षष्ठो विलासः ।
चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता अलङ्कारविलासः ।
एकदेशगतास्सर्वं शरीरं कटकादिवत् ।
अलङ्कुर्वन्ति ये काव्यं ते ऽलङ्कारतया मताः ॥ च्क्च्_६।१ ॥
त्रैविध्यं कथितं तेषां शब्दार्थोभयसम्भयात् ।
अत्र शब्दगताः प्राज्ञैरेकादश समीरिताः ॥ च्क्च्_६।२ ॥
छाया मुद्रा युक्तिः श्लेषानुप्रासगुम्भनाश्चित्रम् ।
यमकं वाकोवाक्यं गूढं प्रश्नोत्तरं चेति ॥ च्क्च्_६।३ ॥
अन्योक्तीनामनुकृतिः छाया सेयमुदाहृता ।
त्रेधा नागरिकग्राम्यसामान्योक्त्यनुसारतः ॥ च्क्च्_६।४ ॥
तत्र नागरिकोक्तिछाया यथा
सिक्तो ऽपि सिङ्गभूपालकल्याणोक्तिसुधारसैः ।
यो न पल्लवितस्तस्मै जङ्गमस्थाणवे नमः ॥ च्क्च्_६।*१ ॥
अत्र जङ्गमस्थाणवे नम इति सोल्लुण्ठने नमःशब्दं वदतां विदग्धानामुक्तेरनुकृतिः छाया ।
ग्राम्योक्तिच्छाया यथा
सखि सिङ्गनृपतिपदयुगशरणागतराजवेभवं पश्य ।
सुन्दरि किमिदं चित्रं राज्ञि भुजङ्गे ऽपि काचवलयः किम् ॥ च्क्च्_६।*२ ॥
अत्र तुरीयपाद आश्रयविशेषेणाब्युदयविशेषं वदतां ग्राम्याणामुक्तेरनुकृतिः छाया ।
सामान्योक्तिच्छाया यथा
को ऽयं वाञ्छितमर्थिनां वितनुते नन्वेष चिन्तामणिः सग्रावा किल किन्तु नैव हि पुमान् हासेन किं भूयसा ।
सो ऽयं श्री अनवोतसिङ्गनृपतिः कस्मादिदं ज्ञायते रत्नोल्लासिनि कङ्ब्त्णे करतले किं दर्पणापेक्षया ॥ च्क्च्_६।*३ ॥
अत्र तुरीयपादे प्रत्यक्षसिद्धे वस्तुनि किमन्यापेक्षयेत्यस्मिन्नर्थे करकङ्कणदर्शने किमादर्शविम्बेनेति सर्वजनसाधारणोक्तेरनुकरणादियं सामान्योक्तिच्छाया ।
साभिप्रायस्य वाक्ये यद्वचसो ऽभिनिवेशनम् ।
मुद्रां तां मुत्प्रदायित्वात् काव्यमुद्राविदो विदुः ॥ च्क्च्_६।५ ॥
सेयं द्वेधा बुधैरुक्ता पदेन वचनेन च ॥ च्क्च्_६।६ ॥
पदमुद्रा यथा
अस्मत्कल्पलातादलानि गिलति त्वत्कामगौर्वार्यतां मच्चिन्तामणिवेदिभिः परिणमेद्दूरान्ननयोच्चैर्गजम् ।
इत्यारूढवितर्दिकाः प्रतिपदं जल्पन्ति भूदेवताः सिङ्गक्ष्माभुजि कल्पवृक्षसुरभीहस्त्यादिदानोद्यते ॥ च्क्च्_६।*४ ॥
अत्र कल्पलतादीनां देवतायोग्यत्वात् सद्ब्राह्नणा इत्यादिपदतो ऽपि भूदेवता इति पदस्याभिजातत्वमितीयं पदमुद्रा ।
वचनमुद्रा यथा
भो चिन्दामणिवेदिकापरिसरे सन्तानसन्तानक- च्छायायां सुरभीपयोधरपयोधाराभिराराधिताः ।
मा गर्वीयत देवता वयममी दृष्टाःस्म आविस्मितैः श्रीसिङ्गक्षितिनायकस्य करुणारङ्गैरपाङ्गैः स्फुटम् ॥ च्क्च्_६।*५ ॥
अत्र देवतासाम्यबहुवचनाभिप्रायणात्मनि वक्त्रा वयमिति बहुवचनं प्रयुक्तमितीयं वचनमुद्रा ।
आयुज्यमानस्य मिथः शब्दर्य प्रकृतोचितम् ।
योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः ॥ च्क्च्_६।७ ॥
तत्रायुज्यमानपदयोजना यथा
शम्भोस्स्थिता भूषणपेटिकायां श्रियः सपत्नीमभितः स्फुरन्ती ।
विष्णोः पदं मध्यममाविशन्ती विराजते सिङ्गनृपालकीर्तिः ॥ च्क्च्_६।*६ ॥
अत्र पातालमित्यादि प्रकृतार्थे शम्भुभूषणपेटिकादि पदानामक्लेशयोगपरम्परया योजना कृतेति पदयुक्तिरियम् ।
एवं वाक्यप्रकरणप्रबन्धविशेषाणामप्युदाहारणानि द्रष्टव्यानि ।
एकरूपेण वाक्येन द्वयोर्भणनमर्थयोः ।
तन्त्रेण यत्र हि श्लेषः सो ऽयं नैकविधो मतः ॥ च्क्च्_६।८ ॥
प्रकृतिप्रत्ययपदविभक्तिवचनादिभिः ॥ च्क्च्_६।९ ॥
तत्र प्रकृतिश्लेषो यथा
कल्याणदस्त्वदीयोयं नतः श्रीसिङ्गभूपते ।
अर्थसारविदां लोके विदुषां विद्विषामपि ॥ च्क्च्_६।*७ ॥
अत्र कल्याणद इत्यत्र ददातिददत्योः सारविदामित्यत्र वेत्तिविदन्त्योश्च प्रकृत्योः श्लेषः ।
करोति सिङ्गभूपाल करस्ते विदुषां मुदम् ।
कर्ता वैरिविपत्तीनां सम्पदं सुहृदां स्फुटम् ॥ च्क्च्_६।*८ ॥
तत्र कर्तेति पदे तृच्प्रत्ययतृन्प्रत्यययोः श्लेषः ।
वैरिविपत्तीनां कर्तेति तृच्प्रत्ययः ।
सम्पदङ्कर्तेति तृन्प्रत्ययः ।
अन्यथा कृद्योगषष्ठ्यावश्यम्भावित्वात्तदुभयविभक्तिसम्बन्धाय प्रत्ययद्वयस्य विवक्षितत्वात् तथोक्तो ऽयम् ।
पदश्लेषो यथा
हरिश्चन्द्रो रक्षाकरणरुचिसत्येषु वचसां विलासे वागीशो महति नियमे नीतिनिगमे ।
विजेता गाङ्गेयं जनभरण सम्मोहनकला- व्रतेषु श्रीसिङ्गक्षितिपतिरुदारो विजयते ॥ च्क्च्_६।*९ ॥
अत्र हरिश्चन्द्र इति चक्रवर्तिवाचके पदे हरिश्चन्द्रश्चन्द्रश्चेति पदयोः वागीशः वागीशश्चेति पदयोः गाङ्गेय इति भीष्म इति वाचके पदे गाङ्गोयं चेति पदयोः श्लेषः, इत्ययं पदश्लेषः ।
विभक्तिश्लेषो द्विधा ।
सजातीयो विजातीय इति ।
तत्राद्यो यथा
स्थितो विराजिराजीववासिन्या कौस्तुभेन च ।
वक्षःस्थलं दधानो ऽव्याद्देवः श्रीसिङ्गभूपतिम् ॥ च्क्च्_६।*१० ॥
अत्र वीनां पक्षिणां राट् तस्मिन् विराजीति सप्तमी ।
लक्ष्मीकौस्तुभाभ्यां विराजी विराजनशीलमिति द्वितीया ।
तेद्वे सुब्विभक्त्ती विराजीति पदे श्लिष्टेइति सजातीयविभक्तिश्लेषो ऽयम् ।
द्वितीयो यथा
कीर्तिर्विशाला द्विषतामहारि व्यतानि तद्वामदृशां च वक्षः ।
अभेदि तद्दुर्गमपि व्यधायि श्रीसिङ्गभूपेन निजाप्तचित्तम् ॥ च्क्च्_६।*११ ॥
अत्र नायकेन द्विषतां कीर्तिरहारि हृता ।
तेनैव रिपुस्त्रीणां वक्षः अविद्यमानहारं व्यतानीत्यत्र अतीत्येकपदे लुङि प्रथमपुरुषश्च नपुंसककर्म च द्वितीया च तिङ्सुब्विभक्त्ती श्लिष्टे इति विजातीयविभक्तिश्लेषः ।
एवमभेदीत्यत्रापि विज्ञेयम् ।
वचनश्लेषो यथा
आशानां प्रभवस्सीमा श्रियां सत्त्रभुजश्शुभाः ।
शौरिर्देवाश्च ददतां कल्याणं सिङ्गभूभुजे ॥ च्क्च्_६।*१२ ॥
अत्र शौरिः नारायणो नायकाय कल्याणं ददतां वितरतु ।
दद दाने इति धातोरात्मनेपदिनो लोटि प्रथमपुरुषैवकचनम् ।
कीदृशः शौरिः ।
आशानां नतजनमनोरथानां प्रभव उत्पत्तिस्थानं दातेत्यर्थथः श्रियां सौभाग्यविष्ये सीमा परमावधिः ।
सतस्त्रायत इति सत्त्रः ।
तादृशो भुजो बाहुरस्येति सत्त्रभुजः ।
शोभना भासो दीप्तयो ऽस्येति शुभाः देवपक्षे तु देवाः ।
कल्याणं ददतां वितरन्तु ।
ददतामिति डुदाञ् दाने इति धातोरात्मनेपदिनो लोटि प्रथमपुरुषबहुवचनम् ।
किं भूताः देवाः? आशानां दिशां प्रभवो नाथाः, श्रियां सम्पदां सीमा अवधयः ।
सत्रे भुजत इति सत्रभुजः ।
शोभना भाः कान्तिः येषां ते शुबा इत्युक्तमार्गेण क्रियापदे विशेषणपतं एकवचनबहुवचने श्लिष्टे इत्ययं वचनश्लेषः ।
आदिशब्दाद्भाषाश्लेषः यथा
मेलायनाय ते राज्यमस्तु गादनसिङ्गन ।
वीराय मनसा पोररामाकाजनकेतन ॥ च्क्च्_६।*१३ ॥
हे गादन ! गदयति पूर्वमभिभाषयतीति गादनः ।
तस्य सम्बुद्धिः पूर्वभिभाषिन्नित्यर्थः ।
तादृशाय ते राज्यम् ।
पौररामाकाटनकेतन पौररामाणां पोरस्त्रीणां काटनकेतन मत्स्यकेतन रामामदनेत्यर्थः ।
हे सिगन सिङ्गभूपाल ।
मनसा वीराय मेलायनाय ।
मा च इला च मेते लक्ष्मीभूम्यौ तयोरयनं मार्गः मेलायनं तस्मै मेलायनाय लक्ष्मीभूमिनिवासस्थानायेत्यर्थः ।
तादृशाय ते राज्यमिति प्रजापालनसामर्थ्यरूपकर्मास्तु सर्वोत्कर्षेण भूयादिति संस्कृतभाषा प्रतीयते ।
मेलायनायेत्यादिपदेषु भद्रमभवद्वे त्याद्यार्थवाचिषु तद्देशभाषाविदुषामान्ध्रभाषा च प्रतीयते ।
तदयं भाषाश्लेषः ।
एवं संस्कृतप्राकृतादिभाषाश्लेषास्तु तत्र तत्र महाकविप्रबन्धेषु चित्रतरेषु स्वयमनुसन्धेयाः ।
अनुप्रासस्तु वर्णानामावृत्तिरविदूरगा ।
अव्यापको व्यापकश्चेत्ययं द्वेधा समासतः ॥ च्क्च्_६।१० ॥
अव्यापको यथा
गौडीसङ्गीतभङ्गी रहसि विलसितं कोसलीकौशलानां नेपालीगण्डपाली मृगमदमकरीं कैरलीं पानकेलीम् ।
लाटीपाटीरचर्चां कुसुमविरचनां कुन्तलीकुन्तलानां सिङ्गक्ष्माकान्त भिन्ते तव विजयरमास्निघ्धवेणिः कृपाणिः ॥ च्क्च्_६।*१४ ॥
अत्रानुप्रासस्य प्रतिवाक्यं भिन्नरूपत्वादव्यापकानुप्रासो ऽयम् ।
यथा च
जयति जगदुदारो जाल्मवृत्तातिदूरः सुजनभजनशीलः स्तुत्यसत्यानुकूलः ।
अभिनवसुरधेनोरन्नवोतस्य सूनुः क्षितिनुतगुणसान्द्रः सिङ्गभूपालचन्द्रः ॥ च्क्च्_६।*१५ ॥
अत्र पदाद्यान्तानुप्रासस्य प्रतिपादं भिन्नरूपत्वम् ।
व्यापकानुप्रासो यथा-नायकस्यैव वंशावल्याम्
यत्र चरणसन्नाहिनी तृणचरणं निजपुराच्च निस्सरणम् ।
वनचरणं तच्चरणकपरिचरणं वा विरोधिनां शरणम् ॥ च्क्च्_६।*१६ ॥
अत्र रेफणकारयुगलस्य सर्वत्रानुवृत्तत्वाद्य्वापकानुप्रासो ऽयम् ।
एवं वृत्तिलाटानुप्रासातयो द्रष्टव्याः ।
शब्दस्य प्रकृते सम्यग्घटना गुम्फना मता ॥ च्क्च्_६।११ ॥
अत्रशब्दो द्विविधः निरर्थको ऽन्यग्रथितश्चेति तत्राद्यास्य
यथा
श्रीसिङ्गक्षितिपालसङ्गरजयप्रस्थापकै स्तावकैर् धाटीदुन्दुविनिस्स्वनैरभिनवव्यापारिणो वैरिणः ।
स्वच्छायामनुधाविनीं प्रतिभटानाशङ्क्य शङ्काकुलास्त्रायध्वं बे बे बे इति प्रतिपदं जल्पन्ति धावन्ति च ॥ च्क्च्_६।*१७ ॥
अत्र बे इत्यादि निरर्थकशब्दस्य प्रस्तुतानुगुण्येन ग्रथनादियं निरर्थकशब्दगुम्फना ।
अन्यग्रथितशब्दगुम्फना त्रिविधा ।
पादगुम्फना पादद्वयगुम्फना पादत्रयगुम्फनां चेति ।
तत्राद्या यथा
अर्थस्य पुरुषो दास इति वक्त व्यलज्जताम् ।
दासो हि पुरुषस्यार्थः पश्यतः सिङ्गभूपतिम् ॥ च्क्च्_६।*१८ ॥
अत्राद्योक्तस्य प्रथमस्य प्रस्तुतानुगुण्येन घटितत्वादियमन्यग्रथिता पादगुम्फना ।
द्वितीया यथा
युवा युगव्यायतबाहुरंसलः कवाटवक्षाः परिणद्धकन्धरः ।
इतीदमन्यत्र कवित्वपद्धति- र्विगाहते सिङ्गनृपे तु सार्थताम् ॥ च्क्च्_६।*१९ ॥
अत्र कालिदासग्रथितस्य प्रथमार्धस्य प्रस्तुतानुगुण्यानुघटनादियं पादद्वयगुम्फना ।
तृतीया यथा
सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् ।
यावद्रसं वर्तमानो राजते सिङ्गभूपतिः ॥ च्क्च्_६।*२० ॥
अत्र पूर्वालङ्कारशास्त्रकारग्र थितस्यापि पादत्रयस्य प्रथमार्धे सपक्षैर्विपक्षैश्चानतिक्रमणीयो यावद्रसं वर्तमान इति प्रस्तुतानुगुण्येन घटनादियं पादत्रयगुफना ।
चित्रं तु चक्रबन्धाद्यं न सर्वकविसम्मतम् ।
रसोल्लासविरोधित्वाच्चित्तक्लेशैककारणम् ॥ च्क्च्_६।१२ ॥
चक्रबन्धो यथा
सक्षमाचक्रदिशाविलासिविभुना तिग्मांशुहारिश्रिया विश्रामक्षणविश्वरङ्गवियता कल्पं यशो ज्योतिषा ।
विद्वत्कान्तिमवाप यः प्रविशदाविर्भूतकृत्स्नागमां मान्धाता स च तद्विशेषविदुषो याति त्विषा नोपमाम् ॥ च्क्च्_६।*२१ ॥
अत्र नेमिमारभ्य तृतीयस्मिन्नन्तरे चमत्कारज्योत्स्नेति कृतिनाम ।
सप्तमे विश्वपतिकविरिति तत्कर्तृनाम ।
नवमे नायकनाम च प्रकटीक्रियते ।
आदिशब्दात्पङबन्धादयः ।
अत्र पद्मबन्धो यथा
सा च मा क्षपितभावराक्षसा साक्षरावगतपादमारसा ।
सारसा दयतु सिङ्गयं रसा सारयं गजवती क्षणा च सा ॥ च्क्च्_६।*२२ ॥
अत्र क्षपिताः भावेन राक्षसाः क्रूरजनाः यया सा क्षपितभावराक्षसा दरिद्रीकृतक्रूरजनेत्यर्थः ।
साक्षरावगतपादसारसा विद्वद्ध्यातपादपद्मा मा लक्ष्मीः रसासारं भूवि श्रेष्ठं वस्तु याति प्राप्नोति इति रसासारयः ।
तं सिङ्गयं सिङ्गभूपालं सारसादावासपद्मादयतु भजतु ।
तथा गजवती स्वाधारदिग्गजवतीत्यर्थः ।
सा क्षमा भूमिश्च ।
अन्यदेवं विधमनुसन्धेयम् ।
यमकं त्वविनाभूतखरव्यञ्जनसंहतेः ।
पुनःश्रुतिर्विभिन्नार्था तनमध्यान्तादिगं त्रिधा ॥ च्क्च्_६।१३ ॥
आदियमकं यथा नायकस्यैव
सदया सदया बुद्धिरवतारवता मम ।
मधुरा मधुरानाथ भवता भवतादरम् ॥ च्क्च्_६।*२३ ॥
अत्र चतुर्णामपि पादानामादौ प्रधमाक्षरसहितं वर्णत्रितयमान्तरतमव्यव्थानेन पुनःश्रुतमिति सर्वपादादियमकमिदम् ।
एवमन्येपि द्विपादादियमकदलयोर्व्यवहिताव्यवहितभेदाः स्वयमवगन्तव्याः ।
मध्ययमकं यथा
घनयशोनयशोभितसङ्गरोत्सुकतमः कतमः सहते रिपुः ।
भवदसिं वद सिङ्गमहीपते परमया रमया भरितद्युते ॥ च्क्च्_६।*२४ ॥
अत्र चतुर्ष्वपि पादेषु प्रथमाक्षरं विहाय मध्याक्षरयमकमान्तरमव्य वधानेन पुनःश्रुतमिति सर्वपादमध्ययमकमिदम् ।
एवमन्ये ऽपि पूर्वपदस्य भेदा निरूपणीयाः ।
अन्त्ययमकं यथा
यशसा सौरभवन्तं सिङ्गमहीपाल मेरुधीर भवन्तम् ।
सुकृतीकृतवसुदेवः सततं पायाद्वितीर्णघनवसुदेवः ॥ च्क्च्_६।*२५ ॥
हे मेरुधीर सिङ्गमहीपाल यशसा सौरभवन्तं यशस्सुरभिं भवन्तं सुकृतीकृतवसुदेवः स्वजन्मना कृतार्थीकृतानकदुन्दुभिः देवः श्रीकृष्णः वितीर्णघनवसु यथा तथा पायादित्यन्त्याक्षर सहितमक्षरचतुष्टयम् पादद्वये पुनःश्रुतमिति द्विपादान्तयमकमिदम् ।
एवमन्ये ऽपि भेदाः स्वयमूह्याः ।
अवान्तरभिदास्तस्य बहवस्सन्ति दुष्कराः ।
मृदुमार्गविरोधित्वादस्माभिर्न प्रपञ्चिताः ॥ च्क्च्_६।१४ ॥
उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यमितीरितम् ॥ च्क्च्_६।१५ ॥
यथा
रम्भे किं सखि मेनके न सुलभाः कल्पद्रुमाणां स्रजः ते स्वर्गे न हि सन्ति कुत्र धरणीभागे कुतः कारणात् ।
दातुः श्रीअनवोतसिङ्गनृपतेस्तैर्दत्तहस्ताङ्गुलीर् ब्रह्मा निर्मितनानतो नु धनिकाः सर्वे ऽपि धात्रीसुराः ॥ च्क्च्_६।*२६ ॥
अत्र रम्भामेनकयोरुक्तिप्रत्युक्तयः स्पष्टाः ।
क्रियाकारकसम्भन्धगुप्तिमद् गूढमुच्यते ॥ च्क्च्_६।१६ ॥
तत्र क्रियागूढं यथा
कृपाणखण्डितारातिमण्डलाधीशमण्डलः ।
श्रीसिङ्गधरणीपाल विभवेति समृद्धताम् ॥ च्क्च्_६।*२७ ॥
अत्र हे विभो समृद्धतामेहीति क्रियापदस्य विभव इति सप्तम्या गोपितत्वमिति गूढक्रियापदत्वात् क्रियागूढम् ।
यथा च
कन्दर्पकल्पनाकारं श्रीसिङ्गधरणीभुजम् ।
पुरमार्गे पुरन्ध्रीणां निश्चलानयनाञ्चलाः ॥ च्क्च्_६।*२८ ॥
अत्रापुरिति क्रियापदं पुरन्ध्रीणामिति पदेन गोपितमिति क्रियागूढम् ।
कारकगूढं यथा
श्रीसिङ्गभूपनासीरधाटीसाध्वससम्भ्रमात् ।
क्व दरी क्व दरीत्यद्रेः कान्तारे रटति स्फुटम् ॥ च्क्च्_६।*२९ ॥
अत्र रटतिक्रियायाः कर्तृकारकभूता अरेः कान्ताः कान्तार इति सप्तम्या गोपितमिति कारकगूढेषु कर्तृगूढमिदम् ।
एवं कर्मगूढादयो द्रष्टव्याः ।
सम्बन्धपदगूढं यथा
शरानपाङ्गश्री राजन् नाभिक्रमति केवलम् ।
भ्रूवल्लीललितैश्चापं त्वत्सेवा सुदृशामपि ॥ च्क्च्_६।*३० ॥
अत्र एः कामस्येति सम्बन्धपदं ललितैर्विलासैरिति तृतीया वा (तृतीयया?) गोपितमिति सम्बन्धगूढमिदम् ।
पष्ठयाः कारकत्वाभावात् सम्भन्धगूढस्यात्र पृथङ्निर्देशः ।
यत्रोत्तरर्य निर्मेदः प्रश्ने प्रश्नोत्तरं हि तत् ।
अन्तःप्रश्र्नं बहिःप्रश्र्नमुभयप्रश्र्नं चेति तत्त्रिधा ॥ च्क्च्_६।१७ ॥
कमदर्पयन्मनोभूः किं नरपतिवेश्म राजते निधिमत् ।
कामधुरा कथय सशे त्वयैव कथितं हि सिङ्गभूपाल ॥ च्क्च्_६।*३१ ॥
अत्र मनोभूः कमलोभयदिति प्रश्ने कं ब्रह्माणम् ।
नरपतिवेश्म किम्मिति प्रश्ने किन्नरपतिवेश्म, कुबेरगृहमिति ।
मधुरा केति प्रश्ने कामधुरा कामभार इति चोत्तराणि प्रश्नावयस्यान्तर इतीदमन्तःप्रश्नम् ।
प्रत्याननं राजितगण्डमध्यं सुभीषणं भैरवमस्तकं किम् ।
त्वया नचेदुत्तरमप्रदत्तं राजन् न जानाति भवान् भवन्तम् ॥ च्क्च्_६।*३२ ॥
अत्र प्रतिगण्डभैरव इत्युत्तरस्य प्रश्नवाक्यान्तरे प्रतीयमानत्वादिदञ्चान्तः प्रश्नम् ।
बहिः प्रश्नं यथा
कीदृग्बलं देवविभो शुचेश्च सम्बोधनं त्वद्रिपुमण्डलञ्च ।
श्रीसिङ्गभूपाल वदोत्तराणि पूर्वोक्तवर्णभयवृद्धियोगात् ॥ च्क्च्_६।*३३ ॥
अत्र इन्द्रबलं सफलि शुचिसम्बुद्धिः पवित्रेति त्वद्विपुमण्डलं वित्रपं वित्रसदिति वा त्रीण्युत्तराणि प्रश्नाद् बहिरेव मृग्याणि ।
बहिः प्रश्नमिदम् ।
उभयप्रश्नं यथा
योगिनां भोगिनां राजन् क इष्टस्तं न वेत्ति यः ।
विपरीतो हरस्तेन न ज्ञातो हि सहाम्बरः ॥ च्क्च्_६।*३४ ॥
अत्र रहोवास इत्युत्तरस्य पूर्वभागो रहश्शब्दो विपरीतहरशब्देन प्रश्नवाक्यस्यान्तः प्रतीयते ।
उत्तरावयवो वास इत्ययं बहिरेव मृग्यत इति बहिरन्तःप्रश्नोत्तरस्य स्थितत्वादिदमुभयप्रश्नम् ।
एवं निरूपितास्साधु शब्दालङ्कारजातयः ।
काव्यं विभूषयेदाभिः यथान्यैर्नापहास्यते ॥ च्क्च्_६।१८ ॥
इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां चमत्कारचन्द्रिकायां शब्दालङ्कारविवेको नाम षष्ठो विलासः ॥