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत्॥५८॥
गृध्रोब्रूते—‘ब्रूहि किमर्थमागतोऽसि।’ सोऽवदत्—‘अहमत्र गङ्गातीरे नित्यस्त्रायी ब्रह्मचारी चान्द्रायणव्रतमाचरंस्तिष्ठामि। यूयं धर्मज्ञानरता विश्वासभूमय इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति। अतो भवद्भ्यो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुमिहागतः। भवन्तश्चैतादृशा धर्मज्ञा यन्मामतिथिं हन्तुमुद्यताः। गृहस्थधर्मश्चैषः।
अरावप्युचितं कार्यमातिथ्यं गृहमागते।
छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः॥५९॥
यदि वा धनं नास्ति तदा प्रीतिवचसाप्यतिथिः पूज्य एव। यतः—
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन॥६०॥
अपरं च।
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः।
नहि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः॥६१॥
अन्यच्च।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति॥६२॥
अन्यच्च।
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः॥६३॥
गृधोऽवदत्— ‘मार्जारो हि मांसरुचिः। पक्षिशावकाश्चात्र निवसन्ति। तेनाहमेवं ब्रवीमि।’ तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति। ब्रूते च—‘मया धर्मशास्त्रं श्रुत्वा वीतरागेणेदं दुष्करं व्रतं चान्द्रायणमध्यवसितम्। परस्परं विवदमानानामपि धर्मशास्त्राणाम् ‘अहिंसा परमो धर्मः’ इत्यत्रैकमत्यम्। यतः—
सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥६४॥
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति॥६५॥
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम्।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते॥६६॥
मर्तव्यमिति यद्दुःखं पुरुषस्योपजायते।
शक्यते नानुमानेन परेण परिवर्णितुम्॥६७॥
शृणु पुनः।
स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते।
अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं महत्॥६८॥
एवं विश्वास्य स मार्जारस्तरुकोटरे स्थितः।
ततो दिनेषु गच्छत्सु पक्षिशावकानाक्रम्यकोटरमानीय प्रत्यहं खादति। येषामपत्यानि खादितानि तैः शोकार्तैर्विलषद्भिरितस्ततो
जिज्ञासा समारब्धा। तत्परिज्ञाय मार्जारः कोटरान्निःसृत्य बहिः पलायितः। पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शावकास्थीनि प्राप्तानि। अनन्तरं त ऊचुः—‘अनेनैव जरद्गवेनास्माकं शावकाः खादिताः’ इति सर्वैः पक्षिभिर्निश्चित्य गृध्रोव्यापादितः। अतोऽहं ब्रवीमि— ‘अज्ञातकुलशीलस्य’ इत्यादि॥ इत्याकर्ण्य स जम्बुकः सकोपमाह—‘मृगस्य प्रथमदर्शनदिने भवानप्यज्ञातकुलशील एव। तत्कथं भवता सहैतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते।
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते॥६९॥
अन्यच्च।
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥७०॥
यथायं मृगो मम बन्धुस्तथा भवानपि।’ मृगोऽब्रवीत्— ‘किमनेनोत्तरेण। सर्वैरेकत्र विश्रम्भालापैः सुखिभिः स्थीयताम्। यतः—
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः।
व्यवहारेण मित्राणि जायन्ते रिपवस्तथा॥७१॥
काकेनोक्तम्— ‘एवमस्तु।’ अथ प्रातः सर्वे यथाभिमतदेशं गताः।
एकदा निभृतं शृगालो ब्रूते—‘सखे, अस्मिन्वनैकदेशे सस्यपूर्णक्षेत्रमस्ति। तदहं त्वां नीत्वा दर्शयामि।’ तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति। अथ क्षेत्रपतिना तद्दृष्ट्वा पाशो योजितः। अनन्तरं पुनरागतो मृगः पाशैर्बद्धोऽचिन्तयत्—‘को मामितः कालपाशादिव व्याधपाशास्त्रातुं मित्रादन्यः समर्थः।’ अत्रान्तरे जम्बुकस्तत्रागत्योपस्थितोऽचिन्तयत्—‘फलिता तावदस्माकं कपटप्रबन्धेन मनोरथसिद्धिः। एतस्योत्कृत्यमानस्य मांसासृग्लिप्तान्यस्थीनि मयावश्यं प्राप्तव्यानि। तानि बाहुल्येन भोज
नानि भविष्यन्ति।’ मृगस्तं दृष्ट्वोल्लासितो ब्रूते—‘सखे, छिन्धितावन्मम बन्धनम्। सत्वरं त्रायस्व माम्। यतः—
आपत्सु मित्रं जानीयाद्युद्धे शूरमृणे शुचिम्।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान्॥७२॥
अपरं च।
उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥७३॥
जम्बुको मुहुर्मुहुः पाशं विलोक्याचिन्तयत्—‘दृढस्तावदयं बन्धः। ब्रूते च—‘सखे, स्नायुनिर्मिता एते पाशाः। तदद्य भट्टारकवारे कथमेतान्दन्तैः स्पृशामि। मित्र, यदि चित्ते नान्यथा मन्यसे तदा प्रभाते यत्त्वया वक्तव्यं तत्कर्तव्यम्।’ इत्युक्त्वा तत्समीप आत्मानमाच्छाद्य स्थितः सः। अनन्तरं स काकः प्रदोषकाले मृगमनागतमवलोक्येतस्ततोऽन्विष्यतथाविधं दृष्ट्वोवाच—‘सखे, किमेतत्।’ मृगेणोक्तम्—‘अवधीरितसुहृद्वाक्यस्य फलमेतत्। तथा चोक्तम्—
सुहृदां हितकामानां यः शृणोति न भाषितम्।
विपत्संनिहिता तस्य स नरः शत्रुनन्दनः॥७४॥
काको ब्रूते—‘स वञ्चकः क्वास्ते।’ मृगेणोक्तम्— ‘मन्मांसार्थी तिष्ठत्यत्रैव। काको ब्रूते—‘उक्तमेव मया पूर्वम्।
अपराधो न मेऽस्तीति नैतद्विश्वासकारणम्।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि॥७५॥
दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम्।
न जिघ्रन्ति न शृण्वति न पश्यन्ति गतायुषः॥७६॥
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्॥७७॥
ततः काको दीर्घं निःश्वस्य ‘अरे वञ्चक, किं त्वया पापकर्मणा कृतम्। यतः—
संलापितानां मधुरैर्वचोभि-
र्मिथ्योपचारैश्च वशीकृतानाम्।
आशावतां श्रद्दधतां च लोके
किमर्थिनां वञ्चयितव्यमस्ति॥७८॥
उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम्।
तं जनमसत्यसंधं भगवति वसुधे कथं वहसि॥७९॥
दुर्जनेन समं सख्यं प्रीतिं चापि न कारयेत्।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम्॥८०॥
अथवा स्थितिरियं दुर्जनानाम्।
प्राक्पादयोः पतति खादति पृष्ठमांसं
कर्णे कलं किमपि रौति शनैर्विचित्रम्।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः
सर्वं खलस्य चरितं मशकः करोति॥८१॥
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम्।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम्॥८२॥
अथ प्रभाते क्षेत्रपतिर्लगुडहस्तस्तं प्रदेशमागच्छन्काकेनावलोकितः। तमालोक्य काकेनोक्तम्— ‘सखे मृग, त्वमात्मानं मृतवत्संदर्श्य वातेनोदरं पूरयित्वा पादान्स्तब्धीकृत्य तिष्ठ। यदाहं शब्दं करोमि तदा त्वमुत्थाय सत्वरं पलायिष्यसि।’ मृगस्तथैव काकवचनेन स्थितः। ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेन तथाविधो मृग आलोकितः। ‘आः, स्वयं मृतोऽसि इत्युक्त्वा मृगं बन्धनान्मोचयित्वा पाशान्ग्रहीतुं सयत्नोबभूव। ततः काकशब्दं श्रुत्वा मृगः सत्वरमुत्थाय पलायितः। तमुद्दिश्य तेन क्षेत्रपतिना क्षिप्तेन लगुडेन शृगालो हृतः। तथा चोक्तम्—
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः।
अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते॥८३॥
अतोऽहं ब्रवीमि—‘भक्ष्यभक्षकयोः प्रीतिः’ इत्यादि॥ काकः पुनराह—
‘भक्षितेनापि भवता नाहारो मम पुष्कलः।
त्वयि जीवति जीवामि चित्रग्रीव इवानघ॥८४॥
अन्यच्च।
तिरश्वामपि विश्वासो दृष्टः पुण्यैककर्मणाम्।
सतांहि साधुशीलत्वात्स्वभावो न निवर्तते॥८५॥
किं च।
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम्।
नहि तापयितुं शक्यं सागराम्भस्तृणोल्कया’॥८६॥
हिरण्यको ब्रूते—‘चपलस्त्वम्। चपलेन सह स्नेहः सर्वथा न कर्तव्यः। तथा चोक्तम्—
मार्जारो महिषो मेषः काकः कापुरुषस्तथा।
विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नोचितः॥८७॥
किं चान्यत् शत्रुपक्षो भवानस्माकम्। उक्तं चैतत् —
शत्रुणा नहि संदध्यात्सुश्लिष्टेनापि संधिना।
सुतप्तमपि पानीयं शमयत्येव पावकम्॥८८॥
दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन्।
मणिना भूषितः सर्पः किमसौ न भयंकरः॥८९॥
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत्।
नोदके शकटं याति न च नौर्गच्छति स्थले॥९०॥
अपरं च।
महताप्यर्थसारेण यो विश्वसिति शत्रुषु।
भार्यासु च विरक्तासु तदन्तं तस्य जीवनम्’॥९१॥
लघुपतनको ब्रूते—‘श्रुतं मया सर्वम्। तथापि मम चैतावान्संकल्पस्त्वया सह सौहृद्यमवश्यं करणीयमिति। नो चेदनाहारेणात्मानं व्यापादयिष्यामि। तथा हि।
मृद्धटवत्सुखभेद्यो दुःसंधानश्च दुर्जनो भवति।
सुजनस्तु कनकघटवहुर्भेद्यश्चाशु संधेयः॥९२॥
किं च।
‘द्रवत्वात्सर्वलोहानां निमित्तान्मृगपक्षिणाम्।
भयाल्लोभाच्च मूर्खाणां संगतं दर्शनात्सताम्॥९३॥
किं च।
नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः।
अन्ये बदरिकाकारा बहिरेव मनोहराः॥९४॥
स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम्।
भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः॥९५॥
अन्यच्च
शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः॥९६॥
एतैर्गुणैरुपेतो भवदन्यो मया कः सुहृत्प्राप्तव्यः। इत्यादि तद्वचनमाकर्ण्य हिरण्यको बहिर्निःसृत्याह— ‘आप्यायितोऽहं भवतामनेन वचनामृतेन। तथा चोक्तम्—
धर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तवाली
न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम्।
प्रीत्या सज्जनभाषितं प्रभवति प्रायो यथा चेतसः
सद्युक्त्या च पुरस्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम्॥९७॥
अन्यच्च।
रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तता।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम्॥९८॥
अनेन वचनक्रमेण तदेकदूषणमपि त्वयि न लक्ष्यते। यतः—
पटुत्वं सत्यवादित्वं कथायोगेन बुध्यते।
अस्तब्धत्वमचापल्यं प्रत्यक्षेणावगम्यते॥९९॥
अपरं च।
अन्यथैव हि सौहार्दंभवेत्स्वच्छान्तरात्मनः।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः॥१००॥
मनस्यन्यद्वचस्यन्यत्कायमन्यद्दुरात्मनाम्।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्॥१०१॥
तद्भवतु भवतोऽभिमतमेव।’ इत्युक्त्वा हिरण्यको मैत्र्यं विधाय भोजनविशेषैर्वायसं संतोप्य विवरं प्रविष्टः। वायसोऽपि स्वस्थानं गतः। ततः प्रभृति तयोरन्योन्याहारप्रदानेन कुशलप्रश्नैर्विश्रम्भालापैश्च कालोऽतिवर्तते।
एकदा लघुपतनको हिरण्यकमाह—‘सखे, कष्टतरलभ्याहारमिदं स्थानं परित्यज्य स्थानान्तरं गन्तुमिच्छामि।’ हिरण्यको ब्रूते—‘मित्र, क्वगन्तव्यम्। तथा चोक्तम्—
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्।
नाऽसमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्॥१०२॥
वायसो ब्रूते—‘अस्ति सुनिरूपितम्स्थानम्।’ हिरण्यकोऽवदत्—‘किं तत्।’ वायसो ब्रूते— ‘अस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः। तत्र चिरकालोपार्जितः प्रियसुहृन्मे मन्थराभिधानः कच्छपो धार्मिकः प्रतिवसति। यतः—
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्।
धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः॥१०३॥
स च भोजनविशेषैर्मां संवर्धयिष्यति।’ हिरण्यकोऽप्याह—‘तत्किमत्रावस्थाय मया कर्तव्यम्। यतः—
यस्मिन्देशे न संमानो न वृत्तिर्न च बान्धवः।
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत्॥१०४॥
अपरं च।
लोकयात्राऽभयं लज्जा दाक्षिण्यं त्यागशीलता।
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम्॥१०५॥
तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयम्।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी॥१०६॥
ततो मामपि तत्र नय।’ अथ वायसस्तत्र तेन मित्रेण सह विचित्रालापैः सुखेन तस्य सरसः समीपं ययौ। ततो मन्थरो दूरादवलोक्य लघुपतनकस्य यथोचितमातिथ्यं विधाय मूषिकस्यातिथिसत्कारं चकार। यतः—
बालो वा यदि वा वृद्धो युवा वा गृहमागतः।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः॥१०७॥
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः।
पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः॥१०८॥
वायसोऽवदत्—‘सखे मन्थर, सविशेषपूजामस्मै विधेहि। यतोऽयं पुण्यकर्मणां धुरीणः कारुण्यरत्नाकरो हिरण्यकनामा मूषिकराजः। एतस्य गुणस्तुतिं जिह्वासहस्रद्वयेनापि सर्पराजो न कदाचित्कथयितुं समर्थः स्यात्।’ इत्युक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान्। मन्थरः सादरं हिरण्यकं संपूज्याह—‘भद्र, आत्मनो निर्जनवनागमनकारणमाख्यातुमर्हसि।’ हिरण्यकोऽवदत्— ‘कथयामि। श्रूयताम्।
कथा ४।
अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः। तत्र चूडाकर्णो नाम परिव्राट् प्रतिवसति। स च भोजनावशिष्टभिक्षान्नसहितं भिक्षापात्रं नागदन्तकेऽवस्थाप्य स्वपिति। अहं च तदन्नमुत्प्लुत्य प्रत्यहं भक्षयामि। अनन्तरं तस्य प्रियसुहृद्वीणाकर्णो नाम परिव्राजकः समायातः। तेन सह कथाप्रसङ्गावस्थितो मम त्रासार्थं जर्जरवंशखण्डेन चूडाकर्णो भूमिमताडयत्। वीणाकर्ण उवाच— ‘सखे, किमिति मम कथाविरक्तोऽन्यासक्तो भवान्।’ चूडाकर्णेनोक्तम्—‘मित्र, नाहं विरक्तः। किंतु पश्यायं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नमुत्प्लुत्य भक्षयति। वीणाकर्णोनागदन्तकं विलोक्याह—‘कथं मूषिकः स्वल्पबलोऽप्येतावद्दूर-
मुत्पतति। तदत्र केनापि कारणेन भवितव्यम्। तथा चोक्तम्—
अकस्माद्युवती वृद्धं केशेष्वाकृष्य चुम्बति।
पतिं निर्दयमालिङ्ग्य हेतुरत्र भविष्यति॥१०९॥
चूडाकर्णः पृच्छति—‘कथमेतत्।’ वीणाकर्णः कथयति—
कथा ५।
अस्ति गौडीये कौशाम्बी नाम नगरी। तस्यां चन्दनदासनामा वणिग्महाधज्ञो निवसति। तेन पश्चिमे वयसि वर्तमानेन कामाधिष्टितचेतसा धनदल्लीलावती नाम वणिक्पुत्री परिणीता। सा च मकरकेतोर्विजयवैजयन्तीव यौवनवती बभूव। स च वृद्धपतिस्तस्याः संतोषाय नाभवत्। यतः—
शशिनीव हिमार्तानां घर्मार्तानां रवाविव।
मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ॥११०॥
अन्यच्च।
पलितेषु हि दृष्टेषु पुंसः का नाम कामिता।
भैषज्यमिव मन्यन्ते यदन्यमनसः स्त्रियः॥१११॥
स च वृद्धपतिस्तस्यामतीवानुरागवान्। यतः—
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा।
वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी॥११२॥
नोपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ्जरी।
अस्थि निर्देशनः श्वेव जिह्वया लेढि केवलम्॥११३॥
अथ सा लीलावती यौवनदर्पादतिक्रान्तकुलमर्यादा केनापि वणिक्पुत्रेण. सहानुरागवती बभूव। यतः—
स्वातन्त्र्यं पितृमन्दिरे निवसतिर्यात्रोत्सवे संगति-
र्गोष्ठी पूरुषसंनिधावनियमो वासो विदेशे तथा।
संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः
पत्युर्वार्धकमीर्षितं प्रवसनं नाशस्य हेतुः स्त्रियः॥११४॥
अपरं च।
पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम्।
स्वप्नश्चान्यगृहे वासो नारीणां दूषणानि षट्॥११५॥
स्थानं नास्ति क्षणं नास्ति नास्ति प्रार्थयिता नरः।
तेन नारद नारीणां सतीत्वमुपजायते॥११६॥
न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते।
गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम्॥११७॥
अपरं च।
धृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान्।
तस्माद्धृतं च वह्रिंच नैकत्र स्थापयेद्बुधः॥११८॥
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत्।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति॥११९॥
न लज्जा न विनीतत्वं न दाक्षिण्यं न भीरुता।
प्रार्थनाभाव एवैकं सतीत्वे कारणं स्त्रियः॥१२०॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति॥१२१॥
एकदा सा लीलावती रत्नावलीकिरणकर्बुरे पर्यङ्केतेन वणिक्पुत्रेण सह विश्रम्भालापैः सुखासीना तमलक्षितोपस्थितं पतिमवलोक्य सहसोत्थाय केशेष्वाकृष्य गाढमालिङ्ग्य चुम्बितवती। तेनावसरेण जारश्च पलायितः। उक्तं च—
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः।
स्वभावेनैव तच्छास्त्रं स्त्रीबुद्धौ सुप्रतिष्ठितम्॥१२२॥
तदालिङ्गनमवलोक्य समीपवर्तिनी कुट्टन्यचिन्तयत्—‘अकस्मादियमेनमुपगूढवती’ इति। ततस्तया कुट्टन्या तत्कारणं परिज्ञाय सा लीलावती गुप्तेन दण्डिता। अतोऽहं ब्रवीमि— ‘अकस्माद्युवती वृद्धम्’ इत्यादि॥ मूषिकबलोपस्तम्भेन केनापि कारणेनात्र भवितव्यम्।’ क्षणं विचिन्त्य परिव्राजकेनोक्तम्—‘कारणं चात्र धनबाहुल्यमेव भविष्यति। यतः—
धनवान्बलवांल्लोके सर्वः सर्वत्र सर्वदा।
प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते॥१२३॥
ततः खनित्रमादाय तेन विवरं खनित्वा चिरसंचितं मम धनं गृहीतम्। ततः प्रभृति निजशक्तिहीनः सत्त्वोत्साहरहितः स्वाहारमप्युत्पादयितुमक्षमः सत्रासं मन्दं मन्दमुपसर्पंश्चूडाकर्णेनावलोकितः। ततस्तेनोक्तम्—
‘धनेन बलवांल्लोके धनाद्भवति पण्डितः।
पश्यैनं मूषिकं पापं स्वजातिसमतां गतम्॥१२४॥
किं च।
अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा॥१२५॥
अपरं च
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमाल्ँलोके यस्यार्थाः स हि पण्डितः॥१२६॥
अन्यच्च।
अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च।
मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता॥१२७॥
अपि च।
दारिद्यान्मरणाद्वापि दारिद्यमवरं स्मृतम्।
अल्पक्लेशेन मरणं दारिद्र्यमतिदुःसहम्॥१२८॥
अपरं च।
तानीन्द्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव।
अर्थोष्मणा विरहितः पुरुषः स एव
अन्यः क्षणेन भवतीति विचित्रमेतत्॥१२९॥
एतत्सर्वमाकर्ण्य मयालोचितम्—‘ममात्रावस्थानमयुक्तमिदानीम्। यच्चान्यस्मा एतद्वृत्तान्तकथनं तदप्यनुचितम्। यतः—
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत्॥१३०॥
अपि च।
आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम्।
तपो दानापमानं च नव गोप्यानि यत्नतः॥१३१॥
तथा चोक्तम्।
अत्यन्तविमुखे दैवे व्यर्थे यत्नेच पौरुषे।
मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम्॥१३२॥
अन्यच्च।
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति।
अपि निर्वाणमायाति नानलो याति शीतताम्॥१३३॥
किं च।
कुसुमस्तबकस्येव द्वे वृत्ती तु मनस्विनः।
सर्वेषां मूर्ध्नि वा तिष्ठेद्विशीर्येत वनेऽथवा॥१३४॥
यच्चात्रैव याच्ञया जीवनं तदतीवगर्हितम्। यतः—
वरं विभवहीनेन प्राणैः संतर्पितोऽनलः।
नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः॥१३५॥
दारिद्र्याद्ध्रियमेति ह्रीपरिगतः सत्त्वात्परिभ्रश्यते
निःसत्त्वः परिभूयते परिभवान्निर्वेदमापद्यते।
निर्विण्णः शुचमेति शोकनिहतो बुद्ध्या परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम्॥१३६॥
किं च
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं
वरं क्लैव्यं पुंसां न च परकलत्राभिगमनम्।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि-
र्वरं भिक्षाशित्वं न च परधनाखादनसुखम्॥१३७॥
वरं शून्या शाला न च खलु वरो दुष्टवृषभो
वरं वेश्या पत्नी न पुनरविनीता कुलवधूः।
वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे
वरं प्राणत्यागो न पुनरधमानामुपगमः॥१३८॥
अपि च।
सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम्।
हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति॥१३९॥
इति विमृश्य ‘तत्किमहं परपिण्डेनात्मानं पोषयामि। कष्टं भोः। तदपि द्वितीयं मृत्युद्वारम्। यतः—
पल्लवग्राहि पाण्डित्यं क्रयक्रीतं च मैथुनम्।
भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः॥ १४०॥
रोगी चिरप्रवासी परान्नभोजी परावसथशायी।
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः॥ १४१॥
इत्यालोच्यापि लोभात्पुनरप्यर्थं ग्रहीतुं ग्रहमकरवम्। तथा चोक्तम्—
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम्।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः’॥१४२॥
ततोऽहं मन्दं मन्दमुपसर्पस्तेन वीणाकर्णेन जर्जरवंशखण्डेन ताडितश्चाचिन्तयम्—
‘धनलुब्धो ह्यसंतुष्टोऽनियतात्माऽजितेन्द्रियः।
सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम्॥ १४३॥
तथा च।
सर्वाः संपत्तयस्तस्य संतुष्टं यस्य मानसम्।
उपानद्गृढपादस्य ननु चर्मावृतेव भूः॥१४४॥
अपरं च।
संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम्।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्॥१४५॥
किं च।
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्।
येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम्॥१४६॥
अपि च।
असेवितेश्वरद्वारमदृष्टविरहव्यथम्।
अनुक्तक्लीववचनं धन्यं कस्यापि जीवनम्॥ १४७॥
यतः।
न योजनशतं दूरं बाध्यमानस्य तृष्णया।
संतुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः॥१४८॥
तदत्रावस्थोचितकार्यपरिच्छेदः श्रेयान्।
को धर्मो भूतदया किं सौख्यमरोगिता जगति जन्तोः।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः॥१४९॥
तथा च।
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः
।
अपरिच्छेदकर्तॄणां विपदः स्युः पदे पदे॥१५०॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत्॥१५१॥
अपरं च।
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम्।
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः॥१५२॥
इत्यालोच्याहं निर्जनवनमागतः। यतः—
वरं वनं व्याघ्रगजेन्द्रसेवितं
द्रुमालयं पक्कफलाम्बुभोजनम्।
तृणानि शय्या परिधानवल्कलं
न बन्धुमध्ये धनहीनजीवनम्॥१५३॥
ततोऽस्मत्पुण्योदयादनेन मित्रेणाहं स्नेहानुवृत्त्यानुगृहीतः। अधुना च पुण्यपरम्परया भवदाश्रयः स्वर्ग एव मया प्राप्तः। यतः—
संसारविषवृक्षस्य द्वे एव रसवत्फले।
काव्यामृतरसास्वादः संगमः सुजनैः सह॥१५४॥
मन्थर उवाच—
अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनं
आयुष्यं जललोलबिन्दुचपलं फेनोपमं जीवितम्।
धर्मं यो न करोति निन्दितमतिः स्वर्गार्गलोद्धाटनं
पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते॥१५५॥
युष्माभिरतिसंचयः कृतस्तस्यायं दोषः। शृणु—
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तडागोदरसंस्थानां परवाह इवाम्भसाम्॥१५६॥
अन्यच्च।
यदधोऽधः क्षितौ वित्तं निचस्वान मितंपचः।
तदधोनिलयं गन्तुं चक्रे पन्थानमग्रतः॥१५७॥
अन्यच्च।
निजसौख्यं निरुन्धानो यो धनार्जनमिच्छति।
परार्थभारवाहीव क्लेशस्यैव हि भाजनम्॥१५८॥
अपरं च।
दानोपभोगहीनेन धनेन धनिनो यदि।
भवामः किं न तेनैव धनेन धनिनो वयम्॥१५९॥
अन्यच्च।
न देवाय न विप्राय न बन्धुभ्यो न चात्मने।
कृपणस्य धनं याति वह्नितस्करपार्थिवैः॥१६०॥
अपि च।
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति॥१६१॥
अन्यच्च।
असंभोगेन सामान्यं कृपणस्य धनं परैः।
अस्येदमिति संबन्धो हानौ दुःखेन गम्यते॥१६२॥
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम्।
वितं त्यागनियुक्तं दुर्लभमेतच्चतुष्टयं लोके॥१६३॥
उक्तं च।
कर्तव्यः संचयो नित्यं कर्तव्यो नातिसंचयः।
पश्य संचयशीलोऽसौ धनुषा जम्बुको हतः’॥१६४॥
तावाहतुः—‘कथमेतत्।’ मन्थरः कथयति—
कथा ६।
आसीत्कल्याणकटकवास्तव्यो भैरवो नाम व्याधः। स चैकदा मृगमन्विष्यमाणो विन्ध्याटवीं गतवान्। ततस्तेन व्यापादितं मृगमादाय गच्छता घोराकृतिः शूकरोदृष्टः। तेन व्याधेन मृगं भूमौ निधाय शूकरः शरेणाहतः। शुकरेणापि घनघोरगर्जनं कृत्वा स व्याधो मुष्कदेशे हतः संश्छिन्नदुम इव भूमौ निपपात। यतः—
जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः।
निमित्तं किंचिदासाद्यदेही प्राणैर्विमुच्यते॥१६५॥
अथ तयोः पादास्फालनेन सर्पोऽपि मृतः। अथानन्तरं दीर्घरावो नाम जम्बुकः परिभ्रमन्नाहारार्थी नान्मृतान्मृगव्याधसर्पशूकरानपश्यत्। अचिन्तयच्च—‘अहो, अद्य महद्भोज्यं मे समुपस्थितम्। अथवा—
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम्।
सुखान्यपि तथा मन्ये देवमत्रातिरिच्यते॥१६६॥
तद्भवतु। एषां मांसैर्मासत्रयं मे सुखेन गमिष्यति।
मासमेकं नरो याति द्वौमामौ मृगशूकरौ।
अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः॥१६७॥
ततः प्रथमबुभुक्षायामिदं निःस्वादु कोदण्डलग्नंस्नायुबन्धनं खादामि इत्युक्त्वा तथा कृते सति छिन्ने स्रायुबन्धन उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः। अतोऽहं ब्रवीमि—‘कर्तव्यः संचयो नित्यम्’ इत्यादि॥ तथा च—
यद्ददाति यदश्नाति तदेव धनिनो धनम्।
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि॥१६८॥
किं च।
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने।
तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि॥ १६९॥
यातु। किमिदानीमतिक्रान्तोपवर्णनेन। यतः।
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्।
आपत्स्वपि न मुह्यन्ति नराः पण्डितबुद्धयः॥१७०॥
तत्सखे, सर्पदा त्वया सोत्साहेन भवितव्यम्। यतः—
शास्त्राण्यधीत्यापि भवन्ति मूर्खा
यस्तु क्रियावान्पुरुषः स विद्वान्।
सुचिन्तितं चौषधमातुराणां
न नाममात्रेण करोत्यरोगम्॥१७१॥
अन्यच्च।
न स्वल्पमप्यध्यवसायभीरोः
करोति विज्ञानविधिर्गुणं हि।
अन्धस्य किं हस्ततलस्थितोऽपि
प्रकाशयत्यर्थमिह प्रदीपः॥१७२॥
तदत्र सखे, दशाविशेषे शान्तिः करणीया। एतदप्यतिकष्टं त्वया न मन्तव्यम्। यतः—
राजा कुलवधूर्विप्रा मन्त्रिणश्च पयोधराः।
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः॥१७३॥
इति विज्ञाय मतिमान्स्वस्थानं न परित्यजेत्। कापुरुषवचनमेतत्यतः—
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः॥१७४॥
को वीरस्य मनस्विनः स्वविषयःको वा विदेशस्तथा
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम्।
यद्दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्यात्मनः॥१७५॥
अपरं च।
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः।
सोद्योगं नरमायान्ति विवशाः सर्वसंपदः॥१७६॥
अन्यच्च।
सुखमापतितं सेन्यं दुःखमापतितं तथा।
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च॥१७७॥
अन्यच्च।
उत्साहसंपन्नमदीर्घसूत्रं
क्रियाविधिज्ञं व्यसनेष्वसक्तम्।
शूरं कृतज्ञं दृढसौहृदं च
लक्ष्मीः स्वयं याति निवासहेतोः॥१७८॥
विशेषतश्च।
विनाप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं
समायुक्तोऽप्यर्थैः परिभवपदं याति कृपणः।
स्वभावादुद्भूतां गुणसमुदयावाप्तिविषयां
द्युतिं सैंहीं किं श्वा धृतकनकमालोऽपि लभते॥१७९॥
धनवानिति हि मदो मे किं गतविभवो विषादमुपयामि।
करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम्॥१८०॥
अपरं च।
अभ्रच्छाया स्वलप्रीतिर्नवसस्यानि योषितः।
किंचित्कालोपभोग्यानि यौवनानि धनानि च॥१८१॥
वृत्त्यर्थं नातिचेष्टेत सा हि धात्रैव निर्मिता।
गर्भादुत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ॥१८२॥
अपि च सखे,
येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः।
मयूराश्चित्रिता येन स तं वृत्तिं विधास्यति॥१८३॥
अपरं च। सतां रहस्यं शृणु मित्र,
जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु।
मोहयन्ति च संपत्तौ कथमर्थासुखावहाः॥१८४॥
अपरं च
धर्मार्थं यस्य वित्तेहा वरं तस्यनिरीहता।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्॥१८५॥
यतः—
यथा ह्यामिषमाकाशे पक्षिभिः पदैर्भुवि।
भक्ष्यते सलिले नक्रैस्तथा सर्वत्र वित्तवान्॥१८६॥
राजतः सलिलादग्नेश्वोरतः स्वजनादपि।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥१८७॥
तथा हि।
जन्मनि क्लेशबहुले किं नु दुःखमतः परम्।
इच्छा संपद्यतो नास्ति यच्चेच्छा न निवर्तते॥१८८॥
अन्यच्च भ्रातः शृणु।
धनं तावदसुलभं लब्धं कृच्छ्रेण रक्ष्यते।
लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत्॥१८९॥
तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः।
तस्याश्चेत्प्रसरो दत्तो दास्यंचशिरसि स्थितम्॥१९०॥
अपरं च।
यद्यदेव हि वाञ्छेत ततोबाच्छा प्रवर्तते।
प्राप्त एवार्थतः सोऽश्वोयतो वाञ्छानिवर्तते॥१९१॥
किं बहुना मम पक्षपातेन। मयैव सदात्रकालो नीयताम्। यतः
आमरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गुराः।
परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम्॥१९२॥
इति श्रुत्वा लघुपतनको ब्रूते—‘धन्योऽसि मन्थर, सर्वथा श्लाघ्यगुणोऽसि। यतः—
सन्त एव सतां नित्यमापदुद्धरणक्षमाः।
गजानां पङ्कमग्नानां गजा एव धुरंधराः॥१९३॥
श्लाघ्यः स एको भुवि मानवानां
स उत्तमः सत्पुरुषः स धन्यः।
यस्यार्थिनो वा शरणागता वा
नाशाभिभङ्गाद्विमुखाः प्रयान्ति॥१९४॥
तदेवं ते स्वेच्छाहारविहारं कुर्वाणाः संतुष्टाः सुखं निवसन्ति।
अथ कदाचिच्चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः। ततः पश्चादायान्तं मृगमवलोक्य भयं संचिन्त्य मन्थरो जलं प्रविष्टः। मूषिकश्च विवरं गतः। काकोऽप्युड्डीय वृक्षमारूढः। ततो लघुपतनकेन सुदूरं निरुप्य भयहेतुर्न कोऽप्यायातीत्यालोचितम्। पश्चात्तद्वचनादागत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः। मन्थरेणोक्तम्—‘भद्रम्। मृग स्वागतम्। स्वेच्छयोदकाद्याहारो- ऽनुभूयताम्। अत्रावस्थानेन वनमिदं सनार्थाक्रियताम्।’ चित्राङ्गो ब्रूते—‘लुब्धकत्रासितोऽहं भवतां शरणमागतः। भवद्भिः सह सख्यमिच्छामि।’ हिरण्यकोऽवदन—‘मित्रत्वं तावदस्माभिः सह भवताऽयत्नेन मिलितम्। यतः—
औरसं कृतसंबन्धं तथा वंशक्रमागतम्।
रक्षितं व्यसनेभ्यश्च मित्र ज्ञेयं चतुर्विधम्॥१९५॥
तदत्र भवता स्वगृहनिर्विशेषं स्थीयताम्। तच्छ्रुत्वा मृगः सानन्दो भूत्वा स्वेच्छाहारं कृत्वा पानीयं पीत्वा जलासन्नतरुच्छायायामुपविष्टः। अथ मन्थरेणोक्तम्—सखे मृग, एतस्मिन्निर्जने वने केन
त्रासितोऽसि। कदाचित्किं व्याधाः संचरन्ति।’ मृगेणोक्तम्—‘अस्ति कलिङ्गविषये रुक्माङ्गदो नाम नरपतिः। स च दिग्विजयव्यापारक्रमेणागत्य चन्द्रभागानदीतीरे समावासितकटको वर्तते। प्रातश्च तेनात्रागत्य कर्पूरसरःसमीपे भवितव्यमिति व्याधानां मुखात्किंवदन्ती श्रूयते। तदत्रापि प्रातरवस्थानं भयहेतुकमित्यालोच्य यथावसरकार्यमारभ्यताम्।’ तच्छ्रुत्वा कूर्मः सभयमाह—‘जलाशयान्तरं गच्छामि।’ काकमृगावप्युक्तवन्तौ—‘एवमस्तु।’ ततो हिरण्यको विहस्याह—‘जलाशयान्तरे प्राप्ते मन्थरस्य कुशलम्। स्थले गच्छतः कः प्रतीकारः। यतः—
अम्भांसि जलजन्तूनां दुर्गं दुर्गनिवासिनाम्।
स्वभूमिः श्वापदादीनां राज्ञां मन्त्री परं बलम्॥१९६॥
सखे लघुपतनक, अनेनोपदेशेन तथा भवितव्यम्।
स्वयं वीक्ष्य यथा वध्वाः पीडितं कुचकुण्डलम्।
वणिक्पुत्रोऽभवद्दुःखी त्वं तथैव भविष्यसि’॥१९७॥
त ऊचुः—‘कथमेतत्’। हिरण्यकः कथयति—
कथा ७।
अस्ति कान्यकुब्जविषये वीरसेनो नाम राजा। तेन वीरपुरनाम्निनगरे तुङ्गबलो नाम राजपुत्रो भोगपतिः कृतः। स च महाधनस्तरुण एकदा स्वनगरे भ्राम्यन्नतिप्रौढयौवनां लावण्यवतीं नाम वणिक्पुत्रवधूमालोकयामास। ततः स्वहर्म्यं गत्वा स्मराकुलमतिस्तस्याः कृते दूतीं प्रेषितवान्। यतः—
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति॥ १९८॥
सापि लावण्यवती तदवलोकनक्षणात्प्रभृति स्मरशरप्रहारजर्जरितद्द्रुदया तदेकचित्ताभवत्। तथा ह्युक्तम्मू—
असत्यं साहसं माया मात्सर्यं चातिलुब्धता।
निर्गुणत्वमशौचत्वं स्त्रीणां दोषाः स्वभावजाः॥१९९॥
अथ दूतीवचनं श्रुत्वा लावण्यवत्युवाच—‘अहं पतिव्रता कथमेतस्मिन्नधर्मे पतिलङ्घने प्रवर्ते। यतः—
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता॥२००॥
न सा भार्येति वक्तव्या यस्या भर्ता न तुष्यति।
तुष्टे भर्तरि नारीणां संतुष्टाः सर्वदेवताः॥२०९॥
ततो यद्यदादिशति मे प्राणेश्वरस्तदेवाहमविचारितं करोमि।’ दूत्योक्तम्—‘सत्यतममेतत्।’ लावण्यवत्युवाच—‘ध्रुवं सत्यमेतत्।’ ततो दूतिकयां गत्वा तत्तत्सर्वं तुङ्गबलस्याग्रे निवेदितम्। तच्छ्रुत्वा तुङ्गबलोऽब्रवीत्—‘स्वामिनानीय समर्पयितव्येति कथमेतच्छक्यम्।’ कुट्टन्याह—‘उपायः क्रियताम्। तथा चोक्तम्—
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः।
शृगालेन हतो हस्ती गच्छता पङ्कवर्त्मना॥२०२॥
राजपुत्रः पृच्छति—‘कथमेतत्।’ सा कथयति—
कथा ८।
अस्ति ब्रह्मारण्ये कर्पूरतिलको नाम हस्ती। तमवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म—‘यद्ययं केनाप्युपायेन म्रियते तदास्माकमेतद्देहेन मासचतुष्टयस्य भोजनं भविष्यति।’ तत्रैकेन वृद्धशृगालेन प्रतिज्ञातम्—‘मया बुद्धिप्रभावादस्य मरणं साधयितव्यम्।’ अनन्तरं स वञ्चकः कर्पूरतिलकसमीपं गत्वा साष्टाङ्गपातं प्रणम्योवाच—‘देव, दृष्टिप्रसादं कुरु।’ हस्ती ब्रूते—‘कस्त्वम्। कुतः समायातः।’ सोऽवदत्— ‘जम्बुकोऽहम्। सर्वैर्वनवासिभिः पशुभि -
र्मिलित्वा भवत्सकाशं प्रस्थापितः। यद्विना राज्ञावस्थातुं न युक्तं तदत्राटवीराज्येऽभिषेक्तुं भवान्सर्वखामिगुणोपेतो निरूपितः। यतः—
यः कुलाभिजनाचारैरतिशुद्धः प्रतापवान्।
धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि॥२०३॥
अपरं च पश्य।
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्।
राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम्॥२०४॥
अन्यच्च।
पर्जन्य इव भूतानामाधारः पृथिवीपतिः।
विकलेऽपि हि पर्जन्ये जीव्यते न तु भृपतौ॥२०५॥
नियतविषयवर्ती प्रायशो दण्डयोगा-
ज्जगति परवशेऽस्मिन्दुर्लभः साधुवृत्तः।
कृशमपि विकलं वा व्याधितं वाऽधनं वा
पतिमपि कुलनारी दण्डभीत्याभ्युपैति॥२०६॥
तद्यथा लग्नवेला न विचलति तथा कृत्वा सत्वरमागम्यतां देवेन।’ इत्युक्त्वोत्थाय चलितः। ततोऽसौ राज्यलोभाकृष्टः कर्पूरतिलकः शृगालवर्त्मना धावन्महापङ्के निमग्नः। ततस्तेन हस्तिनोक्तम्—‘सखे शृगाल, किमधुना विधेयम्। पङ्के निपतितोऽहं म्रिये। परावृत्य पश्य।’ शृगालेन विहस्योक्तम्—‘देव, मम पुच्छकावलम्बनं कृत्वोत्तिष्ठ। यन्मद्विधस्य वचसि त्वया प्रत्ययः कृतस्तदनुभूयतामशरणं दुःखम्। तथा चोक्तम्—
यदाऽसत्सङ्गरहितो भविष्यसि भविष्यसि।
तदाऽसज्जनगोष्ठीषु प्रतिष्यसि पतिष्यसि॥२०७॥
ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षितः। अतोऽहं ब्रवीमि—‘उपायेन हि यच्छक्यम्’ इत्यादि॥ततः कुट्टन्युपदेशेन तं चारुदत्त-
नामानं वणिक्पुत्रं स राजपुत्रः सेवकं चकार। ततोऽसौ तेन सर्वविश्वासकार्येषु नियोजितः।
एकदा तेन राजपुत्रेण स्रातानुलिप्तेन कनकरत्नालंकारधारिणा प्रोक्तम्—‘अद्यारभ्य मासमेकं गौरीव्रतंकर्तव्यम्। तदत्र प्रतिरात्रमेकां कुलीनां युवतीमानीय समर्पय। सा मया यथोचितेन विधिना पूजयितव्या।’ ततः स चारुदत्तस्तथाविधां नवयुवतीमानीय समर्पयति। पश्चात्प्रच्छन्नः सन्किमयं करोतीति निरूपयति। स च तुङ्गबलस्तां युवतीमस्पृशन्नेव दूराद्वस्त्रालंकारगन्धचन्दनैः संपूज्य रक्षकं दत्त्वा प्रस्थापयति। अथ वणिक्पुत्रेण तद्दृष्ट्वोपजातविश्वासेनलोभाकृष्टमनसा स्ववधूर्ला- वण्यवतींसमानीय समर्पिता। स च तुङ्गबलस्तां हृदयप्रियां लावण्यवतीं विज्ञाय ससंभ्रममुत्थाय निर्भरमालिङ्ग्यनिमीलिताक्षः पर्यङ्के तया सह विललास। तदालोक्य वणिक्पुत्रश्चित्रलिखित इवेतिकर्तव्यतामूढः परं विषादमुपगतः। अतोऽहं ब्रवीमि—‘स्वयं वीक्ष्य’ इत्यादि॥तथा त्वयापि भवितव्यम्’ इति। तद्धितवचनमवधीर्य महता भयेन विमुग्ध इव तं जलाशयमुत्सृज्य मन्थरश्चलितः। तेऽपि हिरण्यकादयः स्नेहादनिष्टं शङ्कमाना मन्थरमनुगच्छन्ति। ततः स्थले गच्छन्केनापि व्याधेन काननं पर्यटता मन्थरः प्राप्तः। प्राप्य तं गृहीत्वोत्थाप्य धनुषि बद्ध्वाभ्रमन्क्लेशात्क्षुत्पिपासाकुलः स्वगृहाभिमुखं चलितः। अथ मृगवायसमूषिकाः परं विषादं गच्छन्तस्तमनुजग्मुः। ततो हिरण्यको विलपति—
एकस्य दुःखस्य न यावदन्तं
गच्छाम्यहं पारमिवार्णवस्य।
तावद्वितीयं समुपस्थितं मे
छिद्रेष्वनर्था बहुलीभवन्ति॥२०८॥
स्वाभाविकं तु यन्मित्रं भाग्येनैवाभिजायते।
तदकृत्रिमसौहार्दमापत्स्वापि न मुञ्चति॥२०९॥
न मातरि न दारेषु न सोदर्ये न चात्मजे।
विश्वासस्तादृशः पुंसां यादृपित्रे स्वभावजे’॥२१०॥
इति मुहुर्विचिन्त्य ‘अहो दुर्दैवम्। यतः—
स्वकर्मसंतानविचेष्टितानि
कालान्तरावर्तिशुभाशुभानि।
इहैव दृष्टानि मयैव तानि
जन्मान्तराणीव दशान्तराणि॥२१९॥
अथवेत्थमेवैतत्—
कायः संनिहितापायः संपदः पदमापदाम्।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम्॥२१२॥
पुनर्विमृश्याह—
‘शोकारातिभयत्राणं प्रीतिविश्रम्भभाजनम्।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम्॥२१३॥
किं च।
मित्र प्रीतिरसायनं नयनयोरानन्दनं चेतसः
पात्रं यत्सुखदुःखयोः सह भवेन्मत्रेण तद्दुर्लभम्।
ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुला-
स्ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत्’॥२१४॥
इति बहु विलप्य हिरण्यकश्चित्राङ्गलघुपतनकावाह—‘यावदयं व्याधो वनान्न निःसरति तावन्मन्थरं मोचयितुं यत्नः क्रियताम्। तावूचतुः—‘सत्वरं कार्यमुच्यताम्।’ हिरण्यको ब्रुते—‘चित्राङ्गो जलसमीपं गत्वा मृतमिवात्मानं दर्शयतु। काकश्च तस्योपरि स्थित्वाचञ्च्चाकिमपि विलिखतु। नूनमनेन लुब्धकेन तत्र कच्छपं परित्यज्य मृगमांसार्थिना सत्वरं गन्तव्यम्। ततोऽहं मन्थरस्य बन्धनं छेत्स्यामि। संनिहिते लुब्धके भवद्भ्यांपलायितव्यम्।’
चित्राङ्गलघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः श्रान्तः पानीयं पीत्वा तरोरधस्तादुपविष्टस्तथाविधं मृगमपश्यत्। ततः कर्तरिकामादाय प्रहृष्टमना मृगान्तिकं चलितः। तत्रान्तरे हिरण्यकेनागत्य मन्थरस्य बन्धनं छिन्नम्। स कूर्मः सत्वरं जलाशयं प्रविवेश। स मृग आसन्नं तं व्याधं विलोक्योत्थाय पलायितः। प्रत्यावृत्य लुब्धको यावत्तरुतलमायाति तावत्कूर्ममपश्यन्नचिन्तयत्— ‘
उचितमेवैतन्ममासमीक्ष्यकारिणः। यतः—
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि॥२१५॥
ततोऽसौ स्वकर्मवशान्निराशः कटकं प्रविष्टः। मन्थरादयः सर्वे त्यक्तापदः स्वस्थानं गत्वा यथासुखमास्थिताः॥
अथ राजपुत्रैः सानन्दमुक्तम्—‘सर्वे श्रुतवन्तः सुखिनो वयम्। सिद्धं नः समीहितम्।’ विष्णुशर्मोवाच—‘एतावता भवतामभिलषितं संपन्नम्। अपरमपीदमस्तु—
मित्रं प्राप्नुत सज्जना जनपदैर्लक्ष्मीः समालम्ब्यतां
भूपालाः परिपालयन्तु वसुधां शश्वत्स्वधर्मे स्थिताः।
आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः
कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्धचूडामणिः॥२१६॥
इति हितोपदेशे मित्रलाभो नाम प्रथमः कथासंग्रहः समाप्तः।
<MISSING_FIG href="../books_images/U-IMG-1721024198Screenshot2024-07-15114627.png"/>
सुहृद्भेदः।
अथ राजपुत्रा ऊचुः—‘आर्य, मित्रलाभः श्रुतस्तावदस्माभिः। इदानीं सुहृद्भेदं श्रोतुमिच्छामः।’ विष्णुशर्मोवाच—‘सुहृद्भेदं तावच्छृणुत, यस्यायमाद्यः श्लोकः—
वर्धमानो महास्त्रेहो मृगेन्द्रवृषयोर्वने।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः॥१॥
राजपुत्रैरुक्तम्—‘कथमेतत्।’ विष्णुशर्मा कथयति—
‘अस्ति दक्षिणापथे सुवर्णवती नाम नगरी। तत्र वर्धमानो नाम वणिग्निवसति। तस्य प्रचुरेऽपि वित्तेऽपरान्बन्धूनतिसमृद्धान्समीक्ष्य पुनरर्थवृद्धिः करणीयेति मतिर्बभूव। यतः—
अधोऽधः पश्यतः कस्य महिमा नोपचीयते।
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति॥२॥
अपरं च।
ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम्।
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते॥३॥
अन्यच्च।
अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीनम्।
प्रमदेव हि वृद्धपतिं नेच्छत्युपगूहितुं लक्ष्मीः॥४॥
किं च।
आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम्।
संतोषो भीरुत्वं षड् व्याघाता महत्त्वस्य॥५॥
यतः—
संपदा सुस्थितंमन्यो भवति स्वल्पयापि यः।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम्॥६॥
अपरं च।
निरुत्साहं निरानन्दं निर्वार्यमरिनन्दनम्।
मा स्म ‘सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम्॥७॥
तथा चोक्तम्—
अलब्धं चैव लिप्सेत लब्धं रक्षेदवक्षयात्।
रक्षितं वर्धयेत्सम्यग्वृद्धं तीर्थेषु निक्षिपेत्॥८॥
यतोऽलब्धमिच्छतोऽर्थयोगादर्थस्य प्राप्तिरेव। लब्धस्याप्यरक्षितस्य निधेरपि स्वयं विनाशः। अपि च। अवर्धमानश्चार्थः काले स्वल्पव्ययोऽप्यञ्जनवत्क्षयमेति। अनुपभुज्यमानश्च निष्प्रयोजन एव सः।
तथा चोक्तम्—
धनेन किं यो न ददाति नाश्नुते
बलेन किं यश्च रिपून्न बाधते।
श्रुतेन किं यो न च धर्ममाचरे–
त्किमात्मना यो न जितेन्द्रियो भवेत्॥९॥
यतः—
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥१०॥
दानोपभोगरहिता दिवसा यस्य यान्ति वै
स कर्मकारभस्त्रेव श्वसन्नपि न जीवति॥ ११॥
इति संचिन्त्य नन्दकसंजीवकनामानौ वृषभौ धुरि नियोज्य शकटं नानाविधद्रव्यपूर्णं कृत्वा वाणिज्येन गतः काश्मीरं प्रति।
अन्यच्च।
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च संचयम्।
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु॥१२॥
यतः—
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम्।
को विदेशः सविद्यानां कः परः प्रियवादिनाम्॥१३॥
अथ गच्छतस्तस्य सुदुर्गनाम्नि महारण्ये संजीवको भग्नजानुर्निपतितः। तमालोक्य वर्धमानोऽचिन्तयत्—
करोतु नाम नीतिज्ञो व्यवसायमितस्ततः।
फलं पुनस्तदेवास्य यद्विधेर्मनसि स्थितम्॥१४॥
किं तु।
विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम्।
तस्माद्विस्मयमुत्सृज्य साध्ये सिद्धिर्विधीयताम्॥१५॥
इति संचिन्त्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायमन्यं वृषभमेकं समानीय धुरि नियोज्य चलितः। ततः संजीवकोऽपि कथंकथमपि खुरत्रये भरं कृत्वोत्थितः। यतः—
निमग्नस्य पयोराशौ पर्वतात्पतितस्य च।
तक्षकेणापि दष्टस्य आयुर्मर्माणि रक्षति॥१६॥
नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि।
कुशाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति॥१७॥
अरक्षितं तिष्ठति दैवरक्षितं
सुरक्षितं दैवहतं विनश्यति।
जीवत्यनाथोऽपि वने विसर्जितः
कृतप्रयत्नोऽपि गृहे न जीवति॥१८॥
ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहारविहारं कृत्वारण्यं भ्राम्यन्हृष्टपुष्टाङ्गो बलवन्ननाद। तस्मिन्वने पिङ्गलकनामा सिंहः स्वभुजोपार्जितराज्यसुखमनुभवन्निवसति। तथा चोक्तम्—
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः।
विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता॥१९॥
स चैकदा पिपासाकुलितः पानीयं पातुं यमुनाकच्छमगच्छत्। तेन च तत्र सिंहेनाननुभूतपूर्वकम- कालघनगर्जितमिव संजीवकनर्दितमश्रावि। तच्छ्रुत्वा पानीयमपीत्वा स चकितः परिवृत्य स्वस्थानमागत्य किमिदमित्यालोचयंस्तूष्णीं स्थितः। स च तथाविधःकरटकदमनकाभ्यामस्य मन्त्रिपुत्राभ्यां शृगालाभ्यां दृष्टः। तं तथाविधं दृष्ट्वां दमनकः करटकमाह— ‘सखे करटक, किमित्यय-
मुदकार्थीं स्वामी पानीयमपीत्वा सचकितो मन्दं मन्दमवतिष्ठते।’ करटको ब्रूते—‘मित्र दमनक, अस्मन्मतेनास्य सेवैव न क्रियते। यदि तथा भवति तर्हि किमनेन स्वामिचेष्टानिरूपणेनास्माकम्। यतोऽनेन राज्ञा विनापराधेन चिरमवधीरिताभ्यामावाभ्यां महद्दुःखमनुभूतम्।
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम्।
स्वातन्त्र्यंयच्छरीरस्य मूढैस्तदपि हारितम्॥२०॥ .
अपरं च।
शीतवातातपक्लेशान्सहन्ते यान्पराश्रिताः।
तदंशेनापि मेधावी तपस्तप्त्वा सुखी भवेत्॥२१॥
अन्यच्च।
एतावज्जन्मसाफल्यं यदनायत्तवृत्तिता।
ये पराधीनतां यातास्ते वै जीवन्ति के मृताः॥२२॥
अपरं च।
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः॥२३॥
किं च।
अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम्।
आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः॥२४॥
किं च।
या प्रकृत्यैव चपला निपतत्यशुचावपि।
स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः॥२५॥
अपरं च।
मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः।
धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥२६॥
विशेषतश्च।
प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान्।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः॥२७॥
दमनको ब्रूते—‘मित्र, सर्वथा मनसापि नैतत्कर्तव्यम्। यतः—
कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः।
अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान्॥२८॥
अन्यच्च पृश्य—
कुतः सेवाविहीनानां चामरोद्धूतसंपदेः।
उद्दण्डधवलच्छत्रं वाजिवारणवाहिनी॥२९॥
करटको ब्रूते— ‘तथापि किमनेनास्माकं व्यापारेण। यतोऽव्यापारेषु व्यापारः सर्वथा परिहरणीयः। पश्य—
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति।
स भूमौ निहतः शेते कीलोत्पाटीव वानरः॥२०॥
दमनकः पृच्छति— ‘कथमेतत्।’ करटकः कथयति—
कथा १।
अस्ति मगधदेशे धर्मारण्यसंनिहितवसुधायां शुभदत्तनाम्ना कायस्थेन विहारः कर्तुमारब्धः। तत्र करपत्रदार्यमाणैकस्तम्भस्य कियद्दूरस्फाटितस्य काष्ठखण्डद्वयमध्ये कीलकः सूत्रधारेण निहितः। तत्र बलवान्वानरयूथः क्रीडन्नागतः। एको वानरः कालप्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टः। तत्र तस्य मुष्कद्वयं लम्बमानं काष्ठखण्डद्वयाभ्यन्तरे प्रविष्टम्। अनन्तरं स च सहजचपलतया महता प्रयत्नेन तं कीलकमाकृष्टवान्। आकृष्टे च कीलके चूर्णिताण्डद्वयः पञ्चत्वं गतः। अतोऽहं ब्रवीमि— ‘अव्यापारेषु व्यापारम्इत्यादि॥ दमनको ब्रूते— ‘तथापि स्वामिचेष्टानिरूपणं सेवकेनावश्यं करणीयम्।’ करटको ब्रूते— ‘सर्वस्मिन्नधिकारे य एव नियुक्तः प्रधानमन्त्री स करोतु। यतोऽनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्या। पश्य-
पराधिकारचर्चां यः कुर्यात्स्वामिहितेच्छया।
स विपीदति चीत्काराद्गर्दभस्ताडितो यथा’॥३१॥
दमनकः पृच्छति— ‘कथमेतत्।’ करटको ब्रूते—
कथा २।
अस्ति वाराणस्यां कर्पूरपटको नाम रजकः। स चाभिनववयम्कया वध्वा सह चिरं निधुवनं कृत्वा निर्भरमालिङ्ग्य प्रसुप्तः। तदनन्तरं तद्गृहद्रव्याणि हर्तुं चौरः प्रविष्टः। तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति। कुक्कुरश्चोपविष्टोऽस्ति। अथ गर्दभः श्वानमाह— ‘सखे, भवतस्तावदयं व्यापारः। तत्किमिति त्वमुचैः शब्दं कृत्वा स्वामिनं न जागरयसि।’ कुक्कुरो ब्रूते— ‘भद्र, मम नियोगस्य चर्चा त्वया न कर्तव्या। त्वमेव किं न जानासि यथा तस्याहर्निशं गृहरक्षां करोमि। यतोऽयं चिरान्निर्वृतो ममोपयोगं न जानाति। तेनाधुनापि ममाहारदाने मन्दादरः। यतो विना विधुरदर्शनं खामिन उपजीविषु मन्दादरा भवन्ति।’ गर्दभो ब्रूते— ‘शृणु रे बर्बर,
याचते कार्यकाले यः स किंभृत्यः स किंसुहृत्।’
कुक्कुरो ब्रूते—
‘भृत्यान्संभाषयेद्यस्तुकार्यकाले स किंप्रभुः॥३२॥
यतः—
आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने।
पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः’॥३३॥
ततो गर्दभः सकोपमाह— ‘अरे दुष्टमते, पापीयांस्त्वं यद्विपत्तौ स्वामिकार्य उपेक्षां करोषि। भवतु तावत्। यथा स्वामी जागरिष्यति तन्मया कर्तव्यम्। यतः—
पृष्ठतः सेवयेदर्कं जठरेण हुताशनम्।
स्वामिनं सर्वभावेन परलोकममायया॥३४॥
इत्युक्त्वातीव चीत्कारशब्दं कृतवान्। ततः स रजकस्तेन चीत्का-
रेण प्रबुद्धो निद्राभङ्गकोपादुत्थाय गर्दभं लगुडेन ताडयामास। तेनासौ पञ्चत्वमगमत्। अतोऽहं ब्रवीमि—‘पराधिकारचर्चाम्’ इत्यादि॥ पश्य। पशूनामन्वेषणमेवास्मन्नियोगः। स्वनियोगचर्चा क्रियताम्। (विमृश्य।) ‘किंत्वद्य तया चर्चया न प्रयोजनम्। यत आवयोर्भक्षितशेषाहारः प्रचुरोऽस्ति।’ दमनकः सरोपमाह—‘कथमाहारार्थी भवान्केवलं राजानं सेवते। एतदयुक्तमुक्तं त्वया। यतः—
सुहृदामुपकारकारणा-
द्विषतामप्यपकारकारणात्।
नृपसंश्रय इप्यते बुधै-
र्जटरं को न बिभर्ति केवलम्॥३५॥
जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः।
सफलं जीवितं तस्य आत्मार्थे को न जीवति॥३६॥
अपि च।
यस्मिञ्जीवति जीवन्ति बहवः स तु जीवतु।
काकोऽपि किं न कुरुते चञ्च्चा खोदरपूरणम्॥३७॥
पश्य—
पञ्चभिर्याति दासत्वं पुराणैः कोऽपि मानवः।
कोऽपि लक्षैः कृती कोऽपि लक्षैरपि न लभ्यते॥३८॥
अन्यच्च।
मनुष्यजातौ तुल्यायां भृत्यत्वमतिगर्हितम्।
प्रथमो यो न तत्रापि स किं जीवत्सु गण्यते॥३९॥
तथा चोक्तम्—
वाजिवारणलोहानां काष्ठपाषाणवाससाम्।
नारीपुरुषतोयानामन्तरं महदन्तरम्॥४०॥
तथाहि। स्वल्पमप्यतिरिच्यते।
स्वरूपस्नायुवसावशेषमलिनं निर्मांसमप्यस्थिकं
श्वा लब्ध्वा परितोषमेति न भवेत्तस्य क्षुधः शान्तये।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विषं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम्॥४१॥
अपरं च सेव्यसेवकयोरन्तरं पश्य—
लाङ्गूलचालनमघश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च।
श्वा पिण्डदस्य कुरुते गजपुंगवस्तु
धीरं विलोकयति चाटुशतैश्च भुङ्क्ते॥४२॥
किं च !
यज्जीव्यते क्षणमपि प्रथितं मनुष्यै-
र्विज्ञानविक्रमयशोभिरभज्यमानम्।
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः
काकोऽपि जीवति चिराय बलिं च भुङ्के॥४३॥
अपरं च।
यो नात्मजे न च गुरौ न च भृत्यवर्गे
दीने दयां न कुरुते न च बन्धुवर्गे।
किं तस्य जीवितफलेन मनुष्यलोके
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते॥४४॥
अपरमपि।
अहितहितविचारशून्यबुद्धेः
श्रुतिसमयैर्बहुभिस्तिरस्कृतस्य।
उदरभरणमात्रकेवलेच्छोः
पुरुषपशोश्च पशोश्च को विशेषः’॥४५ ॥
करटको ब्रूते—‘आवां तावदप्रधानौ। तदप्यावयोः किमनया विचारणया।’ दमनको ब्रूते—‘कियता कालेनामात्याः प्रधानतामप्रधानतां वा लभन्ते। यतः—
न कस्यचित्कश्चिदिह स्वभावा-
द्भवत्युदारोऽभिमतः खलो वा।
लोके गुरुत्वं विपरीततां वा
स्वचेष्टितान्येव नरं नयन्ति॥४६॥
किं च।
आरोप्यते शिला शैले यत्नेन महता यथा।
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः॥४७॥
यात्यधोऽधो व्रजत्युच्चैर्नरः खैरेव कर्मभिः।
कूपस्य खनिता यद्वत्प्राकारस्येव कारकः॥४८॥
तद्भद्रम्। स्वयत्नायत्तो ह्यात्मा सर्वस्य।’ करटको व्रते—‘अथ भवान्किं ब्रवीति। स आह—‘अयं तावत्स्वामी पिङ्गलकः कुतोऽपि कारणात्सचकितः परिवृत्योपविष्टः।’ करटको ब्रूते—‘किं तत्त्वं जानासि।’ दमनको ब्रूते—‘किमत्राविदितमस्ति। उक्तं च—
उदीरितोऽर्थः पशुनापि गृह्यते
हयाश्च नागाश्च वहन्ति देशिताः।
अनुक्तमप्यूहति पण्डितो जनः
परेङ्गितज्ञानफला हि बुद्धयः॥४९॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च।
नेत्रवक्त्रविकारेण लक्ष्यतेऽन्तर्गतं मनः॥५०॥
अत्र भयप्रस्तावे प्रज्ञाबलेनाहमेनं स्वामिनमात्मीयं करिष्यामि। यतः—
प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम्।
आत्मशक्तिसमं कोपं यो जानाति स पण्डितः’॥५१॥
करटको ब्रूते—‘सखे, त्वं सेवानभिज्ञः। पश्य—
अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते।
आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः’॥५२॥
दमनको ब्रूते—‘भद्र, कथमहं सेवानभिज्ञः। पश्य—
किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम्।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम्॥५३॥
यतः—
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम्।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत्॥५४॥
अन्यच्च।
कोऽत्रेत्यहमितिं ब्रूयात्सम्यगादेशयेति च।
आज्ञामवितथां कुर्याद्यथाशक्ति महीपतेः॥५५॥
अपरं च।
अल्पेच्छुर्धृतिमान्प्राज्ञश्छायेवानुगतः सदा।
आदिष्ठो न विकल्पेत स राजवसतौ वसेत्’॥५६॥
करटको ब्रूते—‘कदाचित्त्वामनवसरप्रवेशादवमन्यते स्वामी। स चाह—‘अस्त्वेवम्। तथाप्यनुजीविना स्वामिसांनिध्यमवश्यं करणीयम्। यतः—
दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम्।
कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते॥५७॥
पश्य—
आसन्नमेव नृपतिर्भजते मनुष्यं
विद्याविहीनमकुलीनमसंगतं वा।
प्रायेण भूमिपतयः प्रमदा लताश्च
यः पार्श्वतो वसति तं परिवेष्टयन्ति॥५८॥
करटको ब्रूते—‘अथ तत्र गत्वा किं वक्ष्यति भवान्।’ स आह—‘शृणु। किमनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि।’करटको ब्रूते—‘किं तज्ज्ञानलक्षणम्।’ दमनको ब्रूते—‘शृणु।
दूरादवेक्षणं हासः संप्रश्नेष्वादरो भृशम्।
परोक्षेऽपि गुणश्लाघा स्मरणं प्रियवस्तुषु॥५९॥
असेवके चानुरक्तिर्दानं सप्रियभाषणम्।
अनुरक्तस्य चिह्नानि दोषेऽपि गुणसंग्रहः॥६०॥
अन्यच्च।
कालयापनमाशानां वर्धनं फलखण्डनम्।
विरक्तेश्वरचिह्नानि जानीयान्मतिमान्नरः॥६१॥
एतज्ज्ञात्वा यथा चायं ममायत्तो भविष्यति तथा करिष्यामि।
यतः—
अपायसंदर्शनजां विपत्ति-
मुपायसंदर्शनजां च सिद्धिम्।
मेधाविनो नीतिविधिप्रयुक्तां
पुरः स्फुरन्तीमिव दर्शयन्ति’॥६२॥
करटको ब्रूते—‘तथाप्यप्राप्ते प्रस्तावे न वक्तुमर्हसि। यतः—
अप्राप्तकालवचनं बृहस्पतिरपि ब्रुवन्।
प्राप्नुयाद्बुद्ध्यवज्ञानमपमानं च शाश्वतम्’॥६३॥
दमनको ब्रूते—‘मित्र, मा भैषीः। नाहमप्राप्तावसरं वचनं वदिष्यामि।यतः—
आपद्युन्मार्गगमने कार्यकालात्ययेषु च।
अपृष्टेनापि वक्तव्यं भृत्येन हितमिच्छता॥६४॥
यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस्तदा मन्त्रित्वमेव ममानुपपन्नम्। यतः—
कल्पयति येन वृत्तिं येन च लोके प्रशस्यते सद्भिः।
स गुणस्तेन च गुणिना रक्ष्यः संवर्धनीयश्च॥६५॥
तद्भद्र, अनुजानीहि माम्। गच्छामि।’ करटको ब्रूते—‘शुभमस्तु। शिवास्ते सन्तु पन्थानः। यथाभिलषितमनुष्ठीयताम्’ इति। ततो दमनको विस्मित इव पिङ्गलकसमीपं गतः।
अथ दूरादेव सादरं राज्ञा प्रवेशितः साष्टाङ्गप्रणिपातं प्रणिपत्यो-
पविष्टः। राजाह—‘चिराद्दृष्टोऽसि।’ दमनको ब्रूते—‘यद्यपि मया सेवकेन श्रीमद्देवपादानां न किंचित्प्रयोजनमस्ति तथापि प्राप्तकालमनुजीविना सांनिध्यमवश्यं कर्तव्यमित्यागतोऽस्मि। किं च।
दन्तस्य निर्घर्षणकेन राज-
न्कर्णस्य कण्डूयनकेन वापि।
तृणेन कार्यं भवतीश्वराणां
किंमङ्ग वाक्पाणिमता नरेण॥६६॥
यद्यपि चिरेणावधीरितस्य देवपादैर्मे बुद्धिनाशः शङ्क्यते, तदपि न शङ्कनीयम्। यतः—
कदर्थितस्यापि च धैर्यवृत्ते-
र्बुद्धेर्विनाशो न हि शङ्कनीयः।
अधःकृतस्यापि तनूनपातो
नाधः शिखा याति कदाचिदेव॥६७॥
देव, तत्सर्वथा विशेषज्ञेन स्वामिना भवितव्यम्। यतः—
मणिर्लुठति पादेषु काचः शिरसि धार्यते।
यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः॥६८॥
अन्यच्च।
निर्विशेषो यदा राजा समं सर्वेषु वर्तते।
तदोद्यमसमर्थानामुत्साहः परिहीयते॥६९॥
किं च।
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः।
नियोजयेत्तथैवैतांस्त्रिविधेष्वेव कर्मसु॥७०॥
यतः—
स्थान एव नियोज्यन्ते भृत्याश्चाभरणानि च।
नहिचूडामणिः पादे नूपुरं शिरसा कृतम्॥७१॥
अपि च।
कनकभूषणसंग्रहणोचितो
यदि मणिस्त्रपुणि प्रणिधीयते।
न स विरौति न चापि न शोभते
भवति योजयितुर्वचनीयता॥७२॥
अन्यच्च।
मुकुटे रोपितः काचश्चरणाभरणे मणिः।
नहि दोषो मणेरस्ति किंतु साधोरविज्ञतां॥७३॥
पश्य।
बुद्धिमाननुरक्तोऽयमयं शूर इतो भयम्।
इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः॥७४॥
तथा हि।
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च।
पुरुषविशेषं प्राप्य हि भवन्ति योग्या अयोग्याश्च॥७५॥
अन्यच्च।
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा।
भक्तं शक्तं च मा राजन्नावज्ञातुं त्वमर्हसि॥७६॥
यतः—
अवज्ञानाद्राज्ञो भवति मतिहीनः परिजन-
स्ततस्तत्प्रामाण्याद्भवति न समीपे बुधजनः।
बुधैस्त्यक्ते राज्ये नहि भवति नीतिर्गुणवती
विपन्नायां नीतौ सकलमवशं सीदति जगत्॥७७॥
अपरं च।
जनं जनपदा नित्यमर्चयन्ति नृपार्चितम्।
नृपेणावमतो यस्तु स सर्वैरवमन्यते॥७८॥
किं च।
बालादपि ग्रहीतव्यं युक्तमुक्तं मनीषिभिः।
रवेरविषये किं न प्रदीपस्य प्रकाशनम्’॥७९॥
पिङ्गलकोऽवदत्—‘भद्र दमनक, किमेतत्। त्वमस्मदीयप्रधानामात्यपुत्र इयन्तं कालं यावत्कुतोऽपि खलवाक्यान्नागतोऽसि।इदानीं यथाभिगतं ब्रूहि।’ दमनको ब्रूते—‘देव, पृच्छामि किंचित्। उच्यताम्। उदकार्थी स्वामी पानीयमपीत्वा किमिति विस्मित इव तिष्ठति।’ पिङ्गलकोऽवदत्—‘भद्रमुक्तं त्वया। किंत्वेतद्रहस्यं वक्तुं काचिद्विश्वासभूमिर्नास्ति। तथापि निभृतं कृत्वा कथयामि। शृणु। संप्रति वनमिदमपूर्वसत्त्वाधिष्ठितमतोऽस्माकं त्याज्यम्। अनेन हेतुना विस्मितोऽस्मि। तथा च श्रुतो मयापि महान पूर्वशब्दः। शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम्। दमनको ब्रूते—‘देव, अस्ति तावदयं महाभयहेतुः। स शब्दोऽस्माभिरप्याकर्णितः। किंतु स किंमत्री यः प्रथमं भूमित्यागं पश्चाद्युद्धं चोपदिशति। अस्मिन्कार्यसंदेहे भृत्यानामुपयोग एव ज्ञातव्यः। यतः—
बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः।
आपन्निक्रषपाषाणे नरो जानाति सारताम्॥८०॥
सिंहो ब्रूते—‘भद्र, महती शङ्का मां बाधते।’ दमनकः पुनराह (स्वगतम्)—‘अन्यथा राज्यसुखं परित्यज्य स्थानान्तरं गन्तुं कथं मां संभाषसे।’ (प्रकाशं ब्रूते)—‘देव, यावदहं जीवामि तावद्भयं न कर्तव्यम्। किंतु करटकादयोऽप्याश्वास्यन्तां यस्मादापत्यतीकारकाले दुर्लभः पुरुषसमवायः।
ततस्तौ दमनककरटकौराज्ञा सर्वस्वेनापि पूजितौ भयप्रतीकारं प्रतिज्ञाय चलितौ। करटको गच्छन्दमनकमाह—‘सखे, किं शक्यप्रतीकारो भयहेतुरशक्यप्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथमयं महाप्रसादो गृहीतः। यतोऽनुपकुर्वाणो न कस्याप्युपायनं गृह्णीयाद्विशेषतो राज्ञः। पश्य—
यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥८१॥
तथा हि।
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः।
महती देवता ह्येषा नररूपेण तिष्ठति॥८२॥
दमनको विहस्याह—‘मित्र, तूष्णीमास्यताम्। ज्ञातं मया भयकारणम्। बलीवर्दनर्दितं तत्। वृषभाश्चास्माकमपि भक्ष्याः। किं पुनः सिंहस्य।’ करटको ब्रूते—‘यद्येवं तदा किं पुनः स्वामित्रासस्तत्रैव किमिति नापनीतः।’ दमनको ब्रूते—‘यदि स्वामित्रामस्तत्रैवमुच्यते तदा कथमयं महाप्रसादलाभः स्यात्। अपरं च।
निरपेक्षो न कर्तव्यो भृत्यैः स्वामी कदाचन।
निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद्दधिकर्णवत्॥८३॥
करटकः पृच्छति—‘कथमेतत्। दमनकः कथयति—
कथा ३।
अस्त्युत्तरापथेऽर्बुदशिखरनाम्नि पर्वते दुर्दान्तो नाम महाविक्रमः सिंहः। तस्य पर्वतकन्दरमधिशयानस्य केसराग्रं कश्चिन्मूषिकः प्रत्यहं छिनत्ति। ततः केसराग्रं नूनं दृष्ट्वा कुपितो विवरान्तर्गतं मूषिकमलभमानोऽचिन्तयत्—
क्षुद्रशत्रुर्भवेद्यस्तु विक्रमान्नैव लभ्यते।
तमाहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः॥८४॥
इत्यालोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्णनामा बिडालो यत्नेनानीय मांसाहारं दत्त्वा स्वकन्दरे स्थापितः। अनन्तरं तद्भयान्मूपिकोऽपि विलान्न निःसरति। तेनासौ सिंहोऽक्षतकेसरः सुखं स्वपिति। मूषिकशब्दं यदा यदा शृणोति तदा तदा मांसाहारदानेनतं बालं संवर्धयति।
अथैकदा स मूषिकः क्षुधापीडितो बहिः संचरन्विडालेन प्राप्तो व्यापादितश्च। अनन्तरं स सिंहोऽनेककालं यावन्मूषिकं न पश्यति
तत्कृतरावमपि न शृणोति तदा तस्यानुपयोगाद्विडालस्याप्याहारदाने मन्दादरो बभूव। ततोऽसावाहारविरहाद्दुर्बलो दधिकर्णोऽवसन्नो बभूव। अतोऽहं ब्रवीमि—‘निरपेक्षो न कर्तव्यः’ इत्यादि। ततो दमनककरटको संजीवकसमीपं गतौ। तत्र करटकस्तरुतले साटोपमुपविष्टः।
दमनकः संजीवकसमीपं गत्वाब्रवीत्—‘अरे वृषभ, एषोऽहं राज्ञा पिङ्गलकेनारण्यरक्षार्थं नियुक्तः। सेनापतिः करटकः समाज्ञापयति—‘सत्वरमागच्छ। न चेदस्मादरण्याद्दूरमपसर। अन्यथा ते विरुद्धं फलं भविष्यति। न जाने क्रुद्धः स्वामी किं विधास्यति।’ तच्छ्रुत्वा संजीवकश्चायात्।
आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः।
पृथक्शय्या च नारीणामशस्त्रविहितो वधः॥८५॥
ततो देशव्यवहारानभिज्ञः संजीवकः सभयमुपसृत्य साष्टाङ्गपातं करटकं प्रणतवान्। तथा चोक्तम्—
मतिरेव बलाद्गरीयसी
यदभावे करिणामियं दशा।
इति घोषयतीव डिण्डिमः
करिणो हस्तिपकाहतः क्वणन्॥ ८६॥
अथ संजीवकः साशङ्कमाह—‘सेनापते, किं मया कर्तव्यम्। तदभिधीयताम्।’ करटको ब्रूते—‘वृषभ, अत्र कानने तिष्ठसि। अस्मद्देवपादारविन्दं प्रणम।’ संजीवको ब्रूते—‘तदभयवाचं मे यच्छ। गच्छामि।’करटकोब्रूते—‘शृणु रे बलीवर्द, अलमनया शङ्कया। यतः-
प्रतिवाचमदत्त केशवः
शपमानाय न चेदिभूभुजे।
अनुहुंकुरुते घनध्वनिं
न हि गोमायुरुतानि केसरी॥८७॥
अन्यच्च।
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणतानि सर्वतः।
समुच्छ्रितानेव तरून्प्रबाधते
महान्महत्येव करोति विक्रमम्॥८८॥
ततस्तौ संजीवकं कियद्दूरे संस्थाप्य पिङ्गलसमीपं गतौ।
ततो राज्ञा सादरमवलोकितौ प्रणम्योपविष्टौ। राजाह—‘त्वया स दृष्टः।’ दमनको ब्रूते—‘देव दृष्टः। किंतु यदेवेन ज्ञातं तत्तथा। महानेवासौ देवं द्रष्टुमिच्छति। किंतु महाबलीऽसौ। ततः सज्जीभूयोपविश्य दृश्यताम्। शब्दमात्रादेव न भेदव्यम्। तथा चोक्तम्—
शब्दमात्रान्न भेतव्यमज्ञात्वा शब्दकारणम्।
शब्दहेतुं परिज्ञाय कुट्टनी गौरवं गता॥८९॥
राजाह—‘कथमेतत्। दमनकः कथयति
कथा ४।
अस्ति श्रीपर्वतमध्ये ब्रह्मपुराख्यं नगरम्। तच्छिखरप्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जनप्रवादः श्रूयते \। एकदा घण्टामादाय पलायमानः कश्विच्चौरोव्याघ्रेण व्यापादितः। तत्पाणिपतिता घण्टा वानरैः प्राप्ता। वानरास्तां घण्टामनुक्षणं वादयन्ति। ततो नगरजनैः स मनुष्यः खादितो दृष्टः। प्रतिक्षणं घण्टारवश्च श्रूयते। अनन्तरं घण्टाकर्णः कुपितो मनुष्यान्खादति घण्टां च वादयतीत्युक्त्वा सर्वे जना नगरात्पलायिताः। ततः करालयानाम कुट्टन्या विमृश्यानवसरोऽयं घण्टावादः। तत्किं मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितः—‘देव, यदि कियद्धनोपक्षयः क्रियते, तदाहमेनं घण्टाकर्णं साधयामि।’ ततो राज्ञा तस्यै धनं दत्तम्।
कुट्टन्या च मण्डलं कृत्वा तत्र गणेशादिपूजागौरवं दर्शयित्वा स्वयं वानरप्रियफलान्यादाय वनं प्रविश्य फलान्याकीर्णानि। ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः। कुट्टनी च घण्टां गृहीत्वा नगरमागता सर्वजनपूज्याभवत्। अतोऽहं ब्रवीमि— ‘शब्दमात्रान्न भेतव्यम्’ इत्यादि॥ ततः संजीवक आनीय दर्शनं कारितः। पश्चात्तत्रैव परमप्रीत्या निवसति।
अथ कदाचित्तस्य सिंहस्य भ्राता स्तब्धकर्णनामा सिंहः समागतः। तस्यातिथ्यं कृत्वा समुपवेश्य पिङ्गलकस्तदाहाराय पशुं हन्तुं चलितः। अत्रान्तरे संजीवको वदति—‘देव, अद्य हतमृगाणां मांसानि क्व।’ राजाह—‘दमनककरटकौ जानीतः। संजीवको ब्रूते—‘ज्ञायतां किमस्ति नास्ति वा।’ सिंहो विमृश्याह—‘नास्त्येव तत्।’ संजीवको ब्रूते—‘कथमेतावन्मांसं ताभ्यां खादितम्।’ राजाह—‘खादितं व्ययितमवधीरितं च। प्रत्यहमेष क्रमः। संजीवको ब्रूते—‘कथं श्रीमद्देवपादानामगोचरेणैव क्रियते।’ राजाह—‘मदीयागोचरेणैव क्रियते। अथ संजीवको ब्रूते—‘नैतदुचितम्।
तथा चोक्तम्—
नानिवेद्य प्रकुर्वीत भर्तुः किंचिदपि स्वयम्।
कार्यमापत्प्रतीकारादन्यत्र जगतीपते॥९०॥
अन्यच्च।
कमण्डलूपमोऽमात्यस्तनुत्यागो बहुग्रहः।
नृपते किंक्षणो मूर्खो दरिद्रः किंवराटकः॥९१॥
सा ह्यमात्यः सदा श्रेयान्काकिनीं यः प्रवर्धयेत्।
कोशः कोशवतः प्राणाः प्राणाः प्राणा न भूपतेः॥९२॥
किं चान्यैर्न कुलाचारैः सेव्यतामेति पूरुषः।
धनहीनः स्वपत्न्यापि त्यज्यते किं पुनः परैः॥९३॥
एतच्च राज्ञः प्रधानं दूषणम्—
अतिव्ययोऽनवेक्षा च तथार्जनमधर्मतः।
मोषणं दूरसंस्थानं कोशव्यसनमुच्यते॥९४॥
यतः—
क्षिप्रमायमनालोच्य व्ययमानः स्ववाञ्छया।
परिक्षीयत एवासौ धनी वैश्रवणोपमः॥९५॥
स्तब्धकर्णो ब्रूते—‘शृणु भ्रातः, चिराश्रितावेतौ दमनककरटकौसंधिविग्रहकार्याधिकारिणौ च कदाचिदर्थाधिकारे न नियोक्तव्यौ। अपरं च नियोगप्रस्तावे यन्मया श्रुतं तत्कथ्यते।
ब्राह्मणः क्षत्रियो बन्धुर्नाधिकारे प्रशस्यते।
ब्राह्मणः सिद्धमप्यर्थं कृच्छ्रेणापि न यच्छति॥९६॥
नियुक्तः क्षत्रियो द्रव्ये खङ्गं दर्शयते ध्रुवम्।
सर्वस्वं ग्रसते बन्धुराक्रम्य ज्ञातिभावतः॥९७॥
अपराधेऽपि निःशङ्को नियोगी चिरसेवकः।
स स्वामिनमवज्ञाय चरेच्च निरवग्रहः॥१८॥
उपकर्ताधिकारस्थः स्वापराधं न मन्यते।
उपकारं ध्वजीकृत्य सर्वमेवावलुम्पति॥९९॥
उपांशुक्रीडितोऽमात्यः स्वयं राजायते यतः।
अवज्ञा क्रियते तेन सदा परिचयाद्ध्रुवम्॥१००॥
अन्तर्दुष्टः क्षमायुक्तः सवीनकरः किल।
शकुनिः शकटारश्च दृष्टान्तावत्र भूपते॥१०१॥
सदामात्यो न साध्यः स्यात्समृद्धः सर्व एव हि।
सिद्धानामयमादेश ऋद्धिश्चित्तविकारिणी॥१०२॥
प्राप्तार्थग्रहणं द्रव्यपरीवर्तोऽनुरोधनम्।
उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दुषणम्॥१०३॥
नियोग्यर्थग्रहोपायो राज्ञां नित्यपरीक्षणम्।
प्रतिपत्तिप्रदानं च तथा कर्मविपर्ययः॥१०४॥
निपीडिता वमन्त्युच्चैरन्तःसारं महीपतेः।
दुष्टव्रणा इव प्रायो भवन्ति हि नियोगिनः॥१०५॥
मुहुर्नियोगिनो बाध्या वसुधारा महीपते।
सकृत्किं पीडितं स्नानवस्त्रं मुञ्चेद्द्रुतं पयः॥१०६॥
एतत्सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम्।’ सिंहो ब्रूते—‘अस्ति तावदेवम्। कित्वेतौ सर्वथा न मम वचनकारिणौ।’ स्तब्धकर्णो ब्रूते—‘एतत्सर्वमनुचितं सर्वथा। यतः—
आज्ञाभङ्गकरान्राज्ञा न क्षमेत्स्वानपि।
विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च॥१०७॥
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टेन्द्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य॥१०८॥
अपरं च।
तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृषवल्लभात्।
नृपतिर्निजलोभाच्च प्रजा रक्षेपितेव हि॥१०९॥
भ्रातः, सर्वथास्मद्वचनं क्रियताम्। व्यवहारोऽप्यस्माभिः कृत एव। अयं संजीवकः सस्यभक्षकोऽर्थाधिकारे नियुज्यताम्।’ एतद्वचनात्ताथानुष्ठिते सति तदारभ्य पिङ्गलकसंजीवकयोः सर्वबन्धुपरित्यागेन महता स्नेहेन कालोऽतिवर्तते। ततोऽनुजीविनामप्याहारदाने शैथिल्यदर्शनाद्द- मनककरटकावन्योन्यं चिन्तयतः। तदाह दमनकः करटकम्—‘मित्र, किं कर्तव्यम्। आत्मकृतोऽयं दोषः। स्वयं कृतेऽपि दोषे परिदेवनमप्यनुचितम्। तथा चोक्तम् —
स्वर्णरेखामहं सृष्ट्वा बद्धात्मानं च दूतिका।
आदित्सुश्च मणि साधुः स्वदोषादुःखिता इमे’॥११०॥
करटको ब्रूते— ‘कथमेतत्।’ दमनकः कथयति—
कथा ५।
अस्ति काञ्चनपुरनाम्नि नगरे वीरविक्रमी राजा। तस्य धर्माधिकारिणा कश्चिन्नापितो वध्यभूमिं नीयमानः कंदर्पकेतुनाम्ना परित्राजकेन साधुद्वितीयकेन ‘नायं हन्तव्य इत्युक्त्वा वस्त्राचले धृतः। राजपुरुषा ऊचुः—‘किमिति नायं वध्यः। स आह ‘श्रूयताम्।’ ‘स्वर्णरेखामहं स्पृष्ट्वा इत्यादि पठति। त आहुः—**‘कथमेतत्।’**परिव्राजकः कथयति— अहं सिंहलद्वीपे भूपतेर्जीमूतकेतोः पुत्रः कंदर्पकेतुर्नाम। एकदा केलिकाननावस्थितेन मया पोतवणिझुखाच्छुतं यदत्र समुद्रमध्ये चतुर्दश्यामा- विर्भूतकल्पतरुतले रत्नावलीकिरणकर्बुरपर्यङ्क स्थितासर्वालंकारभूषिता लक्ष्मीरिव वीणांवादयन्ती कन्या काचिद्द्रुश्यत इति। ततोऽहं पोतवणिजमादाय पोतमारुह्य तत्र गतः। अनन्तरं तत्र गत्वा पर्यङ्केऽर्धमग्ना तथैव सावलोकिता। ततस्तल्लावण्यगुणाकृष्टेन मयापि तत्पश्चाज्झम्पो दत्तः। तदनन्तरं कनकपुत्तनं प्राप्य सुवर्णप्रासादे तथैव पर्यङ्के स्थिता विद्याधरीभिरुपास्यमाना मयालोकिता। तयाप्यहं दूरादेव दृष्ट्वा सखीं प्रस्थाप्य सादरं संभाषितः। तत्सख्या च मया पृष्टया समाख्यातम् ‘एषा कंदर्प केलिनाम्नो विद्याधरचक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते। यः कनकपत्तनं स्वचक्षुपागत्य पश्यति स एव पितुरगोचरोऽपि मां परिणेप्यतीति मनसः संकल्पः। तदेनां गान्धर्वविवाहेन परिणयतु भवान्।’ अथ तत्र वृत्ते गान्धर्वविवाहे तया सह रममाणस्तत्राहं तिष्ठामि। तत एकदा रहसि तयोक्तम्— ‘स्वामिन्, स्वेच्छया सर्वमिदमुपभोक्तव्यम्। एषा चित्रगतासुवर्णरेखा नाम विद्याधरी न कदाचित्स्प्रष्टयापश्चादुपजातकौतुकेन मया स्वर्णरेखा स्वहस्तेन स्पृष्टा। तया चित्रगतयाप्यहं चरणपद्मेन ताडित आगत्य स्वाराष्ट्रे पतितः। अथ दुःखार्तोऽहं परिव्रजितः पृथिवीं परिभ्राम्यन्निमां नगरीमनुप्राप्तः। अत्र चातिक्रान्ते दिवसे गोपगृहे सुप्तः सन्नपश्यम्। प्रदोषसमये सुहृदां पालनं
कृत्वा स्वगेहमागतो गोपः स्ववधूं दूत्या सह किमपि मन्त्रयन्तीमपश्यत्। ततस्तां गोपीं ताडयित्वा स्तम्भे बद्धा सुप्तः। ततोऽर्धरात्र एतस्य नापितस्य वधूती पुनस्तां गोपीमुपेत्यावदत्— ‘तव विरहानलदग्धोऽसौ स्मरशरजर्जरितो मुमूर्षुरिव वर्तते। तथा चोक्तम्—
रजनीचरनाथेन खण्डिते तिमिरे निशि।
यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः ॥१११॥
तस्य तादृशीमवस्थामवलोक्य परिक्लिष्टमनास्त्वामनुवर्तितुमागता। तदहमत्रात्मानं बद्धा तिष्ठामि। त्वं तत्र गत्वा तं संतोप्य सवरमागमिष्यसि। तथानुष्ठिते सति स गोपः प्रबुद्धोऽवदत्। इदानीं त्वां पापिष्ठां जारान्तिकं नयामि। ततो यदासौ न किंचिदपि ब्रूने तदा क्रुद्धो गोपः ‘दर्पान्मम वचसि प्रत्युत्तरमपि न ददासि’ इत्युक्त्वा कोपेन तेन कर्तिकामादायास्या नासिका छिन्ना। तथा कृत्वा पुनः सुप्तो गोपो निद्रामुपगतः। अथागत्य गोपी दूतीमपृच्छत्— ‘का वार्ता।’ दूत्योक्तम्— ‘पश्य माम्। मुखमेव वार्तां कथयति। अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता। इयं च दूती तां छिन्ननासिकां गृहीत्वा स्वगृहं प्रविश्य स्थिता। ततः प्रातरेवानेन नापितेन स्ववधूः क्षुरभाण्डं याचिता सती क्षुरमेकं प्रादात्। ततोऽसमग्रभाण्डे प्राप्ते समुपजातकोपोऽयं नापितस्तं क्षरं दूरादेव गृहे क्षिप्तवान्। अथ कृतार्तरावेयं विनापराधेन में नासिकानेन च्छिन्नेत्युक्त्वा धर्माधिकारिसमीपमेनमानीतवती। सा च गोपी तेन गोपेन पुनः पृष्टोवाच— ‘अरे पाप, को मां महासती विरूपयितुं समर्थः। मम व्यवहारमकल्मषमष्टौ लोकपाला एव जानन्ति। यतः—
आदित्यचन्द्रावनिलोऽनलश्च
द्यौर्भूमिरापो हृदयं यमश्च।
अहश्च रात्रिश्च उभे च संध्ये
धर्मश्च जानाति नरस्य वृत्तम् ॥११२॥
यद्यहं परमसती स्याम् त्वां विहायान्यं न जाने, पुरुषान्तरं स्वप्नेऽपि नहि भजे, तेन धर्मेण छिन्नापि मम नासिकाऽच्छिन्नास्तु \। मया त्वं भस्म कर्तुं शक्यसे। किंतु स्वामी त्वम्। लोकभयादुपेक्षे। पश्य मन्मुखम्। ततो यावदसौ गोपो दीपं प्रज्वाल्य तन्मुखमवलोकते तावदुन्नसं मुखमवलोक्य तच्चरणयोः पतितः ‘धन्योऽहं यस्येदृशी भार्या परमसाध्वी’ इति। योऽयमास्ते साधुरेतद्वृत्तान्तमपि कथयामि। अयं स्वगृहान्निर्गतो द्वादशवर्षैर्मलयोपकण्ठादिमां नगरीमनुप्राप्तः। अत्र वेश्यागृहे सुप्तः। तस्याः कुट्टन्या गृहद्वारि स्थापितकाष्ठघटितवेतालस्य मूर्धनि रत्नमेकमुत्कृष्टमास्ते। तत्र लुब्धेनानेन साधुना रात्रानुत्थाय रत्नं ग्रहीतुं यत्नः कृतः। तदा तेन वेतालेन सूत्रसंचारितबाहुभ्यां पीडितः सन्नार्तनादमयं चकार। पश्चादुत्थायकुट्टन्योक्तम्—‘पुत्र, मलयोपकण्ठादागतोऽसि। तत्सर्वरत्नानि प्रयच्छास्मै। नो चेदनेन न त्यक्तव्योऽसि। इत्थमेवायं चेटकः। ततोऽनेन सर्वरत्नानि समर्पितानि यथायमपहृतसर्वस्वोऽस्मासु समागत्य मिलितः’। एतत्सर्वं श्रुत्वा राजपुरुषैर्न्यये धर्माधिकारी प्रवर्तितः। अनन्तरं तेन सा दूती गोपी च ग्रामाद्बहिर्निःसारिते। नापितश्च गृहं गतः। अतोऽहं ब्रवीमि—‘स्वर्णरेखामहं स्पृष्ट्वा इत्यादि॥ अथ स्वयं कृतोऽयं दोषः। अत्र विलपनं नोचितम्। (क्षणं विमृश्य।) मित्र, यथाऽनयोः सौहार्दं मया कारितं तथा मित्रभेदोऽपि मया कार्यः। यतः—
अतथ्यान्यपि तथ्यानि दर्शयन्त्यतिपेशलाः।
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः॥११३॥
अपरं च।
उत्पन्नेष्वपि कार्येषु मतिर्यस्य न हीयते।
स निस्तरति दुर्गाणि गोपी जारद्वयं यथा॥११४॥
करटकः पृच्छति—‘कथमेतत्।’ दमनकः कथयति—
कथा ६।
अस्ति द्वारवत्यां पुर्यां कस्यचिद्गोपस्य वधूर्धन्धकी। सा ग्रामस्य दण्डनायकेन तत्पुत्रेण च समं रमते। तथा चोक्तम्—
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसां वामलोचना॥११५॥
अन्यच्च।
न दानेन न मानेंन नार्जवेन न सेवया।
न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः॥११६॥
यतः—
गुणाश्रयं कीर्तियुतं च कान्तं
पतिं रतिज्ञं सधनं युवानम्।
विहाय शीघ्रं वनिता ब्रजन्ति
नरान्तरं शीलगुणादिहीनम्॥११७॥
अपरं च।
न तादृशीं प्रीतिमुपैति नारी
विचित्रशय्यां शयितापि कामम्।
यथा हि दूर्वादिविकीर्णभूमौ
प्रयाति सौख्यं परकान्तसङ्गात्॥११८॥
अथ कदाचित्सा दण्डनायकपुत्रेण सह रममाणा तिष्ठति। अथ दण्डनायकोऽपि रन्तुं तत्रागतः। तमायान्तं दृष्ट्वा तत्पुत्रं कुशूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति। अनन्तरं तस्या भर्ता गोपो गोष्ठात्समागतः। तमालोक्य गोप्योक्तम्—‘दण्डनायक, त्वं लगुडं गृहीत्वा कोपं दर्शयन्सत्वरं गच्छ।’ तथा तेनानुष्ठिते गोपेन गृहमागत्य भार्या पृष्टा —‘केन कार्येण दण्डनायकः समागत्यात्र स्थितः।’ सा ब्रूते—‘अयं केनापि कार्येण पुत्रस्योपरि क्रुद्धः। स च पलायमानोऽप्यत्रागत्य प्रविष्टो मया कुशूले निक्षिप्य रक्षितः। तत्पित्रा चान्विष्यात्र न दृष्टः। अत एवायं दण्डनायकः
ऋद्ध एव गच्छति। ततः सा तत्पुत्रं कुशलाद्बहिष्कृत्य दर्शितवती। तथा चोक्तम्—
आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा।
पङ्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः॥११९॥
अतोऽहं ब्रवीमि—‘उत्पन्नेष्वपि कार्येषु’ इत्यादि॥ करटको ब्रूते—‘अस्त्वेवम्। किंत्वनयोर्महानन्योन्यनिसर्गोपजातस्नेहः कथं भेदयितुं शक्यः। दमनको ब्रूते—‘उपायैःक्रियताम्।’ तथा चोक्तम्—
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः।
काक्या कनकसूत्रेण कृष्णसर्पो निपातितः॥ १२०॥
करटकः पृच्छति— ‘कथमेतत्।’ दमनकः कथयति—
कथा ७।
कस्मिंश्चित्तरौ वायसदंपती निवसतः। तयोश्चापत्यानि तत्कोटरावस्थितेन कृष्णसर्पेण खादितानि। ततः पुनर्गर्भवती वायसी वायसमाह— ‘नाथ, त्यज्यतामयं तरुः। अत्रावसिकृष्णसर्पेणावयोः संततिः सततं भक्ष्यते। यतः—
दुष्टा भार्या शठं मित्रं भृत्याश्रोत्तरदायकाः।
ससर्पे च गृहे वासो मृत्युरेव न संशयः॥१२१॥
वायगो ब्रूते—‘प्रिये, न भेतव्यम्। वारंवारं मयैतस्य महापराधः सोडः। इदानीं पुनर्न क्षन्तव्यः। वायस्याह—‘कथनेतेन बलवता सार्धं भवान्विग्रहीतुं समर्थः। वायसो व्रूते— ‘अलननया शङ्कया।
यतः—
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम्।
पश्य सिंहो मदोन्मत्तः शशंकेन निपातितः॥१२२॥
वायसी विहस्याह—‘कथमेतत्। वायसः कथयति—
कथा ८।
अस्ति मन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः। स च सर्वदा
पशूनां वधं कुर्वन्नास्ते। ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तः—‘मृगेन्द्र, किमर्थमेकदा बहुपशुघातः क्रियते। यदि प्रसादो भवति तदा वयमेव भवदाहाराय प्रत्यहमेकैकं पशुमुपढौकयामः।’ ततः सिंहेनोक्तम्—‘
यद्येतदभिमतं भवतां तर्हि भवतु तत्।’ ततः प्रभृत्येकैकं पशुमुपकल्पितं भक्षयन्नास्ते। अथ कदाचिदृद्धशशकस्य वारः समायातः। सोऽचिन्तयत्-
‘त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया।
पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे॥१२३॥
तन्मन्दमन्दं गच्छामि।’ ततः सिंहोऽपि क्षुधापीडितः कोपात्तमुवाच—‘कुतस्त्वं विलम्ब्य समागतोऽसि।’ शशकोऽब्रवीत्—‘देव, नाहमपराधी। आगच्छन्पथि सिंहान्तरेण बलाद्धृतः। तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुमत्रागतोऽस्मि।’ सिंहः सकोपमाह— ‘सत्वरं गत्वा दुरात्मानं दर्शय क्व स दुरात्मा तिष्ठति। ततः शशकस्तं गृहीत्वा गभीरकूपं दर्शयितुं गतः। तत्रागत्य ‘स्वयमेव पश्यतु स्वामी’ इत्युक्त्वा तस्मिन्कूपजले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान्। ततोऽसौ क्रोधाध्मातो दर्पात्तस्योपर्यात्मानं निक्षिप्य पञ्चत्वं गतः। अतोऽहं ब्रवीमि—‘बुद्धिर्यस्य’ इत्यादि॥ वायस्याह—‘श्रुतं मया सर्वम्। संप्रति यथा कर्तव्यं तद्ब्रूहि।’ वायसोऽवदत्—‘अत्रासन्ने सरसि राजपुत्रः प्रत्यहमागत्य स्नाति। स्नानसमये तदङ्गादवतारितं तीर्थशिलानिहितं कनकसूत्रं चञ्च्वा विधृत्यानीयास्मिन्कोटरे धारयिष्यसि।’ अथ कदाचित्त्रातुं जलं प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम्। अथ कनकसूत्रानुसरणप्रवृत्ते राजपुरुषैस्तत्र तरुकोटरे कृष्णसर्पों दृष्टो व्यापादितश्च। अतोऽहं ब्रवीमि— ‘उपायेन हि यच्छक्यम्’ इत्यादि॥ करटको ब्रूते—‘यद्येवं तर्हि गच्छ। शिवास्ते सन्तु पन्थानः।’ ततो दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योवाच—‘देव, आत्ययिकं
किमपि महाभयकारि कार्यं मन्यमानः समागतोऽस्मि। यतः—
आपद्युन्मार्गगमने कार्यकालात्ययेषु च।
कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः॥१२४॥
अन्यच्च।
भोगस्य भाजनं राजा न राजा कार्यभाजनम्।
राजकार्यपरिध्वंसी मन्त्री दोषेण लिप्यते॥१२५॥
तथा हि पश्य। अमात्यानामेष क्रमः।
वरं प्राणपरित्यागः शिरसो वापि कर्तनम्।
न तु स्वामिपदावाप्तिपातकेच्छोरुपेक्षणम्’॥१२६॥
पिङ्गलकः सादरमाह—‘अथ भवान्किं वक्तुमिच्छति।’ दमनको ब्रूते—‘देव, संजीवकस्तवोपर्यसदृशव्यवहारीव लक्ष्यते। तथा चास्मत्संनिधाने श्रीमद्देवपादानां शक्तित्रयनिन्दां कृत्वा राज्यमेवाभिलषति।’ एतच्छ्रुत्वा पिङ्गलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः। दमनकः पुनराह— ‘देव, सर्वामात्यपरित्यागं कृत्वैक एवायं यत्त्वया सर्वाधिकारी कृतः स एव दोषः। यतः—
अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः।
सा स्त्रीस्वभावादसहा भरस्य
तयोर्द्वयोरेकतरं जहाति॥१२७॥
अपरं च।
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा
तं मोहाच्छ्रयते मदः स च मदालस्येन निर्भिद्यते।
निर्भिन्नस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणान्तिकं द्रुह्यति॥१२८॥
अन्यच्च।
विषदिग्धस्य भक्तस्य दन्तस्य चलितस्य च।
अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम्॥१२९॥
किं च॥
यः कुर्यात्सचिवायत्तां श्रियं तद्व्यसने सति।
सोऽन्धवज्जगतीपालः सीदेत्संचारकैर्विना॥१३०॥
सर्वकार्येषु स्वेच्छातः प्रवर्तते॥ तदत्र प्रमाणं स्वामी। एतच्च जानाति॥
न सोऽस्ति पुरुषो लोके यो न कामयते श्रियम्।
परस्य युवतीं रम्यां सादरं नेक्षतेऽत्र कः’॥१३१॥
सिंहो विमृश्याह—‘भद्र, यद्यप्येवं तथापि संजीवकेन सह मम महास्नेहः। पश्य॥
कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः।
अशेषदोषदुष्टोऽपि कायः कस्य न वल्लभः॥१३२॥
अन्यच्च॥
अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः।
दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः’॥१३३॥
दमनकः पुनरेवाह—‘देव, स एवातिदोषः। यतः—
यस्मिन्नेवाधिकं चक्षुरारोहयति पार्थिवः।
सुतेऽमात्येऽप्युदासीने स लक्ष्म्याश्रीयते जनः॥१३४॥
शृणु देव,
अप्रियस्यापि पथ्यस्य परिणामः सुखावहः।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः॥१३५॥
त्वया च मूलभृत्यानपास्यायमागन्तुकः पुरस्कृतः। एतच्चानुचितं कृतम्॥यतः—
मूलभृत्यान्परित्यज्य नागन्तून्प्रति मानयेत्।
नातः परतरो दोषो राज्य भेदकरो यतः॥१३६॥
सिंहो ब्रूते—‘महदाश्वर्यम्। मया यदभयवाचं दत्त्वानीतः संवर्धितश्च। तत्कथं मह्यं द्रुह्यति। दमनको ब्रूते—‘देव,
दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः।
स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम्॥१३७॥
अपरं च।
स्वेदितो मर्दितश्चैव रज्जुभिः परिवेष्टितः।
मुक्तो द्वादशभिर्वर्षैः श्वपुच्छः प्रकृतिं गतः॥१३८॥
अन्यच्च।
वर्धनं वाथ सन्मानं स्वलानां प्रीतये कुतः।
फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः॥१३९॥
अतोऽहं ब्रवीमि—
‘अपृष्टोऽपि हितं ब्रूयाद्यस्य नेच्छेत्पराभवम्।
एष एव सतां धर्मो विपरीतमतोऽन्यथा॥१४०॥
तथा चोक्तम्—
स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं
सा स्त्री यानुविधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते।
सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते
तन्मित्रं यदकृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः॥१४१॥
यदि संजीवकव्यसनार्दितो विज्ञापितोऽपि स्वामी न निवर्तते तदीदृशि भृत्ये न दोषः। तथा च।
नृपः कामासक्तो गणयति न कार्यं न च हितं
यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इन।
ततो मानध्मातः स पतति यदा शोकगहने
तदा भृत्ये दोषान्क्षिपति न निजं वेत्त्यविनयम्॥१४२॥
पिङ्गलकः (स्वगतम्।)
न परस्यापराधेन परेषां दण्डमाचरेत्।
आत्मनावगतं कृत्वा बध्नीयात्पूजयेच्च वा॥१४३॥
तथा चोक्तम्—
गुणदोपावनिश्चित्य विधिर्न ग्रहनिग्रहे।
स्वनाशाय यथा न्यस्तो दर्पात्सर्पमुखे करः॥१४४॥
(प्रकाशं ब्रूते।) ‘तदा संजीवकः किं प्रत्यादिश्यताम्।’ दमनकः ससंभ्रममाह—‘देव, मा मैवम्। एतावता मन्त्रभेदो जायते। तथा ह्युक्तम्—
मन्त्रबीजमिदं गुप्तं रक्षणीयं यथा तथा।
मनागपि न भिद्येत तद्भिन्नं न प्ररोहति॥१४५॥
किं च।
आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥१४६॥
तदवश्यं समीरंब्धं महता प्रयत्नेन संपादनीयम्। किं च।
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया॥१४७॥
यद्यसौ दृष्टदोषोऽपि दोषान्निवर्त्य संघातव्यस्तदतीवानुचितम्।
यतः—
सकृद्दुष्टं तु यो मित्रं पुनः संधातुमिच्छति।
स मृत्युमेव गृह्णाति गर्भमश्वतरी यथा’॥१४८॥
सिंहो ब्रूते—‘ज्ञायतां तावत्किमस्माकमसौ कर्तुं समर्थः। दमनक आह—‘देव,
अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः।
पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः’॥१४९॥
सिंहः पृच्छति—‘कथमेतत्।’ दमनकः कथयति—
कथा ९।
दक्षिण समुद्रतीरे टिट्टिभदंपती निवसतः। तत्र चासन्नप्रसवा टिट्टिभी भर्तारमाह—‘नाथ, प्रसवयोग्यस्थानं निभृतंमनुसंधीयताम्।’
टिट्टिभोऽवदत्—‘भार्ये, नन्विदमेव स्थानं प्रसूतियोग्यम्’। सा ब्रूते—‘समुद्रवेलया व्याप्यते स्थानमेतत्।’टिट्टिभोऽवदत्—‘किमहं निर्बलः समुद्रेण निग्रहीतव्यः।’ टिट्टिभी विहस्याह—‘स्वामिन्, त्वया समुद्रेण च महदन्तरम्। अथवा
पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः।
अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति॥१५०॥
अपि च।
अनुचितकार्यारम्भः स्वजनविरोधो बलीयसास्पर्धा।
प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि’॥१५१॥
ततः कृच्छ्रेण स्वामिवचनात्सा तत्रैव प्रसूता। एतत्सर्वं श्रुत्वा समुद्रेणापि तच्छक्तिज्ञानार्थं तदण्डान्यपहृतानि। ततष्टिट्टिभी शोकार्ता भर्तारमाह—‘नाथ, कष्टमापतितम्। तान्यण्डानि मे नष्टानि।’ टिट्टिभोऽवदत्—‘प्रिये, मा भैषीः। इत्युक्त्वा पक्षिणां मेलकं कृत्वा पक्षिस्वामिनो गरुडस्य समीपं गतः। तत्र गत्वा सकलवृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदिनम्—‘देव, समुद्रेणाहं स्वगृहावस्थितो विनापराधेनैव निगृहीतः। ततस्तद्वचनमाकर्ण्य गरुत्मता प्रभुर्भगवान्नारायणः सृष्टिस्थितिप्रलयहेतुर्विज्ञप्तः। स समुद्रमण्डदानायादिदेश। ततो भगवदाज्ञां मौलौ निधाय समुद्रेण तान्यण्डानि टिट्टिभाय समर्पितानि। अतोऽहं ब्रवीमि—‘अङ्गाङ्गिभावमज्ञात्वा’ इत्यादि॥ राजाह—‘कथमसौ ज्ञातव्यो द्रोहबुद्धिरिति। दमनको ब्रूते—‘यदासौ सदर्पः शृङ्गाग्रप्रहरणाभिमुख- श्चकितमिवागच्छति तदा ज्ञास्यति स्वामी। एवमुक्त्वा संजीवकसमीपं गतः। तत्र गतश्च मन्दंमन्दमुपसर्पन्विस्मितमिवात्मानमदर्शयत्। संजीवकेन सादरमुक्तम्—‘भद्र, कुशलं ते।’ दमनको ब्रूते—‘अनुजीविनां कुतः कुशलम्। यतः—
संपत्तयः पराधीनाः सदा चित्तमनिर्वृतम्।
स्वजीवितेऽप्यविश्वासस्तेषां ये राजसेवकाः॥१५२॥
अन्यच्च।
कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रियः।
कः कालस्य भुजान्तरं न च गतः कोऽर्थी गतो गौरवं
को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान्॥१५३॥
संजीवकेनोक्तम्—‘सखे, ब्रूहि किमेतत्।’ दमनक आह— ‘किं ब्रवीमि मन्दभाग्यः। पश्य—
मज्जन्नपि पयोराशौ लब्ध्वा सर्पावलम्बनम्।
न मुञ्चति न चादत्ते तथा मुग्धोऽस्मि संप्रति॥१५४॥
यतः
एकत्र राजविश्वासो नश्यत्यन्यत्र बान्धवः।
किं करोमि क्व गच्छामि पतितो दुःखसागरे॥१५५॥
इत्युक्त्वा दीर्घं निःश्वस्योपविष्टः। संजीवको ब्रूते—‘मित्र, तथापि सविस्तरं मनोगतमुच्यताम्।’ दमनकः सुनिभृतमाह—‘यद्यपि राजविश्वासो न कथनीयस्तथापि भवानस्मदीयप्रत्ययादागतः। मया परलोकार्थिनावश्यं तव हितमाख्येयम्। शृणु। अयं स्वामी तवोपरि विकृतबुद्धी रहस्युक्तवान्— ‘संजीवकमेव हत्वा स्वपरिवारं तर्पयामि।’ एतच्छ्रुत्वा संजीवकः परं विषादमगमत्। दमनकः पुनराह—‘अलं विषादेन। प्राप्तकालकार्यमनुष्ठीयताम्। संजीवकः क्षणं विमृश्याह स्वगतम्—‘सुष्ठु खल्विदमुच्यते किं वा दुर्जनचेष्टितं न वेत्येतद्य्वहारान्निर्णेतुं न शक्यते। यतः—
दुर्जनगम्य्रनार्यः प्रायेणापात्रभृद्भवति राजा।
कृपणानुसारि च धनं देवो गिरिजलधिवर्षी च॥१५६॥
कश्चिदाश्रयसौन्दर्याद्धते शोभामसज्जनः।
प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम्॥१५७॥
तत्र विचिन्त्योक्तम्। कष्टं किमिदमापतितम्। यतः -
आराध्यमानो नृपतिः प्रयत्ना-
न तोषमायाति किमत्र चित्रम्।
अयं स्वपूर्वप्रतिभाविशेषो
यः सेव्यमानो रिपुतामुपैति॥ १५८॥
तदयमशक्यार्थः प्रमेयः। यतः—
निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रसीद्रति।
अकारणद्वेषि मनस्तु यस्य वै
कथं जनस्तं परितोषयिष्यति॥१५९॥
किं मयापकृतं राज्ञः। अथवा निर्निमित्तापकारिणश्च भवन्ति राजानः।’ दमनको ब्रूते—‘एवमेतत्। शृणु—
विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कश्चि-
त्साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति।
चित्रं चित्रं किमथ चरितं नैकभावाश्रयाणां
सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥१६०॥
अन्यच्च।
कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु।
वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम्॥१६९॥
किं च।
चन्दनतरुषु भुजंगा जलेषु कमलानि तत्र च ग्राहाः।
गुणघातिनश्च भोगे खला न च सुखान्यविघ्नानि॥१६२॥
अन्यच्च।
मूलं भुजंगैः कुसुमानि भृङ्गैः
शाखाः प्लवङ्गैः शिखराणि भलैः।
नास्त्येव तच्चन्दनपादपस्य
यन्नाश्रितं दुष्टतरैश्व हिंस्रैः॥१६३॥
अयं तावत्स्वामी वाचि मधुरो विषहृदयो ज्ञातः। यतः—
दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः।
अंन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः
कोनामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः॥१६४॥
तथा हि।
पोतो दुस्तरवारिसशितरणे दीपोऽन्धकारागमे
निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्त्यै सृणिः।
इत्थं तद्भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता.
मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः॥१६५॥
संजीवकः पुनर्निःश्वस्य— ‘कष्टं भोः। कथमहं सस्यभक्षकः सिंहेन निपातयितव्यः। यतः—
ययोरेव समं वित्तं ययोरेव समं बलम्।
तयोर्विवादो मन्तव्यो नोत्तमाधमयोः क्वचित्॥१६६॥
(पुनर्विचिन्त्य।) केनायं राजा ममोपरि विकारितः। न जाने। भेदमुपगताद्राज्ञः सदा भेतव्यम्। यतः—
मन्त्रिणा पृथिवीपालचित्तं विघटितं क्वचित्।
वलयं स्फटिकस्येव को हि संधातुमीश्वरः॥१६७॥
अन्यच्च।
वज्रं च राजतेजश्च द्वयमेवातिभीषणम्।
एकमेकत्र पतति पतत्यन्यत्समन्ततः॥१६८॥
ततः संग्रामे मृत्युरेव वरम्। इदानीं तदाज्ञानुवर्तनमयुक्तम्। यतः—
मृतः प्राप्नोति वा स्वर्गं शत्रुं हत्वा सुखानि वा।
उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ॥१६९॥
युद्धकालश्चायम्।
यत्रायुद्ध ध्रुवं मृत्युर्युद्धे जीवितसंशयः।
तमेव कालं युद्धस्य प्रवदन्ति मनीषिणः॥१७०॥
यतः—
अयुद्धे हि यदा पश्येन्न किंचिद्धितमात्मनः।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह॥१७१॥
जये च लभते लक्ष्मीं मृतेनापि सुराङ्गनाम्।
क्षणविध्वंसिनः कायाः का चिन्ता मरणे रणे॥१७२॥
एतच्चिन्तयित्वा संजीवक आह—‘भो मित्र, कथमसौ मां जिघांसुर्ज्ञातव्यः। दमनको व्रते—‘यदासौ पिङ्गलकः समुन्नतलाङ्गूल उन्नतचरणो विवृतास्यस्त्वां पश्यति तदा त्वमेव स्वविक्रमं दर्शयिष्यसि। यतः—
बलवानपि निस्तेजाः कस्य नाभिभवास्पदम्।
निःशङ्कं दीयते लोकैः पश्य भस्मचये पदम्॥१७३॥
किंतु सर्वमेतत्सुगुप्तमनुष्ठातव्यम्। नो चेन्न त्वं नाहम्। इत्युक्त्वा दमनकः करटकसमीपं गतः। करटकेनोक्तम्—‘किं निष्पन्नम्।’ दमनकेनोक्तम्—‘निष्पन्नोऽसावन्योन्यभेदः।’ करटको ब्रूते—
‘कोऽत्र संदेहः। यतः—
बन्धुः को नाम दुष्टानां कुप्यते को न याचितः।
को न दृप्यति वित्तेन कुकृत्ये को न पण्डितः॥१७४॥
अन्यच्च।
दुर्वृत्तः क्रियते धूर्तैःश्रीमानात्मविवृद्धये।
किं नाम खलसंसर्गः कुरुते नाश्रयाशवत्॥१७५॥
ततो दमनकः पिङ्गलकसमीपं गत्वा ‘देव, समागतोऽसौ पापाशयः। ततः सज्जीभूय स्थीयताम्’ इत्युक्त्वा पूर्वोक्ताकारं कारयामास। संजीवकोऽप्यागत्य तथाविधं विकृताकारं सिंहं दृष्ट्वा स्वानुरूपं विक्रमं चकार। ततस्तयोर्युद्धे संजीवकः सिंहेन व्यापादितः।
अथ संजीवकं सेवकं पिङ्गलको व्यापाद्य विश्रान्तः सशोक इव तिष्ठति। ब्रूते च—‘किं मया दारुणं कर्म कृतम्। यतः—
परैः संभुज्यते राज्यं स्वयं पापस्य भाजनम्।
धर्मातिक्रमतो राजा सिंहो हस्तिवधादिव॥१७६॥
अपरं च।
भूम्येकदेशस्य गुणान्वितस्य
भृत्यस्य वा बुद्धिमतः प्रणाशः।
भृत्यप्रणाशो मरणं नृपाणां
नष्टापि भूमिः सुलभा न भृत्याः॥१७७॥
दमनको ब्रूते—‘
स्वामिन्, कोऽयं नूतनो न्यायो यदरातिं हत्वा संतापः क्रियते। तथा चोक्तम्—
पिता वा यदि वा भ्राता पुत्रो वा यदि वा सुहृत्।
प्राणच्छेदंकरा राज्ञा हन्तव्या भूतिमिच्छता॥१७८॥
अपि च।
धर्मार्थकामतत्त्वज्ञो नैकान्तकरुणो भवेत्।
नहि हस्तस्थमप्यन्नं क्षमावान्भक्षितुं क्षमः॥१७९॥
किं च।
क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम्।
अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम्॥१८०॥
अपरं च।
राज्यलोभादहंकारादिच्छतः स्वामिनः पदम्।
प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम्॥१८९॥
अन्यच्च।
राजा, घृणी ब्राह्मणः सर्वभक्षः
स्त्री चावशा दुष्प्रकृतिः सहायः।
प्रेष्यः प्रतीपोऽधिकृतः प्रमादी
त्याज्या इमे यश्च कृतं न वेत्ति॥१८२॥
विशेषतश्च।
सत्यानृता सपरुषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या।
नित्यव्यया प्रचुरत्नधनागमा च
वाराङ्गनेव नृपनीतिरनेकरूपा॥१८३॥
इति दमनकेन संतोषितः पिङ्गलकः स्वां प्रकृतिमापन्नः सिंहासने समुपविष्टः। दमनकः प्रहृष्टमनाः ‘विजयतां महाराजः। शुभमस्तु सर्वजगताम्’ इत्युक्त्वा यथासुखमवस्थितः॥
विष्णुशर्मोवाच—‘सुहृद्भेदः श्रुतस्तावद्भवद्भिः। राजपुत्र। ऊचुः—‘भवत्प्रसादाच्छ्रुतः। सुखिनो भूता वयम्। विष्णुशर्माऽब्रवीत्— ‘अपरमपदमस्तु—
सुहृद्भेदस्तावद्भवतु भवतां शत्रुनिलये
खलः कालाकृष्टः प्रलयमुपसर्पत्वहरहः।
जनो नित्यं भूयात्सकलसुखसंपत्तिवसतिः
कथारामे रम्ये सततमिह बालोऽपि रमताम्॥१८४॥
इति हितोपदेशे सुहृद्भेदो नाम द्वितीयः कथासंग्रहः समाप्तः।
<MISSING_FIG href="../books_images/U-IMG-1720837870Screenshot2024-07-13080054.png"/>
विग्रहः।
पुनः कथारम्भकाले राजपुत्रा ऊचुः—‘आर्य, राजपुत्रा वयम्। तद्विग्रहं श्रोतुं नः कुतूहलमस्ति।’ विष्णुशर्मणोक्तम्—‘यदेवं भवद्भ्यो रोचते कथयामि। विग्रहः श्रूयतां यस्यायमाद्यः श्लोकः—
हंसैः सह मयूराणां विग्रहे तुल्यविक्रमे।
विश्वास्य वञ्चिता ‘हंसाः काकैः स्थित्वारिमन्दिरे॥१॥
राजपुत्रा ऊचुः—‘कथमेतत्।’ विष्णुशर्मा कथयति—
‘अस्ति कर्पूरद्वीपे पद्मकेलिनामधेयं सरः। तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति। स च सर्वैर्जलचरपक्षिभिर्मिलित्वा पक्षिराज्येऽभिषिक्तः। यतः—
यदि न स्यान्नरपतिः सम्यङ्केता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥२॥
अपरं च।
प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम्।
वर्धनाद्रक्षणं श्रेयस्तदभावे सदप्यसत्॥३॥
एकदासौ राजहंसः सुविस्तीर्णकमलपर्यङ्के सुखासीनः परिवारपरिवृतस्तिष्ठति। ततः कुतश्चिद्देशादागत्य दीर्घमुखो नाम बकः प्रणम्योपविष्टः। राजोवाच—‘दीर्घमुख, देशान्तरादागतोऽसि। वार्ता कथय।’ स ब्रूते—‘देव, अस्ति महती वार्ता। तां वक्तुं सत्वरमागतोऽहम्। श्रूयताम्। अस्ति जम्बुद्वीपे विन्ध्यो नाम गिरिः। तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति। तस्यानुचरैश्चरद्भिः पक्षिभिरहं दग्धारण्यमध्ये चरन्नवलोकितः पृष्टश्च—‘कस्त्वम्। कुतः समागतोऽसि।’ तदा मयोक्तम्—‘कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य राजहंसस्यानुचरोऽहम्। कौतुकाद्देशान्तरं द्रष्टुभागतोऽस्मि।’ एतच्छ्रुत्वा पक्षिभिरुक्तम्—‘अन
योर्देशयोः को देशो भद्रतरो राजा च।’ मयोक्तम्—‘आः, किमेवमुच्यते। महदन्तरम्। यतः कर्पूरद्वीपः स्वर्ग एव, राजहंसश्च द्वितीयः स्वर्गपतिः। अत्र मरुस्थले पतिता यूयंकिं कुरुथ। अस्मद्देशे गम्यताम्।’ ततोऽस्मद्वचनमाकर्ण्य सर्वेसकोपा बभूवुः।
तथा चोक्तम्—
पयःपानं भुजंगानां केवलं विषवर्धनम्।
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये॥४॥
अन्यच्च।
विद्वानेवोपदेष्टव्यो नाविद्वांस्तु कदाचन।
वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः’॥५॥
राजोवाच—‘कथमेतत्।’ दीर्घमुखः कथयति—
कथा १।
अस्ति नर्मदातीरे विशालः शाल्मलीतरुः। तत्र निर्मितनीडकोडे पक्षिणो निवसन्ति सुखेन। अथैकदा वर्षासु नीलपटलैरावृतेनभस्तले धारासारैर्महती वृष्टिर्बभूव। ततो वानरांश्च तरुतलेऽवस्थितान्शी- ताकुलान्कम्पमानानवलोक्य कृपया पक्षिभिरुक्तम्—‘भो भो वानराः, शृणुत।
अस्माभिर्निर्मिता नीडाश्चञ्चमात्राहृतैस्तृणैः।
हस्तपादादिसंयुक्ता यूयं किमिति सीदथ’॥६॥
तच्छ्रुत्वा वानरैर्जातामर्षैरालोचितम्—‘अहो निर्वातनीडगर्भावस्थिताः सुखिनः पक्षिणोऽस्मान्निन्दन्ति। भवतु तावद्वृष्टेरुपशमः। अनन्तरं शान्ते पानीयवर्षे तैर्वानरैर्वृक्षमारुह्य सर्वे नीडा भग्नास्तेषामण्डानि चाधः पातितानि। अतोऽहं ब्रवीमि —‘विद्वानेवोपदेष्टव्यः’ इत्यादि॥ राजोवाच—‘ततस्तैः किं कृतम्।’ बकः कथयति—‘ततस्तैः पक्षिभिः कोपादुक्तम्—‘केनासौ राजहंसो राजा कृतः। ततो मयोपजातकोपेनोक्तम्—‘युष्मदीयमयूरः
केन राजा कृतः।’ एतच्छ्रुत्वा ते सर्वे मां हन्तुमुद्यताः। ततो मयापि स्वविक्रमो दर्शितः। यतः—
अन्यदा भूषणं पुंसां क्षमा लज्जेव योषिताम्।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव॥७॥
राजा विहस्याह—
‘आत्मनश्च परेषां च यः समीक्ष्य बलाबलम्।
अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः॥८॥
अन्यच्च।
सुचिरं हि चरन्नित्यं क्षेत्रे सस्यमबुद्धिमान्।
द्वीपिचर्मपरिच्छन्नो वाग्दोषा गर्दभो हतः॥९॥
बकः पृच्छति—‘कथमेतत्।’ राजा कथयति—
कथा २।
अस्ति हस्तिनापुरे विलासो नाम रजकः। तस्य गर्दाभोऽतिवाहनाद्दुर्बलो मुमूर्षुरिवाभवत्। ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यसमीपे सस्यक्षेत्रे नियुक्तः। ततो दूरात्तमवलोक्य व्याघ्रबुद्ध्याक्षेत्रपतयः सत्वरं पलायन्ते। अथैकदा केनापि सस्यरक्षकेण धूसर कम्बलकृततनुत्राणेन धनुःकाण्डं सज्जीकृत्यानतकायेनैकान्ते स्थितम्। तं च दूराद्दृष्ट्वा गर्दभः पुष्टाङ्गो यथेष्टसस्य- भक्षणजातबलो गर्दभोऽयमिति मत्वोच्चैः शब्दं कुर्वाणस्तदभिमुखं धावितः। सस्यरक्षकेण चीत्कारशब्दान्निश्चित्य गर्दभोऽयमिति लीलयैव व्यापादितः। अतोऽहं ब्रवीमि—‘सुचिरं हि चरन्नित्यम्’ इत्यादि॥ दीर्घमुखो ब्रूते—‘ततः पक्षिभिरुक्तम्—‘अरे पाप दुष्ट बैंक, अस्माकं भूमौ चरन्नस्माकं स्वामिनमधिक्षिपसि। तन्न क्षन्तव्यमिदानीम्’ इत्युक्त्वा सर्वे मां चञ्चुभिर्हत्वा सकोपा ऊचुः—‘पश्य रे मूर्ख, स हंसस्तव राजा सर्वथा मृदुः। तस्य राज्याधिकारो नास्ति। यत एकान्तमृदुः करतलस्थमप्यर्थं
रक्षितुमक्षमः। स कथं पृथिवीं शास्ति राज्यं वा तस्य किम्। किंतु त्वं च कूपमण्डूकः। तेन तदाश्रयमुपदिशसि। शृणु—
सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात्फलं नास्ति च्छाया केन निवार्यते॥१०॥
अन्यच्च।
हीनसेवा न कर्तव्या कर्तव्यो महदाश्रयः।
पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते॥११॥
अन्यच्च।
महानप्यल्पतां याति निर्गुणे गुणविस्तरः।
आधाराधेयभावेन गजेन्द्र इव दर्पणे॥१२॥
विशेषतश्च।
व्यपदेशेऽपि सिद्धिः स्यादतिशक्ते नराधिपे।
शशिनो व्यपदेशेन शशकाः सुखमासतें॥१३॥
मयोक्तम्— ‘कथमेतत् \।’ पक्षिणः कथयन्ति—
कथा ३।
कदाचिदपि वर्षासु वृष्टेरभावात्तृषार्तोगजयूथो यूथपतिमाह—‘नाथ, कोऽभ्युपायोऽस्माकं जीवनाय। नास्ति क्षुद्रजन्तूनां निमज्जनस्थानम्। वयं च निमज्जनस्थानाभावान्मृताही इव। किं कुर्मः। क्व यामः।’ ततो हस्तिराजो नातिदूरं गत्वा निर्मलं हृदं दर्शितवान्। ततो दिनेषु गच्छत्सु तत्तीरावस्थितगजपादाहतिभिश्चूर्णिताः क्षुद्रशशकाः। अनन्तरं शिलीमुखो नाम शशकश्चिन्तयामास—‘अनेन गजयूथेन पिपासाकुलितेन प्रत्यहमत्रागन्तव्यम्। अतो विनश्यत्यस्मत्कुलम्। ततो विजयो नाम वृद्धशशकोऽवदत्—‘मा विषीदत। मयात्र प्रतीकारः कर्तव्यः। ततोऽसौ प्रतिज्ञाय चलितः। गच्छता च तेनालोचितम्—‘कथं गजयूथसमीपे स्थित्वा वक्तव्यम्। यतः—
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजंगमः।
पालयन्नपि भूपालः प्रहसन्नपि दुर्जनः॥१४॥
अतोऽहं पर्वतशिखरमारुह्य यूथनाथं संवादयामि।’ तथानुष्ठिते यूथनाथ उवाच— ‘कस्त्वम्। कुतः समायातः।’ स ब्रूते— ‘शशकोऽहम्। भगवता चन्द्रेण भवदन्तिकं प्रेषितः।’ यूथपतिराह—‘कार्य मुच्यताम्। विजयो ब्रूते—
उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा।
सदैवावध्यभावेन यथार्थस्य हि वाचकः॥१५॥
तदहं तदाज्ञया ब्रवीमि। शृणु। यदेते चन्द्रसरोरक्षकाः शशकास्त्वया निःसारितास्तदनुचितं कृतम्। ते शशकाश्चिरमस्माकं रक्षिताः। अत एव मे शशाङ्क इति प्रसिद्धिः। एवमुक्तवति दूते यूथपतिर्भयादिदमाह—‘प्रणिधेहि। इदमज्ञानतः कृतम्। पुनर्न कर्तव्यम्।’ दूत उवाच—‘यद्येवं तदत्र सरसि कोपात्कम्पमानं भगवन्तं शशाङ्कं प्रणम्य प्रसाद्य गच्छ।’ ततो रात्रौ यूथपतिं नीत्वा जले चञ्चलं चन्द्रबिम्बं दर्शयित्वा यूथपतिः प्रणामं कारितः। उक्तं च तेन— ‘देव, अज्ञानादनेनापराधः कृतः। ततः क्षम्यताम्। नैवं वारान्तरं विधास्यते।’ इत्युक्त्वा प्रस्थापितः। अतोऽहं ब्रवीमि— ‘ व्यपदेशेऽपि सिद्धिः स्यात्’ इति॥ ततो मयोक्तम्—‘स एवास्मत्प्रभू राजहंसो महाप्रतापोऽतिसमर्थः। त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते किं पुनाराज्यम्’ इति। तदाहं तैः पक्षिभिः ‘दुष्ट, कथमस्मद्भूमौ चरसि’ इत्यभिधाय राज्ञश्चित्रवर्णस्य समीपं नीतः। ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्—‘देव, अवधीयतामेष दुष्टो बको यदस्मद्देशे चरन्नपि देवपादानधिक्षिपति।’ राजाह—‘कोऽयम्। कुतः समायातः।’ त ऊचुः—‘हिरण्यगर्भनाम्नो राजहंसस्यानुचरः कर्पूरद्वीपादागतः।’ अथाहं गृध्रेण मन्त्रिणा पृष्टः—‘कस्तत्र मुख्यो मन्त्री’ इति। मयोक्तम्—‘सर्वशास्त्रार्थपारगः सर्वज्ञो नाम चक्रवाकः।’ गृधो ब्रूते—‘युज्यते। स्वदेशजोऽसौ। यतः।
स्वदेशजं कुलाचारं विशुद्धमथवा शुचिम्।
मन्त्रज्ञमव्यसनिनं व्यभिचारविवर्जितम्॥१६॥
अधीतव्यवहारार्थं मौलं ख्यातं विपश्चितम्।
अर्धस्योत्पादकं चैव विदध्यान्मन्त्रिणं नृपः॥१७॥
अत्रान्तरे शुकेनोक्तम्—‘देव, कर्पूरद्वीपादयो लघुद्वीपा जम्बुद्वीपान्तर्गता एव। तत्रापि देवपादानामेवाधिपत्यम्।’ ततो राज्ञाप्युक्तम्—‘एवमेव। यतः—
राजा मत्तः शिशुश्चैव प्रमादी धनगर्वितः।
अप्राप्यमपि वाञ्छन्ति किं पुनर्लभ्यतेऽपि यत्॥१८॥
ततो मयोक्तम्—‘यदि वचनमात्रेणैवाधिपत्यं सिध्यति तदा जम्बुद्वीपेऽप्यस्मत्प्रभोर्हिरण्यगर्भस्य स्वाम्यमस्ति। शुको ब्रूते—‘कथमत्र निर्णयः।’मयोक्तम्—‘सङ्ग्राम एव। राज्ञा विहन्योक्तम्—‘स्वस्वामिनं गत्वा सज्जीकुरु। तदा मयोक्तम्—‘स्वदूतोऽपि प्रस्थाप्यताम्।’ राजोवाच—‘कः प्रयास्यति दौत्येन। यत एवंभूतो दूतः कार्यः।
भक्तो गुणी शुचिर्दक्षः प्रगल्भोऽव्यसनी क्षमी।
ब्राह्मणः परमर्मज्ञो दूतः स्यात्प्रतिभाववान्॥१९॥
गृध्रो वदति—‘सन्त्येव दूता बहवः। किंतु ब्राह्मण एव कर्तव्यः। यतः।
प्रसादं कुरुते पत्युः संपत्तिं नाभिवाञ्छति।
कालिमा कालकूटस्य नापैतीश्वरसंगमात्॥२०॥
राजाह—‘ततः शुक एव व्रजतु। शुक, त्वमेवानेन सह गत्वास्मदभिलपितं ब्रूहि।’ शुको ब्रूते—‘यथाज्ञापयति देवः। किंत्वयं दुर्जनो बकः। तदनेन सह न गच्छामि। तथा चोक्तम्—
खलः करोति दुर्वृत्तं नूनं फलति साधुषु।
दशाननोऽहरत्सीतां बन्धनं स्यान्महोदधेः॥२१॥
अपरं च
न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित्।
काकसङ्गाद्धतो हंसस्तिष्ठन्गच्छंश्च वर्तकः॥२२॥
राजोवाच—‘कथमेतत्।’ शुकः कथयति—
कथा ४।
अमृत्युज्जयिनीवर्त्माप्रान्तरे प्लक्षतरुः। तत्र हंसकाकौ निवसतः। कदाचिद्ग्रीष्मयमये परिश्रान्तः कश्चित्पथिकस्तत्र तरुतले धनुःकाण्डं संनिधाय सुप्तः। तत्र क्षणान्तरे तन्मुखाद्वृक्षच्छायापगता। ततः सूर्यतेजसा तन्मुखं व्याप्तमवलोक्य तद्वृक्षस्थितेन हंसेन कृपया पक्षौ प्रसार्य पुनस्तन्मुखे छाया कृता। ततो निर्भरनिद्रासुखिना तेन मुखव्यादानं कृतम्। अथ परमुखमसहिष्णुः स्वभावदौर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः। ततो यावदसौ पान्थ उत्थायोर्ध्वं निरीक्षते तावत्तेनावलोकितो हंसः काण्डेन हतो व्यापादितः॥
वर्तककथामपि कथयामि—
कथा ५।
एकदा भगवतो गरुडस्य यात्राप्रसङ्गेन सर्वे पक्षिणः समुद्रतीरं गताः। ततः काकेन सह वर्तकश्चलितः। अथ गोपालस्य गच्छतोदधिभाण्डाद्वारंवारं तेन काकेन दधि स्वाद्यते। ततो यावदसौ दधिभाण्डं भूमौ निधायोर्ध्वमवलोकते तावत्तेन काकवर्तकौ दृष्टौ। ततस्तेन स्वेदितः काकः पलायितः। वर्तकः स्वभावनिरपराधो मन्दगतिस्तेन प्राप्तो व्यापादितः। अतोऽहं ब्रवीमि—‘न स्थातव्यं न गन्तव्यम्’ इत्यादि॥ ततो मयोक्तम्—‘भ्रातः शुक, किमेवं ब्रवीषि। मां प्रति यथा श्रीमद्देवस्तथा भवानपि।’ शुकेनोक्तम्—‘अस्त्वेवम्। किंतु।
दुर्जनैरुच्यमानानि संमतानि प्रियाण्यपि।
अकालकुसुमानीव भयं संजनयन्ति हि॥२३॥
दुर्जनत्वं च भवतो वाक्यादेव ज्ञातं यदनयोर्भूपालयोर्विग्रहे भवद्वचनमेव निदानम्। पश्य—
प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति।
रथकारो निजां भार्यां सजारां शिरसाकरोत्॥२४॥
राज्ञोक्तम्—‘कथमेतत्।’ शुकः कथयति—
कथा ६।
अस्ति यौवनश्रीनगरे मन्दमतिर्नाम रथकारः। स च स्वभार्यां बन्धकीं जानाति। जारेण समं स्वचक्षुषा नैकस्थाने पश्यति। ततोऽसौ रथकारः ‘अहमन्यं ग्रामं गच्छामि’ इत्युक्त्वा चलितः। कियद्दूरं गत्वा पुनरागत्य पर्यङ्कतले स्वगृहे निभृतं स्थितः। अथ रथकारो ग्रामान्तरं गत इत्युपजातविश्वासः स जारः संध्याकाल एवागतः। पश्चात्तेन समं तस्मिन्पर्यङ्के क्रीडन्ती पर्यङ्कतलस्थितस्य भर्तुः किंचिदङ्गस्पर्शात्स्वामिनं मायाविनमिति विज्ञाय विषण्णाभवत्। ततो जारेणोक्तम्—‘किमिति त्वमद्य मया सह निर्भरं नरमसे। विस्मितेव प्रतिभासि मे त्वम्।’ तयोक्तम्—‘अनभिज्ञोऽसि। मम प्राणेश्वरो येन ममाकौमारं सख्यं सोऽद्य ग्रामान्तरं गतः। तेन विना सकलजनपूर्णोऽपि ग्रामो मां प्रत्यरण्यवद्भाति। किं भावि तत्र परस्थाने किं खादितवान्कथं वा प्रसुप्त इत्यस्मद्धृदयं विदीर्यते’। जारो ब्रूते—‘तव किमेवं स्नेहभूमी रथकारः।’ बन्धक्यवदत्—‘रे बर्बर, किं वदसि। शृणु—
परुपाण्यपि या प्रोक्ता दृष्टा या क्रोधचक्षुषा।
सुप्रसन्नमुखी भर्तुः सा नारी धर्मभागिनी॥२५॥
अपरं च।
नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः॥२६॥
अन्यच्च।
भती हि परमं नार्या भूषणं भूषणैर्विना।
एषा विरहिता तेन शोभनापि न शोभना॥२७॥
त्वं जारः पापमतिः। मनोलौल्यात्पुष्पताम्बूलसदृशः कदाचित्सेव्यसे कदाचिन्न सेव्यसे च। स च स्वामी मां विक्रेतुं देवेभ्यो ब्राह्मणेभ्योऽपि दातुमीश्वरः। किं बहुना। तञ्जिस्मीवतिजीवामि तन्मरणेचानुमरणं करिष्यामीति प्रतिज्ञा वर्तते। यतः—
तिस्रः कोट्योऽर्धकोटी च यानि लोमानि मानवे।
तावत्कालं वसेत्खर्गे भर्तारं यानुगच्छति॥२८॥
अन्यच्च।
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात्।
तद्वद्भर्तारमादाय खर्गलोके महीयते॥२९॥
अपरं च।
चितौ परिष्वज्य विचेतनं पतिं
प्रिया हि या मुञ्चति देहमात्मनः।
कृत्वापि पापं शतसंख्यमप्यसौ
पतिं गृहीत्वा सुरलोकमाप्नुयात्॥३०॥
एतत्सर्वं श्रुत्वा स रथकारोऽवदत्—‘धन्योऽहं यस्येदृशी प्रियवादिनी स्वामिवत्सला भार्या’ इति मनसि निधाय तां खट्वां स्त्रीषुरुषसहितां मूर्ध्नि कृत्वा सानन्दं ननर्त। अतोऽहं ब्रवीमि—‘प्रत्यक्षेऽपि कृते दोषे’ इत्यादि॥ ततोऽहं तेन राज्ञा यथाव्यवहारं संपूज्य प्रस्थापितः। शुकोऽपि मम पश्चादागच्छन्नास्ते। एतत्सर्वं परिज्ञाय यथाकर्तव्यमनुसंधीयताम्। चक्रवाको विहस्याह—‘देव,बकेन तावद्देशान्तरमपि गत्वा यथाशक्ति राजकार्यमनुष्ठितम्। किंतु देव, स्वभाव एष मूर्खाणाम्। यतः—
शतं दद्यान्न विवदेदिति विज्ञस्य संगतम्।
विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम्॥३१॥
राजाह—‘किमतीतोपालम्भनेन। प्रस्तुतमनुसंधीयताम्।’ चक्रवाको ब्रूते—‘देव, विजने ब्रवीमि। यतः—
वर्णाकारप्रतिध्वानैर्नेत्रवऋविकारतः।
अप्यूहन्ति मनो धीरास्तस्माद्रहसि मन्र्रयेत॥३२॥
राजा मन्त्री च तत्र स्थितौ। अन्येऽन्यत्र गुताः। चक्रवाको ब्रूते—‘देव, अहमेवं जानामि कस्याप्यस्मन्नियोगिनः प्रेरणया बकेनेदमनुष्ठितम्। यतः—
वैद्यानामातुरः श्रेयान्व्यसनी यो नियोगिनाम्।
विदुषां जीवनं मूर्खः सद्वर्णो जीवनं सताम् ‘॥३३॥
राजाब्रवीत्—‘भवतु। कारणमत्र पश्चान्निरूपणीयम्। संप्रति यत्कर्तव्यं तन्निरूप्यताम्।’ चक्रवाको ब्रूते—‘देव प्रणिधिस्तावत्प्रहीयताम्। ततस्तदनुष्ठानं बलाबलं च जानीमः। तथा हि—
भवेत्स्वपरराष्ट्राणां कार्याकार्यावलोकने।
चारचक्षुर्महीभर्तुर्यस्य नास्त्यन्ध एव सः॥३४॥
स च द्वितीयं विश्वासपात्रं गृहीत्वा यातु। तेनासौ स्वयं तत्रावस्थाय द्वितीयं तत्रत्यमन्त्रकार्यं सुनिभृतं निश्चित्य निगद्य प्रस्थापयति। तथा चोक्तम्—
तीर्थाश्रमसुरम्थाने शास्त्रविज्ञानहेतुना।
तपस्वितव्यञ्जनोपेतैः स्वचरैः सह संवदेत्॥३५॥
गूढचारश्च योजले स्थले चरति। ततोऽसावेव बको नियुज्यताम्। एतादृश एव कश्चिद्धको द्वितीयत्वेन प्रयातु। तद्गृहलोकाश्च राजद्वारे तिष्ठन्तु। किंतु देव, एतदपि सुगुप्तमनुष्ठातव्यम्। यतः—
षट्कर्णो भिद्यते मन्त्रस्तथा प्राप्तश्च वार्तया।
इत्यात्मना द्वितीयेन मन्त्रः कार्यो महीभृता॥३६॥
पश्य—
मन्त्रभेदेऽपि ये दोषा भवन्ति पृथिवीपतेः।
न शक्यास्ते समाधातुमिति नीतिविदां मतम्॥३७॥
राजा विमृश्योवाच—‘प्राप्तस्तावन्मयोत्तमः प्रणिधिः।’ मन्त्रीब्रूते—‘तदा सङ्ग्रामविजयोऽपि प्राप्तः।’
अत्रान्तरे प्रतीहारः प्रविश्य प्रणम्योवाच—‘देव, जम्बुद्वीपादागतो द्वारि शुकस्तिष्ठति। राजा चक्रवाकमालोकते। चक्रवाकेणोक्तम्—‘तावद्गत्वावासे तिष्ठतु पश्चादानीय द्रष्टव्यः। प्रतीह- रस्तमावासस्थानं नीत्वा गतः। राजाह—‘विग्रहस्तावत्समुपस्थितः। चक्रो ब्रूते—‘देव, प्रागेव विग्रहो न विधिः। यतः।
स किंभृत्यः स किंमन्त्री य आदावेव भूपतिम्।
युद्धोद्योगं स्वभृत्यागं निर्दिशत्यविचारितम्॥३८॥
अपरं च।
विजेतुं प्रयतेतारीन्न युद्धेन कदाचन।
अनित्यो विजयो यस्मादृश्यते युध्यमानयोः॥३९॥
अन्यच्च।
साम्ना दानेन भेदेन समस्तैरथवा पृथक्।
साधितुं प्रयतेतारीन्न युद्धेन कदाचन॥४०॥
ऊपरं च।
सर्व एव जनः शूरो ह्यनासादितविग्रहः।
अदृष्टपरसामर्थ्यः सदर्पः को भवेन्न हि॥४१॥
किं च।
न तथोत्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा।
अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत्॥४२॥
किंतु विग्रहमुपस्थितं विलोक्य व्यवह्नियताम्। यतः—
यथा कालकृतोद्योगात्कृषिः फलवती भवेत्।
तद्वन्नीतिरियं देव चिरात्फलति रक्षणात्॥ ४३॥
अपरं च।
महतो दूरभीरुत्वमासन्ने शूरता गुणः।
विपत्तौ च महाल्ँलोके धीरतामनुगच्छति॥४४॥
अन्यच्च।
प्रत्यूहः सर्वसिद्धीनामुत्तापः प्रथमः किल।
अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतः॥४५॥
विशेषतश्च महाबलोऽसौ चित्रवर्णो राजा। यतः—
बलिना सह योद्धव्यमिति नास्ति निदर्शनम्।
तद्युद्धं हस्तिना सार्धं नराणां मृत्युमावहेत्॥४६॥
अन्यच्च।
स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते।
कलिर्बलवता सार्धं कीटपक्षोद्यमो यथा॥४७॥
किंच।
कौर्मं संकोचमास्थाय प्रहारमपि मर्षयेत्।
प्राप्तकाले तु नीतिज्ञ उत्तिष्ठेत्त्रसर्पवत्॥४८॥
महत्यल्पेऽप्युपायज्ञः सममेव भवेत्क्षमः।
समुन्मूलयितुं वृक्षांस्तृणानीव नदीरयः॥४९॥
अतस्तद्दूतोऽप्याश्चास्य तावद्भियतां यावद्दुर्गः सज्जीक्रियते। यतः—
एकः शतं योधयति प्राकारस्थो धनुर्धरः।
शतं शतसहस्राणि तस्माद्दुर्गं विशिष्यते॥५०॥
किं च।
अदुर्गो विषयः कस्य नारेः परिभवास्पदम्।
अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत्॥५१॥
दुर्गं कुर्यान्महाखातमुच्चप्राकारसंयुतम्।
सयन्त्रं सजलं शैलसरिन्मरुवनाश्रयम्॥५२॥
विस्तीर्णतातिवैषम्यं रसधान्येध्मसंग्रहः।
प्रवेशश्चापसारश्च सप्तैता दुर्गसंपदः॥५३॥
राजाह—‘दुर्गानुसंधाने को नियुज्यताम्।’ चक्रो ब्रूते—
यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत्।
कर्मस्वदृष्टकर्मा यः शास्त्रज्ञोऽपि विमुह्यति॥५४॥
तदाहूयतां सारसः।’ तथानुष्ठिते सत्यागतं सारसमालोक्य राजोवाच—‘भोः सारस, त्वं सत्वरं दुर्गमनुसंधेहि।’ सारसः प्रणम्योवाच—‘देव, दुर्गं तावदिदमेव चिरात्सुनिरूपितमास्ते महत्सरः। किंत्वत्र मध्यवर्तिद्वीपे द्रव्यसंग्रहः क्रियताम्। यतः—
धान्यानां संग्रहो राजन्नुत्तमः सर्वसंग्रहात्।
निक्षिप्तं हि मुखे रत्नं न कुर्यात्प्राणधारणम्॥५५॥
किं च॥
ख्यातः सर्वरसानां हि लवणो रस उत्तमः।
गृहीतं च विना तेन व्यञ्जनं गोमयायते॥५६॥
राजाह—‘सत्वरं गत्वा सर्वमनुतिष्ठ।’ पुनः प्रविश्य प्रतीहारो ब्रूते—‘देव, सिंहलद्वीपादागतो मेघवर्णो नाम वायसः सपरिवारो द्वारि तिष्ठति। देवपादं द्रष्टुमिच्छति।’ राजाह—‘काकाः पुनः सर्वज्ञा बहुद्रष्टारश्च। तद्भवति संग्राह्य इत्यनुवर्तते।’ चक्रो ब्रूते—‘देव, अस्त्येवम्। किंतु काकः स्थलचरः। तेनास्मद्विपक्षे नियुक्तः कथं संग्राह्यः। तथा चोक्तम्—
आत्मपक्षं परित्यज्य परपक्षेषु यो रतः।
स परैर्हन्यते मूढो नीलवर्णशृगालवत्’॥५७॥
राजोवाच— ‘कथमेतत्।’ मन्त्री कथयति—
कथा ७।
अस्त्यरण्ये कश्चिच्छृगालः खेच्छया नगरोपान्ते भ्राम्यन्नीलीभाण्डे पतितः। पश्चात्तत उत्थातुमसमर्थः प्रातरात्मानं मृतवत्संदर्श्य
स्थितः। अथ नीलीभाण्डस्वामिना मृत इति ज्ञात्वा तस्मात्समुत्थाप्यदूरे नीत्वापसारितस्तस्मात्पलायितः। ततोऽसौ वनं गत्वा स्वकीयमात्मानं नीलवर्णमवलोक्याचिन्तयत्—‘अहमिदानीमुत्तमवर्णः। तदाहं स्वकीयोत्कर्षं किं न साधयामि।’ इत्यालोच्य शृगालानाहूय तेनोक्तम्—‘अहं भगवत्या वनदेवतया स्वहस्तेनारण्यराज्ये सर्वौषधिरसेनाभिषिक्तः। तदद्यारभ्यारण्येऽस्मदाज्ञया व्यवहारः कार्यः।’ शृगालाश्च तं विशिष्टवर्णमवलोक्य साष्टाङ्गपातं प्रणम्योचुः—‘यथाज्ञापयति देवः।’ इत्यनेनैव क्रमेण सर्वेप्वरण्यवासिष्वाधिपत्यं तस्य बभूव। ततस्तेन स्वज्ञातिभिरावृतेनाधिक्यं साधितम्। ततस्तेन व्याघ्रसिंहादीनुत्तमपरिजनान्प्राप्य सदसि शृगालानवलोक्य लज्जमानेनावज्ञया स्वज्ञातयः सर्वे दूरीकृताः। ततो विषण्णाञ्शृगालानवलोक्य केनचिद्वृद्धशृगालेनैतत्प्रतिज्ञातम्—‘मा विषीदत। यदनेनानभिज्ञेन नीतिविदो मर्मज्ञा वयं स्वसमीपात्परिभूतास्तद्यथायं नश्यति तथा विधेयम्। यतोऽमी व्याघ्रादयो वर्णमात्रविप्रलब्धाः शृगालमज्ञात्वा राजानमिमं मन्यन्ते। तद्यथायं परिचितो भवति तथा कुरुत। तत्र चैवमनुष्ठेयम्। यतः सर्वे संध्यासमये संनिधाने महारावमेकदैव करिष्यथ। ततस्तं शब्दमाकर्ण्य जातिस्वाभावात्तेनापि शब्दः कर्तव्यः। ततस्तथानुष्ठिते सति तद्वृत्तम्। यतः—
यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः।
श्वा यदि क्रियते राजा तत्किं नाश्नात्युपानहम्॥५८॥
ततः शब्दादभिज्ञाय स व्याघ्रेण हतः। तथा चोक्तम्—
छिद्रं मर्म च वीर्यं च सर्वं वेत्ति निजो रिपुः।
दहत्यन्तर्गतश्चैव शुष्कं वृक्षमिवानलः॥५९॥
अतोऽहं ब्रवीमि—‘आत्मपक्षं परित्यज्य’ इत्यादि। राजाह—‘यद्यैवं तथापि दृश्यतां तावदयं दूरादागतः। तत्संग्रहे विचारः
कार्यः।’ चक्रो ब्रूते—‘देव, प्रणिधिः प्रहितो दुर्गश्च सज्जीकृतः। अतः शुकोऽप्यानीय प्रस्थाप्यताम्। यतः—
नन्दं जघान चाणक्यस्तीक्ष्णदूतप्रयोगतः।
तद्दूरान्तरितं दूतं पश्येद्धीरसमन्वितः॥६०॥
ततः सभां कृत्वाहूतः शुकः काकश्च। शुकः किंचिदुन्नतशिरादत्तासन उपविश्य ब्रूते—‘भो हिरण्यगर्भ, महाराजाधिराजः श्रीमच्चित्रवर्णस्त्वां समाज्ञापयति। यदि जीवितेन श्रिया वा प्रयोजनमस्ति तदा सत्वरमागत्यास्मच्चरणौ प्रणम। न चेदवस्थातुं स्थानान्तरं चिन्तय।’ राजा सकोपमाह—‘आः, कोऽप्यस्माकं पुरतो नास्ति य एनं गलहस्तयति।’ उत्थाय मेघवणों ब्रूते—‘देव, आज्ञाप्य। हन्मि दुष्टं शुकम्। सर्वज्ञो राजानं काकं च सान्त्वयब्रूते—‘शृणु तावत्—
न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्मम्।
धर्मः स नो यत्र न सत्यमस्ति
सत्यं न तद्यच्छलमभ्युपैति॥ ६१॥
यतो धर्मश्चैषः।
दूतो म्लेच्छोऽप्यवध्यः स्याद्राजा दूतमुखो यतः।
उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा॥६२॥
किं च।
स्वापकर्षं परोत्कर्षं दूतोक्तैर्मन्यते तु कः।
सदैवावध्यभावेन दूतः सर्वेहि जल्पति’॥६३॥
ततो राजा काकश्च स्वां प्रकृतिमापन्नौ। शुकोऽप्युथाय चलितः। पश्चाच्चक्रवाकेणानीय प्रबोध्य कनकालंकारादिकं दत्त्वा संप्रेषितो ययौ। शुकोऽपि विन्ध्याचलराजानं प्रणतवान्। राजोवाच—‘शुक, का वार्ता। कीदृशोऽसौ देशः।’ शुको ब्रूते—‘देव,
संक्षेपादियं वार्ता। संप्रति युद्धोद्योगः क्रियताम्। देशश्वासौ कर्पूरद्वीपः खर्गौकदेशो राजा च द्वितीयः स्वर्गपतिः। कथं वर्णयितुं शक्यते। ततः सर्वाशिष्टानाहूय राजा मन्त्रयितुमुपविष्टः। आह च—‘संप्रति कर्तव्यविग्रहे यथाकर्तव्यमुपदेशं ब्रूत।पुनरवश्यं कर्तव्यः। तथा चोक्तम्—
असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभुजः।
सलज्जा गणिका नष्टा निर्लज्जाश्च कुलस्त्रियः॥६४॥
दूरदर्शी नाम गृधो ब्रूते—‘देव, व्यसनितया विग्रहो न विधिः। यतः—
मित्रामात्यसुहृद्वर्गा यदा स्युर्दृढभक्तयः।
शत्रूणां विपरीताश्च कर्तव्यो विग्रहस्तदा॥६५॥
अन्यच्च।
भूमिर्मित्रं हिरण्यं च विग्रहस्य फलं त्रयम्।
यदैतन्निश्चितं भावि कर्तव्यो विग्रहस्तदा॥६६॥
राजाह—‘मद्बलं तावदवलोकयतु मन्त्री। तदैतेषामुपयोगो ज्ञायताम्। एवमाहूयतां मौहूर्तिकः। निर्णीय च शुभलग्नं ददातु। मन्त्रीब्रूते—‘तथापि सहसा यात्राकरणमनुचितम्। यतः—
विशन्ति सहसा मूढा येऽविचार्य द्विपद्बलम्।
खड्गधारापरिष्वङ्गं लभन्ते ते सुनिश्चितम्॥६७॥
राजाह—‘मन्त्रिन्, ममोत्साहभङ्गं सर्वथा मा कृथाः। विजिगीषुर्यथा परभूमिमाक्रामति तथा कथय।’ गृध्रो ब्रूते—‘तत्कथयामि। किंतु तदनुष्ठितमेव फलप्रदम्। तथा चोक्तम्—
किं मन्त्रेणाननुष्ठानाच्छास्त्रवित्पृथिवीपतेः।
न ह्यैषधपरिज्ञानाव्द्याधेः शान्तिः क्वचिद्भवेत्॥६८॥
राजादेशश्चानतिक्रमणीयः। यथाश्रुतं तन्निवेदयामि। शृणु—
नद्यद्रिवनदुर्गेषु यत्र यत्र भयं नृप।
तत्र तत्र च सेनानीर्यायाद्व्यूहीकृतैर्बलैः॥६९॥
बलाध्यक्षः पुरो यायात्प्रवीरपुरुषान्वितः।
मध्ये कलत्रं स्वामी च कोशः फल्गु च यद्बलम्॥७०॥
पार्श्वयोरुभयोरश्वा अश्वानां पार्श्वतो रथाः।
रथानां पार्श्वयोर्नागा नागानां च पदातयः॥७१॥
पश्चात्सेनापतिर्यायात्खिन्नानाश्वासयञ्छनैः।
मन्त्रिभिः सुभटैर्युक्तः प्रतिगृह्य बलं नृपः॥७२॥
समेयाद्विषमं नागैर्जलाढ्यं समहीधरम्।
सममश्चैर्जलं नौभिः सर्वत्रैव पदातिभिः॥७३॥
हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे।
तदन्यत्र तुरंगाणां पत्तीनां सर्वदैव हि॥७४॥
शैलेषु दुर्गमार्गेषु विधेयं नृपरक्षणम्।
स्वयोधै रक्षितस्यापि शयनं योगनिद्रया॥७५॥
नाशर्येत्कर्षयेच्छत्रुनन्दुर्गकण्टकमर्दनैः।
परदेशप्रवेशे च कुर्यादाटविकान्पुरः॥७६॥
यत्र राजा तत्र कोशो विना कोशान्नराजता।
स्वभृत्येभ्यस्ततो दद्यात्को हि दातुर्न युध्यते॥७७॥
यतः—
न नरस्य नरो दासो दासस्त्वर्थस्य भूपते।
गौरवं लाघवं वापि धनाधननिबन्धनम्॥७८॥
अभेदेन च युध्येत रक्षेच्चैव परस्परम्।
फल्गु सैन्यं च यत्किंचिन्मध्ये व्यूहस्य कारयेत्॥७९॥
पदातींश्च महीपालः पुरोऽनीकस्य योजयेत्।
उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत्॥८०॥
स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा।
वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले॥८१॥
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम्।
भिन्द्याच्चैव तडागानि प्राकारान्परिस्वांस्तथा॥८२॥
बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः।
निजैरवयवैरेव मातङ्गोऽष्टायुधः स्मृतः॥८३॥
बलमश्वश्च सैन्यानां प्राकारो जङ्गमो यतः
तस्मादश्वाधिको राजा विजयी स्थलविग्रहे॥८४॥
तथा चोक्तम्—
युध्यमाना हयारूढा देवानामपि दुर्जयाः।
अपि दूरस्थितास्तेषां वैरिणो हस्तवर्तिनः॥ ८५॥
प्रथमं युद्धकारित्वं समस्तबलपालनम्।
दिङ्मार्गाणां विशोधित्वं पत्तिकर्म प्रचक्षते॥८६॥
स्वभावशूरमस्त्रज्ञमविरक्तं जितश्रमम्।
प्रसिद्धक्षत्रियप्रायं बलं श्रेष्ठतमं विदुः॥८७॥
यथा प्रभुकृतान्मानाद्युध्यन्ते भुवि मानवाः।
न तथा बहुभिर्दतैर्द्रविणैरपि भूपते॥ ८८॥
वरमल्पबलं सारं न कुर्यान्मुण्डमण्डलीम्।
कुर्यादसारभङ्गो हि सारभङ्गमपि स्फुटम्॥८९॥
अप्रसादोऽनधिष्ठानं देयांशहरणं च यत्।
कालयापोऽप्रतीकारस्तद्वैराग्यस्य कारणम्॥९०॥
आपीडयन्बलं शत्रोर्जिगीपुरतिशोषयेत्।
सुखसाध्यं द्विषां सैन्यं दीर्घयानप्रपीडितम्॥९१॥
दायादादपरो मन्त्रोनास्ति भेदक द्विषाम्।
तस्मादुत्थापयेद्यत्नाद्दायादं तस्य विद्विषः॥९२॥
संधाय युबराजेन यदि वा मुख्यमन्त्रिणा।
अन्तः प्रकोपनं कार्यमभियोक्तः स्थिरात्मनः॥९३॥
क्रूरं मित्रं रणे चापि भङ्गं दत्त्वा विघातयेत्।
अथवा गोग्रहाकृष्ट्या तल्लक्ष्याश्रितबन्धनात्॥९४॥
स्वराज्यं वासयेद्राजा परदेशावगाहनात्।
अथवा दानमानाभ्यां वासितं धनदं हि तत्’॥९५॥
राजा—‘आः, किं बहुनोदितेन।
आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते’॥९६॥
मन्त्रिणा विहस्योच्यते—‘सर्वमेतद्विशेषतश्चोच्यते। किंतु।
अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम्।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः॥९७॥
तत उत्थाय राजा मौहूर्तिकावेदितलग्नेप्रस्थितः।
अथ प्रहितप्रणिधिर्हिरण्यगर्भमागत्योवाच—‘देव, समागतप्रायो राजा चित्रवर्णः। संप्रति मलयपर्वताधित्यकायां समावासितकटकोऽनुवर्तते। दुर्गशोधनं प्रतिक्षणमनुसंधातव्यं यतोऽसौ गृध्रोमहामन्त्री। किंच केनचित्सह तस्य विश्वासकथाप्रसङ्गेनैव तदिङ्गितमवगतं मया यदनेन कोऽप्यस्मद्दुर्गे प्रागेव नियुक्तः।’ चक्रो ब्रूते—‘देव, काक एवासौ संभवति।’ राजाह—‘न कदाचिदेतत्। यद्येवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः। अपरं च। शुकस्यागमनात्तस्य विग्रहोत्साहः। स चिरादत्रास्ते।’ मन्त्री ब्रूते—‘तथाप्यागन्तुः शङ्कनीयः।’ राजाह—‘आगन्तुका हि कदाचिदुपकारका दृश्यन्ते। शृणु—
परोऽपि हितवान्बन्धुर्बन्धुरप्यहितः परः।
अहितो देहजो व्याधिर्हितमारण्यमौषधम्॥९८॥
अपरं च।
आसीद्वीरवरो नाम शूद्रकस्य महीभृतः।
सेवकः स्वल्पकालेन स ददौ सुतमात्मनः॥९९॥
चक्रः पृच्छति—‘कथमेतत्।’ राजा कथयति—
कथा ८।
अहं पुरा शूद्रकस्य राज्ञः क्रीडासरसि कर्पूरकेलिनाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवानभवम्। तत्र वीरवरो नाम महाराजपुत्रः कुतश्चिदेशादागत्य राजद्वारमुपगम्य प्रतीहारमुवाच—‘अहं तावद्वेतनार्थी राजपुत्रः। राजदर्शनं कारय।’ ततस्तेनासौ राजदर्शनं कारितो ब्रूते—‘देव, यदि मया सेवकेन प्रयोजनमस्ति तदास्मद्वर्तनं क्रियताम्।’ शूद्रक उवाच किं ते वर्तनम्।’ वीरवरो ब्रूते—‘प्रत्यहं सुवर्णपञ्चशतानि देहि।’ राजाह—‘का ते सामग्री।’ वीरवरो ब्रूते—‘द्वौ बाहू तृतीयश्च स्वङ्गः।’ राजाह—‘नैतच्छक्यम्। तच्छ्रुत्वा वीरवरश्चलितः। अथ मन्त्रिभिरुक्तम्—‘देव, दिनचतुष्टयस्य वर्तनं दत्त्वा ज्ञायतामस्य स्वरूपं किमुपयुक्तोऽयमेतावद्वर्तनं गृह्णात्यनुपयुक्तो वेति।’ ततो मन्त्रिवचनादाहुय वीरवराय ताम्बूलं दत्त्वा पञ्चशतानि सुवर्णानि दत्तानि। तद्विनियोगश्च राज्ञा सुनिभृतं निरूपितः। तदर्धंवीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम्। स्थितस्यार्धं दुःखितेभ्यः। तदवशिष्टं भोज्यव्ययविलासव्ययेन। एतत्सर्वं नित्यकृत्यं कृत्वा राजद्वारमहर्निशं खड्गपाणिः सेवते। यदा च राजा स्वयं समादिशति तदा खगृहमपि याति ॥
अथैकदा कृष्णचतुर्दश्यां रात्रौ राजा सकरुणं क्रन्दनध्वनिं शुश्राव। शूद्रक उवाच—‘कः कोऽत्र द्वारि।’ तेनोक्तम्—‘देव, अहं वीरवरः। राजोवाच—‘क्रन्दनानुसरणं क्रियताम्।’ वीरवरः ‘यथाज्ञापयति देवः’ इत्युक्त्वा चलितः। राज्ञा च चिन्तितम्—‘नैतदुचितम्। अयमेकाकी राजपुत्रो मया सूचीभेद्येतमसि प्रेरितः। तदनु गत्वा किमेतदिति निरूपयामि। ततो राजापि खङ्गमादाय तदनुसरणक्रमेण नगराद्वहिर्निर्जगाम। गत्वा च वीरवरेण सा रुदती रूपयौवनसंपन्ना सर्वालंकारभूषिता काचित्स्त्री
दृष्टा। पृष्टा च—‘का त्वम्। किमर्थं रोदिषि।’ स्त्रियोक्तम्—‘अहमेतस्य शूद्रकस्य राजलक्ष्मीः। चिरादेतस्य भुजच्छायायां महता सुखेन विश्रान्ता। इदानीमन्यत्र गमिष्यामि।’ वीरवरो ब्रूते—‘यत्रापायः संभवति तत्रोपायोऽप्यस्ति। तत्कथं स्यात्पुनरिहावलम्बनं भवत्याः।’ लक्ष्मीरुवाच—‘यदि त्वमात्मनः पुत्रं शक्तिधरं द्वात्रिंशलक्षणोपेतं भगवत्याः सर्वमङ्गलाया उपहारीकरोषि तदाहं पुनरत्र सुचिरं निवसामि इत्युक्त्वादृश्याभवत्।
ततो वीरवरेण स्वगृहं गत्वा निद्रायमाणा स्ववधूः प्रबोधिता पुत्रश्च। तौ निद्रां परित्यज्योत्थायोपविष्टौ। वीरवरस्तत्सर्वं लक्ष्मीवचनमुक्तवान्। तच्छ्रुत्वा सानन्दः शक्तिधरो ब्रूते—‘धन्योऽहमेवंभूतः स्वामिराज्यरक्षार्थं यन्ममोपयोगः श्लाघ्यः। तत्कोऽधुना विलम्बस्य हेतुः। एवंविधे कर्मणि देहस्य विनियोगः श्लाघ्यः। यतः—
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
तन्निमित्तो वरं त्यागो विनाशे नियते सति॥१००॥
शक्तिधरमातोवाच—‘यद्येतन्न कर्तव्यं तत्केनाप्यन्येन कर्मणा मुख्यस्य महावर्तनस्य निष्क्रयो भविष्यति।’ इत्यालोच्य सर्वे सर्वमङ्गलायाः स्थानं गताः। तत्र सर्वमङ्गलां संपूज्य वीरवरो ब्रूते—‘देवि, प्रसीद। विजयतां विजयतां शूद्रको महाराजः। गृह्यतामुपहारः। इत्युक्त्वा पुत्रस्य शिरश्चिच्छेद। ततो वीरवरश्चिन्तयामास—‘गृहीतराजवर्तनस्य निस्तारः कृतः। अधुना निष्पुत्रस्य जीवनेनालम्।’ इत्यालोच्यात्मनः शिरश्छेदः कृतः। ततः स्त्रियापि स्वामिपुत्रशोकार्तया तदनुष्ठितम्। तत्सर्वं दृष्ट्वा राजा साश्वर्यं चिन्तयामास—
जीवन्ति च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः।
अनेन सदृशो लोके न भूतो न भविष्यति॥१०१॥
तदेतेन परित्यक्तेन मम राज्येनाप्यप्रयोजनम्।’ तप्तः शूद्रकेणापि
स्वशिरश्छेत्तुं खङ्गः समुत्थापितः। अथ भगवत्या सर्वमङ्गलया राजा हस्ते धृत उक्तश्च—‘पुत्र, प्रसन्नास्मि ते। एतावता साहसेनालम्। जीवनान्तेऽपि तव राज्यभङ्गो नास्ति।’ राजा च साष्टाङ्गपातं प्रणम्योवाच—‘देवि, किं मे राज्येन। जीवितेन वा किं प्रयोजनम्। यद्यहमनुकम्पनीयस्तदा ममायुःशेषेणायं सदारपुत्रो वीरवरो जीवतु। अन्यथाहं यथाप्राप्तां गतिं गच्छामि। भगवत्युवाच—‘पुत्र, अनेन ते सत्त्वोत्कर्षेण भृत्यवात्सल्येनं च तव तुष्टास्मि। गच्छ। विजयी भव। अयमपि सपरिवारो राजपुत्रो जीवतु।’ इत्युक्त्वा देव्यदृश्याभवत्। ततो वीरवरः सपुत्रदारो गृहं गतः। राजापि तैरलक्षितः सत्वरमन्तः पुरं प्रविष्टः।
अथ प्रभाते वीरवरो द्वारस्थः पुनर्भूपालेन पृष्टः सन्नाह—‘देव सा रुदती मामवलोक्या दृश्याभवत्। न काप्यान्यवार्ता विद्यते।’ तद्वचनमाकर्ण्य राजाचिन्तयत्—‘कथमयं श्लाघ्यो महासत्त्वः। यतः—
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः।
दाता नापात्रवर्षी च प्रगल्भः स्यादनिष्ठुरः॥१०२॥
एतन्महापुरुषलक्षणमेतस्मिन्सर्वमस्ति। ततः स राजा प्रातः शिष्टसभां कृत्वा सर्ववृत्तान्तं प्रस्तुत्य प्रसादात्तस्मै कर्णाटराज्यं ददौ। तत्किमागन्तुको जातिमात्राद्दुष्टः। तत्राप्युत्तमा- धममध्यमाः सन्ति।
चक्रवाको ब्रूते—
योऽकार्यं कार्यवच्छास्ति स किंमन्त्रीनृपेच्छया।
वरं स्वामिमनोदुःखं तन्नाशो न त्वकार्यतः॥१०३॥
वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियः सदा।
शरीरधर्मकोशेभ्यः क्षिप्रं स परिहीयते॥१०४॥
श्रृणु देव \।
पुण्याल्लब्धं यदेकेन तन्ममापि भविष्यति।
हत्वा भिक्षुं महालोभान्निध्यर्थी नापितो हतः॥१०५॥
राजा पृच्छति— ‘कथमेतत्।’ मन्त्री कथयति—
कथा ९।
अस्त्यंयोध्यायां चूडामणिर्नाम क्षत्रियः। तेन धनार्थिना महता क्लेशेन भगवांश्चन्द्रार्धचूडामणिश्चिरमाराधितः। ततः क्षीणपापोऽसौ स्वप्नेदर्शनं दत्त्वा भगवदादेशाद्यक्षेश्वरेणादिष्टः—‘यत्त्वमद्य प्रातः क्षौरं कृत्वा लगुडं हस्ते कृत्वा गृहे निभृतं स्थास्यसि। ततोऽस्मिन्नेवाङ्गणे समागतं भिक्षं पश्यसि तं निर्दयं लगुडप्रहारेण हनिष्यसि। ततः सुवर्णकलशो भविष्यति। तेन त्वया यावज्जीवं सुखिना भवितव्यम्।’ ततस्तथानुष्ठिते तद्वृत्तम्। तत्र क्षौरकरणायानीतेन नापितेनालोक्य चिंन्तितम्— ‘अये, निधिप्राप्तेरयमुपायः। अहमप्येवं किं न करोमि। ततः प्रभृति नापितः प्रत्यहं तथाविधो लगुडहस्तः सुनिभृतं भिक्षोरागमनं प्रतीक्षते। एकदा तेन प्राप्तो भिक्षुलगुडेन व्यापादितः। तस्मादपराधात्सोऽपि नापितो राजपुरुषैर्व्यापादितः। अतोऽहं व्रवीमि— ‘पुण्याल्लब्धं यदेकेन’ इत्यादि ॥
राजाह—
‘
पुरावृत्तकथोद्गारैः कथं निर्णीयते परः।
स्यान्निष्कारणवन्धुर्वा किं वा विश्वासघातकः॥१०६॥
यातु। प्रस्तुतमनुसंधीयताम्। मलयाधित्यकायां चेच्चित्रवर्णस्तदधुना किं विधेयम्।’ मन्त्री वदति—‘देव, आगतप्रणिधिमुखान्मया श्रुतं तन्महामन्त्रिणो गृध्रस्योपदेशे यच्चित्रवर्णेनानादरः कृतः। ततोऽसौ मूढो जेतुं शक्यः। तथा चोक्तम्—
लुब्धः क्रूरोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः।
मूढो योधावमन्ता च सुखच्छेद्यो रिपुः स्मृतः॥१०७॥
ततोऽसौ यावदस्मद्दुर्गद्वाररोधं न करोति तावन्नद्यद्रिवनवर्त्मसु तद्बलानि हन्तुं सारसादयः सेनापतयो नियुज्यन्ताम्। तथा चोक्तम्—
दीर्घवर्त्मपरिश्रान्तं नद्यद्रिवनसंकुलम्।
घोराग्निभयसंत्रस्तं क्षुत्पिपासार्दितं तथा॥१०८॥
प्रमत्तं भोजनव्ययं व्याधिदुर्भिक्षपीडितम्।
असंस्थितमभूयिष्ठं वृष्टिवातसमाकुलम्॥१०९॥
पङ्कपांशुजलाच्छन्नं सुव्यस्तं दस्युविद्रुतम्।
एवंभूतं महीपालः परसैन्यं विघातयेत्॥११०॥
अन्यच्च।
अवस्कन्दभयाद्राजा प्रजागरकृतश्रमम्।
दिवासुप्तं समाहन्यान्निद्राव्याकुलसैनिकम्॥१११॥
अतस्तस्य प्रमादिनो बलं गत्वा यथावकाशं दिवानिशं घ्नन्त्वस्मत्सेनापतयः। तथानुष्ठिते चित्रवर्णस्य सैनिकाः सेनापतयश्च बहवो निहताः। ततश्चित्रवर्णो विषण्णः स्वमन्त्रिणं दूरदर्शिनमाह—‘तात, किमित्यस्मदुपेक्षा क्रियते। किं क्वाप्यविनयो ममास्ति। तथा चोक्तम्—
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम्।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम्॥११२॥
अपि च।
दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी।
उद्युक्तो विद्यान्तं धर्मार्थयशांसि च विनीतः॥११३॥
गृध्रोऽवदत्—‘देव, शृणु।
अविद्वानपि भूपालो विद्यावृद्धोपसेवया।
परां श्रियमवाप्नोति जलासन्नतरुर्यथा॥११४॥
अन्यच्च।
पानं स्त्री मृगया द्यूतमर्थदूषणमेव च।
वाग्दण्डयोश्च पारुष्यंव्यसनानि महीभुजाम्॥११५॥
किं च।
न साहसैकान्तरसानुवर्तिना
न चाप्युपायोपहतान्तरात्मना।
विभूतयः शक्यमवाप्तमूर्जिता
नये च शौर्ये च वसन्ति संपदः॥११६॥
त्वया स्वबलोत्साहमवलोक्य साहसैकवासिना मयोपन्यस्तेष्वपि मन्त्रेष्वनवधानं वाक्पारुष्यं च कृतम्। अतो दुर्नीतेः फलमिदमनुभूयते। तथा चोक्तम्—
दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः
संतापयन्ति कमपथ्यभुजं न रोगाः।
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः
कं स्त्रीकृता न विषयाः परितापयन्ति॥११७॥
अपरं च।
मुदं विषादः शरदं हिमागम-
स्तमो विवस्वान्सुकृतं कृतघ्नता।
प्रियोपपत्तिः शुचमापदं नयः
श्रियः समृद्धा अपि हन्ति दुर्नयः॥११८॥
ततो मयाप्यालोचितम्—‘प्रज्ञाहीनोऽयं राजा। नो चेत्कथं नीतिशास्त्रकथाकौमुदीं वागुल्काभिस्तिमिरयति। यतः।
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति॥११९॥
इत्यालोच्य तूष्णीं स्थितः। अथ राजा बद्धाञ्जलिराह—‘तात,अस्त्ययं ममापराधः। इदानीं यथावशिष्टवलसहितः प्रत्यावृत्य विन्ध्याचलं गच्छामि तथोपदिश।’ गृध्रः स्वगतं चिन्तयति—‘क्रियतामत्र प्रतीकारः। यतः—
देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च।
नियन्तव्यः सदा कोपो बालवृद्धातुरेषु च॥१२०॥
मन्त्री प्रहस्य ब्रूते—‘देव, मा भैषीः। समाश्वसिहि। शृणु देव,
मन्त्रिणां भिन्नसंधाने भिषजां सांनिपातिके।
कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः॥१२१॥
अपरं च।
आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः॥१२२॥
तदत्र भवत्प्रतापादेव दुर्गं भङ्क्त्वा कीर्तिप्रतापसहितं त्वामचिरेण कालेन विन्ध्याचलं नेष्यामि।’ राजाह—‘कथमधुना स्वल्पबलेन तत्संपद्यते।’ गृध्रो वदति—‘देव, सर्वं भविष्यति। यतो विजिगीषोरदीर्घसूत्रता विजयसिद्धेरवश्यंभावि लक्षणम्। तत्सहसैव दुर्गावरोधः क्रियताम्।’
प्रहितप्रणिधिना बकेनागत्य हिरण्यगर्भस्य तत्कथितम्—‘देव, स्वल्पबल एवायं राजा चित्रवर्णो गृध्रस्य मन्त्रोपस्तम्भेन दुर्गावरोधं करिष्यति।’ राजाह—‘सर्वज्ञ, किमधुना विधेयम्।’ चक्रो ब्रूते ‘स्वबले सारासारविचारः क्रियताम्।’ तज्ज्ञात्वा सुवर्णवस्त्रादिकं यथार्हंप्रसादप्रदानं क्रियताम्। यतः—
यः काकिनीमप्यपथप्रपन्नां
समुद्धरेन्निष्कसहस्रतुल्याम्।
कालेषु कोटिप्वपि मुक्तहस्त-
स्तं राजसिंहं न जहाति लक्ष्मीः॥१२३॥
अन्यच्च।
क्रतौ विवाहे व्यसने रिपुक्षये
यशस्करे कर्मणि मित्रसंग्रहे।
प्रियासु नारीष्वधनेषु बान्धवे -
प्ततिव्ययो नास्ति नराधिपाष्टसु॥१२४॥
यतः—
मूर्खः स्वल्पव्ययत्रासात्सर्वनाशं करोति हि।
कः सुधीः संत्यजेद्भाण्डं शुल्कस्यैवातिसाध्वसात्॥१२५॥
राजाह—‘कथमिह समयेऽतिव्ययो युज्यते।’ उक्तं च—‘आपदर्थे धनं रक्षेत्’ इति। मन्त्री ब्रूते—‘श्रीमतः कथमापदः।’ राजाह—‘कदाचिच्चलते लक्ष्मीः।’ मत्री ब्रूते—‘संचितार्थो विनश्यति’। तद्देव, कार्पण्यं विमुच्य दानमानाभ्यां स्वभटाः पुरस्क्रियन्ताम्। तथा चोक्तम्—
परस्परज्ञाः संहृष्टान्त्यक्तुं प्राणान्सुनिश्चिताः।
कुलीनाः पूजिताः सम्यग्विजयन्ते द्विषम्॥१२६॥
अपरं च।
सुभटाः शीलसंपन्नाः संहताः कृतनिश्चयाः।
अपि पञ्चशतं शूरा निघ्नन्ति रिपुवाहिनीम्॥१२७॥
किं च।
शिष्टैरप्यविशेषज्ञ उग्रश्च कृतनाशकः।
त्यज्यते किं पुनर्नान्यैर्यश्चाप्यात्मंभरिर्नरः॥१२८॥
यतः।
सत्यं शौर्यं दया त्यागो नृपस्यैते महागुणाः।
एभिर्मुक्तो महीपालः प्राप्नोति खलु वाच्यताम्॥१२९॥
ईदृशि प्रस्तावेऽमात्यास्तावदेव पुरस्कर्तव्याः। तथा चोक्तम्—
यो येन प्रतिबद्धः स्यात्सह तेनोदयी व्ययी।
स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च॥१३०॥
यतः।
धूर्तः स्त्री वा शिशुर्यस्य मन्त्रिणः स्युर्महीपतेः।
अनीतिपवनक्षिप्तः कार्याब्धौ स निमज्जति॥१३१॥
शृणु देव,
हर्षक्रोधौ समौ यस्य शास्त्रार्थे प्रत्ययस्तथा।
नित्यं भृत्यानुपेक्षा च तस्य स्याद्धनदा धरा॥१३२॥
येषां राज्ञा सह स्यातामुच्चयापचयौ ध्रुवम्।
अमात्या इति तान्राजा नावमन्येत्कदाचन॥१३३॥
यतः
महीभुजो मदान्धस्य संकीर्णस्येव दन्तिनः।
स्खलतो हि करालम्बः सुहृत्सचिवचेष्टितम्’॥१३४॥
अथागत्य प्रणम्य मेघवर्णो ब्रूते—‘देव, दृष्टिप्रसादं कुरु। इदानीं विपक्षो दुर्गद्वारि वर्तते। तद्देवपादादेशाद्वहिर्निःसृत्य स्वविक्रमं दर्शयामि। तेन देवपादानामानृण्यमुपगच्छामि।’ चक्रो ब्रूते—‘मैवम्। यदि बहिर्निःसृत्य योद्धव्यं तदा दुर्गाश्रयणमेव निष्प्रयोजनम्।
अपरं च।
विषमो हि यथा नःसलिलान्निर्गतोऽवशः।
वनाद्विनिर्गतः शूरः सिंहोऽपि स्याच्छृगालवत्॥१३५॥
देव, स्वयं गत्वा दृश्यतां युद्धम्। यतः।
पुरस्कृत्य बलं राजा योधयेदवलोकयन्।
स्वामिनाधिष्ठितः श्वापि किं न सिंहायते ध्रुवम्॥१३६॥
अथ ते सर्वे दुर्गद्वारं गत्वा महाहवं कृतवन्तः। अपरेद्युश्चित्रवर्णो राजा गृध्रमुवाच—‘तात, स्वप्रतिज्ञातममुना निर्वाहय। गृध्रो ब्रूते—‘देव, शृणु तावत्।
अकालसहमत्यल्पं मूर्खव्यसनिनायकम्।
अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते॥१३७॥
तत्तावदत्र नास्ति
उपजापश्चिरारोधोऽवस्कन्दस्तीव्रपौरुषम्।
दुर्गस्य लङ्घनोपायाश्चत्वारः कथिता इमे॥१३८॥
अत्र यथाशक्ति क्रियते यत्नः। (कर्णे कथयति।) एवमेव।’ ततोऽनुदित एव भास्करे चतुर्ष्वपि दुर्गद्वारेषु वृत्ते युद्धे दुर्गाभ्यन्तरगृहेष्वेकदा काकैरग्निर्निक्षिप्तः। ततः ‘गृहीतं गृहीतं दुर्गम्’ इति
कोलाहलं श्रुत्वा सर्वतः प्रदीप्ताग्निमवलोक्य राजहंससैनिका दुर्गवासिनश्च सत्वरं हृदं प्रविष्टाः। यतः।
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम्।
कार्यकाले यथाशक्ति कुर्यान्न तु विचारयेत्॥१३९॥
राजहंसः स्वभावान्मन्दगतिः सारसद्वितीयश्च चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः। हिरण्यगर्भः सारसमाह—‘सारससेनापते, ममानुरोधादात्मानं कथं व्यापादयिष्यसि। त्वमधुना गन्तुं शक्तः। तत्कृत्वा जलं प्रविश्यात्मानं परिरक्ष। अस्मत्पुत्रं चूडामणिनामानं सर्वज्ञसंमत्या राजानं करिष्यसि।’ सारसो ब्रूते—‘देव, न वक्तव्यमेवं दुःसहं वचः। यावच्चन्द्रार्कौ दिवि तिष्ठतस्तावद्विजयतां देवः। अहं देव, दुर्गाधिकारी। मन्मांसासृग्विलिप्तेन द्वारवर्त्मना प्रविशत्रु शत्रुः। अपरं च।
दातां क्षमी गुणग्राही स्वामी दुःखेन लभ्यते।’
राजाह—‘सत्यमेवैतत्। किंतु।
शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः॥१४०॥
सारसो ब्रते—‘शृणु देव,
यदि समरमपास्य नास्ति मृत्यो-
र्भयमिति युक्तमितोऽन्यतः प्रयातुम्।
अथ मरणमवश्यमेव जन्तोः
किमिति मुधा मलिनं यशः क्रियेत॥१४१॥
अन्यच्च।
भवेऽस्मिन्पवनोद्भ्रान्तवीचिविभ्रमभङ्गुरे।
जायते पुण्ययोगेन परार्थे जीवितव्ययः॥१४२॥
स्वाम्यमात्यश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत्।
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च॥१४३॥
देव, त्वं च स्वामी सर्वथा रक्षणीयः। यतः
प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति।
अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि॥१४४॥
अपरं च
नरेशे जीवलोकोऽयं निमीलति निमीलति।
उदेत्युदीयमाने च रवाविव सरोरुहम्’॥१४५॥
अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतरनखाघातः कृतः। तदा सत्वरमुपसृत्य सारसेन स्वदेहान्तरितो राजां जले क्षिप्तः। अथ कुक्कुटैर्नखप्रहार जर्जरीकृतेन सारसेन कुक्कुटसेनां बहुशो हताः। पश्चात्सारसोऽपि चञ्चुप्रहारेण विभिद्य व्यापादितः। अथ चित्रवर्णो दुर्गं प्रविश्य दुर्गावस्थितं द्रव्यं ग्राहयित्वा बन्दिभिर्जयशब्दौसनन्दितः स्वस्कन्धावारं जगाम॥
अथ राजपुत्रैरुक्तम्—‘तस्मिन्राजबले स पुण्यवान्सारस एव येन स्वदेहत्यागेन स्वामी रक्षितः। उक्तं चैतत्—
जनयन्ति सुतान्गावः सर्वा एव गवाकृतीन्।
विषाणोल्लिखितस्कन्धं काचिदेव गवां पतिम्॥१४६॥
विष्णुशर्मोवाच—‘स तावद्विद्याधरीपरिजनः स्वर्गसुखमनुभवतु महासत्त्वः। तथा चोक्तम्—
आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः।
भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः॥१४७॥
यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः।
अक्षयाल्ँलभते लोकान्यदि क्लैव्यं न गच्छति॥१४८॥
विग्रहः श्रुतो भवद्भिः राजपुत्रैरुक्तम्, ‘श्रुत्वा सुखिनो भूता वयम्।’ विष्णुशर्माऽब्रवीत्, अपरमप्येवमस्तु।
विग्रहः करितुरङ्गपत्तिभि-
र्नो कदापि भवतां महीभुजाम्।
नीतिमन्त्रपवनैः समाहताः
संश्रयन्तु गिरिगह्वरं द्विषः’॥१४९॥
इति हितोपदेशे विग्रहो नाम तृतीयः कथासंग्रहः समाप्तः।
संधिः।
पुनः कथारम्भकाले राजपुत्रैरुक्तम्—‘आर्य, विग्रहः श्रुतोऽस्माभिः। संधिरधुनाभिधीयताम्।’ विष्णुशर्मणोक्तम्—‘श्रूयताम्। संधिमपि कथयामि यस्यायमाद्यः श्लोकः—
वृत्ते महति सङ्ग्रामे राज्ञोर्निहतसेनयोः।
स्थेयाभ्यां गृध्रचक्राभ्यां वाचा संधिः कृतः क्षणात्॥१॥
राजपुत्रा ऊचुः—‘कथमेतत्।’ विष्णुशर्मा कथयति—
ततस्तेन राजहंसेनोक्तम्—‘केनास्मद्दुर्गे निक्षिप्तोऽग्निः। किं पारक्येण किंवास्मद्दुर्गवासिना केनापि विपक्षप्रयुक्तेन।’ चक्रो ब्रूते—‘देव, भवतो निष्कारणबन्धुरसौ मेघवर्णः सपरिवारो न दृश्यते। तन्मन्ये तस्यैव विचेष्टितमिदम्।’ राजा क्षणं विचिन्त्याह—‘अस्ति तावदेव मम दुर्दैवमेतत्। तथा चोक्तम्—
अपराधः स दैवस्य न पुनर्मन्त्रिणामयम्।
कार्यं सुचरितं क्कापि दैवयोगाद्विनश्यति॥२॥
मन्त्री ब्रूते—‘उक्तमेवैतत्।
विषमां हि दशां प्राप्य दैवं गर्हयते नरः।
आत्मनः कर्मदोषांश्च नैव जानात्यपण्डितः॥३॥
अपरं च।
सुहृदां हितकामानां यो वाक्यं नाभिनन्दति।
स कूर्म इव दुर्बुद्धिः काष्ठाष्टो विनश्यति॥४॥
अन्यच्च।
रक्षितव्यं सदा वाक्यं वाक्याद्भवति नाशनम्।
हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा॥५॥
राजाह—‘कथमेतत्।’ मन्त्री कथयति—
कथा १।
अस्ति मगधदेशे फुल्लोत्पलाभिधानं सरः। तत्र चिरं संकटविकटनामानौ हंसो निवसतः। तयोर्मित्रं कम्बुग्रीवनामा कूर्मश्च प्रतिवसति। अथैकदा धीवरैरागत्य तत्रोक्तम्—‘यदत्रास्माभिरद्योषित्वा प्रातर्मत्स्य कूर्मादयो व्यापादयितव्याः। तदाकर्ण्य कूर्मों हंसावाह—‘
सुहृदौ, श्रुतोऽयं धीवरालापः। अधुना किं मया कर्तव्यम्।’ हंसावाहतुः—‘
ज्ञायताम्। पुनस्तावत्प्रातर्यदुचितं तत्कर्तव्यम्। कूर्मो ब्रूते—‘
मैवम्। यतो दृष्टव्यतिकरोऽहमत्र। तथा चोक्तम्—
अनागतविधाता च प्रत्युत्पन्नमतिस्तथा।
द्वावेतौ सुखमेधेते यद्भविष्योविनश्यति॥६॥
तावाहतुः—‘
कथमेतत्।’ कूर्मः कथयति—
कथा २।
पुरास्मिन्नेव सरस्येवंविधेषु धीवरेषूपस्थितेषु मत्स्यत्रयेणालोचितम्। तत्रानागतविधाता नामैको मत्स्यः। तेनालोचितम्—‘अहं तावज्जलाशयान्तरं गच्छामि’ इत्युक्त्वा हृदान्तरं गतः। अपरेण प्रत्युत्पन्नमतिनाम्ना मत्स्येनाभिहितम्—‘भविष्यदर्थे प्रमाणाभावात्कुत्र मया गन्तव्यम्। तदुत्पन्ने यथाकार्यं तदनुष्ठेयम्। तथा चोक्तम्—
उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान्।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा॥७॥
यद्भविष्यः पृच्छति—‘कथमेतत्। प्रत्युत्पन्नमतिः कथयति—
कथा ३।
पुरा विक्रमपुरे समुद्रदत्तो नाम वणिगस्ति। तस्य रत्नप्रभा नाम गृहिणी स्वसेवकेन सह सदा रमते। अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुम्बनं ददती समुद्रदत्तेनावलोकिता। ततः सा बन्धकी सत्वरं भर्तुः समीपं गत्वाह—‘नाथ, एतस्य सेवकस्य म-
हती निर्वृतिः। यतोऽयं चौरिकां कृत्वा कर्पूरं खादतीति मयास्य मुखमाघ्राय ज्ञातम्। तथा चोक्तम्—‘आहारो द्विगुणः स्त्रीणाम्’ इत्यादि।’ तच्छ्रुत्वा सेवकेन प्रकुप्योक्तम्—‘नाथ, यस्य स्वामिनो’ गृह एतादृशी भार्या तत्र सेवकेन कथं स्थातव्यं यत्र प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति। ततोऽसावुत्थाय चलितः साधुना यत्नात्प्रबोध्य धृतः। अतोऽहं ब्रवीमि—‘उत्पन्नामापदम् इत्यादि॥ ततो यद्भविप्येणोक्तम्—
यदभावि न तद्भावि भावि चेन्न तदन्यथा।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते’॥८॥
ततः प्रातर्जालेन बद्धः प्रत्युत्पन्नमतिर्नृतवदात्मानं संदर्श्य स्थितः। ततो जालादपसारितो यथाशक्त्युत्प्लुत्य गभीरं नीरं प्रविष्टः। यद्भविष्यश्च धीवरैः प्राप्तो व्यापादितः। अतोऽहं ब्रवीमि—**‘अनागतविधाता’**इत्यादि। तद्यथाहमन्यहृदं प्राप्नोमि तथा क्रियताम्।’ हंसावाहतुः—‘जलाशयान्तरे प्राप्ते तव कुशलम्। स्थले गच्छतस्ते को विधिः। कूर्म आह—‘यथाहं भवद्भ्यां सहाकाशवर्त्मना यामि तथा विधीयताम्। हंसौ ब्रूतः—‘कथमुपायः संभवति। कच्छपो वदति—‘युवाभ्यां चञ्चधृतं काष्ठखण्डमेकं मया मुखेनावलम्ब्य गन्तव्यम्। युवयोः पक्षवलेन मयापि सुखेन गन्तव्यम्।’ हंसौ ब्रूतः—‘संभवत्येष उपायः। किंतु।
उपायं चिन्तयन्प्राज्ञो ह्यपायमपि चिन्तयेत्।
पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः प्रजाः॥९॥
कूर्मः पृच्छति—‘कथमेतत्।’ तौ कथयतःब्रूतः—
कथा ४।
अस्त्युत्तरापथे गृध्रकूटनाम्नि पर्वते महान्पिप्पलवृक्षः। तत्रानेके बका निवसन्ति। तस्य वृक्षस्याधस्ताद्विवरे सर्पो बालापत्यानि खादति। अथ शोकार्तानां बकानां विलापं श्रुत्वा केनचिद्बकेनाभि-
हितम्—‘एवं कुरुत। यूयं मत्स्यानुपादाय नकुलविवरादारभ्य सर्पविवरं यावत्पङ्क्तिक्रमेण विकिरत। ततस्तदाहारलुब्धैर्नकुलैरागत्य सर्पों द्रष्टव्यः स्वभावद्वेषाव्यापादयितव्यश्च।’ तथानुष्ठिते तद्दूत्तम्। ततस्तत्र वृक्षे नकुलैर्बकशावकरावः श्रुतः। पश्चात्तैर्वृक्षमारुह्य बकशावकाः खादिताः। अथ आवां ब्रूवः—‘उपायं चिन्तयन् इत्यादि॥ आवाभ्यां नीयमानं त्वामवलोक्य लोकैः किंचिद्वक्तव्यमेव। तदाकर्ण्य यदि त्वमुत्तरं दास्यसि तदा त्वन्मरणम्। तत्सर्वथात्रैव स्थीयताम्। कूर्मो वदति—‘किमहमप्राज्ञः। नाहमुत्तरं दास्यामि किमपि न वक्तव्यम्। तथानुष्ठिते तथाविधं कूर्मनालोक्य सर्वे गोरक्षकाः पश्चाद्धावन्ति वदन्ति च। कश्चिद्वंदति—‘यद्ययं कूर्मः पतति तदात्रैव पक्त्वा खादितव्यः। कश्चिद्वदति—‘अत्रैव दग्ध्वा खादितव्योऽयम्। कश्चिद्वदति—‘गृहं नीत्वा भक्षणीयः’ इति। तद्वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृतपूर्वसंस्कारः प्राह—‘युष्माभिर्भस्म भक्षितव्यम्।’ इति वदन्नेव पतितस्तैर्व्यापादितश्च। अतोऽहं ब्रवीमि—‘सुहृदां हितकामानाम्’ इत्यादि॥ अथ प्रणिधिर्बकस्तत्रागत्योवाच—‘देव, प्रागेव मया निगदितम्। दुर्गशोधनं हि प्रतिक्षणं कर्तव्यमिति। तच्च युष्माभिर्न कृतं तदनवधानस्य फलमनुभूतम्। दुर्गदाहो मेघवर्णेन वायसेन गृध्रप्रयुक्तेन कृतः।’ राजा निःश्वस्याह—
प्रणयादुपकाराद्वा यो विश्वसिति शत्रुषु।
स सुप्त इव वृक्षाग्रात्पतितः प्रतिबुध्यते’॥१०॥
प्रणिधिरुवाच—‘इतो दुर्गदाहं विधाय यदा गतो मेघवर्णस्तदा चित्रवर्णेन प्रसादितेनोक्तम्—‘अयं मेघवर्णोऽत्र कर्पूरद्वीपराज्येऽभिषिच्यताम्। तथा चोक्तम्—
कृतकृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत्।
फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत्॥११॥
चक्रवाको ब्रूते—‘ततस्ततः।’ प्रणिधिरुवाच—
ततः प्रधानमत्रिणा गृध्रेणाभिहितम्—‘
देव, नेदमुचितम्। प्रसादान्तरं किमपि क्रियताम्। यतः।
अविचारयतो युक्तिकथनं तुपखण्डनम्।
नीचेषूपकृतं राजन्वालुकाखिव मुद्रितम्॥१२॥
महतासाम्पदे नीचः कदापि न कर्तव्यः। तथा चोक्तम्—‘
नीचः श्राध्यपदं प्राप्य स्वामिनं हन्तुमिच्छति।
मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा॥१३॥
चित्रवर्णः पृच्छति—‘कथमेतत्।’ मन्त्री कथयति—
कथा ५।
अस्तिगौतमस्य महर्षेस्तपोवने महातपा नाम मुनिः। तत्र तेन मुनिना कार्केन नीयमानो मूषिकशावको दृष्टः। ततः स्वभावदयात्मना तेन मुनिना नीवारकणैःसंवर्धितः। ततो विडालस्तं मूषिकं स्वादितुमुपधावति। तमवलोक्य मूषिकस्तस्य मुनेः कोडे प्रविवेश। ततो मुनिनोक्तम्—‘मूषिक, त्वं मार्जारो भव। ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते। ततो मुनिनोक्तम्—‘कुकुराद्विभेषि। त्वमेव कुक्कुरो भव। स च कुकुरो व्याघ्राद्विभेति। ततस्तेन मुनिना कुक्कुरो व्याघ्रः कृतः। अथ तं व्याघ्रं मुनिर्मूषिकोऽयमिति पश्यति। अथ तं मुनिं दृष्ट्वा व्याघ्रं सर्वे वदन्ति—‘अनेन मुनिना मूषिको व्याघ्रतां नीतः। एतच्छ्रुत्वा स व्याघ्रोऽचिन्तयत्—‘यावदनेन मुनिना स्थीयते तावदिदं मे स्वरूपाख्या- नमकीर्तिकरं न पलायिप्यते’ इत्यालोच्य मूषिकस्तं मुनिं हन्तुं गतः। ततो मुनिना तज्ज्ञात्वा ‘पुनर्मूषिको भव’ इत्युक्त्वा मूषिक एव कृतः। अतोऽहं ब्रवीमि—‘नीचः श्लाघ्यपदम्’ इत्यादि॥ अपरं च। सुकरमिदमिति न मन्तव्यम्। शृणु—
भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान्।
अतिलोभाद्बकःपश्चान्मृतः कर्कटकग्रहात्॥१४॥
चित्रवर्णः पृच्छति—‘कथमेतत्।’ मन्त्री कथयति—
कथा ६।
अस्ति मालवदेशे पद्मगर्भनामधेयं सरः। तत्रैको वृद्धो बकः सामर्थ्यहीन उद्विग्नमिवात्मानं दर्शयित्वा स्थितः। स च केनचित्कुलीरेण दृष्टः पृष्टश्व—‘किमिति भवानत्राहारत्यागेन तिष्ठति।’ बकेनोक्तम्—‘मत्स्या मम जीवनहेतवः। तेकैवर्तैरागत्य व्यापादयितव्या इति वार्ता नगरोपान्ते मया श्रुता। अतो वर्तनाभावादेवास्मन्मरणमुपस्थितमिति ज्ञात्वाहारेऽप्यनादरः कृतः। ततोमत्स्यैरालोचितम्—‘इह समये तावदुपकारक एवायं लक्ष्यते।
तदयमेव यथाकर्तव्यं पृच्छ्यताम्। तथा चोक्तम्—
उपकर्त्रारिणा संधिर्न मित्रेणापकारिणा।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः॥ १५॥
मत्स्या ऊचुः—‘भो बक, कोऽत्र रक्षणोपायः।’ बको ब्रूते—‘अस्ति रक्षणोपायो जलाशयान्तराश्रयणम्। तत्राहमेकैकशो युष्मान्नयामि।’ मत्स्या आहुः—‘एवमस्तु।’ ततोऽसौ वकस्तान्मत्स्यानेकैकशो नीत्वा स्वादति। अनन्तरं कुलीरस्तमुवाच—‘भो बक, मामपि तत्र नय।’ ततो बकोऽप्यपूर्वकुलीरमांसार्थी सादरं तं नीत्वा स्थले धृतवान्। कुलीरोऽपि मत्स्यकण्टकाकीर्णं तत्स्थलमालोक्याचिन्तयत्—‘हा, हतोऽस्मि मन्दभाग्यः। भवतु। इदानीं समयोचितं व्यवहरिष्यामि’ इत्यालोच्य कुलीरस्तस्य ग्रीवां चिच्छेद। स बकः पञ्चत्वं गतः। अतोऽहं ब्रवीमि—‘भक्षयित्वा बहून्मत्स्यान्’ इत्यादि॥ ततश्चित्रवर्णोऽवदत्—‘शृणु तावन्मत्रिन्, मयैतदालोचितमस्ति। अत्रावस्थितेन मेघवर्णेन राज्ञा यावन्ति वस्तूनि कर्पूरद्वीपस्योत्तमानि तावन्त्यस्माकमुपनेतव्यानि।
तेनास्माभिर्महासुखेन विन्ध्याचले स्थातव्यम्।’ दूरदर्शी विहस्याह—‘देव,
अनागतवतीं चिन्तां कृत्वा यस्तु प्रहृष्यति।
स तिरस्कारमाप्नोति भग्नभाण्डो द्विजो यथा॥१६॥
राजाह —‘कथमेतम्।’ मन्त्री कथयति—
कथा ७।
अस्तिदेवीकोट्टनाम्नि नगरे देवशर्मा नाम ब्राह्मणः। तेन महाविपुवसंक्रान्त्यां सक्तुपूर्णशराव एकः प्राप्तः। तमादायासौ कुम्भकारस्य भाण्डपूर्णमण्डपैकदेशे रौद्रेणाकुलितः सुप्तः। ततः सक्तरक्षार्थं हस्ते दण्डमेकमादायाचिन्तयत्—‘यद्यहं सक्तुशरावं विक्रीय दश कपर्दकान्प्राप्स्यामि तदत्रैव तैः कपर्दकैर्घटशरावादिकमुषक्रीयानेकधा वृद्धेस्तद्धनैः पुनः पुनः पूगवस्त्रादिकमुपक्रीय विक्रीय लक्षसंख्यानि धनानि कृत्वा विवाहचतुष्टयं करिष्यामि। अनन्तरं तासु सपत्नीषु रूपयौवनवती या तस्यामधिकानुरागं करिष्यामि। सपत्न्योयदा द्वन्द्वं करिष्यन्ति तदा कोपाकुलोऽहं तां लगुडेन ताडयिप्यामि’ इत्यभिधाय लगुडः क्षिप्तः। तेन सक्तुशरावश्चूर्णितो भाण्डानि च बहूनि भग्नानि। ततस्तेन शब्देनागतेन कुम्भकारेण तथाविधानि भाण्डान्यवलोक्य ब्राह्मणस्तिरस्कृतो मण्डपाद्बहिष्कृतश्च। अतोऽहं ब्रवीमि—‘अनागतवतीं चिन्ताम्’ इत्यादि॥ ततो राजा रहसि गृध्रमुवाच—‘तात, यथा कर्तव्यंतथोपदिश।’ गृध्रोब्रूते—
मदोद्धतस्य नृपतेः संकीर्णस्येव दन्तिनः।
गच्छन्त्युन्मार्गयातस्य नेतारः खलु वाच्यताम्॥१७॥
शृणु देव, किमस्माभिर्बलदर्पाद्दुर्गं भग्नम्। न। किंतु तव प्रतापाधिष्ठितेनोपायेन।’ राजाह—‘भवतामुपायेन।’ गृध्रो ब्रूते —‘यद्यस्मद्वचनं क्रियते तदा स्वदेशे गम्यताम्। अन्यथा वर्षाकाले
प्राप्ते पुनर्विग्रहे सत्यस्माकं परभूमिष्ठानां स्वदेशगमनमपि दुर्लभं भविष्यति। सुखशोभार्थं संधाय गम्यताम्। दुर्गं भग्नं कीर्तिश्च लब्धैव। मम संमतं तावदेतत्। यतः—
यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये।
अप्रियाण्याह तथ्यानि तेन राजा सहायवान्॥१८॥
अन्यच्च।
सुहृद्वलं तथा राज्यमात्मानं कीर्तिमेव च।
युधि संदेहदोलास्थं को हि कुर्यादवालिशः॥१९॥
अपरं च
संधिमिच्छेत्समेनापि संदिग्धो विजयो युधि।
सुन्दोपसुन्दावन्योन्यं नष्टौ तुल्यबलौ न किम्’॥२०॥
राजोवाच— ‘कथमेतत्।’ मन्त्री कथयति—
कथा ८।
पुरा दैत्यौ महोदारौ सुन्दोपसुन्दनामानौमहता क्लेशेन त्रैलोक्यकामनया चिराच्चन्द्रशेखरमा- राधितवन्तौ। ततस्तयोर्भगवान्परितुष्टः ‘वरं वरयतम्’ इत्युवाच। अनन्तरं तयोः समधिष्ठितया सरस्वत्या तावन्यद्वक्तुकामावन्यदभिहितवन्तौ। यद्यावयोर्भगवान्परितुष्टस्तदा स्वप्रियां पार्वतीं परमेश्वरो ददातु। अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया विचारमूढयोः पार्वती प्रदत्ता। ततस्तस्या रूपलावण्यलुब्धाभ्यां जगद्धातिभ्यां मनसोत्सुकाभ्यां पापतिमिराभ्यां ममेत्यन्योन्यकलहाभ्यां प्रमाणपुरुषः कश्चित्पृच्छ्यतामिति मतौ कृतायां स एव भट्टारको वृद्धद्विजरूपः समागत्य तत्रोपस्थितः। अनन्तरम् ‘आवाभ्यामियं स्वबललब्धा, कस्येयमावयोर्भवति’ इति ब्राह्मणमपृच्छताम्। ब्राह्मणो ब्रूते—
वर्णश्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवानपि।
धनधान्याधिको वैश्यः शूद्रस्तु द्विजसेवया॥२१॥
तद्युवां क्षत्रधर्मानुगौ। युद्ध एव युवयोर्नियमः। इत्यभिहिते सति ‘साधूक्तमनेन’ इति कृत्वान्योन्यतुल्यवीर्यौ समकालमन्योन्यघातेन विनाशमुपगतौ। अतोऽहं ब्रवीमि—‘संधिमिच्छेत्समेनापि’ इत्यादि॥ राजाह—‘प्रागेव किं नोक्तं भवद्भिः।’ मन्त्री ब्रूते—‘मद्वचनं किमवसानपर्यन्तं श्रुतं भवद्भिः। तदापि मम संमत्या नायं विग्रहारम्भः। साधुगुणयुक्तोऽयं हिरण्यगर्भो न विग्राह्यः। तथा चोक्तम्—
सत्यार्यौ धार्मिकोऽनार्यो भ्रातृसंघातवान्बली।
अनेकयुद्धविजयी संधेयाः सप्त कीर्तिताः॥२२॥
सत्योऽनुपालयेत्सत्यं संधितो नैति विक्रियाम्।
प्रांणबाधेऽपि सुव्यक्तमार्यो नायात्यनार्यताम्॥२३॥
धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते।
प्रजानुरागाद्धर्माच्च दुःखोच्छेद्यो हि धार्मिकः॥ २४॥
संधिः कार्योऽप्यनार्येण विनाशे समुपस्थिते।
विना तस्याश्रयेणार्यो न कुर्यात्कालयापनम्॥२५॥
संहतत्वाद्यथा वैणुर्निबिडैः कण्टकैर्वृतः।
न शक्यते समुच्छेत्तुं भ्रातृसंघातवांस्तथा॥२६॥
बलिना सह योद्धव्यमिति नास्ति निदर्शनम्।
प्रतिवातं नहि घनः कदाचिदुपसर्पति॥२७॥
जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा।
अनेकयुद्धजयिनः प्रतापादेव भुज्यते॥२८॥
अनेकयुद्धविजयी संघानं यस्य गच्छति।
तत्प्रतापेन तस्याशु वशमायान्ति शत्रवः॥२९॥
तत्र तावद्बहुभिर्गुणैरुपेतः संघेयोऽयं राजा।’ चक्रवाकोऽवदत्—‘प्रणिधे, सर्वत्रावव्रज। सर्वमवगतम्। गत्वा पुनरागमिष्यसि। राजा चक्रवाकं पृष्टवान्—‘मन्त्रिन्, असंधेयाः कति ताञ्छ्रोतुमिच्छामि। ‘मन्त्री ब्रूते—‘देव, कथयामि।शृणु—
संप्रति भूतजयदर्पान्न मन्तव्यम्। देव, तदेवं क्रियताम्। सिंहलद्वीपस्य महाबलो नाम सारसो राजास्मन्मित्रं जम्बुद्वीपे कोपं जनयतु। यतः।
सुगुप्तिमाधाय सुसंहतेन
बलेन वीरो विचरन्नरातिम्।
संतापयेद्येन समं सुतप्त -
स्तप्तेन संधानमुपैति तप्तः॥५१॥
राज्ञा ‘एवमस्तु’ इति निगद्य विचित्रनामा बकः सुगुप्तलेखं दत्त्वा सिंहलद्वीपं प्रहितः।
अथ प्रणिधिरागत्योवाच—‘देव, श्रूयतां तत्रत्यप्रस्तावः। एवं तत्र गृध्रेणोक्तम्—‘
देव, यन्मेघवर्णस्तत्र चिरमुषितः स वेत्ति किं संधेयगुणयुक्तो हिरण्यगर्मो न वा’ इति। ततोऽसौ राज्ञा समाहूय पृष्टः—‘
वायस, कीदृशोऽसौ हिरण्यगर्भः। चरुवाको मन्त्री वा कीदृशः। वायस उवाच—‘देव हिरण्यगर्भो राजा युधिष्ठिरसमो महाशयः चक्रवाकसमो मन्त्री न क्वाप्यवलोक्यते। राजाह—‘यद्येवं तदा कथमसौ त्वया वञ्चितः।’ विहस्य मेघवर्णः प्राह—‘देव,
विश्वासप्रतिपन्नानां वञ्चने का विदग्धता \।
अङ्कमारुह्य सुप्तं हि हत्वा किं नाम पौरुषम्॥५२॥
शृणु देव, तेन मन्त्रिणाहं प्रथमदर्शन एवं ज्ञातः। किंतु महाशयोऽसौ राजा। तेन मया विप्रलब्धः। तथा चोक्तम्—
आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनम्।
स तथा वञ्चयते धूर्तौर्ब्राह्मणश्छागतो यथा॥५३॥
राजोवाच—‘कथमेतत्।’ मेघवर्णः कथयति—
कथा ९।
अस्ति गौतमस्यारण्ये प्रस्तुतयज्ञः कश्चिद्ब्राह्मणः। स च यज्ञार्थं ग्रामान्तराच्छागमुपक्रीय स्कन्धे कृत्वा गच्छन्धूर्तत्रयेणावलोकितः।
ततस्ते धृती यद्येष च्छागः केनाप्युपायेन लभ्यते तदा मतिप्रकर्षो भवतीति समालोच्य वृक्षत्रयतले कोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः। तत्रैकेन धूर्तेन गच्छन्स ब्राह्मणोऽभिहितः—‘भो ब्राह्मण, किमिति कुक्कुरः स्कन्धेनोद्यते। विप्रेणोक्तम्—‘नायं श्वा, किंतु यज्ञच्छागः। अथानन्तरस्थितेनान्येन धूर्तेन तथैवोक्तम्। तदाकर्ण्य ब्राह्मणश्छागं भूमौ निधाय मुहुर्निरीक्ष्य पुनः स्कन्धे कृत्वा दोलायमानमतिश्चलितः। यतः।
मतिर्दोलायते सत्यं सतामपि स्वलोक्तिभिः।
ताभिर्वश्वासितश्चासौ म्रियते चित्रकर्णवत्॥५४॥
राजाह—‘कथमेतत्।’ स कथयति—
कथा १०।
अस्ति कस्मिंचिद्वनोद्देशे मदोत्कटो नाम सिंहः। तस्य सेवकास्त्रयः काको व्याघ्रो जम्बुकश्च। अथ तैर्भ्रमद्भिः कश्चिदुष्टो दृष्टः पृष्टश्च—‘कुतो भवानागतः सार्थाद्भ्रष्टः।’ स चात्मवृत्तान्तमकथयत्। ततस्तैर्नीत्वा सिंहेऽसौ समर्पितः। तेनाभयवाचं दत्वा चित्रकर्ण इति नाम कृत्वा स्थापितः। अथ कदाचित्सिंहस्य शरीरवैकल्याद्भूरिवृष्टिकारणाच्चाहारमलभमानास्ते व्यग्रा बभूवुः। ततस्तेरालोचितम्—‘चित्रकर्णमेव यथा स्वामी व्यापादयति तथानुष्ठीयताम्। किमनेन कण्टकभुजा।’ व्याघ्र उवाच—‘स्वामिनाभयवाचं दत्वानुगृहीतस्तत्कथमेवं संभवति।’ काको ब्रूते—‘इह समये परिक्षीणः स्वामी पापमपि करिष्यति। यतः।
त्यजेत्क्षुधार्ता महिला स्वपुत्रं
खा
देत्क्षुधार्ता भुजगी स्वमण्डम्।
बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति॥५५॥
अन्यच्च।
मत्तः प्रमत्तश्वोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः।
लुब्धो भीरुस्त्वरायुक्तः कामुकश्च न धर्मवित्॥५६॥
इति संचिन्त्य सर्वे सिंहान्तिकं जग्मुः। सिंहेनोक्तम्—‘आहारार्थं किंचित्प्राप्तम्। तैरुक्तम्—‘यत्नादपि न प्राप्तं किंचित्।’ सिंहेनोक्तम्—‘कोऽधुना जीवनोपायः।’ काकोवदति—‘देव, स्वाधीनाहारपरित्यागात्सर्वनाशोऽयमुपस्थितः सिंहेनोक्तम्—‘अत्राहारः कः स्वाधीनः। काकः कर्णे कथयति—‘चित्रकर्णः’ इति। सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति। अभयवाचं दत्वा धृतोऽयमस्माभिः। तत्कथमेवं संभवति। तथा च—
न भूप्रदानं न सुवर्णदानं
न गोप्रदानं न तथान्नदानम्।
यथा वदन्तीह महाप्रदानं
सर्वेषु दानेवभयप्रदानम्॥५७॥
अन्यच्च।
सर्वकामसमृद्धस्य अश्वमेधस्य यःफलम्।
तत्फलं लभते सम्यग्रक्षिते शरणागते’॥५८॥
काको ब्रूते—‘नासौ स्वामिना व्यापादयितव्यः। किंत्वस्माभिरेव तथा कर्तव्यं यथासौ स्वदेहदानमङ्गीकरोति। सिंहस्तच्छ्रुत्वा तूष्णीं स्थितः। ततोऽसौ लब्धावकाशः कूटं कृत्वा सर्वानादाय सिंहान्तिकं गतः। अथ काकेनोक्तम्—‘ देव, यत्नादप्याहारो न प्राप्तः। अनेकोपवासखिन्नः स्वामी। तदिदानीं मदीयमांसमुपभुज्यताम्। यतः।
स्वामिमूला भवन्त्येव सर्वाः प्रकृतयः खलु।
समूलेष्वपि वृक्षेषु प्रयत्नः सफलो नृणाम्’॥५९॥
सिंहेनोक्तम्—‘वरं प्राणपरित्यागः। न पुनरीदृशि कर्मणि प्रवृत्तिः।’ जम्बुकेनापि तथोक्तम्। ततः सिंहेनोक्तम्—‘मैवम्।’ अथ
व्याघ्रणोक्तम्—‘मद्देहेन जीवतु स्वामी।’ सिंहेनोक्तम्—‘न कदाचिदेवमुचितम्। अथ चित्रकर्णोऽपि जातविश्वासस्तथैवात्मदानमाह। ततस्तद्वचनात्तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः सर्वैर्भक्षितः। अतोऽहं ब्रवीमि—‘मतिर्दोलायते सत्यम्’ इत्यादि॥ ततस्तृतीयधूर्तवचनं श्रुत्वा स्वमतिभ्रमं निश्चित्य छागं त्यक्त्वा ब्राह्मणः स्नात्वा गृहं ययौ। स छागस्तैर्धूतैर्नीत्वा भक्षितः। अतोऽहं ब्रवीमि—‘आत्मोपम्येन यो वेत्ति इत्यादि॥ राजाह—‘मेघवर्ण, कथं शत्रुमध्ये त्वया चिरमुषितम्। कथं वा तेषामनुनयः कृतः। मेघवर्ण उवाच—‘देव, स्वामिकार्यार्थिना स्वप्रयोजनवशाद्वा किं न क्रियते। पश्य।
लोको वहति किं राजन्न मूर्ध्ना दग्धुमिन्धनम्।
क्षालयन्नपि वृक्षाङ्घ्रि नदीवेला निकृन्तति॥६०॥
तथा चोक्तम्—
स्कन्धेनापि वहेच्छत्रून्कार्यमासाद्य बुद्धिमान्।
यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः॥६१॥
राजाह—‘कथमेतत्।’ मेघवर्णः कथयति—
कथा ११।
अस्ति जीर्णोद्याने मन्दविषो नाम सर्पः। सोऽतिजीर्णतयाहारमप्यन्वेष्टुमक्षमः सरस्तीरे पतित्वा स्थितः। ततो दूरादेव केनचिन्मण्डूकेन दृष्टः पृष्टश्च—‘किमिति त्वमाहारं नान्विष्यसि। सर्पोऽवदत्—‘गच्छ भद्र, मम मन्दभाग्यस्य प्रश्नेन किम्।’ ततः संजातकौतुकः स च भेकः ‘सर्वथा कथ्यताम्’ इत्याह। सर्पोऽप्याह—‘भद्र, ब्रह्मपुरवासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रो विंशतिवर्षीयः सर्वगुणसंपन्नो दुर्दैवान्मम नृशंसस्वाभावाद्दष्टः। तं पुत्रं सुशीलनामानं मृतमालोक्य मूर्च्छितः कौण्डिन्यः पृथिव्यां लु-
लोठ। अनन्तरं ब्रह्मपुरवासिनः सर्वे बान्धवास्तत्रागत्योपविष्टाः।
तथा चोक्तम्—
उत्सवे व्यसने युद्धे दुर्भिक्षे राष्ट्रविप्लवे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥६२॥
तत्र कपिलो नाम स्नातकोऽवदत्— ‘अरे कौण्डिन्य, मूढोऽसि तेनैव विलपसि। शृणु।
क्रोडीकरोति प्रथमं यथा जातमनित्यता।
धात्रीव जननी पश्चात्तथा शोकस्य कः क्रमः॥६३॥
क्व गताः पृथिवीपालाः ससैन्यबलवाहनाः।
वियोगसाक्षिणी येषां भूमिरद्यापि तिष्ठति॥६४॥
अपरं च।
कायः संनिहितापायः संपदः पदमापदाम्।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम्॥६५॥
प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
आमकुम्भ इवाम्भःस्थो विशीर्णः सन्विभाव्यते॥६६॥
आसन्नतरतामेति मृत्युर्जन्तोर्दिने दिने।
आघातं नीयमानस्य वध्यस्येव पदे पदे॥६७॥
अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः।
ऐश्वर्यं प्रियसंवासो मुह्येत्तत्र न पण्डितः॥६८॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः॥६९॥
यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति।
विश्रम्य च पुनर्गच्छेत्तद्वद्भूतसमागमः॥७०॥
अन्यच्च।
पञ्चभिर्निर्मिते देहे पञ्चत्वं च पुनर्गते।
स्वां स्वां योनिमनुप्राप्ते तत्र का परिदेवना॥७१॥
यावन्तः कुरुते जन्तुः संबन्धान्मनसः प्रियान्।
तावन्तोऽपि निखन्यन्ते हृदये शोकशङ्कवः॥७२॥
नायमत्यन्तसंवासो लभ्यते येन केनचित्।
अपि स्वेन शरीरेण किमुतान्येन केनचित्॥७३॥
अपि च।
संयोगो हि वियोगस्य संसूचयति संभवम्।
अनतिक्रमणीयस्य जन्ममृत्योरिवागमम्॥७४॥
आपातरमणीयानां संयोगानां प्रियैः सह।
अपध्यानामिवान्नानां परिणामोऽतिदारुणः॥७५॥
अपरं च।
व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा।
आयुरादाय मर्त्यानां तथा रात्र्यहनी सदा॥७६॥
सुखाखादपरो यस्तु संसारे सत्समागमः।
स वियोगावसानत्वाद्दुःखानां धुरि युज्यते॥७७॥
अत एव हि नेच्छन्ति साधवः सत्समागमम्।
यद्वियोगासिलूनस्य मनसो नास्ति भेषजम्॥७८॥
सुकृतान्यपि कर्माणि राजभिः सगरादिभिः।
अथ तान्येव कर्माणि ते चापि प्रलयं गताः॥७९॥
संचिन्त्य संचिन्त्य तमुग्रदण्डं
मृत्युं मनुष्यस्य विचक्षणस्य।
वर्षाम्बुसिक्ता इव चर्मबन्धाः
सर्वे प्रयत्नाः शिथिलीभवन्ति॥८०॥
यामेव रात्रिं प्रथमामुपैति
गर्भे निवासी नरवीरलोकः।
ततः प्रभृत्यस्खलितप्रयाणः
स प्रत्यहं मृत्युसमीपमेति॥८१॥
अतः संसारं विचारय। शोकोऽयमज्ञानस्य प्रपञ्चः। पश्य।
अज्ञानं कारणं न स्याद्वियोगो यदि कारणम्।
शोको दिनेषु गच्छत्सु वर्धतामपयाति किम्॥८२॥
तदत्रात्मानमनुसंधेहि। शोकचर्चां परिहर। यतः।
अकाण्डपातजातानां पात्राणां मर्मभेदिनाम्।
गाढशोकप्रहाराणामचिन्तैव महौषधी’॥ ८३॥
ततस्तद्वचनं निशम्य प्रबुद्ध इव कौण्डिन्य उत्थायात्रवीत्—‘तदलमिदानीं गृहनरकवासेन। वनमेव गच्छामि।’ कपिलःपुनराह—
वनेऽपि दोषाः प्रभवन्ति रागिणां
गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः।
अकुत्सिते कर्मणि यः प्रवर्तते
निवृत्तरागस्य गृहं तपोवनम्॥८४॥
यतः।
दुःखितोऽपि चरेद्धर्मं यत्र कुत्राश्रमे रतः।
समः सर्वेषु भृतेषु न लिङ्गं धर्मकारणम्॥८५॥
उक्तं च
वृत्त्यर्थं भोजनं येषां संतानार्थं च मैथुनम्।
वाक्सत्यवचनार्थाय दुर्गाण्यपि तरन्ति ते॥८६॥
तथा हि
आत्मा नदी संयमपुण्यतीर्था
सत्योदका शीलतटा दयोर्मिः।
तत्राभिषेकं कुरु पाण्डुपुत्र
न वारिणा शुध्यति चान्तरात्मा॥८७॥
विशेषतश्च।
जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम्।
संसारमिममुत्पन्नमसारं त्यजतः सुखम्॥८८॥
यतः—
दुःखमेवास्ति न सुखं यस्मात्तदुपलक्ष्यते।
दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते’॥८९॥
कौण्डिन्यो ब्रूते—‘एवमेव’। ततोऽहं तेन शोकाकुलेन ब्राह्मणेन शप्तः—‘यदद्यारभ्य मण्डूकानां वाहनं भविष्यसि’ इति। कपिलो ब्रूते—‘संप्रत्युपदेशासहिष्णुर्भवान्। शोकाविष्टं ते हृदयम्। तथापि कार्यं शृणु।
सङ्गः सर्वात्मना त्याज्यः स चेत्यक्तुं न शक्यते।
स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम्॥९०॥
अन्यच्च।
कामः सर्वात्मना हेयः स चेद्धातुंन शक्यते।
स्वभाव प्रति कर्तव्यः सैव तस्य हि भेषजम्॥९१॥
एतच्छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृतप्रशान्तशोकानलो यथाविधि दण्डग्रहणं कृतवान्। अतो ब्राह्मणशापान्मण्डूकान्वोदुमत्र तिष्ठामि’। अनन्तरं तन मण्डूकेन गत्वा मण्डूकनाथस्य जालपादनाम्नोऽग्रे तत्कथितम्। ततोऽसावागत्य मण्डूकनाथस्तस्य सर्पस्य पृष्ठमा रूढवान्। स च सर्पस्तं पृष्ठे कृत्वा चित्रपदक्रमं बभ्राम। परेद्युश्चलितुमसमर्थं तं मण्डूकनाथोऽवदत्—‘किमद्य भवान्मन्दगतिः। सर्पोंब्रूते— ‘देव, आहारविरहादसमर्थोऽस्मि।’ मण्डूकनाथोऽवदत्—‘अस्मदाज्ञया मण्डूकान्भक्षय।’ ततः ‘गृहीतोऽयं महाप्रसादः इत्युक्त्वा क्रमशो मण्डूकान्खादितवान्। अतो निर्मण्डूकं सरो विलोक्य मण्डूकनाथोऽपि तेन खादितः। अतोऽहं ब्रवीमि स्कन्धेनापिवच्छत्रून्’ इत्यादि॥ ‘देव, यात्विदानीं पुरावृत्ताख्यानकथनम्। सर्वथा संधेयोऽयं हिरण्यगर्भो राजा संघीयतामिति मे मतिः।’ राजोवाच—‘कोऽयं भवतो विचारः, यतो जितस्तावदयमस्माभिस्ततोयद्यस्मत्सेवया वसति तदास्ताम्। नो चेद्विगृह्यताम्।’
अत्रान्तरे जम्बूद्वीपादागत्य शुकनोक्तम्—‘देव, सिंहलद्वीपस्य सारसो राजा संप्रति जम्बूद्वीपमाक्रम्यावतिष्ठते। राजा ससंभ्रमं ब्रूते—‘किं किम्।’ शुकः पूर्वोक्तं कथयति। गृभः स्वगतमुवाच—‘साधु रे चक्रवाक मन्त्रिन् सर्वज्ञ, साधु साधु।’ राजा सकोपमाह—‘आस्तां तावदयम्। गत्वा तमेव समूलमुन्मूलयामि।’ दूरदर्शी विहस्याह—
न शरन्मेघवत्कार्यं वृथैव घनगर्जितम्।
परस्यार्थमनर्थं वा प्रकाशयति नो महान्॥९२॥
अपरं च।
एकदा न विगृह्णीयाद्वहून्राजाभिघातिनः।
सदर्पोऽप्युरगः कीटैर्बहुभिर्नाश्यते ध्रुवम्॥९३॥
देव, किमिति विना संघानं गमनमस्ति। यतस्तदास्मत्पश्चात्प्रकोपोऽनेन कर्तव्यः। अपरं च।
योऽर्थतत्त्वमविज्ञाय क्रोधस्यैव वशं गतः।
स तथा तप्यते मूढो ब्राह्मणो नकुलाद्यथा॥९४॥
राजाह—‘कथमेतत्।’ दूरदर्शी कथयति—
कथा १२।
अस्त्युज्जयिन्यां माधवो नाम विप्रः। तस्य ब्राह्मणी प्रसूता बालापत्यस्य रक्षार्थं ब्राह्मणमवस्थाप्य स्नातुं गता। अथ ब्राह्मणाय राज्ञः पार्वणश्राद्धं दातुमाह्वानमागतम्। तच्छ्रुत्वा ब्राह्मणः सहजदा- रिद्र्यद्यादचिन्तयत्—‘यदि सत्वरं न गच्छामि तदान्यः कश्चिच्छ्रुत्वा श्राद्धं ग्रहीष्यति। यतः—
आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥९५॥
किंतु बालकस्यात्र रक्षको नास्ति। तत्किं करोमि। यातु। चिरकालपालितमिमं नकुलं पुत्रनिर्विशेषं बालकरक्षायां व्यवस्थाप्य
गच्छामि।’ तथा कृत्वा गतः। ततस्तेन नकुलेन बालकसमीपमागच्छन्कृष्णसर्पो दृष्ट्वा व्यापाद्य कोपात्खण्डं खण्डं कृत्वा खादितः। ततोऽसौ नकुलो ब्राह्मणमायान्तमवलोक्य रक्तविलिप्तमुखपादः सत्वरमुपागम्य तच्चरणयोर्लुलोठ। ततः स विप्रस्तथाविधं तं दृष्ट्वा बालकोऽनेन खादित इत्यवधार्य नकुलं व्यापादितवान्। अनन्तरं यावदुपसृत्यापत्यं पश्यति ब्राह्मणस्तावद्वालकः सुस्थः सर्पश्च व्यापादितस्तिष्ठति। ततस्तमुपकारकं नकुलं निरीक्ष्य भावितचेताः स परं विषादमगमत्। अतोऽहं ब्रवीमि— ‘योऽर्थतत्त्वमविज्ञाय’ इत्यादि॥
अपरं च।
कामः क्रोधस्तथा मोहो लोभो मानो मदस्तथा।
षड्वर्गमुत्सृजेदेनमस्मिंस्त्यक्ते सुखी नृपः॥९६॥
राजाह—‘मन्त्रिन्, एष ते निश्चयः।’ मन्त्री ब्रूते—‘एवमेव। यतः—
स्मृतिश्च परमार्थेषु वितर्कों ज्ञाननिश्चयः।
दृढता मन्त्रगुप्तिश्च मन्त्रिणः परमो गुणः॥९७॥
तथा च।
सहसा विदधीत न क्रिया-
मविवेकः परमापदां पदम्।
वृणुते हि विमृश्यकारिणं
गुणलुब्धाः स्वयमेव संपदः॥९८॥
तद्देव, यदिदानीमस्मद्वचनं क्रियते तदा संधाय गम्यताम्। यतः
यद्यप्युपायाश्चत्वारो निर्दिष्टाः साध्यसाधने।
संख्यामात्रं फलं तेषां सिद्धिः साम्नि व्यवस्थिता’॥९९॥
राजाह—‘कथमेवं संभवति।’ मन्त्री ब्रूते—‘देव, सत्वरं भविष्यति।
यतः—
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥१००॥
विशेषतश्चायं धर्मज्ञो राजा सर्वज्ञो मन्त्री च। ज्ञातमेतन्मया पूर्वं मेघवर्णवचनात्तत्कृतकार्य संदर्शनाच्च। यतः—
कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः।
तस्मात्परोक्षवृत्तीनां फलैः कर्मानुभाव्यते॥१०१॥
राजाह—‘अलमुत्तरोत्तरेण। यथाभिप्रेतमनुष्ठीयताम्। एतन्मङ्ग्रयित्वा गृध्रो महामन्त्री ‘तत्र यथार्हं कर्तव्यम्’ इत्युक्त्वा दुर्गाभ्यन्तरं चलितः। ततः प्रणिधिवकेनागत्य राज्ञो हिरण्यगर्भस्य निवेदितम्— ‘देव, संधिं कर्तुं महामन्त्री गृध्रोऽस्मत्समीपमागच्छत्। राजहंसो ब्रूते—‘मन्त्रिन् पुनः संबन्धिना केनचिदत्रागन्तव्यम्।’ सर्वज्ञो विहस्याह—‘देव, न शङ्कास्पदमेतत्। यतोऽसौ महाशयो दूरदर्शी। अथवा स्थितिरियं मन्दमतीनाम्। कंदाचिच्छङ्कैव न क्रियते। कदाचित्सर्वत्र शङ्का। तथा हि—
सरसि बहुशस्ताराच्छाये क्षणात्परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशाखविचक्षणः।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहकचकितो लोकः सत्येऽप्यपायमपेक्षते॥१०२॥
दुर्जनदूपितमनसः सुजनेष्वपि नास्ति विश्वासः।
बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति॥१०३॥
तद्देव, यथाशक्ति तत्पूजार्थं रत्नोपहारादिसामग्री सुसज्जीक्रियताम्। तथानुष्टिते सति स गृधो मन्त्री दुर्गद्वाराच्चक्रवाकेणोपगम्यसत्कृत्यानीय राजदर्शनं कारितो दत्तासने चोपविष्टः। चक्रवाक उवाच—‘युष्मदायत्तं सर्वम्। स्वेच्छयोपभुज्यतामिदं राज्यम्। राजहंसो ब्रूते—‘एवमेव’ दूरदर्शी कथयति— ‘एवमेवैतत्। किंत्विदानीं बहुप्रपञ्चवचनं निष्प्रयोजनम्। यतः—
लुब्धमर्थेन गृह्णीयात्स्तब्धञ्जलिकर्मणा।
मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम्॥१०४॥
अन्यच्च।
सद्भावेन हरेन्मित्रं संभ्रमेण तु बान्धवान्।
स्त्रीभृत्यौ दानमानाभ्यां दाक्षिण्येनेतराञ्जनान्॥१०५॥
तदिदानीं संधाय गम्यताम्। महाप्रतापश्चित्रवर्णो राजा।’ चक्रवाको ब्रूते—‘यथा संधानं कार्यं तदप्युच्यताम्।’ राजहंसो ब्रूते—‘कति प्रकाराः संधीनां संभवन्ति।’ गृध्रो ब्रूते—‘कथयामि। श्रूयताम्—
बलीयसाभियुक्तस्तु नृपो नान्यप्रतिक्रियः।
आपन्नः संधिमन्विच्छेत्कुर्वाणः कालयापनम्॥१०६॥
क्रपाल उपहारश्च संतानः संगतस्तथा।
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः॥१०७॥
अदृष्टनर आदिष्ट आत्मादिष्ट उपग्रहः।
परिॠयस्तथोच्छन्नस्तथा च परभूषणः॥१०८॥
स्कन्धोपनेयः संधिश्च षोडशैते प्रकीर्तिताः।
इति षोडशकं प्राहुः संधि संधिविचक्षणाः॥१०९॥
कपालसंधिर्विज्ञेयः केवलं समसंधितः।
संप्रदानाद्भवति य उपहारः स उच्यते॥११०॥
संतानसंधिर्विज्ञेयो दारिकादानपूर्वकः।
सद्भिस्तु संगतः संधिर्मैत्रीपूर्व उदाहृतः॥१११॥
यावदायुःप्रमाणस्तु समानार्थप्रयोजनः।
संपत्तौ वा विपत्तौ वा कारणैर्यो न भिद्यते॥११२॥
संगतः संधिरेवायं प्रकृष्टत्वात्सुवर्णवत्।
तथान्यैः संधिकुशलैः काञ्चनः स उदाहृतः॥ ११३॥
आत्मकार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः।
स उपन्यासकुशलैरुपन्यास उदाहृतः॥११४॥
मयास्योपकृतं पूर्वं ममाप्येष करिष्यति।
इति यः क्रियते संधिः प्रतीकारः स उच्यते॥११५॥
उपकारं करोम्यस्य ममाप्येष करिष्यति।
अयं चापि प्रतीकारो रामसुग्रीवयोरिव॥११६॥
एकार्था सम्यगुद्दिश्य क्रियां यत्र हि गच्छति।
सुसंहितप्रमाणस्तु स च संयोग उच्यते॥११७॥
आवयोर्योधमुख्यैस्तु मदर्थः साध्यतामिति।
यस्मिन्पणस्तु क्रियते स संधिः पुरुषान्तरः॥११८॥
त्वयैकेन मदीयोऽर्थः संप्रसाध्यस्त्वसाविति।
यत्र शत्रुः पणं कुर्यात्सोऽदृष्टपुरुषः स्मृतः॥ ११९॥
यत्र भूम्येकदेशेन पणेन रिपुरूर्जितः।
संधीयते संधिविद्भिः स चादिष्ट उदाहृतः॥ १२०॥
खसैन्येन तु संधानमात्मादिष्ट उदाहृतः।
क्रियते प्राणरक्षार्थं सर्वदानादुपग्रहः॥ १२१॥
कोशांशेनार्धकोशेन सर्वकोशेन वा पुनः।
शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः॥१२२॥
भुवां सारवतीनां तु दानानुच्छिन्न उच्यते।
भूम्युत्थफलदानेन सर्वेण परभूषणः॥१२३॥
परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते।
स्कन्धोपनेयं तं प्राहुः संधिं संविविचक्षणाः॥१२४॥
परम्परोपकारस्तु मैत्री संबन्धकस्तथा।
उपहारश्च विज्ञेयाश्चत्वारश्चैव संघयः॥१२५॥
एक एवोपहारस्तु संधिरेव मतो मम।
उपहारविभेदास्तु सर्व मैत्रविवर्जिताः॥१२६॥
अभियोक्ता बलीयस्त्वादलब्ध्वा न निवर्तते।
उपहाराहते तस्मात्संधिरन्यो न विद्यते॥१२७॥
राजाह— ‘भवन्तो महान्तः पण्डिताश्च। तदत्रास्माकं यथाकार्यमुपदिश्यताम्।’ मन्त्री व्रते—‘आः, किमेवमुच्यते।
आधिव्याधिपरीतापादद्य श्वो वा विनाशिने।
को हि नाम शरीराय धर्मापेतं समाचरेत्॥१२८॥
जलान्तश्चन्द्रचपलं जीवितं खलु देहिनाम्।
तथाविधमिति ज्ञात्वा शश्वत्कल्याणमाचरेत्॥ १२९॥
मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम्
सज्जनौःसंगतं कुर्याद्धर्माय च सुखाय च॥१३०॥
तन्मम संमतेन तदेव क्रियताम्। यतः—
अश्वमेधसहस्राणि सत्यं च तुलया कृतम्।
अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते॥१३१॥
अतः सत्याभिधानदिव्यपुरः सरयोरप्यनयोर्भूपालयोः काञ्चनाभिधानसंधिर्विध्मयताम्।’ सर्वज्ञो ब्रूते— ‘एवमस्तु।’ ततो राजहंसेन राज्ञा वस्त्रालंकारोपहारैः स मन्त्री दूरदर्शी पूजितः प्रहृष्टमनाश्चक्रवाकं गृहीत्वा राज्ञो मयूरस्य संनिधानं गतः। तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्रवचनाद्बहुमानदानपुरःसरं संभाषितस्तथाविधं संधिं स्वीकृत्य राजहंससमीपं प्रस्थापितः। दूरदर्शी ब्रूते—‘देव, सिद्धं नः समीहितम्। इदानीं स्वस्थानमेव विन्ध्याचलं व्यावृत्य प्रतिगम्यताम्। अथ सर्वे स्वस्थानं प्राप्य मनोभिलषितं फलं प्राप्नुवन्निति।
विष्णुशर्मणोक्तम्—‘अपरं किं कथयामि। कथ्यताम्।’ राजपुत्रा ऊचुः—‘तव प्रसादाद्राज्यव्यवहाराङ्कं ज्ञातम्। ततः सुखिनो भूता वयम्।’ विष्णुशर्मोवाच—‘यद्यप्येवं तथाप्यपरमपीदमस्तु—
संधिः सर्वमहीभुजां विजयिनामस्तु प्रमोदः सदा
सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश्चिरं वर्धताम्।
नीतिर्वारविलासिनीव सततं वक्षःस्थले संस्थिता
वक्रं चुम्बतु मन्त्रिणामहरहर्भूयान्महानुत्सवः॥१३२॥
अन्यच्चास्तु \।
प्रालेयाद्रेः सुतायाः प्रणयनिवसतिश्चन्द्रमौलिः स याव-
द्यावल्लक्ष्मीर्मुरारेर्जलद इव तडिन्मानसे विस्फुरन्ती।
यावत्स्वर्णाचलोऽयं दवदहनसमो यस्य सूर्यः स्फुलिङ्ग-
स्तावन्नारायणेन प्रचरतु रचितः संग्रहोऽयं कथानाम्॥१३३॥
अपरं च।
श्रीमान्धवलचन्द्रोऽसौ जीयान्माण्डलिको रिपून्।
येनायं संग्रहो यत्नाल्लेखयित्वा प्रचारितः॥१३४॥
इति हितोपदेशे संधिर्नाम चतुर्थः कथासंग्रहः समाप्तः।
<MISSING_FIG href="../books_images/U-IMG-1720719771Screenshot2024-07-11231232.png"/>
]