पञ्चमो विलासः ।
चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचीता पञ्चमो विलासः ।
संविधानकचातुर्यात्साक्षादिव परिस्फुरन् ।
अलौकिकस्स चाखादो यस्स्यात्सो ऽत्र रसो मतः ॥ च्क्च्_५।१ ॥
तदन्वयेन काव्यश्रीः कमनीयत्वमागता ।
आकल्पान्तरमाकल्पं कीर्तिं कल्पयते कविः ॥ च्क्च्_५।२ ॥
स वै रस इति श्रुत्या ब्रह्मणः समकक्ष्यया ।
प्रोक्तो रसस्खयं भाग्यात्कैश्चिदेवानुभूयते ॥ च्क्च्_५।३ ॥
शिवो रस इति प्रोक्तः सत्यं भावकसत्तमैः ।
न चेल्लोकोपकाराय कथमस्याष्टमूर्तिता ॥ च्क्च्_५।४ ॥
अष्टधा सच श्रुङ्गारहास्यौ वीराद्भुतौ स्थितौ ।
द्वन्द्वशा रौद्रकरुणौ तौ बीभत्सभयानकौ ॥ च्क्च्_५।५ ॥
मधुरः सर्वसम्मत्या तिक्तादिषु रसेष्विव ।
हास्यादिषु स श्रुङ्गारो रससाम्राज्यमर्हति ॥ च्क्च्_५।६ ॥
तस्मिन् परिश्रमः कार्यः कवेश्चर्वितुमिच्छया ।
यस्यानुभवतो धीराः नात्मानमवजानते ॥ च्क्च्_५।७ ॥
काव्यं हि तन्मयं यत्र कवेरत्यन्तमाग्रहः ।
वासना मानसी वापि स्फुरतीति पुरा वचः ॥ च्क्च्_५।८ ॥
चिरं जीवतु वक्रोक्तिः स्वभावोक्तिश्च तिष्ठताम् ।
रसोक्तेरेव काव्यानि ग्राहीणीति (ग्राह्याणीति?) मतिर्मम ॥ च्क्च्_५।९ ॥
गुणाद्यैरपि वागर्थौ नीरसौ को ऽनुमोदते ।
परस्परानुरागेण रहिताविव दम्पती ॥ च्क्च्_५।१० ॥
अलं रसोक्तिरल्पापि काव्ये कल्पयितुं श्रियम् ।
वस्तु कर्पूरलेशो ऽपि सुगन्धीकुरुते परम् ॥ च्क्च्_५।११ ॥
सत्तास्फुरत्तानुबन्धा निष्पत्तिः पुष्टि सङ्करौ ।
ह्रासाभासौ शमः शेष इत्युक्ता हि रसोक्तयः ॥ च्क्च्_५।१२ ॥
निजाश्रये समुन्मेषो विभावगुणसम्पदा ।
रसस्य सत्ता रत्यादिस्थायीभावा रतिश्च सा ॥ च्क्च्_५।१३ ॥
आश्रयो विषयः, प्रोत्साहः सहकारीणि चेति त्रिरूपविभाव समग्रतया केवलया रसस्य स्वाश्रये यदुन्मेषमात्रं सेह सत्ता ।
सैव रत्यादीनां केवलानामाकारेणा वतिष्ठते ।
रत्यादयश्च – रतिर्हासोत्साहविस्मयक्रोधशोकजुगुप्साभयानि क्रमोदितशृङ्गारादिरसाधिष्ठानभूमयो वासनाप्रवाहेणावतिष्ठमाना स्थायिन इत्युच्यन्ते ।
तत्र रतिरूपेण सत्ता यथा
गुञ्जन् मञ्जुलचञ्चरीकमिथुने पुंस्कोकिलालापिनि प्रारब्धस्मर पादुकार्चनविधेर्माकन्दमूलाङ्गणे ।
श्यामाया मदुराधरे मृगदृशि व्यालोल नीलालके दूरादाननपङ्कजे क्षितिभुजा व्यापारिते लोचने ॥ च्क्च्_५।*१ ॥
अत्र केवलं विभावसामग्रीकथनेन नायकस्याभिलाषामत्रं प्रतीयत इति सेयं रसस्य सत्ता ।
एकस्यैवानुभावस्य प्राकट्यं साच्विकस्य वा ।
संस्कारपारिपाट्या चेत् स्फुरत्ता साभिधीयते ॥ च्क्च्_५।१४ ॥
अनुभावाः सङ्क्षोपतो द्विविधाह्युक्ताः कायिका वाचिकाश्चेति ।
अनुभावत्वे ऽपि स्तम्भप्रलयरोमा ञ्चस्वेदवैवर्ण्यवेपथुगद्गदिकाश्रुलक्षणानां साच्विकानां पृथगभिधानं विशेषद्योतनाय ।
रतिरूपेण रसस्य स्फुरत्ता यथा केयूररत्नमुपलालयता नृपेण यत्प्रार्थितं निजसखईचन सन्निधाने ।
श्यामापयोधरतटी परमादरेण तस्योत्तरं कृतवती पुलकप्ररोहान् ॥ च्क्च्_५।*२ ॥
अत्र नायके केयूरनायकरत्नप्रतिबिम्बतनायिकापयोधरलालनलक्षणनायिकानुभावेत्पादनरूपा रसस्य स्फुलत्ता ।
नायिकायां च पुलकलक्षणैकसाच्विकसम्पादकतया स्फुरत्तैव ।
यथा च
स्पर्शोत्सवेन नृपतेः प्रमदाकुचाभ्यां रागाङ्कुरा इव धृताः पुलकप्ररोहाः ।
तत्सेचनार्थमिब तत्करपल्लवो ऽपि प्रस्वेदवारिकणिकाः प्रकटीकरोति ॥ च्क्च्_५।*३ ॥
अत्र क्रमात् पुलकस्वेदलक्षणसाच्विकाभ्यां रसस्य स्फुरत्ता सूच्यते ।
उद्दीपनविभावाद्यैस्संस्कारेण पटीयसा ।
अत्रास्यैकानुभावस्य वर्तनं स्यान्मुहुर्मुहुः ॥ च्क्च्_५।१५ ॥
सकृद्वैषामनेकेषामेकसञ्चारिणो ऽथवा ।
सो ऽयं रसानुबन्धज्ञैरनुबन्ध इतीर्यते ॥ च्क्च्_५।१६ ॥
मुहुरेकानुभावानुवृत्तिलक्षणो यथा
कर्पूरवासितवसन्तविनोदनान्ते यान्तीभि रात्मभवनानि विलासिनीभिः ।
आमन्त्रितो वलितकष्ठमनेकवारं श्रीसिङ्गभूपतिरपाङ्गविलोकनेन ॥ च्क्च्_५।*४ ॥
अत्र नायकगुणादिना वसन्तादिना च समुद्दीपिता विलासिनीनां रतिवासना मुहुर्मुहुर्वलितकष्ठकटाक्षलक्षणेन च शरीरारम्भानुभावेनानुबध्यत इति तथोक्त्तो ऽयम् ।
अनेकानुभावसम्बन्धलक्षणो यथा आरूढघर्मकणमाहतमन्दहासम् आविर्भव त्पुलकमाचितकण्ठसादम् ।
अङ्गान्यनङ्गविवशानि विलासिनीनाम्म श्रीसिङ्गभूतलपतेरवलोङ्कनेन ॥ च्क्च्_५।*५ ॥
अत्र नायकगोचरा तदानीन्तनी पुरातनी वा विलासिनीनां रतिः नायकविलोकनादिभिरुद्दीपिता मन्दहासेन शरीरारम्भेण स्वेदादिभिश्च साच्विकैः बहुभिरनुबध्यत इति तथोक्तः ।
सञ्चारिणो नाम विर्वेदविषाददैन्यग्लानिश्रममदगर्वशङ्कात्रासावेगोन्मादापस्मारव्याधि मोहमरणालस्यजडता व्रीडावहित्थास्मृतिवितर्कचिन्ताश्च मतिधृतिहर्षोत्सुकत्वोग्रतामर्षकृपासूयाचापल्यनिद्रासुप्तिबोधाश्चेति त्रयस्त्रिंशत् ।
एकसञ्चारिणानुबन्धो यथा
वासन्तिकावलवेश्मनि माधवश्री- मञ्जीरशिञ्जितमधुव्रतकाकलीके ।
श्रीसिङ्गभूमिपतिसङ्गतिकाङ्क्षिणी सा हस्ताम्बुजे कृतवती निजगण्डपालिम् ॥ च्क्च्_५।*६ ॥
अत्र नायकगोचरा नायिकारतिवासना वासन्तिकादिभिरुद्दीपिता करतलकपोलविन्यासलक्षणशरीरारम्भनिजानुभावानुमितेन चिन्तालक्षणेन व्यभिचारिणानु बध्यत इति सो ऽयं तथोक्तः ।
केचिदेनां रसोक्तिमेकानुभाववदेकव्यभिचारिणो निबन्धे सम्बन्ध एक एवेति स्फुरत्तोक्तिमेवाचक्षते ।
वयं पुनएतस्यामुक्त्यां सानुभावेन व्यभिचारिणैकस्सम्बन्धः ।
व्यभिचारिणा स्थायिनो द्वितीय इति परम्परया सम्बन्धानुगतिसम्भवादनुबन्धमामनाम ।
सञ्चारिभावबाहुल्ये ऽप्यमुमेव परे जगुः ।
स बक्ष्यमाणो निष्पत्तेर्भेद एवेति मे मतम् ॥ च्क्च्_५।१७ ॥
यथा
काचित्कुरङ्गनयना नयनाभिरामा श्रीसिङ्गभूमिरमणं रमणी निरीक्ष्य ।
आलोकते प्रतिदिशं कुस्ते स्वनिन्दा- मालम्बते करतलेन कपोलपातिम् ॥ च्क्च्_५।*७ ॥
अत्र परितो विलोकनेन शङ्का ।
स्वनिन्दोपालम्भनेन लावण्यगतिर्निर्वेदः ।
कपोलकरतलसंसर्गेण चिन्ता च प्रतीयते ।
अत्रानुभावसंसर्गाभावे ऽपि रतेरनुभावोत्पादेनानुबन्धदशायामिव सञ्चारिभावबाहुल्यदशायां वासनावासन्तिकादिभिरुद्दीपिताया इव पाटवविशेषजन्यत्वाद्रसस्य चतुरश्रतयाप्रतिभानाच्च निवृत्तिरेवेयं नानुबन्धमात्रमिति सुलभम् ।
योगाद्विभावानुभावसाच्विकव्यभिचारिणाम् ।
चतुरश्रा रसश्रीर्या निष्पत्तिरिति गीयते ॥ च्क्च्_५।१८ ॥
यथा
दृष्ट्वा सिङ्गविभुं गुणैकवसतिं काचित्कुरङ्गेक्षणा स्विन्नाङ्गी मधुरस्मिता पुलकवत्यारेचितभ्रूलता ।
धत्तेवेपथुमाकुलां कलयते साचीकरोत्याननं पाणिभ्यां विदधाति गण्डयुगलीमालिङ्गति स्वां सखीम् ॥ च्क्च्_५।*८ ॥
अत्र नायकगोचरा नायिकारतिस्तत्सान्निध्यादिना दीप्यमाना स्मितभ्रूलतारेचनलक्षणाभ्यां शरीरारम्भानुभावाभ्यां स्वेदपुलकवेपथुलक्षणैस्सात्विकैराकुलीभावमुखसाचीकरणकपोलपिधानसखीसमालिङ्गनानुमितैः साध्वसलज्जावहित्थाचापललक्षणैः सञ्चारिभावैः संस्कृतेतीयं रतिरूपेण रसस्य निष्पत्तिः ।
विषयाश्रयसंस्कारगुणप्रकृतिपाटवैः ।
दीपानातिशयाच्चास्य प्रकर्षः पुष्टिरिष्यते ॥ च्क्च्_५।१९ ॥
यथा
अव्याजस्पृहणीयमञ्चति परां कान्तिं सखीनां पुरः श्रीसिङ्गक्षितिनायकेन सुतनोरङ्गं समालिङ्गतम् ।
स्वाज्ञानिर्वहणेन निर्वृतमनास्तत्कालमीलद्दृशे यस्मै पुष्पशरासनः स्वसुकृतैः कल्याणमाशंसते ॥ च्क्च्_५।*९ ॥
अत्र रूपयौवनविशेषशीलादिगुणसम्पन्नां नायिकामुद्दिश्य समुत्पन्ना धीरललितप्रकृते राश्रयभूतस्य नायकस्य रतिः परिचयोपचितेन संस्कारपाटवेन परिबोध्यमाना स्वभावसुन्दरतदङ्ग सन्निवेशरामणीयकविभावनोद्दीपनातिशयेन दीप्यमाना सखीनां समक्षमन्यालिङ्गनलक्षणशरीरारम्भानुभावानुमीयमानां लज्जात्यागलक्षणां सप्तमीं रसावस्थामध्यास्ते ।
किञ्च समग्रात्मगुण सम्पदा नायकमुद्दिश्य समुत्पन्ना स्थिरानुरागसरसप्रकृतेः नायिकाया रतिः परिचयानुकूल्याब्यामुत्कटेन वासना पाटवेन प्रबोध्यमाना प्रकृष्टप्रेमप्रियतमालिङ्गनदीपनातिशयेनोद्दीप्यमानां नयननिमीलनानुभावानुमीयमानां नवमीं प्रेमपुष्टिमवस्था मधितिष्ठतीति सेयं रसपुष्टिः ॥
प्रेमपुष्टेरे वावस्थादशकं सिङ्गभूपालीये (निदर्शकं)निदर्शितं हि ॥ च्क्च्_५।२० ॥
अभिलाषचिन्तनानुस्मृतिगुणसङ्कीर्तनोद्वेगाः ।
सविलासा उन्मादव्याधी जडता मृतिश्च दशधा ताः ॥ च्क्च्_५।२१ ॥
क्रमशो दर्शयति ।
ननु तत्र पूर्वानुरागाख्यविप्रलम्भजन्यतया तदिदं दशादशकं (प्रदर्शकम्) प्रदर्शितम् ।
अत्र तु सम्भोगेन कथं निरूप्यत इति चेदुच्यते ।
विप्रलम्भे प्रायेण कविभिरेतदापोषितमित्यभिप्रायेण ।
न तु सम्भोगे तन्निषेधायेति वेदितव्यम् ।
समकालबलोत्पत्तिहेतौ भावान्तरे सति ।
यस्तेन तस्य संसर्गः स सङ्कर इतीरितः ॥ च्क्च्_५।२२ ॥
यथा
दृष्टे दृष्टे सिङ्गभूपे तत्पूर्वागसि वल्लभे ।
आश्वर्यरोषस्नेहानां मज्जत्यूर्मिषु मानिमी ॥ च्क्च्_५।*१० ॥
अत्र विस्मयरोषस्नेहा यथोचितं तत्पूर्वापराधतया दृष्टतया वल्लभतया भक्तिजनितास्तत्तदाश्रितविशेषविभावनोद्दीप्यमानाः परमपरिपोषलक्षणकथास्वभाववाच्कशब्दप्रयोगशक्त्या यथोचितं सूचितैरनिमेषाधरस्फुरणनीवीबन्धविस्रंसनादिभिरनुभावैः स्तम्भवैवर्ण्यरोमाञ्चादिभिस्साच्विकैरनुवद्धा ऊर्मिपदद्योतितैर्वितर्तहर्षादिव्यभिचारिभि स्तरङ्गितास्तुल्यकालबलोत्पत्तिहेतुतया सङ्कीर्णाश्च रससङ्करप्रतीतिमङ्कुरयन्तीति रससङ्करोक्तिरियम् ।
आरूढस्य परां काष्ठां येन केनापि हेतुना ।
रसस्यापचयो यस्य तं ह्रासं कवयो विदुः ॥ च्क्च्_५।२३ ॥
यथा
श्वासो येन यया च भाषणविधौ व्यालोकने पक्ष्मणां व्यापारः परिरम्भणे मलयजं प्रत्यूह इत्यूह्यते ।
तामापृच्छति राजशैलगतये पाण्ङ्यस्स तस्मै च सा सेवारीतिमुपादिशन्त्यनुसमाचारेण चक्रे नतिम् ॥ च्क्च्_५।*११ ॥
अत्र प्रतिविरोधिनां निःश्वासादीनां भाषणादिसम्भोगप्रत्यूहत्वाभिमानलक्षणेन चित्तारम्भानुभावेन कृतप्रतीतेरुद्वेगलक्षणायाः पाण्ड्यतदवरोधयोः प्रेमपुष्टेरपचयो राज्यध्वंसवनवासादिपरिक्लेश हेतुको भवति ।
एकत्र नायकसेवार्थं राजगिरिगमनायामन्त्रणेन वागारम्भणेनान्यत्र सेवाप्रकारोपदेशसमाचारनतिभ्यां वाक्कायसंरम्भानुभावाभ्यां प्रतीयत इति सेयं रसह्रासोक्तिः ।
आलम्बनस्यानौचित्याद् भवन्नपि परिस्फुलन् ।
रसवद्धासते किञ्चिदयमाभास ईरितः ॥ च्क्च्_५।२४ ॥
तत्र शृङ्गाराभासश्चतुर्धा ईरितः ।
एकत्र रागस्याभावादनेकत्र वैषम्येण सम्भवात्तिर्यगालम्बनत्वान्म्लेच्छालम्बनत्वाच्च ।
अत्र रागासम्भवस्त्रिधा–प्रागभावात्, प्रध्वंसाभावादत्यन्ताभावाच्च ।
अत्र रागप्रागभावविषये नाभासता ।
दर्शनादिसामग्रीसम्भवे रागोत्पत्तेः सम्भाव्यमानत्वादितरयोस्त्वाभासतैव ।
रागात्यन्ताभावे यथा
व्यर्थत्वं गमिता कटाक्षसरणिः साकूतमन्दस्मिता व्यङ्ग्योक्तिर्वितथा वृथा विरचितस्तादृक् प्रणामाञ्जलिः ।
नेच्छत्यन्यपरिग्रहं किल वधूं रेचर्लवंशाग्रणीः सख्यस्त्वं च सुहुर्मुहुः स्मरत मां सो ऽयं हि सत्यव्रतः ॥ च्क्च्_५।*१२ ॥
अत्र मुहुर्महुरात्मस्मरण प्रार्थनालक्षणां सखीजनामन्त्रणवागारम्भानुभावानुमितां तनुत्यागोद्योगलक्षणां परां पुष्टिमधितिष्ठन् परकीयायाः नायिकाया अनुरागो विषयभूते नायकरत्ने परस्त्री विषयरागात्यन्ताभावादेकतः खण्डितो ऽपि शृङ्गारमिवाभासयतीति सो ऽयं रसाभासोक्तिः ।
एवमन्यदप्युदाहार्यम् ।
प्रबलोषूपजातेषु प्रतिकूलेषु हेतुषु ।
रसप्रभूतेरामूलं मीलनं शम ईरितः ॥ च्क्च्_५।२५ ॥
यथा
सिङ्गक्षोणिभुजः कलिङ्गकुभुजे क्रुद्धस्य तस्मिन् क्षणे दत्तां तत्तनयामुपायनतया लोकोत्तमां पश्यतः ।
व्यावृत्ता धनुषः कटाक्षसरणिस्तद्भ्रूलतालोकिनी दृक्कोणं परिहृत्य रागमहिमा चिते परं चेष्टते ॥ च्क्च्_५।*१३ ॥
अत्र पूर्वमारूढो ऽपि कलिङ्गनरपालगोचरो नायकस्य क्रोधो बलवता समुचितोपायनसमर्पणजनितप्रसादोपबृहितेन कलिङ्गराजकन्यकागोचरेण प्रेम्णा निरवशेषमुपशाम्यत इति सेयं रसशमोक्तिः ।
रसस्य वासनास्थैर्यादाश्यप्रकृतेरुत ।
प्रलीनस्यापि यो गन्धः स शेष इति गीयते ॥ च्क्च्_५।२६ ॥
यथा
श्यामायाः कुचमण्डले न परयोर्णत्तेभकुम्भद्वये दृष्टिं रागतरङ्गितां विदधता श्रीसिङ्गभूमीभुजा ।
दाक्षिण्यव्रतभ्हगभीरुमनसा देवेन वामभ्रुवा- मन्यासामपि सा तथैव कृतिना नेत्रक्रिया नाप्यसौ ॥ च्क्च्_५।*१४ ॥
अत्र धीरललितप्रकृतेर्नायकस्य श्यामागोचरेण बलवता प्रेम्णा प्रलीनतामानीतस्यापि तदितरनायिकागोचरस्य प्रेम्णो विशेषः कटाक्षप्रदान दाक्षिण्येन प्रतिभातत इति सेयं रसशेषोक्तिः ।
एवं हास्यादिष्वपि रसेषु स्फुरत्तादि दशोक्तिप्रकाराः स्वयमनुसन्धेयाः ।
विशेषादाग्रहो ऽस्माकमलह्कारप्रपञ्चने ।
ब्रूमस्तथापि सञ्ज्ञेपात् शृङ्गारादिनिरूपणम् ॥ च्क्च्_५।२७ ॥
अत्र शृङ्गारो नाम चतुरस्त्रीपुंसालम्बनो मनोहरपदार्थोद्दीपनो ललितभ्रूलताविक्षेपकटाक्षमन्दस्मिताद्यनुभावो निखिलसाच्विकोत्सुकत्वोग्रता लस्यजुगुप्सावहित्थादिपरिशिष्ट सञ्चारिपुष्टो रतिस्थायीभावो विप्रलम्भसम्भोगभेदवान् विगलित वेद्यान्तरत्वलक्षणं चेतोविकासमधितिष्ठति ।
अत्र विप्रलम्भो यथा
चान्द्रीचन्दन मारुदैश्व नितरामाकम्पितस्वान्तया सङ्गत्यामनवोतसिङ्गवृपतेरारूढवाञ्छाश्रिया ।
निःश्वासग्लपिताधरं परिततस्संरुद्धवाष्पोदयं तन्व्या स्निग्धसखीजने विरचिता दीना दृशोर्वृत्तयः ॥ च्क्च्_५।*१५ ॥
अत्र नायकगोचरा कस्याश्विन्नायिकाया रतिरभीष्टालिङ्गनाद्यप्राप्तावपि प्रकृष्यमाणा चन्द्रचन्दनमारूतै श्वकारादनुक्तसमुच्चितैः पुंस्कोकिलालापिभि स्समुद्दीप्यमाना निःश्वासादिशरीरारम्भानुभावै स्सूचिता बाष्पादिसाच्विकैः प्रकाशिता तनुत्वदीनदृष्ट्याद्यानुमितैः ग्लानिश्रमविषादावेगदैन्यादिसञ्जारिभिरभिपोषिता विगलितवेद्यान्तरतया भावकचेतसि विकासो पाधिका स्फुरन्ती शृङ्गाररसतामापद्यत इति सो ऽयं तथोक्तः ।
सम्भोगशृङ्गारो यथा
अव्याजस्पृहणीयमञ्चति परां कान्तिं सखीनां पुरः श्रीसिङ्गभितिनायकेन सुतनोरङ्गं समालिङ्गितम् ।
स्वाज्ञानिर्वहणेन निर्वृतमनास्तत्कालमीलद्दृशे यस्मै पुष्पशरासनः स्वसुकृतैः कल्याणमाशंसते ॥ च्क्च्_५।*१६ ॥
हास्यो नाम कुब्जवामनादिसमलम्बनस्तत्स्वरूपादिभावनोद्दीपनो नयनविस्तारगण्डमण्डल विकासस्वन्धनिकुञ्चनाद्यनुभावो बाष्पस्वेदादिसाच्विको हर्षावहित्थाधृतिप्रमुखसञ्जारीहास्यस्थायीभावः स्मितविहसितादि भेदवान् विकासोपाधिरेव विलसति ।
यथा
स्त्रीपुंसौ गडुरावुपायनकृतौ द्वीपान्तराधीश्वरैर् ईक्षित्वा विकसत्कपोलमधिपो लीलाब्जमाजिघ्रति ।
राजाद्रेस्सचिवा हसन्ति विकसन्नेत्रं विभुग्वांसकं सम्पीड्यापहसन्ति पार्श्वयुगलीं बाष्पाविलाक्षं जनाः ॥ च्क्च्_५।*१७ ॥
अत्र कुब्जमिथुनविषयो नायकादिसमाश्रय हासः तदीयस्त्रीपुंसव्यापाराभासभावनोद्दीपितः कपोलविकासादिना शरीरारम्भानुभावेन सूचितो लीलारविन्दसमाघ्राणाद्यनुमितेनावहित्थालक्षणसञ्चारिणा परिपुष्टो मनोविकासमधितिष्ठतीति सो ऽयं हास्यः ।
वीरो नाम प्रकृष्टप्रकृतिनायकाश्रयो लोकोत्तरवस्तुविषयस्तादृशपुरावृत्तपुरुषकारानुबन्धासह सहजसच्वादिसमुद्दीपनविभावो मुखप्रसादवाहुस्फुरणकृपाणनिरीक्षणप्रमुखानुभावो रोमाञ्चवेपथुप्रभृतिसाच्विको हर्षासूयामर्षमतिधृतिप्रमुखसञ्चारिभावकल्पितश्रीरुत्साहस्थायीभावश्चेतसो विस्तारमधितिष्ठति ।
यथा
रामस्य श्रुतसिन्धुबन्धनविधिः बाहू निजौ वीक्षते प्रीतिं नैति दिगन्तराजविजये द्वीपान्तराणां श्रुतेः ।
न श्लाघां बहुमन्यते वितरणे देवेष्वसम्प्रार्थिषु श्रीसिङ्गक्षितिनाथमण्डनमणी रेचर्लवंशाग्रणीः ॥ च्क्च्_५।*१८ ॥
अत्र नायकोत्तमाश्रयो लोकोत्तरत्वप्राप्तिविषय उत्साहो रामभद्रापदान श्रवणादिनोद्दीपितो राजबाहुनिरीक्षणलक्षितरामभद्रविषयस्पर्धाविशेषात् जम्बूद्वीपराजविषयानादराच्च प्रकाशितेनाधिकस्पदां निवारयेति लक्षणवता शोभानाम्ना पौरुषसाच्विकेन द्वीपान्तरजयाशंसालक्षणेन चित्तारम्भानुभावेन चाभिव्यक्तो ऽसूयाधृतिमतिगर्वादिभिरुपचितो मनोविस्तारमधितिष्ठतीति सो ऽयं युद्धवीरः ।
तथा च तत्रैव दानवीरो ऽपि देवताकर्तृकार्थित्वाकाङक्षालक्षणेन चित्तारम्भानुभावेनाभिव्यक्तो देवतालभ्यवस्तुविशेषवितरणकण्डूलतालक्षणं परमोत्कर्षमारोहति ।
अद्भुतनामा लोकोत्तरदर्शनादिविभावो नयननैश्वल्यशिरोधूननछोटिकासाधुवादाद्यनुभावः पुलकादिसाच्विको हर्षचापल्य धृतिमतिप्रमुखसञ्चारिभावो विस्मयस्थायीबावश्वित्तविस्तारमेवाधितिष्ठति ।
यथा
श्रुत्वा संसदि सिङ्गभूपचरितं दत्तं हविस्तदद्विजैर् आदातुं भुवमागतैः प्रतिगतैराख्यातमिन्द्रादिभिः ।
अन्योन्यं किल साधुसाध्विति कृतालापा दिलीपादयः प्रान्तस्फारविलोकिता पुलकिता मूर्धानमाधुन्वते ॥ च्क्च्_५।*१९ ॥
अत्र कलिकालो ऽपि धर्णप्रतिष्ठापनादिनायकपुण्यचरितविषयो दिलीपादिपुरातनमहाराजसमाश्रयो विस्मयो महेन्द्रादिसमादरणोदाहरणाभ्यामुद्दीपितो नयनस्तैमित्या द्यनुभावानुमितः पुलकसाच्विकेन विशेषतः प्रकाशितः साधुवादशिरः कम्पानुमितैर्हर्षचापलादिभिरभिपुष्टश्वित्तविस्तारलक्षणमुपाधिमुपात् इष्ठत इति सो ऽयमद्भुतरसः ।
रौद्रो नाम क्रूरजनसमाश्रयो ।
अपराधिविषयः तदपकारस्मरणप्रमुकोद्दीपनो भ्रूभङ्गदन्तघट्टनरूक्षेक्षणाद्यनुभावः स्वेदवेपथुप्रमुखसाच्विको ऽमर्षाभ्यसूया चापलोग्रतादिसञ्चारिभावप्रपञ्चितः क्रोधस्थायीभावः चित्तविक्षोभलक्षणमुपाधिमनुसन्धत्ते ।
यथा
चक्षुर्विक्षेपलक्षस्फुरितपरिपतत्क्रोधर्वांह्नस्फुलिङ्गं भ्रूभङ्गोद्भेदभीमं कटु रटति रटद्दन्तदष्टा धरोष्ठम् ।
दुर्वाराखर्वगर्वज्वरभरघटित स्वेदमाधूतगात्रं भिन्ते श्रीसिङ्गभूपप्रतिभटपटलं निष्कृपस्ते कृपाणः ॥ च्क्च्_५।*२० ॥
अत्र प्रतिभटसमाश्रयो नायकगोचरः क्रोधस्थायी देशाक्रमणबन्धुवधबन्धनादिभिरुद्दीप्यमानो भ्रूभङ्गदन्तकर्षणौष्ठ सन्दंशनादिभिरभिलक्षितः स्वेदवेपथुभ्यां सात्त्विकाभ्यां प्रकाशमानस्तदुपलक्षितैरेव गर्वामर्षचापलोग्रतामर्षादिभिर्व्यभिचारिभिः पुष्टो भावकानां चेतसि विक्षोभलक्षणामानन्दलहरीमुन्मुद्रयन् रौद्र इत्याख्यायते ।
करुणो नाम विपन्नसुहृदादिविषयः तद्गुणस्मरणाद्युद्दीपनो विलापपतनाद्यनुभावो वैवर्ण्यस्तम्भाश्रुमुखसात्त्विको निर्वेदग्लानिविषाददैन्यावेगोन्मादादिसञ्चारी शोकस्थायीभावो मनोविक्षोभलक्षणमेवोपाधिमनुसन्धत्ते ।
यथा
एतत्तद्वदनं किमेष सभुजः से ऽयं तवोरस्स्थली हा प्राणेश हलास्मि नास्मि दलिता गाढं खलु स्त्रीमनः ।
इत्यादीनि रणाङ्गणेषु गणशः श्रीसिङ्गभूपद्विष- द्देवीनां परिदेवितानि करुणां श्रण्वन्ति भूतान्यपि ॥ च्क्च्_५।*२१ ॥
अत्र नायकशत्रुकुलबालिकाश्रयो विपन्नवल्लभविषयः शोकस्थायी खण्डीकृतः ततस्ततो विपर्यस्ततदवयवप्रत्यभिज्ञादिभिरुद्दीप्यमानः तदेतदितिवागारम्भमव्यभिचरता निर्देशलक्षणेन हस्तारम्भानुभावेन सूचितः तदनुसरणपरिणतिरवश्यं भाविनाश्रुपातवैवर्ण्यादिना सात्त्विकसमुदयेन प्रकाशितः तत्तदुचितहाप्राणेशादिवागारम्भानुमितैर्दैन्यविषादनिर्वेदमतिभिःव्यभिचार् इभिरादिपदद्योतित परिदेवितविशेषोपकल्पितैः ग्लानिश्रमशङ्गाचापलोन्मादादिभिरन्यैश्व परिपोषितो नीरसतया स्थाणुप्रायाणामपि भूतबेतालात्मकादीनाम प्यनुकम्पातिशयसम्पादकतया भावुकचेतसि विक्षोभपुष्टि मधितिष्ठन् करुण इत्याख्यायते ।
बीभत्सो नाम हेयवस्तुविषयः तद्दोषदर्शनादिभिरुद्दीपितो नासाग्रपिधानमुखकूणननेत्रसङ्कोचना द्यनुभावो वैवर्ण्यादिसात्त्विको निर्वेदावेगचापलव्रीडादिव्यभिचारी जुगुप्सास्थायीभावो विदग्धभावकचेतसि विक्षेपलक्षणामानन्दभूमिकामालम्बते ।
यथा
अंहश्शेषैरिव परिवृतो मक्षिकामण्डलीभिः पूयक्लिन्नं व्रणमभिमृशन् वाससः खण्डकेन ।
रथ्याप्रान्ते द्रुतमपसृतं सङ्कुचन्नेत्रकोणं छन्नघ्राणं रचयति जनं दद्रुरोगी दरिद्रः ॥ च्क्च्_५।*२२ ॥
अत्र नायकशत्रुदद्रुरोगिविषया जनाश्रया जुगुप्सा व्रणामर्शना दिभिरुद्दीपिता नेत्रसङ्कोचनादिभिरभिव्यक्ता परापसरणानुमितैरावेगचापलादिभिःपोषिता भावक चेतसि विक्षेपलक्षणमुपाधिमादधाना बीभत्स इत्याख्यायते ।
भयानको नाम भीषणवस्तुविषयो मुखशोषतालुपुटलेहननीचैर्गमनाद्यनुभावो, अश्रुवर्जित सात्त्विको विषादशङ्कात्रासावेगदैन्यजडता ग्लानिश्रमचिन्तापस्मारादिसञ्चारिभावो भयस्थायीभावश्चित्तविक्षेपलक्षणामेव भूमिकामालम्बते ।
यथा
श्रीसिङ्गक्षितिनायकस्य रिपवो धाटीश्रुतेराकुलाः शुष्यत्तालुपुटं स्खलत्पदतलं व्यालोकयन्तो दिशः ।
धावित्वा कथमप्युपेत्य तमसा गाढोपगूढां गुहाम् अन्विष्यन्ति तदन्तरे ऽपि करसंस्पर्शेन गर्तान्तरम् ॥ च्क्च्_५।*२३ ॥
अत्र क्रियाक्रूरनायकनासीरभटविषयः शत्रुसमाश्रयः स्थायीभावो धाटीश्रवणोद्दीपितो धावनगुहाप्रवेशगर्तान्तरान्वेषणादिभि रनुभावैरभिव्यक्तो व्याकुलत्वतालुशोषण पदस्खलनाद्यनुमितैरावेगशङ्कात्रासादिभिर्व्यभिचारिभिरभिपुष्टो भावकचेतसि विक्षेपलक्षणां भूमिकां बिभ्राणो भयानक इत्याख्यायते ।
सेयमखिलो ऽपि रसपुरुषार्थो जननसाहस्रसम्पादितसाहित्यदेवतापदारविन्दयुगलोपासनाजनितवासनाप्रौढपरिपाकभावनाविशेषसहकारिणां सहृदयानां मानसेन गोचरी कृतो येन केनचिदाकारेण भासते ।
ननु को ऽयमाकारो रसस्य येनायं भावकमानसैरनुभूयत इति चेत्स्वस्वानुभवैकवेदनीये तस्मिन्नाकारे कथमस्मादृशां वाचोव्यापार मात्मीयमापूरयेयुः ।
न हि क्षीरसागरमागलं पिबन्नपि तं माधुरीविशेषमिदन्तया निर्देष्टुं ब्रह्मापि शक्नोति ।
किन्तु विगलितवेद्यान्तरत्वमिति वचनपरिपाटीं मनसि मुहुरावर्तयता भावनासिद्धिपर्यन्तं सन्तोष्टव्यमायुष्मता ।
ननु
आकाशापूपिकान्यायादसौ रस इति स्फुटम् ।
आमीलितदृशां पुंसां सेयं भावक भूमिका ॥ च्क्च्_५।२८ ॥
मानाधीना मेयसिद्धिः सर्वसिद्धान्तसम्मता ।
असत्यो रसवादो ऽयं रसवाद इतः परम् ॥ च्क्च्_५।२९ ॥
न प्रत्यक्षेण लक्ष्यो ऽयं नानुमानेन मान्यते ।
न चागमेन सुगमो नोपमानेन मानितः ॥ च्क्च्_५।३० ॥
समर्थितो नार्थापत्त्या नाभावेन च ॥॥॥॥ ।
॥॥॥॥॥॥॥॥ सम्भाव्यो नैतिह्येन च लिह्यते ॥ च्क्च्_५।३१ ॥
इति चेदुच्यते स्वानुभूतिविलसनमेव रसस्य सद्भावे प्रमाममिति परमं रहस्यम् ।
तदेतदनुपदमेव प्रदर्शितम् ।
अन्या पुनरियं वागाडम्बरविडम्बना विविधचर्चाविनोदकण्डूलधिषणाप्रकाण्डानां वादिनां मुदे विलिख्यते ।
तथाहि ।
ननु प्रत्यक्षी भवन्नसौ निर्विकल्पकेनावभासते सविकल्पकेन वा ।
नाद्यः ।
वस्तुस्वरूप मात्रावभासकस्वबावत्वान्निर्विकल्पकस्य रसस्य भुवि भावदिविशेषानुसन्धानपूर्वकप्रतीतिस्वभावत्वात् ।
निर्विकल्पकपूर्वत्वात्सविकल्पकस्येति चेत् श्रूयताम् ।
सविकल्पकेनेति ब्रूमः ।
सविकल्पकस्य निर्विकल्पकपूर्वकत्वाभिधानमविजारितरमणीयमेव ।
निर्विशिष्टविषयानुल्लेखिनो ज्ञानस्यैवासम्भवात् ।
तथा च शेषावतारविशेषस्य भगवतः पतञ्जलेरभिप्रायं प्रकटयता व्याहृतं हरियोगिना ।
न सो ऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥ च्क्च्_५।३२ ॥
इति अनुमानमपि सामान्यतो दृष्टम् रसावभासकतयात्मनि बहुमानमाकल्यति ।
अमी सामाजिका रसानुभववन्तः ।
ये ये विवक्षितचेष्टाविशिष्टास्ते ते रसानुभववन्तः ।
यथा तत्त्वसाक्षात्कारानुभवितारः ।
तथा चेमे चेष्टाविशिष्टाः ।
तस्मात् रसानुभववन्त एवेति ।
न च दृष्टान्ते साधनवैकल्यमाशङ्कनीयम् ।
समाधिवेलायामानन्ते बाष्पादिव्यतिकरप्रसिद्धेः ।
तथा महिम्रस्तवे
“मनः प्रत्यक् चित्ते सविधमवधायास्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गित दृशः ।
यदालोक्याह्लादह्रद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं कमपि यमिनस्तत्किल भवान्” ॥ च्क्च्_५।*२४ ॥
इति
आगमाः पुन रनेकसिद्धान्तरहस्ये साक्षात्कारिणां यथादृष्टवादिनां पुराणकवीनामलङ्कारसंहिताः ।
तत्र च रस एव सर्वोत्तरतया प्रतिपाद्यते ।
गोसदृशो गवय इतिवत् तत्त्वसाक्षात्कारसदृशो रस इत्युपमानमपि रससद्भावायानुभावनादात्मसत्तासाफल्यमनुसन्धत्ते ।
अर्थापत्तिरपि निरापत्तिकं समर्थयते रससद्भावम् ।
यथा दिवा न भुञ्जानस्य देवदत्तस्य पीनत्वानुपपत्त्या कल्पिता नक्तम्भुक्तिः ।
एवं विभावानुभावादेरनुपपत्त्या रस इति ।
ननु रसाप्रतीतावपि स्वयमेव क्वचिदास्वाद्यतया स्वतन्द्राणां भावादीनां कानुपपत्तिरिति चेत् कदाचित् को ऽपि विभावादिषु स्वतन्त्रव्यवहार उपचारमात्रेण राजपुरुषेषु राजव्यवहारवदिति सम्भववस्तुसङ्ख्याविषयतया रसमहाराजलक्ष्मीमनालक्षयन् निजदौर्भाग्यमाविर्भावयति ।
ऐतिह्यमपि निदर्शितप्रमाणसंवादिना बाह्यम्, नैव रसनिरूपणे सम्बाधमवलम्बते ।
तदित्थमखिलप्रमाणसंसिद्धे रससुधानिष्यन्दे सुमनोभिरनुभूयमाने योग्यानुपलब्धिलक्षणमभावप्रमाणं रसावमानैक दुराग्रहाणां विपरीतसाक्षराणां मनसि वैदग्ध्याभावमेको ऽपि भासयति ।
तथा चोक्तमस्मदाचार्यैः काशीश्वरमिश्रैः रसमीमांसायाम्
“रसलक्ष्मीमनादृत्य वागाडम्बर तोरणम् ।
पुण्ड्रेक्षो रसविद्वेषादृजीषानुभवो यथा” ॥ च्क्च्_५।३३ ॥
प्रमाणलक्षणादिक मन्यतो ऽवगन्तव्यम् ।
कवयो लोकसिद्धान्तसिद्धार्थव्यवहारिणः ।
अत्रैव हि चमत्कारसाक्षात्का रैकसाक्षिणः ॥ च्क्च्_५।३४ ॥
अनुक्तानामिहान्येषां लक्ष्यलक्षणविस्तरः ।
सिङ्गभूपालरचिते रसार्णावसुधाकरे ॥ च्क्च्_५।३५ ॥
आदिद्वितीययोः साधु शीलनीया विलासयोः ।
अन्यत्रबद्धदृष्टित्वादस्माभिर्न प्रपञ्चितः ॥ च्क्च्_५।३६ ॥
न हि सर्वत्र सर्वेषां विशेषाणां प्रदर्शनम् ।
अतिविस्तरदोषेण ग्रन्थोच्छेदप्रसङ्गतः ॥ च्क्च्_५।३७ ॥
दिङ्मात्रमेव शास्त्रेषु धीमतामुपदिश्यते ।
खयमेवावभासन्ते विशेषाः परिशीलनात् ॥ च्क्च्_५।३८ ॥
इति सकलमपि कल्याणम् ।
इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासार शीतलायां चमत्कारचन्द्रिकाया- मलङ्कृतौ रसविवेको नाम पञ्चमो विलासः ॥