०४

चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता चतुर्थो विलासः ।

रूपादय इवाङ्गस्य स्वरूपोत्कर्षहेतवः ।
काव्यस्यैतान्विजानन्ति गुणान् गुणविवेकिनः ॥ च्क्च्_४।१ ॥
श्लेषप्रसादौ समता माधुरी सुकुमारता ।
अर्थव्यक्तिरुदारत्वमोजः कान्तिरुदात्तता ॥ च्क्च्_४।२ ॥
प्रेयान् समाधिरौर्जिन्त्यं सौम्यं गाम्भीर्यविस्तरौ ।
सङ्क्षेपः शब्दसंस्कारो भाविकत्वं च सम्मितः ॥ च्क्च्_४।३ ॥

गत्युक्तिरीतयः काव्ये ते त्रायोविंशतिर्मताः ।

तत्र श्लेषः
मसृणश्लिष्टपदता श्लेष इत्यभिधीयते ॥ च्क्च्_४।४ ॥

यथा
अव्याजसुन्दरमनिन्दितसच्वसार- माजानुवाहुमरविन्ददलायताक्षम् ।
श्रीसिङ्गभूपमवलोकयतां जनाना- मानन्दितानि नयनानि सुधाम्बुनेव ॥ च्क्च्_४।*१ ॥

अत्र भिन्नानामपि पदानामेकपदवत्पाठसमये प्रतिभानं श्लेषः ।

द्रागर्थावगतिर्यत्र स प्रसादो निगद्यते ॥ च्क्च्_४।५ ॥

यथा सौगन्धिके च घनसारिणि चन्दने च बिम्बाधरे च सुदृशां वदने च तासाम् ।
श्रीसिङ्गभूपरचिते च गिरां कदम्बें को वा न नन्दति जनो जगदेकसारे ॥ च्क्च्_४।*२ ॥

अत्र पादानां समकालमेवार्थसमर्पकत्वात् प्रसादः ।

मृदुस्फुटविमिश्राणां वर्णानां बन्धक्ल्टप्तिषु ।
आमूलचूडं निर्वाहः समता धीमतां मता ॥ च्क्च्_४।६ ॥

अत्र स्फटवर्णनिर्वाहो यथा
युद्धेषु प्रतिपक्षलक्षतुरगप्रध्वंसनोत्तंसिते त्वत्कौक्षेयकशिक्षितैरपि परं सिङ्गक्षमारक्षक ।
सप्ताश्वे प्रतिभेदमात्रमरिभिः प्रायेण सन्धार्यते कष्टं क्लिष्टधियां गुरोरपि वृथा सर्वैव विद्या भवेत् ॥ च्क्च्_४।*३ ॥

अत्र पादचतुष्टये ऽपि घोषपराक्षरप्रायत्वनिर्वहणात्स्फुटवर्णा समता ।

मिश्रवर्णबन्धनिर्वाहो यथा
आक्षेपोक्तिविधायिनां क्षितिभुजामात्मावरोधान्तिके युद्धाग्रे तु निरीक्ष्य साध्वसवतां त्वां खड्गनारायण ।
रूक्षोदग्र तृणाङ्कुरग्रसनता जिह्वाग्रविच्छेदनं दण्डो ऽभूदत एव ते हि भवता स्वे स्वे पदे स्थापिताः ॥ च्क्च्_४।*४ ॥

अत्र पादचतुष्टये ऽपि नातिवर्णमृदुप्रायता नातिरूक्षाक्षरप्रायता चेति मिश्रबन्धसमता ।

अग्रन्थिला पृधग्भूतिः पतानां माधुरी मता ॥ च्क्च्_४।७ ॥
यथा
चम्मं पोम्मोत्त उत्तं ॥॥ ॥॥ ॥॥ ॥॥ ॥॥ ॥॥ ॥॥ ॥॥ ॥॥ ॥॥ ॥॥ ॥॥ ॥॥ ॥॥ ।
बोम्मो कापूण सोम्मं त्विहुवण रअणं कण्णअं कित्ति सण्णं द्विहा उन्तिए णाहं कुण इव रौणं मङ्गलं सिङ्गभूवम् ॥ च्क्च्_४।*५ ॥

अत्र पाठसमय एव पदविभागः प्रतिभातीति माधुर्यम् ।

संयुक्ताक्षरसच्वे ऽपि श्रव्यत्वं सुकुमारता ॥ च्क्च्_४।८ ॥

यथा
युष्माभिः प्रतिगण्डभैरवरणे प्राणाः कथं रक्षिता इत्यन्तः पुरपृच्छया यदरिषु प्राप्तेषु चाज्ञावशम् ।
शंसत्युन्नतमान्स व्यतिकरव्यापारपारङ्गता गण्डान्दोलितकर्णकुण्डलहरिन्माणिक्य वर्णाङ्कुराः ॥ च्क्च्_४।*६ ॥

अत्र संयुक्ताक्षरप्रायत्वे श्रुतेरकटुत्वात्सौकुमार्यम् ।

अद्याहारानपेक्षत्व मर्थव्यक्तिरितीरिता ॥ च्क्च्_४।९ ॥

यथा
नमन्ति सिङ्गभूपालं राजानो नीतिकोविदाः ।
निजराज्यप्रतिष्ठायै शरणागतवत्सलम् ॥ च्क्च्_४।*७ ॥

अत्र वाक्यस्य सम्पूर्णता स्पष्टैव ।

विकटाक्षरता बन्धे प्राज्ञैरौदार्य मीर्यते ॥ च्क्च्_४।१० ॥

यथा
गर्जद्घूर्जरगर्वपर्वतभिदे नेपालभूपालक-ध्वान्तध्वान्तविरोधिने कटुरटत्सौराष्ट्रराष्ट्रद्रुहे ।
दृप्यत्केरलमौलिमोटनकृते श्रीसिङ्गपृथ्वीम्पते भूयासुर्भुवनाभयव्रतभृते श्रेयांसि भूयांसि ते ॥ च्क्च्_४।*८ ॥

अत्र विकटाक्षरतया नृत्यद्भिरिव पदैर्या बन्धरचना तदौदार्यम् ।

ओजस्समास्बाहुल्यमेतद् द्वेधा निगद्यते ।
समासानामदीर्घाणां प्राचुर्यात्प्रथमं भवेत् ॥ च्क्च्_४।११ ॥
इदं कोमलमार्गानुसारिणां प्राणसम्मितम् ।
समासस्यातिदीर्घत्वाद् द्वितीयं गौडसम्मतम् ॥ च्क्च्_४।१२ ॥

अत्राल्पसमासप्राचुर्यं यथा नायकस्यैव
आकीर्णघर्मजलमाकुलकेशपाशम् आमीलिताक्षियुगमादृतपारवश्यम् ।
आनन्दकन्दलितमस्तमितान्यभावम् आशास्महे किमपि चेष्टितमायताक्ष्याः ॥ च्क्च्_४।*९ ॥

यथा च
सङ्गीतक्रमचङ्क्रमप्रियसखी शृङ्गारसञ्जीवनी सौजन्यद्रुमसारणी चतुरतासाम्राज्यसिंहासनम् ।
श्रीसिङ्गक्षितिपालशेखरमणेर्वैयात्यघण्टापथश् चाटुव्याहृतिवैखरी विजयते साहित्यशिल्पावधिः ॥ च्क्च्_४।*१० ॥

अत्र स्वल्पसमासत्वं (?) स्पष्टमेव — — — दीर्घसमासत्वं यथा
॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ।
पिशाचाः सह सहचटैः हस्ततालानुकूलं (?) क्रीडन्ति क्रेङ्क्रियाभिः कहकहनिनदाडम्बरालम्बिनीभिः ॥ च्क्च्_४।*११ ॥

अत्र दीर्घसमासत्वं स्पष्टमेव ।

कान्तिश्छाया हि बन्धस्य कथिता बन्धकोविदैः ॥ च्क्च्_४।१३ ॥

यथा
आकृष्टा मूर्ध्नि कृष्णा गहनमणिगता मैथिली पूर्वमूर्वोश् छन्ना पर्णैरपर्णा किल नलमहिषी कल्पिता शित्पिनीति ।
आस्तां तत्तद्दशायामपि दधति शुचं यावदाक्षेपरूपैर् आख्यातैः सिङ्गभूप त्वदरिमृगदृशां स्थैर्यवत्यो जरत्यः ॥ च्क्च्_४।*१२ ॥

यथा (वा)
ललितरसविलाकव्यासविन्यासधन्यां प्रथयति मधुरार्थां भारतीं सिङ्गभूपे ।
गरनिगरणरूक्षैरक्षरैर् वावदूको विषधरकुलमूर्धा न स्फुटी यः स्फुटीति ॥ च्क्च्_४।*१३ ॥

अत्र बन्धस्यात्युज्ज्वलत्वं छाया सैव कान्तिः ।

श्लाग्यैर्विशेषणैर्योगं बुधा विदुरुदात्तताम् ॥ च्क्च्_४।१४ ॥

यथा
आकल्पमाकल्पविशेषभाजा भुजेन रेखाकुलिशाङ्कितेन ।
श्रीसिङ्गभूपाल तवायतेन रक्षावती सागरमेखलेयम् ॥ च्क्च्_४।*१४ ॥

अत्र भुजविशेषणानां भाग्यविशेषप्रतिपादकत्वादतिश्लाघ्यत्वम् ।

प्रेयान् प्रियोक्तेर्विन्यासश्चाटुसाहित्यजीवितम् ॥ च्क्च्_४।१५ ॥

यथा
सौभाग्यभाग्य युवतीजनचित्तचोर दाक्षिण्यगण्य धरणीतलपारिजात ।
शृङ्गारभाव करुणाकर सिङ्गभूप गां रक्ष रक्ष तव रक्षणमेव धर्मः ॥ च्क्च्_४।*१५ ॥

अत्र नायकं प्रति दूत्याः प्रियोक्तिः स्पष्टैव ।

समाधिरिह शब्दस्य वृत्तिस्स्यादौपचारिकी ॥ च्क्च्_४।१६ ॥

यथा
अध्यास्ते फणिलोकपुङ्गवफणानिर्व्यूढपर्यङ्किकाम् आक्रामत्यनुवेलमब्धिरशना काञ्चीगुणाडम्बरम् ।
निंस्ते विस्मयधूतधूर्जटिजटाकूलङ्कषाहङ्क्रियां श्रीसिङ्गक्षितिपालकीर्तिमहिमासाकल्यकल्पोदयः ॥ च्क्च्_४।*१६ ॥

अत्राध्यासनाक्रमणचुम्बनानामुपचरितत्वं कीर्तेरचेतनत्वात् ।

यद्बन्धस्यातिगाढत्वं तदौर्जित्यमुदाहृतम् ॥ च्क्च्_४।१७ ॥

यथा
करिपतिदृढकुम्भालम्बन्प्रक्रमां च ॥॥ ॥॥ घोरकोणः कृपाणः ।
तव रचयति धनुरध्वंसनं सिङ्गभूप प्रदनकदनगन्धप्रङ्वणब्वान् पिशाचान् ॥ च्क्च्_४।*१७ ॥
अत्र ह्रस्वाक्षराणां संयुक्तपूर्वतया गुरुत्वे यद्गाढत्वं तदौर्जित्यं नाम ।

अन्तस्सञ्जल्पसामर्थ्यं शब्दानां सौक्ष्म्यमुच्यते ॥ च्क्च्_४।१८ ॥

यथा
भूधातुं कर्तृभावादनुगतमनुना मानयत्यात्ममाने पर्याये सम्पदां स्यादभिपरिसहितं विद्विषां कर्मभावः ।
पुंलिङ्गे त्वन्मनो ऽब्जं स्पृशति शिवपदं त्वद्गृहाली न पुंसि स्त्रीलिङ्गे शात्रवाणां निखिलमपि पुरं सिङ्गभूपालचन्द्र ॥ च्क्च्_४।*१८ ॥

अत्र नायकः सम्पदो ऽनुभवतीति, द्विषः परिभवति, नायकस्य मानसं शिवो महादेवः स्पृशति, तद्विरोधिनगरं शिवा जम्बूकः स्पृशतीति पदानां भूधातुं कर्तुभावादित्यादिषु गर्भितत्वादन्तः सञ्जल्पनशक्तिःप्रतीयत इति सौक्ष्म्यमिदम् ।

ध्वनिमत्ता तु गाम्भीर्यं

यथा
एकेनैव तुरङ्गमेण ककुभो व्याक्रम्य सौम्यक्रमा- नङ्गीकृत्य करान् कदाचिदगतः काञ्चित्तमोग्रस्तताम् ।
उल्लासाय सतामनन्तमुदयं धत्ते तथापि स्फुटं त्वं प्राज्ञैर्ननु सिङ्गभूपतिलक ज्ञातो ऽसि भासां निधिः ॥ च्क्च्_४।*१९ ॥

अत्र सूर्यस्तु दिशस्तुरङ्गमैस्सप्तभिराक्रमति, तीव्रान् किरणानङ्गीकरोति, रहुग्रस्ततां गच्छति नक्षत्राणामनुल्लासाय सान्तमुदयं धत्त इति ध्वनिर्विद्यते ।
तस्माद्गम्भीरत्वम् ।

प्रपञ्चोक्तिस्तु विस्तरः ॥ च्क्च्_४।१९ ॥

पुण्यैः पूर्वमुपार्जितैस्तनुमतो जन्मास्तु सन्मानुषं जन्माप्यस्य तदान्ध्रदेशतिलके राजाचले सम्भवेत् ।
तत्राप्येष दधातु तां परिणतिं भाग्यस्य योग्यां तथा गत्वा नन्दति सिङ्गभूवर गिरं त्वत्कां चमत्कारिणीम् ॥ च्क्च्_४।*२० ॥

अत्र नायकस्य सन्निधौ सर्वदा स्थातुमिच्छामीति विवक्षितार्थस्यातिविवृत्य करणाद्विस्तरः ।

सङ्क्षेपस्तु समस्योक्तिरनल्पस्यापि वस्तुनः ॥ च्क्च्_४।२० ॥

यथा
षड्भिः षोडशभिर्भूपैगौरेका महिषी कृता ।
सैव श्रीसिङ्गभूपालकुञ्जरेण वशीकृता ॥ च्क्च्_४।*२१ ॥

अत्र षड्भिरित्यनेन
“हरिश्चन्द्रो नलो राजा पुरुकुत्सः पुरूरवाः ।
सगरः कार्तवीर्यश्च षडेते चक्रवर्तिनः” ॥

इति श्लोकार्थस्य, षोडशभिः भूपैरित्यनेन,
“गयो ऽम्बरीषः शशिबिन्दुरङ्ग पृथुर्मरुत्तो भरतस्सुहोत्रः ।
रामो दिलीपः शिबिरन्तिदेवौ ययातिमान्धातृभगीरथाश्च” ॥

इति श्लोकार्थस्य च प्रपञ्चकथनप्रसिद्धस्यात्रातिसङ्कोचेन कथनाच्चमत्कारातिशयकारी सङ्क्षेपो नाम गुणः अयम् — “स मारुतसुतानीतमहौषधिधृतव्यथः” ।
इत्यादौ कविभिरङ्गीकृतो लक्षणीयः ।

सुपां तिङां च व्यत्पत्तिश्शब्दसंस्कार उच्यते ॥ च्क्च्_४।२१ ॥

यथा
दिक्कूलङ्कषवैभवा घनपथव्याप्तिप्रियम्भावुका श्रीसिङ्गक्षितिपालकीर्तिविभवाः शम्भोस्तुलालम्बिनः ।
गामध्यासितुमीशते प्रगुपते पर्याप्तमार्योत्सवान् कल्पान्ते तव कल्पितां विवृणुते धाम्रा महिम्रां श्रियम् ॥ च्क्च्_४।*२२ ॥

अत्र दिक्कूलङ्कषेति प्रियम्भावुकेति गामध्यासितुमित्यादौ सुबन्तानामीशत इत्यादिषु तिङ्न्तानां च दिग्व्यापिनो ऽन्तरिक्षव्यापिनो गवि तिष्ठन्त्यादिभि र्विशेषप्रतिभानाच्छब्दसंस्कार इत्युच्यते ।

हर्षादि भाववशतो वाग्वृत्तिर्भाविकं मतम् ॥ च्क्च्_४।२२ ॥

यथा
विद्यादैवत तात तावकगुरो सर्वज्ञचूडामणे स्तोतव्यो ऽसि मनीषिणां त्वमथवा वन्द्यो जवाकैरलम् ।
इत्थं सिङ्गमहीपतिं गुरुजनो ऽप्याभाषते तोषवान् तत्तत्पद्धतिधर्ममर्मणि परिच्छेदानि संवादिनम् ॥ च्क्च्_४।*२३ ॥

परिछेदसम्भूतसन्तोषवशेन प्रवृत्तत्वाद् भाविकत्वम् ।

तत्सम्मितत्वं शब्दार्थकूलाबधृतिरुच्यते ॥ च्क्च्_४।२३ ॥

यथा
विक्रमे न क्रमे केचित्क्रमे केचिन्न विक्रमे ।
विक्रमे च क्रमे चायं दक्षः श्रीसिङ्गभूपतिः ॥ च्क्च्_४।*२४ ॥

अत्र यावदर्थपदत्वं सम्मितत्वम् ।

आरोहमवरोहञ्च स्वराणां गतिरीरिता ॥ च्क्च्_४।२४ ॥

यथा
श्रीसिङ्गक्ष्मापाले क्षोणीं धारयति सारधौरेये ।
अकरणि मदयति फणिपतिहरिदिभकुलकुधर कपटकमठानाम् ॥ च्क्च्_४।*२५ ॥

पूर्वार्धे दीर्वतयास्वराणामारोहः ।
उत्तरार्धे ह्रस्वतयावरोहश्चेति गतिः ।

उक्तिर्विवक्षितस्या न्यभङ्ग्या भणनमुच्यते ॥ च्क्च्_४।२५ ॥

यथा तस्याः किं गुणजीवितस्य कुशलं राजन् सती जीवति प्रश्नस्तत्कुशलक्रमो हि कथितं सा जीवतीति स्फुटम् ।
भद्रे दूति पुनस्तदेव किमिदं मुग्धेव सम्भाषसे श्वासे तिष्ठति सा मृतेति गदितुं श्रीसिङ्ग किं युज्यते ॥ च्क्च्_४।*२६ ॥

अत्र तस्याः किं कुशलमिति नायकप्रश्ने दूत्या कुशलमकुशलं वेति प्रतिवक्तव्यजीवतीत्यादियुक्तिभङ्ग्या यो ऽयं त्वद्विरहे जीवितमात्रशेषेति सूचनाप्रकारस्सो ऽयमुक्तिर्नाम गुणः ।

उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते ॥ च्क्च्_४।२६ ॥

एकं याचितमर्थिना द्बिगुणितं चित्ते त्वदीये पुनर्- वाक्ये तन्त्रिगुणं चतुर्गुणयुतं हस्ते ततस्त्वर्थिनः ।
पाणौ पञ्जगुणं प्रकल्पितमहो षाड्गुण्यदीक्षागुरो- रौदार्ये तव सिङ्गभूप नितरामाश्चर्यमाचार्यकम् ॥ च्क्च्_४।*२७ ॥

अर्त्रकादीनां षडन्तानां यथाक्रमं निर्वाहो रीतिः ।

इति गुणविवेकः ।

रीतिः पदानां घटना प्रोक्ता रीतिविशारदैः ।
रीङ् गतावित्यतो धातोरियं रीतिरितीर्यते ॥ च्क्च्_४।२७ ॥
असमासा समासेन मध्यमेव विभूषिता ।
अतिदीर्घसमासा चमिश्रा चेति चतुर्विधा ॥ च्क्च्_४।२८ ॥

असमासा यथा
राजानः सन्तु लोके दिनरजनिकृतोरत्र वंशावतंसा विष्णोरैतिह्यसिद्धानभिदधति गुणान् कीर्तिगन्धाः प्रवन्धाः ।
अद्य क्षोणी कृतार्था नृपतिकुलगुरू चक्षुषी यस्य सौऽयं देवो रेचर्लवंशो विहरति भगवान् सिङ्गभूपालमूर्तिः ॥ च्क्च्_४।*२८ ॥

नन्वत्र समासः श्रूयते कथमसमासेति चेत् श्रूयताम् ।
अत्र नञा समासस्वरूपनिषेधो नाभिधीयते ।
किन्तु तस्य तीर्गत्वं द्राघीयस्त्वं च ।
यथा-अनुदरेयं कन्या; निस्सारः पुमान्; इति ।
तस्माद् द्वयोः त्रयाणां वा (न) पदानां समासे रीतेः सहृदयहृदयानामनुद्वेगदायिनामसमासत्वमेव ।
यथा च दृष्टमसमासमार्गानुसारिणां महाकवीनां प्रबन्धरत्नेषु ।

“तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी” ॥ च्क्च्_४।*२९ ॥
इत्यादि मेघसन्देशे

“वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना ।
अपचितकुसुमापि वल्लरीयं समजनि वृन्तनिलीनषट्पदा” ॥ च्क्च्_४।*३० ॥
इति कर्णामृते ।

“उत्फुल्लगण्डयुगमद्भुतमन्दहासमुद्वेलरागमुररीकृतकामतन्त्रम् ।
हस्तेन हस्तमवलम्ब्य कदा नु सेवे सल्लापरूपममृतं सरसीरुहाक्ष्याः ॥ च्क्च्_४।*३१ ॥
इति सिङ्गभूपालीये ।

“मुखप्रधानैरवलम्बपूर्वैः कण्ठग्रहैर्विप्रतिपीडिताङ्गैः ।
नखप्रचारै श्शिथिलोपगूढैर्लब्धैः प्रियाया मुमुदे मुकुन्दः ॥ च्क्च्_४।*३२ ॥
इति कन्दर्पसम्भवे ।

एवनम्येष्वपि वैदर्भमार्गानुसारिणां प्रबन्धेषु तत्र तत्र च तुन्नपदसमासस्यासमासत्वकीर्तनानुप्रवेशाकारो ऽवगन्तव्यः ।
अपरञ्च न्यूनानामदशाधिकानां पदानां समासो मध्यमः तद्वती मध्यमसमासा

यथा
श्रीसिङ्गभूप भवदीयवचोविलास- धारासुधामधुरिमानुभवानुभावात् ।
आमीलिताञ्चलविलोचनयुग्मनिर्य- दानन्दबाष्णकणिकाः सुधियो भवन्ति ॥ च्क्च्_४।*३३ ॥

दशाधिकपदसमासातिदीर्घसमासा

यथा
श्रीसिङ्गक्षोणिपालप्रबलबलभरोद्धूतधूलीवितान- छन्नच्छायासहायद्युतिहरिदुदरस्कन्धबद्धान्धकारे ।
व्योम्नि व्यामप्रमेयस्तनयुवतिपरीरम्भसंहभकेली- प्रत्यूहव्यूहशान्तिप्रमुदितमनसस्तं प्रशंसन्ति सिद्धाः ॥ च्क्च्_४।*३४ ॥

असमासादिरीतीना सहकारान्मिश्रा ।
असमासातिदीर्घसमासयोर्मिश्रणे

यथा
अवितुरकृतभङ्गं सिङ्गभूपालमौले- स्त्रिभूवनमपि शुद्धं कीर्तिकल्लोलिनीभिः ।
विषमविषमचक्षुर्जूटकोटीकुलुङ्ग- स्खलितफलितफेनस्वह्धुनीस्पर्धिनीभिः ॥ च्क्च्_४।*३५ ॥

अत्र प्रथमार्धे ऽसमासोत्तरार्धे ऽतिदीर्घसमासा ।
असमासामध्यमसमासयोर्

यथा
प्रतिनृपतिपुरन्ध्रीचारुपाटीरचर्चा- परिकरपरिचर्याद्रोहिणी खड्गधारा ।
जयति विजयलक्ष्म्या वेणिकाश्रेणिकान्ती रणभुवि तव बाहासङ्गिनी सिङ्गभूप ॥ च्क्च्_४।*३६ ॥

अत्र प्रथमार्धे मध्यमसमासोत्तरार्घे ऽसमासा ।
अतिदीर्घमध्यमसमासयोर्

यथा
सिङ्गक्ष्मापाल युद्धे प्रतिभटरथिनीनाथकोटीरकोटी- स्फायल्लीलाकलाची भरितनववसाविस्रकीलालहालाम् ।
पायं पायं पिशाचाः सह सह चरीहस्ततालानुकूलं क्रीडन्ति क्रेङ्क्रियाभिः कहकहनिनदाडम्बरालम्बिनीभिः ॥ च्क्च्_४।*३७ ॥

अत्र प्रथमार्धे ऽतिदीर्घसमासोत्तरार्धे मध्यमसमासा ।
एवमन्यदप्येतज्जातीयं द्रष्टव्यम् ।
इति रीतिविवेकः ।

या विकासे च विक्षेपे विक्षोभे विस्तरे तथा ।
(चेतसो वर्तयित्री स्यात्सा वृत्तिः सापि षड्विधा) ॥ च्क्च्_४।२९ ॥
कैशिक्यारभटी चैव भारती सात्वती तथा ।
मध्यमारभटी चैव तथा मध्यमकैशिकी ॥ च्क्च्_४।३० ॥
मृदू शृङ्गारकरुणौ स्वल्पौ हासायाद्भुतौ पुनः ।
उद्धतौ रौद्रबीभत्सौ किञ्चिद्वीरभयानकौ ॥ च्क्च्_४।३१ ॥
शब्दार्थयोर्मृदुत्वेन कैशिकीवृत्तिरिष्यते ॥ च्क्च्_४।३२ ॥

यथा अलोलैराश्चर्यादविरलितलज्जापरिमलैः प्रमोदादुद्वेलैश्चकितहरिणीप्रेक्षणसखैः ।
अमन्दैरौत्सुक्यात्प्रणयलहरीमर्मपिशुनै- रपाङ्गैस्सिङ्गक्ष्मारमणमबला वीक्षितवती ॥ च्क्च्_४।*३८ ॥

वृत्तिमारभटीमाहुः प्रौढत्वादर्थशब्दयोः ॥ च्क्च्_४।३३ ॥

यथा सावष्टम्भ सदम्भजम्भगिरिसद्व्यालम्भनोत्तम्भित प्रारम्भाद्भूतजम्भभेदिभिदुरत्विङ्गेन खड्गेन ते ।
श्रीसिङ्गक्षितिरक्षक प्रतिमृधं सिद्ध्येदरि क्ष्माभृतां सा रम्भाकुचकुम्भसम्भ्रमपरी रम्भादिसम्भावना ॥ च्क्च्_४।*३९ ॥

अत्र स्निग्धप्राणवर्णप्रायत्वं सन्दर्भस्य मृदुत्वम् ।
श्रुङ्गारत्वादर्थस्त मृदुत्वम् ।
अत्र रूक्षमहाप्राणवर्णप्रमायत्वेन सन्दर्भस्य गाढत्वम् ।
प्रतिभटध्वंसनरुपत्वादर्थस्यगाढत्वम् ।

मृद्वर्था प्रौढसन्दर्भा भारतीवृत्तिरिष्यते ॥ च्क्च्_४।३४ ॥

यथा तज्जित्वा परिरम्भणप्रभृतिकं द्यूते सखीनां पुरः शार्यारोपणसूचिते पणविधौ श्रीशिङ्गपृथ्वीक्षिता ।
हासोत्फुल्लकपोलकान्तिलहरीसङ्क्रान्तवक्रेक्षणा सा स्विन्नाङ्गुलि शारिकापरिकरं सज्जीकरोति प्रिया ॥ च्क्च्_४।*४० ॥

अत्र शृङ्गारत्वादर्थस्य मृदुत्वम् ।
बन्धस्य महाप्रणरूक्षवर्णप्रायत्वं प्रौढत्वम् ।

प्रौढार्थमृदुसन्दर्बा सात्वती वृत्तिरिष्यते ॥ च्क्च्_४।३५ ॥

यथा
श्रीसिङ्गभूपकरवालहलारिमौलेर्- मुक्ताफलानि पतितान्यभितः स्फुरन्ति ।
कीलालमांसकलितासु रणस्थलीषु बीजाङ्कुराणि यशसामिव निर्मलानि ॥ च्क्च्_४।*४१ ॥

अत्र रिपुहिंसनरूपत्वा दर्थस्य प्रौढत्वम् ।
अल्पप्राणवर्णप्रायत्वात्सन्दर्भस्य मृदुत्वम् ।

मृद्वर्थ ईषत्प्रौढसन्दर्भा मध्यमकैशिकी ॥ च्क्च्_४।३६ ॥

यथा
त्वामाश्रितेष्ववसरो ऽपि न हि क्रशिम्नां तच्चितमाश्रयति च त्वयि सा नतभ्रूः ।
आख्याति हन्त तनिमानमिति प्रसङ्गे कस्यायशो विमृश चेतसि सिङ्गभूप ॥ च्क्च्_४।*४२ ॥

अत्र विप्रलम्भत्वादर्थस्य मृदुत्वम् ।
बन्धस्य संयुक्तवर्णह्रस्वाक्षरप्रायत्वेनोर्जितत्वादीषद्गाढत्वम् ।

मद्यमारभटी प्रौढे ऽप्यर्थे नातिमृदुक्रमा ॥ च्क्च्_४।३७ ॥

यथा
संवर्तपावकशिखा किमु किं नु जिह्वा मृत्योरियं किमु युगान्तकृतान्तदंष्ट्रा ।
इत्यूह्यते समरसीमनिषेव्यदेशे श्रीसिङ्गभूपकरकम्पितखड्गरेखा ॥ च्क्च्_४।*४३ ॥

अत्र समरक्रियारूपत्वादर्थस्य प्रौढत्वम् ।
मिश्रवर्णारब्धत्वात्सन्दर्भस्य नातिमृदुत्वम् ।
इति वृत्तिविवेकः ।

पाकं वाचां परीपाकमाहुराखादमेदुरम् ।
सो ऽयं मृदुः खरश्चेति समासेन द्विधा भवेत् ॥ च्क्च्_४।३८ ॥

अत्र मृदुपाको यथा
किं कामेन किमिन्दुना सुरभिणा किं वा जयन्तेन वा मद्बाग्यादनवोतसिङ्गनृपते रूपं मया वीक्षितम् ।
धन्यास्तत्परिचर्ययैव सुदृशौ हन्तेति रोमाञ्चिता स्विद्यद्गण्डतलं सगद्गदपदं साख्याति सख्याः पुरः ॥ च्क्च्_४।*४४ ॥

अत्र द्राक्षापाक इवाक्लेशेन समास्वाददायी शब्दपरिणामो मृदुपाक इत्युच्यते ।
सो ऽयं प्रायेण सहजसाहित्यरेखासमुल्लेखानां सरसकवीश्वराणामानन्दनिष्यन्दफले प्रबन्धेषु दृश्यते ।
तथा हि — कालिदासस्य ।
“विवृण्वती शैलसुतापि भावमङ्गैऽ; रित्यादि कुमारसम्भवे ॥ च्क्च्_४।*४५ ॥

तथा च श्रीहर्षदेवस्य ।
“फुल्लो जणाणुरावो लज्जा गुरुई परप्पसो अव्वा ।
पिअसहि विसमं पेम्मं मरणं सरणं च चरम एत्तंऽ; ॥ च्क्च्_४।*४६ ॥

तथा च ममैव
चिक्षेप लक्ष्मीर्निटले नखाग्रैः प्रस्वेदवारातपमाक्षिपन्ती ।
जुगोप देवो ऽपि स रोमहर्षं जवाब्धि वाताहतिकैतवेन ॥ च्क्च्_४।*४७ ॥

इति कन्दर्पसम्भवे ।
एवमन्यत्रापि द्रष्टव्यम् ।

खरपाको यथा
कल्याणेक्षण हेषया प्रकटितस्तम्भप्रतिष्ठाक्रमे मन्दाक्षच्छवि सुन्दरे ललितदृक्कोणक्रियातोरणे ।
भावोल्लासविलासके वरतनोरस्या मनोमण्टपे श्रीसिङ्गक्षितिपालमूर्तिरयते साम्राज्यसिंहासनम् ॥ च्क्च्_४।*४८ ॥

अत्र नारिकेलपाक इव विमर्शक्लेशेन विलम्ब्यास्वाददायी शब्दपरिणामः खरपाक इत्युच्यते ।
सो ऽयमभ्यस्तकविभूमिकानां वक्रोक्तिवासनावासितान्तः करणानां विदग्धानां व्युत्पत्तिमात्रफलेषु लक्ष्यते ।

तथा हि मुरारेः
तदात्वप्रोन्मीलन्म्रदिमरमणीयाः कठिनतां विचिन्त्य प्रत्यङ्गादिव तरुणभावेन नमितौ ।
स्तनौ सम्बिभ्राणाः क्षणविनयवैयात्यमसृण- स्मरोन्मेषाः केषामुपरि सरसानां युवतयः ॥ च्क्च्_४।*४९ ॥

तथा नैषधकारस्य
सर्वाणि रोमाण्यपि बालभावाद्वरस्त्रियं वीक्षितुमुत्सुकानि ।
तस्यास्तथा कोरकिताङ्गयष्टेरुद्ग्रीविकादानमिवान्वभूवन् ॥ च्क्च्_४।*५० ॥

यथा तस्यैव
साधु त्वया तर्कितमेतदेव स्वेनानलं यत्किल संश्रयिष्ये ।
विनामुना स्वात्मनि तु प्रहर्तुं मृषा गिरं त्वां नृपतौ न कर्तुम् ॥ च्क्च्_४।*५१ ॥

एवमन्यत्राप्यनुसन्धेयम् ।
इति पाकविवेकः ।

शय्या पदानामन्योन्यमैत्री विनिमयासहा ।
स एवास्य पराकाष्ठा शय्या देशविभेदनः ॥ च्क्च्_४।३९ ॥
लोके प्रसिद्धमित्येषा प्राज्ञैः शय्येति कीर्तिता ॥ च्क्च्_४।४० ॥
संरम्भादनवोतसिङ्गनृपतेर्घाटीसमाटीकने निःसाणेषु धणं धणं धणमिति ध्वानानुसन्धायिषु ।
मोदन्ते हि रणं रणं रणमिति प्रौढा स्तदीया भटाः भ्रान्तिं यान्ति तृणं तृणं तृणमिति प्रत्यर्थिपृथ्वीभुजः ॥ च्क्च्_४।*५२ ॥

यथा
लीलालोकनलोलुपं मृगकुलं गन्ता गुहान्तानिमाम्- स्तत्क्रव्यग्रसन व्रतीह भविता द्वीपी रुषोद्दीपितः ।
याता तन्मृगयारतेर्वनमिदं श्रीसिङ्गभूपोदया- दित्यादिर्भयमादिशन्त्यरिनृपाः स्त्रीणामनीक्षाव्रतम् ॥ च्क्च्_४।*५३ ॥

अत्र पदानां पर्यायपदसद्भावे ऽपि परिवृच्यसहिष्णुत्वादन्योन्यमैत्रीरूपा शय्या ।
अत्र रसस्य पृथक्प्रकरणे प्रपञ्चनविवक्षया व्युत्क्रम्य वृत्तिपाकशय्यानां स्वरूपं निरूपितम् ।

इति शय्याविवेकः ।

इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासार शीतलायां चमत्कारचन्द्रिकायां गुणविवेको नाम चतुर्थो विलासः ॥