[[सामान्यविरुदावलीलक्षणम् Source: EB]]
[
सामान्यविरुदावलीलक्षणम् श्रीरूपगोस्वामिप्रभुपादप्रणीतम्
नमः श्रीकृष्णाय
प्रणम्य परमानन्दं वृन्दारण्यपुरन्दरम् ।
लिख्यते विरुदावल्याः सङ्क्षेपाल्लक्षणं मया ॥१॥
कलिकाश्लोकविरुदैर्युता विविधलक्षणैः ।
कीर्तिप्रतापशौटीर्यसौन्दर्योन्मेषशालिनी ॥२॥
कलिकाद्यन्तसंसर्गिपद्या दोषविवर्जिता ।
शब्दाडम्बरसम्बन्धा कर्तव्या विरुदावली ॥३॥
व्युत्पन्नः सुस्थिरमतिर्गतग्लानिर्गलस्वनः ।
भक्तः कृष्णे भवेद्यः स विरुदावलिपाठकः ॥४॥
तत्र कलिकालक्षणम्
——
कला नाम भवेत्तालनियता पदसन्ततिः ।
कलाभिः कलिका प्रोक्ता तद्भेदाः षट्समीरिताः ॥५॥
कलिका चण्डवृत्ताख्या द्विगादिगणवृत्तका ।
तथा त्रिभङ्गीवृत्ताख्या मध्या मिश्रा च केवला ॥६॥
तत्र चण्डवृत्तवत्
——
चण्डवृत्तं द्विधा तत्र सामान्यं च सलक्षणम् ।
अत्र संयुक्तवर्णानां नियमो दशधा च ते ॥७॥
मधुरश्लिष्टविश्लिष्टशिथिलह्रादिनस्त्वमी ।
भिद्यन्ते ह्रस्वदीर्घाभ्यां ते दर्श्यन्ते यथा स्फुटम् ॥८॥
ह्रस्वान्मधुरसंयोगाः शङ्कराईकुशकिङ्कराः ।
तस्मात्तु श्लिष्टसंयुक्ताः दर्पकर्परसर्पवत॥९॥
ततो विश्लिष्टसंयुक्ताः भल्लकल्याणचिल्लयः ।
तथा शिथिलसंयुक्ताः पश्य कश्यपवश्यवत॥१०॥
गर्हादीन्ह्रादिसंयुक्तभेदान्केचित्समूचिरे ।
दीर्घात्तु गाङ्गं कार्पासं बाल्यं विश्वश्च बाह्यकम् ॥११॥
तत्र कलापरिमाणम्
——
अधिकाश्चेच्चतुःषष्ठिर्न्यूना द्वादश ताः कलाः ।
एताभ्यो नाधिका कार्या न्यूनाश्चापि न पण्डितैः ॥१२॥
दशस्वपि च संयुक्तेष्वालक्ष्यो नियमो हि यः ।
आद्यायां स तु कर्तव्य उत्तरासु कलास्वपि ॥१३॥
तत्र सामान्यं चण्डवृत्तम्
——
सामान्यचण्डवृत्ताख्यकलिकालक्षणं यथा ।
दलस्यैकस्य मादीनां गणानां बन्धनं पुनः ॥१४॥
एकद्वित्रिचतुःपञ्चक्रम्णातः परं नहि ।
गुरोर्लघोर्द्वयोर्वाथ गणास्तेष्वेकया धृतिः ॥१५॥
गणपञ्चकसम्बद्धा कला पञ्चदशार्णका ।
लघुना षोडशयुता द्वाभ्यां सप्तदशार्णकाः ॥१६॥
परा सप्तदशार्णेभ्यश्चण्डवृत्तकला नहि ।
न्यूना वर्णत्रयाच्चेति कलायां लक्षणं त्विदम् ॥१७॥
एको गणस्तु गुर्वन्तो लघ्वन्तो तद्द्वियुग्यथा ।
तत्रैको गुर्वन्तः
—
कंसध्वंसिन्पुष्पोत्तंसिनित्यादि ।
लघ्वन्तो
,
यथा
—
भक्तिप्रीत वक्ति श्रीद इत्यादि ।
गुरुलघ्वन्तो
,
यथा
—
विश्वस्य प्रेष्ठ सर्वस्य श्रेष्ठ इत्यादि ।
गुरुद्वन्द्वान्तो
,
यथा
—
रङ्गालीसिन्धो रम्याङ्गीबन्धो इत्यादि ।
लघुद्वन्द्वान्तो
,
यथा
—
वीरश्रीधर धीरप्रीतिद इत्यादि ।
द्वय्त्रयश्चाथ चत्वारः पञ्चाप्येवं स्मृता मताः ।
मध्यौ गणौ च गुर्वन्तौ लघ्वन्तौ तद्द्वयान्वितौ ॥१८॥
तत्र मयौ केवलौ
,
यथा
—
नन्दप्रेष्ठ विष्णो कन्दर्पेष्ट जिष्णो इत्यादि ।
तौ गुर्वन्तौ
,
यथा
—
कालिन्दीतटोल्लासिन्रोलम्बीकुलोद्भासिनित्यादि ।
लघ्वन्तौ
,
यथा
—
कालिन्दीकृतोल्लास सारङ्गीधृतोद्भास इत्यादि ।
गुरुद्वन्द्वान्तौ
,
यथा
—
वृन्दारण्यमल्लीनन्दिन्मन्दारम्भखल्यानिन्दिनित्यादि ।
गुरुलघ्वन्तौ
,
यथा
—
गौराङ्गी कलासङ्गीत सारङ्गी घटासंवीत इत्यादि ।
लघुद्वन्द्वान्तौ
,
यथा
—
वृन्दारण्यवल्लीप्रिय कुन्दारब्धवल्लीक्रिय इत्यादि ।
गणत्रयादिकाश्चैवं बुधैर्ज्ञेयाः क्रमात्कलाः ।
समवृत्तानि पद्यानि त्र्यक्षरादीनि यानि तु ॥१९॥
तथा मेघाक्षरान्तानि सुश्रवाणि निसर्गतः ।
सामान्यचण्डवृत्तस्य कलात्वं तानि पूर्ववत।
संयुक्तवर्णनियमाद्भजन्तीति सतां मतम् ॥२०॥
अथ सलक्षणं चण्डवृत्तम्
——
द्विधा सलक्षणश्चण्डो नखौ विशिख इत्यपि ।
तत्र नखः
——
नखाख्यं चण्डवृत्तं तु प्रोक्तं विंशतिधा बुधैः ॥२१॥
आदौ रणाभिधस्तद्वद्वीरभद्रोऽपराजितम् ।
पुरुषोत्तमसंज्ञं च वर्धितं वेष्टनं तथा ॥२२॥
समग्रमच्युताख्यं च तथा मातङ्गखेलितम् ।
उत्पलं कन्दलः कल्पद्रुमश्चास्खलितं तथा ॥२३॥
स्यात्तुरङ्गो गुणरतिस्तथा पल्लवितं परम् ।
तरत्समन्तं काशाख्यं तिलकं यतिनर्तनम् ॥२४॥
तत्र (१) रणः
——
जरतैर्भेन बद्धाभिः कलाभिः पूर्वसङ्ख्यया ।
सर्वत्र श्लिष्टयुतकं चण्डवृत्तं रणाभिधम् ॥२५॥
यथा
——
सदर्पसर्पविस्पर्धिस्फुरद्भुज
प्रसर्पविभ्रमध्वस्तद्विषद्ध्वज
सदर्परक्तविप्रुड्विचित्रित
प्रहर्षचक्रवल्गज्जनस्तुत । इत्यादि ।
अथ (२) वीरभद्रः
——
मभनैर्नेन बद्धाभिश्चतुः श्लिष्टयुतादिभिः ।
अष्टमात्राच्छिदाभिस्तु कलाभिरुपकल्पितम् ।
वीरभद्रतयाख्यातं चण्डवृत्तं प्रचक्षते ॥२६॥
यथा
——
उद्यद्विद्युत्प्रतिभट नवपट
नम्रब्रह्मस्तुत पदसरसिज
दृप्यद्वत्स स्तवकितरसभर
रक्षद्दक्ष प्रियजनपरिकर । इत्यादि ।
अथ (३) अपराजितम्
——
भसजग्लैर्निबद्धैस्तैरादौ मधुरयोगतः ।
षष्टाष्टमदशस्थाने दीर्घयोग प्रवोलभिः (
?)
।
अंशैः कृतमिदं नाम्ना स्याच्चण्डमपराजितम् ॥२७॥
यथा
—
दण्डितवकदानवोरुकाय
खण्डितखलजातभूर्माय
मण्डितवरनागरीविहार
चण्डितपददारिताहिसार । इत्यादि ।
अथ (४) पुरुषोत्तमः
——
ससभैः कल्पितैरंशैर्दीर्घश्लिष्टमनोहरैः ।
क्रमात्षष्ठेऽष्टमे तूर्ये दीर्घश्लिष्टसमन्वितैः ।
निबद्धं चण्डवृत्तं तु पुरुषोत्तमनामकम् ॥२८॥
यथा
—
पुरुषोत्तम वीरव्रत
यौम्नाद्भुततीरस्थित
मुरलीध्वनिपूरक्रिय
सुरभीव्रजनादप्रिय । इत्यादि ।
अथ (५) वर्धितं
——
भनजैर्जेन लघुना बद्धैरंशः समन्वितम् ।
एकाष्टैकादश स्थाने श्लिष्टसंयोगशालिभिः ।
चण्डवृत्तमिदं नाम्ना वर्धितं कवयो विदुः ॥२९॥
यथा
—
गर्वितखलगणदर्पविमर्दन
चर्वितदनुजनिरर्गलवर्धन
विक्रमलवपरिमर्दितपन्नग
विभ्रमसमय समुद्धृतसन्नग । इत्यादि ।
अथ (६) वेष्टनं
——
नयलैर्लेन सम्बद्धैः पञ्चमे दीर्घशालिभिः ।
येन दीर्घात्श्लिष्टयुतैः बद्धं भवति वेष्टनम् ॥३०॥
यथा
—
मधुरिमपूराद्भुत
युवतिगणोपाश्रित
रवितनयातीर्थग
सखिपटलीवेष्टित । इत्यादि ।
अथ (७) समग्रम्
——
जराभ्यां कल्पितैरंशैस्तुर्यान्मधुरशालिभिः ।
श्लिष्टैरन्त्याद्द्वितीयाच्च सर्वान्ते लघुशालिभिः ।
बद्धः समग्रनामायं चण्डो माधववल्लभः ॥३१॥
यथा
—
समग्ररञ्जन स्फुरत्प्रभञ्जन
प्रशस्तदाम्बर प्रवल्गदम्बर । इत्यादि ।
अथ (८) अच्युतः
——
नजाभ्यां कल्पितैरंशैऊ पञ्चमे दीर्घशालिभिः ।
अन्त्याच्छ्लिष्टयुतोपेतैश्चण्डमच्युतमूचिरे ॥३२॥
यथा
—
पुलिनविहार स्फुरदुरुहार
प्रियपरिवारस्तुतगणभार । इत्यादि ।
अथ (९) मातङ्गखेलितम्
——
रगलैः कल्पितैरंशैः प्रथमे च तृतीयके ।
दीर्घयुक्तैश्चतुर्थात्तु मधुरश्लिष्टयोगिभिः ।
निबद्धं चण्डवृत्तं तु नाम्ना मातङ्गखेलितम् ॥३३॥
तत्र (क) मधुरयोगाद्
,
यथा
—
कंसमातङ्ग भेदितारङ्ग
वीर सारङ्ग शीलितासङ्ग । इत्यादि ।
तत्र (ख) श्लिष्टसंयोगाद्
,
यथा
—
गोपिकाजुष्ट राधिकातुष्ट
देवतावर्ग भावितानर्घ । इत्यादि ।
एकत्र केचिदिच्छन्ति निबद्धमनयोर्द्वयोः ।
यथा
—
भानुजाकुञ्जमाधुरीपुञ्ज
लालसाकृष्टराधिकादृष्ट । इत्यादि ।
अथ (१०) उत्पलं
——
भाभ्यां विनिर्मितैरंशैः राद्यात्तु श्लिष्टयोगतः ।
चतुर्थाच्च तथा धीरा उत्पलाख्यं प्रचक्षते ॥३४॥
यथा
—
दर्पसमुद्धतसर्पविनिर्जय
दक्ष विलक्षणपक्षहृतक्षण । इत्यादि ।
अथ (११) कन्दलः
——
आदौ मधुरसंयोगात्कन्दलं तं विदुर्बुधाः ॥३५॥
यथा
—
खण्डितदुर्जन मण्डितसज्जन
गञ्जितपन्नग रञ्जितसन्नग । इत्यादि ।
अथ (१२) कल्पद्रुमः
——
तजयैः कल्पितैरंशैर्बद्धमाद्यद्वितीयतः ।
तथा वाणेभ नन्देभ्यः श्लिष्टसंयोगशालिभिः ।
एतं कल्पद्रुमं नाम चण्डवृत्तं प्रचक्षते ॥३६॥
यथा
—
विद्युन्निभकुट्मलकर्ण
स्फूर्जज्जलदप्रभवर्ण
क्रुध्यत्खलमर्दनदक्ष
श्रुत्युच्चलचिक्कणपक्ष । इत्यादि ।
अथ (१३) अस्खलितं
——
तरभैः लेन गदितैरंशैरादौ तु दीर्घिभिः ।
द्वितीयाच्च चतुर्थाच्च षष्ठात्सप्तमतस्तथा ।
श्लिष्टसंयोगघटितैश्चण्डोऽस्खलितनामकः ॥३७॥
यथा
—
कारुण्यवृत्तिमच्चित्ततट
तारुण्यचिह्नभृद्वक्त्रपुट
चातुर्यशिक्षितब्रह्महर
माधुर्यरञ्जितस्वच्छनर । इत्यादि ।
अथ (१४) तुरङ्गः
——
भनजैर्लेन सम्बद्धैरादेरष्टमतस्तथा ।
स्फुरन्मधुरसंयुक्तैरंशैर्बद्धस्तुरङ्गकः ॥३८॥
यथा
—
मञ्जुलविचकिलकुण्डल
रञ्जितवरतनुमण्डल
सङ्गतयुवतिकदम्बक
लङ्गिममुखशशिचुम्बक । इत्यादि ।
अथ (१५) गुणरतिः
——
सनलैः कल्पितैरंशैस्तृतीये दीर्घशालिभिः ।
बद्धं गुणरतिं नाम्ना चण्डवृत्तं प्रचक्षते ॥३९॥
यथा
—
यमुनातटचर नवनागरवर
दनुजबलिहर मधुराकृतिधर । इत्यादि ।
अथ (१६) पल्लवितम्
——
भतनैः नेन लघुना बद्धैरंशैर्मनोरमैः ।
आद्याद्विश्लिष्टयुतकैश्चतुर्थे पञ्चमे तथा ।
दीर्घोदारैः समायुक्तं चण्डं पल्लविताभिधम् ॥४०॥
यथा
—
वल्लवलीलासमुदयपरिचित
पल्लवरागाधरपुटविलसित
वल्लभगोष्ठीपरिवृतमुनिगण
दुर्लभकेलीभरमधुरिमकण । इत्यादि ।
अथ (१७) तरत्समन्तं
——
तमलैर्लद्वयेनोत्थैः पञ्चमे पदभङ्गिभिः ।
द्वितीयाच्छ्लिष्टयोगाद्यैश्चतुर्थान्मधुरोज्ज्वलैः ॥४१॥
पऊचमाच्छ्लिष्टयोगाद्यैः षष्ठे दीर्घमनोहरैः ।
नवमे च तरत्पूर्वं समन्तं परिचक्षते ॥४२॥
यथा
—
विपक्षगन्धक्षेपणकोविद
विनम्रवृन्दक्रीडनशोभित
निसर्गरङ्गभ्राजितभूधर
समग्रबिम्बश्रीरुचिराधर । इत्यादि ।
अथ (१८) काशाख्यं
——
भभ्रलैर्घटितैरंशैरादेर्मधुरयोगिभिः ।
चतुर्थाच्छ्लिष्टयुतकैः सप्तमे नवमे तथा ।
दीर्घसंयोगिभिर्युक्तं काशाख्यं चण्डमूचिरे ॥४३॥
यथा
—
पिञ्छलसद्घननीलकेश
चन्दनचर्चितचारुवेश
खण्डितदुर्जनवारमाय
मण्डितनिर्मलनीलकाय । इत्यादि ।
अथ (१९) तिलकं
——
ननस्ननैः कृतैरंशैर्नवमान्मधुरोज्ज्वलैः ।
निबद्धं चण्डवृत्तं तु तिलकाख्यमथोचिरे ॥४४॥
यथा
—
व्रजवरतनुमुखचुम्बनपटुतर
तरणिदुहितृतटमण्डनपरिकर
तैलकपदविनितकुङ्कुमपरिमल
कचचलदविकल पङ्कजनवदल । इत्यादि ।
अथ (२०) यतिनर्तनम्
——
साभ्यां रेण च लाभ्यां च क्ÿ
प्तैरंशैस्तृतीयतः ।
षष्ठाच्च श्लिष्टसंयुक्तैः सप्तमान्मधुरान्वितैः ।
नवमाच्च पुनः श्लिष्टयोगिभिर्यतिनर्तनम् ॥४५॥
यथा
—
कलितप्रबलस्पन्दविभ्रम
युवतिप्रकरस्कन्धवर्तित
करकुट्मलकग्रन्थिसज्जित
नवगर्भकसुकुन्तलव्रज । इत्यादि ।
अथ विशिखाख्यश्चण्डः
——
स्यात्पञ्चधा स विशिखः पद्मं कुन्दं च चम्पकम् ।
वञ्जुलं बकुलं चेति कामस्यांई शरा मताः ॥४६॥
तत्र (१) पद्मम्
——
अच्युतस्तु भवेत्पद्मं पञ्चमाद्युक्तसंयुतः ॥४७॥
यथा
—
जय जय नन्दव्रजजनशन्द
स्मरमदधृष्ट प्रियजनहृष्ट । इत्यादि ।
इदमेव बुधाः केचित्पद्मं दीर्घान्तिमं जगुः ।
अतः सर्वकलान्ते तु भवेल्लघुचतुष्टयम् ॥४८॥
यथा
—
जय जय पद्माप्रियतमपद्मा
द्भुतकरसन्दीपितरसवन्दी
कृतसुर… । इत्यादि ।
अस्यैव केचिदिच्छन्ति लचतुष्टयमुत्तरम् ॥४९॥
यथा
—
कुण्ठीकृतखलझिण्टिरुचिपट
सम्भीषित खलकुम्भीश्वरगत । इत्यादि ।
इदमेव भवेत्पद्मं गदितं षड्विधं बुधैः ।
पङ्केरुहं सितं कञ्जं तथा पाण्डूत्पलं मतम् ।
इन्दीवरारुणाम्भोजे कह्लारं चेति कीर्तितम् ॥५०॥
तत्र (अ) पङ्केरुहम्
——
स्याच्चेत्कवर्ग्यमधुरं पूर्वपञ्चमवर्णकम् ।
पद्मं पङ्केरुहं प्रोक्तं कैकावेदिभिर्बुधैः ॥५१॥
यथा
—
जय गतशङ्क प्रणयिबङ्क
द्विषदुरुटङ्क प्रणयविटङ्क । इत्यादि ।
तद्भेदः
—
जय जय भृङ्गी मुदितकुरङ्गी
दृशुदितभङ्गी इत्यादि ।
अथ (ब्) सितकुञ्जम्
——
चवर्ग्यमधुरोपेतं तद्भवेत्सितकुञ्जकम् ॥५२॥
यथा
—
जय कचचञ्चद्द्युतिसमुदञ्चन्
मधुरिमपञ्च स्तवकितपिञ्छ । इत्यादि ।
तद्भेदः
—
जय जय मुञ्जानलहर गुञ्जाप्रिय इत्यादि ।
एवं सर्वत्र ज्ञेयम् ।
अथ (च्) पाण्डूत्पलम्
——
टवर्ग्यमधुरोपेतं पाण्डूत्पलमुदीर्यते ॥५३॥
यथा
—
जय जय दण्डप्रिय कचषण्ड
ग्रथितशिखण्ड इत्यादि ।
अथ (द्) इन्दीवरम्
——
तवर्ग्यमधुरोपेतं तदेवेन्दीवरं विदुः ॥५४॥
यथा
—
जय जय हन्त द्विषदिभहन्तर्
मधुरिमसन्तर्पितजगदन्तरित्यादि ।
अथ (ए) अरुणाम्भोजम्
——
तवर्ग्यमधुरोपेतमरुणाम्भोजमुच्यते ॥५५॥
यथा
—
जय रससम्पद्विरचितझम्प
स्मरकृतकम्प प्रियजनशम्प इत्यादि ।
अथ (फ़्) कह्लारम्
——
विश्लिष्टयुतमेतत्तु कह्लारं परिचक्षते ॥५६॥
यथा
—
जय रसफुल्ल स्मरशरतुल्य
प्रभनखभर व्रजकुलमल्ल इत्यादि ।
अथ (२) कुन्दम्
——
भजाभ्यां कल्पितैरंशैः प्रायश्छिन्नैर्द्विशोऽक्षरैः ।
आद्यपञ्चमयोर्युक्तोत्तरितैः कुन्दमुच्यते ॥५७॥
यथा
—
नन्दकुलचन्द्र लुप्तभवतन्द्र
कुन्दजयिदन्त दुष्टकुलहन्तः । इत्यादि ।
पञ्चमं चेद्दीर्घयुतं कुन्दभेदस्तदोच्यते ।
यथा
—
रुक्मभवपीत वस्त्रपरिवीत ।
चित्तहर शीत मञ्जुकलगीत । इत्यादि ।
अथ (३) चम्पकम्
——
भनाभ्यां कल्पितैरंशैर्युक्तपूर्वादिवर्णकैः ।
सानुप्रासैः प्रतियुगमादावन्तेऽपि चम्पकम् ॥५८॥
यथा
—
सञ्चलदरुण चञ्चल करुण
सुन्दरनयन कन्दरशयन । इत्यादि ।
अथ (४) वञ्जुलम्
——
नजलैर्घटितैरंशैर्मधुरोत्तरपञ्चमैः ।
निबद्धं वञ्जुलं नाम कलिकावेदिनां मतम् ॥५९॥
यथा
—
जय जय सुन्दर विहसितमन्दर
निजगिरिकन्दर रतिरसशङ्कर । इत्यादि ।
भवेद्वञ्जुलभेदस्तु तदेव श्लिष्टसंयुतः ।
यथा
—
जय मणिदर्पण नखरमुदर्पण
रुचिजितदर्पक विपदपसर्पक । इत्यादि ।
अथ (५) बकुलम्
——
शृङ्खलाबद्धघटितं बकुलं परिचक्षते ।
भासुरं मङ्गलं तुङ्गमिति स्याद्बकुलं त्रिधा ॥६०॥
अथ (अ) भासुरम्
—
मिथः शृङ्खलितैर्बद्धं भासुरं पज्झटीपदैः ॥६१॥
यथा
—
जय जय वंशीवाद्य विशारद
शारदसरसीरुहपरिभावक
भावकलित लोचनसञ्चारण
चारण स्निग्ध वधूधृतिहारक । इत्यादि ।
अथ (ब्) मङ्गलम्
——
द्विशः शृङ्खलितैरंशैर्भाभ्यां बद्धैस्तु मङ्गलम् ॥६२॥
यथा
—
त्वं जय केशव केशवलस्तुत
वीर्यविलक्षण लक्षण बोधित । इत्यादि ।
अथ (च्) तुङ्गः
——
अंशैर्मिथः शृङ्खलितैः संयुक्तनियमोज्झितैः ।
निबद्धं कुन्दमेवात्र तुङ्गमित्यभिधीयते ॥६३॥
यथा
—
नाथ जय कृष्ण कृष्णदानराजि
राजिरुचिजात जातरतिबन्ध
बन्धुरित नेत्र । इत्यादि ।
एवं प्रकारैरपरैर्मधुरश्लिष्टयोगतः ।
विश्लिष्टशिथिलादीनां योगतश्च परः शताः ।
चण्डवृत्तप्रबन्धाः स्युः कस्तान्कार्त्स्न्येन वक्ष्यति ॥६४॥
अथ द्विगादिगणवृत्तकलिका
द्विगादिगणवृत्ताख्या कलिकाथ निगद्यते ।
एषा तु कलिकाभिज्ञैः कथ्यते मञ्जरीत्यपि ॥६५॥
पञ्चधेयं द्विगादिश्च रादिर्मादिश्च कीर्तिता ।
चतुर्थी स्यान्न कलिका गानाख्या पञ्चमी मता ॥६६॥
कोरको गुच्छकश्चैव सम्फुल्लं कुसुमं तथा ।
गन्धश्चेति द्विगाद्यादिकलिकाख्याः स्मृताः क्रमात॥६७॥
चण्डवृत्ते तु यः प्रोक्तो नियमः खलु संयुते ।
द्विगादिगणवृत्ते तत्नैव बध्नन्ति पण्डिताः ॥६८॥
नातिदीर्घेह कलिका नातिह्रस्वा च सम्मता ।
अथ द्विगादिकलिका
द्विगादिकलिकां धीराः कोरकाख्यां प्रचक्षते ॥६९॥
द्विगभस्नलसन्दर्भैरनन्यगणपातिभिः ।
स्वेच्छावसानैः सङ्क्ÿ
प्तां द्विगादिकलिकां विदुः ॥७०॥
अत्र गणाः
—
शौरे माधव भगवन्मुरहर ।
तदुदाहरणम्
—
मानवती मदहारि विलोचन
दानव मण्डल घूकविरोचन । इत्यादि ।
अथ रादिकलिका
अभिज्ञै रादिकलिका गुच्छाख्या विनिगद्यते ।
रन्गभ्नललैर्बद्धैरनन्यगणसङ्गिभिः ॥७१॥
तत्र गणाः
—
हे हरे मुररिपो केशिहर बकमथन ।
तदुदाहरणम्
—
नवजलद सञ्चयद्युतिनिकर सुन्दर ।
श्रुतिचलितकुण्डल प्रभमधुरचन्द्रक । इत्यादि ।
अथ मादिकलिका
मादिं तु कलिकां प्राहुर्धीराः सम्फुल्लसंज्ञकाम् ।
मस्तजैर्नमनैर्जाभ्यां नत्रयेण च कल्पितैः ॥७२॥
तृतीयायां तु मात्रायामच्छिन्नैः स्वगणाङ्कितः ।
स्वेष्टावसानैः सम्बद्धा स्यान्मादिकलिका दलैः ॥७३॥
अत्र गणाः
—
कंसारे वनमालिन्केशिरिपो कमलनयन ।
तदुदाहरणम्
—
पिञ्छालीदलपाली धातुघटाकुसुमजटा ।
मालाकुल रचितातुल वेशघटन पुलिननटन ॥ इत्यादि ।
अथ नकलिका
आचक्षते नकलिकां कुसुमाख्यां विचक्षणाः ।
नैरेव स्वावधिच्छिन्नैः क्ÿ
इप्ता नकलिका मता ॥७४॥
याथा
—
कुसुमनिकररचितचिकुर
किरणविजित मधुरमुदिर
कमलरुचिर नयनयुगल
वसनदलित कनकपटल । इत्यादि ।
अथ गानकलिका
एषा तु गानकलिका गन्धाख्या कथिता बुधैः ।
आदिगेन तु नेनैव सर्वान्ते च गणस्पृशा ।
बद्धा स्याद्गानकलिका कलिकावेदिनां मता ॥७५॥
यथा
—
पुष्पशरकोटिरुचिहारिपदपद्मनख
गोपकुलमोदपर चारुतरवेशधर ॥ देव ॥
अथ त्रिभङ्गीवृत्तकलिका
अथ त्रिभङ्गीवृत्ताख्या कलिका प्रोच्यतेऽधुना ।
वृत्तेषु कलिकानां च विशेषे सा स्फुटीभवेत॥७६॥
त्रयाणामिह भङ्गानां समाहारस्त्रिभङ्गिका ।
भङ्गोऽनुप्रासरूपेण वर्णावृत्तिरिहेष्यते ॥७७॥
संयुक्तश्चात्र दीर्घश्च द्वयमेव सतां मतम् ।
माला बाला च शाला च मल्ली वल्ली च चिल्लिका ॥७८॥
षड्विधा तु त्रिभङ्गीयमादौ शिखरिणी मता ।
तुरगाख्या दण्डकाख्या भुजङ्गाख्या चतुर्थिका ॥७९॥
तिग्माख्या च विदग्धाख्या षडत्र कलिका मताः ।
तत्र शिखरिणी
—
शिखरिण्यां त्रयो भङ्गश्चतुःषष्ठत्रयोदशे ॥८०॥
तत्र पद्ये वृत्तिर्
,
यथा
—
इयं मल्लीवल्ली हसति हरिहल्लीशक सखी
गता वाटी नाटी ललितपरिपाटी मघभिद इत्यादि ।
कलिकायां
,
यथा
—
व्रजनारी हारी पुलिन वरविहारी माधव
वरवंशीहंसी विलसितभवशंसीनागर इत्यादि ।
अथ तुरगत्रिभङ्गी
——
गाभ्यां जसरनैस्तेन भलगैस्तुरगं विदुः ।
भङ्गस्त्रयोऽस्य विख्याता द्वितीयाष्टमषोडशे ।
अष्टादिषोडशान्तास्य कलिका पद्यवृत्तिगा ॥८१॥
यथा
—
ध्वस्तारविन्दरुचि हस्ताग्रपिष्टकसमन्तारिमण्डल हरे । इत्यादि ।
अथ दण्डकत्रिभङ्गी
——
दण्डकेषु च सर्वत्र दशमे भङ्ग ईरितः ।
तच्चतुर्थात्तच्चतुर्थे तच्चतुर्थे क्रमादिह ॥८२॥
यावत्तद्गणवृद्धिः स्यात्तावद्भङ्गाः प्रकीर्तिताः ।
एतादृशेषु वृत्तेषु त्रिभङ्गीत्युपलक्षणम् ॥८३॥
चतुर्भङ्गी पञ्चभङ्गी षड्भङ्गी चैव कीर्तिता ।
तत्र चण्डवृष्टिप्रपातादि दण्डके
,
यथा
—
मधुमथन हरे मुरारे पुरारेरपारे विहारे
सुरारेरुदारे च दारे प्रभो !
स्फुरसि रविसुतातरङ्गे सरङ्गे सुतुङ्गेतिगङ्गे
भुजङ्गेन्द्र सङ्गे सदङ्गेन भोः ॥ इत्यादि ।
अथ भुजङ्गत्रिभङ्गी
——
तृतीयषष्ठनवमे भुजङ्गे भङ्ग ईरितः ।
तत्र पद्ये भुजङ्गवृत्तिर्
,
यथा
—
त्रिभङ्गी सुरङ्गी कुरङ्गीक्षणाभिर्
विलासेन रासे सुवासेन मुग्ध इत्यादि ।
अष्टादिषोडशास्ता तु कलिका प्रोक्तयोर्द्वयोः ॥८४॥
अथ तिग्मत्रिभङ्गी
——
गाला द्वादशधा प्रोक्ताश्चत्वारो गास्ततः पराः ।
यत्र वृत्ते तु भङ्गः स्यात्षड्विंशे तत्तृतीयके ॥८५॥
त्रयोविंशाक्षरात्प्रोक्तो नियमस्तत्र संयुते ।
प्रथमाच्च तृतीयाच्च मधुरश्लिष्टयोजना ॥८६॥
एवं षड्वारमावृत्ता सैषा तिग्मत्रिभङ्गिका ।
एवमष्टपदी प्रोक्ता विरुदाल्यां क्वचिद्भवेत॥८७॥
यथा
—
इन्दुशुभ्रदन्तपङ्क्तिरम्बुजन्मवृन्दार्पनिन्दि
रक्तफुल्लदृष्टिशालीमाली ।
सञ्चलत्कदम्बपुष्पसङ्गिकर्णलम्बिरम्य
कुन्दगुच्छभङ्गिरिष्टसङ्गी रङ्गी ॥ इत्यादि ।
अथ विदग्धत्रिभङ्गी
——
द्वितीयाष्टमयोः स्थाने भङ्गश्चैव चतुर्दशे ।
भद्वये साध्वनुप्रासो यत्रैका कलिकेदृईशी ॥८८॥
नलघ्वन्तगुरुद्वन्द्वत्र्यावृत्तिर्भद्वयं तथा ।
एवमष्टकमारभ्य कला यावत्तु षोडश ॥८९॥
यस्यामेवं विधं लक्ष्म सा विदग्धत्रिभङ्गिका ।
समेयं विरुदावल्यां कलिकापद्ययोस्तथा ॥९०॥
यथा
—
सङ्गीतकनव भङ्गीपरिमल
रङ्गीत्वमधिक फुल्लसमुल्लस
वृन्दावनभव मन्दारकुसुम
वृन्दार्चितपदपल्लव वल्लव । इत्यादि ।
एवमाद्या त्रिभङ्ग्यास्तु स्तवकाव्येषु दीप्तिदाः ।
वृत्ते पद्येऽप्यनन्ताः स्युः कस्ताः कार्त्स्न्येन वक्ष्यति ॥९१॥
अथ मध्यकलिका
आदावन्ते च गद्यं स्यात्कलिका मध्यतः स्थिता ।
तां मध्यकलिकां प्राह पिङ्गलो भुजगेश्वरः ॥९२॥
यथा
—
उद्दण्डसव्यबाहुदण्डचण्डिमखण्डितदुष्टतुरङ्गदानव मुण्ड ।
दण्डितदुर्जन मण्डितसज्जन कुण्डलिमर्दन कुण्डलनर्तन
सुन्दरगण्डस्थल भाण्डीरपिण्डिकारङ्गताण्डवपण्डित ! ॥वीर॥ इत्यादि ।
अथ मिश्रकलिका
तिलतण्डुलवद्यत्र कलिकागद्ययोर्युतिः ।
सा मिश्रकलिका नाम षण्मुखेन प्रकीर्तिता ॥९३॥
यथा
—
दुर्दान्तदैत्यकण्टककुल कुलक्षयकेलिपूर
नन्दितवल्लवयौवतमण्डल
वन्दितनन्दतरङ्गितकुण्डल
बन्धुरमन्मथविभ्रमनदिर
मन्दरसुन्दरभूधरकन्दर
नन्दितमञ्जुलविक्रमडम्बर
रम्यकलिन्दनन्दिनीकुलालङ्कार
गोकुलकरीषङ्कषवाह्लासुरपानभोगीन्द्र ।
कुङ्कुमडम्बर विस्फुरदम्बर
बद्धशिखण्डक पन्नगदण्डक ।
रामश्रीदामवरूथपादिसुहृद्वरूथ
दत्तमहोत्सवमण्डल ॥वीर॥ इत्यादि ।
अथवा मिश्रकलिका नानाविधकलाश्रिता ।
विभक्तिसप्तकालम्बिसम्बुध्यन्ता बुधैः स्मृता ॥९४॥
यथा
—
नन्दति हारी कुन्दविहारी
तद्भज कृष्णं भक्तिसतृष्णं
नागरगुरुणा मर्दितचरणा ॥ इत्यादि ।
अथ गद्यकलिका
क्वचिन्नानाविधं गद्यं कलिकास्थले इष्यते ।
तस्योदाहरणं स्पष्टं तेनालं लिखनश्रमैः ॥९५॥
एताभिस्तु तथान्याभिः कलिकाभिर्निरन्तरा ।
विरुदावलिरानन्दं रचयत्यघविद्विषः ॥९६॥
आदिक्षान्तावलिः सर्वलघ्वी चात्र विबध्यते ।
तत्र अक्षरमयी
—
अ सताभ्रसुन्दर आरामरम्यसिन्धुर
इन्द्रमखभञ्जन ईतिभवगञ्जन
उत्तमपुरुष ऊर्जितपौरुष
ऋक्षोज्ज्वलनख इत्यादि ।
सर्वलघ्वी
,
यथा
—
व्रजवरतनुगण रतिपरिचयचण
तनुधृतदधिकण निजजनपरिपण
पदविलसितरण विदलितफणिफण । इत्यादि ।
इति कलिकालक्षणम्
अथ श्लोकः
——
कलिकाद्यन्तयोः श्लोकः सगुणोत्कर्ष ईर्यते ॥९७॥
यथा
—
झमज्झमिति वर्षति स्तनितचक्रविक्रीडया
विमुष्टरविमण्डले घनघटाभिराखण्डले ।
ररक्ष धरणीधरोद्धृतिपटुः कुटुम्बानि यः
स दारयतु दारुणं व्रजपुरन्दरस्ते दरम् ॥
अथ विरुदः
——
वाशिकः कल्पितश्चेति विरुदो द्विविधो मतः ।
संयुक्तनियमो ह्यत्र वर्णितः पूर्ववद्बुधैः ॥९८॥
द्विचतुः षड्दशश्चात्र कलास्तु विरुदे मताः ।
दशभ्यो नाधिकाः कार्याः कलास्तु विरुदे बुधैः ॥९९॥
कलिकाभ्यस्तु विरुदे भिदासावेव कीर्तिता ।
विरुदं कवयः प्राहुर्गुणोत्कर्षादिवर्णनम् ॥१००॥
विरुदः कलिका चान्ते धीरवीरादिशब्दभाक।
न पञ्चत्रिकतो न्यूना नाधिका त्रिंशतस्त्रिका ॥१०१॥
रम्यया विरुदावल्या प्रोक्तलक्षणयुक्तया ।
स्तूयमानः प्रमुदितो वासुदेवः प्रसीदति ॥१०२॥
यः स्तौति विरुदावल्या सल्लक्षणविहीनया ।
पठन्तमपि तं साधु नैवाङ्गीकुरुते हरिः ॥१०३॥
॥ इति सामान्यविरुदावलीलक्षणम् ॥
*****************************************************
]