[[हितोपदेशः Source: EB]]
[
[TABLE]
॥श्रीः॥
॥हितोपदेशः॥
प्रस्ताविका।
सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः।
जाह्नवीफेनलेखेव यन्मृर्ध्निशशिनः कला॥१॥
श्रुतोहितोपदेशोऽयं पाटवंसंस्कृतोक्तिषु।
वाचां सर्वत्र वैचित्र्यं नीतिविद्यां दद्यति च॥२॥
अजरामरवत्प्राज्ञो विद्यामर्थं चचिन्तयेत्।
गृहीत इवकेशेषु मृत्युना धर्म्ममाचरेम्॥३॥
सर्वद्रव्येषु विद्यैष द्रव्यमाहुरनुत्तमम्।
अहार्यत्वादनर्घत्वादक्षयत्वाच्च सर्वदा॥४॥
संयोजयति विद्यैव नीचगापि नरं सरित्।
समुद्रमिव दुर्धर्षंनृपं भाग्यमतः परम्॥५॥
विद्या ददाति विनयं विनयाद्याति पात्रताम्।
पात्रत्वाद्धनप्राप्नोतिधनार्द्धर्मं ततः सुखम्॥६॥
विद्या शत्रं चशास्त्रं च द्वे विद्येप्रतिपत्तये।
आद्योहास्यायवृद्धत्वेद्वितीयाद्रियते सदा॥७॥
पण्डिते च गुणात्सर्वे मूर्खै दोषाश्च केवलम्।
तस्मात्मूर्खसहस्रेषु प्राज्ञ एको विशिष्यते॥८॥
यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत्।
कथाच्छलेन बालानां नीतिस्तदिह कथ्यते॥९॥
मित्रलाभः सुहृद्भेदोविग्रहः संधिरेव च।
पञ्चतन्त्रात्तथान्यस्माद्ग्रन्थादाकृप्य लिख्यते॥१०॥
_______________
** **अस्ति भागीरथीतीरे पाटलिपुत्रनामधेयं नगरम्। तत्र सर्वस्वनिगुणोपेतः सुदर्शनो नाम नरपतिरासीत्। स भूपतिरेकदा केनापि षट्यमानंश्लोकद्वयं शुश्राव—
‘अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम्।
सर्वस्य लोचनंशास्त्रं यस्य नास्त्यन्धएव सः॥११॥
यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्नचतुष्टयम्’॥१२॥
** **इत्याकर्ण्यात्मनः पुत्राणामनधिगतशास्त्राणां नित्यमुन्मार्गनामिनां शास्त्राननुष्ठानेनोद्विग्नमनाः स राजा चिन्तयामास—
‘कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः।
काणेन चक्षुषा किं वा? चक्षुःपीडैव केवलम्॥१३॥
अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे॥१४॥
किं च।
स जातो येन जातेन याति वंशः समुन्नतिम्।
परिवर्तिनि संसारे मृतः को वा न जायते?॥१५॥
गुणिगणगणनारम्भे न पतति कठिनी सुसम्भ्रमाद्यस्य।
तेनाम्बायदि सुतिनी वद वन्ध्या कीदृशी भवति?॥१६॥
अपि च।
दाने तपसि शौर्ये च यस्यन प्रथितं मनः।
विद्यायामर्थलाभे च नातुरुच्चार एव सः॥१७॥
अपरं च—
वरनेको गुणी पुत्रो न च मुर्खशतान्यपि।
एकश्चन्द्रस्तनो हन्ति न च तारागणोऽपि च॥१८॥
पुण्यतीर्थे कृतं येन तपः क्वाम्यतिदुष्करम्।
तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः सुधीः॥१९॥
अर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकारी चविद्या
षड् जीवलोकस्य सुखानि राजन्!॥२०॥
को धन्यो बहुभिः पुत्रैः कुसूलापूरणाढकैः।
वरमेकः कुलालम्बी यत्र विश्रूयते पिता॥२१॥
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः॥२२॥
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम्।
विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम्॥२३॥
यस्य कस्य प्रसूतोऽपि गुणवान्पूज्यते नरः।
धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति॥२४॥
हा हा पुत्रक नाधीतं सुगतैतासु रात्रिषु।
तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि॥२५॥
तत्कथमिदानीमेते मम पुत्रा गुणवन्तः क्रियन्ताम्।
आहारनिद्राभयमैथुनं च
सामान्यमेतत्पशुभिर्नराणाम्।
धर्मो हि तेषामधिको विशेषो
धर्मेण हीनाः पशुभिः समानाः॥२६॥
यतः।
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्॥२७॥
यच्चोच्यते—
आयुः कर्म च वित्तं विद्या निधनमेव च।
पञ्चैतान्यपि सृज्यन्ते गर्भस्थस्यैवदेहिनः॥२८॥
किं च।
अवश्यं भाविनो भावा भवन्ति महतामपि।
नग्नत्वंनीलकण्ठस्य महाहिशयनं हरेः॥२९॥
अपि च।
यदभावि न तद्भावि भावि चेन्न तदन्यथा।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते॥३०॥
एतत्कार्याक्षमाणां केषां चिदालस्ययचनम्।
न दैवमपि सञ्चिन्त्य त्यजेदुद्योगमात्मनः।
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति॥३१॥
अन्यच्च।
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवेन देयमिति कापुरुषा वदन्ति।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्नेकृते यदि न सिध्यति कोऽत्रदोषः॥३२॥
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्।
एवं पुरुषकारेण विना दैवं न सिध्यति॥३३॥
तथा च—
पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते।
तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः॥३४॥
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते॥३५॥
काकतालीयत्प्राप्तं दृष्ट्वापि निधिमग्रतः।
न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते॥३६॥
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥३७॥
मातापितृकृताभ्यासो गुणितामेति बालकः।
न गर्भच्युतिमात्रेण पुत्रो भवति पण्डितः॥३८॥
माता शत्रुः पिता वैरी येन बालो न पाठितः।
न शोभते सभामध्ये हंसमध्ये वको यथा॥३९॥
रूपयौवनसंपन्ना विशालकुलसंभवा।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥४०॥
मूर्खोऽपि शोभते तावत्सभायां वस्त्रवेष्टितः।
तावच्चशोभते मूर्खोयावत्किंचिन्न भाषते’॥४१ ॥
एतच्चिन्तयित्वा स राजा पण्डितसभां कारितवान्। राजोवाच—‘भो भोः पण्डिताः! श्रूयताम्। अस्ति कश्चिदेवंभूतो विद्वान्यो मम पुत्राणांनित्यमुन्मार्गगानिनामनधिगतशाखाणामिदानींनीतिशब्दोब्देशेन पुनर्जन्म कारयितुं समर्थः। यतः—
कायः काञ्चनसंसर्गाद्धते मारकर्तीद्युतिम्।
तथा सत्संनिधानेन मूर्खोवाति प्रवीणताम्॥४२॥
उक्तं च—
दोयते हि मतिस्तात हीनैः सह समागमात्।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम्’॥४३॥
अत्रान्तरे विष्णुशर्मनामा महापण्डितः सकलनीतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवाव्रवीत्– ‘देव, महाकुलसंभूता एते राजपुत्राः। तन्मया नीतिं ग्राहयितुं शक्यन्ते। यतः—
नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत्।
न व्यापारशतेनापि शुकवत्पाठ्यते बकः॥४४॥
अन्यच्च।
अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते।
आकरे पद्मरागाणां जन्म काचमणेः कुतः॥४५॥
अतोऽहं षण्मासाभ्यन्तरे तव पुत्रान्नीतिशास्त्राभिज्ञान्करिष्यामि।’ राजा सविनय पुनरुवाच—
‘कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः॥४६॥
अन्यच्च।
यथोदयगिरेर्द्रव्यं संनिकर्षेण दीप्यते।
तथा सत्संनिधानेन हीनवर्णोऽपि दीव्यते॥४७॥
गुणागुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रभवन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः॥४८॥
तदेतेषामस्मत्पुत्राणां नीतिशास्त्रोपदेशाय भवन्तः प्रमाणम्’ इत्युक्त्वा तस्य विष्णुशर्मणो बहुमानपुरःसरं पुत्रान्समर्पितवान्॥
इति प्रस्ताविका।
**
<MISSING_FIG href="../books_images/U-IMG-1722450196Screenshot2024-07-31235259.png"/>**
न संशयमनारुह्यनरो भद्राणि पश्यति।
संशयं पुनरारुह्ययदि पश्यन्न पश्यति॥७॥
** **तन्निरूपयानि तावत्।’प्रकाशं ब्रूते—‘कुत्रतवकङ्कणम्?’ व्याघ्रोरूपं प्रसार्यदर्शयति। पान्थोऽवदत्—‘कथं मारात्मके त्वयिविश्वासः?’। व्याघ्र उवाच—‘शृणु रे पान्थ!, प्रागेव यौवनदशायातिदुर्वृत्त आसम्। अनेकगोमानुषाणां वधान्मे पुत्रा मृता। दाराश्च। वंशहीनश्चाहम्। ततः केनचिद्धार्मिकेणाहमादिष्टः—दानधर्मादिकं चरतु भवान्।’ तदुपदेशादिदानीमहं स्नानशीलो दातावृद्धो गलितनत्वदन्तो न कथं विश्वासभूमिः?यतः—
इज्वाऽध्ययनदानानि तपः सत्यं धृतिः क्षमा।
अलोभइति मार्गोऽयं धर्मस्याष्टबिधः स्मृतः॥८॥
तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते।
उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति॥९॥
मम चैतावांल्लोभविरहो येन स्वहस्तस्थमपि सुवर्णकङ्कणं यस्मै कस्मैचिद्दातुमिच्छामि। तथापिव्याघ्रो मानुषं खादतीति लोकप्रयादो दुर्निवारः। यतः—
गतानुगतिको लोकः कुट्टनीमुपदेशिनीम्।
प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम्॥१०॥
मया च धर्मशास्त्राण्यधीतानि। शृणु,—
मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा।
दरिद्रे दीयते दानं सफलं पाण्डुनन्दन!॥११॥
मित्रलाभः।
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः॥१२॥
अपरं च।
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति॥१३॥
अन्यच्च।
मातृवत्परदारेषु परद्रव्येषु लोष्टवत्।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः॥१४॥
त्वं चातीय दुर्गतस्तेन तत्तुभ्यं दातुं सयत्नोऽहम्। तथा चोक्तम्—
दरिद्रान्भर कौन्तेय मा प्रयच्छेश्वरे धनम्।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः॥१५॥
अन्यच्च।
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।
देशे काले च पात्रेच तद्दानं सात्त्विकं स्मृतम्॥१६॥
तदत्रसरसि स्नात्वा सुवर्णकङ्कणं गृहाण।’ततो यावदसौ तद्वचःप्रतीतो लोभात्सरः स्नातुं प्रविशति तावन्महापङ्के निमग्नः पलायितुमक्षमः। पङ्के पतितं दृष्ट्वा व्याघ्रोऽवदत्—‘अहह, महापङ्के पतितोऽसि। अतस्त्वामहमुत्थापयामि। इत्युक्त्वा शनैःशनैरुपगम्य तेन व्याघ्रेण धृतः स पान्थोऽचिन्तयत्—
‘न धर्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः।
न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम्।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्रहन्यते॥२९॥
तस्य तिरस्कारं कृत्वा चित्रग्रीव उवाच—‘नायमस्य दोषः। यतः।
आपदामापतन्तीनां हितोऽप्यायाति हेतुताम्।
मातृजङ्घाहि वत्सस्य स्तम्भीभवति बन्धने॥३०॥
अन्यच्च।
स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः।
न तु भीतपरित्राणवस्तूपालम्भपण्डितः॥३१॥
विषत्काले विस्मय एव कापुरुषलक्षणम्। तदत्रधैर्यमवलम्ब्य प्रतीकारश्चिन्त्यताम्। यतः।
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम्॥३२॥
संपदि यस्य न हर्षो विपदि विषादो रणे चधीरत्वम्।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम्॥३३॥
अन्यच।
षड् दोषाःपुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता॥३४॥
इदानीमप्येवं क्रियताम्। सर्वैरेकचित्तीभूय जालमादायोड्डीयताम्। यतः।
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः॥३५॥
संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः॥३६॥
इति विचिन्त्य पक्षिणः सर्वे जालमादायोत्पतिताः। अनन्तरं सः व्याधः सुदूराज्जालापहारकांस्तानवलोक्य पञ्चाद्धावन्नचिन्तयत्—
‘संहतास्तु हरन्त्येते मम जालं विहंगमाः।
यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा’॥३७॥
ततस्तेषु चक्षुर्विषयातिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः। अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुः—‘किमिदानीं कर्तुमुचितम्।’ चित्रग्रीव उवाच—
‘माता मित्रं पिता चेति स्वभावात्त्रितयं हितम्।
कार्यकारणतश्चान्येभवन्ति हितबुद्धयः॥३८॥
तदस्माकं मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवने निवसति। सोऽस्माकं पाशांश्छेत्स्यति।’ इत्यालोच्च सर्वे हिरण्यकविवरसमीपं गताः। हिरण्यकश्च सर्वदाऽपरायशङ्कया शतद्वारं विवरं कृत्वा निवसति। ततो हिरण्यकः कपोतावपातभयाच्चकितस्तूष्णीं स्थितः। चित्रग्रीव उवाच—‛सखे हिरण्यक, किमस्मान्नसंभाषसे।’ततो हिरण्यकस्तद्वचनं प्रत्यभिज्ञाय ससंभ्रमं वहिर्निःसृत्याब्रवीत्— ‘आः! पुण्यवानस्मि। प्रियसुहृन्मे चित्रग्रीवः समायातः।
यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः।
यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान्’॥३९॥
पाशबद्धांश्चैतान्दृष्ट्वा सविस्मयः क्षणं स्थित्वोवाच— ‘सखे, किमेतत्?।’चित्रग्री- वोऽवदत्—‘सखे, अस्माकं प्राक्तनजन्मकर्मणः फलमेतत्।
यस्माच्च येन च यथा चयदा च यच्च
यावच्च यत्न च शुभाशुभमात्मकर्म।
तस्माच्चतेन च तथा च तदा च तच्च
तावच्च तत्र च विधातृवशादुपैति॥४०॥
रोगशोकपरीतापबन्धनव्यसनानि च।
आत्मापराधवृक्षाणां फलान्येतानि देहिनाम्’॥४१॥
एतच्छ्रुत्वाहिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुंसत्वरमुपसर्पति। चित्रग्रीयउवाच— ‘मित्र मा मैवम्। अस्मदाश्रितानामेषां तावत्पाशांश्छिन्धि, तदा मम पाशं पश्चाच्छेत्स्यसि।’हिरण्यकोऽप्याहं— ‘अहमल्पशक्तिः। दन्ताश्च मे कोमलाः। तदेतेषां पाशांश्छेतुंकथं समर्थः?। तद्यावन्मेदन्ता न त्रुट्यन्तितावत्तव पाशं छिनद्मि। तदनन्तरमेपामपि बन्धनं यावच्छक्यं छेत्स्यामि।’ चित्रग्रीव उवाच—‘अस्त्वेवम्। तथापि यथाशक्त्येतेषां बन्धनं खण्डय।’हिरण्यकेनोक्तम्— ‘आत्मपरित्यागेन यदाश्रितानां परिरक्षणं तत्रनीतिविदां संमतम्। यतः।
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥४२॥
अन्वच्च।
धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः।
तान्निघ्नता किं न हतं रक्षता किं न रक्षितम्’॥४३॥
चित्रग्रीव उवाच—‘सखे!नीतिस्तावदीदृश्येव। किं त्वहमस्मदाश्रितानां दुःखं सोढुं सर्वथाऽसमर्थः। तेनेदं ब्रवीमि। यतः।
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
सन्निमित्ते वरं त्यागो विनाशे नियते सति॥४४॥
अयमपरश्चासाधारणोहेतुः।
जातिद्रव्यगुणानां च साम्यमेषां मया सह।
मत्प्रभुत्वफलं ब्रूहि कदा किं तद्भविष्यति?॥५५॥
अन्यच।
विना वर्तनमेवैते न त्यजन्ति मनान्तिकम्।
तन्मे प्राणव्ययेनापि जीवयैतान्ममाश्रितान्॥४६॥
किं च।
मांसमूत्रपुरीपास्थिनिर्मितेऽस्मिन्कलेवरे।
विनश्वरे विहायास्थां यशः पालय मित्र मे॥४७॥
अपरं च पश्य।
यदि नित्यमनित्येन निर्मलं मलवाहिना।
यशः कायेन लभ्येत तत्र लब्धं भवेन्नु किम्॥४८॥
यतः।
शरीरस्य गुणानां च दूरमत्यन्तमन्तरम्।
शरीरं क्षगविध्वंसि कल्पान्तस्थायिनो गुणाः’॥४९॥
इत्याकर्ण्य हिरण्यकः प्रहृष्टमनाः पुलकितः सन्नब्रवीत् ‘साधुमित्र, साधु। अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते। एवमुक्त्वा तेन सर्वेषां वन्धनानि छिन्नानि। ततो
हिरण्यकः। सर्वान्सादरं संपूज्याह—‘सखे चित्रग्रीव, सर्वथात्र जालबन्धनविधौ दोषमाशङ्क्यात्मन्यवज्ञा न कर्तव्या। यतः।
योऽधिकाद्योजनशतात्पश्यतीहामिषं खगः।
स एव प्राप्तकालस्तु पाशबन्धं न पश्यति॥५०॥
अपरं च।
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजंगमयोरपि बन्धनम्।
मतिमतां न विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः॥५१॥
अन्यच्च।
व्योमेकान्ताविहारिणोऽपि विहगाः संप्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि।
दुर्नीतंकिमिहास्ति किं सुचरितं कः स्थानलाभे गुणः?
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि’॥५२॥
इति प्रबोध्यातिथ्यं कृत्वालिङ्ग्य च चित्रग्रीवस्तेन संप्रेषितो यथेष्टदेशान्सपरिवारो ययौ। हिरण्यकोऽपि स्वविवरं प्रविष्टः।
यानि कानि च मित्राणिकर्तव्यानि शतानि च।
पश्यमूषिकामित्रेण कपोता मुक्तबन्धनाः॥५३॥
अथ लघुपतनकनामा काकः सर्ववृत्तान्तदर्शी साश्चर्यमिदमाह—‘अहो हिरण्यक, श्लाघ्योऽसि। अतोऽहमपि त्वया सह मैत्रीमिच्छामि। अतो मां मैत्र्येणानुग्रहीतुमर्हसि।’ एतच्छ्रुत्वा हिरण्यकोऽपि दिवराभ्यन्तरादाह—‘कस्त्वम्?।’ स ब्रूते—‘लघु-
पतनकनामा वायसोऽहम्।’हिरण्यको विहस्याह— ‘का त्वया सह मैत्री। यतः।
यत्नेन युज्यते लोके बुधस्तत्तेन योजयेत्।
अहमन्नं भवान्भोक्ता कथं ‘प्रीतिर्भविष्यति॥५४॥
अपरं च।
भक्ष्यभक्षकयोः प्रीतिर्विपत्तेरेव कारणम्।
सृगालात्पाशबद्धोऽसौ मृगः काकेन रक्षितः’॥५५॥
वायसोऽब्रवीत्—‘कथमेतत्?’। हिरण्यकः कथयति—
कथा२ ।
अस्ति मगधदेशे चम्पकवती नामारण्यानी। तस्यां चिरान्महता स्नेहेन मृगकाकौनिवसतः। स च मृगः स्वेच्छया भ्राम्यन्हृष्टपुष्टाङ्गः केनाचिच्छृगलेनावलोकितः। तं दृष्ट्वा शृगालोऽचिन्तयत्—‘आः! कथमेतन्मांसं सुललितं भक्षयामि। भवतु। विश्वासं तावदुत्पादयामि।’इत्यालोच्योपसृत्याब्रवीत्—‘मित्र, कुशलं ते?।’मृगेणोक्तम्—‘कस्त्वम्?।’ स ब्रूते—‘क्षुद्रबुद्धिनामा?।’ जम्बुकोऽहम्। अत्रारण्ये बन्धुहीनो मृतवन्निवसामि। इदानीं त्वांमित्रमासाद्य पुनः सबन्धुर्जीवलोकं प्रविष्टोऽस्मि। अधुना तवानुचरेण मया सर्वथा भवितव्यम्।’मृगेणोक्तम्—‘एवमस्तु।’ ततः पश्चादस्तंगते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमिं गतौ। तत्र चम्पकबृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रंनिवसति। तौ दृष्ट्वा काकोऽवदत्—‘सखे चित्राङ्ग, कोऽयं द्वितीयः?।’मृगो ब्रूते—‘जम्बुकोऽयम्।
अस्मत्सख्यमिच्छन्नागतः।’काको ब्रूते—‘मित्र, अकस्मादागन्तुना सह मैत्री न युक्ता। तथा चोक्तम्—
‘अज्ञातकुलशीलस्य वासो देयो न कस्यचित्।
मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः’॥५६॥
तावाहतुः—‘कथमेतत्। काकः कथयति—
कथा ३।
अस्ति भागीरथीतीरे गृध्रकूटनाम्निपर्वते महापर्कटीवृक्षः। तस्य कोटरे दैवदुर्विपाकाद्गलितनखनयनो जरद्गवनामा गृध्रः प्रतिवसति। अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात्किंचित्किंचिदुद्धृत्य ददति। तेनासौजीवति। अथ कदाचिद्दीर्घकर्णनामा मार्जारः पक्षिशावकान्भक्षितुं तत्रागतः। ततस्तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्तैःकोलाहलः कृतः। तच्छ्रुत्वा जरद्गवेनोक्तम—‘कोऽयमायाति।’दीर्घकर्णो गृभ्रमवलोक्य सभयमाह—‘हा, हतोऽस्मि। यतः।
तावद्भयस्य भेत्तव्यंयावद्भयमनागतम्।
आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम्॥५७॥
अधुनास्य संनिधाने पलायितुमक्षमः। तद्यथा भवितव्यं तद्भवतु। तावद्विश्वासमुत्पाद्यास्य समीपमुपगच्छामि।’ इत्यालोच्योपसृत्याब्रवीत्—‘आर्य, त्वामभिवन्दे।’गृध्रोऽवदत्—‘कस्त्वम्?।’ सोऽवदत्—‘मार्जारोऽहम्।’गृध्रो ब्रूते—दूरमपसर। नो चेद्धन्तव्योऽसि मया।’मार्जारोऽवदत्—‘श्रूयतां तावदस्मद्वचनम्। ततो यद्यहं वध्यस्तदा हन्तव्यः। यतः।
जातिमात्रेण किं कश्चिद्धन्यते पूज्यते क्वचित्।
व्यवहारं परिज्ञाय वज्यः पूज्योऽथवा भवेत्॥५८॥
गृध्रो ब्रूते—‘ब्रूहि किमर्थमागतोऽसि ?।’ सोऽवदत्—अहमत्र गङ्गातीरे नित्यस्नायी ब्रह्मचारी चान्द्रायणब्रतमाचरंस्तिष्ठामि। यूयं धर्मज्ञानरता विश्वासभूमय इति पक्षिणः सर्वे सर्वदा ममाग्नेप्रस्तुवन्ति। अतो भवद्योविद्यावयोवृद्धेभ्यो धर्मं श्रोतुमिहागतः। भवन्तश्चैतादृशा धर्मज्ञा यन्मामतिथिं हन्तुमुद्यताः। गृहस्थधर्मश्चैषः।
अरावप्युचितं कार्यमातिथ्यं गृहमागते।
छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रुपः॥५९॥
यदि वा धनं नास्ति तदा प्रीतिवचसाप्यतिथिः पूज्य एव। यतः।
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन॥६०॥
अपरं च।
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः।
नहि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः॥६१॥
अन्यच्च।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति॥६२॥
अन्यच्च।
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः’॥६३॥
गृध्रोऽवदत्—मार्जारो हि मांसरुचिः। पक्षिशावकाञ्चात्रनिवसन्ति। तेनाहमेवं ब्रवीमि।’तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ। स्पृशति। ब्रूते च— ‘मया धर्मशास्त्रं श्रुत्वा वीतरागेणेदं दुष्करं ब्रतं चान्द्रायणमध्यवसितम्। परस्परं विवदमानानामपि धर्मशास्त्राणम् ‘अहिंसा परमो धर्म’इत्यत्नैकमत्यम्। यतः।
सर्वहिंसनिवृत्ता ये नराः सर्वसहाश्च ये।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥६४॥
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति॥६५॥
योऽत्तियस्य यदा मांसमुभयोः पश्यतान्तरम्।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते॥६६॥
मर्तव्यमिति यद्दुःखं पुरुषस्योपजायते।
शक्यते नानुमानेन परेण परिवर्णितुम्॥६७॥
शृणु पुनः।
स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते।
अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं महत्’॥६८॥
एवं विश्वास्य स मार्जारस्तरुकोटरे स्थितः।
ततो दिनेषु गच्छत्सु पक्षिशाबकानाक्रम्य कोटरमानीय प्रत्यहं खादति। येषामपत्यानि खादितानि तैः शोकार्तैर्बिलपद्भिरितस्ततो जिज्ञासासमारब्धा। तत्परिज्ञाय मार्जारः कोटरात्रिःसृत्य बहिः पलायितः पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरूकोटरे शाबकास्थीनि प्राप्तानि। अनन्तरं त ऊचुः—अनेनैव जरद्गवेनास्माकं
शावकाः खादिताः’इति सर्वैः पक्षिभिर्निश्चित्य गृध्रो व्यापादितः। अतोऽहं ब्रवीमि—‘अज्ञातकुलशीलस्य’इत्यादि। इत्याकर्ण्य स जम्बुकः सकोपमाह—‘मृगस्य प्रथमदर्शनदिने भवानप्यज्ञातकुलशील एव। तत्कथं भवता सहैतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते।
यत्र विद्वज्जनो नास्ति श्लाध्यस्तत्राल्पधीरपि।
निरस्तपादपे देश एरण्डोऽपि द्रुमायते॥६९॥
अन्यच्च।
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥७०॥
यथायं मृगो मम वन्धुस्तथा भवानपि। मृगोऽब्रवीत्—‘किमनेनोत्तरोत्तरेण। सर्वैरेकत्रविस्रम्भालापैः सुखिभिः स्थीयताम्। यतः।
न कश्चित्कस्यचिन्मित्रंन कश्चित्कस्यचिद्रिपुः।
व्यवहारेण मित्राणि जायन्ते रिपवस्तथा॥७१॥
काकेनोक्तम्—‘एवमस्तु।’अथ प्रातः सर्वे यथाभिमतदेशं गताः।
एकदा निभृतं सृगालो ब्रूते—’ सखे, अस्मिन्वनैकदेशे सस्यपूर्णक्षेत्रमस्ति। तदहं त्वां नीत्वा दर्शयामि। तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति। अथ क्षेत्रपतिना तद्दृष्ट्वा पाशोयोजितः। अनन्तरं पुनरागतो मृगः पाशैर्बद्धोऽचिन्तयत्—‘को मामितः कालपाशादिव व्याधपाशात्त्रातुं मित्रादन्यः समर्थः।’ तत्रान्तरे जम्बुकस्तत्रागत्योपस्थितोऽचिन्तयत्—फलिता तावदस्माकं कपटप्रबन्धेन मनोरथसिद्धिः। एतस्योत्कृत्यमानस्य मांसासृग्लिप्तान्यस्थीनि मयावश्यं प्राप्तव्यानि। तानि बाहुल्येन
भोजनानि भविष्यन्ति।’मृगस्तं दृष्ट्वोल्लासितोब्रूते—‘सखे, छिन्धि तावन्मम बन्धनम्। सत्वरं त्रायस्व माम्। यतः।
आपत्सु मित्रं जानीयाद्युद्धे शूरमृणे शुचिम्।
भार्यां क्षोणेषु वित्तेषु व्यसनेषु च बान्धवान्॥७२॥
अपरं च।
उत्सव व्यसने चैव दुर्भिक्षं राष्ट्रावप्लव।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥७३॥
जम्बुको मुहुर्मुहुः पाशं विलोक्या्चिन्तयत्—‘दृढस्तावदयं बन्धः। ब्रूते च—सखे, स्नायुनिर्मिता एते पाशाः। तदद्य भट्टारकवारेकथमेतान्दन्तैःस्पृशामि। मित्र, यदि चित्ते नान्यथा मन्यसे तदा प्रभाते यत्त्वया वक्तव्यं तत्कर्तव्यम्। इत्युक्त्वा तत्समीप आत्मानमाच्छाद्य स्थितः सः। अनन्तरं स काकः प्रदोषकाले मृगमनागतमवलोक्येतस्ततोऽन्विष्यतथाविधं दृष्ट्वोवाच—‘सखे, किमेतत्?।’ मृगेणोक्तम्—‘अवधीरितसुहृद्वाक्यस्य फलमेतत्। तथा चोक्तम्—
सुहृदां हितकामानां यः शृणोति न भाषितम्।
विपत्संनिहिता तस्य स नरः शत्रुनन्दनः’॥७४॥
काको ब्रूते— ‘स वञ्चकः क्वास्ते ?।’मृगेणोक्तम्—‘मन्मांसार्थी तिष्ठत्यत्रैव। काको ब्रूते—‘उक्तमेव मया पूर्वम्।
अपराधो न मेऽस्तीति नैतद्विश्वासकारणम्।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि॥७५॥
दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम्।
न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गतायुषः॥७६॥
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्’॥७७॥
ततः काको दीर्घं निःश्वस्य ‘अरे वञ्चक, किं त्वयापापकर्मणा कृतम् ?। यतः।
संलापितानां मधुरैर्वचोभि-
र्मिथ्योपचारैश्च वशीकृतानाम्।
आशावतां श्रद्दधतां च लोके
किमर्थिनां वञ्चयितव्यमस्ति॥७८॥
उपकारिणि विस्रब्धे शुद्धमतौ यः समाचरति पापम्।
तं जनमसत्यसंधं भगवति वसुधे कथं बहसि॥७९॥
दुर्जनेन समं सख्यं प्रीतिं चापि न कारयेत्।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम्॥८०॥
अथवा स्थितिरियं दुर्जनानाम्।
प्राक्पादयोः पतति खादति पृष्ठमांसं
कर्णे कलं किमपि रौति शनैर्विचित्रम्।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः
सर्वं खलस्य चरितं मशकः करोति॥८१॥
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम्।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम्॥८२॥
अथ प्रभाते क्षेत्रपतिर्लगुडहस्तस्तं प्रदेशमागच्छन्काकेनायलोकितः। तमालोक्य काकेनोक्तम्—‘सखे मृग, त्वमात्मानं मृत-
वत्संदर्श्यवातेनोदरं पूरयित्वा पादान्स्तब्धीकृत्य तिष्ठ। यदाहं शब्दं करोमि तदा त्वमुत्थाय सत्वरं पलायिष्यसे।’ मृगस्तथैव काकवचनेन स्थितः। ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेन तथाविधो मृग आलोकितः। ‘आः, स्वयं मृतोऽसि’इत्युक्त्वा मृगं बन्धनान्मोचयित्वा पाशान्ग्रहीतुं सयत्नो बभूव। ततः काकशब्दं श्रुत्वा मृगः सत्वरमुत्थाय पलायितः। तमुद्दिश्य तेन क्षेत्रपतिना क्षिप्तेन लगुडेन सृगालो हतः। तथा चोक्तम्—
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः।
अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते॥८३॥
अतोऽहं ब्रवीमि—‘भक्ष्यभक्षकयोः प्रीतिः’इत्यादि॥ काकः पुनराह—
‘भक्षितेनापि भवता नाहारो मम पुष्कलः।
त्वयि जीवति जीवामि चित्रग्रीव इवानव॥८४॥
अन्यच्च।
तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम्।
सतां हि साधुशीलत्वात्स्वभावो न निवर्तते॥८५॥
किं च।
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम्।
नहि तापयितुं शक्यं सागराम्भस्तृणोल्कया’॥८६॥
हिरण्यको ब्रूते—‘चपलस्त्वम्। चपलेन सह स्नेहः सर्वथा न कर्तव्यः। तथा चोक्तम्—
नार्जारो महिषोमेषःकाकः कापुरुषस्तथा।
विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नोचितः॥८७॥
किं चान्यत् शत्रुपक्षो भवानस्माकम्। उक्तं चैतत्—
शत्रुणान हि संदध्यात्सुश्लिष्टनापि संधिना।
सुतप्तमपि पानीयं शमयत्येव पावकम्॥८८॥
दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन्।
मणिना भूषितः सर्पः किमसौ न भयंकरः॥८९॥
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत्।
नोदके शकटं याति न च नौर्गच्छति स्थले॥९०॥
अपरं च।
महताप्यर्थसारेण यो विश्वसिति शत्रुषु।
भार्यासु च विरक्तासु तदन्तं तस्य जीवनम्’॥९१॥
लघुपतनको ब्रूते—श्रुतं मया सर्वम्। तथापि मम चैतावान्संकल्पस्त्वया सह सौहृद्यमवश्यं करणीयमिति। नो चेदनाहारेणात्मानं व्यापादयिष्यामि तथा। हि।
मृद्घटवत्सुखभेद्यो दुःसंधानश्च दुर्जनो भवति।
सुजनस्तु कनकघटबंद्दुर्भेद्यश्चाशुसंधेयः॥९२॥
किं न।
द्रवत्वात्सर्वलोहानां निमित्तान्मृगपक्षिणाम्।
भयाल्लोभाच्च मूर्खाणां संगतं दर्शनात्सताम्॥९३॥
किं च।
नारिकेलसनाकारा दृश्यन्ते हि सुहृज्जनाः।
अन्ये वदरिकाकारा बहिरेव मनोहराः॥९४॥
स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम्।
भङ्गेऽपि हि मृगालानामनुबध्नन्ति तन्तवः॥९५॥
अन्वच्च।
शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः।
दाक्षिण्यं चानुरक्तिश्चसत्यता च सुहृद्गुणाः॥९६॥
एतैर्गुणैरुपेतो भवदन्यो मया कः सुहृत्प्राप्तव्यः।’ इत्यादि तद्वचनमाकर्ण्य हिरण्यको बहिर्निःसृत्याह—‘आप्यायितोऽहं भवतानेन वचनामृतेन। तथा चोक्तम्—
धर्मार्तंन तथा सुशीतलजलैः स्नानं न मुक्तावली
न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमत्यर्पितम्।
प्रीत्या सज्जनभाषितं प्रभवति प्रायो यथा चेतसः
सद्युक्त्या च पुरस्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम्॥९७॥
अन्यच्च।
रहस्यभेदो याच्या च नैपुर्य चलचित्तता।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्व दूषणम्॥९८॥
अनेन वचनक्रमेण तदेकदूषणमपि त्वयि न लक्ष्यते। यतः।
पटुत्वं सत्यवादित्यं कथायोगेन बुध्यते।
अस्तब्धत्यमचापल्यं प्रत्यक्षेणावगम्यते॥९९॥
अपरं च।
अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः॥१००॥
मनस्यन्यद्वत्रस्यन्यत्कर्मण्यन्यद्दुरात्मनाम्।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्॥१०१॥
तद्भवतु भवतोऽभिमतमेव।’ इत्युक्त्वा हिरण्यको मैत्र्यं विधाय भोजनविशेषैर्पायसंसंतोष्य विवरं प्रविष्टः। वायसोऽपि स्वस्थानं गतः। ततः प्रभृति तयोरन्योन्याहारप्रदानेन कुशलप्रश्नैर्विस्रम्भालापैश्च कालोऽतिवर्तते।
एकदा लघुपतनको हिरण्यकमाह—‘सखे, कष्टतरलभ्याहारमिदं स्थानं परित्यज्य स्थानान्तरं गन्तुमिच्छामि।’हिरण्यको ब्रूते—‘मित्र, क्व गन्तव्यम्?। तथा चोक्तम्—
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्।
मा समीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्॥१०२॥
बायसो ब्रूते—‘अस्ति सुनिरूपितस्थानम्।’हिरण्यकोऽवदत्—‘किं तत्?।’वायसो ब्रूते—अस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः। तत्र चिरकालोपार्जितः प्रियसुहृन्मे मन्थराभिधानः कच्छपो धार्मिकः प्रतिवसति। यतः।
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्।
धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः॥१०३॥
स च भोजनविशेषैर्मां संवर्धयिष्यति।’हिरण्यकोऽप्याह—‘तत्किमत्रावस्थाप्य मया कर्तव्यम्। यतः।
यस्मिन्देशे न संमानो न वृत्तिर्न च बान्धवः।
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत्॥१०४॥
अपरं च।
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता।
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्रसंस्थितिम्॥१०५॥
तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयम्।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी॥१०६॥
ततो मामपि तत्रनय।’अथ वायसस्तत्रतेन मित्रेण सह विचित्रालापैः सुखेन तस्य सरसः समीपं ययौ। ततो मन्थरो दूरादवलोक्य लघुपतनकस्य यथोचितमातिथ्यं विधाय मूषिकस्यातिथिसत्कारं चकार। यतः।
बालो वा यदि वा वृद्धो युवा वा गृहमागतः।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः॥१०७॥
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः।
पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः॥१०८॥
वायसोऽवदत्—‘सखे मन्थर, सविशेषपूजामस्मै विधेहि। यतोऽयं पुण्यकर्मणां धुरीणः कारुण्यरत्नाकरो हिरण्यकनामा मूषिकराजः। एतस्य गुणस्तुतिं जिह्वासहस्रद्वयेनापि सर्पराजो न कदाचित्कथयितुं समर्थः स्यात्। इत्युक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान्। मन्थरः सादरं हिरण्यकं संपूज्याह—‘भद्र, आत्मनो निर्जनवनागमनकारणमाख्यातुमर्हसि।’ हिरण्यकोऽवदत्—कथयामि। श्रूयताम्।
कथा ४।
अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसयः। तत्र चूडाकर्णो नाम परिव्राट्प्रतिवसति। स च भोजनावशिष्टभिक्षान्न-
सहितं भिक्षापात्रं नागदन्तकेऽवस्थाप्य स्वपिति। अहं च तदन्नमुत्प्लुत्य प्रत्यहं भक्षयामि। अनन्तरं तस्य प्रियसुहृद्वीणाकर्णो नाम परिव्राजकः समायातः। तेन सह कथाप्रसङ्गावस्थितो मम त्रासार्थं जर्जरवंशखण्डेन चूडाकर्णो भूमिमताडयत्। वीणाकर्ण उवाच— ‘सखे, किमिति मम कथाविरक्तोऽन्यासक्तो भवान्?।’चूडाकर्णेनोक्तम्— ‘मित्र, नाहं विरक्तः। किंतु पश्यायं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नमुत्प्लुत्य भक्षयति।’ वीणाकर्णो नागदन्तकं विलोक्याह—‘कथं मूषिकः स्वल्पवलोऽप्येतावद्दूरमुत्पतति। तदत्रकेनापि कारणेन भवितव्यम्। तथा चोक्तम्।
अकस्माद्युवती बृद्धं केशेष्वाकृष्य चुम्बति।
पतिं निर्दयमालिङ्ग्यहेतुरत्रभविष्यति’॥१०९॥
चूडाकर्णःपृच्छति—‘कथमेतत्।’ वीणाकर्णः कथयति—
कथा ५।
अस्ति गौडीये कौशाम्बी नाम नगरी। तस्यां चन्दनदासनामा वणिग्महाधनो निवसति। तेन पश्चिमे वयसि वर्तमानेन कामाधिष्ठितचेतसाधनदर्पाल्लीलावती नाम वणिक्पुत्री परिणीता। सा च मकरकेतोर्विजयवैजयन्तीवयौवनवती बभूव। स चवृद्धपतिस्तस्याः संतोपाय नाभवत्। यतः।
शशिनीय हिमार्तानां धर्मार्तानां रथाविव।
मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ॥११०॥
अन्यच्च।
पलितेषुहि दृष्टेषु पुंसः का नाम कामिता।
भैषज्यमिव मन्यन्ते यदन्यमनसः स्त्रियः॥१११॥
स च वृद्धपतिस्तस्यामतीवानुरागवान्। यतः।
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा।
वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी॥११२॥
नोपभोक्तुं न च त्यक्तुं शक्नोति विषयान् जरी।
अस्थि निर्देशनः श्रेय जिह्वया लेढि केवलम्॥११३॥
** **अथ सा लीलावती यौवनदर्पादतिक्रान्तकुलमर्यादा केनापि वणिक्पुत्रेण सहानुरागबती बभूव। यतः
स्वातन्त्र्यं पितृमन्दिरे निवसतिर्यात्रोत्सवे संगति-
र्गोष्टीं पुरुषसंनिधावनियमोवासो विदेशे तथा।
संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः
पत्युर्वार्धकमीर्पितं प्रवसनं नाशस्य हेतुः स्त्रियाः॥११४॥
अपरं च।
पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम्।
स्वप्नश्चान्यगृहे वासो नारीणां दूषणानि षट्॥११५॥
स्थानं नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः।
तेन नारद नारीणां सतीत्वमुपजायते॥११६॥
न स्त्रीणामप्रियः कञ्चित्प्रियो वापि न विद्यते।
गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम्॥११७॥
अपरं च।
घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान्।
तस्माद्धृतं चवह्निं च नैकत्र स्थापयेद्बुधः॥११८॥
न लज्जान विनीतत्वं न दाक्षिण्यं न भीरुता।
प्रार्थनाभाव एवैकं सतीत्वे कारणं स्त्रियाः॥११९॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति॥१२०॥
एकदा सा लीलावती रत्नावलीकिरणकर्वुरे पर्यङ्के तेन वणिपुत्रेण सह विश्रम्भालापैः सुखासीना तमलक्षितोपस्थितं पतिमवलोक्य सहसोत्थाय केशेष्वाकृष्य गाढमालिङ्ग्यचुम्बितवती। तेनावसरेणजारश्च पलायितः। उक्तं च।
उशना वेद यच्छात्रं यच्च वेद बृहस्पतिः।
स्वभावेनैव तच्छास्त्रंस्त्रीबुद्धौसुप्रतिष्ठितम्॥१२१॥
तदालिङ्गनमवलोक्य समीपवर्तिनी कुट्टन्यचिन्तयत्— ‘अकस्मादियमेनमुपगूढवती’इति। तदस्तयाकुटन्या तत्कारणं परिज्ञाय सालीलावती गुप्तेन दण्डिता। अतोऽहं ब्रवीमि—‘अकस्मात्युवतीवृद्धम्’इत्यादि॥ मूषिकबलोपष्टम्भेन केनापि कारणेनात्र भवितव्यम्।’क्षणं विचिन्त्य परिव्राजकेनोक्तम्—‘कारणं चात्र धनबाहुल्यमेव भविष्यति। यतः।
धनवान्बलवाल्ँलोके सर्वःसर्वत्र सर्वदा।
प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते’॥१२२॥
ततः खनित्रमादाय तेन विवरं खनित्वाचिरसंचितं मम धनं गृहीतम्। ततः प्रभृति निजशक्तिहीनः सत्त्वोत्साहरहितः त्वाहारमप्युत्पादयितुमक्षतःसत्रासं मन्दं मन्दमुपसर्पंश्चूडाकर्णेनावलोकितः। ततस्तेनोक्तम्—
‘धनेन बलवांल्लोके धनाद्भवति पण्डितः।
पश्यैनं मूषिकं पापं स्वजातिसमतां गतम्॥१२३॥
किं च।
अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा॥१२४॥
अपरं च।
यस्यार्थास्तस्य मित्राणि यस्यार्थस्तस्य बान्धवाः।
यस्यार्थाः स पुमाल्ँलोके यस्यार्थाःस हि पण्डितः॥१२५॥
अन्यच्च।
अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च।
मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता॥१२६॥
अपरं च।
तानीन्द्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव।
अर्थोष्मणा विरहितः पुरुषः स एव
अन्यः क्षणेन भवतीति विचित्रमेतत्’॥१२७॥
एतत्सर्वमाकर्ण्य मयालोचितम्—‘ममात्रावस्थानमयुक्तमिदानीम्। यच्चान्यस्मा एतद्वृत्तान्ताकथनं तदप्यनुचितम्। यतः।
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च।
वञ्चनं चावमानं न मतिमान्नप्रकाशयेत्॥१२८॥
अपि च।
आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम्।
तपोदानावमानं च नव गोप्यानि यत्नतः॥१२९॥
तथा चोक्तम्।
अत्यन्तविमुखे दैवे व्यर्थे यत्नेच पौरुषे।
मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम्॥१३०॥
अन्यच्च।
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति।
अपि निर्वाणमायाति नानलो याति शीतताम्॥१३१॥
किं च।
कुसुमस्तबकस्येव द्वेवृत्ती तु मनस्विनः।
सर्वेषां मूर्ध्नि वा तिष्ठेद्विशीर्येत वनेऽथवा॥१३२॥
चच्चात्रैव याच्ञयाजीवनं तदतीय गर्हितम्। यतः।
वरं विभवहीनेन प्राणैः संतर्पितोऽनलः।
नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः॥१३३॥
दारिद्र्याद्ध्रियमेति ह्रीपरिगतः सत्त्वात्परिभ्रश्यते
निःसत्त्वः परिभूयते परिभवान्निवेदनापद्यते।
निर्विण्णः शूचमेति शोकनिहतो बुद्ध्या परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम्॥१३४॥
किं च।
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं
वरं क्लैब्यंपुंसां न च परकलत्राभिगमनम्।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि-
र्वरं भिक्षाशित्वं न च परधनास्वादनसुखम्॥१३५॥
वरं शून्या शाला न च खलु वरो दुष्टवृषभो
वरं वेश्या पत्नी न पुनरविनीता कुलवधूः।
वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे
वरं प्राणत्यागो न पुनरधमानामुपगमः॥१३६॥
अपि च।
सेवेव मानमखिलं ज्योत्स्नेवतमो जरेव लावण्यम्।
हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति’॥१३७॥
इति विमृश्य ‘तत्किमहं परपिण्डेनात्मानं पोषयामि। कष्टं भोः! तदपि द्वितीय मृत्युद्वारम्। यतः।
पल्लवग्राहि पाण्डित्यं क्रयक्रीतं च मैथुनम्।
भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः॥१३८॥
रोगी चिरप्रवासी परान्नभोजी परावसथशायी।
यज्जीवति तन्मरणं यन्नरणं सोऽस्य विश्रामः’॥१३९॥
इत्यालोच्यापि लोभात्पुनरप्यर्थं ग्रहीतुं ग्रहमकरवम्। तथा चोक्तम्—
‘लोभेन बुद्धिश्चलति लोभो जनयते तृषाम्।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः’॥१४०॥
ततोऽहं मन्दं मन्दमुपसर्पंस्तेन बीणाकर्णेन जर्जरवंशखण्डेन ताडितश्चाचिन्तयम्—
‘धनलुब्धो ह्यसंतुष्टोऽनियतात्मा जितेन्द्रियः।
सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम्॥१४१॥’
तथा च।
सर्वाः सपत्तयस्तस्य संतुष्ट यस्य मानसम्।
उपानद्गूढपादस्य ननु चर्मावृतेव भूः॥१४२॥
अपरं च।
संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम्।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्॥१४३॥
किं च।
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्।
येनाशाःपृष्ठतः कृत्वा नैराश्यमवलम्बितम्॥१४४॥
अपि च।
असेवितेश्वरद्वारमदृष्टविरहव्यथम्।
अनुक्तक्लीववचनं धन्यं कस्यापि जीवनम्॥१४५॥
यतः।
न योजनशतं दूरं वाह्यमानस्य तृष्णया।
संतुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः॥१४६॥
तदत्रावस्थोचितकार्यपरिच्छेदः श्रेयान्।
को धर्मो? भूतदया किं सौख्य? मरोगिता जगति जन्तोः।
कः स्नेहः? सद्भावःकिं पाण्डित्यं? परिच्छेदः॥१४७॥
यथा च।
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः।
अपरिच्छेदकर्तृृणांविपदः स्युः पदे पदे॥१४८॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत्॥१४९॥
अपरं च।
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम्।
विचार्य खलु पश्यामि तत्सुखं यत्रनिर्वृतिः॥१५०॥
इत्यालोच्याहं निर्जनवनमागतः। यतः।
वरं वनं व्याघ्रगजेन्द्र सेवितं
द्रुमालयं पक्कफलाम्बुभोजनम्।
तृणानि शय्या परिधानवल्कलं
न वन्धुमध्ये धनहीनजीवनम्॥१५१॥
ततोऽस्मत्पुण्योदयादनेन मित्रेणाहंस्नेहानुवृत्यानुगृहीतः। अधुना च पुण्यपरम्परया भवदाश्रयः स्वर्ग एव मया प्राप्तः। यतः।
संसारविषवृक्षस्य द्वे एव रसवत्फले।
काव्यामृतरसास्वादः संगमः सुजनैः सह॥१५२॥
मन्थर उवाच—
अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनं
आयुष्यं जललोलबिन्दुचपलं फेनोपमं जीवितम्।
धर्मं यो न करोति निन्दितमतिः स्वर्गार्गलोद्घाटनं
पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते॥१५३॥
युग्माभिरतिसंचयः कृतस्तस्यायं दोषः। शृणु।
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तडागोदरसंस्थानां परिवाह इवाम्भसाम्॥१५४॥
अन्यच।
यदधोऽधः क्षितौ वित्तं निचखान मितंपचः।
तदधोनिलयं गन्तुं चक्रेपन्थानमग्रतः॥१५५॥
अन्यच्च।
निजसौख्यं निरुन्धानो यो धनार्जनमिच्छति।
परार्थं भारवाहीव क्लेशस्यैवहि भाजनम्॥१५६॥
अपरं च।
दानोपभोगहीनेन धनेन धनिनो यदि।
भवामः किं न तेनैव धनेन धनिनो वयम्॥१५७॥
अन्यच्च।
असंभोगेन सामान्यं कृपणस्य धनं परैः।
अस्येदमिति संबन्धो हानौ दुःखेन गन्यते॥१५८॥
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमाम्बितं शौर्यम्।
वित्तं त्यागनियुक्तं दुर्लभमेतच्चतुष्टयं लोके॥१५९॥
उक्तं च।
कर्तव्यः संचयो नित्यं कर्तव्यो नातिसंचयः।
पश्य संचयशीलोऽसौ धनुषा जम्बुको हतः’॥१६०॥
तावाहतुः—‘कथमेतत्?।’मन्थरः कथयति—
कथा ६।
आसीत्कल्याणकटकवास्तव्यो भैरवो नाम व्याधः। स चैकदा मृगमन्विष्यमाणों विन्ध्याटवीं गतवान्। ततस्तेन व्यापादितं मृगमादाय गच्छता घोराकृतिः सूकरो दृष्टः। तेन व्याधेन मृगं भूमौ निधाय सूकरः शरेणाहतः। सूकरेणापि घनघोरगर्जनं कृत्वा स व्याधो मुष्कदेशे हतः संश्छिन्नद्रुम इव भूमौ निपपात। यतः।
जलमग्निर्विषंशस्त्रं क्षुद्व्याधिः पतनःगिरेः।
निमित्तं किंचिदासाद्य देही प्राणैर्विमुच्यते॥१६१॥
अथ तयोः पादास्फालनेन सर्पोऽपि मृतः। अथानन्तरं दीर्घरावो नाम जम्बुकः परिभ्रमन्नाहारार्थी तान्मृतान्मृगव्याधसर्पसूकरानपश्यत्। अचिन्तयत्र—‘अहो, अद्य महद्भोज्यं मे समुपस्थितम्। अथवा।
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम्।
सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते॥१६२॥
तद्भवतु। एषां मांसैर्मासत्रयं मे सुखेन गमिष्यति।
मासमेकं नरो याति द्वौ मासौ मृगशूकरौ।
अहिरेकं दिनं याति अद्य भक्ष्योधनुर्गुणः॥१६३॥
ततः प्रथमबुभुक्षायामिदं निःस्वादु कोदण्डलग्नं स्नायुबन्धनं खादामि’। इत्युक्त्वा तथा कृते सति छिन्ने स्नायुबन्धन उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरायः पञ्चत्वं गतः। अतोऽहं ब्रवीमि—‘कर्तव्यः संचयो नित्यम्’इत्यादि॥ तथा च।
यद्ददाति यदश्नाति तदेव धनिनो धनम्।
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि॥१६४॥
किं च।
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने।
तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि॥१६५॥
तदिदानीं यातु। किमिदानीमतिक्रान्तोपवर्णनेन। यतः।
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्।
आपत्स्वपि न मुह्यन्ति नराः पण्डितबुद्धयः॥१६६॥
तत्सखे, सर्वदा त्वया सोत्साहेन भवितव्यम्। यतः।
शास्त्राण्यधीत्यापि भवन्ति मूर्खा
यस्तु क्रियायान्पुरुषः स विद्वान्।
सुचिन्तितं चौषधमातुराणां
न नाममात्रेण करोत्यरोगम्॥
अन्यच्च।
न स्वल्पमप्यध्यवसायभीरोः
करोति विज्ञानविधिर्गुणं हि।
अन्यस्य किं हस्ततलस्थितोऽपि
प्रकाशयत्यर्थमिह प्रदीपः॥२६८॥
तदत्नसखे, दशाविशेषे शान्तिः करणीया। एतदप्यतिकष्टं त्वया न मन्तव्यम्। यतः।
राजा कुलवधूर्विप्रामन्त्रिणश्च पयोधराः।
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः॥१६९॥
इति विज्ञायमतिनान्स्वस्थानं न परित्यजेत्। कापुरुषवचनमेतत्। ततः।
स्थानमुत्सृज्य गच्छन्ति सिंहः सत्पुरुषा गजाः।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः॥१७०॥
को वीरस्य मनस्विनः स्वविषयः को वा विदेशस्तथा
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम्।
यद्दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्र्यात्प्रनः॥१७१॥
अपरं च।
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः।
सोद्योगं नरमायान्ति विवशाः सर्वसंपदः॥१७२॥
अन्यच्च।
सुखमापतितं सेव्यं दुःखमापतितं तथा।
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च॥१७३॥
अन्यच्च।
उत्साहसंपन्नमदीर्घसूत्रं
क्रियाविधिज्ञं व्यसनेष्वसक्तम्।
शूरं कृतज्ञं, दृढसौहृदं च
लक्ष्मीः स्वयं याति निवासहेतोः॥१७४॥
विशेषतश्च।
विनाप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं
समायुक्तोऽप्यर्थेः परिभवपदं याति कृपणः।
स्वभावादुद्भूतां गुणसमुदयावाप्तिविषयां
द्युतिं सैहीं किं श्वा धृतकनकमालोऽपि लभते॥१७५॥
धनवानिति हि मदोमेकिं गतविभवो विषादमुपयामि।
करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम्॥१७६॥
अपरं च।
अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः।
किंचित्कालोपभोग्यानि यौवनानि धनानि च॥१७७॥
वृत्त्यर्थं नातिचेष्टेत सा हि धात्रैव निर्मिता।
गर्भादुत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ॥१७८॥
अपि च सखे,
येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः।
मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति॥१७९॥
अपरं च सतां रहस्यं शृणु। मित्र।
जनयन्यर्जने दुःखं तापयन्ति विपत्तिषु।
मोहयन्ति च संपत्तौ कथमर्थाः सुखावहाः॥१८०॥
अपरं च।
धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता।
प्रक्षालनाद्धिपङ्कस्य दूरादस्पर्शनं वरम्॥१८१॥
यतः।
यथा ह्यामिपमाकाशे पक्षिभिः श्वापदैर्भुवि।
भक्ष्यते सलिले नकैस्तथा सर्वत्र वित्तवान्॥१८२॥
राजतः साललादग्नेश्चोरतः स्वजनादाप।
भयमर्थवतांनित्यं मृत्योः प्राणभृतामिव॥१८३॥
तथा हि।
जन्मनि क्लेशबहुले किं नु दुःखमतः परम्।
इच्छासंपद्यतो नास्ति यच्चेच्छा न निवर्तते॥१८४॥
अन्यच्च। भ्रातः, शृणु।
धनं तावदसुलभं लब्धं कृच्छ्रेण रक्ष्यते।
लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत्॥१८५॥
तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः।
तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम्॥१८६॥
अपरं च।
यद्यदेव हि वाञ्छेतततो वाञ्छा प्रवर्तते।
प्राप्त एवार्थतः सोऽर्थो यतो वाञ्छा निवर्तते॥१८७॥
किं बहुना मम पक्षपातेन। मयैव सहात्रकालो नीयताम्। यतः।
अमरणान्ताः प्रणवाः कोपास्तत्क्षणभङ्गुराः
परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम्’॥१८८॥
इति श्रुत्वा लघुपतनके, ब्रूते—‘धन्योऽसि मन्थर, सर्वथा श्लाध्यगुणोऽसि। यतः।
सन्त एव सतां नित्यमापदुद्धरणक्षमाः।
गजानां पङ्कमग्नानां गया एक धुरंधराः॥१८९॥
श्लाघ्यःस एको भुवि मानवानां
स उमः सत्पुरुषः स धन्यः।
चार्थिनो वा शरणागता या
नाशाभिभङ्गाद्विमुखाः प्रयान्ति’॥१९०॥
तदेवं ते स्वेच्छाहारविहारं कुर्वाणाः संतुष्टाः सुखं निवसन्ति स्म। अथ कदाचिच्चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः। ततः पञ्चादायान्तं मृगमवलोक्य भयं संचिन्त्य मन्थरो जलं प्रविष्टः। मुषिकश्च विवरं गतः। काकोऽप्युड्डीय वृक्षमारूढः। ततो लघुपतनकेन सुदूरं निरूप्य भयहेतुर्न कोऽष्वायातीत्यालोचितम्। पश्चात्तद्वचनादागत्य पुनः सर्वे मिलित्वा
तत्रैवोपविष्टाः। मन्थरेणोक्तम्— ‘भद्रम्। मृग, स्वागतम्।स्वेच्छयोदकाद्याहारोऽनुभूयताम्। अत्रावस्थानेन वनमिदं सनाथीक्रियताम्।’चित्राङ्गो ब्रूते—‘लुब्धकत्रासितोऽहं भवतां शरणमागतः भवद्भिः सह सख्यमिच्छामि।’हिरण्यकोऽवदत्— ‘मित्रत्वं तावदस्माभिः सह भवतायत्नेन मिलितम्। यतः।
औरसंकृतसंवन्धं तथा वंशक्रमागतम्।
रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम्॥१९१॥
तदत्रभवता स्वगृहनिर्विशेषं स्थीयताम्।’तच्छ्रुत्वा मृगः सानन्दो भूत्वा स्वेच्छाहारं कृत्वा पानीयं पीत्वा जलासन्नतरूच्छायायामुपविष्टः। अथ मन्थरेणोक्तम्— ‘सखेमृग, एतस्मिन्निर्जने वने केन त्रासितोऽसि?। कदाचित्किं व्याधाःसंचरन्ति।’मृगेणोक्तम्—‘अस्ति कलिङ्गविषये रुक्माङ्गदो नाम नरपतिः। स च दिग्विजयव्यापारक्रमेणागत्य चन्द्रभागानदीतीरे समवासितकटको वर्तते। प्रातश्चतेनात्रागत्य कर्पूरसरःसमीपे भवितव्यनिति व्याधानां मुखात्किं वदन्ती श्रूयते। तदत्रापि प्रातरवस्थानं भयहेतुकनित्यालोच्य यथायसरकार्यमारभ्यताम्।’ तच्छ्रुत्वा कूर्मः सभयमाह—‘जलाशयान्तरं गच्छामि।’काकमृगावप्युक्तवन्तौ—‘एवमस्तु।’ततो हिरण्यको विहस्याह—‘जलाशयान्तरे प्राप्ते मन्थरस्य कुशलम्। स्थले गच्छतः कः प्रतीकारः। यतः।
अम्भांसि जलजन्तूनां दुर्गंदुर्गनिवासिनाम्।
स्वभूमिः श्वापदादीनां राज्ञां मन्त्री परं बलम्॥१९२॥
सखे लघुपतनक, अनेनोपदेशेन तथा भवितव्यम्।
स्वयं वीक्ष्य यथा वध्याःपीडितं कुचकुड्मलम्।
वणिक्पुत्रोऽभवद्दुःखी त्वं तथैव भविष्यसि’॥१९३॥
त ऊचुः—‘कथमेतत्’। हिरण्यकः कथयति—
कथा ७।
अस्ति कान्यकुब्जविषये वीरसेनो नाम राजा। तेन वीरपुरनाम्निनगरे तुङ्गबलो नाम राजपुत्रोभोगपतिः कृतः। स च महाधनस्तरुण एकदा स्वनगरे भ्राम्यन्नतिप्रौढयौवनां लावण्यवतीं नाम वणिक्पुत्रवधूमालोकयामास। ततः स्वहम्यगत्वा स्मराकुलमतिस्तस्याः कृते दूतीं प्रेषितवान्। यतः।
सन्मार्गे तावदास्ते प्रभवति पुरुपस्तावदेवेन्द्रियाणां
लज्जां तावद्वियते विनयमपि समालम्बते तावदेव।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिवाणाः पतन्ति॥१९४॥
सापि लावण्यवती तदवलोकनक्षणात्प्रभृति स्मरशरप्रहारजर्जरितहृदया तदेकचित्ताभवत्। यथा ह्युक्तम्—
असत्यं साहसं माया मात्सर्यं चातिलुब्धता।
निर्गुणत्वमशौचत्वं स्त्रीणां दोषाः स्वभावजाः॥१९५॥
अथ दूतीवचनं श्रुत्वा लावण्यवत्युवाच—‘अहं पतिव्रता कथमेतस्मिन्नधर्मे पतिलङ्घने प्रवर्ते। यतः।
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता॥१९६॥
न सा भार्येति वक्तव्या यस्या भर्ता न तुष्यति।
तुष्टे भर्तरि नारीणां संतुष्टाः सर्वदेवताः॥१९७॥
ततो यद्यदादिशति मे प्राणेश्वरस्तदेवाहमविचारितं करोमि।’ दूत्योक्तम्—‘सत्यमेतत्।’ लावण्यवत्युवाच—ध्रुवं सत्यमेवैतत्।’ ततो दूत्या गत्वा तत्सर्वं तुङ्गबलस्याग्रेनिवेदितम्। तछ्रुत्वा तुङ्गबलोऽत्रवीत्—‘स्वामिनानीय समर्पयितव्येति कथमेतच्छक्यम्।’कुट्टन्याह—‘उपायः क्रियताम्। तथा चोक्तम्—
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः।
सृगालेन हतो हस्ती गच्छता पङ्कवर्त्मनि’॥१९८॥
राजपुत्रः पृच्छति—‘कथमेतत्।’सा कथयति—
कथा ८।
अस्ति ब्रह्मारण्ये कर्पूरतिलको नाम हस्ती। तमवलोक्य सर्वे सृगालाश्चिन्तयन्ति स्म—‘यद्ययं केनाप्युपायेन म्रियते तदास्माकमेतद्देहेन मासचतुष्टयस्य भोजनं भविष्यति।’ तत्रैकेन बृद्धसृगालेन प्रतिज्ञातम्—‘मया बुद्धिप्रभावादस्य मरणं साधयितव्यम्।’अनन्तरं स वञ्चकः कर्पूरतिलकसमीपं गत्वा साष्टाङ्गपातं प्रणम्योवाच—‘देव, दृष्टिप्रसादं कुरु।’हस्ती ब्रूते—‘कस्त्वम्?। कुतः समायातः। सोऽवदत—‘जम्बुकोऽहम्। सर्वैर्वनवासिभिः पशुभिर्मिलित्वा भवत्सकाशं प्रस्थापितः। यद्विना राज्ञावस्थातुं न युक्तं। तदत्राटवीराज्येऽभिषेक्तुंभवान्सर्वस्वामिगुणोपेतो निरूपितः। यतः।
यः कुलाभिजनाचारैरतिशुद्धः प्रतापवान्।
धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि॥१९९॥
अपरं च पश्य।
राजानं प्रथमं विन्देत्ततो भार्या ततो धनम्।
राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम्॥२००॥
अन्यच्च।
पर्जन्य इव भूतानामाधारः पृथिवीपतिः।
विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ॥२०१॥
नियतविषयवर्ती प्रायशो दण्डयोगा-
ज्जगति परवशेऽस्मिन्दुर्लभः साधुवृत्तः।
कृशमपि विकलं वा व्याधितं वाधनं वा
पतिमपि कुलनारी दण्डभीत्याभ्युपैति॥२०२॥
तद्यथा लग्नवेला न विचलति तथा कृत्वा सत्वरमागम्यतां देवेन।’इत्युक्त्वोत्थायचलितः। ततोऽसौ राज्यलोभाकृष्टः कर्पूरतिलकः सृगालवर्त्मना धावन्महापङ्केनिमग्नः। ततस्तेन हस्तिनोक्तम्—‘सखे सृगाल, किमधुना पङ्के निपतितोऽहं म्रिये परावृत्य पश्य।’ सृगालेन विहस्योक्तम्—‘देव, मम पुच्छकावलम्बनं कृत्वोत्तिष्ठ। यन्मद्विधस्य वचसि त्वया प्रत्ययः कृतस्तदनुभूयतामशरणं दुःखम्। तथा चोक्तम्—
यदा सत्सङ्गरहितो भविष्यसिभविष्यसि।
तदाऽसज्जनगोष्ठीषुपतिष्यसि पतिष्यसि’॥२०३॥
ततो महापङ्के निमग्नोहस्ती शृगालैर्भक्षितः। अतोऽहं ब्रवोमि—‘उपायेन हि यच्छक्यम्’इत्यादि।ततः कुट्टिन्युपदेशेन तं चारुदत्तनामानं वणिक्पुत्रंसराजपुत्रः सेवकं चकार। ततोऽसौ तेन सर्वविश्वासकार्येषु नियोजितः।
एकदा तेन राजपुत्रेग स्नातानुलिप्तेन कनकरत्नालंकारधारिणा प्रोक्तम्—‘अद्यारभ्य मासमेकं गौरीव्रतं कर्तव्यम्। तदत्रप्रतिरात्रमेकां कुलीनां युवतीमानीय समर्पय। सा मया यथोचितेन विधिना पूजयितव्या।’ ततः स चारुदत्तस्तथाविधां नवयुवतीमानीय समर्पयति। पश्चात्प्रच्छन्नः सन्किमयं करोतीति निरूपयति। स चतुङ्गबलस्तां युवतीमस्पृशन्नेवदूरास्त्रद्वालंकारगन्धचन्दनैः संपूज्य रक्षकं दत्त्वा प्रस्थापयति। अथ वणिक्पुत्रेण तद्दृष्ट्वोपजातविश्वासेन लोभाकृष्टमनसास्ववधूर्लावण्यवती समानीय समर्पिता। स च तुङ्गवलस्तां हृदयप्रियां लावण्यवतीं विज्ञाय ससंभ्रममुत्थाय निर्भरमालिङ्ग्यनिमीलिताक्षः पर्यङ्के तथा सह विललास। तदालोक्यवणिक्पुत्रश्चित्रवलिखित इवेतिकर्तव्यतामूढः परं विषादमुपगतः। अतोऽहं ब्रवीमि—‘स्वयं वीक्ष्य’इत्यादि।तथा त्वयापि भवितव्यम्’इति। तद्धितवचनमवधीर्य महता भयेन विमुग्धइव तं जलाशयमुत्सृज्य मन्थरश्चलितः। तेऽपि हिरण्यकादयः स्नेहादनिष्टं शङ्कमाना मन्थरमनुगच्छन्ति। यतः स्थले गच्छन्केनापि व्याधेन काननं पर्यटता मन्थरः प्राप्तः। प्राप्य तं गृहीत्वोत्थाप्य धनुषिबद्ध्वाभ्रमन्क्लेशात्क्षुत्पिपासाकुलः स्वगृहाभिमुखं चलितः। अथ मृगवायसमूषिकाः परं विषादंगच्छन्तस्तमनुजग्मुः। ततो हिरण्यको विलषति—
‘एकस्य दुःखस्य न यावदन्तं
गच्छाम्यहं पारमिवार्णयस्य।
तावद्वितीयं समुपस्थितं मे
छिद्रेष्वनर्था बहुलीभवन्ति॥२०४॥
स्वाभाविकं तु यन्मित्रं भाग्येनैवाभिजायते।
तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति॥२०५॥
न मातरि न दारेषु न सोदर्ये न चात्मजे।
विश्वासस्तादृशः पुंसां यादृङ्मित्रेस्वभावजे’॥२०३॥
इति मुहुर्विचिन्त्य ‘अहो दुर्दैवम्। यतः।
स्वकर्मसंतानविचेष्टितानि
कालान्तरावर्तिशुभाशुभानि।
इहैव दृष्टानि मयैव तानि
जन्मान्तराणीय दशान्तराणि॥२०७॥
अथवेत्थमेवैतत्।
कायः संनिहितापायः संपदः पदमापदाम्।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम्’॥२०८॥
पुनर्विमृश्याह—
‘शोकारातिभयत्राणं प्रीतिविश्रम्भभाजनम्।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम्॥२०९॥
किं च।
मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः
पात्रं यत्सुखदुःखयोः सह भवेन्मित्रेण तद्दुर्लभम्।
ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुला-
स्ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तुतेषां विपत्’॥२१०॥
इति बहु विलप्य हिरण्यकश्चित्राङ्गलघुपतनकावाह—‘यावदयं व्याधोवनान्न निःसरति तावन्मन्थरं मोचयितुं यत्नः क्रियताम्।’तावूवतुः—‘सत्वरं कार्यमुच्यताम्।’हिरण्यको ब्रूते—चित्राङ्गोजलसमीपं गत्वा मृतमिवात्मानं दर्शयतु।काकश्च तस्योपरि स्थित्वा चवा किमपि विलिखतु। नूनमनेन लुब्धकेन तत्र कच्छपं परित्यज्य मृगमांसार्थिना सत्वरं गन्तव्यम्। ततोऽहं मन्थरस्य बन्धनं छेत्स्यामि। संनिहिते लुब्धके भवद्भ्यांपलायितव्यम्।’ चित्राङ्गलघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः श्रान्तः पानीयं पीत्वा तरोरधस्तादुपविष्टस्तथाविधं मृगनपश्यत्। ततः कर्तरिकामादाय प्रहृष्टमना मृगान्तिकं चलितः। तन्त्रान्तरेहिरण्यकेनागत्य मन्थरस्य बन्धनं छिन्नम्। स कूर्मः सत्वरं जलाशयं प्रविवेश। स मृग आसन्नं तं व्याधंविलोक्योस्थाय पलायितः। प्रत्यावृत्य लुब्धको चावत्तरुतलमायाति तावत्कूर्ममपश्यन्न चिन्तयत्—‘उचितमेवैतन्ममासमीक्ष्यकारिणः। यतः।
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि’॥२१९॥
ततोऽसौ स्वकर्मवशान्निराशः कटकं प्रविष्टः। मन्थरादयः सर्वे त्यक्तापदः स्वस्थानं गत्वा यथासुखमास्थिताः॥
अथ राजपुत्रैः सानन्दमुक्तम्—‘सर्वंश्रुतवन्तः सुखिनोबयम्। सिद्धं नः समीहितम्।’विष्णुशर्मोवाच—‘एतावता भवतामभिलषितं संपन्नम्। अपरमपीदमस्तु—
मित्रं प्राप्नुत सज्जना जनपदैर्लक्ष्मीः समाम्ब्यतां
भूपालाः परिपालयन्तु वसुधां शश्वत्खधर्मे स्थिताः।
आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः
कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्धचूडामणिः॥२१२॥
इति हितोपदेशे मित्रलाभो नाम प्रथमः कथासंग्रहः समाप्तः।
———————————————
सुहृद्भेदः।
अथ राजपुत्रा ऊचुः—‘आर्य मित्रलाभः श्रुतः, तद्वयमिदानीं सुहृद्भेदं श्रोतुमिच्छामः।’विष्णुशर्मोवाच—‘सुहृद्भेदं शृणुत। यस्यायमाद्यः श्लोकः—
वर्धमानो महान् स्नेहो मृगेन्द्र वृषयोर्वने।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः’॥१॥
राजपुत्रैरुक्तम्—‘कथमेतत्?’विष्णुशर्मा कथयति—
अस्ति दक्षिणापथे सुवर्णवती नाम नगरी। तत्र वर्धमानो नाम वणिङ्निवसति। तस्य प्रभूतेऽपि वित्ते परान्बन्धूनतिसमृद्धानवलोक्य पुनरर्थवृद्धिः करणीयेति मतिर्बभूव। यतः।
अधोऽधः पश्यतः कस्य महिमा नोपचीयते।
उपर्युपरिपश्यन्तस्सर्व एव दरिद्रति॥२॥
अपरं च।
ब्रह्महाऽपि नरः पूज्यो यस्यास्ति विपुलं धनम्।
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते॥ ३॥
अन्यच।
अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीणम्।
प्रमदेव पतिं वृद्धं नेच्छति लक्ष्मीर्ग्रहीतुमीषदपि॥४॥
किं च।
आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम्।
भीरुत्वमसन्तोषः षड्व्याधाता महत्त्वस्य॥५॥
यतः।
संपदा सुस्थितंमन्यो भवति स्वल्पयाऽपि यः।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम्॥६॥
अपरं च।
निरुत्साहं निरानन्दं निर्वीर्यमरिनन्दनम्।
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम्॥७॥
तथा चोक्तम्—
अलब्धं चैव लिप्सेत लब्धं रक्षेदपेक्षया।
रक्षितं वर्धयेत् सम्यग्वृद्धं तीर्थेषु निक्षिपेत्॥८॥
दानभोगविहीनाश्च दिवसा यान्ति यस्य वै।
स कर्मकारभर्स्त्रेवश्वसन्नपि न जीवति॥९॥
यतः, लब्धमिच्छतोऽर्थयोगादर्थस्य प्राप्तिरेव। लब्धस्याप्यरक्षितस्य निधेरपि स्वयं भवति विनाशः।अवर्ध्यमानश्चार्थस्स्वल्पव्यचोऽप्यञ्जनवत् क्षयमेति। अनुपभुज्यमानश्च निष्प्रयोजन एव। तथा चोक्तम्—
धनेन किं यन्न ददाति नाश्रुते
बलेन किं यश्च रिपून्न बाधते।
श्रुतेन किं येन न धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत्॥१०॥
अन्यच्च।
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु सञ्चयम्।
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु॥११॥
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः
स हेतुस्सर्वविद्यानां धर्मस्य च धनस्य च॥१२॥
इति संचिन्त्य संजीवकनन्दकनामानौ द्वौ वृषभौ धुरि नियुज्य, शकटं नानाविधद्रव्यपूर्णं कृत्वा वाणिज्यार्थं काश्मीरं चलितः। यतः।
कोऽतिभारस्समर्थानां किं दूरं व्यवसायिनाम्।
को विदेशस्सविद्यानां कः परः प्रियवादिनाम्॥१३॥
ततो गच्छतस्तस्य सुदुर्गनान्नि महारण्ये पर्वते संजीवको भग्नजानुर्निपतितः। तमालोक्य वर्धमानोऽचिन्तयत्—
करोतु नाम नीतिज्ञो व्यवसायमितस्ततः।
फलं पुनस्तदेवास्य यद्विधेर्मनसि स्थितम्॥१४॥
किं तु।
विस्मयस्सर्वथा हेयः प्रत्यूहस्सर्वकर्मणाम्।
तस्माद्विस्मयमुत्सृज्य साध्ये सिद्धिर्विधीयताम्॥१५॥
** **इति संचिन्त्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायमन्यं वृषभमेकं समानीय धुरि नियोज्य चलितः।
संजीवकः कथमपि चरणत्रये भरं कृत्वोत्थितः। यतः।
निम्नग्नस्य पयोराशौ पर्वतात्पतितस्य च।
तक्षकेणाऽपि दष्टस्य आयुर्मर्माणि रक्षति॥१६॥
अपरं च
निपततु शिखरादद्रे-
र्मज्जतुजलधौ हुताशनं विशतु।
क्रीडतु भुजङ्गमैर्वा
नाकाले कस्यचिन्नाशः॥१७॥
नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि।
शूकाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति॥१८॥
यतः।
अरक्षितं तिष्ठति दैवरक्षितं
सुरक्षितं दैवहतं विनश्यति।
जीवत्यनाथोऽपि वने विसर्जितः
कृतप्रयत्नोऽपि गृहे न जीवति॥१९॥
ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहारादिलाभेनारण्यानि भ्राम्यन् हृष्टपुष्टाङ्गो वलवन्ननाद। तस्मिन्वने पिङ्गलकनामा सिंहः स्वभुजोपार्जितरराज्यसुखमनुभवन्निवसति। तथा चोक्तम्—
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः।
विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता॥२०॥
स चैकदा पिपासाकुलितः पानीयं पातुं यमुनाकच्छमगमत्। तेन च तत्र सिंहेनाननुभूतपूर्वं प्रलयघनगर्जितमिवसंजीवकनर्दितमश्रायि। तच्छ्रुत्वाऽसौ पानीयमपीत्वा सचकितं परिवृत्य, स्वस्थानमागत्य, किमिदमित्यालोच्य, तूष्णीं स्थितः। स यथाविधः करटकदमनकाभ्यां मन्त्रिपुत्राभ्यां सृगालाभ्यां दृष्टः,
तं तथाविधं दृष्ट्वा दमनकः करटकमाह—‘सखेऽयं किमुदकार्थी स्वामी पानीयमपीत्वा मन्दं मन्दमवतिष्ठते।’करटको ब्रूते—‘मित्र दमनक, मम सन्मतेनास्य सेवैव न क्रियते। तत्किमस्य चेष्टानिरूपणेन? अतोऽनेन राज्ञाऽवधीरिताभ्यामावाभ्यां महादुःखमनुभूतम्।
अपरं च।
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम्।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम्॥२१॥
अपरं च।
शीतवातातपक्लेशान् सहन्ते ये पराश्रिताः।
तदर्थेनापि मेधावी तपस्तप्त्वा सुखी भवेत्॥२२॥
अन्यच्च।
एतावज्जन्नसाफल्यं यदनायत्तवृत्तिता।
ये पराधीनतां यातास्ते चेज्जीवन्ति के मृताः॥२३॥
क्रीडन्ति भुजगैस्सार्धं रमन्ते परयोषितः।
राजानमपि सेवन्ते अहो! साहसिका नराः॥२४॥
अपरं च।
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः॥२५॥
किं च।
अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम्।
आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः॥२६॥
किं च।
या प्रकृत्यैव चपला निपतत्यशुचावपि।
स्वामिनो बहुमन्यन्ते दृष्टिं तामपि सेवकाः॥२७॥
विशेषतश्च।
प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान्।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः’॥२८॥
अपरं च।
मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः।
धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥२९॥
दमनकोऽत्रवीत्—‘मित्र, सर्वथा मनसाऽपि नैतत्कर्तव्यम्।
कथं त्वया न सेव्यन्ते यत्नतः परमेश्वराः।
अचिरेणैव येतुष्टाः पूरयन्ति मनोरथान्॥३०॥
अन्यच्च।
कुतस्सेवाविहीनानां चामरोद्धृतसंपदः।
उद्दण्डधवलच्छत्रवाजिवारणवाहिनी’॥३१॥
करटको ब्रूते—तथाऽपि किमनेन व्यापारेणास्माकम्। यतः।
अव्यापारेषु व्यापारः सर्वथा परिहरणीयः। पश्य।
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति।
स भूमौनिहतश्शेते कोलोत्पाटीववानरः’॥३२॥
इमनकः पृच्छति—‘कथमेतत्?’स कथयति—
कथा १।
पुरा मगधदेशे धर्मारण्यसंनिहितवसुधायां शुभदत्तनान्ना कायस्थेन विहारमण्डपं कारयितुमारब्धम्। तत्र करपत्रविदार्यमार्णेकस्तम्भस्य कियद्दूरपाटितस्य काष्टखण्डद्वयमध्ये कीलकं सूत्रधारेण स्थापितम्। तत्र वनवासी महावानरयूथः क्रीडन्नागतः। तेष्वेको वानरः कालदण्डप्रेरित इव तं कीलकं हस्ताभ्यां धृत्बोपविष्टः। ततस्तस्य वृषणद्वयं लम्बमानं काष्टखण्डद्वयाभ्यन्तरे प्रविष्टम्। अनन्तरं स च सहजचपलतया महता प्रयत्नेन तं कीलकमाकृष्टवान्। आकृष्टे सति काष्ठाभ्यां चूर्णिताण्डद्वयः पञ्चत्वं गतः। अतोऽहं ब्रवीमि—‘अव्यापारेषु व्यापारं’इत्यादि॥
दमनको ब्रूते— ‘तथाऽपि स्वामिचेष्टानिरूपणं सेवकेनावश्यमेव कर्तव्यम्।’ करटको ब्रूते—‘यः सर्वाधिकारे नियुक्तः प्रधानमन्त्री स करोतु। यतोऽनुजीविना पराधिकारचर्चान कर्तव्या। पश्य।
पराधिकार चर्चां यः कुर्यात्स्वामिहितेच्छया।
स विपीदति चीत्कारात्ताडितो गर्दभो यथा’॥३३॥
दमनकः पृच्छति— ‘कथमेतत् ?’ करटकः कथयति—
कथा २।
अस्ति वारणास्यां कर्पूरपटो नाम रजकः। स चैकदाऽभिनववयत्कया कान्तया सह चिरात्केलिं कृत्वा निर्भरमालिङ्ग्यप्रसुप्तः। तदनन्तरं तद्गृहद्रव्याणि हतु तद्गुहं चोरः प्रविष्टः। तस्य प्राङ्गणेगर्दभो बद्धस्तिष्ठति। कुक्कुरश्चोपविष्टः। अथ गर्दभः श्वानमाह-
‘तवतावदयं व्यापारः। तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि?’कुक्कुरो ब्रूते—‘मम नियोगस्य चर्चा त्वयान कर्तव्या। त्वमेव किं न जानासि? यथा तस्याहर्निशं गृहरक्षां करोमि। तनोऽयं चिरान्निर्वृतो ममोपयोगं न जानाति तेनाधुना ममाहारदानेऽपि मन्दादरः। यतो विना विधुरदर्शनं स्वामिनोऽनुजीविषु मन्दादराःभवन्ति। गर्दभो ब्रूते— ‘शृणु रे बर्बर, स्वभावतः श्वजातिरस्पृश्या।पुनरपि सेवकजातिस्त्वम्।
पश्य।
याचतेकार्यकाले यस्स किंमृत्यः स किंसुहृत्।
तस्मिन् कार्ये विनष्टेतु भृत्येन सुहृदा किमु’॥३४॥
कुक्कुरो ब्रूते—
‘यस्तु संभावयेद्धृत्यान्कार्यकाले स किंप्रभुः।
सर्वथा किं न कर्तव्यं पोषणं भृत्यभार्ययोः॥३५॥
यतः।
आश्रितानां भृतौ स्वामिसेवायां धर्मचिन्तने।
पुत्रस्योत्पादने चैव न सन्ति प्रतिहन्तकाः’॥३६॥
ततो गर्दभः सकोषमाह—‘पापीयांस्त्वं, यद्विपत्तौ स्वामिकार्योपेक्षां करोषि। भवतु। यथा स्वामीजागर्ति तथा मया कर्तव्यम्। यतः।
पृष्टतस्सेवयेदर्कं जठरेण हुताशनम्।
स्वामिनं सर्वभावेन परलोकममायया॥३७॥
इत्युक्त्वा सोऽतीव चीत्कारशब्दंकृतवान्। रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपादुत्थाय गर्दभं लगुडेन ताडयामास। तनासौ पञ्चत्वमगमत्। अतोऽहं ब्रवीमि—‘पराधिकारचर्चाम्’ इत्यादि॥ पश्य। पशूनामन्वेषणमस्माकंनियोगः। स्वनियोगचर्चोक्रियताम्। (विमृश्य।) किंत्वद्य तथा चर्चया न प्रयोजनम्।यत आवयोर्भक्षितशेपाहारः प्रचुरोऽस्ति। दमनकः सरोषमाह—‘कथमाहारमात्रार्थी भवान् राजानं सेवते? नैतद्युक्तमुक्तम्। यतः।
सुहृदामुपकारकारणा-
द्द्विपतामप्यपकारकारणात्।
नृपसंश्रय इष्यते बुधै-
र्जठरं को न विभर्ति केवलम्॥३८॥
जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः।
सफलं जीवितं तस्य आत्मार्थे को न जीवति॥३९॥
अपि च।
यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु।
काकोऽपि किं न कुरुते चञ्चवा स्वोदरपूरणम्॥४०॥
पश्य।
पञ्चभिर्याति दासत्वं पुराणैः कोऽपि मानवः।
कोऽपि लक्षैःकृती कोऽपि लक्षैरपि न लभ्यते॥४१॥
अन्यच्च।
मनुष्यजातौ तुल्यायां भृत्यत्वमतिगर्हितम्।
प्रथमो योन तत्रापि सोऽपि जीवत्सु गण्यते॥४२॥
तथा चोक्तम्।
वाजिवारणलोहानां काष्ठपाषाणवाससाम्।
नारीपुरुषतोयानामन्तरं महदन्तरम्॥४३॥
तथा च।
अल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थि गोः
श्वा लब्ध्वा परितोपमेति न च तत्तस्य क्षुधशान्तये।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम्॥
अपरं च पश्य सेवकयोरन्तरम्।
लाङ्गूलचालनमधश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शन च।
श्वा पिण्डदस्य कुरुते गजपुंगवस्तु
धीरं विलोकयति चाटुशतैश्च भुङ्क्ते॥४५॥
किं च।
यज्जीव्यते क्षणमपि प्रथितं मनुष्यै-
र्विज्ञानविक्रमयशोभिरभग्नमानम्।
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः
काकोऽपि जीवति चिराय बलिं स भुङ्क्त॥४६॥
अपरं च।
अहितहितविचारशून्यबुद्धेः
श्रुतिसमयैर्वहुभिस्तिरस्कृतस्य।
उदरभरणमात्रकेवलेच्छोः
पुरुषपशोश्च पशोश्च को विशेषः?’॥४७॥
करटको ब्रूते—‘आवां तावदप्रधानौ। तदावयोः किमनया विचारणया?’ दमनकः पुनराह—‘कियता कालेनामात्यः प्रधानतामप्रधानतां वा लभेत? यतः।
न कस्यचित्कश्चिदिह स्वभाषा-
द्भवत्युदारोऽभिमतः खलो वा।
लोके गुरुत्व विपरीतता वा
स्वचेष्टितान्येव नरं नयन्ति॥४८॥
किं च।
आरोप्यते शिला शैले यत्नेन महता यथा।
निपात्यते क्षणेनाधस्तथाऽऽत्मा गुणदोषयोः॥४९॥
यात्यधोऽधो व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः।
कूपस्य खनिता यद्वत्प्राकारस्येव कारकः॥५०॥
तद्भद्र स्वयत्नायत्तो ह्यात्मोत्कर्ष’करटको वदति। अथ भवान् किंब्रवीति?’दमनक आह—‘अयं तावत् स्वामीपिङ्गलकः कुतोऽपि कारणात् सचकितं परिवृत्योपविष्टः।’ करटको ब्रूते—‘किं तत्त्वं जानासि?’दमनको वदति—‘किं प्रज्ञावतामविदितमस्ति? उक्तं च।
उदीरितोऽर्थः पशुनापि गृह्यते
हयाश्च नागाश्च वहन्ति देशिताः।
अनुक्तमप्यूहति पण्डितो जनः
परेङ्गितज्ञानफला हि बुद्धयः॥५१॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च।
नेत्रवक्रविकारेण लक्ष्यतेऽन्तर्गतं मनः॥५२॥
तदत्रभयप्रस्तावेनाहमेनं प्रज्ञाबलेनात्मीयं करिष्यामि।यतः।
प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम्।
आत्मशक्तिसमं कोपं यो जानाति स पण्डितः’॥५३॥
करटको वदति—‘सखे, त्वं सेवानभिज्ञः। पश्य।
अनाहूतो विशेद्यस्तु अष्टो बहु भाषते।
आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः॥५४॥
दमनको ब्रूते— ‘भद्र, कथमहं सेवानभिज्ञः। यतः।
किमप्यस्ति स्वभावेन सुन्दरं वाऽप्यसुन्दरम्।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम्॥५५॥
यतः।
यस्य यस्य हि यो भावस्तेन तेन हितं नरम्।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत्॥५६॥
अन्यच्च।
कोऽत्नेत्यहमिति ब्रूयात्सम्यगादेशयेति च।
आज्ञामवितथां कुर्याद्यथाशक्ति महीपते॥५७॥
अपरं च।
आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः।
पृथक्छय्या च नारीणामशस्त्रविहितो वधः॥५८॥
किं च।
अल्पेषु धृतिमान् प्राज्ञश्छायेवानुगतः सदा।
आदिष्टो न विकल्पेन स राजवसतौ वसेत्’॥५९॥
करटको ब्रूते—‘कदाचित्त्वामनवसरप्रवेशादवमन्यते स्वामी’।
दमनक आह—‘अस्त्वेवम्। तथाऽप्यनुजीविना सान्निध्यमवश्यं करणीयम्। यतः।
दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम्।
कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते॥६०॥
पश्य।
आसन्नमेव नृपतिर्भजते मनुष्यं
विद्याविहीनमकुलीनमसंगतं वा।
प्रायेण भूमिपतयः प्रमदा लताश्च
यः पार्श्वतो वसति तं परिवेष्टयन्ति’॥६१॥
करटको ब्रूते—‘तत्र गत्वा किं वक्ष्यसि’सआह—‘शृणु। अनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि।’करटको ब्रूते—किं तत् ज्ञानलक्षणम्?’दमनको ब्रूते—‘शृणु।
दूरादवेक्षणं हासः संप्रश्नेष्वादरो भृशम्।
परोक्षेऽपि गुणश्लाघा स्मरणं प्रियवस्तुषु॥६२॥
तत्सेवकेऽनुरक्तिश्च दानं सप्रियभाषणम्।
अनुरक्तेशचिह्नानि दोषेऽपि गुणसंग्रहः॥६३॥
कालयापनमाशानां वर्धनं फलखण्डनम्।
विरक्तेश्वरचिह्नानि जानीयान्मतिमान्नरः॥६४॥
ज्ञात्वा चैतद् यथा चायं मनावत्तो भविष्यति तथा वक्ष्यामि। यथा—
अपायसंदर्शनजां विपत्ति-
मुपायसंदर्शनजां च सिद्धिम्।
मेधाविनो नीतिविधिप्रयुक्तां
पुनः स्फुरन्तीमिव दर्शयन्ति॥६५॥
करटको ब्रूते—‘तथाऽप्यप्रस्तावे न वक्तुमर्हसि। यतः।
अप्राप्तकालवचनं बृहस्पतिरपि ब्रुवन्।
प्राप्नुयाद्बुद्ध्यवज्ञानमवमानं च शाश्वतम्॥६६॥
सुलभाः पुरुषा राजन् सततं प्रियवादिनः।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः’॥६७॥
दमनकोऽब्रवीत्—‘मित्र, मा भैषीः। नाहमप्राप्तावसरं वचनं वक्ष्यामि। यतः।
आपद्युन्मार्गगमने कार्यकालात्ययेषु च।
अपृष्टेनापि वक्तव्यं भृत्येन हितमिच्छता॥६८॥
यदि च प्रस्तावावसरेणापि मया मन्त्रो न वक्तव्यः। तदा मन्त्रित्वमेव ममानुपपन्नम्। यतः।
कल्पयति येन वृत्तं येन च लोके प्रशस्यते सद्भिः।
स गुणस्तेन च गुणिना संरक्ष्यो वर्धनीयश्च॥६९॥
तद्भद्रानुजानीहि माम्। गच्छामि।’ करटको ब्रूते—शुभमस्तु। शिवास्ते पन्थानः। यथाभिलषितमनुष्ठीयताम्।’
ततो दमनको विस्मित इव पिङ्गलकसमीपं गतो दूरादेव राज्ञा दृष्टः सादरं प्रवेशितः साष्टाङ्गपातं प्रणिपत्योपविष्टः। राजाऽऽह—‘चिराद्दृष्टोऽसि?’
दमनको ब्रूते— ‘यद्यपि मया सेवकेन श्रीमद्देवपादानां न किंचित्प्रयोजनमस्ति तथाऽपि प्राप्तकालमनुजीविना सान्निध्यमवश्यं कर्तव्य’मित्यागतोऽस्मि। यतः।
यैश्चाहयेषु शिवशस्त्रनिपातभिन्न-
मातङ्गतुङ्गसुरभिस्सततार्पिता भूः।
तेषामपि प्रभुसमीपमुपागतानां
वाचः स्खलन्ति गुरुसाध्वसभावभिन्नाः॥७०॥
अपरं च।
राजनि विदुषां मध्ये
वरसुरतसमागमे स्त्रीणाम्।
साध्वसदूषितहृदयो
वाक्पटुरपि कातरो भवति॥७१॥
इह हि केनचिदपि हेतुना प्रयोजनमस्ति। तथा चोक्तम्—
दन्तस्य निर्घर्षणकेन राजन्
कर्णस्य कण्डूयनकेन वापि।
तृणेन कार्यं भवतीश्वराणां
किमङ्ग वाक्पाणिमता नरेण?॥७२॥
यद्यपि स्वामिना चिरावधीरितस्य मे बुद्धिविनाशः शङ्क्यते, तदपि न मन्तव्यम्। यतः।
यस्ययं च गुणास्सन्ति विकसन्ति हि ते स्वयम्।
न हि कस्तूरिकामोदश्शपथेन निवार्यते॥७३॥
अपरं च।
मणिर्लुठति पादेषु काचश्शिरसि धार्यते।
क्रयविक्रयवेलायां काचः काचोमणिर्मणिः॥७४॥
कदर्थितस्यापि च धैर्यवृत्ते
र्बुद्धेर्विनाशो न हि शङ्कनीयः।
अधः कृतस्यापि तनूनपातो
नाधश्शिखा याति कदाचिदेव॥७५॥
देव, सर्वथा विशेषज्ञेन स्वामिना भवितव्यम्।
निर्विशेषो यदा राजा समं सर्वेषु वर्तते।
तदोद्यमसमर्थानामुत्साहः परिहीयते॥७६॥
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः।
नियोजयेत्तथैवैतांस्त्रिविधेष्वेव कर्मसु॥७७॥
यतः।
स्थान एव हि युज्यन्ते भृत्याश्चाभरणानि च।
नहि चूडामणिः पादे नूपुरो न च मूर्धनि॥७८॥
अपि च।
कनकभूषणसंग्रहणोचितो
यदि मणिस्त्रपुणि प्रणिधीयते।
न स विरौति न चापि न शोभते
भवति योजयितुर्वचनीयता॥७९॥
अन्यच्च।
मुकुटे रोपितः काचश्चरणाभरणे मणिः।
नहि दोषोमणेरस्ति किं तु साधोरविज्ञता॥८०॥
पश्य।
बुद्धिमाननुरक्तोऽयमयं शूर इतो भयम्।
इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः॥८१॥
तथा हि।
अश्वश्शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च।
पुरुषविशेषं प्राप्य भवन्ति योग्या अयोग्याश्च॥८२॥
अन्यच्च।
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा।
भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि॥८३॥
यतः।
अवज्ञानाद्राज्ञो भवति मतिहीनः परिजन-
स्ततस्तत्प्रामाण्याद्भवति न समीपे बुधजनः।
बुधैस्त्यक्ते राज्ये नहि भवति नीतिर्गुणवती
विपन्नायां नीतौ सकलमवशं सीदति जगत्॥८४॥
अपरं च।
जनं जनपदा नित्यमर्चयन्ति नृपार्चितम्।
नृपेणावमतो यस्तु स सर्वैरवमन्यते॥८५॥
किं च।
बालादपि ग्रहीतव्यं युक्तमुक्तं मनीषिभिः।
रवेरविषये किं न प्रदीपस्य प्रकाशनम्?’॥८६॥
पिङ्गलको ब्रूते—‘भद्र दमनक, किमेतत्? त्वमस्माकं प्रधानामात्यपुत्रः। एतावन्तं कालं पिशुनवचनान्नागतोऽसि। इदानीं यथाभिमतं ब्रूहि।’दमनको ब्रूते—‘देव, पृच्छामि किंचित्।’ पिङ्गलकः—‘उच्यताम्’। उदकार्थी स्वामी पानीयमपीत्वा किं विस्मित इवागतस्तिष्ठति?’पिङ्गलकोऽवदत्—‘भद्रमुक्तं त्वया। किंत्वेतद्रहस्यं वक्तुं काचिद्विश्वासभूमिर्नास्ति। तथाऽपि
निभृतं कृत्वा कथयामि। शृणु। संप्रति वनमिदमपूर्वसत्त्वाधिष्ठितम्। अतोऽस्माकं त्याज्यम्। अनेन हेतुना विस्मितोऽस्मि। तथा च श्रुतो मयाऽपि महानपूर्वशब्दः। शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम्।’दमनको ब्रूते—‘देवास्ति तावदयं महाभयहेतुः शब्दोऽस्माभिरप्याकर्णितः। किं तु स किं मन्त्री यः प्रथमं भूमित्यागं पञ्चाद्युद्धं चोपदिशति। अपरं च। अस्मिन् कार्यसंदेहे भृत्यानामुपयोग एव ज्ञातव्यः। यतः।
बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः।
आपन्निकषपाषाणो नरो जानाति सारताम्’॥८७॥
सिंहो ब्रूते—‘भद्र, महती शङ्का मां वाघते।’दमनकश्चिन्तयामास स्वगतम्—‘अन्यथा राज्यसुखं परित्यज्य स्थानान्तरं गन्तुं कथं मां संभाषसे।’प्रकाशं ब्रूते—‘देव, यावदहं जीवामि, तावद्भयं न कर्तव्यम्। किंतु करटकादयोऽप्याश्वास्यन्ताम्। यस्मादापत्प्रतीकाराय दुर्लभः पुरुषसमवायः।’ ततस्तौ दमनककरटकौ राज्ञा महाप्रसादेन पूजितौ भयप्रतीकारं प्रतिज्ञाय चलितौ।
करटकोगच्छन् दमनकमाह—‘सखे, किं शक्यप्रतीकारो भयहेतुरशक्यप्रतीकारो वेत्यज्ञात्वा भयोपशमं प्रतिज्ञाय कथमयं महाप्रसादो गृहीतः?यतोऽनुपकुर्वाणो न कस्याप्युपायनं गृह्णीयात्। विशेषतो राज्ञः। पश्य।
यस्य प्रसादे पद्माऽऽस्ते विजयश्चपराक्रमे।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो नृपः॥८८॥
तथा हि।
बालोऽपि नावमन्तव्या मनुष्य इतिभूमिषः।
महती देवता ह्येषानररूपेण तिष्ठति’॥८९॥
दमनको विहस्याह—‘मित्र, तूष्णीमास्यताम्। ज्ञातं मया भयकारणं बलीवर्दनर्दितम्। तद्वृषभाश्चास्माकमपि भक्ष्याः। किं पुनः सिंहस्य?’करटको ब्रूते—‘यद्येवं तर्हि स्वामित्रास्तत्रैव नापनीतः?’ दमनको ब्रूते—‘यदि स्वामित्रासस्तत्रैव मुच्यते तदा कथमयं महाप्रसादलाभः स्यात्? अपरं च।
निरपेक्षो न कर्तव्यो भृत्यैस्स्वामी कदाचन।
निरपेक्षं प्रभुं कृत्वा भृत्यस्स्याद्दधिकर्णवत्’॥९०॥
करटकः पृच्छति—‘कथमेतत्’। दमनकः कथयति—
कथा ३।
अस्त्युत्तरापथेऽर्बुदशिखरनाम्नि पर्वते महाविक्रमनामासिंहः। तस्य पर्वतकन्दरे शयानस्य केसराग्रंमूषिकश्छिनत्ति। ततः केसराग्रं लूनं दृष्ट्वा कुपितो विवरान्तर्गतं मूषिकमलभमानोऽचिन्तयत्—
क्षुद्रशत्रुर्भवेद्यश्चविक्रमान्नैव लभ्यते।
तमाहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः॥९१॥
इत्यालोच्य नगरं गत्वा दधिकर्णनामानं विडालमानीय मांसोपहारादिना संतोष्य विलसमीपे स्थापितवान्। अनन्तरं तद्भयान्पूषिकोऽपि न बहिर्निस्सरति। तेनासौ सिंहोऽक्षतकेशस्सुखं स्वपिति। मूषकशब्दं यदा यदा शृणोति तदा तदा मांसाहार-
दानेन तं विडालं संवर्धयति। अथैकदा स मूषिकः क्षुधापीडितो बहिस्संचरन् मार्जारेण प्राप्तो व्यापादितश्च। अनन्तरं स सिंहोऽने ककालं यावन्मूषिकं न पश्यति, तत्कृतरावमपि न शृणोति,तदा तस्यानुपयोगाद्व्रिडालस्याहारदाने मन्दादरो बभूव। अतोऽहं ब्रवीमि—‘निरपेक्षो न कर्तव्य’इत्यादि।
ततो दमनककरटकौसंजीवकसमीपं गतौ। तत्र करटकस्तरुतले साटोपमुपविष्टः। दमनकः संजीवकसमीपं गत्वाऽब्रवीत्—‘अरे वृषभ, एष त्वां राज्ञा पिङ्गलकेनारण्यरक्षार्थं सेनापतिर्नियुक्तः करटकः समाज्ञापयति। सत्वरमागच्छ। न चेदस्मादरण्याद्दूरमपसर। अन्यथा ते विरुद्धं फलं भविष्यति। न जाने क्रुद्धः स्वामी किं विधास्यति?ततो देशव्यवहारानभिज्ञः संजीवकः सभयमुपसृत्य साष्टाङ्गपातं करटकं प्रणतवान्। तथा चोक्तम्—
मतिरेव बलाद्गरीयसी
यदभावे करिणामियं दशा।
इति घोषयतीव डिण्डिमः
करिणो हस्तिपकाहतः क्वणन्॥९२॥
अथ संजीवकः साशङ्कमाह—‘सेनापते, किं मया कर्तव्यम्। तदभिधीयताम्।’करटको ब्रूते—‘वृषभ, यद्यत्रकानने स्थातुमिच्छा वर्तते, तदा देवपादारविन्दं प्रणम।’संजीवको वदति—‘तदभयवाचंमे यच्छ। गच्छामि।’करटकेनोक्तम्—‘शृणु रे बलीवर्द, अलमनया शङ्कया। यतः।
प्रतियाचमदत्त केशवः
शपमानाय न चेदिभूभृते।
अनु यः कुरुते घनध्वनिं
न हि गोमायुरुतानि केसरी॥९३॥
अपरं च।
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणतानि सर्वतः।
समुच्छ्रितानेव तरून्प्रबाधत
महान्महत्येवकरोति विक्रमम्’॥९४॥
ततस्तौ संजीवकं नातिदूरे संस्थाप्य पिङ्गलकसमीपं गतौ। प्रणम्योपविष्टौ। राजाऽऽह—‘त्वया स दृष्टः?’ दमनको ब्रूते—‘देव दृष्टो विनीतश्च कृतः। किं तु महावलोऽसौ। यथा देवेन ज्ञातम्। तथाऽप्यसौ देवपादान् द्रष्टुमिच्छति। ततः सज्जीभूयोपविश्यताम्। यतः।
अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः।
पैशुन्याद्भिद्यते स्नेहो वाग्भिर्भेद्यो हि कातरः॥९५॥
तत्रशब्दमात्रान्न भेतव्यम्। यतः।
शब्दमात्रान्नभेतव्यमज्ञात्वा शब्दकारणम्।
शब्दहेतुं परिज्ञाय कुट्टिनी गौरवं गता’॥९६॥
राजाऽऽह—‘कथमेतत्।’दमनकः कथयति—
कथा ४।
अस्ति श्रीपर्वतमध्ये ब्रह्मपुराख्यंनगरम्। तत्र शैलशिखरे घण्टाकर्णनामा राक्षसः प्रतिवसतीति जनप्रवादः श्रूयते। एकदा
घण्टामादाय पलायमानः कश्चिच्चोरो व्याघ्रेण व्यापादितः। खादितश्च। तत्पाणिपतिता घण्टा वानरैः प्राप्ता। ते वानरास्तां घण्टामनुक्षणं वादयन्ति। ततो नगरजनैः स मनुष्यः खादितो दृष्टः। प्रतिदिनं घण्टादाद्यं च श्रूयते। अनन्तरं ‘घण्टाकर्णः कुपितो मनुष्यान् खादति, घण्टां च वाद्यति’इत्युक्त्वा सर्वे जना नगरं त्यक्त्वा पलायिताः। ततः कुट्टिन्या मर्कटो घण्टां यादयतीति परिज्ञाय राजा विज्ञापितः—‘देव, यदि धनव्ययः क्रियते, तदाऽहमेनं घण्टाकर्णं साधयामि।’ततस्तस्यै प्रचुरं धनं दत्तम्। ततस्तया तद्वनं प्रविश्य तरुतले फलानि तण्डुलानि च भूमौ निक्षिप्तानि। ततो वानरा घण्टां परित्यज्य फलासक्ता बभूवुः। घण्टां गृहीत्वा कुट्टिनी नगरमागता सर्वपूज्याऽऽसीत्। अतोऽहं ब्रवीमि—‘शब्दमात्रान्न भेतव्यम्’इति।
ततः संजीवक आनीय दर्शनं कारितः। पश्चात्तत्रैव वने चिरमतिप्रीतो वसति।
अथ कदाचित्तस्य सिंहस्य भ्राता स्तब्धकर्णो नाम समागतः। तस्यातिथ्यं कृत्वा समुपवेश्य पिङ्गलकस्तदाहाराय पशुं हन्तुं चलितः। अत्रान्तरे संजीवको वदति—‘देवाद्य हतमृगाणां मांसानि क्व?’राजाऽऽह— ‘दमनककरटको जानीतः।’ संजीवको ब्रूते— ‘ज्ञायतां किमस्ति नास्ति वा। सिंहो विहस्याह—‘नास्त्येव तत्।’संजीवको ब्रूते— ‘कथमेतावन्मांसं ताभ्यां खादितम्?राजाऽऽह—‘खादितं व्यक्तिमवधीरितं च। प्रत्यहमेप क्रमः।’संजीवको ब्रूते—‘कथं श्रीमद्देवपादानां गोचरेणैवं
क्रियते?’राजाऽऽह—‘मदीयागोचरेणैव क्रियते।’संजीवको ब्रूते— ‘नैतदुचितम्। तथा चोक्तम्—
नानिवेद्य प्रकुर्वीत भर्तुः किंचिदपि स्वयम्।
कार्यमापत्प्रतीकारादन्यत्र जगतीपते॥९७॥
अन्यच्च।
कमण्डलूपमोऽमात्यस्तनुत्यागो बहुग्रहः।
नृपते किंक्षणो मूर्खो दरिद्रः किंवराटकः॥९८॥
स ह्यमात्यस्सदा श्रेयान् काकिणींयः प्रवर्धयेत्।
कोशः कोशवतः प्राणाः प्राणाः प्राणा न भूपतेः॥९९॥
किं चान्यैर्न कुलाचारैस्सेव्यतामेति पूरुषः।
धनहीनः स्वपत्न्याऽपि त्यज्यते किं पुनः परैः॥१००॥
एतच्च राज्ञः प्रधानं दूषणम्—
अतिव्ययोऽऽनबेक्षा च तथाऽर्जननधर्मतः।
मोक्षणंदूरसंस्थानं कोशव्यसनमुच्यते॥१०१॥
यतः।
क्षिप्रमायमनालोच्य व्ययमानः स्ववाञ्छया।
परिक्षीयत एवासौ धनी वैश्रवणोपमः॥१०२॥
तदाकर्ण्य स्तब्धकर्णो ब्रूते—शृणु भ्रातः। निराश्रितावेतौ दमनककरटकौ संधिविग्रहकार्याधिकारिणौ, न कदाचिदर्थाधिकारे नियोक्तव्यौ। अपरं च नियोगप्रस्तावे यन्मया श्रुतं तत् कथ्यते।
ब्राह्मणः क्षत्रियो वन्धुर्नाधिकारे प्रशस्यते।
ब्राह्मणस्सिद्धमप्यर्थं कृच्छ्रेणापि न यच्छति॥१०३॥
नियुक्तः क्षत्रियो द्रव्ये खङ्गं दर्शयते ध्रुवं।
सर्वार्थं ग्रसते वन्धुराक्रम्य ज्ञातिभावतः॥१०४॥
अपराधेऽपि निश्शङ्को नियोगी चिरसेवकः।
स स्वामिनमवज्ञाय चरेच्च निरवग्रहः॥१०५॥
उपकर्ताऽधिकारस्थः स्वापराधं न मन्यते।
उपकारं ध्वजीकृत्य सर्वमेवावलुम्पति॥१०६॥
उपांशु क्रीडितोऽमात्यः स्वयं राजायते यतः।
अवज्ञा क्रियते तेन सदा परिचयाद्ध्रुवम्॥१०७॥
अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल।
शकुनिश्शकटारश्च दृष्टान्तावत्र भूपते॥१०८॥
सदामात्यो न साध्यः स्यात् समृद्धः सर्व एव हि।
सिद्धानामयमादेश ऋद्धिश्चित्तविकारिणी॥१०९॥
प्राप्तार्थग्रहणं द्रव्यपरिवर्तोऽवरोधनम्।
उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम्॥११०॥
नियोग्यर्थग्रहोपायो राज्ञां नित्यं परीक्षणं।
प्रतिपत्तिप्रदानं च तथा कर्मविपर्ययः॥१११॥
निपीडिता वमन्त्युच्चैरन्तस्सारं महीपतौ।
दुष्टव्रणा इव प्रायो भवन्ति हि नियोगिनः॥११२॥
मुहुर्नियोगिनो बाध्या वसुधारां महीपतेः।
सकृत्किं पीडितं स्नानवस्त्रं मुञ्चेद्वहूदकम्॥११३॥
एतत्सर्वं ज्ञात्वा यथावसरं व्यवहर्तव्यम्?’सिंहो ब्रूते—‘अस्ति तावदेवम्। किं त्वेतौ सर्वथा न मम वचनकरौ।’स्तब्धकर्णो ब्रूत—‘एतत्सर्वमनुचितं। यतः।
आज्ञाभङ्गकरान्राजा न क्षमेन् स्वसुतानपि।
विशेषः को नुराज्ञश्च राज्ञश्चित्नगतस्य वा॥११४॥
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टेन्द्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवत्यनराधिपस्य॥११५॥
विशेषतश्च।
तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृपवल्लभात्।
नृपतिर्निजलोभाच्च प्रजा रक्षेत् पितेव हि॥११६॥
भ्रातः, सर्वथा मद्वचनं क्रियताम्। आहारोऽप्यद्यांस्माभिः कृत एव। अयं सस्यभक्षकः संजीवको भोजनाधिकारे नियुज्यताम्।’ एतद्वचनात्तथाऽनुष्ठिते सति, पिङ्गलकसंजीवकयोः सर्ववन्धुपरित्यागेन महता स्नेहेन कालोऽतिवर्तते।
ततोऽनुजीविनामप्याहारदाने शैथिल्यदर्शनाद्दमनककरटकाबन्योन्यं चिन्तयतः। दमनक आह—‘किमत्रावधेयम्? आत्मकृतोऽयं दोषः। स्वयं कृतेऽपि दोषेपरिदेवनमप्यनुचितम्। तथा चोक्तम्—
स्वर्णरेखामहं स्पृष्ट्वा वद्ध्वाऽऽत्मानं च दूतिका।
आदित्सुश्च मणिं साधुः स्वदोषाद्दुःखिता इमे॥११७॥
करटको ब्रूते—‘कथमेतत्?’ दमनकः कथयति—
कथा ५।
अस्ति काञ्चनपुरनाम्नि नगरे वीरविक्रमनामा राजा। तस्य धर्माधिकारिणा कश्चिन्नापितो वध्यभूमिं नीयमानः कन्दर्पकेतुनाम्ना परिव्राजकेन साधुद्वितीयकेन ‘नायं हन्तव्य’इत्युक्त्वा वस्त्राञ्चले धृतः। राजपुरुषा ऊचुः—‘किमिति नायं बध्यः?’ स आह— ‘श्रूयताम्।’‘स्वर्णरेखामहं स्पृष्ट्वेत्यादि पठति। त आहुः—‘कथमेतत्?’ परिव्राजकः कथयति।
अहं सिंहलद्वीपस्य भूपतेर्जीमूतकेतोः पुत्रः कन्दर्पकेतुः। एकदा केलीकाननावस्थितेन मया पोतवणिङ्मुखाच्छ्रतम्—‘यदत्र समुद्रमध्ये चतुर्दश्यामाविर्भूतकल्पद्रुमतले रत्नावलीकिरणकर्बुरपर्यङ्के स्थिता, सर्वालंकारभूषिता, लक्ष्मीरिव वीणां वादयन्ती कन्या काचिदृश्यत’इति। ततोऽहं पोतवणिजमादाय पोतमारुह्य तत्रगतः। अनन्तरं तत्र गत्वा पर्यङ्केऽर्धमग्नातथैव साऽवलोकिता। ततस्सा सखीसमेता समुद्रमध्ये मग्नाऽदृश्याभवत्। ततस्तल्लावण्यगुणाकृष्टेन मया प्राप्तबुद्ध्या झम्पो दत्तः। तदनन्तरं कल्पतरोः शाखामाकृष्य तस्याः कनकपत्तनं प्राप्य सुवर्णप्रासादे, तथैव सा पर्यङ्कस्था विद्यादरीभिरुपास्यमाना मयाऽऽलोकिता। तया चाहं दूरादेव दृष्ट्वा सखीं प्रस्थाप्य सादरं संभाषितः। ततस्तत्सख्या च मया पृष्टयासमाख्यातम्—‘एषा कन्दर्पकेलिनाम्नो विद्याधरचक्रवर्तिनः पुत्री रत्नमञ्जरी नाम। अनया प्रतिज्ञा विहिता। यः कनकपत्तनं स्वचक्षुषाऽऽगत्य पश्यति, स एव पितुर्गोचरेण मां परिणेष्यतीति। तदिमां गान्धर्व-
विवाहेन परिणयतु भवान्। अथ गान्धर्वविवाहे वृत्ते तया सहाहं रममाणश्चिरं तिष्ठामि। तत एकदा रहसि तयोक्तम्—‘स्वामिन, सर्वदा स्वेच्छया सर्वमिदमुपभोक्तव्यम्। किं त्वेषाचित्रगता स्वर्णरेखा नाम विद्याधरी न कदाचिदपि स्प्रष्टव्या’। ततस्तद्वचनादुपजातकौतुकेन मया स्वर्णरेखा स्तनमण्डले स्पृष्टा। तया च चित्रगतयाऽप्यहं तथा चरणपङ्कजेन हतः यथागत्य स्वराष्ट्रे पतितः।
अथ दुःखार्तोऽहं प्रव्रजितः पृथिवीं भ्राम्यन्निमां नगरीमनुप्राप्तः। अत्रचास्तं गते रबौ प्रविशन्निवासन्नगोपगृह आवासं प्रार्थितवान्। तेन च निजगेहस्यैकदेशोऽनुज्ञातः। कथिता च गृहिणी ‘यावदहमागच्छामि तावदयं चथा भद्रेण तिष्ठति तथा करिष्यसि’इत्युक्त्वा स गतः। अथ तस्य भार्या पुंश्चली दूत्या सह मन्त्रयन्ती यादवतिष्ठते तावत्तस्याः पतिर्गोष्टादागतः। स गोपः स्ववधूं मन्त्रयन्तीं दूत्या सहापश्यत्। सा गोपी पतिमालोक्य प्रत्युत्पन्नमतिर्निवृत्ता मन्दिराभ्यन्तरे शयनाद्यकल्पयत्। ततस्तां गोपस्ताडयित्वा स्तम्भे बद्ध्वासुप्तः। ततोऽर्धरात्रेएतस्या दूती नापितवधूः पुनरागता तां गोपीमुवाच—‘तववियोगानलदग्धोऽसौ मुमूर्षुर्वर्तते महानुभावः। तथा चोक्तम्—
रजनीचरनाथेन खण्डिते तिमिरे निशि।
यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः॥११८॥
तदहमात्मानमत्र वद्ध्वातिष्ठामि। त्वं तत्र गत्वा तं संभाष्य सत्वरमागच्छ।’तथाऽनुष्टिते सति,स गोपः प्रबुद्ध्यावदत्—
‘इदानीं जारान्तिकं न यासि कथम्?’ ततश्चेयं दूती न किंचिद्व्रवीति। तदा ‘दर्पादुत्तरमात्रं न ददासि’इत्युक्त्वा प्रकुपितेन गोपेन तस्या नासिका छिन्ना। स पुनः सुप्तः। अनन्तरमागता सा गोपी दूतीमपृच्छत्—‘का वार्ता?’ दूत्युवाच—‘पश्य मे मुखम्। ममनासिकैव वार्तां कथयति।’ अनन्तरं सा गोपी तथैवात्मानं वद्ध्वाऽवस्थिता। दूती छिन्ननासिकां गृहीत्वा निजगृहमुपगतवती विषादं भावयन्ती स्थिता।
ततः प्रातरनेन नापितेन क्षुरभाण्डे याचिते सति सा क्षुरभाण्डदत्वा क्षुरमेकं प्रादात्। पञ्चादयं नापितः प्रकुपितः, क्षुरंदूरादेव गृहं प्रक्षिप्तवान्। अथ कर्तितनासिकेयं ‘विनाऽपराधेनानेन मम नासिका च्छिन्ना’इत्युक्त्वा धर्माधिकारिसमीपमेन मानीतवती।
सा च गोपी तेन गोपेन पृष्टोवाच—‘अरे पाप, को मां महासतीं विरूपयितुं समर्थः? मम व्यवहारमकल्मषमष्टौ दिक्पाला एव जानन्ति। यतः।
आदित्यचन्द्रावनिलोऽनलश्च
द्यौर्भूमिरापो हृदयं यमश्च।
उभे व सन्ध्ये रजनी दिनं च
धर्मश्च जानाति नरस्य वृत्तम्॥११९॥
** **ततोऽहं यदि महासती, निजस्वामिनं विहाय नान्यं मनसाऽपि चिन्तयामि, तदा मम मुखमक्षतं भवतु।’ततो यावदसौ गोपः
प्रदीपमादाय तन्मुखभक्षतमपश्यत्,तावदेव ‘क्षम्यतां ममापराधं इत्युक्त्वा प्रदक्षिणं परिभ्रम्य हृष्टहृदयो बन्धनाद्विमुच्य नच्चरणयोः पतित्वोवाच—‘धन्योऽहं यस्येदृशी सती भार्या।’ वतः।
मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम्।
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते॥
अस्य साधोरपि वार्तां श्रृणुत राजपुरुषाः। अयं गृहान्निस्सृत्यद्वादशभिर्वर्षैर्वणिज्यं कृत्वा मलयोपकण्ठान्नाना दुर्लभानि रत्नान्यादायेमां नगरीमागतः। अत्र वेश्यागृहे सुतः। ततः कुट्टिन्या गृहद्वारि स्थापितस्य काष्ठघटितबेतालस्य मूर्ध्नि रत्ननेकमत्युत्कृष्टमास्ते। तद्दृष्ट्वाऽथ लुब्धेन साधुना रात्रावुत्थाय हस्तो यदा रत्ने दत्तः, तदैव तेन बेतालेन सूत्रसंचारिताभ्यां बाहुभ्यां पीडितः सन्नार्तनादंचकार। पश्चादुत्थाय कुट्टिन्योक्तम्—‘साधो पुत्र, मलयोपकण्ठादागतोऽसि। तत्सर्वरत्नानि प्रयच्छ। न चेदनेन न त्यक्तव्योऽसि। इत्थमेवायं चेटकः। ततोऽनेन सर्वरत्नानि समर्पितानि। अधुना चायमपि हृतसर्वस्वोऽस्माभिर्मिलितः।
एतत्सर्वं श्रुत्वा राजपुरुपैर्न्यायेधर्माधिकारी प्रवर्तितः। अतोऽहं ब्रवीमि— ‘स्वर्णरेखामहं स्पृष्ट्वाइत्यादि। ततस्त्वयं कुतोऽयं दोषः। अत्र विलपनमप्यनुचितम्। (क्षणंविमृश्य।) मित्र, यथाऽनयोः सौहार्दं मया कारितं, तथा मित्रभेदोऽपि मया कार्यः। यतः।
अतध्यान्यपि तथ्यानि दर्शयन्त्यतिपेशलाः।
समे निम्नोन्नतानी चित्रकर्मविदो जनाः॥१२१॥
अपरं च।
उत्पन्नेष्यपि कार्येषु मतिर्यस्य न हीयते।
स निस्तरति दुर्गाणि गोपी जारद्वयं यथा॥१२२॥
दमनकः पृच्छति—‘कथमेतत्?’ स कथयति—
कथा ६।
अस्ति द्वारवत्यां पुर्यांकस्यचिद्गोपस्य वधूर्वन्धकी। सा ग्रामस्य दण्डनायकेन तत्पुत्रेण न समं रमते। तथा चोक्तम्—
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसां वामलोचना॥१२३॥
अन्यच्च।
न दानेन न मानेन नार्जवेन न सेवया।
न शत्रेण न शास्त्रेण सर्वथा विपमाः स्त्रियः॥१२४॥
यतः।
गुणाश्रयं कीर्तियुतं चकान्तं
पतिं विधेयं सधनं रतिज्ञं।
विहाय शीघ्रं वनिता ब्रजन्ति
नराधमं शीलगुणादिहीनम्॥१२५॥
अपरं च।
न तादृशी प्रीतिमुपैति नारी
विचित्रशःचाशयिताऽपि कामम्।
यथा हि दूर्वादिविकीर्णभूमौ
प्रयाति सौख्यं परकान्तसङ्गात्॥१२६॥
अथ सा कदाचिद्दण्डनायकसुतेन सह रममाणा तिष्ठति। अथ दण्डनायकमायान्तं दृष्ट्वा तत्पुत्रं कुसूले निःक्षिप्य, दण्डनायकेन समं तथैवाक्रीडन्। अनन्तरं तस्या भर्तागोपो गोष्ठात्समागतः। तमालोक्य गोप्योक्तम्—‘दण्डनायक, त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं याहि। तथा कृते गोपेनागत्य पत्नी पृष्टा‘केन कार्येणात्र दण्डनायकः सकोपः समागतः?’सा ब्रूते—‘अयं केनापि कारणेन पुत्रस्योपरि क्रुद्धः। स च पलायमानोऽत्रागत्य प्रविष्टः। मया कुसूले निक्षिप्य रक्षितः। पित्राचान्विष्यात्रगृहे न दृष्टः। अतोऽयं कुपित एव गच्छति’ततः सा तत्पुत्रं कुसूलादवतार्यदर्शितवती। तथा चोक्तम्—
आहारो द्विगुणः स्त्रीणां वुद्धिस्तासां चतुर्गुणा।
षड्गुणो व्यवसायश्च कामञ्चाष्टगुणः स्मृतः॥१२७॥
अतोऽहं ब्रवीमि—‘उत्पन्नेष्वपि कार्येषु’इत्यादि॥
करटको ब्रूते—‘अस्त्वेवम्। किंत्वनयोर्महान्निसर्गस्नेहः कथं भेदयितुं शक्यः? दमनक आह—‘उपायश्चिन्तनीयः। तथा चोक्तम्—
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः।
काकी कनकसूत्रेण कृष्णसर्पमघातयत्॥१२८॥
करटकः पृच्छति— ‘कथमेतत्?’दमनकः कथयति—
कथा ७।
कस्मिंश्चित्तरौ वायसदंपती निवसतः। तयोरपत्यानि तत्तरुकोटरेऽवस्थितेन कृष्णसर्पेण खादितानि। ततः पुनर्गर्भयती वायसी वायसं ब्रूते—‘स्वामिन्, त्यज्यतामयं तरुः। अत्रैव तस्मात्कृष्णसर्पादावयोः कदाचिदपि प्रजावृद्धिर्न भविष्यति। यतः।
दुष्ठाभार्या शठं मित्रं भृत्यश्चोत्तरदायकः।
ससर्पे च गृहे वासो मृत्युरेव न संशयः’॥१२९॥
वायसो ब्रूते—‘प्रिये न भेतव्यम्। वारंवारं मयैतस्य महापराधः सोढः। इदानीं पुनर्न क्षन्तव्यः।’ वायस्याह—कथमनेन बलवता सार्धं भवान् विग्रहीतुं समर्थः?’वायसो ब्रूते—‘अलमनया शङ्कया। यतः।
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम्।
यस्य सिंहो मदोन्मत्तः शशकेन निपातितः’॥१३०॥
वायस्याह—‘कथमेतत्?’वायसः कथयति—
॥अवान्तर कथा १॥
अस्ति मन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः। स च सर्वदा पशूनां वधं कुर्वन्नास्ते। ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तः—‘किमर्थं सर्वपशुवधः क्रियते? वयमेव भवदाहारार्थं प्रत्यहमेकैकं पशुं दास्यामः?’सिंहेनोक्तम्—‘एवमस्तु। ततः प्रभृत्येकैकं पशुमुपकल्पितं भक्षयन्नास्ते। अथ कदाचिद्वृद्धशशकस्य वारः समायातः। सोऽचिन्तयत्—
‘त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया।
पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे॥१३१॥
तन्मन्दं मन्दमुपगच्छामि।’ततः सिंहोऽपि क्षुधापीडितः कोपात्तमुवाच— ‘किमागमे विलम्बकारणम्?’सोऽव्रवीत्—‘नाहमपराधी। अपि तु सिंहान्तरेणावलोकितो बलाद्धृतः। पुनरागमनाय शपथं कृत्वा, स्वामिने तन्निवेदयितुमत्रागतोऽस्मि।’सिंहः सकोपमाह—‘सत्वरं गत्वा दर्शय। क्वासौ दुरात्मा तिष्ठति?’ ततः शशकस्तं गृहीत्या गम्भीरकूपसमीपं गतः। ‘अत्रागत्य पश्यतु स्वामी’इत्युक्त्वा कूपान्तर्जले तस्यैव सिंहस्य प्रतिविम्बंदर्शितवान्।ततोऽसौ दर्पाध्मातः कोपात् तस्योपरि पपात।ऊर्ध्वपादोऽधःशिरास्तज्जलेमग्नः पञ्चत्वमगमन्। अतोऽहं ब्रवीमि ‘बुद्धिर्यस्य’इत्यादि॥
वायस्याह—‘सर्वं श्रुतं। संप्रति यथा कर्तव्यं तदुपदिश्यताम्।’वायसोऽवदत्—‘अत्रासन्ने सरसि राजपुत्रः सततमागत्य स्नाति। स्नानसमये तदङ्गादयतारितं तीर्थशिलानिहितं कनकसूत्रं चञ्च्वा विधृत्यानीयास्मिन्कोटरे पातय’इति। अथ कदाचित् स्नातुं जलं प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम्।’ अथ कनकसूत्रानुसरणप्रवृत्तै राजपुरुषैस्तत्रतरुकोटरे कृष्णसर्पो दृष्टो व्यापादितश्च। अतोऽहं ब्रवीमि—‘उपायेन हि यच्छक्यम्’इत्यादि॥
करटक आह— ‘यद्येवं तदा गच्छ। शिवास्सन्तु ते पन्थानः।’ततो दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योवाच—‘देव, आत्ययिकं किमप्यकुशलं मन्यमानः समागतोऽस्मि। यतः।
आपद्युन्मार्गगमने कार्यकालात्ययेषु च।
कल्याणवचनं ब्रूयादष्टष्टोऽपि हितो नरः॥१३२॥
अन्यच।
भोगस्य भाजनं राजा न राजा कार्यभाजनम्।
राजकार्यपरिध्वंसी मन्त्री दोषेण लिप्यते॥१३३॥
तथा हि। पश्यामात्यानामेष क्रमः।
वरं प्राणपरित्यागः शिरसो वापि कर्तनम्।
न तु स्वामिपदावाप्तिः पातकेच्छोरुपेक्षणम्’॥१३४॥
पिङ्गलकः सादरं ब्रूते—अत्रभवान् किं वक्तुमिच्छति?’ दमनक आह— ‘अयं तावत्संजीवकस्तवोपर्यसदृशव्यवहारी तथा चास्मत्सन्निधाने श्रीमद्देवपादानां शक्तित्रयनिन्दां कृत्वा राज्यमेवाभिलपति।’ एतच्छ्रुत्वा पिङ्गलकः साश्चये तूष्णी स्थितः। दमनकः पुनराह—‘देव, सर्वामात्यपरित्यागं कृत्या एक एवायं सकलकार्याधिकारी कृतः। अयं च महान् दोषः। यतः।
अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्यपादावुपतिष्ठते श्रीः।
सा स्त्रीस्वभावादसहा भरस्य
तयोर्द्वयोरेकतरं जहाति॥१३५॥
अपरं च।
एकं भूमिपतिः करोति सचिवं नाप्यप्रदानं यदा
तं मोहाच्छ्रयते मदः स च मदालस्येन निर्भिद्यते।
निर्भिन्नस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणान्तिकं द्रूह्यति॥
तथा चोक्तम्—
विरक्तस्य च भक्तस्य दन्तस्य गलितस्य च।
अमात्यस्य च दुष्टस्य मूलादुद्धरणंवरम्॥१३७॥
किं च।
यः कुर्यात्सचिवायत्तां श्रियं तद्व्यसने सति।
सोऽन्धवज्जगतीपालः सीदेत्संचारकैर्विना॥१३८॥
विशेषतश्च।
सदाऽमात्यो न साध्यः स्यात्
समृद्धः सर्व एव हि।
सिद्धानामयमादेश
ऋद्धिश्चितविकारिणी॥१३९॥
स च सर्वकार्ये स्वेच्छतः प्रवर्तते। तदत्र प्रमाणंस्वामी जानाति।
न सोऽस्ति पुरुषो लोके यो न कामयते श्रियम्।
परस्व युवतीं भार्यां साकाङ्क्षं नेक्षते च कः॥१४०॥
सिंहो विमृश्याह—‘भद्र, यद्यप्येवं तथाऽपि संजीवकेन सह मम महान् स्नेहः। पश्य।
कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः।
अशेषदोषोदुष्टोऽपि कायः कस्य न वल्लभः॥१४१॥
अन्यच्च।
अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः।
दुग्धमन्दिरसारेऽपि कस्य वह्नावनादरः’॥१४२॥
दमनकःपुनराह—‘देव, स एवातिदोषः। यतः।
यस्मिन्नेवाधिकं चक्षुरारोहयति पार्थिवः।
सुतेऽमात्येऽप्युदासीने स लक्ष्म्याश्रीयते जनः॥१४३॥
शृणु देव,
अप्रियस्यापि पथ्यस्य परिणामः सुखावहः।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः॥१४४॥
त्वया च मूलभृत्यानपास्यायमागन्तुकः पुरस्कृतः। एतच्चानुचितं कृतम्।
मूलभृत्यान् परित्यज्य नागन्तून् प्रतिमानयेत्।
नातः परतरो दोषो राज्यभेदकरो यतः’॥१४५॥
सिंहो ब्रूते— ‘किमाश्चर्यम्। मयाऽयमभययात्तंदत्त्वा नीतः संवर्धितश्च। तत्कथं मह्यं द्रुह्यति?’ दमनको वदति—
‘देव,
दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः।
स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिय नामितम्॥१४६॥
अपरं च।
स्वेदितो मर्दितश्चैव रज्जुभिः परिवेष्टितः।
युक्तो द्वादशभिर्वर्षेः श्वपुच्छः प्रकृतिं गतः॥१४७॥
अन्यच्च।
वर्धनं चाथ सम्मानं खलानां प्रीतये कुतः।
फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः॥१४८॥
अतोऽहं ब्रवीमि—
अपृष्टोऽपि हितं ब्रूयाद्यस्य नेच्छेत् पराभवम्।
एष एव सतां धर्मो विपरीत मतोऽन्यथा’॥१४९॥
तथा चोक्तम्—
स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं
सा स्त्री याऽनुविधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते।
सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते
तन्मित्रं यदकृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः॥१५०॥
यदि संजीवकव्यसनार्दितो विज्ञापितोऽपि स्वामी न निवर्तते, तदा न भृत्ये दोषः। तथा च।
नृपः कामासक्तो न गणयति कार्यं न च हितं
यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव।
ततो मानाध्मातः स पतति यदा शोकगहने
तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्यविनयम्’॥१५१॥
पिङ्गलकः—(स्वागतम्।)
‘न परस्यापराधेन परेषांदण्डमाचरेत्।
आत्मनाऽवगमं कृत्वा वध्नीयान् पूजयेच्च वा॥१५२॥
तथा चोक्तम्।
गुणदोषावनिश्चित्य कुर्यान्न ग्रहनिग्रहौ।
स्वनाशाय यथा न्यस्तो दर्षात् सर्पमुखे करः॥१५३॥
प्रकाशं ब्रूते—‘तदा संजीवकः किं प्रत्यादिश्यताम्?’
दमनकः ससंभ्रममाह—‘देव, मैवम्। एतावता मन्त्रभेदो जायते। तथा चोक्तम्—
मन्त्रबीजमिदं गुप्तं रक्षणीयं यथा तथा।
मनागपि न भिद्येत तद्भिन्नं न प्ररोहति॥१५४॥
किं च।
आदेयस्य प्रयस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥१५५॥
तदवश्यं समारब्धं महता प्रयत्नेन संपादनीयम्। किं च।
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्क्या॥१५६॥
यद्यसौ दृष्टदोषोऽपि दोषान्निवर्त्य संघातव्यस्तदतीवानुचितम्। यतः।
सकृद्दुष्टं तु यो मित्रं पुनस्संधातुमिच्छति।
स मृत्युमुपगृहाति गर्भमश्वतरी यथा॥१५७॥
सिंहो ब्रूते—‛ज्ञायतां तावत्, किप्तयमस्माकं कर्तुं समर्थः’? दमनक आह—‘देव,
अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः।
पश्यटिट्टिभमात्रेण समुद्रो व्याकुलीकृतः’॥१५८॥
सिंहः पृच्छति… ‘कथमेतत् ?’दमनकः कथयति—
कथा ८।
दक्षिणसमुद्रतीरे टिट्टिभदंपती निवसतः। ततष्टिट्टिभी चासन्नप्रसवा भर्तारमाह—‘नाथ, प्रसवयोग्यस्थानं निभृतमनुसंधीयताम्।’ टिट्टिभोऽवदत्—नन्विदमेव स्थानं प्रसूतियोग्यम्। साऽऽह ‘समुद्रवेलया स्थानमिदं व्याप्यते।’सोऽब्रवीत्—‘भद्रे, किमहं निर्बलः? मम गृहावस्थितान्यण्डानि किं समुद्रेणापहर्तव्यानि?’।टिट्टिभी विहस्याह—‘नाथ, तव समुद्रस्य च महदन्तरम्। अथवा—
परापरं परिच्छेतुंयोग्यायोग्यं चवेत्ति यः।
अस्तीह यस्य विज्ञानं स कुच्छ्रेऽपि न सीदति॥१५९॥
अपि च।
अनुचितकार्यारम्भः स्वजनविरोधो बलीयसा स्पर्धा।
प्रमदाजनविश्वासो मृत्योर्द्वराणिचत्वारि’॥१६०॥
ततः कृच्छ्रेणस्वामिवचनात्सा तत्रैव प्रसूता। एतत्सर्वं श्रुत्वा समुद्रेण तच्छक्तिजिज्ञासार्थं तदण्डान्यपहृतानि। अथ टिट्टिभी शोकार्ता भर्तारमाह—नाथ, कष्ठनापतितं। तान्यण्डानि मेऽपहृतानि। टिट्टिभः—‘प्रिये, मा भैषीः।’इत्युक्त्वा पक्षिणां मेलनं कृत्वा पक्षिस्वामिनो गरुडस्य समीपं गतः। तत्र गत्वा सकलवृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्—‘देव, समुद्रेणाहं स्वगृहावस्थितो विनाऽपराधेनैव निगृहीतः। तद्वचनमाकर्ण्य गरुत्मता प्रभुर्भगवान्नारायणः सृष्टिस्थितिप्रलयहेतुर्विज्ञप्तः, समुद्रमण्डदानायादिदेश। ततो भगवदाज्ञांमौलौविधाय समुद्रेण तान्यण्डानि टिट्टिभाय समर्पितानि। अतोऽहं ब्रवीमि—‘अङ्गाङ्गिभावनज्ञात्वा इत्यादि॥
शास्त्रातिक्रमज्ञात्वा वैरमारभते द्विपः।
स पराभवमाप्नोति समुद्र इव टिट्टिभात्॥१६१॥
राजाह—‘कथमसौ ज्ञातव्यो द्रोहबुद्धिरिति’। दमनकः पुनराह—‘यदाऽसौ सदर्पः शृङ्गाग्रप्रहरणाभिमुखश्चकितमिवागच्छति, तदा ज्ञास्यति स्वामी।’एवमुक्त्वा संजीवकसमीपं गतः मन्दमन्दमुपसर्पन् विस्मितमिवात्मानमदर्शयत्। संजीवकेन सादर-
मुक्तम्—‘भद्र, कुशलं ते?’दमनको ब्रूते—‘अनुजीविनां कुतः कुशलम्? यतः।
संपत्तयः पराधीनाः सदा चित्तमनिर्वृतम्।
स्वजीवितेऽप्यविश्वासस्तेषां ये राजसेवकाः॥१६२॥
अन्यच्च।
कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रियः।
कः कालस्य भुजान्तरं न च गतः कोऽर्थी गतो गौरवं
को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान्’॥१६३॥
संजीवकेनोक्तम्—‘सखे, ब्रूहि, किमेतत्?’दमनक आह—‘किं ब्रवीमि मन्दभाग्यः। पश्य।
मज्जन्नपि पयोराशौ लब्ध्वा सर्पावलम्बनम्।
न मुञ्चति न चादत्ते तथा मुग्धोऽस्मि संप्रति॥१६४॥
यतः।
एकत्र राजविश्वासो नश्यत्यन्यत्र बान्धवः।
किं करोमि क्व गच्छामि पतितो दुःखसागरे’॥१६५॥
इत्युक्त्वा दीर्घं निश्वस्योपविष्टः। संजीवको ब्रूते—‘मित्र, तथाऽपि सविस्तरं मनोगतमुच्यताम्।’दमनकरस्सुनिभृतमाह—यद्यपि राजविश्वासो न कथनीयस्तथाऽपि भवानस्मदीयप्रत्ययादागतः। मया परलोकार्थिनाऽवश्यं तव हितमाख्येयम्। शृणु। अयं स्वामी तवोपरि विकृतबुद्धी रहस्युक्तवान् ‘संजीवकमेव हत्वा स्वपरिवारं तर्पयामि’इति॥ एतच्छ्रुत्वा संजीवकः परं
विषादमगमत्। दमनकः पुनराह—‘अलं विषादेन। प्राप्तकालं कार्यमनुष्ठीयताम्।’संजीवकः क्षणं विमृश्याह—(खगतम्) सुष्ठुखल्विदमुच्यते।
दुर्जनगम्या नार्यः प्रायेणापात्रभृद्भवति राजा।
कृपणानुसारि च धनं देवोगिरिजलधिवर्षी च॥१६६॥
यथा।
नीचमाश्रयते लक्ष्मीरकुलीनं सरस्वती।
अपात्रंभजते नारी गिरौवर्षति वासवः॥१६७॥
के वा दुर्जनचेष्टितं न वेत्येतद्व्यवहारान्निर्णेतुं न शक्यते। यतः।
कश्चिदाश्रयसौन्दर्याद्धत्तेशोभामसज्जनः।
प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम्॥१६८॥
(विचिन्त्य, प्रकाशम्) कष्टंकिमिदमापतितम्। यतः।
आराध्यमानो नृपतिः प्रयत्ना-
न्न तोपमायाति किमत्र चित्रम्।
अयं त्वपूर्वप्रतिनाविशेषो
यस्सेव्यमानो रिपुतामुपैति॥१६९॥
तद्यमशक्यार्थः प्रमेयः। यतः।
निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेपि मनस्तु यस्य
कथं जनस्तं परितोषयिप्यति॥१७०॥
किं मयाऽपकृतं राज्ञः? अथवा निमित्तापकारिणश्च भवन्ति राजानः।’ दमनको ब्रूते—‘एवमेतत्। शृणु।
विज्ञैः स्निग्धैरुपकृतमपि द्वेप्यतामेति कैश्चि-
त्साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति।
चित्रंचित्रंकिमथ चरितं नैकभावाश्रयाणां
सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥१७१॥
अन्यच्च।
कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु।
वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम्॥१७२॥
किं च।
चन्दनतरुषु भुजंगा जलेषुकमलानि तत्र च ग्राहाः।
गुणघातिनश्च भोगे खला न च सुखान्यविघ्नानि॥१७३॥
अन्यच्च।
मूलं भुजंगैः कुसुमं च भृङ्गैः
शाखाःप्लवङ्गैःशिखरं विहङ्गैः।
नास्येव तच्चन्दनपादपस्य
यन्नाश्रितं दुष्टतरैश्च हिंस्रैः’॥१७४॥
दमनको ब्रूते—‘अयं तावत्स्वामी वाचि मधुरो विषहृदयो ज्ञातः। यतः।
दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः।
अन्तर्भूतविषो वहिर्मधुमयश्चातीवमायापटुः
को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः’॥१७५॥
तथा हि।
पोतो दुस्तरवारिराशितरणे दीषोऽन्धकारागमे
निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्यै सृणिः।
इत्थं तद्भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता
मन्ये दुर्जनविवृतिहरणे धातापि भग्नोद्यमः॥१७६॥
संजीयकः (पुनर्निश्चस्य)—‘कष्टं भोः। कथमहं सस्यभक्षकः सिंहेन निपातयितव्यः।
ययोरेव समं वित्तं ययोरेवसमं बलम्।
तयोर्विवादो मन्तव्यो नोत्तमाधमयोः क्वचित्॥१७७॥
(पुनर्विचिन्त्य।) केनायं राजा ममोपरि विकारितो न जाने। भेदमुपगताद्राज्ञस्सदा भेतव्यम्। यतः।
मन्त्रिणा पृथिवीपालचित्तं विघटित क्वाचत्।
बलयं स्फटिकस्येव को हि संधातुमीश्वरः॥१७८॥
अन्यच्च।
वज्रं च राजतेजश्च द्वयमेवातिभीषणम्।
एकमेकत्रपतति पतत्यन्यत्समन्ततः॥१७९॥
ततः संग्रामे मृत्युरेव वरम्। इदानीं तदाज्ञानुवर्तनमयुक्तम्। यतः।
मृतः प्राप्नोति वा स्वर्गं शत्रुं हत्वा सुखानि वा।
उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ॥१८०॥
युद्धकालश्चायम्।
यत्रायुद्धे ध्रुवं मृत्युर्युद्धे जीवितसंशयः।
तमेव कालं युद्धस्य प्रवदन्ति मनीषिणः॥१८१॥
यतः।
अयुद्धे हि यदा पश्येन्न किंचिद्धितमात्मनः।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह॥१८२॥
जये च लभते लक्ष्मीं मृतावपि सुराङ्गनाम्।
क्षणविध्वंसिनः कायाः का चिन्ता मरणे रणे’॥१८३॥
एतञ्चिन्तयित्वा संजीवक आह—‘भो मित्र, कथमसौ मां जिघांसुर्ज्ञातव्यः?’दमनको ब्रूते—‘यदासौ पिङ्गलकः समुन्नतलाङ्गूल उन्नतचरणो विवृतास्यस्त्वां पश्यति, तदा त्वमेव स्वविक्रमं दर्शयिष्यसि। यतः।
वलवानपिनिस्तेजाः कस्य नाभिभवास्पदम्।
निशङ्कं दीयते लोकैः पश्य भस्मचये पदम्॥१८४॥
किन्तु सर्वमेतत्सुगुप्तमनुष्ठातव्यम्। नो चेन्न त्वं, नाहम्।’ इत्युक्त्वा दमनकः करटकसमीपं गतः। करटकेनोक्तम्—‘किं निष्पन्नम्?’ दमनकेनोक्तम्—‘निष्पन्नोऽसावन्योन्यभेदः।’ करटको ब्रूते—‘कोऽत्रसंदेहः? यतः।
बन्धुः को नाम दुष्टानां कुप्यते को न याचितः।
को नु तृप्यति वित्तेन कुकृत्ये को न पण्डितः॥१८५॥
अन्यच्च।
दुर्वृत्तः क्रियते धूर्तैःश्रीमानात्मविवृद्धये।
किन्नाम खलसंसर्गः कुरुते नाश्रयाशवत्’॥१८६॥
ततो दमनकः पिङ्गलकसमीपं गत्वा ‘देव, समागतोऽसौ पापाशयः। ततः सज्जीभूय स्थीयताम्’इत्युक्त्वा पूर्वोक्ताकारं कार-
यामास। संजीवकोऽप्यागत्य तथाविधं विकृताकारं सिंहं दृष्ट्वा, स्वानुरूपं विक्रमंचकार। ततस्तयोर्युद्धे संजीवकस्सिंहेन व्यापादितः। अथ संजीवकं सेवकं पिङ्गलको व्यापाद्य विश्रान्तः सशोक इव तिष्ठति। ब्रूते च—किं मया दारुणं कर्म कृतम्? यतः।
परैः संभुज्यते राज्यं स्वयं पापस्यभाजनम्।
धर्मातिक्रमतोराजा सिंहो हस्तिवधावि॥१८७॥
अपरं च।
भूम्येकदेशस्य गुणान्वितस्य
भृत्यस्य वा बुद्धिततः प्रणाशः।
भृत्यप्रणाशे मरणं नृपाणां
नष्टापि भूमिः सुलभा न भृत्याः॥१८८॥
दमनको ब्रूते—‘स्वामिन्, कोऽयं नूतनो न्यायः, यदरातिं हत्वा संतापः क्रियते? तथा चोक्तम्—
पिता वा यदि वा भ्राता पुत्रो वा यदि वा सुहृत्।
प्राणच्छेदकराराज्ञाहन्तव्याभूतिमिच्छता॥१८९॥
अपि च।
धर्मार्थकामतत्त्वज्ञोनैकान्तकरूणोभवेत्।
नहि हस्तत्थमप्यन्नं क्षमावान् भक्षितुं क्षमः॥१९०॥
किं च।
क्षमा शत्रौच मित्रे च यतीनामेव भूषणम्।
अपराधिषु तत्त्वेषु नृपाणां सैव दूषणम्॥१९१॥
अपरं च।
राज्यलोभादहंकारादिच्छतः स्वामिनः पदम्।
प्रायश्चितं तु तस्यैकं जीवोत्सर्गोन चापरम्॥१९२॥
अन्यच्च।
राजा घृणी ब्राह्मणः सर्वभक्षः
स्त्री चावशा दुष्प्रकृतिः सहायः।
प्रेष्यः प्रतीपोऽधिकृतः प्रमादी
त्याज्याअमी यश्च कृतं न वेचि॥१९३॥
विशेषतश्च।
सत्यानृता च परुषा प्रियवादिनी च
हिंसा दयालुरपि चार्थपरा वदान्या।
निराव्यवा प्रचुरनित्यधनागमा च
वाराङ्गनेव नृपनीतिरनेकरीतिः’॥१९४॥
इति दमनकेन संतोषितः पिङ्गलकः त्वांप्रकृतिमापन्नःसिंहासने समुपविष्टः। दमनकः प्रहृष्टमनाः ‘विजयतां महाराजः। शुभमस्तु सर्वजगताम्’इत्युक्त्वा यथासुखमवस्थितः॥
विष्णुशर्मोवाच—‘सुहृद्भेदः श्रुतस्तावद्भवद्भिः।’राजपुत्रा ऊचुः— ‘भवत्प्रसादाच्छ्रुण्वन्तः सुखिनो भूता वयम्।’ विष्णुशर्माऽब्रवीत्—‘अपरमयीदमस्तु—
सुहृद्भेदस्तावद्भवतु भवतां शत्रुनिलये
खलः कालाकुष्टः प्रलयमुपसर्पत्वहरहः।
जनो नित्यं भूयात् सकलसुखसंपत्तिवसतिः
कथारम्भे रम्ये सततमिह बालोऽपि रमताम्’॥१९५॥
इति हितोपदेशे सुहृद्भेदो नाम द्वितीयः कथासंग्रहः समाप्तः॥
विग्रहः।
पुनः कथारम्भकाले राजपुत्रा ऊचुः—‘आर्य, राजपुत्रा वयम्। तद्विग्रहं श्रोतुं नः कुतूहलमस्ति। विष्णुशर्मणोक्तम्—यदेव भवद्भ्यो रोचते तत्कथयामि। श्रूयतां विग्रहोयस्यावमाद्यः श्लोकः—
हंसैःसह मयूराणां विग्रहेतुल्यधिक्रमे।
विश्वास्यविजिता हंसाः काकैःस्थित्वाऽरिमन्दिरे’॥१॥
राजपुत्रः ऊयुः—कथमेतत्?’विष्णुशर्माकथयति—
‘अस्ति कर्पूरद्वीपेपद्मकेलिनामधेयं सरः। तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति। स च सर्वैर्जलपक्षिभिर्मिलित्वा पक्षिराज्येऽभिषिक्तः। यतः।
यदि न त्यान्नरपतिः सम्यङ्नेता ततः प्रजा।
अकर्गधारा जल वितेह नौरिव॥२॥
अपरं च ।
प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम्।
वर्धनाद्रक्षणंश्रेयस्तदभावे सदप्यसत्॥३॥
एकदासौ राजहंसः सुविस्तीर्णकमलपर्यङ्के सुखासीनः परिवारपरिवृतस्तिष्ठति। ततः कुतश्चिद्देशादागत्य दीर्घमुखो नामबकः प्रणन्योपविष्टः। राजोवाच—‘दीर्घमुख, देशान्तरादागतोऽसि। बार्तां कथय।’स ब्रूते—‘देव, अस्ति नहती वार्ता। तांवक्तुं सत्वरमागतोऽहम्। श्रूयताम्। अस्ति जम्बूद्वीपे विन्ध्यो नाम
गिरिः। तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति। तस्यानुचरैश्चरद्भिः पक्षिभिरहं दग्धारण्यमध्ये चरन्नवलोकितः पृष्टश्च—‘कस्त्वम्?।कुतः समागतोऽसि?’इति। तदा मयोक्तम्—‘कर्पूरद्वीपस्यराजचक्रवर्तिनो हिरण्यगर्भस्य राजहंसस्यानुचरोऽहम्। कौतुकाद्देशान्तरं द्रष्टुमागतोऽस्मि।’इति। एतच्छ्रुत्वा पक्षिभिरुक्तम्—‘अनयोर्देशयोः को देशो भद्रतरः? राजा च?’मयोक्तम्—‘आः, किमेवमुच्यते? महदन्तरम्। यतः कर्पूरद्वीपः स्वर्ग एव द्वितीयः। राजहंसश्चद्वितीयः स्वर्गपतिः। अत्र मरुस्थले पतिता यूयंकिं कुरुथ? अस्मद्देशे गम्यताम्।’ततोऽस्मद्वचनमाकर्ण्य सर्वेसकोपा बभूवः। तथा चोक्तम्—
पयःपानं भुजंगानां केवलंविषवर्धनम्।
उपदेशो हि मुर्खाणां प्रकोपाय न शान्तये॥४॥
अन्यच्च।
विद्वानेयोपदेष्टव्यो नाविद्वांस्तु कदाचन।
वानरानुपदिश्याथ स्थानभ्रष्टाययुः खगाः’॥५॥
राजोवाच—‘कथमेतत्?’दीर्घमुखः कथयति—
कथा १।
अस्ति नर्मदातीरे विशालः शाल्मलीतरुः। तत्र निर्मितेषु नीडकोडेषु पक्षिणो निवसन्ति सुखेन वर्षासु। अथ नीलपटलैरावृते नभस्तले धारासारैर्महती वृष्टिर्वभूव। ततो वानरांश्च तरुतलेऽवस्थितान् शीताकुलान् कम्पमानानवलोक्य कृपया पक्षिभिरुक्तम्—‘भो भो वानराः, शृणुत।
अस्माभिर्निर्मिता नीडाश्चञ्चुमात्राहृतैस्तृणैः।
हस्तपादादिसंयुक्ता यूयं किमिति सीदथ?’॥६॥
तच्छ्रुत्वा वानरैर्जातरोपैरालोचितम्—अहोनिर्वातनीडगर्भावस्थिताः सुखिनः पक्षिणोऽस्मान्निन्दन्ति। भवतु तावद्वृष्टेरूपशमः। अनन्तरमेकेन वानरेणोक्तम्—
‘सूचीमुखा दुराचारा मूर्खाःपण्डितमानिनः।
अशक्ता गृहनिर्मााणे शक्ताश्च गृहभञ्जने’॥७॥
अनन्तरं शान्ते पानीयवर्षे नैर्वानरैः वृक्षमारुह्य सर्वे नीडा भग्नाः। तेषामण्डानि चाधःपतितानि। अतोऽहं ब्रवीमि—‘विद्वानेवोपदेष्टव्य’ इत्यादि॥
राजोवाच—‘ततस्तैः किं कृतम्? बकः कथयति—ततस्तैः कोपादुक्तम्—‘केनासौराजहंसो राजा कृतः?’ततो मयोपजातकोषेनोक्तम्—‘युष्मदीयो मयूरः केन राजा कृतः?एतच्छ्रुत्वा ते सर्वे मां हन्तुमुद्यताः। ततो मयाऽपि स्वविक्रमो दर्शितः। यतः।
अन्यदा भूषणं पुंसां क्षमा लज्जेव योपिताम्।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव॥८॥
राजा विहस्याह—
‘आत्मनश्च परेषां च यः समीक्ष्य बलाबलम्।
अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः॥९॥
अन्यच।
सुचिरं हि चरन्नित्यं क्षेत्रे सस्यमबुद्धिमान्।
द्वीपिचर्मपरिच्छन्नो वाग्दोषाद्गर्दभो हतः’॥१०॥
वकः पृच्छति—कथमेतत्?’राजा कथयति—
कथा २।
अस्ति हस्तिनापुरे विलासो नाम रजकः। तस्य गर्दभोऽतिभारवाहनाद्दुर्बलो मुमूर्षुरिवाभवत्। ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यसमीपे सस्यक्षेत्रे नियुक्तः। ततो दूरादवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतयः सत्वरं पलायन्ते। गर्दभस्तत्सस्यभक्षणाद्दिनेदिने पुष्टाङ्गोऽभवत्। अथ केनापि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन धनुःकाण्डं सज्जीकृत्यैकान्ते स्थितम्। तं च दूरादृष्ट्वा गर्दभः शब्दं कुर्वाणस्तदभिमुखं प्रधावितः। सस्यरक्षकेण गर्दभोऽयमिति ज्ञात्वा लीलयैव व्यापादितः। अतोऽहं ब्रवीमि—सुचिरं हि चरन्नित्यम्’इत्यादि॥
दीर्घमुखो ब्रूते—‘ततः पक्षिभिरुक्तम्—‘अरे पाप दुष्ट वक, अस्माकं भूमौ चरन्नस्मत्स्वामिनमधिक्षिपसि? तन्नक्षन्तव्यमिदानीम्’इत्युक्त्वा सर्वे मां चञ्चुभिर्हत्वा सकोपा ऊचुः—‘पश्य रे मूर्ख, स हंसस्तव राजा सर्वथा मृदुः। तस्य राज्याधिकारो नास्ति। यतः। एकान्तमृदुः करतलस्थमप्यर्थं रक्षितुमक्षमः। स कथं पृथिवीं शास्ति? राज्यं वा तस्यं किम्? किंतु त्वं कूपमण्डूकसमः। तेन तदाश्रयमुपदिशसि। शृणु।
सेवितव्यो महान् बृक्षः फलच्छायासमन्वितः।
यदि दैवात् फलं नास्ति च्छाया केन निवार्यते॥११॥
अन्यच्च।
हीनाश्रयो न कर्तव्यः कर्तव्यो महदाश्रयः।
पयोऽपि शौण्डिनीहस्ते वारुणीत्यभिधीयते॥१२॥
अपरं च।
न स्थातव्यं न गन्तव्यं क्षणमप्यसता सह।
असतां सङ्गमो मृत्युः सतां सङ्गो हि भेषजम्॥१३॥
अन्यच्च।
महानव्यल्पतां याति निर्गुणे गुणविस्तरः।
आधाराधेयभावेन गजेन्द्र इव दर्पणे॥१४॥
विशेषतश्च।
व्यपदेशेऽपि सिद्धिः स्यादतिशक्ते नराधिपे।
शशिनो व्यपदेशेन शशकाः सुखमासते'१५॥
मयोक्तम्—’ कथमेतत्?’ पक्षिणः कथयन्ति—
कथा ३।
कदाचिद्वर्षास्वपि वृष्टेरभावात् तृषार्तो गजयूथो यूथपतिमाह—’ नाथ, कोऽप्युपायोऽस्माकं जीवनाय? नास्ति क्षुद्रजन्तूनां निमज्जनस्थानम्। वयं च निमज्जनाभावादन्धा इव। क्क यामः? किं वा कुर्मः? ततो हस्तिराजो नातिदूरं गत्वा निर्मलंह्रदं दर्शितवान्। अनन्तरं तत्तीरावस्थिताः शशका गजयूथपदाहतिभिश्चूर्णिता वभूवुः। अनन्तरं शिलीमुखो नाम शशको मन्त्रयामास—’ अनेन गजयूथेन पिपासाकुलितेन प्रत्यहमलागन्तव्यम्। अतो विनष्टमस्मत्कुलम्’। ततो विजयो नाम वृद्धशशकोऽवदत्—’ मा विषीदत। मयाऽत्र प्रतीकारः कर्तव्यः।‘इति प्रतिज्ञाय चलितः। गच्छता च तेनालोचितम्— कथं मया गजयूथनिकटे स्थित्वा कर्तव्यम्। यतः।
स्पृशन्नपि गजो हन्ति घ्राणेनापि भुजंगमः।
पालयन्नपि भूपालः प्रहसन्नपि दुर्जनः॥१६॥
अथाहं पर्वतशिखरमारुह्य यूथनाथं निवेदयामि।’ तथाऽनुष्ठिते यूथनाथ उवाच—’ कस्त्वम्? कुतः समायातः?’ इति। स ब्रूते— ‘दूतोऽहं भगवता चन्द्रेण प्रेषितः।’ यूथपतिराह— कार्यमुच्यताम्।’ विजयो वदति—
उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा।
सदैवावध्यभावेन यथार्थस्य हि वाचकः॥१७॥
तदहं तदाज्ञया ब्रवीमि। शृणु। ‘यदेते शशकाश्चन्द्रसरोरक्षकास्त्वया निस्सारितात्तन्न भद्रं कृतं। यतोऽस्मद्रक्षिताः। अत एव मम शशीति प्रसिद्धिः। एवमुक्तवति दूते यूथपतिर्भयादिदमाह— ‘इदमज्ञानतः कृतम्। पुनर्नागमिष्यामि। दूत उवाच— ‘तदत्न सरसि भगवन्तं चन्द्रमसं कोपात् प्रकम्पमानं प्रणम्य प्रसाद्य च गच्छ।’ ततस्तेन रात्रौ नीत्वा तत्र सरसिजले चञ्चलं चन्द्रप्रतिबिम्बं दर्शयित्वा यूथपतिः प्रणामं कारितः। देवाज्ञानादनेन कृतं क्षम्यताम्।’ इत्युक्त्वा तेन शशकेन स यूथपतिः प्रस्थापितश्च। अतोऽहं ब्रवीमि— ‘व्यपदेशेऽपि सिद्धिः स्यात्’ इत्यादि॥
ततो मयोक्तम्— ‘स एवास्मत्प्रभुर्महाप्रतापोऽतिसमर्थस्त्रैलोक्यस्याऽपि प्रभुत्वं तत्नयुज्यते।’ अथाहं तैः पक्षिभिर्वद्ध्वाकथमस्मद्भूमौ चरसि’ इत्यभिधाय चित्रवर्णस्य राज्ञः समीपं नीतः। ततो राज्ञः पुरतो मामुद्दिश्य तैः प्रणम्योक्तम्— ‘देवावधीयताम्, एष दुष्टबकोऽस्मदेशे चरन्नपि देवपादानधिक्षिपति।’
राजाह— ’ कोऽयम्? कुतः समायातः?’ त ऊचुः— ‘हिरण्यगर्भस्य राजहंसस्यानुचरः कर्पूरद्वीपादागतः।‛ अथाहं गृध्रेणमन्त्रिणा पृष्टः— ‘कस्तत्न मुख्य मन्त्री?’ इति मयोक्तम्—सर्वशास्त्रार्थपारगः सर्वज्ञो नाम चक्रवाकः।’ गृध्रो ब्रूते— ‘युज्यते। स्वदेशजोऽसौ। यतः।
स्वदेशजं कुलाचारे विशुद्धमुपधाशुचिम्।
शास्त्रज्ञमव्यसनिनं व्यभिचारविवर्जितम्॥१८॥
अधीतव्यवहारार्थं ख्यातं मोलं विषश्चितम्।
अर्थस्योत्पादकं सम्यङ्निध्यान्मन्त्रिणं नृपः॥१९॥
अत्रान्तरे शुकेनोक्तम्— ‘देव, कर्पूरद्वीपायोलघुद्वीपा जम्वृद्वीपान्तर्गता एव। तत्रापि देवपादानामाधिपत्यम्। ततो राज्ञाप्युक्तम्— ‘एवमेव। यतः।
राजा मत्तः शिशुश्चैव प्रमादी धनगर्वितः।
अप्राप्यमभिवाञ्छन्ति किं पुनर्लभ्यतेऽपि यत्॥२०॥
ततो मयोक्तम्— ‘यदि वचनमात्रेणैवाधिपत्यं सिद्ध्यति। तदा जम्बूद्वीपेऽध्यस्मत्प्रभोर्हिरण्यगर्भस्य स्वाम्यमस्ति।’ शुको ब्रूते— ‘कथमत्र निर्णयः?’ मयोक्तम्— ‘संग्राम एव।’ राज्ञा विहस्योक्तम्— ‘स्वस्वामिनं गत्वा सज्जीकुरु।’ तदा मयोक्तम्— ‘स्वदूतोऽपि प्रस्थाप्यताम्।’ राजोवाच— ‘कः प्रस्थाप्यते दौत्येन? यत एवंभूतो दूतः कार्यः?
भक्तो गुणी शुचिर्दक्षः प्रगल्भोऽव्यसनी क्षमी।
ब्राह्मणः परमर्मज्ञो दूतः स्यात् प्रतिभानवान्॥२१॥
गृध्रो वदति— ‘सन्त्येव दूता बहवः। किंतु ब्राह्मण एव कर्तव्यः। यतः।
प्रसादं कुरुते पत्युः संपत्तिं नाभिजातता।
कालिमा कालकूटस्यनापैतीश्वरसंगमात्’॥२२॥
राजाह— ‛ततः शुक एवव्रजतु। शुक, त्वमेवानेन सह गत्वास्मदभिलषितंब्रूहि।’ शुको ब्रूते— ‘यथाज्ञापयति देवः। किं स्वयं दुर्जनो बकः। दुर्जनेन सह क्वचिन्न गच्छामि। तथा चोक्तम्—
खलः करोति दुर्वृत्तं नूनं फलति साधुषु।
दशाननोऽहरत्सीतां बन्धनं स्यान्महोदधेः॥२३॥
अपरं च।
न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित्।
काकसङ्गाद्धतो हंसस्तिष्ठन्गच्छंश्च वर्तकः’॥२४॥
राजोवाच— ‘कथमेतत्?’ शुकः कथयति—
कथा ४।
अस्त्युज्जयिनीवर्त्मनि प्रान्तरे महान् पिप्पलवृक्षः। तत्र हंसकाकौ निवसतः। कदाचिद्ग्रीष्मसमये परिश्रान्तः कश्चित् पथिकस्तरुतले धनुःकाण्डं सन्निधाय सुप्तः। ततः क्षणान्तरे तन्मुखाद्वृक्षच्छायाऽपगता। ततः सूर्यतेजसा तन्मुखं व्याप्तमवलोक्य कृपया वृक्षास्थितेन हंसेन पक्षौ प्रसार्य च्छाया कृता। ततो निर्भरनिद्रासुखेन तेन मुखव्यादानं कृतम्। अथ परसुखमसहिष्णुः स्वभावदौर्जन्येन स काकस्तन्मुखे पुरीषोत्सर्गं कृत्वा पलायितः।
ततोऽसावुत्थायोर्ध्वं यावत् पश्यति, तावद्धंसो दृष्टस्तेन शरेण हत्वा व्यापादितः। यतः।
त्यज दुर्जनसंसर्गं भज साधुसमागमम्।
कुरु पुण्यमहोरात्रं स्मरनित्यमनित्यताम्॥२५॥
देव, वर्तकवार्तामपि कथयामि—
कथा ५।
एकदा सर्वे पक्षिणो भगवतो गरुडस्य यात्राप्रसङ्गेन समुद्रतीरं चलिताः। तत्र काकेन सह स वर्तकश्चलितः। अथ गच्छतो गोपस्य शिरति स्थिताद्दधिभाण्डाद्दधि वारंवारं तेन काकेन खाद्यते। ततो यावदसौ दधिभाण्डं भूमौ निधायोर्ध्वमवलोकते,तावत् तेन काकवर्तकौ दृष्टौ। ततस्तेन खेदितः काकः पलायितः। वर्तकः स्वभावनिरपराधो मन्दगतिस्तेन प्राप्तो व्यापादितः। अतोऽहं ब्रवीमि— ‛न स्थातव्यं न गन्तव्यम्’ इत्यादि॥
ततो मयोक्तम्— ‘भ्रातः शुक, किमेवं ब्रवीषि? मां प्रति यथा श्रीमद्देवपादास्तथा भवानपि।’ शुको ब्रूते— एवमस्तु। किंतु,
दुर्जनैरुच्यमानानि सस्मितानि प्रियाण्यपि।
अकालकुसुमानीव भयं संजनयन्ति मे॥२६॥
दुर्जनत्वं च भवतो वाग्व्यापारादेव प्रत्यक्षीकृतं यदनयोर्भूपालयोर्विग्रहे भवद्वचनं निदानम्। पश्य।
प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति।
रथकारो निजां भार्यां सजारां शिरसाकरोत्’॥२७॥
राजोवाच— ‘कथमेतत्?’ शुकः कथयति—
कथा ६।
अस्ति श्रीनगरे मन्दमतिर्नाम रथकारः। स च स्वभार्यां बन्धकीं जानाति। किंतु जारेण समं स्वचक्षुवैकस्थाने न पश्यति। ततोऽसौ रथकारोऽन्यग्रामं गमिष्यामीत्युक्त्वा चलितः। कियद्दूरं गत्वा पुनरागत्य स्वगृहे खट्वातलं प्रविश्य निभृतं स्थितः। अथ तथा भर्ता ग्रामान्तरं गत इति विश्वासाज्जारः सन्ध्याकाल आहूतः। पश्चात् तेन सा तस्यां खट्वायां निर्भरं क्रीडति। खट्वातले किञ्चिदङ्गस्पर्शात् स्वामिनं विज्ञाय सा विषण्णाऽभवत्। ततो जारेणोक्तम्— ‘किं मया सहाद्य निर्भरं न रमसे?’ विस्मितेव प्रतिभासि !’ तयोक्तम्— ‘योऽसौ प्राणेश्वरः सोऽद्य ग्रामान्तरं गतः। तेन सकलजनचूर्णोऽप्ययं ग्रामो मां प्रत्यरण्यमिव प्रतिछभाति। किं भावि तत्र परस्थाने? किं खादितवान्। कथं वा प्रसुप्त इत्यस्मद्धृदयं विदीर्यते। जारेणोकम्— ‛तत् किमेवंविवः स्नेहभूमिस्ते रथकारो यः कलहकारी बन्दकीति ब्रूते?’
ततस्तयोक्तम्— ‘रे बर्वर, किं ब्रवीषि। शृणु।
परुषाण्यपि या चोक्ता या दृष्टा वा क्रोधचक्षुषा।
या प्रसन्नमुखी भर्तुः सा नारी धर्मभागिनी॥२८॥
अपरं च।
नगरस्थो वनस्थो वा पापो वा यदि वाशुचिः।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः॥२९॥
अन्यच्च।
भर्ता हि परमं नार्याभूषणं भूषणैर्विना।
एषा विरहिता तेन शोभनापि न शोभना॥३०॥
त्वं जारः मनोलौल्यात् पुष्पताम्बूलसदृशः कदाचित् सेव्यसे। स च स्वामी मां विक्रेतुं देवेभ्यो ब्राह्मणेभ्योऽपि दातुं समर्थः स्यात्। किं वहुना?
तस्मिन् जीवति जीवामि मृते तस्मिन् म्रिये पुनः।
तन्मृतौ चानुमरणमेष मे दृढनिश्चयः॥३१॥
चतः।
तिस्रः कोट्योऽर्धकोटीच यानि लोमानि मानवे।
तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति॥३२॥
अन्यच्च।
व्यालग्राही यथा व्यालं बलादुद्धरते विलात्।
तद्वद्भर्तारमादाय स्वर्गलोके महीयते॥३३॥
अपरं च।
चितौ परिष्वज्य विचेतनं पतिं
प्रिया हि या मुञ्चति देहमात्मनः।
कृत्वाऽतिपापं शतलक्षमप्यसौ
पतिं गृहीत्वा सुरलोकमाप्नुयात्॥३४॥
यतः।
यस्मै दद्यात् पिता त्वेनां भ्राता चानुमते पितुः।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत्॥३५॥
एतत्सर्वं श्रुत्वा स रथकारो ‘धन्योऽहं यस्यैतादृशी भार्या स्नेहवती प्रियवादिनी’ इति मनसि निधाय तां खट्वांस्त्रीपुरुषसहितां मूर्ध्नि कृत्वा,चिरं ननर्त। अतोऽहं ब्रवीमि ‘प्रत्यक्षेऽपि कृते दोष’ इत्यादि॥
अतोऽहं तेन राज्ञा यथाव्यवहारं संपूज्य प्रस्थापितः। शुकोऽपि मम पश्चादागच्छन्नास्ते। एतत्सर्वं ज्ञात्वा यथाकर्तव्यमनुष्ठीयता‛ मिति॥
चक्रवाको विहस्याह— ‘देव, बकेन तावद्देशान्तरं गत्वा यथाशक्ति राजकार्यमनुष्ठितम्। किंतु स्वभाव एष मूर्खाणाम्।
यतः।
शतं दद्यान्न विवदेदिति प्राज्ञस्य लक्षणम्।
विना हेतुमपि द्वन्द्वनेतन्मूर्खस्य लक्षणम्॥३६॥
राजाह— ‘अलमनेनोपालम्भेन। प्रस्तुतमनुसंधीयताम्।’ चक्रवाको ब्रूते— ‘देव, विजने ब्रवीमि। यतः।
वर्णकारप्रतिध्वीनैर्नेत्रवक्रविकारतः।
अप्यूहन्ति मनो धीरास्तस्माद्रहति मन्त्रयेत्॥३७॥
ततो राजा मन्त्री च तत्र स्थितौ। अन्येऽन्यत्र गताः। चक्रवाको ब्रूते— ‘देवाहमेवं जानामि। कस्याप्यस्मन्नियोगिनः प्रेरणया बकेनेदमनुष्ठितम्। यतः।
वैद्यानामातुरः श्रेयान्व्यसनी यो नियोगिनाम्।
विदुषां जीवनं मूर्खः सद्वर्णो जीवनं सताम्’॥३८॥
राजाब्रवीत्— ‘भवतु। कारणमत्र पश्चान्निरूपणीयम्। संप्रति यत्कर्तव्यं तद्ब्रूहि।’ चक्रवाको ब्रूते— ‘प्रणिधिः प्रहीयताम्। ततस्तदनुष्ठानं बलाबलं च जानीमः। यतः।
भवेत्स्वपरराष्ट्राणां कार्याकार्यावलोकने।
चारचक्षुर्महीभर्तुर्यस्य नास्त्यन्ध एव सः॥३९॥
स च द्वितीयं विश्वासपात्रं गृहीत्वा यातु। तेनासौ स्वयं तत्रावस्थाय द्वितीयं तत्रत्यमन्त्रकार्यं सुनिभृतं निश्चित्य निगद्य प्रस्थापयिष्यति। तथा चोक्तम्—
तीर्थाश्रमसुरस्थाने शास्त्रविज्ञानहेतुना।
तपस्विव्यञ्जनोपेतैः स्वचरैः सह संवदेत्॥४०॥
गूढचारश्च यो जले स्थले चरति, ततोऽसावेव वको नियुज्यताम्। एतादृश एव कश्चिद्वको द्वितीयत्वेन प्रयातु। तद्गृहलोकाश्च राजद्वारे तिष्ठन्तु। किंतु देव, एतदपि सुगुप्तमनुष्ठातव्यम्। यतः।
षट्कर्णीभिद्यते मन्त्रस्तथा प्राप्तश्च वार्तया।
इत्यात्मना द्वितीयेन मन्त्रःकार्यो महीभृता॥४१॥
अपरं च।
मन्त्रभेदेऽपि ये दोषा भवन्ति पृथिवीपतेः।
न शक्यास्ते समाधातुमिति नीतिविदां मतम्’॥४२॥
राजा विमृश्योवाच— ‘प्राप्तस्तावन्मयोत्तमः प्रणिधिः।’ मन्त्री ब्रूते— ‘देव, तदा संग्रामे जयोऽपि प्राप्तः’ अत्रान्तरे प्रतीहारः प्रविश्य प्रणम्योवाच—‘देव, जम्बूद्वीपादागतो द्वारि शुकस्तिष्ठति’ राजा चक्रवाकमालोकते। चक्रवाकेनोक्तम्— ‘तावद्गत्वावासे तिष्ठतु। पश्चादानीय द्रष्टव्यः।’ यथाज्ञापयति देव’ इत्यभिधाय प्रतीहारः शुकं गृहीत्वा गतः। राजाह— ‘विग्रहस्तावदुपस्थितः’ चक्रवाको ब्रूते— ‘देव, तथापि। सहसा विग्रहो न विधिः।
स किंभृत्यः स किंमन्त्री य आदावेव भूपतिम्।
युद्धोद्योगं स्वभूत्यागं निर्दिशत्यविचारितम्॥४३॥
अपरं च।
विजेतुं यतते चारीन् स युद्धेन कदाचन।
अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः॥४४॥
अन्यच्च।
साम्ना दानेन भेदेन समस्तैरथवा पृथक्।
साधितुं प्रयतेतारीन् न युद्धेन कदाचन॥४५॥
यतः।
सर्व एव जनः शूरो ह्यनासादितविग्रहः।
अदृष्टपरसामर्थ्यः सदर्पः को भवेन्नहि॥४६॥
किं च।
न तथोत्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा।
अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत्॥४७॥
किंतु विग्रहमुपस्थितं विलोक्य व्यवह्रियताम्। यतः।
यथाकालकृतोद्योगात् कृषिः फलवती भवेत्।
तद्वन्नीतिरियं देव चिरात्फलांते न क्षणात्॥४८॥
अपरं च।
महतो दूरभीरुत्वमासन्ने शूरतागुणाः।
विपत्तौ हि महान् लोके धीरत्वमनुगच्छति॥४९॥
अन्यच्च।
प्रत्यूहः सर्वसिद्धीनामुत्तापः प्रथमः किल।
अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतः॥५०॥
विशेषतश्च महाबलोऽसौ चित्रवर्णो राजा। यतः।
बलिना सह योद्धव्यमिति नास्ति निदर्शनम्।
तद्युद्धं हस्तिना सार्धं नराणां मृत्युमावहेत्॥५१॥
अन्यच्च।
स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते।
कलिर्बलवता सार्धं कीटपक्षो दमो तथा॥५२॥
किं च।
कौर्मं संकोचमास्थाय प्रहारमपि मर्षयेत्।
प्राप्तकाले तु नीतिज्ञ उत्तिष्ठेत्क्रूरसर्पवत्॥५३॥
महत्यल्पेऽप्युपायज्ञः सम एव भवेत्क्षमः।
समुन्मूलयितुं वृक्षान् तृणानीव नदीरयः॥५४॥
** अतस्तद्दूतोऽप्याश्वास्य तावद्ध्रियतां यावद्दुर्गः सज्जीक्रियते। यतः।**
एकः शतं योधयति प्राकारस्थो धनुर्धरः।
शतं शतसहस्राणि तस्माद्दुर्गं विशिष्यते॥५५॥
किं च।
अदुर्गविषयः कस्य नारेः परिभवास्पदम्।
अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत्॥५६॥
दुर्गं कुर्यान्महाखातमुच्चप्राकारसंयुतम्।
सयन्त्रंसजलं शैलसरिन्मरुवनाश्रयम्॥५७॥
विस्तीर्णताऽतिवैषम्यं रसधान्येध्मसंग्रहः।
प्रवेशश्चापसारश्च सप्तैता दुर्गसंपदः॥५८॥
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गवलानि च।
परस्परोपकारीणि राज्यं सप्ताङ्गमुच्यते॥५९॥
दुर्गाध्यक्षो बलाध्यक्षो धनाध्यक्षश्च भूपतिः।
दूतः पुरोधा दैवज्ञो भिषजो मन्त्रिणो मताः॥६०॥
राजाह— ‘दुर्गस्यानुसंधाने को नियुज्यताम्?’ चक्रवाको ब्रूते
‘यो यत्र कुशलः कार्ये तत्र तं विनियोजयेत्।
कार्येष्वदृष्टकर्मा यः शास्त्रज्ञोऽपि विमुह्यति॥६१॥
तदाहूयतां सारसः। तथाऽनुष्ठितं सतिं समागत सारसमालोक राजोवाच— ‛भोः सारस, त्वं सत्वरं दुर्गमनुसंधेहि?’ सारस प्रणम्योवाच— ‛देव, दुर्गंतावदिदं पुरात् सुनिरूपितमास्तेमहत्सरः। किं त्वेतन्मध्यवर्तिनि द्वीपे धान्यसंग्रहः क्रियताम्
यतः।
धान्यानां संग्रहो राजन्नुत्तमः सर्वसंग्रहात्।
निक्षिप्तं हि मुखे रत्नं न कुर्यात्प्राणधारणम्॥६२॥
किं च।
ख्यातः सर्वरसानां हि लक्षणो रस उत्तमः।
गृह्णीयात् तं विना तेन व्यञ्जनं गोमयायते’॥६३॥
राजाह— ‘सत्वरं गत्वा सर्वमनुष्ठीयताम्’—
पुनः प्रविश्य प्रतीहारो ब्रूते— ‘देव, सिंहलद्वीपादागतो मेघवर्णो नाम वायसः सपरिवारो द्वारि तिष्ठति। देवपादान् द्रष्टुमिच्छति।’ राजाह— ‘काकः प्राज्ञो बहुद्रष्टा च। तद्भवति संग्राह्यः’ चक्रवाको ब्रूते— ‘काकः स्थलचरः। वयं जलचराः। तेनास्मद्विपक्षपक्षे विक्षिप्तः कथं संगृह्यते। तथा चोक्तम्—
आत्मपक्षं परित्यज्य परपक्षे तु यो रतः।
स परैर्हन्यते मूढो नीलवर्णसृगालवत्’॥६४॥
राजोवाच— ‘कथमेतत्?’ मन्त्री कथयति—
कथा ७।
अस्ति कस्मिंश्चिद्वने सृगालः कश्चित्। स स्वेच्छया नगरोयान्ते भ्राम्यन्नीलीपाचनभाण्डे निपतितः। पश्चादुत्थातुमसमर्थः प्रातरात्मानं मृतवत्संदर्श्यस्थितः। अथ नीलीभाण्डस्वामिना स सृगाल ऊर्ध्वचरणो निमीलितनयनो निष्कासितदन्तो मृत इति मत्वा तत उत्थाप्य दूरं नीत्वा परित्यक्तः पलायितः। ततोऽसौ वनं गत्वात्मानं नीलवर्णमवलोक्याचिन्तयतू— ‘अहमिदानींनीलवर्ण उत्तमवर्णः। तदात्मन उत्कर्षं किं न साधयामि?’ इति मत्वा सृगालानाहूय तेनोक्तम्— ‘अहं भगवत्या वनदेवतया स्वहस्तेनारण्यराज्ये सर्वौषधिरसेनाभिषिक्तः। पश्यत यूयं मम वर्णम्। तदद्यारभ्यास्मदाज्ञयाऽस्मिन्नरण्ये व्यवहारः कार्यः।’ सृगालाश्च तं विशिष्टवर्णमवलोक्य साष्टाङ्गपातं प्रणम्योचुः— ‘यथाज्ञापयति देवः।’ ततोऽनेन क्रमेण सर्वेषु पशुषु स्वाधिपत्यं तेन स्वज्ञातिभिरावृतेनाधिकं साधितम्। ततस्तेन सिंहव्याघ्रादीनुत्तमपरिजनान् प्राप्य सृगालानवलोक्य लज्जमानेनावज्ञाय स्वज्ञातयस्सर्वे दूरीकृताः। ततो विषण्णान् सृगालानवलोक्य वृद्धसृगालेन प्रतिज्ञातम्— ‘मा विषीदत। एवं चेदनेनानीतिज्ञेन वयं मर्मज्ञाः परिभूताः। तद्यथाऽयं नश्यति तन्मया विधेयम्। यतोऽत्र व्याघ्रादयो वर्णमात्रविप्रलब्धाः सृगालमज्ञात्वा राजान-
मेनं सेवन्ते। तद्यथाऽयं परिचीयते तथा कुरुत। तत्रैवमनुष्ठेयम्। यत् सन्ध्यासमयेऽस्य संनिधाने महारावमेकं करिष्यथ। ततस्तं शब्दमाकर्ण्य जातिस्वभावात् तेनाऽपि शब्दः कर्तव्यः। ततस्तथाऽनुष्ठिते सति तद्वृत्तम्। यतः।
यः स्वभावो हि यस्य स्यात् तस्यासौ दुरतिक्रमः।
श्वा यदि क्रियते राजा स किं नाश्नात्युपानहम्॥६५॥
ततस्तथाऽनुष्ठिते सृगालोऽयमित्यभिज्ञाय व्याघ्रेण हतः। तथा चोक्तम्—
छिद्रं मर्म च वीर्यं च सर्वं वेत्तीह यो रिपुः।
दहत्यन्तर्गतश्चैव शुष्कवृक्षमिवानलः॥६६॥
अतोऽहं ब्रवीमि— ‘आत्मपक्षं परित्यज्य’ इत्यादि॥
राजाह— ‘यद्येवं तथाऽपि दृश्यतां तावदयं दूरादागतः। तत्संग्रहे विचारः कार्यः।’ चक्रवाको ब्रूते— ‘देव, प्रणिधि प्रहितो दुर्गं च सज्जीकृत मतः शुकोऽप्यानीय प्रस्थाप्यताम्।
यतः।
नन्दं जघान चाणक्यस्तीक्ष्णदूतप्रयोगतः।
तच्चारान्तरितं दूतं पश्येद्वीरसमन्वितः॥६७॥
ततः सभां कृत्वाहूतः शुकः काकश्च। शुकः किंचिदुन्नतशिराः दत्तासन उपविश्य ब्रूते— ‘भो हिरण्यगर्भ, महाराजाधिराजः श्रीमच्चित्रवर्णस्त्वां समाज्ञापयति। यदि जीवितेन श्रिया वा प्रयोजनमस्ति तदा सत्वरमागत्यास्मच्चरणौ प्रणम। न चेदवस्थातुं स्थानान्तरं चिन्तय।’ राजा सकोपमाह— ‘आः, कोऽप्यस्माकं
पुरतो नास्ति, य एनं गलहस्तयति?’ तत उत्थाय मेघवर्णो ब्रूते— ‘देव, आज्ञापय। हन्मि दुष्टं शुकम्।’ अत्रान्तरे चक्रवाको राजानं काकं च सान्त्वयन्नाह— ‘शृणुतं तावत्।
न सा सभा यत्र न सन्ति वृद्धाः
वृद्धा न ते ये न वदन्ति धर्मम्।
धर्मः समो यत्र न सत्यमस्ति
सत्यं न तद्यच्छलमभ्युपैति॥६८॥
यतो धर्मश्चैवं किं च।
दूतो म्लेच्छोऽप्यवध्यः स्याद्राजा दूतमुखो यतः।
उद्यतेष्वपि शस्त्रेषु नृपतेः किं पुनर्द्विजः॥६९॥
तथाहि।
स्वापकर्षं परोत्कर्षं दूतोक्तैर्मन्यते तु कः।
सदैवावध्यभावेन दूतः सर्वं हि जल्पति’॥७०॥
ततो राजा काकश्च स्वां प्रकृतिमापन्नौ। शुकोऽप्युत्थाय चलितः। पश्चाच्चक्रवाकेणानीय प्रबोध्य कनकालंकारादिकं दत्वा संप्रेषितः स्वदेशं ययौ। ततो विन्ध्याचलं गत्वा स्वराजं चित्रवर्णं प्रणतवान्। तमालोक्य चित्रवर्णो राजाह— ‛शुक, का वार्ता? की दृशोऽसौ देशः?’ शुको ब्रूते— ‘देव संक्षेपादियं वार्ता। संप्रति युद्धोद्योगः क्रियताम्। देशवासौकर्पूरद्वीपः स्वर्गैकदेशः। राजा च द्वितीयः स्वर्गपतिः। कथं वर्णयितुं शक्यते?’ ततः सर्वान् शिष्टानाहूय राजा मन्वयितुमुपविष्टः। स आह— ‘संप्रति कर्तव्यविग्रहविषये यथा कर्तव्यमुपदिश्यताम्। विग्रहोऽवश्यं कर्तव्यः। तथा चोक्तम्—
असंतुष्टा द्विजा नष्टाः संतुष्टा इव पार्थिवाः।
सलज्जागणिका नष्टा निर्लज्जा च कुलाङ्गना’॥७१॥
दूरदर्शी नाम गृध्रो ब्रूते— ‘देव, व्यसनितया विग्रहो न विधिः।
यतः।
मित्रामात्यसुहृद्वर्गा यदा स्युर्दृढभक्तयः।
शत्रूणां विपरीताश्च कर्तव्यो विग्रहस्तदा॥७२॥
अन्यच्च।
भूमिर्मित्रंहिरण्यं न विग्रहस्य फलं त्रयम्।
यदैतन्निश्चितं भावि कर्तव्यो विग्रहस्तदा’॥७३॥
राजाह— ‘मद्बलं तावदवलोकयतु मन्त्री। तदैतेषामुपयोगो ज्ञायताम्। एवमाहूयतां मौहूर्तिकः। शुभलग्नं यात्रार्थं करोतु।’ मन्त्री बदति— ‘देव, तथाऽपि सहसा यात्राकरणमयुक्तम्।
यतः।
विशन्ति सहसा मूढा येऽविचार्य द्विषद्बलम्।
खड्गधारापरिष्वङ्गं लभन्ते ते सुनिश्चितम्॥७४॥
राजाह— ‘मन्त्रिन्, ममोत्साहभङ्गं सर्वथा मा कृथाः। विजिगीषुर्यथा परभूमिमाक्रामति तथा कथय।’
गृधोऽब्रवीत्— ‘देव, तत्कथयामि। किंतु तदनुष्ठितमेव फलप्रदम्। तथा चोक्तम्—
किं मन्त्रेणाननुष्ठाने शास्त्रयत् पृथिवीपते।
न ह्यौषधपरिज्ञानाव्द्याधेः शान्तिः क्वचिद्भवेत्॥७५॥
राजादेशश्चानतिक्रमणीय इति मथाश्रुतं निवेदयामि। शृणु देव—
नद्यद्रिवनदुर्गेषु यत्र यत्र भयं नृप।
तत्र तत्र च सेनानीर्यायाव्द्यूहीकृतैर्बलैः॥७६॥
बलाध्यक्षः पुरो यायात् प्रवीरपुरुषान्वितः।
मध्ये कलत्रं स्वामी च कोशः फल्गु च यद्धनम्॥७७॥
पार्श्वयोरुभयोरश्वा अश्वानां पार्श्वतो रथाः।
रथानां पार्श्वतो नागा नागानां च पदातयः॥७८॥
पश्चात् सेनापतिर्यायात्खिन्नानाश्वासयञ्छनैः।
मन्त्रिभिः सुभटैर्युक्तः प्रतिगृह्यबलं नृपः॥७९॥
समेयाद्विषमं नागैर्जलाध्यं समहीधरम्।
सममश्वैर्जलं नोभिः सर्वत्रैव पदातिभिः॥८०॥
हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे।
तदन्यदा तुरंगाणां पत्तीनां सर्वदैव हि॥८१॥
शैलेषु दुर्गमार्गेषु विधेयं नृपरक्षणम्।
स्वयोधै रक्षितस्यापि शयनं योगनिद्रया॥८२॥
नाशयेत्कर्षयेच्छत्रून् दुर्गैःकण्टकमर्दनैः।
परदेशप्रवेशे च कुर्यादाटविकान्पुरः॥८३॥
यत्र राजा तत्र कोशो बिना शोकं न राजता।
स्वभृत्येभ्यस्ततो दद्यात् को हि दातुर्न युध्यते॥८४॥
तः।
न नरस्य नरो दासः दासस्त्वर्थस्य भूपते।
गौरवं लाघवं वापि धनाधननिवन्धनम्॥८५॥
अभेदेन च युध्येत रक्षेश्चैव परस्परम्।
फल्गुसैन्यं च यत्किंचिन्मध्ये व्यूहस्य कारयेत्॥८६॥
पदातींश्च महीपालः पुरोऽनीकस्य योजयेत्।
उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत्॥८७॥
स्यन्दनाश्वैःसमे युध्येदनूपे नौद्विपैस्तथा।
वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले॥८८॥
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम्।
भिन्द्याच्चैव तटाकानि प्राकारान् परिखास्तथा॥८९॥
बलेषु प्रमुखो हस्ती न तथाऽन्यो महीपतेः।
निजैरवयवैरेव मातङ्गोऽष्टायुधः स्मृतः॥९०॥
बलमश्वञ्च सैन्यानां प्राकारो जङ्गमो यतः।
तस्मादश्वधिको राजा विजयी स्थलविग्रहे॥९१॥
तथा चोक्तम्।
युध्यमाना हयारूढा देवानामपि दुर्जयाः।
अपि दूरस्थितास्तेषां वैरिणो हस्तवर्तिनः॥९२॥
प्रथमं युद्धकारित्वं समस्तबलपालनम्।
दिङ्मार्गाणां विशोधित्वं पत्तिकर्म प्रचक्षते॥९३॥
स्वभावशूरमस्त्रज्ञमविरक्तं जितश्रमम्।
प्रसिद्धक्षवियप्रायं बलं श्रेष्ठतमं विदुः॥९४॥
यथा प्रभुकृतान्मानाद्युध्यन्ते भुवि मानवाः।
न तथा बहुभिर्दत्तैर्द्रविणैरपि भूपते॥९५॥
वरमल्पं बलं सारं न बह्वी मुण्डमण्डली।
कुर्यादसारभङ्गो हि सारभङ्गमपि स्फुटम्॥९६॥
अप्रसादोऽधिष्ठानं देयांशहरणं च यत्।
कालयापोऽप्रतीकारस्तद्वैराग्यस्य कारणम्॥९७॥
आपीडयन् बलं शत्नोर्जिगीषुरतिशोषयेत्।
सुखसाध्यं द्विषां सैन्यं दीर्घकालप्रपीडितम्॥९८॥
दायादादपरो मन्त्री नास्ति भेदकरो द्विषाम्।
तस्मादुत्थापयेद्यत्नाद्दायादं तस्य विद्विषः॥९९॥
संधाय युवराजेन यदि वा मुख्यमन्त्रिणा।
अन्तः प्रकोपनं कार्यमभियोक्तुः स्थिरात्मनः॥१००॥
द्वेष्यं मित्रं परैश्चापि भङ्गं दत्त्वाऽभिघातयेत्।
अथवा गोग्रहाकृष्ट्या तल्लक्ष्याश्रितबन्धनात्॥१०१॥
स्वराष्ट्रं वासयेद्राजा परदेशावगाहनात्।
अथवा दानमानाभ्यां वासितं धनदं हि तत्’॥१०२॥
राजाह— ‘आः, किं बहुनोदितेन?
आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती।
इत्यूरीकृत्य कृतिभिर्वाचस्पत्यं प्रताचते’॥१०३॥
मन्त्रिणा विहस्योक्तम्— सर्वमेतद्विशेषतश्चोच्यते। किंतु।
अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम्।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः?’॥१०४॥
तत उत्थाय राजा मौहूर्तिकावेदिते लग्ने प्रस्थितः।
अथ प्रहितः प्रणिधिश्च हिरण्यगर्भसमीपमागत्य प्रणम्योवाच— ‘देव, समागतप्रायो राजा चित्रवर्णः। संप्रति मलयपर्वतोपत्यकायां स्कन्धावारे वर्तते। दुर्गशोधनं प्रतिक्षणमनुसंधातव्यम्। यतोऽसौ गृध्रो महामन्त्री। किंच केनचित्सह तस्य विश्वासकथाप्रसङ्गेनैतदिङ्गितमवगतम्। यदेतेन कोऽप्यस्मद्दुर्गे
प्रागेव नियुक्तः। चक्रवाको ब्रूते— ‘देव, काक एवासौ संभवति।’ राजाह— ‛न कदाचिदेतत्। यद्येवं तदा कथं तेन शुकस्याभिभवायोद्योगः कृतः? अपरं च। शुकस्यागमनात्तस्य विग्रहोत्साहः। स चिरादत्रास्ते।’ मन्त्री वदति— ‘तथाऽप्यागन्तुः शङ्कनीयः।॑राजाह—
आगन्तुका हितकरा दृश्यन्ते हि क्वचित् शृणु।
परोऽपि हितवान् बन्धुः बन्धुरप्यहितः परः॥
अहितो देहजो व्याधिर्हितमारण्य मौषधम्॥१०५॥
अपरं च।
आसीद्वीरवरो नाम शुभ्रकस्य महीपतेः।
सेवकः स्वल्पकालेन स ददौ सुतमात्मनः॥१०६॥
चक्रवाकः पृच्छति कथमेतत्?’ राजा कथयति—
कथा ८।
अहं पुरा शुभ्रकस्य राज्ञः क्रीडासरसि कर्पूरकेलिनाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवानभवम्। तत्र वीरवरो नाम राजपुत्रः कुतश्चिद्देशादागत्य राजद्वारि प्रतिहारमुपागम्योवाच— ‘अहं वर्तनार्थी राजपुत्रः। मां राजदर्शनं कारय।’ ततस्तेनासौ राजदर्शनं कारितो ब्रूते— ‘देव, यदि मया सेवकेन प्रयोजनमस्ति, तदाऽस्मद्वर्तनं क्रियताम्।’ शुभ्रक उवाच— किं ते वर्तनम्?’ वीरवरेणोक्तम्—‘प्रत्यहं सुवर्णशतचतुष्टयम्।’ राजाह— ‘का ते सामग्री?’ वीरवरो ब्रूते— ‘द्वौ बाहू तृतीयश्च खड्गः।’ राजाह— ‘नैतच्छक्यम्?’ तच्छ्रुत्वा वीरवरः प्रणम्य चलितः।
अथ मन्त्रिभिरुक्तम्— ’ देव, दिनचतुष्टयस्य वर्तनं दत्त्वा ज्ञायतामस्य स्वरूपम्। किमुपयुक्तोऽयमेतावद्वर्तनं गृह्णात्यनुपयुक्तो वेति।’ राजा मन्त्रिवचनादाहूय वीरवराय ताम्बूलं दत्त्वा तद्वर्तनं दत्तवान्। यतः।
ताम्बूलं कटुतिक्तमिश्रमधुरं क्षारं कषायान्वितं
वातघ्नं कफनाशनं क्रिमिहरं दौर्गन्ध्यदोषापहम्।
वक्रस्याभरणं मलापहरणं कासाग्निसंदीपनं
ताम्बूलस्य सखे त्रयोदश गुणाः स्वर्गेऽप्यमी दुर्लभाः॥
वर्तनविनियोगश्च राज्ञा सुनिभृतं निरूपितः। तदर्थं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम्। अपरस्तृतीयो भागो दीनेभ्यो दत्तस्तदवशिष्टं च भोजनाय विलासाय च व्ययितः। एतत्सर्वं नित्यकृत्यं कृत्वा राजद्वारमहर्निशं खड्गपाणिः सेवते। यदा च राजा स्वयं समादिशति, तदा स्वगृहमपि याति॥
अथ कृष्णचतुर्दश्यां रात्रौ राजा सकरुणक्रन्दनध्यनिंशुश्राव। शुभ्रक उवाच— ‘कः कोऽत्र द्वारि तिष्ठति?‘तदा तेनोक्तम्— ‛देवाहं वीरवरः।’ राजोवाच— ‘क्रन्दनानुसरणं क्रियताम्।’ सोऽपि ‘यदाज्ञापयति देव’ इत्युक्त्वा चलितः। राज्ञा चिन्तितम्— ‘अयमेकाकी राजपुत्रोमया सूचीभेद्ये तमसि प्रहितस्तदनुचितम्। अहमपि गत्वा निरूपयामि। ततो राजापि खड्गमादाय तदनु चलितो नगराद्वहिर्जगाम। ततो गत्वा च वीरवरेण रुदन्ती रूपयौवनसंपन्ना सर्वालंकारभूषिता काचित् स्त्री दृष्टा पृष्टा च— ‘का त्वम्? किमर्थं रोदिषि?’ इति।’ स्त्रियोक्तम्—
अहमेतस्य शुभ्रकस्य राज्ञो लक्ष्मीश्चिरादेतस्य भुजच्छायायां महता सुखेन विश्रान्ता। इदानीमन्यत्रगमिष्यामि।’ इति दुःखिता।’ वीरवरो ब्रूते— ‘यत्रापायः संभवति तत्रोपायस्तिष्ठति। तत्कथं स्यात् पुनरिहावलम्बनं भगवत्याः।’ लक्ष्मीरुवाच— ‛यदि त्वमात्मनः पुत्रं शक्तिवरं द्वात्रिंशल्लक्षणोपेतं भगवत्याः सर्वमङ्गलाया उपहारीकरोषि तदाहं पुनरत्नसुचिरं निवसामि इत्युक्त्वादृश्याभवत्।
ततो वीरवरेण स्वगृहं गत्वा निद्रायमाणा स्ववधूः प्रबोधिता पुत्रश्च। तौ निद्रां परित्यज्योत्थायोपविष्टौ। वीरवरस्तत्सर्वं लक्ष्मीवचनमुक्तवान्। तच्छ्रुत्वा शक्तिवरः सानन्दो ब्रूते— ‛धन्योऽहमेवंभूतः, स्वामिराज्यरक्षायां यस्योपयोगस्तावत्। को विलम्बनहेतुः?एवंविधे कर्मणि देहस्य विनियोगः श्लाघ्यः। यतः।
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
तन्निमित्तो वरं त्यागो विनाशे नियते सति॥१०८॥
शक्तिधरमातोवाच— ‘अस्मत्कुलोचितं यद्येतन्न कर्तव्यं तदा केनापरेण कर्मणाऽस्य महावर्तनस्य निस्तारो भवेत्?’ इत्यालोच्य सर्वे सर्वमङ्गलायतनं गताः। तत्र सर्वमङ्गलां संपूज्य वीरवरो ब्रूते— ‘देवि, प्रसीद। विजयतां शुभ्रको महाराजः। गृह्यतामयमुपहारः’ इत्युक्त्वा पुत्रस्य शिरश्चिच्छेद। ततो वीरवरश्चिन्तयामास— ‘गृहीतराजवर्तनस्य निस्तारः कृतः। संप्रत्यपुत्रस्य जीवन विडम्बनेनालम्।’ इत्यालोच्यात्मनः शिरश्छिन्नवान्। ततः स्त्रियाऽपि स्वामिपुत्रशोकार्तया तथैवानुष्ठितम्।
ततः स राजा एतत्सर्वं श्रुत्वा दृष्ट्वा च चिन्तयामास—
‘जीवन्ति च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः।
अनेन सदृशो लोके न भूतो न भविष्यति॥१०९॥
एतत्परित्यागाद्राज्येन मम किं प्रयोजनम्?’। ततः स्वशिरश्छेत्तुं शुभ्रकेण राज्ञा खड्ग उत्थापितः। अथ भगवत्या सर्वमङ्गलया प्रत्यक्षीभूतया राजहस्तो धृतः। उक्तं च— ‘पुत्र, प्रसन्नाऽस्मि ते। अलं साहसेन। जीवनान्तेऽपि तव राज्यभङ्गो नास्ति। ‘राजा च साष्टाङ्गपातं प्रणम्योवाच— ‘देवि, राज्येन वा मम प्रयोजनं नास्ति। यदि मय्यनुकम्पा क्रियते तदा ममायुश्शेषेणाप्ययं राजपुत्रः सपुत्रदारो जीवतु। अन्यथाऽहं यथाप्राप्तं गतिं गच्छामि।’ भगवत्युवाच— ‘अनेन ते सत्त्वोत्कर्षेण भृत्यवात्सल्येन च तुष्टाऽस्मि। गच्छ। विजयीभव। अयमपि सपरिवारो राजपुत्रो जीवतु।’ इत्युक्त्वा देव्यदृश्याऽभवत्। राजा तां प्रणम्यालक्षितश्चलितः। प्रासादपृष्ठंतदैव गत्वा सुप्तः। वीरवरोऽपि सपुत्रदारःप्राप्तजीवनः स्वगृहं गतः। अथ पुनर्द्वारस्थो वीरवरो भूपालेन पृष्टः सन्नाह— ‘देव, सा रुदती स्त्री मामवलोक्यादृश्याऽभवत्। न काऽप्यन्या वार्ता विद्यते। तद्वचनमाकर्ण्य राजा चिन्तयत्— ‘कथमयं श्लाघ्योमहासत्त्वः। यतः।
प्रियं व्यादकृपणः शूरः स्यादविकत्थनः।
दाता सत्पात्त्रवर्षी स्यात् प्रगल्भः स्यादनिष्ठुरः॥११०॥
एतन्महापुरुषलक्षणमेतस्मिन् सर्वमस्ति।’ ततः स राजा प्रातः शिष्टसभां कृत्वा सर्ववृत्तान्तं प्रस्तुत्य प्रसादात्तस्मै कर्नाटराज्यं ददौ।
अतस्ते तस्य प्रमादिनो बलं गत्वा यथावकाशं दिवानिशं घ्नन्तु अस्मत्सेनापतयः।’ तथाऽनुष्ठिते चित्रवर्णस्य सैनिकाःसेनापतयश्च बहवो निहताः। ततश्चित्रवर्णो विषण्णः स्वमन्त्रिणं दूरदर्शिनमाह— ‘तात, किमित्यस्मादुपेक्षा क्रियते? किं क्वाप्यविनयो ममास्ति। तथा चोक्तम्—
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम्।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम्॥१२०॥
अपि च।
दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी।
उद्युक्तो विद्यान्तं धर्मार्थयशांसि च विनीतः’॥१२१॥
गृध्रोऽवदत्— ‘देव, शृणु।
अविद्वानपि भूपालो ज्ञानवृद्धोपसेवया
परां श्रियमवाप्नोति जलासन्नतरुर्यथा॥१२२॥
अन्यच्च।
पानं स्त्री मृगया द्यूतमर्थदूषणमेव च।
वाग्दण्डयोश्चपारुष्यं दूषणानि महीभुजाम्॥१२३॥
किं च।
न साहसैकान्तरसानुवर्तिना
न चाप्युपायोपहतान्तरात्मना।
विभूतयः शक्यमवाप्नुमूर्जिता
नये च शौर्ये च वसन्ति संपदः॥१२४॥
त्वया स्वबलोत्साहमवलोक्य साहसैकरसिकेन मयोपन्यस्तेष्वपि मन्त्रेष्वनवधानं वाक्पारुष्यं च कृतम्। अतो दुर्नीतेः फलमिदमनुभूयते। तथा चोक्तम्—
दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः?
संतापयन्ति कमपथ्यभुजं न रोगाः?
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः?
कं स्त्रीकृता न विषयाः परितापयन्ति?॥१२५॥
मुदं विषादः शरदं हिमागमः
तमो विवस्वान् सुहृदं कृतघ्नता।
विशुद्धबुद्धिः शुचमापदं नयः
श्रियं समृद्धामपि हन्ति दुर्नयः॥१२६॥
ततो मयाप्यालोचितम्— ‘प्रज्ञाहीनोऽयं राजा। कथमन्यथा मम नीतिशास्त्रकथाकौमुदीं वागुल्काभिस्तिमिरयति। यतः।
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्?
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति?॥१२७॥
तेनाहमपि तूष्णीं स्थितः।
अथ राजा बद्धाञ्जलिराह— ‘तात, अस्ति ममापराधः। इदानीमवशिष्टबलसहितोऽपि विन्ध्याचलं यथा गमिष्यामि, तथोपदिश।’ गृध्रः स्वगतं चिन्तयति— ‘कर्तव्योऽत्र प्रतीकारः। यतः।
देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च।
नियन्तव्यः सदा कोपो बालवृद्धातुरेषु च॥१२८॥
मन्त्री विहस्य ब्रूते— ‘देव, मा भैषीः। समाश्वसिहि। शृणु देव
मन्त्रिणां भिन्नसंघाने भिषजां सांनिपातिके।
कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः॥१२९॥
अपरं च।
आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः॥१३०॥
तदत्र भवत्प्रतापादेव दुर्गं भङ्क्त्वा कीर्तिप्रतापसहितं त्वामचिरेण कालेन विन्ध्याचलं नेष्यामि।’ राजाह— ‘कथमधुना स्वल्पवलेन तत्संपद्यते।’ गृध्रो वदति— ‘देव, सर्वं भविष्यति। यतः। विजिगीषोर्दीर्घसूत्रता विजयसिद्धेरवश्यंभाविलक्षणम्। तदद्य दुर्गद्वाररोधो विधीयताम्।’
प्रहितप्रणिधिना बकेनागत्य हिरण्यगर्भस्य तत्कथितम्— ‘देव, स्वल्पवल एवायं राजा चित्रवर्णो गृध्रस्य मन्त्रोपष्टम्भेन दुर्गावरोधं करिष्यति।’ राजहंसो ब्रूते— ‘सर्वज्ञ, किमधुना विधेयम्?’ चक्रवाको बदति— ‘स्वबले सारासारविचारःक्रियताम्। ज्ञात्वा स्वर्णवस्त्रादि यथार्हं प्रसाददानं च क्रियताम्।यतः
यः काकिनीमप्यपथप्रपन्नां
समुद्धरेन्निष्कसहस्रतुल्याम्।
कालेषुकोटिव्यपि मुक्तहस्त-
स्तं राजसिंहं न जहाति लक्ष्मीः॥१३१॥
अन्यच्च।
क्रतौ विवाहे व्यसने रिपुक्षये
यशस्करे कर्मणि मित्रसंग्रहे।
प्रियासु नारीष्वधनेषु वान्धवे-
ध्वतिव्ययो नास्ति नराधिपासु॥१३२॥
यतः।
मूर्खः स्वल्पव्ययत्रासात् सर्वनाशं करोति हि।
कः सुधीः संत्यजेद्भाण्डं शुल्कस्यैवातिसाध्वसात्॥१३३॥
राजाह— ‘कथमिदानीमतिव्ययो युज्यते?’ उक्तं च— ‘आपदर्थं धनं रक्षेत्’ इति। मन्त्री ब्रूते— ‘श्रीमतः कथमापदः। राजा— ‘कदाचित् कुपिता लक्ष्मीः?’ मन्त्री पुनर्वदति— संच्चितार्थोऽपि नश्यति’। तद्देव, कार्पण्यं परित्यज्य स्वभटाः दानमानाभ्यां पुरस्क्रियन्ताम्। तथा चोक्तम्—
परस्परज्ञाः संतुष्टाः प्राणान् त्यक्तुं सुनिश्चिताः।
कुलीनाः पूजिताः सम्यग्विजयन्ते द्विषां वलम्॥१३४॥
अपरं च।
सुभटाः शीलसंपन्नाः संहताः कृतनिश्चयाः।
अपि पञ्चशतं शूरा निवन्ति रिपुवाहिनीम्॥१३५॥
किं च।
शिष्टैरप्यविशेषज्ञ उग्रश्च कृतनाशकः।
त्यज्यते किं पुनर्नान्यैर्यश्चाप्यात्मंभरिर्नरः॥१३६॥
यतः।
सत्यं शौर्यं दया त्यागो नृपस्यैते महागुणाः।
एतैस्त्यक्तो महीपालः प्राप्नोति खलु वाच्यताम्॥१३७॥
ईदृशि प्रस्तावेऽमात्यास्तावदेव पुरस्कर्तव्याः। तथा चोक्तम्—
यो येन प्रतिबद्धः स्यात् सह तेनोदयी व्ययी।
सुविश्वस्तो नियोक्तव्यः प्राणेषु न धनेषु च॥१३८॥
यतः।
धूर्तः स्त्री वा शिशुर्यस्य मन्त्रिणः स्युर्महीपतेः।
अनीतिपवनक्षिप्तः कार्याब्धौ स निमज्जति॥१३९॥
शृणु देव,
हर्षक्रोधौ समौ यस्यशास्त्रार्थे प्रत्ययस्तथा।
नित्यं भृत्यानुपेक्षां च तस्य स्याद्धनदा धरा॥१४०॥
येषां राज्ञा सह स्यातामुच्चयापचयौ ध्रुवम्।
अमात्या इति तान् राजा नावमन्येत् कदाचन॥१४१॥
यतः।
महीभुजो मदान्धस्य संकीर्णस्येव दन्तिनः।
स्खलतो हि करालम्बः सुहृत्सचिवचेष्टितम्’॥१४२॥
अथागत्य प्रणम्य मेघवर्णो ब्रूते— ‘देव, दृष्टिप्रसादं कुरु। एष युद्धार्थी विपक्षो दुर्गद्वारि तिष्ठति। तद्देवपादादेशाद्बहिर्निःसृत्य स्वविक्रमं दर्शयामि।’ तेन देवपादानामानृण्यमुपगच्छामि। चक्रवाको ब्रूते— ‘मैवम्। यदि बहिर्निःसृत्य योद्धव्यं, तदा दुर्गाश्रयणं निष्प्रयोजनम्।
अपरं च।
विषमो हि यथा नक्रः सलिलान्निस्सृतोऽयशः।
वनाद्विनिर्गतः सत्यं सिंहोऽपि स्यात् सृगालवत्॥१४३॥
वायसो ब्रूते— ‘देव, स्वयं गत्वा दृश्यतां युद्धम्। यतः।
पुरस्कृत्य बलं राजा योधयेदवलोकयन्।
स्वामिनाधिष्ठितः श्वाऽपि किं न सिंहायते ध्रुवम्?॥१४४॥
अथ ते सर्वे दुर्गद्वारं गत्या महाहवं कृतवन्तः। अपरेद्युश्चित्रवर्णो राजा गृध्रमुवाच— ‘तात, यत्प्रतिज्ञातं तदधुना पालय।’ गृध्रो ब्रूते— ‘शृणु देव।
अकालसहमत्यल्पं मूर्खव्यसनिनायकम्।
अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते॥१४५॥
तत्तावदत्रनास्ति।
उपजापश्चिरारोधोऽवस्कन्दस्तीव्रपौरुषम्।
दुर्गस्य लङ्घनोपायाश्चत्वारः कथिता इमे॥१४६॥
अत्र च यथाशक्ति क्रियते यत्नः। (कर्णे कथयति)। एवमेवम्।’ ततोऽनुदित एव भास्करे प्रातःकाले चतुर्ष्वपि द्वारेषु युद्धे प्रवृत्ते दुर्गाभ्यन्तरे गृहे गृहे काकेनाग्निर्निक्षिप्तः। ततो गृहीतं गृहीतं दुर्गमिति कोलाहलं श्रुत्वाऽनेकगृहेषु पावकं प्रदीप्तं प्रत्यक्षेणावलोक्य राजहंसस्य सैनिकाः अन्ये च दुर्गवासिनः सत्वरं ह्रदं प्रविष्टाः। यतः।
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम्।
प्राप्तकाले यथाशक्ति कुर्यान्न तु विचारयेत्॥१४७॥
राजहंसः सुखी स्वभावान्मन्दगतिः सारसद्वितीयश्चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः। हिरण्यगर्भो राजाह— ‘सेनापते, सारस, ममानुरोधादात्मानं कथं व्यापादयिष्यसि? त्वं गन्तुमधुनापि समर्थः। तद्गत्वा जलं प्रविश। मत्पुत्रं चूडामणिनामानं सर्वज्ञस्य संमत्या राजानं कारयिष्यसि।’ सारसो ब्रूते— ‘देव, न वक्तव्यमेवं दुस्सहं वचः। यावच्चन्द्रार्कौ दिवि तिष्ठतः, तावद्विजयतां देवः। अहं पुनरेव दुर्गाधिकारी। तन्मम मांसासृग्विलिप्तेन वर्त्मना प्रविशतु शत्रुः। अपरं च।
क्षमी दाता गुणग्राही स्वामी भाग्येन लभ्यते।’
राजाह—
‛सुचिर्दक्षोऽनुरक्तश्च भृत्यः खलु सुदुर्लभः’॥१४८॥
सारसो ब्रूते— ‘शृणु देव,
यदि समरमपास्य नास्ति मृत्यो-
भेयमिति युक्तमितोऽन्यतः प्रयातुम्।
अथ मरणमवश्यमेव जन्तोः
किमिति मुधा मलिनं यशः क्रियेत॥१४९॥
अन्यच्च।
भवेऽस्मिन् पवनोद्भान्तवीचिविभ्रमभङ्गुरे।
जायते पुण्ययोगेन परार्थे जीवितव्ययः॥१५०॥
देव, त्वं च स्वामी सर्वथा रक्षणीयः। यतः।
प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति।
अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि?॥१५१॥
अपरं च।
सर्वेश्वरे जगत्सर्वं निमीलति निमीलति।
सूर्योदय इवाम्भोजं तत्प्रवोधे प्रबुध्यते॥१५२॥
अपि च।
स्वाम्यमात्यश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत्।
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च॥१५३॥
अत्रापि प्रधानाङ्गं राजा।’
अथ कुक्कुटेनागत्य राजहंसस्व शरीरे खरतरनखाघातः कृतः। ततः सत्वरमुपसृत्य सारसेन स्वदेहान्तरितो राजा जले क्षिप्तः। अनन्तरं कुक्कुटनखप्रहारैर्जर्जरीकृतेन सारसेन कुक्कुटसेना बहुशो हताः। कुक्कुटोऽपि सेनापतेश्चञ्चुप्रहारेण व्यापादितः। पश्चात्सारसोऽपि बहुभिः पक्षिभिः संभूय व्यापादितः। अथ चित्रवर्णो राजा दुर्गं प्रविश्य, दुर्गावस्थितं द्रव्यं ग्राहयित्वा वन्दिभिर्जयशब्दैरानन्दितो बहिः स्कन्धावारं जगाम॥
अथ राजपुत्रैरुक्तम्— ‘तस्मिन् राजहंसवलेऽसौ सारस एव पुण्यवान्। येन स्वदेहदानेन राजा रक्षितः। यतः।
जनयन्ति सुतान्गावः सर्वा एव गवाकृतीन्।
विषाणोल्लिखितस्कन्धं काचिदेव गवां पतिम्’॥१५४॥
विष्णुशर्मणोक्तम्— ‘स्वभावतः स्वदेहेन क्रीतानक्षयलोकान् विद्याधरीपरिजनोऽनुभवतु महासत्त्वः। तथा चोक्तम्—
आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः।
भर्तृभक्ताः कृतज्ञाश्च ते नराःस्वर्गगामिनः॥१५५॥
यत्र तत्र हतः शूरः शत्रुभिः परिवारितः।
अक्षयान् लभते लोकान् यदि क्लैब्यं न गच्छति॥१५६॥
विग्रहः श्रुतो भवद्भिः।’ राजपुत्रैरुक्तम्— ‘श्रुत्वा सुखिनो भूता वयम्।’ विष्णुशर्माब्रवीत्— ‘अपरमप्येवमस्तु।
विग्रहः करितुरङ्गपत्तिभि-
र्मा कदापि भवतां महीभुजाम्।
नीतिमन्त्रपवनैः समाहताः
संश्रयन्तु गिरिगह्वरं द्विषः’॥१५७॥
इति हितोपदेशे विग्रहो नाम तृतीयः कथासंग्रहः समाप्तः॥
________________
संधिः।
पुनः कथारम्भकाले राजपुत्रैरुक्तम्— ‘आर्य, विग्रहः श्रुतोऽस्माभिः। संधिरधुनाभिधीयताम्।’ विष्णुशर्मणोक्तम्— ‘श्रूयताम्। संधिमपि कथयामि यस्यायमाद्यः श्लोकः—
वृत्ते महति संग्रामे राज्ञोर्निहतसेनयोः।
स्थेयोभ्यां गृध्रचक्राभ्यां वाचा संधिः कृतः क्षणात्॥१॥
राजपुत्रा ऊचुः— ‘कथमेतत्? विष्णुशर्मा कथयति—
ततस्तेन राजहंसेनोक्तम्— ‘केनास्मद्दुर्गे निक्षिप्तोऽग्निः?’ किं पारक्येन किं वाऽस्मद्दुर्गवासिना केनापि विपक्षप्रयुक्तेन?’ चक्रवाको वदति— ‘देव, भवतो निष्कारणबन्धुरसौ मेघवर्णः सपरिवारो न दृश्यते। तन्मन्ये तस्य विचेष्टितमिदम्।’ राजा क्षणं विचिन्त्याह— ‘अस्ति तावदेवं मम दुर्दैवमेतत्। तथा
अपराधः स दैवस्य न पुनर्मन्त्रिणामयम्।
कार्यं सुघटितं यत्नात् दैवयोगाद्विनश्यति’॥२॥
मन्त्री ब्रूते— ‘उक्तमेतत्।
विषमां हि दशां प्राप्य दैवं गर्हयते नरः
आत्मनः कर्मदोषांश्च नैव जानात्यपण्डितः॥३॥
अपरं च।
सुहृदां हितकामानां यो वाक्यं नाभिनन्दति।
स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति॥४॥
अन्यच्च।
रक्षितव्यं सदा वाक्यं वाक्याद्भवति नाशनम्।
हंसाभ्यां नीयमानत्य कूर्सस्य पतनं यथा’॥५॥
राजाह—कथमेतत्?’ मन्त्री कथयति—
कथा १।
अस्ति मगधदेशे फुल्लोत्पलाभिधानं सरः। तत्र चिरात् संकटविकटनामानौ हंसौ निवसतः। तयोर्मित्रं कम्बुग्रीवनामा कूर्मश्च प्रतिवसति। अथैकदा धीवरैरागत्य तत्रोक्तम्— ‘यदत्रास्माभिरद्योषित्वा प्रातर्मत्स्यकूर्मादयो व्यापादयितव्याः। तदाकर्ण्य कूर्मो हंसावाह— ‘सुहृदौ, श्रुतोऽयं धीवरालापः? अधुना किं मया कर्तव्यम्?’ हंसावाहतुः— ‘ज्ञायते। पुनस्तावत् प्रातर्यदुचितं तत्कर्तव्यम्।’ कूर्मो ब्रूते— ‘मैवं यतो दृष्टव्यतिकरोऽहमत्र। तथा चोक्तम्—
अनागतविधाता च प्रत्युत्पन्नमतिस्तथा।
द्वावेतौ सुखमेघेते यद्भविष्यो विनश्यति’॥६॥
तावाहतुः— ‘कथमेतत्?’ कूर्मः कथयति—
॥अवान्तरकथा १॥
पुरा एतस्मिन्नेव सरस्येवंविधेषु धीवरेषुपस्थितेषु मत्स्यत्रयेणालोचितम्। तत्रानागतविधाता नामैको मत्स्यः— ‘अहं तावज्जलाशयान्तरं गच्छामि’ इत्युक्त्वा ह्रदान्तरं प्रविष्टः। अपरेण
प्रत्युत्पन्नमतिनाम्ना मत्स्येनाभिहितम्— ‘भविष्यदर्थे प्रमाणाभावात् कुत्र मया गन्तव्यम्? तदुत्पन्ने यथाकार्यं तदनुष्ठेयम्।
तथा चोक्तम्—
उत्पन्नामापदं यस्तु समाधत्तेस बुद्धिमान।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा॥७॥
यद्भविष्यः— ‘कथमेतत्?’ इति पृच्छति। प्रत्युत्पन्नमतिः कथयति—
॥अवान्तरकथा २॥
अस्ति विक्रमपुरे समुद्रदत्तो नाम वणिक्। तस्य रत्नप्रभा नाम वधूः केनापि स्वसेवकेन सह सदा रमते। यतः।
नैता रूपमपेक्षन्ते न चावयवनिश्चयम्।
सुरूपं वा कुरूपं वा पुमानित्येव भुञ्जते॥८॥
अन्यच्च।
शास्त्रं सुनिश्चितनपि प्रतिचिन्तनीय-
माराधितो नरपतिः प्रतिशङ्कनीयः।
अङ्के स्थितापि युवतिः परिशङ्कनीया
शास्त्रे नृपे च युवतौ च कुतो वशित्वम्॥९॥
अथैकदा तस्य मुखे चुम्बनं ददती सा समुद्रदत्तेनावलोकिता। ततो बन्धकी भर्तुः समीपं गत्वा प्राह— ‘नाथैतस्य महती निर्वृतिः। यतो युष्मदर्थं नीयमानं कर्पूरमश्नाति। अस्य वदने कर्पूरगन्धो मया प्रातः। तच्छ्रुत्वा सेवकेन प्रकुप्योक्तम्— ‘यस्य स्वामिनो गृहे एतादृशी भार्या, तत्र सेवकेन कथं स्थातव्यम्?
यत्र प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति।’ ततोऽसावुत्थाय चलितः। ततोऽसौ साधुना यत्नात् संतोष्य रक्षितः। अतोऽहं ब्रवीमि— ‘उत्पन्नामापदं’ इत्यादि॥
ततो यद्भविष्येणोक्तम्—
‘यदभावि न तद्भावि भावि चेन्न तदन्यथा।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते॥१०॥
ततः प्रातर्जालेन बद्धः प्रत्युत्पन्नमतिर्मृतवदात्मानं संदर्श्य स्थितः। ततो जालादपसारितो यथाशक्त्युत्प्लुत्य गम्भीरं नीरं प्रविष्टः। यद्भविष्यश्च धीवरैः प्राप्तो व्यापादितः॥
अतोऽहं ब्रवीमि— ‘अनागतविधाता’ इत्यादि। तद्यथाहमन्यह्रदंप्राप्नोमि तथा क्रियताम्।’ हंसावाहतुः— ‘जलाशयान्तरे प्राप्ते तव कुशलं। स्थले गच्छतः ते को विधिः?’ कूर्मो ब्रूते— ’यथाहं भवद्भ्यां सहाकाशवर्त्मना यामि तथा विधीयताम्।’ हंसौ ब्रूतः— ‘कथमुपायः संभवति?’ कच्छपो वदति— ‘युवाभ्यां चञ्चुवृतं काष्ठखण्डमेकं मया मुखेनावलम्ब्य गन्तव्यम्। युवयोः पक्षबलेन मयाऽपि सुखेन गन्तव्यम्।’ हंसौ ब्रूतः— ’संभवत्येवमुपायः। किंतु।
उपायं चिन्तयन् प्राज्ञां ह्यपायमपिचिन्तयेत्।
पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः प्रजाः’॥११॥
कूर्मः पृच्छति— ‘कथमेतत्?’ तौ कथयतः—
॥अवान्तरकथा ३॥
अस्त्युत्तरापथे गृध्रकूटो नाम पर्वतः। तत्रैव रेवातीरे न्यग्रोधपादपे बका निवसन्ति। तद्वृक्षस्याधस्ताद्विषरे सर्पस्तिष्ठति।
स च तेषांबालापत्यानि खादति। अथ शोकार्तानां प्रलापं श्रुत्वा केनचिद्वृद्धबकेनोक्तम्— ‘एवं कुरुत। यूयं मत्स्यानानीय नकुलविवरात् सर्पविवरं यावत् पङ्क्तिक्रमेणैकैकशो मत्स्यानास्तीर्यागच्छत। ततस्तदाहारलुब्धैर्नकुलैरागत्य सर्वे द्रष्टव्यः स्वभावद्वेषात् सर्पविवरं दृष्ट्वा प्रविश्य स सर्पों हन्तव्यः। तथाऽनुष्ठिते सति तैर्नकुलैस्तद्विवरं प्रविश्य सर्पो मारितः। ततो नकुलैर्वृक्षोपरिपक्षिशाबकानां रावः श्रुतः। अनन्तरं तद्वृक्षमारुह्य पश्यतां बकानां शाबका भक्षिताः। अत आवां ब्रूवः— ‘उपायं चिन्तयन्’ इत्यादि॥ आवाभ्यां नीयमानं त्वां दृष्ट्वा लोकैः किंचिद्वक्तव्यमेवाश्चर्यत्वात्। तदाकर्ण्य यदि त्वमुत्तरं ददासि तदा तव मरणं भविष्यति। तत्सर्वथात्रैव स्थीयताम्। कूर्मो वदति— ‘किमहमप्राज्ञः? नाहमुत्तरं दास्यामि। किमपि न वक्तव्यं मया।’ तथानुष्ठिते सति, आकाशे नीयमानं तं कूर्ममालोक्य सर्वे गोरक्षकाः पश्चाद्धावन्ति वदन्ति च— ‘अहो महदाश्चर्यम्! पक्षिभ्यां कूर्मः समुह्यते।’ तत्र कश्चिदाह— ‘यद्ययं कूर्मःपतति तदाऽत्रैव पक्त्वा खादितव्यो मया।‘कोऽपि निगदति— ‘खण्डशोंऽशं कृत्वा नेतव्यः’ कश्चिदाह— ‘आलयं नीत्वा दग्ध्वा भक्षणीयः। एवं दुस्सहं परूपवचनमाकर्ण्य कूर्मः क्रोधाद्विस्मृतपूर्वसंस्कारो ‘युष्माभिर्भस्म भक्षितव्यम्’ इति वदन् काष्ठात् पतितो गोरक्षकैर्व्यापादितः। अतोऽहं ब्रवीमि— ‘सुहृदां हितकामानाम्’ इत्यादि॥
अथ प्रणिधिर्वकः तत्रागत्य तमुवाच— ‘देव, प्रागेव मया निवेदितं, दुर्गशोधनं प्रतिक्षणं कर्तव्यमिति। तच्च युष्माभिर्न
कृतम्। अतस्तदनवधानस्य फलमिदमनुभूतम्। दुर्गदाहश्चार्य मेघवर्णनाम्ना वायसेन गृध्रप्रयुक्तेन कृतः।’ राजा निःश्वस्याह—
‘प्रणयादुपकाराद्वा यो विश्वसिति शत्रुषु।
प्रसुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते’॥१२॥
प्रणिधिरुवाच— ‘ततो दुर्गदाहं विधाय यदा गतो मेघवर्णः तदा चित्रवर्णेन प्रसादितेनोक्तम्— ‘अयं मेघवर्णोऽत्र कर्पूरद्वीपराज्येऽभिषिच्यताम्। तथा चोक्तम्—
कृतकृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत्।
फलेन मनसा वाचा दृष्ट्वा चैनं प्रहर्षयेत्’॥१३॥
चक्रवाको ब्रूते— ‘देव, श्रोतव्यं यत् प्रणिधिः कथयति राजाह— ‘ततस्ततः। प्रणिधिरुवाच— ततः प्रधानमन्त्रिणा गृध्रेणोक्तम्— ‘देव, नेदमुचितम्। प्रसादान्तरं क्रियताम्। यतः।
अविचारयतो युक्तिकथनं तुषखण्डनम्।
नीचेषूपकृतं राजन् वालुकास्विव मुद्रितम्॥१४॥
अपरं च।
महतामास्पदे नीचः कदापि न हि युज्यते।
न हि चूडामणिस्थाने पादुका कैश्चिदिष्यते॥१५॥
तथा चोक्तम्—
नीचः श्लाघ्यपदं प्राप्य स्वामिनं हन्तुमिच्छति।
मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा’॥१६॥
चित्रवर्णः पृच्छति— ‘कथमेतत्? ’ गृध्रः कथयति—
कथा २।
अस्ति गौतमस्य मुनेस्तपोवने महातपा नाम मुनिः। तेनाश्रमसन्निधाने मूषिकशाबकः काकमुखाद्भ्रष्टो दृष्टः। तेन दयायुक्तेन नीवारकणैः संवर्धितः। तं च मूषिकं खादितुं यत्नादन्विष्यन् बिडालो मुनिना दृष्टः। ततो भीतो मूषिको मुनिना तपःप्रभावाद्बलिष्ठो विडालः कृतः। स बिडालः कुक्कुराद्विभेति। ततोऽसौ कुक्कुरः कृतः। सोऽपि व्याघ्राद्विभेति। ततोऽसौ व्याघ्रः कृतः। अथ व्याघ्रमपि तं मुनिर्मूषिकनिर्विशेषं पश्यति। अतः सर्वे तत्रत्या जनाः तं मुनिं दृष्ट्वा व्याघ्रंच वदन्ति— ‘अनेन मुनिना मूषिकोऽयं व्याघ्रतां नीतः।’ एतच्छ्रुत्वा व्याघ्रः सव्यथोऽचिन्तयत्— ‘यावदनेन मुनिना जीवितव्यं तावदिदं मम स्वरूपाख्यानमकीर्तिकरं न पलायिष्यते।’ इति समालोच्य मुनिं हन्तुं समुद्यतः। मुनिना तस्य चिकीर्षितं ज्ञात्वा ‘पुनर्मूषिको भव’ इत्युक्त्वा मूषिक एव कृतः।
अतोऽहं ब्रवीमि— ‘नीचः श्लाघ्यपदं प्राप्य’ इत्यादि। अपरं च। सुकरमिदमिति न मन्तव्यम्। शृणु।
भक्षयित्वा बहून् मत्स्यानुत्तमाधममध्यमान्।
अतिलौल्याद्बकः पश्चात् मृतः कर्कटसंग्रहात्॥१७॥
चित्रवर्णः पृच्छति— ’कथमेतत्?’ मन्त्री कथयति—
कथा ३।
अस्ति मालवविषये पद्मगर्भाभिधानं सरः। तत्रैको वृद्धबकः सामर्थ्यहीन उद्विग्नमात्मानं दर्शयित्वा स्थितः। स च केन-
चित्कुलीरेण दृष्टः, पृष्टश्च— ‘किमिति भवानाहारपरित्यागेन तिष्ठति।’ वकेनाभिहितम्—‘मत्स्या मम जीवनहेतवः। मत्स्याश्चात्रावश्यमेवप्रातः कैवर्तैर्व्यापादनीया इति वार्ता नगरोपान्ते मयाकर्णिता। ततो वर्तनाभावेनास्मन्मरणमुपस्थितमिति ज्ञात्वा आहारेऽपि मन्दादरो वर्ते।’ ततो मत्स्यैशलोचितम्— ‘इह समये तावदुपकारक एवायं लक्ष्यते। तदयमेव यथाकर्तव्यं पृच्छयताम्। तथा चोक्तम्—
उपकर्त्रारिणा संधिर्नमित्रेणापकारिणा।
उपकारापकारौ हि लक्ष्यं लक्षणनेतयोः’॥१८॥
मत्स्या ऊचुः— ’भो बक, अस्माकं कुत्र रक्षणोपायः। ’ वको ब्रूते— ‘अस्ति रक्षणोपायः जलाशयान्तराश्रयणम्। तत्रैकैकशोऽहं युष्मान्नयामि।’ नत्स्यैरपि भयादुक्तम्— ‘एवमस्तु।’ ततोऽसौ दुष्टवकस्तान्मत्त्यानेकैकशो नीत्वा कस्मिंश्चिद्देशे स्वादित्वा पुनरागत्य वदति— ‘ते मया जलाशयान्तरे स्थापिताः।’ अनन्तरं कुलीरस्तमुवाच— ‘भो वक, नामपि तत्र नय।’ ततो वकोऽप्यपूर्वकुलीरनांसार्थी सादरं तं नीत्वा स्थले धृतवान्। कुलीरोऽपि नत्स्यकण्टकाकीर्णांभूमिं दृष्ट्वाऽचिन्तयत्— ‘हा, हतोऽस्मि मन्दभाग्यः। भवत्विदानीं समप्रोचितं व्यवहरिष्यामि।’ इत्यालोच्य कुलीरस्तस्य वकस्य ग्रीवां चिच्छेद। स च पञ्चतां गतः। अतोऽहं ब्रवीमि— ‘भक्षयित्वा वहून् मत्त्याम्’ इत्यादि॥
ततः पुनश्चित्रवर्णो ब्रूते— ‘शृणु तावन्महामन्त्रिन्, मयैतदालोचितमस्ति। अत्तावस्थितेनानेन मेघवर्णेन राज्ञा यावन्ति
कर्पूरद्वीपस्योत्तमवस्तूनि तावन्त्यस्माकमुपनेतव्यानि। तेन महता विलासेनास्माभिर्विन्ध्याचले स्थातव्यम्।’ दूरदर्शी विहस्याह— ‘देव,
अनागतवता चिन्ता यस्तु कृत्वा प्रहृष्यात।
स तिरस्कारमाप्नोति भग्नोभाण्डो द्विजो यथा’॥१९॥
राजाह— ‘कथमेतत्?’ मन्त्री कथयति—
कथा ४।
अस्ति देवकोट्टनाम्नि नगरे देवशर्मानाम ब्राह्मणः। तेन महाविषुवत्संक्रान्तौ सक्तुपूर्णशराव एकः प्राप्तः। ततस्तमादायासौ भाण्डपूर्णे कुम्भकारमण्टपस्यैकदेशे शयने क्षिप्तदेहः, सक्तुरक्षार्थं हस्ते दण्डमेकमादाय रात्रावचिन्तयत्— ‘यद्यहमिमं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि तदात्रैव तैः कपर्दकैर्घटशरात्रादिकमुपक्रीयानेकथा प्रवृद्धैर्धनैः पुनः पुनः पूगवस्त्रादिकमुपक्रीय विक्रीय लक्षसंख्यानि धनानि कृत्या विवाहचतुष्टयं करिष्यामि। तासु सपत्नीपु या रूपवती तस्यामधिकानुरागं करिष्यामि। सपत्न्यो यदा द्वन्द्वं करिष्यन्ति तदा कोपाकुलोऽहंता लगुडेन ताडयिप्यामि।’ इत्यनिधाय तेन लगुडः प्रक्षिप्तः। सक्तुशरावश्चूर्णितः, भाण्डानि च वहूनि भग्नानि। ततस्तेन शब्देनागतेन कुम्भकारेण तथाविधानि भाण्डान्यवलोक्य ब्राह्मणस्तिरस्कृतो मण्डोपाद्बहिष्कृतश्च।
अतोऽहं ब्रवीमि— ‘अनागतवर्तीचिन्ताम्’ इत्यादि॥ ततो राजा रहसि गृध्रं मन्त्रिणं पप्रच्छ— ‘तात, यथा कर्तव्यं तथोपदिश’ इति। गृध्रो वदति—
‘मदोद्धतस्य नृपतेः संकीर्णस्येव दन्तिनः।
गच्छन्त्युन्मार्गयातस्य नेतारः खलु वाच्यताम्॥२०॥
देव, किमस्माभिर्बलदर्पाद्दुर्गं भग्नम्? न। किंतु तय प्रतापाधिष्ठितेनोपायेन।’ राजाह— ‘भवतामुपायेन।’ गृध्रो ब्रूते— ‘यद्यस्मद्वचनं क्रियते, तदा स्वदेशं गम्यतामधुना, अन्यथा वर्षाकाले प्राप्ते तुल्यबलेनानेन सह पुनर्विग्रहे सत्यस्माकं परभूमिष्ठानां स्वदेशगमनमपि दुर्लभं भविष्यति। सुखशोभार्थं संधाय गम्यताम्। दुर्गं भग्नं। कीर्तिश्च लब्धैव। मम संमतं तावदेतत्। यतः।
यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रियम्।
अप्रियाण्याह तथ्यानि तेन राजा सहायवान्॥२१॥
परं तु।
सुहृद्बलं तथा राज्यमात्मानं कीर्तिमेव च।
युधि संदेहडोलास्थं को हि कुर्यादबालिशः?’॥२२॥
अन्यच्च।
संधिमिच्छेत्समेनापि संदिग्धो विजयो युधि।
सुन्दोपसुन्दावन्योन्यष्टौ तुल्यबलौ न किम्?॥२३॥
राजोवाच— ‘कथमेतत्?’ मन्त्री कथयति—
कथा ५।
पुरा दैत्यौ महोदारौसुन्दोपसुन्दनामानौ महता कायक्लेशेन त्रैलोक्यराज्यकामनया चिराच्चन्द्रशेखरमाराधितवन्तौ। ततस्तयोर्भगवान् परितुष्टः सन् ‘वरं वरयतम्’ इत्युक्तवान्। अनन्तरं तयोः समधिष्ठितया सरस्वत्या तावन्यद्वक्तुकामावन्यदभिहितवन्तौ।
‘यद्यवयोर्भगवान् संतुष्टस्तदा स्वप्रियां पार्वतीं परमेश्वरो ददातु। अथ भगवता क्रुद्धेन वरप्रदानस्यावश्यकतया पार्वती दत्ता। ततस्तस्या रूपलावण्यलुब्धाभ्यां जगद्धातिभ्यां मनसोत्सुकाभ्यां पापतिमिराभ्यां ममेयं ममेयमित्यन्योन्यं कलहायमानाभ्यां प्रमाणपूरुषः कश्चित्पृच्छ्यतामिति मतौ कृतायां स एव भर्ता वृद्धद्विजरूपी समागत्य तत्रोपस्थितः। अनन्तरम् ‘आवाभ्यामियं स्वबललब्धा। कस्येयमावयोर्भवति?’ इति ब्राह्मणमपृच्छताम्। ब्राह्मणो ब्रूते—
‘वर्णश्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवानपि।
धनधान्याधिको वैश्यः शूद्रस्तु द्विजसेवया॥२४॥
तद्युवयोः क्षत्रधर्मानुगो युद्ध एव नियमः।’ इत्यभिहिते सति, साधूक्तमनेनेति कृत्वान्योन्यतुल्यवीर्यौसमकालेऽन्योन्यघातेन विनाशमुपगतौ॥
अतोऽहंब्रवीमि— ‘संधिमिच्छेत् समेनापि’ इत्यादि॥ राजाह— ‘प्रागेव किं नोक्तं भवद्भिः?’ मन्त्री वदति— ‘मद्वचनं किमवसानपर्यन्तं श्रुतं भवद्भिः? तथापि मम संमत्या नायं विग्रहारम्भः। साधुगुणयुक्तोऽयं हिरण्यगर्भः न विग्राह्यः।
तथा चोक्तम्—
सत्यार्थौधार्मिकोऽनार्योभ्रातृसंघातवान् बली।
अनेकयुद्धविजयी संधेयाः सप्त कीर्तिताः॥२५॥
सत्योऽनुपालयेत्सत्यं संधितो नैति विक्रियाम्।
प्राणबाधेऽपि सुव्यक्तमार्यो नायात्यनार्यताम्॥२६॥
धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते।
प्रजानुरागाद्धर्माच्च दुःखच्छेद्यो हि धार्मिकः॥२७॥
संधिः कार्योऽयनार्येण विनाशे समुपस्थिते।
विना तस्याश्रयेणार्यो न कुर्यात् कालयापनम्॥२८॥
संहतत्वाद्यथा वेणुर्निबिडः कण्टकैर्वृतः।
न शक्यते समुच्छेत्तुं भ्रातृसंघातवांस्तथा॥२९॥
बलिना सह योद्धव्यमिति नास्ति निदर्शनम्।
प्रतिवातं नहि घनः कदाचिदुपसर्पति॥३०॥
जमदग्नेः सुतस्यैव सर्वः सर्वत्र सर्वदा।
अनेकयुद्धजयिनः प्रतापादेव भुज्यते॥३१॥
अनेकयुद्धविजयी संघानं यस्य गच्छति।
तत्प्रतापेन तस्याशु वशमायान्ति शत्रवः॥३२॥
तदत्र बहुभिर्गुणैरुपेतः संघेयोऽयं राजहंसः।’
चक्रवाकोऽवदत्— ‘सर्वमवगतम्। भो वक, व्रज त्वम्। तद्विशेषं पुनर्ज्ञात्वा गमिष्यसि।’ अथ हिरण्यगर्भः चक्रवाकं पृष्टवान्— ‘मन्त्रिन्, असंधेयाः कति? ताञ्छ्रोतुमिच्छामि।’ मन्त्री ब्रूते— ‘देव, कथयामि।
बाल वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः।
भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा॥३३॥
विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान्।
अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः॥३४॥
दैवोपहतश्चैव दैवचिन्तक एव च।
दुभिक्षव्यसनोपेतो वलव्यसनसंकुलः॥३५॥
अदेशस्थो वहुरिपुर्युक्तः कालेन चश्च न।
सत्यधर्भव्यपेतश्च विंशतिः पुरुषा अमी॥३६॥
एतैः संधिं न कुर्वीत विगृह्णीयानु केवलम्।
एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर्वशम्॥३७॥
बालस्यात्पप्रभावत्वान्न लोको योद्धुमिच्छति।
युद्धायुद्धफलं यस्माद्दातुं शक्तो न बालकः॥३८॥
उत्साहशक्तिहीनत्वात् वृद्धो दीर्घामयस्तथा।
स्वैरेव परिभूयेते द्वावप्येतावसंशयम्॥३९॥
सुखच्छेद्यो हि भवति सर्वज्ञातिवहिष्कृतः।
त एवैनं विनिघ्नन्ति ज्ञातयस्त्वात्मसात्कृताः॥४०॥
भीरुर्युद्धपरित्यागात् स्वयमेवापगच्छति।
तथैव भीरकजनः संग्रामे तैर्विमुच्यते॥४१॥
लुब्धत्यासंविभागित्वान्न युध्यन्तेऽनुजीविनः।
लुब्धोऽनुजीवकैरेवदानभन्नैर्निहन्यते॥४२॥
संत्यज्यते प्रकृतिभिर्विरक्तनकृतिर्युधि।
सुखाभियोज्यो भवति विषयेष्वतिसक्तिमान्॥४३॥
अनेकचित्तमन्त्रश्च द्वेष्योभवति मन्त्रिणाम्।
अनवस्थितचित्तत्वात्कार्ये तैः स उपेक्ष्यते॥४४॥
सदा धर्मबलीयत्त्वाद्देवब्राह्मणनिन्दकः।
विशीर्यते स्वयं ह्येव दैवोपहतकस्तथा॥४५॥
संपत्तेश्च विपत्तेश्च दैवमेव हि कारणम्।
इति दैवपरो ध्यायन्नात्मानमपि चेष्टते॥४६॥
दुर्भिक्षव्यसनी चैव स्वयमेवावसीदति।
बलव्यसनयुक्तस्य योद्धुं शक्तिर्न जायते॥४७॥
अदेशस्थोहि रिपुणा स्वल्पकेनापि हन्यते।
ग्राहोऽल्पीयानपि जले गजेन्द्रमपि कर्षति॥४८॥
बहुशत्रुस्तु संत्रस्तः श्येनमध्ये कपोतवत्।
येनैव गच्छति पथा तेनैवासौ विपद्यते॥४९॥
अकालसैन्ययुक्तस्तु हन्यते कालयोधिना।
कौशिकेन हतज्योतिर्निशीथ इव वायसः॥५०॥
सत्यधर्मव्यपेतेन न संदध्यात् कदाचन।
स संधितोऽप्यसाधुत्वादचिराद्याति विक्रियाम्॥५१॥
अपरमपि कथयामि। संधिविग्रहासनयानसंश्रयद्वैधीभावाः षड्गुणाः। कर्मणामारम्भोपायः पुरुषद्रव्यसंपत् देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः। सामदानभेददण्डाश्चत्वार उपायाः। उत्साहशक्तिः, प्रभुशक्तिः, मन्त्रशक्तिश्चेति शक्तित्रयम्। एतत्सर्वमालोच्य नित्यं विजिगीषवो भवन्ति महान्तः। यतः।
या हि प्राणपरित्यागमूल्येनापि न लभ्यते।
सा श्रीर्नीतिविदां गेहे चञ्चलापि प्रधावति॥५२॥
तथा चोक्तम्।
वित्तं यदा यस्य समं विभक्तं
गूढश्च चारो निभृतश्च मन्त्रः।
न चाप्रियं प्राणिषु यो ब्रवीति
स सागरान्तां पृथिवीं प्रशास्ति॥५३॥
किंतु, यद्यपि महामन्त्रिणा गृध्रेण संधानमुपन्यस्तं, तथापि तेन राज्ञा संप्रति जयगर्वान्न मन्तव्यम्। देव, तदेवं क्रियताम्। अस्मन्मित्रं सिंहलद्वीपस्य महाबलो नाम सारसो राजा जम्बूद्वीपे कोपं जनयतु। यतः।
सुगुप्तिमाधाय सुसंहतेन
बलेन वीरो विचरन्नरातिम्।
संतापयेद्येन समं सुतप्त-
स्तप्तेन संधानमुपैति तप्तः’॥५४॥
ततो राज्ञा ‘एवमस्तु’ इत्युक्त्वा विचित्रोनाम वकः सुगुप्तलेखं दत्वा सिंहलद्वीपं प्रस्थापितः।
अथ प्रणिधिः पुनरागत्योक्तवान्— ‘देव, श्रूयतां तत्रत्यः प्रस्तावः। एवं तत्र गृध्रेणोक्तम्— ‘देव, मेघवर्णस्तत्र चिरमुषितः। स वेत्ति किं संधेयगुणयुक्तो हिरण्यगर्भो राजा, न वेति।’ ततोऽसौ समाहूय राज्ञा पृष्टः— ‘वायस कीदृशाऽसौ हिरण्यगर्भो राजा? चक्रवाको मन्त्री वा कीदृशः?’ मेघवर्ण उवाच— ‘देव, स हिरण्यगर्भो राजा युधिष्ठिर इव महाशयः, सत्यवाक्। चक्रवाकसमो मन्त्री न क्काप्युवलोक्यते।’ राजाह— ‘यद्येवं तथा कथमसौ त्वया वञ्चितः?’ मेघवर्णो ब्रूते—
‘विश्वासं प्रतिपन्नानां वञ्चने का विदग्धता
अङ्कमारुह्य सुप्तं हि हत्वा किं नाम पौरुषम्॥५५॥
शृणु देव, तेन मन्त्रिणाहं प्रथमदर्शने विज्ञातः। किंतु, महाशयोऽसौ राजा। तेन मया विप्रलब्धः। तथा चोक्तम्—
आत्मौपम्येन यो वेत्तिदुर्जनं सत्यवादिनम्।
स तथा वञ्चयते धूर्तैर्ब्राह्मणश्छागतो यथा’॥५६॥
राजाह— ‘कथमेतत्?’ मेघवर्णः कथयति—
कथा ६।
‘अस्ति गौतमारण्ये प्रस्तुतयज्ञः कश्चिद्ब्राह्मणः। स च यज्ञार्थं ग्रामान्तराच्छागमुपक्रीय स्कन्धे नीत्वा गच्छन् धूर्तत्रयेणावलोकितः। ततस्ते धूर्ताः ‘यद्येष च्छागः केनाप्युपायेन लभ्यते, तदा मतिप्रकर्षो भवति।’ इत्यालोच्य वृक्षत्रयतले कोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः। तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणोऽभिहितः— ‘भो ब्राह्मण,किमिति कुक्कुरःस्कन्धेनोह्यते?’ विप्रेणोक्तम्— ‘नायं श्वा, किंतु यज्ञच्छागः। अथानन्तरस्थितेनान्येन धूर्तेन तथैवोक्तम्। तदाकर्ण्य ब्राह्मणश्छागं भूमौ निधाय मुहुर्निरीक्ष्य पुनः स्कन्धे कृत्वा डोलायमानमतिश्चलितः। यतः।
मतिर्डोलायते नूनं सत्तामपि खलोक्तिभिः।
ताभिर्विश्वसितो योऽसौ म्रियते चित्रकर्णवत्॥५७॥
राजा पृच्छति— ‘कथमेतत्?’ स कथयति—
कथा ७।
अस्ति कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम सिंहः। तस्यानुचरास्त्रयः काको व्याघ्रःसृगालश्च। अथ तैर्भ्रमद्भिः कश्चिदुष्ट्रो दृष्टः पृष्टश्च— ‘कुतो भवानागतः?’ स चात्मवृत्तान्तमकथयत्।
ततस्तैर्नीत्वा सिंहेऽसौ समर्पितः। तेनाभयवाचं दत्वा चित्रकर्ण इति नाम कृत्वा स्थापितः। एवं कालो गच्छति॥
अथ कदाचित् सिंहस्य शरीरवैकल्यात् भूरिवृष्टिकारणाच्च आहारमलभमानास्ते व्यग्रा बभूवुः। ततः काकव्याघ्रगोमायुभिरालोचितम्— ‘चित्रकर्णमेव यथा स्वामी व्यापादयति तथानुष्ठीयताम्। किमनेन कण्टकभुजा?’ व्याघ्रो ब्रूते— ‘स्वामिनाभयवाचं दत्त्वा गृहीतोऽयम्, कथमेवं संभविष्यति?’ वायसो वदति— ‘इह समये परिक्षीणः स्वामी, पापमपि करिष्यति।
यतः।
त्यजेत् क्षुधार्ता महिलापि पुत्रं
खादेत् क्षुधार्ता भुजगी स्वमण्डम्।
बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति॥५८॥
अन्यच्च।
मत्तः प्रमत्तश्चोन्मत्तः शान्तः क्रोधी वुभुक्षितः।
लुब्धो भीरुस्त्वरायुक्तः कामुकश्च न धर्मवित्’
इति निश्चित्य सर्वे सिंहान्तिकं जग्मुः। सिंहेनोक्तम्— ‘आहारार्धं प्राप्तं किंचित्?’ काको ब्रूते— ‘देव, यत्नादपि किंचिन्न प्राप्तम्।’ सिंहोऽवदत्— ‘कोऽधुना जीवनोपायः? काको वदति— स्वाधीनाहारपरित्यागात् सर्वनाशोऽयमुपस्थितः। सिंहेनोक्तम्— ‘अत्राहारः कः स्वाधीनः?’ काकः कर्णे कथयति ‘चित्रकर्ण’ इति। सिंहो भूमिं स्पृष्ट्वा कर्णौस्पृशति। ‘अभयवाचं दत्वा धृतोऽयमस्माभिः। कथमेवं युज्यते? तथा चोक्तम्—
न गोप्रदानं न च भूमिदानं
न चान्नदानं न पयःप्रदानं।
यथा वदन्तीह महाप्रदानं
सर्वेषु दानेष्वभयप्रदानम्॥५९॥
अन्यच्च।
सर्वकामसमृद्धस्य अश्वमेधस्य यत्फलम्।
तत्फलं लभते सम्यग्रक्षिते शरणागते’॥६०॥
काको ब्रूते— ‘नासौ स्वामिना व्यापादयितव्यः। किंत्वस्माभिरेव तथा कर्तव्यं यथासौ स्वदेहदानमङ्गीकरोति।’ तच्छ्रुत्वा सिंहस्तूष्णीं स्थितः। तृतौऽसौ लब्धावकाशः कूटं कृत्वा सर्वानादाय सिंहसमीपमागतः। अथ काकेनोक्तम्— ‘देव, यत्नादप्याहारो न प्राप्तः। अनेकोपवासक्लिष्टः स्वामी। तदिदानीं मदीयमांसं समुपभुज्यताम्। यतः
स्वामिमूला भवन्त्येताः सर्वाः संपत्तयः खलु।
समूलेष्वपि वृक्षेषु प्रयत्नः सफलो नृणाम्’॥६१॥
सिंहेनोक्तम्— ‘वरं प्राणपरित्यागो, न पुनरीदृशे कर्मणि प्रवृत्तिः। ‘जम्बुकेनापि तथोक्तम्। ततः सिंहेनोक्तम्—‘मैवम्।’ व्याघ्र उवाच— ‘मद्देहेन जीवतु स्वामी।’ सिंहेनोक्तम्— ‘न कदाचिदेवमुचितम्।’ अथ चित्रकर्णोऽपि जातप्रत्ययः, तथैवात्मदेहदानमाह। तद्वदन्नेव व्याघ्रेण कुक्षिं विदार्य व्यापादितः, सर्वैर्भक्षितश्च।
अतोऽहं ब्रवीमि— ‘मतिर्डोलायते नूनम्’ इत्यादि॥ अनन्तरं पुनर्गच्छन् स ब्राह्मणस्तृतीयेन धूर्तेनोक्तः। भो ब्राह्मण, किमिति कुक्कुरं स्कन्धेन भवान्वहति?’ तदाकर्ण्य ब्राह्मणः ‘निश्चितमेवायं कुक्कुर’ इति मत्वा च्छागं त्यक्त्वा स्नात्वा स्वगृहं ययौ। स च्छागस्तैर्धूर्तैर्नीत्वा भक्षितः। अतोऽहं ब्रवीमि— ‘आत्मौपम्येन यो वेत्ति ’ इत्यादि॥
राजाह— ‘मेघवर्ण, कथं त्वया शत्रुमध्ये सुचिरमुषितम्? कथं वा तेषामनुनयः कृतः?’ मेघवर्ण आह— ‘देव, स्वामिकार्यार्थिना स्वप्रयोजनवशाद्वा किं न क्रियते। पश्य।
लोको वहति किं राजन् न मूर्ध्ना दग्धुमिन्धनम्।
क्षालयन्नपि वृक्षांघ्रिं नदीबेला निकृन्तति॥६२॥
तथा चोक्तम्—
स्कन्धेनापि वहेच्छत्रून् कार्यमासाद्य बुद्धिमान्।
यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः॥६३॥
राजाह— ‘कथमेतत्?’ मेघवर्णः कथयति—
कथा ८।
अस्ति जीर्णोद्याने मन्दविषो नाम सर्पः। सोऽतिजीर्णतया स्वाहारान्वेषणेऽप्यक्षमः सरस्तीरे पतित्वा स्थितः। ततो दूरात् केनचिन्मण्डूकेन दृष्टः पृष्ठश्च— ‘किं स्वाहारं नान्विष्यसि इति। सर्पो ब्रूते— ‘गच्छ, किं ते मम मन्दभाग्यस्य वृत्तान्तप्रश्नेन?’ ततः संजातकौतुकः स भेकः ‘सर्वथा कथ्यताम्’ इत्याह। सर्पो ब्रूते— ‘ब्रह्मपुरवासिनः श्रोत्रियस्य कौण्डिन्यस्य
पुत्रो विंशतिवर्षदेशीयः सर्वगुणसंपन्नः दुर्दैवान्मम नृशंसस्वभावादृष्टः। तं पुत्रं सुशीलनामानं मृतमवलोक्य कौण्डिन्यः शोकेन पृथिवीतलेऽलुठत्। अनन्तरं ब्रह्मपुरवासिनः सर्वे बान्धवास्तस्य तत्रागत्योपविष्टाः।’ ततः कपिलो नाम स्नातकोऽवदत्— ‘अरे कौण्डिन्य, मूढोऽसि। तेनैवं विलपसि। शृणु।
क्रोडे करोति प्रथमं यथा जातमनित्यता।
धात्रीव जननी पश्चात् तथा शोकस्य कः क्रमः॥६४॥
तथा च।
क्व गताः पृथिवीपालाः ससैन्यबलवाहनाः।
वियोगसाक्षिणी येषां भूमिरद्यापि तिष्ठति॥६५॥
अपरं च।
कायः संनिहितापायः सपदः पदनापदाम्।
समागताः सापगमाः सर्वमुत्पादि भङ्गुरम्॥६६॥
प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
जामकुम्भ इवाम्भःस्त्रो विशीर्णः सन् विभाव्यते॥६७॥
आसन्नतरतामेति जन्तोर्मृत्युर्दिने दिने।
आघातं नीयमानत्व वध्वस्येव पदे पदे॥६८॥
अनित्यं योवनं रूपं जीवितं द्रव्यसंचयः।
ऐश्वर्यं प्रियसंवासो मुह्येत् तत्र न पण्डितः॥६९॥
यथा काष्ठंच काष्ठंच समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः॥७०॥
यथा हि पथिकः कश्चिच्छायानाश्रित्य तिष्ठति।
विश्रम्य च पुनर्गच्छेत् तद्वद्भूतसमागमः॥७१॥
अन्यच्च।
पञ्चभिर्निर्मिते देहे पञ्चत्वं च पुनर्गते।
स्वां स्वां योनिमनुप्राप्ते तत्र का परिवेदना॥७२॥
यावतः कुरुते जन्तुः संवन्धान् मनसः प्रियान्।
तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः॥७३॥
नायमत्यन्तसंवालः कस्यचित् कनचित् क्वचित्
अपि स्वेन शरीरेण किमुत न्यैः पृथग्गुमैः॥७४॥
अपि च।
सयोगो हीवयागस्य समूचयातलभवम्।
अनतिक्रमणीयस्य जन्म मृत्योरिवागनम्॥७५॥
अपातरमणीयानां संयोगानां प्रियैः सह।
अपथ्यानामिवान्नानां परिणामोऽतिदारुणः॥७६॥
अपरं च।
व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा।
आयुरादाय मर्त्यानां तथा रात्र्यहनी सदा॥७७॥
सुखास्वादपरो यस्तु संसारे सत्समागमः।
स वियोगावसानत्वाद्दुःखानां धुरि युज्यते॥७८॥
अत एव हि नेच्छन्ति साधवः सत्समागमम्।
चद्वियोगासिलूनस्य मनसोनास्ति भेषजम्॥७९॥
सुकृतान्यपि कर्माणि राजभिः सगरादिभिः।
अनंतान्येवकर्मापि ते चापि प्रलयं गताः॥८०॥
संचिन्त्य संचिन्त्य तमुत्रदण्डं
मृत्युं मनुष्यस्यविचक्षणस्य।
वर्षाम्बुसिक्ता इव चर्मबन्धाः
सर्वे प्रयत्नाः शिथिलीभवन्ति॥८१॥
यामेव रात्रिं प्रथमामुपैति
गर्भे निवासी नरवीरलोकः।
ततः प्रभृत्यस्खलितप्रयाणः
स प्रत्यहं मृत्युसमीपमेति॥८२॥
अथ संसारमविचारयतां शोकोऽयमज्ञानस्य प्रपञ्चः। पश्य
अज्ञानं कारणं न स्यात् वियोगो यदि कारणम्।
शोको दिनेषु गच्छत्सु वर्धतामपयाति किम्॥८३॥
तदत्रात्मानमनुसंघेहि। शोकचर्चां परिहर। यतः।
अकाण्डपातजातानां गात्राणां मर्मभेदिनाम्।
गाढशोकप्रहाराणामचिन्तैव महौषधी’॥८४॥
ततस्तद्वचनं निशम्य प्रबुद्ध इव कौण्डिन्य उत्थायाव्रवीत्— तदलमिदानीं गृहनरकवासेन। वनं गच्छामि।’ पुनः कपिलो ब्रूते—
‘वनेऽपि दोषाः प्रभवन्ति रागिणां
गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः।
अकुत्सिते कर्मणि यः प्रवर्तते
निवृत्तरागस्य गृहं तपोवनम्॥८५॥
यतः।
दुःखितोऽपि चरेद्धर्मं यत्र कुलाश्रमे रतः।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम्॥८६॥
उक्तं च।
वृत्त्यर्थ भोजनं येषां संतानार्थं च मैथुनम्।
वाक्सत्यवचनार्थाय दुर्गाण्यपि तरन्ति ते॥८७ ॥
तथा हि।
आत्मा नदी भारतपुण्यतीर्था
सत्योदका शीलतटा दयोर्मिः।
अत्राभिषेकं कुरु पाण्डुपुत्र
न वारिणा शुद्ध्यति चान्तरात्मा॥८८॥
विशेषतश्च।
जन्ममृत्युजराव्याधिवेदनाभिरभिप्लुतम्।
संसारमिदमत्यन्तमसारं त्यजतः सुखम्॥८९॥
यतः।
दुःखमेवास्ति न सुखं यस्मात्तदुपलक्ष्यते।
दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते॥९०॥
कौण्डिन्यो ब्रूते— ‘एवमेव’। ततोऽहं तेन शोकाकुलेन ब्राह्मणेन शप्तः— ‘यदद्यारभ्य मण्डूकानां वाहनं भविष्यसि’ इति। अथ कश्चिद्व्राह्मण उवाच— ‘कपिलोपदेशाद्विश्रान्तं ते हृदयम्। तथा हि। शृणु।
सङ्गः सर्वात्मना त्याज्यः स चेत्यक्तुं न शक्यते।
सद्भिः सहैव कर्तव्यः सतां सङ्गो हि भेषजम्॥९१॥
अन्यच्च।
कामः सर्वात्मना हेयः स चेद्धातुं न शक्यते।
स्वभार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम्॥९२॥
एतच्छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृतप्रशान्तशोकानलो यथाविधि दण्डग्रहणं कृतवान्। अतो ब्राह्मणशापान्मण्डूकान् वोढुमत्र तिष्ठामि। अनन्तरं तेन मण्डूकेन गत्वा मण्डूकनाथस्य जाल पादनाम्नोऽग्रे तत्कथितम्। ततः समागत्य मण्डूकनाथस्तस्य सर्पस्य पृष्ठभारूढवान्। स च सर्पस्तं पृष्ठे कृत्वा चित्रपदक्रमं बभ्राम परेद्युश्चलितुमसमर्थं तं मण्डूकनाथोऽवदत्— ‘किमद्य भवान् मन्दगतिः?’ सर्पो ब्रूते— ‘देवाहारविरहादसमर्थोऽस्मि।’ मण्डूकनाथोऽवदत्— ‘अस्मदाज्ञया मण्डूकान् भक्षय।’ ततो गृहीतोऽयं प्रसाद’ इत्युक्त्वा क्रमशः स मण्डूकान् खादति। अथ निर्मण्डूकं सरो विलोक्य मण्डूकनाथोऽपि तेन खादितः॥
अतोऽहं ब्रवीमि— ‘स्कन्धेनापि वहेच्छत्रून्’ इत्यादि॥ ‘देव, यात्विदानीं पुरावृत्ताख्यानकथनम्। सर्वथा संधेयोऽयं हिरण्यगर्भो राजा संधीयतामिति ने मतिः।’ राजोवाच— ‘कोऽयं भवतो विचारः? यतो जितस्तावदयमस्माभिस्ततो यद्यस्मत्सेवया वसति, तदास्ताम्। नो चेद्विगृह्यताम्।
अत्रान्तरे जम्बूद्वीपादागत्य शुकेनोक्तम्— ‘देव, सिंहलद्वीपस्य सारसो राजा संप्रति जम्बूद्वीपमाक्रम्यावतिष्ठते। ‘राजा तं ससंभ्रममाह— ‘किं किम् ? ’ शुकः पूर्वोक्तं कथयति। गृध्रो ब्रूते— ‘साधु रे चक्रवाक मन्त्रिन् सर्वज्ञ साधु।’ राजा सकोपमाह— आस्तां तावदयं, गत्वा तं समूलमुन्मूलयामि।’ दूरदर्शी विहस्याह—
‘न शरन्मेघवत्कार्यं वृथैव घनगर्जितम्।
परस्यार्थमनर्थं वा प्रकाशयति नो महान्॥९३॥
अपरं च।
एकदा न विगृह्णीयात् बहून् राजाऽभिघातिनः।
सदर्पोऽप्युरगः कीटैर्बहुभिर्नश्यते ध्रुवम्॥९४॥
‛देव, किमितो विना संधानं गमनमस्ति? तदास्मत्पश्चात् प्रकोपोऽनेन कर्तव्यः।
योऽर्थतत्त्वमविज्ञाय क्रोधस्यैव वशं गतः।
स तथा तप्यते मूढो ब्राह्मणो नकुलादिव’॥९५॥
राजा पृच्छति— कथमेतत्?’ दूरदर्शी कथयति—
कथा ९।
अस्त्युज्जयिन्यां माधवो नाम ब्राह्मणः। तस्य ब्राह्मणी प्रसूता बालापत्यरक्षणार्थं ब्राह्मणमवस्थाप्य स्नातुं गता। तस्मिन् काले ब्राह्मणाय राज्ञः पार्वणश्राद्धं दातुमाह्वाननागतम्। तच्छ्रुत्वा ब्राह्मणः सहजदारिद्र्यादचिन्तयत्— ‘यदि सत्वरं न गच्छामि, तदाऽन्यः कश्चिच्छ्रुत्वा श्राद्धं ग्रहीष्यति।
आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥९६॥
किंतु, बालकस्यात्ररक्षको नास्ति। तत् किं करोमि? यातु। चिरकालपालितमिमं नकुलं पुत्रनिर्विशेषं बालकरक्षायां व्यवस्थाप्ययामि।’ तथा कृत्वा गतः। ततस्तेन नकुलेन बालकसमीपमागच्छन् कृष्णसर्पों दृष्ट्वा व्यापाद्य कोषात्खण्डं खण्डं कृत्वा खा-
दितः। ततोऽसौ नकुलो ब्राह्मणमायान्तमवलोक्य रक्तविलिप्तमुखपादः सत्वरमुपागत्य ब्राह्मणस्य चरणयोर्लुलोठ। ततोऽसौ ब्राह्मणस्तं तथाविधं दृष्ट्वा मम पुत्रोऽनेन भक्षित’ इति बुद्ध्या व्यापादितवान्। अनन्तरं यावदसावागत्य पश्यति, तावद्बालकः सुस्थः, सर्पश्च व्यापादितः तदुपकर्तारं नकुलं निरूप्य महान्तं सन्तापमवाप्तवान्।
अतोऽहं ब्रवीमि— ‛योऽर्थतत्त्वमविज्ञाय ’ इत्यादि॥
अपरं च।
कामः क्रोधस्तथा लोभो मोहो मानो मदस्तथा।
षड्वर्गमुत्सृजेदेनमस्मिन् त्यक्ते सुखी भवेत्॥९७॥
राजाह— ‘मन्त्रिन्, एष ते निश्चयः।’ मन्त्री ब्रूते— ‘एवमेव। यतः।
स्मृतिश्च परमार्थेषु वितर्को ज्ञाननिश्चयः।
दृढता मन्त्रगुप्तिश्च मन्त्रिणः परमा गुणाः॥९८॥
तथा च
सहसा विदधीत न क्रिया-
मविवेकः परमापदां पदम्।
वृणुते हि विमृश्यकारिणं
गुणलुब्धाः स्वयमेव संपदः॥९९॥
तद्देव, यदिदानीमस्मद्वचनं क्रियते, तदा संधाय गम्यताम्। यतः।
यद्यप्युपायाश्चत्वारोनिर्दिष्टाः साध्यसाधनं
संख्यामात्रं फलं तेषां सिद्धिः साम्निव्यवस्थिता’॥१००॥
राजाह— ‘कथमेवं संभवति?’ मन्त्री ब्रूते— ‛देव सत्वरं भविष्यति। यतः।
मृद्धटवत् सुखभेद्यो दुस्संधानश्च दुर्जनो भवति।
सुजनस्तु कनकघटवद्दुर्भेद्यश्चाशु संघेयः॥१०१॥
अपरं च।
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥१०२॥
विशेषतश्चायं धर्मज्ञो राजा, सर्वज्ञो मन्त्री च। ज्ञातमेतन्मया पूर्वं मेघवर्णवचनात्, तत्कृतकार्यसंदर्शनाच्च। यतः।
कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः।
तस्मात्परोक्षवृत्तीनां फलैः कर्म विभावयेत्॥१०३॥
राजाह— ‘अलमुत्तरोत्तरेण। यथाभिमतमनुष्ठीयताम्।’ ततो गृध्रो महामन्त्री ‘तत्रतथार्हं कर्तव्यम्’ इत्युक्त्वा दुर्गाभ्यन्तरं चलितः। ततः प्रणिधिबकेनागत्य राज्ञो हिरण्यगर्भस्य निवेदितम्— ‘देव, संधिं कर्तुं महामन्त्री गृध्रोऽस्मत्समीपमागच्छत्।’ राजहंसो ब्रूते— ‛मन्त्रिन्‚ पुनः संबन्धिना केनचिदत्रागन्तव्यम्।’ सर्वज्ञो विहस्याह— ‘देव, न शङ्कास्पदमेतत्। यतो महाशयोऽसौ दूरदर्शी। अथवा स्थितिरियं मन्दमतीनाम्। कदाचिच्छङ्कैव न क्रियते। कदाचित्सर्वत्र शङ्का। तथा हि।
सरसि बहुशस्ताराच्छाये क्षणात् परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशासु विचक्षणः।
न दशति पुनस्ताराशङ्की दिवाऽपि सितोत्पलं
कुहकचकितो लोकः सत्येऽप्यपायमवेक्षते॥१०४॥
दुर्जनदूषितमनसः सुजनेष्वपि नास्ति विश्वासः।
बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति॥१०५॥
तद्देव, यथाशक्ति तत्पूजार्थं रत्नोपहारादिसामग्री सज्जीक्रियताम्। तथाऽनुष्ठिते सति, गृध्रो मन्त्री दुर्गद्वाराच्चक्रवाकेणोपगम्य सत्कृत्यानीय राजदर्शनं कारितो, दत्तासने चोपविष्टः। चक्रवाक उवाच— ‛युष्मदायतं सर्वम्। स्वेच्छयोपभुज्यतामिदं राज्यम्। राजहंसो ब्रूते— ‘एवमेव।’ दूरदर्शी ब्रूते— ‘एवमेवैतत्। किं त्विदानीं बहुप्रपञ्चनं निष्प्रयोजनम्। यतः।
लुब्धमर्थेन गृह्णीयात् क्रुद्धमञ्जलिकर्मणा।
मूर्ख छन्दानुरोधेन याथातथ्येन पण्डितम्॥१०६॥
अन्यच्च।
सद्भावेन हरेन्मित्रं संभ्रमेण तु बान्धवान्।
स्त्रीभृत्यौ दानमानैश्चदाक्षिण्येनेतरान् जनान्॥१०७॥
तदिदानीं संधाय गम्यताम्। महाप्रतापश्चित्रवर्णो राजा।’ चक्रवाको वक्ति— ‘यथासंधानं कार्यं, तदप्युच्यताम्।’ राजहंसो ब्रूते— ‘कति प्रकाराः संधीनां संभवन्ति?’ गृध्रो वदति— ‘कथयामि। श्रूयताम्।
बलीयसाऽभियुक्तस्तु नृपो नान्यप्रतिक्रियः।
आपन्नः संधिमन्विच्छेत् कुर्वाणः कालयापनम्॥१०८॥
कपाल उपहारश्च संतानः संगतस्तथा।
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः॥१०९॥
अदृष्टनर आदिष्ट आत्मादिष्ट उपग्रहः।
परिक्रयस्तथोच्छिन्नस्तथा च परभूषणः॥११०॥
स्कन्धोपनेयसंधिश्च षोडशैते प्रकीर्तिताः।
इति षोडशकं प्राहुः संधि संधिविदो जनाः॥१११॥
कपालसंधिर्विज्ञेयः केवलं सनसंधितः।
संप्रदानाद्भवति य उपहारः स उच्यते॥११२॥
संतानसंधिर्विज्ञेयो दारिकादानपूर्वकः।
सद्भिस्तु संगतः संधिर्मैत्रीपूर्व उदाहृतः॥११३॥
यावदायुः प्रमाणस्तु समानार्थप्रयोजनः।
संपत्तौ वा विपत्तौ वा कारणैर्यो न भिद्यते॥११४॥
संगतः संधिरेवायं प्रकृष्टत्वात् सुवर्णयत्।
तथाऽन्यैः संधिकुशलैः काञ्चनः स उदाहृतः॥११५॥
द्रव्यसिद्धिं समुद्दिश्य संधिश्च क्रियते यतः।
स उपन्यासकुशलैरुपन्यास उदाहृतः॥११६॥
मयास्योपकृतं पूर्वं ममाप्येष करिष्यति।
इति यः क्रियते संधिः प्रतीकारः स उच्यते॥११७॥
उपकारं करोम्यस्य ममाप्येष करिष्यति।
अयं चापि प्रतीकारः रामसुग्रीवयोरिव॥११८॥
एकार्थांसम्यगुद्दिश्य क्रियां यत्न हि गच्छति।
स संहितप्रमाणस्तु स न संयोग उच्यते॥११९॥
आवयोर्योधमुख्यैस्तु मदर्थः साध्यतामिति।
यस्मिन्पणस्तु क्रियते स संधिः पुरुषान्तरः॥१२०॥
त्वयैकेन मदीयोऽर्थः संप्रसाध्यत्वसाविति।
यत्र शत्रुः पणं कुर्यात् सोऽदृष्टपुरुषः स्मृतः॥१२१॥
यत्र भूम्येकदेशेन पणेन रिपुरूर्जितः।
संधीयते संधिविद्भिरादिष्टः स उदाहृतः॥१२२॥
स्वसैन्येन व संधानमात्मादिष्ट उदाहृतः।
क्रियते प्राणरक्षार्थं सर्वदानादुपग्रहः॥१२३॥
कोशांशेनार्धकोशेन सर्वकोशेन वा पुनः।
शिष्टस्य प्रतिरक्षार्थं परिक्रिय उदाहृतः॥१२४॥
भुवां सारवतीनां तु दानादुच्छिन्न उच्यते।
भूम्युत्थफलदानेन सर्वेण परभूषणः॥१२५॥
परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते।
स्कन्धोपनेयं तं प्राहुः संधि संधिविचक्षणाः॥१२६॥
परस्परोपकारस्तु मैत्री संवन्धजस्तथा।
उपहारश्च विज्ञेयाश्चत्वारश्चैव सधवः॥१२७॥
एक एवोपहारस्तु संधिरेव मतो मम।
उपहारविभेदास्तु सर्वे मैत्रविवर्जिताः॥१२८॥
अभियोक्ता बलीयस्त्वादलब्ध्वा न निवर्तते।
उपहारादृते तस्मात् संधिरन्वोन विद्यते॥१२९॥
राजाह— ‘भयन्तो महापण्डिताः, तदत्रास्माकं यथाकार्यमुपदिश्यताम्।’ दूरदर्शी ब्रूते— ‘आः, फिमेषमुच्वते।
आधिव्याधिपरीतापैरद्य श्वो वा विनाशिने।
को हि नाम शरीराय धर्मापेतं समाचरेत्॥१३०॥
जलान्तश्चन्द्रचपलं जीवितं खलु देहिनाम्।
तथाविधमिति ज्ञात्वा शश्वत् कल्याणमाचरेत्॥१३१॥
मृगतृष्णोषमं वीक्ष्य संसारं क्षणभङ्गुरम्।
सुजनैः संगतं कुर्याद्धर्माय च सुखाय च॥१३२॥
तन्मम संमतेन तदेव क्रियताम्। यतः।
अश्वमेधसहस्राणि सत्यं च तुलया कृतम्।
अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते॥१३३॥
अतस्सत्याभिधानदिव्यपुरस्सरयोरष्यनयोर्भूपालयोः काञ्चनाभिधानसंधिर्विधीयताम्।’ सर्वज्ञो वदति— ‘एवमस्तु।’ ततो वस्त्रोपहारादिना स मन्त्री दूरदर्शी पूजितः। प्रहृष्टमनाश्चक्रवाकं गृहीत्वा मयूरस्य राज्ञः समीपं गतः। तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्रवचनाद्बहमानदानपुरस्सरं संभाषितः तथाविधं संधिं स्वीकृत्य ‘राजहंससमीपं प्रस्थापितः। दूरदर्शी ब्रूते— ‘देव, सिद्धं नः समीहितम्। इदानीं स्वस्थानमेव विन्ध्याचलं प्रतिगम्यताम्। अथ सर्वे स्वस्थानं प्राप्य मनोऽभिलषितं फलं प्राप्नुवन्निति।
विष्णुशर्मणोक्तम्— ‘अपरं किं कथयामि? तदुच्यताम्।’ राजपुत्रा ऊचुः— ‘आर्य, तव प्रसादात् सकलराज्यव्यवहाराङ्गं ज्ञातम्। ततः सुखिनो भूता वयम्।’ विष्णुशर्माोवाच— ‘यद्यप्येवं, तथाऽपि अपरमपीदमस्तु—
संघेः सर्वमहीभुजां विजयिनामस्तु प्रमोदः सदा
सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश्विरं वर्धताम्।
नीतिर्वारविलासिनीव सततं वक्षःस्थले राजताम्
वक्रं चुम्बतु मन्त्रिणासहरहर्भूयन्महानुत्सवः’॥१३४॥
अन्यच्चास्तु।
प्रालेयाद्रेः सुतायाः प्रणयनिवसतिश्चन्द्रमौलिः स याव-
द्याल्लक्ष्मीर्मुरारेर्जलद इव तडिन्मानसे विस्फुरन्ती।
यावत्स्वर्णागलोऽयं दवदहनसमो यस्य सूर्यः स्फुलिङ्ग-
स्तावन्नारायणेन प्रचरतु रचितः संग्रहोऽयं कथानाम्॥१३५॥
अपरं च।
श्रीमान् धवलचन्द्रोऽसौ जीयान्माण्डलिको रिपून्।
येनायं संग्रहो यत्नाल्लेखयित्वा प्रचारितः॥१३६॥
इति हितोपदेशे संधिर्नामचतुर्थः कथासंग्रहः समाप्तः॥
समाप्तोऽयं हितोपदेशः॥
शुभं भूयात्॥
PRINTED AT THE SRI RAMA PRESS, MADRAS—1928.
]