तृतीयो विलासः
चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्र विरचिता तृतीयो विलासः
अर्थो वाच्यश्व लक्ष्यश्व व्यङ्गयो ऽपि च विविच्यते ।
अभिधावृत्तिगम्योर्ऽथो जात्यादिर्वाच्य ईरितः ॥ च्क्च्_३।१ ॥
यथा दानेन कर्णो दयया दिलीपो नयेन काव्यो विनयेन रामः ।
यदि प्रसिद्धिं ददताममीभिः श्रीसिङ्गभूपो निखिलैः प्रसिद्धः ॥ च्क्च्_३।*१ ॥
अत्र सर्वेषां पदानां जात्यादिवाचकत्वादर्थस्य वाच्यत्वं प्रतीयते ।
लक्षणावृत्तिगम्यार्थो लक्ष्य इत्यभिधीयते ॥ च्क्च्_३।२ ॥
लक्ष्यार्थस्तु चतुर्धा वाच्यार्थानन्वयेन तत्रैव ।
समवेतः संयुक्तः सम्बन्धी सदृश ङत्युक्तः ॥ च्क्च्_३।३ ॥
तत्र समवेतो लक्ष्यार्थो यथा राजन्यके प्रतिभटं प्रतिजन्यरङ्गे रुद्रं प्रकाशयति ते सरवालरेखा ।
श्रीसिङ्गभूपचकिते शरणागते ऽस्मिन् पद्मेक्षणं विवृणुते हि कटाक्षरेखा ॥ च्क्च्_३।*२ ॥
अत्र रुद्रशब्दो मुख्यार्थे स्खलद्गतिः ।
तेन रुद्रेणाविनाभूतस्य शतृसंहरणसामर्य्थस्य लक्षणया विवक्षितत्वात् समवेतलक्ष्यार्थत्वम् ।
नानादिगन्तजयिनं स्वपुरप्रवेशे क्षीसिङ्गभूपमनुभावितराजशब्दम् ।
सौधाङ्गणानि परितो जयशब्दपूर्व- माचारलाजकुसुमाञ्जलिमुत्किरन्ति ॥ च्क्च्_३।*३ ॥
अत्र सौधाङ्गणानामचेतनानां पुष्पाञ्जलिपरिक्षेपासम्भवात् पुरे च सौधबाहुल्यविवक्षया तत्सङ्गताः पौराङ्गनाः लक्ष्यन्त इति संयुक्तलक्ष्यार्थत्वम् ।
विरोध्यविरोधकभावादिरमुख्यः सम्बन्धः ।
तद्वान् सम्बन्धी
यथा
श्रीसिङ्गक्षितिपालकः प्रयतते यद्यत्समाटीकितुं तत्तत्पूरयितुं चिरेण नियतिर्बद्धव्रता तिष्ठति ।
अस्मासु प्रतिकूलता तु जहती भूयाः कृतार्थोद्यमाः जायेथा श्विरजीवनी प्रवसता मस्माकमालिर्गिरा ॥ च्क्च्_३।*४ ॥
अत्र नियत्या भिन्नानां रिपुभूपतीनां वनं प्रति चिरजीविनी भूया इत्याशीराशंसासङ्गतेरभावात् तद्द्विरूद्धः शापरुपार्थो लक्ष्यते ।
आदिशब्दादवयवावयविभावसम्बन्धादिर्यथा
ग्रीष्मो निःश्वसितेषु लोचनयुगे वर्षाश्शरद्गण्ड्योर् हेमन्तस्स्वसखीमुखेषु शिशिरो ऽप्यालेपने वस्तुनि ।
चैत्रस्तल्पविकल्पनासु वसति श्रीसिङ्गपृथ्वीपते त्वां संसेवितुमागतेषु धरणीपालेषु तद्योषिताम् ॥ च्क्च्_३।*५ ॥
अत्रावयविभूतर्तुप्रक्रमभङ्गरूपानुपपत्तेः तत्परिहाराय चैत्र इति पूर्वावयवेनावयवी वसन्तो लक्ष्यते ।
सादश्याल्लक्ष्यार्थो यथा नायकस्यैव
कान्ते कृतागसि पुरः परिवर्तमाने सख्यं सरोजशशिनोः सहसा बभूव ।
रूक्षाक्षरं सुदृशि वक्तुमपारयन्त्याम् इन्दीवरद्वयमवाप तुषारधाराम् ॥ च्क्च्_३।*६ ॥
अत्र सरोजादीनां मुख्यार्थानन्वयेन तत्सदृशः करतलादिलक्षणार्थः सादृश्यनिबन्धनया लक्षणया लक्ष्यते ।
शब्देनार्थेन वा लक्ष्यो व्यञ्जनासहचारिणा ।
व्यङ्ग्यार्थो वस्त्वलङ्काररसभावादिलक्षणः ॥ च्क्च्_३।४ ॥
अत्राद्यो यथा
लीलालोकनलोलुपं मृगकुलं गन्ता गुहान्तानिमाम्- स्तत्क्प्यग्रसनव्रतीह भविता द्वीपी रुषीद्दीपितः ।
याता तन्मृगया रतेवनमिदं श्रीसिङ्गभूपो रयाद् इत्यादिर्भय मादिशन्त्यरिनृपाः स्त्रीणामनीभाव्रतम् ॥ च्क्च्_३।*७ ॥
अत्र परिलीनशत्रुभूवरा गिरिगुहानायकेन नाक्रान्ता इति यत्तदिदं दुर्गम्बुद्ध्या न भवति किन्तु पलायिता नानुयातवध्या इति मनीषयेति वस्तु व्यज्यते ।
द्वितीयो यथा
पृथ्वीं श्रीसिङ्गभूपे वहति फणवतामीशितारं प्रमोदा- दाकल्पं केलितल्पं कलयितुमनसोरदिपुंसो निरोधे ।
भूमौ भारप्रसङ्गात्पुनरपि पतिता केलितल्पापदेशा- दाकल्पत्वैकयोग्यं भुजग इति पदं गायते ख्यातपूर्वम् ॥ च्क्च्_३।*८ ॥
अत्र नायकस्य सर्वेषु राजसु सेवकेषु रणाभावादलब्धनवकपालस्य कपालिनो जीर्णकपालमालिकास्थाने भूभारवियुक्तं शेषाहिं निवेशयितुकामस्य वेत्युत्प्रेक्षालह्कारो व्यज्यते ।
किञ्च नायकेनैव जगत्त्राणबार निर्वहणादाश्वस्तस्य नारायणस्य निद्रामाकाङ्क्षत इवेति च तेनैव प्रतीयते ।
रसरूपस्तृतीयो यथा
श्रीसिङ्गक्षितिनायकस्य रिपवो धाटीक्षतेराकुलाः शुष्यत्तालुपुटं स्खलत्पदतलं व्यालोकयन्तो दिशः ।
धावित्वा कथमप्युपेत्य तमसा गाढोपगूढां गुहाम् अन्विष्यन्ति तदन्तरे ऽपि करसंस्पर्शेन गर्तान्तरम् ॥ च्क्च्_३।*९ ॥
अत्र नायकविरोधिसमाश्रयो भयानको रसो निजविबावादिभिरसंलक्ष्यक्रमतया व्यज्यते ।
भावरूपश्चतुर्थो यथा नायकस्यैव
शृङ्गारवीरसौहार्दं मौग्ध्यवैयात्यसौहृदम् ।
लास्यताण्डवसौजन्यं दाम्पत्यं तद् भजामहे ॥ च्क्च्_३।*१० ॥
अत्र मौग्द्येत्यादौ विरुद्धगणघटनया लास्येत्यादौ विरुद्धक्रियाघटनया दाम्पत्यमित्यत्र विरुद्धजातिघटनया वाचिन्त्यैश्वर्यप्रतिपादकोर्ऽधनारीश्वरलक्षणाभिमतदैवतगैचरो वक्तुर्भक्तिभावो व्यज्यते ।
एवमन्येप्यादिशब्दग्राह्या रसभावादिरूपा व्यङ्यार्थास्तत्रतत्रोदाहरणे द्रष्टव्याः ।
अथार्थदोषाः ।
अपार्थं व्यर्थमेकर्थं ससंशयमपक्रमम् ।
परुषं विरसं भिन्नमतिमात्रमनुज्ज्वलम् ॥ च्क्च्_३।५ ॥
नीचाधिकासदृक्षोपमानान्यप्रथितोपमम् ।
अश्लीलं च विरुद्धं च दोषाः काव्यार्थगोचराः ॥ च्क्च्_३।६ ॥
अत्रापार्थमित्यादौ भावप्रधाननिर्देशान्नपुंसकत्वमवगन्तव्यम् ।
समुदायार्थशून्यं यत्तदपार्थमितीरितम् ॥ च्क्च्_३।७ ॥
यथा
चैत्ये शम्भोर्वदनदशके वीक्ष्य दीर्घं कराग्रम् मत्वा दुर्गं लवणधनुषे कामदेवाय हुं फट् ।
इत्याराध्य प्रणवमुखरे प्राञ्जलौ पारशीके तुष्टा लक्ष्मीर्वितरति शुभं सिङ्गभूपालकाय ॥ च्क्च्_३।*११ ॥
अत्र परस्परासङ्गतत्वात् समुदायार्थशून्यता स्पष्टैव ।
व्याकुलोन्मत्तवाक्यादौ तद् गुणीभूय भूषयेत् ॥ च्क्च्_३।८ ॥
व्याकुलभावे यथा
को वा जेष्यति सोमवंशतिलकानस्मान् रणप्राङ्गणे हन्तास्मासु पराङ्मुखो हतविधिः किं दुर्गमध्यास्महे ।
अस्मत्पूर्वनृपानयं निहतवान् दीर्घान् धिगस्मद्भुजान् किं वाक्यैरनवोतसिङ्गनृपतेः सेवैव कृत्यं पदम् ॥ च्क्च्_३।*१२ ॥
अत्र वाक्यार्थनां परस्परासङ्गतत्वे ऽपि नायकजैत्रयात्रासमाकर्णनव्याकुलानां प्रत्यथिभूपानां नानाभावशाबल्यसूचकत्वाद् गुणत्वम् ।
उन्मत्तभावे यथा
औत्सुक्यादनवोतसिङ्गनृपतेराकारमालिख्य सा निर्वर्ण्यायमसौ मम प्रिय इति प्रेमाभियोगभ्रमात् ।
आशूत्थाय ततोपसृत्य तरसा किञ्चिद्विवृत्तानना सासूयं सदरस्मितं सचरस्मितं सचकितं साकाङ्क्षमालौकते ॥ च्क्च्_३।*१३ ॥
अत्र चित्रमुद्दिश्याशूत्थानापसरणदृष्टिविकारादीनामर्थानामसङ्गतत्वेन समुदायत्वशून्यत्वे ऽपि रागोत्कर्षप्रतिपादकसमस्तकामावस्थासूचकत्वाद् गुमत्वम् ।
व्यर्थमाहुर्गतार्थ यद्यच्च स्यादप्रयोजनम् ॥ च्क्च्_३।९ ॥
यथा
नेत्राभ्यामवलोक्य सिङ्गनृपतिं द्वाभ्यां रणे विद्विषः सव्यूहैरभियान्ति सप्रतिभटानालोक्य गर्वोद्धतान् ।
दोष्णा स्वेन निजं कृपाणमवते तत्खड्गधारां गतास् ते स्वःस्त्रीकुचकुम्भयोर्मृगमदं लुम्पन्ति लुम्पन्ति च ॥ च्क्च्_३।*१४ ॥
अत्रावलोक्येत्यनेनैव नेत्राभ्यामिति, नेत्राभ्यामित्यनेनैव द्वाभ्यामिति दोष्णा कृपाणमवत इत्यनेनैव, स्वेन निजमिति चार्थसामर्थ्यादेवावगतेः नेत्रादीनां गतार्थत्वम् ।
सुरस्त्रीमृगमदलेपनक्रीडयैव रिपूणां कथाशेषत्वावगतेः स्वःस्त्रीति शब्दश्लेषसामर्थ्यलब्धनिजस्त्रीकुचकुम्भमृगमदलेपनक्रियाया अप्रयोजनत्वाद् व्यर्थत्वम् ।
इदं गुणपतं याति निशेषश्चेद्विवक्ष्यते ॥ च्क्च्_३।१० ॥
यथा
अलोलैराश्वर्यादविचलितलज्जापरिमलैः प्रमोदादुद्वेलैश्चकितहरिणीवीक्षणसखैः ।
अमन्दैरौत्सुक्यात्प्रणयलहरीमर्मपिशुनैर् अपाङगैस्सिङ्गक्ष्मारमणमबला वीक्षितवती ॥ च्क्च्_३।*१५ ॥
अत्र नायकमबला वीक्षितवतीत्यनेनैवानन्यसिद्धेनावगतस्यापाङगैरित्यस्य गतार्थत्वे ऽपि निष्पन्दत्वलज्जापरिमलादिविशेषविवक्षयोपात्तत्वाददोषः ।
अप्रयोजनस्य यथा
सङ्कल्पैरनवोतसिङ्गनृपतौ संरूढमूलाङ्कुरै- राक्रान्ता तनुतां गता स्मरशरैश्शातेव शातोदरी ।
अस्मन्नूलमिदं तनुत्वमिति किं लज्जालसै लोचने प्राप्ते पक्ष्मपुटावृतिं रतिपतेस्तत् केतनं जृम्भताम् ॥ च्क्च्_३।*१६ ॥
अत्र मीनविजृम्भणकथनस्य प्रकृतावस्थानुपयोगित्वेनाप्रयोजकत्वे ऽपि लोके प्रायेण परिभूतानां पराभवितुरापदं विना विजृम्भणं न सम्भवतीति लोचनयोरपुनरुन्मीलनसूचनेन नवमावस्थायाः पराकाष्ठा प्रतीयत इति गुणत्वम् ।
उक्ताभिन्नार्थमेकार्थं
यथा
संरक्षितां वेतनमाननाभ्यां करोति सेनां विनिहत्य शत्रून् ।
कल्याणभूपो विनिहत्य शत्रून् बलानि संरक्षति वेतनाद्यः ॥ च्क्च्_३।*१७ ॥
अत्र पूर्वोत्तरार्धयोरपृथगभिप्रायत्वादेकार्थम् ।
रसोद्रेके त्वयं गुणः ॥ च्क्च्_३।११ ॥
यथा
कुमारश्रीसिङ्गे जलधिरशनां शासति महीम् अमर्यादाध्वस्ताः पतनपरिणाहप्रतिभुवः ।
अधर्मा निर्मूला नरकपरिपाकप्रणिधयो विनष्टा दुश्चेष्टाः कलिकलुषवेशीपरिधयः ॥ च्क्च्_३।*१८ ॥
अत्र द्वितीयादिषु पादेषु भिन्नार्थत्वाभावे ऽपि केनचिदधर्मगन्धो ऽप्यस्मद्देशे न विद्यत इति त्रिर्वाचा धर्मप्रतिष्ठापकस्वामिपक्षपातातिशयोपक्षिप्तं सोद्रेकेण चेतसाभिहितत्वाद् गुणत्वम् ।
सन्देहदायकार्थं यत् ससंशयमितीरितम् ॥ च्क्च्_३।१२ ॥
यथा
श्रीसिङ्गभूपधाटीषु विद्विषो हीनसाधनाः ।
सालश्रेणिमुपाश्रित्य कुर्वते जीवतं तृणम् ॥ च्क्च्_३।*१९ ॥
अत्र हीनसाधना विद्विषः सालश्रेणिं प्राकारपङ्क्तिमाश्रित्य जीवनं प्राणान् तृणं कुर्वते तृणाय मन्यन्त इत्यर्थः ।
अथवा सालश्रेणिं वाटिकामाश्रित्य हीनसाधनाः तृणं जीवनं प्राणधारणं कुर्वत इति च नासत्प्रतिपक्षत्वमसत्प्रतिपक्षत्वं वे ऽति संशयप्रतीतेः ससंशयमिदम् ।
उत्कर्षादिविवक्षायामस्यापि गुणगौरवम् ॥ च्क्च्_३।१३ ॥
यथा
कोकिलस्पर्धिसल्लापा मृगवैरिविलोचनाः ।
वामाः श्यामा वशीकर्तुं नेशते सिङ्गभूपतिम् ॥ च्क्च्_३।*२० ॥
अत्र कोकिलस्पर्धिनः कोकिलस्वरवत् कलमधुरास्सल्लापा यासां ताः ।
मृगवैरीणि मृगलोचनतुल्यानि लोचनानि यासां ताः ।
वामाः रम्याः श्यामा युवतयो नायकं वशीकर्तुं नेशते न शक्ता इत्यनेन स्त्रीव्यसनमस्य नास्तीति ।
उत कोकिलस्पर्धिनां काकानां सल्लाप इव सल्लापा यासां ताःनामाः वक्राः श्यामाः कालाङ्ग्यः एनं वशीकर्तुं नेशत इत्यनेनानुत्तमासु काकस्वराढ्यासु स्त्रीषु न रमन्त इति कामशास्त्रपरिज्ञानमस्तीति वा सन्देहे उभयथापि नायकोत्कर्षप्रतीतिरिति गुणत्वम् ।
पौर्वापर्यविपर्यासो यत्र स्यात्तदपक्रमम् ॥ च्क्च्_३।१४ ॥
यथा
घोराजिरङ्गे प्रतिपक्षभूपाः श्रीकिङ्गभूपालवसुं विलोक्य ।
कुर्वन्ति मौहूर्तिकसार्वभौमैः प्रयाणहोरापरिशोधनानि ॥ च्क्च्_३।*२१ ॥
अत्र पूर्वं पुरान्निर्गत्य प्रतिपक्षभूपैः पश्वादतिक्रान्तप्रयाणलग्नपरिशोधनं क्रियत इत्यपक्रमत्वम् ।
चित्रहेत्वादिषु प्रायो गुणतामस्य मन्वते ॥ च्क्च्_३।१५ ॥
यथा
पश्चान्मुञ्चति ते चित्तं क्षमां श्रीसिङ्गभूपते ।
पुरस्तादेव मुञ्चन्ति पौरस्त्या भूभुजः क्षमाः ॥ च्क्च्_३।*२२ ॥
अत्र पूर्वभाविनो नायकचित्ते तितिक्षामोक्षणस्य हेतोः, हेतुमतः पश्वाद्भाविनः प्रतिराजनिजदेशमोक्षणस्य च पौर्वापर्यविपर्यसादपक्रमत्वे ऽपि नायकतितिक्षामोक्षणस्य देशमोक्षणलक्षणप्रतिराजसाध्वसोद्दीपनप्रकाशनपरत्वाददोषः ।
प्रत्यक्षनिष्ठुरार्थं यत्परुषं तन्निगद्यते ॥ च्क्च्_३।१६ ॥
यथा
गणडग्रावतले निपातयत वा गर्तान्तरे दत्त वा व्याघ्राणां पुरतः परिक्षिपत वा व्याक्रोशतो बालकान् ।
हन्तामी परितो वनं मृगयतः क्ष्मापालचूडामणेः वर्तन्ते भवतीभिरद्य हिवयं सर्वे ऽपि दह्यामहे ॥ च्क्च्_३।*२३ ॥
अत्र नायकचमूधाटीभयेन गिरिगुहासु लीनानां कुलीनकुटुम्बिनीरुद्दिश्य बालकरोदननिवारणाभिप्रायमात्राण्यपि प्रत्यक्षे रूक्षार्थान्यक्षराणि गदितानीति परुषत्वम् ।
हितोपदेशातिक्रान्तस्मरणादौ च तद् गुणः ॥ च्क्च्_३।१७ ॥
हितोपदेशे यथा
अस्मद्वक्षसिजद्वयात्किमु सुखं स्वर्दन्ति कुम्भद्वयं पीयूषं किमु सारमस्मदधरादस्मादपस्मारितम् ।
को ऽयं वो जनितेति साहसरसान् श्रीवीरसिङ्घप्रभो संरम्भादपसारयन्त्यरिनृपान् प्रौढाः प्रतीतोक्तिभिः ॥ च्क्च्_३।*२४ ॥
अत्र मारणशूचनाभिप्रायेण परुषत्वे ऽपि मरणपर्यवसायी बलवता नायकेन विरोधः परिहरणीय इति हितोपदेशत्वाद् गुणत्वम् ।
अतिक्रान्तस्मरणे यथा
यन्मुक्तो ऽयमजिह्विका प्रियसखा त्वत्खड्गधारामुखाद् यो दृष्टो न च तैः किरातहतकैर्दुर्गोपहारोद्यतैः ।
तच्वन्मङ्गल सूत्रवैभव मिति प्रस्तौति सिङ्गप्रभोर् धाटीसम्भ्रमनष्टदुष्टपतिका ञ्चैकां स्त्रियं बन्धुता ॥ च्क्च्_३।*२५ ॥
अत्र प्रथमार्धे परुषत्वे ऽपि सम्भावितातिक्रान्तानुवादमात्रपरत्वाद् गुणत्वम् ।
विरसं विरसार्थस्स्यादनौचित्यकलङ्कतः ॥ च्क्च्_३।१८ ॥
यथा
श्रुत्वा सिङ्गक्षितिपतिरणारम्भगम्भीरघोषान् शुष्यत्तालु प्रतिनृपतयस्स्तब्धजङ्घं पतन्तः ।
सम्मुह्यन्ते श्रुतिषु मरुतां शैलकान्तारदेशे निर्यान्तीषु श्रुतिपुजसुखं वैणवीभ्यो वपाभ्यः ॥ च्क्च्_३।*२६ ॥
अत्र धाटीभयेन पलायमानानां मनसः कीचकरन्ध्रसमीरणश्रवणसुखानुसन्धानमनुचितमिति विरसत्वम् ।
अप्रधानस्य विज्ञेयो गुणीभावो ऽस्य कोविदैः ॥ च्क्च्_३।१९ ॥
यथा
कस्तूर्या तत्कपोल द्वयभुवि मकरी निर्मितौ प्रस्तुतायां निर्मित्सूनां स्ववक्षस्यतिपरिचयाच्वत्प्रशस्तेरुपांशु ।
वीर श्रीसिङ्गभूप त्वदहितकुभुजां राज्यलक्ष्मीसपत्नी- मानव्याजेन लज्जां सपदि विदधते स्वावरोधाः प्रगल्भाः ॥ च्क्च्_३।*२७ ॥
अत्र प्रतिनायकगता नायकबिरुदविलेखननिमित्तया जनिता स्वावरोधसान्निध्यादिभिरुद्दीपिता लज्जानुमितैः निर्वेददैन्यविषादादिभिरभिव्यक्ता निर्वेददैन्यविषादादिभिरुपचिता तदनु तदनुमितैरेव मानसिककुत्सादिभिरभिव्यक्ता निजजीवितजुगुप्सा च स्वावरोधविषया तत्प्रागल्भूयादिभिरुद्दीपिता मकरिकातपत्रनिर्माणदिभिरभिव्यक्ता तदनुमितैः हर्षादिभिरुपचिता रतिश्व निर्भरमेकत्र सन्निवेशित इत्यनौचित्येन विरसत्वे ऽपि तयोर्नायकबिरुदविलेशनहेतुतया नायककृपाकटाक्षप्रसाद सम्पन्नतया च न सम्भाव्यमानयोश्शरणागतरक्षणलक्षणनायकगतपरोपकारत्वेना प्राधान्याददुष्टत्वम् ॥
प्रक्रान्तभङ्ग्यनिर्वाहो भिन्नमाहुर्मनीषिणः ॥ च्क्च्_३।२० ॥
यथा
गौडीपानमदालसाः परिगलद्धम्मिल्लमल्लीस्रजः सव्याजस्खलितोक्तयो मदवतीसीमन्तरत्नश्रियः ।
तारुण्योदधिशीकरा स्मरकलासाम्राज्यसिद्धिक्रियाः श्रीसिङ्गक्षितिपाल तावकगुणान् गायन्ति गौडाङ्गनाः ॥ च्क्च्_३।*२८ ॥
अत्र मत्तजात्युपक्रमस्य मदवतीत्यादिगुणवर्णनेनानिर्वाहाद् गुणत्वम् ।
अस्यापि गुणता क्वापि यदि छाया न हीयते ॥ च्क्च्_३।२१ ॥
यथा ग्रीष्मो निःश्वसितेषु लोचनयुगे वर्षाः शरद्गण्डयोरिति पूर्वोदाहृतेषु ऋतुष्वेकवचनप्रक्रमस्य वर्षा इति बहुवचनोपादानाद् भिन्नत्वे ऽपि भूम्न्येव वर्षा इत्यनुशासनाद् बहुवचनश्रुतेरप्यर्थैक्यस्यात्याज्यत्वादेकवचनछाया न हीयत इति गुणत्वम् ।
यदश्रद्धेयमत्युक्तमतिमात्रं तदुच्यते ॥ च्क्च्_३।२२ ॥
यथा
श्रीसिङ्गभूपाल तवाहितानां निःश्वासवेगा गिरिकाननानि ।
कुर्वन्ति निर्दग्धनिकुञ्जपुञ्जं पर्यस्तगण्डोपलमण्डलानि ॥ च्क्च्_३।*२९ ॥
अत्र पराभवभारादत्युष्णानामतिबहुलानामपि रिपुनृपाल निःश्वासवेगानामाभोगो तथाविधदाहकक्षेपकत्वयोरश्रद्धेयत्वमित्यतिमात्रत्वम् ।
अस्यापि गुणतां केचिद्यथापूर्वं समर्थने ।
वदन्त्यन्ये तु सरसा लोकस्थित्यनुरोधतः ॥ च्क्च्_३।२३ ॥
आद्यं यथा
श्रीसिङ्गक्षितिपाल तावकचमूधाटीषु वाजिछटा रिङ्खोद्धूतरजोभिरम्बुनिधयो विश्वे ऽपि गाधीकृताः ।
चञ्चत्केतुपटान्तवान्तपवनैर् भूयोप्यगाधीकृताः भद्रे भेन्द्रमदाम्बुना पुनरमी पूर्वाधिकं पूरिताः ॥ च्क्च्_३।*३० ॥
अत्र सेनावाजिरजसा समुद्राणां शोषण स्थलीकरणादिरतिमात्रत्वे ऽपि पुनरपिवारिपूरकल्पनया वस्तुस्थितेरविरोधाद् गाढमार्गानुवर्तिनां विदग्धानामतिगुणत्वम् ।
द्वितीयं यथा
यात्रेयं कुलदेवतासु किमुतोद्वाहक्रमो भूभुजाम् आचारा नु सखीति वा प्रतिपतं वध्वा विवाहोत्सवे ।
धाटीसंश्रवणा त्पलायनवतां श्रीसिङ्गभूपद्विषां राज्ञां मर्मनिकृन्तने पटुतरा तन्मण्डलाग्रादपि ॥ च्क्च्_३।*३१ ॥
अत्र वाचां खड्गादपि हृदयमर्मभेदकथना दतिमात्रत्वे ऽपि तादृशानां तादृशानि वचनानि वज्रादपि हृदयमर्माणि भिन्दन्ति ।
किमुत खड्गादिरिति लोकस्थितेरनुवर्तनाद्विदर्भमार्गानुसारिणां दाक्षिणात्यानामतिगुणत्वम् ।
नातिस्फुटचमत्कारमनुज्ज्वलमितीरितम् ॥ च्क्च्_३।२४ ॥
यथा
क्रोडान् खनन्ति विपिने भक्षयन्ति मृगान् कुशान् ।
निद्रान्ति पादपछाये कल्याणनृपविद्विषः ॥ च्क्च्_३।*३२ ॥
अत्र विद्विषां नगरेषु भयव्याकुलतया कदाचिदपि निद्रा चक्षुः नोपैति भ्रष्टराज्यास्तु कान्तारे वन्यजन्तुवत् विस्रब्धा निद्रान्तीति विवक्षितस्यापि चमत्कारस्यातिक्लेशेन प्रतीते रस्फुटालङ्कारत्वाच्चानुज्ज्वलत्वम् ।
विदग्धहृदयाः व्कापि तस्यापि गुणतां विदुः ॥ च्क्च्_३।२५ ॥
यथा “सर्वे ग्रहा सनक्षत्रा” इत्यादि पूर्वोदाहृतम् ।
अत्र जात्याद्यर्थालङ्कारविरहेणानुज्ज्वलत्वे ऽपि शुद्धश्रोत्रियाशीर्वादानुकरणत्वाद् गुणत्वम् ।
स्पष्टं नीचोपमानादि६यं नाम्नैव लक्षितम् ॥ च्क्च्_३।२६ ॥
नीचाधिकोपमाने यथा
श्रीसिङ्गभूप भवदीयकृपाणरेखाम् आलोक्य पक्तिमकुशाग्रनिशातधाराम् ।
लीनाः प्रविश्य विपिनं प्रदरान्तरालं नारायणोदरदरीमिव वैरिभूपाः ॥ च्क्च्_३।*३३ ॥
अत्र खड्गधारां प्रति कुशधारायामतिनिशातत्वे नीचत्वादतिनीचोपमानत्वं विपिनप्रदरं प्रति वैपुल्येन नारायणोदरस्यात्याधिक्यादधिकोपमानत्वम् ।
असदृक्षोपमानत्वं यथा
मण्डलीकृतकोदण्डो रणे कल्याणभूपतिः ।
करकम्पितकल्हारो मीनाह्क इव राजते ॥ च्क्च्_३।*३४ ॥
अत्र कोदण्डसौगन्धिकयोः साम्यगन्धस्याबावादसदृक्षोपमानत्वम् ।
आद्ययोस्तु गुणीभावः कदापि कविकौशलात् ॥ च्क्च्_३।२७ ॥
यथा
परिपन्थिनि सिङ्गनृपो धनकणिकां कनकगिरिरिवादत्ते ।
पात्रे तिष्ठति पुरतः तृणकणवच्यजति कनकानि ॥ च्क्च्_३।*३५ ॥
अत्र कनकगिरितृणकणयोरत्यधिकनीचयोरुपमानत्वे ऽपि नायकस्यार्थधर्मार्जनाप्रमादावति शयविवक्षायां न दुष्यतः ।
असदृक्षोपमानस्य व्यतिरेकोपमादिषु ।
यथा
अविवेकी न सुरभिवत् चिन्तामणिरिव न याति काठिन्यम् ।
श्रीसिङ्गभूपतिलकः शिव शिव भूलोकभाग्यसौभाग्यम् ॥ च्क्च्_३।*३६ ॥
अत्रोपमानोपमेययोर्वैषम्ये ऽपि व्यतिरेकोपमानत्वाद् गुणत्वम् ।
अप्रसिद्धोपमानं तु भवेदप्रथितोपमम् ॥ च्क्च्_३।२८ ॥
यथा
हन्त सौगन्धिककराः स्फुटकोकनदाङ्घ्रयः ।
श्रीकिङ्गभूपधाटीभिः जर्जरा घूर्जरस्त्रियः ॥ च्क्च्_३।*३७ ॥
अत्र सौगन्धिककोकनदयोः कान्ताकरचरणोपमानत्वेन कविप्रयोगेषु न प्रसिद्धिरिति दुष्टत्वम् ।
अस्यापि गुणता व्कापि तरङ्गितचमत्कृतेः ॥ च्क्च्_३।२९ ॥
यथा
श्रीसिङ्गभूपाल भवत्प्रयुक्तनाराचपङ्क्त्या परितः पतन्त्या ।
अराजि वीराहित राजकण्ठे सुराङ्गनासंवरणस्रजेव ॥ च्क्च्_३।*३८ ॥
अत्र नाराजपङिक्तस्वयंवरणस्रजोरुपमेयोपमानभावाप्रसिद्धावपि सुराङ्गानां भोग हेतुत्वसाम्याच्छमत्कारातिस्य इति गुणत्वम् ।
अश्लीलं तद्विनिर्दिष्टं यदश्लीलप्रतीतिकृत् ॥ च्क्च्_३।३० ॥
यथा
उद्दीपिताः प्रहारेण भूपाल तव शात्रवाः ।
रन्ध्रे प्रहर्तुमौद्धत्यादुन्नमन्ति नमन्ति च ॥ च्क्च्_३।*३९ ॥
अत्र प्रहारोद्दीपनं रन्ध्रप्रहाराय नमनोन्नमने च शिश्ने ऽपि विद्येते इति तत्प्रतीतेरश्लीलत्वम् ।
अस्यापि गुणता ज्ञेया कवीन्द्रस्वीकृतादिषु ॥ च्क्च्_३।३१ ॥
यथा
जित्वा तत्परिरम्भण प्रकृतिकं द्यूते सखीनां पुरः शार्यारोपणसूचिते पणविधौ श्रीसिङ्गभूमीभुजा ।
मन्दस्मेरकपोलकान्तिलहरीसङ्क्रान्तवक्त्रेक्षणा सास्विन्नाङ्गुलि शारिकापरिकरं सज्जीकरोति प्रिया ॥ च्क्च्_३।*४० ॥
अत्र शारिकास्त्र्युपरि शारिकारोपणेन पुम्भावकेलिरूपस्याश्लीलस्य प्रतीतेरश्लीलत्वे ऽपि कविभिरेवंविधस्यास्लीलस्याङ्गीकाराद् गुणत्वम् ।
कुत्र कविभिरेवमुररीकृतमिति चेत्तर्हि साधु सर्वतो निदर्शयामः ।
तथा हि
तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ ॥ च्क्च्_३।*४१ ॥
–इति रघुवंशे
क्लिष्टचन्द्रमदयैः कचग्रहैरुत्पथाहितनखं समत्सरम् ।
तस्यतच्छिथिलमेकलागुणं पार्वतीरतमभूदतृप्तये ॥ च्क्च्_३।*४२ ॥
–इति कुमारसम्भवे
मुखप्रधानै रविलम्बपूर्वैः कण्ठग्रहैः क्षिप्रनिपीडिताङ्गैः ।
करप्रचारैः शिथिलोपरोधैर्लब्धैः प्रियाया मुमुदे मुकुन्दः ॥ च्क्च्_३।*४३ ॥
–इति कन्दर्पसम्भवे
प्रोतया गलितनीवि निरस्यन्नुत्तरीयमवलम्बितकाञ्चि ।
मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥ च्क्च्_३।*४४ ॥
–इति भारबिकाव्ये
आशुलङ्घितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या ।
रक्तवैणिकहताधरतन्त्रि मण्डलक्वणिन्तचारु चुकूजे ॥ च्क्च्_३।*४५ ॥
–इति माघकाव्ये एवमन्यत्रापि विज्ञेयम् ।
देशकाले कलालोकन्यायागमविरोधि यत् ।
साहित्यप्राणसारज्ञैः तद्विरुद्धमितीरितम् ॥ च्क्च्_३।३२ ॥
तत्र देशो ऽन्ध्रो महाराष्ट्रादिःकालो नक्तन्दिवर्तंवः ।
गीतिनीतिप्रभृतयः कालाः कामार्थसंश्रयाः ॥ च्क्च्_३।३३ ॥
चराचराणां भूतानां प्रवृत्तिर्लोक उच्यते ।
न्यायस्तु हेतुविद्यार् यादागमो धर्मसंहिता ॥ च्क्च्_३।३४ ॥
देशादिविरुद्धानि यथा
राधे मासि दिवानिशं मृगमदव्यालेपिनो मालती शय्यायां यमुनातरङ्गपवनस्पर्शोत्सुकैर्वत्सलैः ।
धात्रीनायकसेवनाय मिलिता भूमीश्वरा मानिनो राजाद्रौ मणिहारसौरभमयैः क्रीढन्ति बन्दीजनैः ॥ च्क्च्_३।*४६ ॥
अत्रान्ध्रदेशे यमुनेति देशनिरोधः ।
राधेमासि मालतीशय्येति कालविरोधः ।
हाराणां सौरभमिति लोकविरोधः ।
एते प्रत्यक्षविरोधाः ।
मानिनः सोवा मिलिता इति स्ववचनविरोधः ।
बन्दिजना वत्सला इत्यौचित्यविरोधः ।
अन्यसेवकानामहर्निशं क्रीडेति युक्तिविरोधः ।
एते अनुमानविरोधाः ।
बन्दीकृतैः परपरिग्रहैः क्रीडन्तीति कर्मसंहिताविरोधः ।
बन्दीष्वन्यासक्तेः व्यसनमपकृतस्त्रीषु विश्वासश्चेत्यर्थागमविरोधः ।
ग्रीष्मे दिवानिशं क्रीडनं पक्षाद्वर्षनिदाघयोरित्यायुर्वेदविरोधः ।
ग्रीष्मे कस्तूरिकाविलेपनं भोगशास्त्रविरोधः ।
अत्रागमान्तर्भूतानामपि कलाशास्त्राणां पृथगभिधानं तद्ज्ञानस्य साहित्ये प्राधान्यज्ञापनार्थम् ।
महोत्पातानुभावादि विवक्षायामिदं गुणः ॥ च्क्च्_३।३५ ॥
उत्पातविवक्षायां यथा
उद्दण्डप्रतिगण्डभेरवविभो स्मेरे कटाक्षे रुषा जाते कोकनदच्छविप्रतिभटे राष्ट्रेषु विद्वेषिणाम् ।
माकन्दाश्शरति प्रभूतकलिकाः पद्मं कुकूलोदरे पाषाणाः प्रहसन्ति हन्त दधते सन्ध्यासु निद्रा द्विजाः ॥ च्क्च्_३।*४७ ॥
अत्र शरदि माकन्दप्रसूनानीति कालविरोधः ।
कुकूलोदरे पद्ममिति युक्तिविरोधः पाषाणाः प्रहसन्तीति लोकविरोधः ।
तदेषां दुष्टत्वे ऽपि नायककोपजनिष्यमाणपराष्ट्रविपत्तिसूचकतुर्निमित्तविवक्षया गुणत्वम् ।
अनुभावविवभायां यथा
कस्तूरीमृगयूधसेविततलैः कर्पूरपालीद्रुमैर् आरामानभिरामतामुपगतानालोक्य राजाचले ।
विस्मेरा हृदि पञ्चवर्णकशुकादाकर्ण्य कर्णोत्सवं श्रीसिङ्गक्षितिपालविक्रमकलां नन्दन्त्यपूर्वे जनाः ॥ च्क्च्_३।*४८ ॥
अत्रान्ध्रदेशे कस्तूरीमृगकर्पूरद्रुमादिसद्धाव इति देशविरुद्धत्वे ऽपि नानाद्वीपाधीशसकाशादुपायनग्रहणसमर्थनायकप्रभाववर्णनविवक्षया गुणत्वम् ।
शब्दार्थरूपं तदितं काव्यं शब्दार्थकोविदैः ।
त्रैविध्येन चमत्कारि चमत्कारितरं यथा ॥ च्क्च्_३।३६ ॥
चमत्कारितमं चेति प्रविविच्य निदर्शितम् ।
शब्दचारुत्वतात्पर्ये चमत्कारीति कथ्यते ॥ च्क्च्_३।३७ ॥
यथा
कमलमुकुलपालीकल्पितापानकोती कलमधुकरमालाकाकलीकल्पनादेः ।
सरसि सरसतीरे सारसारापसारे विहरति भरितौघे राजशैलाधिराजः ॥ च्क्च्_३।*४९ ॥
अत्रानुप्रासनिर्वहणमात्रे कविप्रयत्नस्य विश्रान्तेः शब्दमात्रचारुत्वादिदं काव्यं चमत्कारीत्युच्यते ।
वाच्यचारुत्वतात्पर्ये चमत्कारितरं मतम् ॥ च्क्च्_३।३८ ॥
यथा
श्रीसिङ्गक्षितिपाल तावकचमूधाटीभयाटीकितान् आकारैरपि शाबरैरपिहितान् घोराङ्गणे फक्कणे ।
आत्मीयैव हि पश्यतां पिशुनयत्याबालगौपालकं भूपालात्कुलिशातपत्र कलशीचिह्ना पदानां ततिः ॥ च्क्च्_३।*५० ॥
अत्र कैतवकिरातानां प्रतिनायकानां कुलिसादिराजलक्षणलक्षितपदावलीपरिज्ञानेन यदिमे राजान इत्यभ्यूहनं सो ऽयमनुमानामङ्कारः ।
तत्रैव कविप्रयत्नस्य विश्रान्तिरिति वाचकाक्षरमुल्लङ्घ्य वाच्यचारुत्वतात्पर्यादितं चमत्कारितरमित्युच्यते ।
व्यङ्ग्यर्य चगुणीभावे तदेवाहुर्मनीषिणः ।
इहोपसर्जनीभूतमष्टधा व्यङ्ग्यमुच्यते ॥ च्क्च्_३।३९ ॥
तथा चाहुः
अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
सन्दिग्धतुल्यप्राधान्ये काव्काक्षिप्त मसुन्दरम् ॥ च्क्च्_३।४० ॥
इति ॥
अगूढव्यङ्ग्यं यथा
कस्तूरीमृगयूथसेविततलैः कर्पूरपालीद्रुमैर् आरामानभिरामतामुपगतानालोक्य राजाचले ।
विस्मेरा हृदि पञ्चवर्णकशुकादाकर्ण्य कर्णोत्सवं श्रीसिङ्गक्षितिपालविक्रमकलां नन्दन्त्यपूर्वे जनाः ॥ च्क्च्_३।*५१ ॥
अत्र विक्रमकलामित्यर्थशक्तिमूलस्य नानाद्वीपाधिपप्रहितस्योपायनविशेषरूपस्य व्यङ्ग्यस्योपर्येव प्रभावादिदमगूढं व्यङ्ग्यं नाम चमत्कारितरं काव्यम् ।
अपराङ्गव्यङ्ग्यं यथा
चूतालोकभिया निमीलितदृशो रञ्जन्ति भागान्तरं बन्धूनां च कुहूभिया श्रुतिरुधो नाकर्णयन्त्यो गिरः ।
पान्धैर्भूतभिया पलायनपरैर्नावेदिताध्वक्रमाः खिद्यन्ति त्वदरिस्त्रियो वनभुवि श्रीसिङ्गपृथ्वीपते ॥ च्क्च्_३।*५२ ॥
अत्र शत्रुस्त्रीविप्रलम्भस्य करुणाङ्गत्वम् ।
वाच्यसिद्ध्यङ्गं यथा
षढ्भिः षोढशभिः पूर्वैर्गौरेका महिषी कृता ।
सैव श्रीसिङ्गभूपालकुञ्जरेण विशीकृता ॥ च्क्च्_३।*५३ ॥
अत्र वशेति गजकान्तालक्षणं व्यङ्ग्यं भूपालकुञ्जरेणेत्यत्रोपमारूपकसन्देहे रूपकसिद्धिमुपपादयतीति वाच्यसिद्ध्यङ्गमिदम् ।
अस्फुटं यथा
चित्रं श्रीसिङ्गभूपालो विमथ्य रिपुवाहिनीम् ।
विकिरत्यमृतं सर्वश्रवणानन्दकारणम् ॥ च्क्च्_३।*५४ ॥
अत्र मन्दरः समुद्रं विमथ्य केषाञ्चिदेव रसनानन्दकारण ममृतमुत्पादयामास ।
नायकस्तु वाहिनीं विमथ्य सर्वलोकश्रवणानन्दकारणं कीर्तिरूपममृतं दिक्षुपूरयतीति मन्दरान्नायकस्याधिक्यप्रतिपादनात् प्रतीयमानस्य व्यतिरेकस्य नातिस्फुटत्वम् ।
सन्दिग्धव्यङ्ग्यं यथा
श्रीसिङ्गभूपपृतनाधिकृतैः निषण्णैर् आस्थानसौधमणितोरणवेतिकासु ।
आलोकनेन हरिदागतराज राजिर्- दृष्टा कपोलतलकन्दलितस्मितेन ॥ च्क्च्_३।*५५ ॥
अत्र नानादिगन्तागतराजकगोचरं सेनापतीनां सस्मितानलोकनं सम्भावनाभिप्रायेण वा रणेषु प्रभूततदीयकातरदशास्मरणेन वेति सन्देहः ।
तुल्यप्राधान्यव्यङ्ग्यं यथा
तव श्रीसिङ्गभूपाल प्रतापतपनोदयः ।
सातपत्रान् महीपालान् सन्तापयति सन्ततम् ॥ च्क्च्_३।*५६ ॥
अत्र सातपत्रान् शत्रून् प्रतापतपनः सन्तापयतीति वाच्यस्य निरातपत्रान् नः सन्तापयतीति व्यङ्ग्यस्य च प्राधान्यं सममेव प्रतीयते ।
काक्वाक्षिप्तं यथा
भद्रेभादशनभतक्षितिधरग्रावश्रियो ऽग्रे स्थिताः राजिर्वा जवनिर्जितार्कहयता विभ्राजिनां वाजिनाम् ।
उद्दण्डप्रतिगण्डभैरवविभुं प्राणेश शुद्धाङ्गणे हन्ताद्यापि दिदृक्षसे न सुहृदः प्राणा न चाहं हिताः ॥ च्क्च्_३।*५७ ॥
अत्र प्रतिनायकमुद्दिश्य तद्देवीवाक्ये गन्धगजा वाजिनो वा तवाग्रे न स्थिता प्राणास्व प्रिया एवाहं च तव हितैवेति व्यङ्ग्यं प्रतीयमानमपि कुञ्जरादयो ऽग्रे स्थिता वा इत्यादि काकुसहकारिणा वाचकशब्देनैवाक्षिप्यत इत्युपसर्जनीभूतत्वम् ।
असुन्दरं यथा
धात्रीमतिक्रम्य परिस्फुरन्ती भुजङ्गलोकानभितश्वरन्ती ।
श्रीसिङ्गभूपाल तव प्रभावात् श्लाघ्या हि कीर्तिः सुमनोगृहेषु ॥ च्क्च्_३।*५८ ॥
अत्र कीर्तेः धूर्तस्त्रिया साम्यं शब्दशक्तिप्रतीतमपि वाच्यादनतिशायीति न सुन्दरम् ।
प्रत्येयार्थस्य चारुत्वे चमत्कारितमं मतम् ॥ ४० ॥
यथा
सिङ्गप्रभुरलङ्कारी लङ्कारी राघवः पुनः ।
वर्णान्तरत्वमुभयोः श्रूयते सर्वसम्मतम् ॥ च्क्च्_३।*५९ ॥
अत्र वर्णेनाक्षरेणान्तरं भेदो ययोस्तच्वमिति वाच्ये प्रतिष्ठिते वर्णो वैश्यजातिरन्तरं नायकरघुनायकयोरिति परस्परव्यतिरेकालह्कारो व्यङ्ग्यः ।
तस्यैव कवितात्पर्यविश्रान्तिधामत्वाच्चारुत्वमिति चमत्कारितमत्वम् ।
यथा वा
कृतायस्तम्भनिर्भेदो भक्तप्रह्लादपोषकः ।
श्रीपतिनंरसिंहो ऽयं राजते राजशेखरः ॥ च्क्च्_३।*६० ॥
अत्र शब्दशक्तिमूलो नायकवैकुण्ठकण्ठीरवयोरुपमालङ्कारो व्यज्यते ।
अनेन च क्षणादिव नायको निखिलविरोधिविदारणक्रियापरिणति समर्थनिर्वक्रपराक्रम इति विधिरुपं वस्तु व्यज्यते ।
एतेन च नायकेन सह विरोधो न करणीय इति निषेधरूपं वस्तु, अमुना च नायकप्रतिभटीभूता महीपाला निर्बुद्धय इत्युत्प्रेक्षा व्यज्यते ।
अनया च नायकविरोधिनो नरनायका दैवपराहता इत्युत्प्रेक्षापरा व्यज्यते ।
एवं प्रतिशत्रुप्रतिभाविशेषप्रत्ययार्थपरम्परासमुन्मेषसम्पन्नतया बाढमचिन्त्यमहिमविश्रान्तिधामतां नीतं तदिदं चमत्कारितममित्युच्यते ।
अत्र भेदप्रपञ्चो ध्वनिलोचनादिग्रन्थेषु द्रष्टव्यः ।
गद्यं पद्यं च मिश्रं चेत्येतत् सर्वं त्रिधा स्मृतम् ।
अपादः पदसन्दर्भो गद्यं हृद्यं मनीषिणाम् ॥ च्क्च्_३।४१ ॥
कीर्तिरत्ननिषद्यायां गद्ये कस्यापि पाटवम् ।
गद्यबन्धमयं काव्यं श्रीहर्षचरितादिकम् ॥ च्क्च्_३।४२ ॥
चतुष्पादान्वितं पद्यं चादिर्मात्रेति तद् द्विधा ।
छन्दोविचितिकोशेषु तयोर्ज्ञेयस्तु विस्तरः ॥ च्क्च्_३।४३ ॥
पद्यबन्धमयं काव्यं क्षुद्राक्षुद्रतया द्विधा ॥ च्क्च्_३।४४ ॥
क्षुद्रं मुक्तककाव्यं तद् भामहाद्यैः प्रपञ्चितम् ।
अक्षुद्रं सर्गबन्धादि प्रशस्तोदात्तवस्तुकम् ॥ च्क्च्_३।४५ ॥
सदेशकालपात्रादि वर्णनासम्पदुज्ज्वलम् ।
त्रिवर्गफलदं काव्यं रघुवंशादिकं मतम् ॥ च्क्च्_३।४६ ॥
गद्यपद्यमयं मिश्रं प्रेक्ष्यं श्राव्यमिति द्दिधा ।
प्रेक्ष्यं द्विधा रूपकाख्यमुपरूपकमित्यपि ॥ च्क्च्_३।४७ ॥
रूपकं दशधा प्रोक्तं नाटकादिविभेदतः ।
महाप्रबन्धसाम्राज्यमाधिकर्तुमिदं क्षमम् ॥ च्क्च्_३।४८ ॥
सिङ्गभूपालरचिते रसार्णवसुधाकरे ।
अस्य प्रपञ्चो विज्ञेयः के तथा वक्तुमीशते ॥ च्क्च्_३।४९ ॥
उपरुपकमाख्यातं तद्धि श्रीगदितादिकम् ।
भावप्रकाशिकाद्येषु तल्लक्षणमवेक्ष्यते ॥ च्क्च्_३।५० ॥
श्राव्यं च कथितं चम्पूरुपचम्पूरिति द्विधा ।
चम्पूप्रबन्धस्तत्र स्यात्कान्ताष्टादशवर्णनः ॥ च्क्च्_३।५१ ॥
स प्रबन्ध इति श्लाघ्यो भोजरामायणादिकः ।
उपम्पूप्रबन्धानामियत्ता केन गद्यते ॥ च्क्च्_३।५२ ॥
अत्रापि कविसामर्थ्याद्र् बाषातालादिमिश्रणैः ।
कलिकोत्कलिकादीनां परिनायासविकल्पनैः ॥ च्क्च्_३।५३ ॥
रसभावादिभेदेन सम्पद्यन्ते तथोचितम् ।
तथापि प्रभुवन्द्यादिहर्षणारभटीस्पृशाम् ॥ च्क्च्_३।५४ ॥
वक्ष्ये च चतुर्भद्रादीनां केषाञ्चिदिह लक्षणम् ॥ च्क्च्_३।५५ ॥
पद्यानन्तरबद्धानां गद्यानां हि यथारुचि ।
अवैषम्यादियत्ताया नियमो भद्रमुच्यते ॥ च्क्च्_३।५६ ॥
चत्वारि यत्र तानि स्युस्तच्चतुर्भद्रमीरितम् ॥ च्क्च्_३।५७ ॥
भद्रं च सतालमतालं मिश्रं चेति त्रिविधम् ।
यत्र (पद्यानन्तरं त्रिचतुर) पद्यान्ततन्त्री चतुरमात्रादि नियमे केवलकलिकोत्कलिकानिबन्धः तत्सतालभद्रम् ।
तदिदमुदाहरणादिषु ।
यत्र पद्यानन्तरं गद्यानि कलिकाश्व तन्मिश्रभद्रम् ।
तदिदं चतुर्भद्रादिविषयम् ।
चतुर्भद्रनिबन्धनाप्रकारस्तु यत्किञ्चिदारभटीवृत्तियोग्यमाशीर्वादभूषितं सम्बुद्धिविभक्तिसम्भक्तनायकनामाङ्कितं पद्यमादौ निबध्नीयात् ।
ततो देव धीर शूरेत्यादि पदोपक्रमाणि गद्यान्यन्तानुप्रासवन्ति समसङ्ख्यया वक्तव्यानि ।
पश्वाद् गद्यसङ्ख्यातिक्रमेण द्वयोर्द्वयोराद्यन्तानुप्राससुन्दरमाकलनीयाः कलिका इतीदं समुच्चित्य भद्रमित्यभिधीयते ।
एवं चतुर्णां भद्राणां निबन्धे चतुर्भद्रः ।
एवमष्टभद्रादयो ऽपि तस्यैवा वृत्तितो भवन्तीति न पृथगुच्यन्ते ।
द्विभद्रमपि चेच्छन्ति भाषा नैकविधा यदि ।
ख्यातं हि रक्तं कल्याणं योगस्संस्कृतदेश्ययोः ॥ च्क्च्_३।५८ ॥
एवं भाषाद्वयीयोगे योग्यं नाम प्रकल्पयेत् ॥ च्क्च्_३।५९ ॥
तदेव ननाबिरुदैरङ्कितं बिरुदावलिः ।
तत्तत्समयक्रर्तव्यसूचनादिफला तु सा ॥ च्क्च्_३।६० ॥
वर्णनीयगुणोत्कर्षवती भोगावली मता ।
प्रतिभद्रं समुन्निद्रदिगन्तविजयश्रमम् ॥ च्क्च्_३।६१ ॥
तच्चतुर्भद्रमाख्यातं कोविदैर्विजयावली ।
यत्सतालभद्रं स्यात्तदुदाहरणं मतम् ॥ च्क्च्_३।६२ ॥
जयत्युपक्रमोद्भासि मालिन्याख्यादिपद्यके ।
विभक्तयः क्रमादत्र सप्त सम्बुद्धिरष्टमी ॥ च्क्च्_३।६३ ॥
प्रतिभद्रं च पद्यान्ते कल्पयेत्कलिकाष्टकम् ।
ततः सप्तदशा व्यस्ताः कलिकार्धसमातृकाः ॥ च्क्च्_३।६४ ॥
तत्तद्विभक्त्याभासान्ताः कुर्यादुत्कलिकास्तथा ।
आद्यन्तानुप्रासभक्तिः कल्पनीया द्वयोर्द्वयोः ॥ च्क्च्_३।६५ ॥
विभक्त्याभासनियमा लध्वन्तात्तालिकेन च ।
गदेत् सर्वविभक्त्यन्ते पद्यं सार्थविभक्तिकम् ॥ च्क्च्_३।६६ ॥
आशीर्वादसमायुक्तमित्युदाहरणक्रमः ।
क्रमाद्भाषाष्टकं यत्र सोदाहरणमातृकाः ॥ च्क्च्_३।६७ ॥
निजपूर्वपदान्तस्य द्वित्राद्यक्षरसन्ततिः ।
उत्तरस्य पदस्यादि यस्मिन्नव्यवधानतः ॥ च्क्च्_३।६८ ॥
तदेतद्भद्रसन्धानाच्चक्रवच्चक्रवालकम् ।
पद्यानन्तरिता गद्यपङ्क्तिराद्यन्तपद्यका ॥ च्क्च्_३।६९ ॥
इदं प्रोक्तपदैरन्यैः पर्यायो गद्यप्द्ययोः ।
पूर्वोत्तरानुसन्धानं सर्वसाधारणं मतम् ॥ च्क्च्_३।७० ॥
अन्ते क्षुद्रप्रबन्धानामार्ययानुष्टुभापि च ।
नामप्रकाशे यत्कर्तुर्नायकस्य कृतेरपि ॥ च्क्च्_३।७१ ॥
सम्बुद्धिरेका सर्वत्र हित्वोदाहणं मता ।
इत्थमन्यदपि ज्ञेयमेतज्जातिसमुद्भवम् ॥ च्क्च्_३।७२ ॥
द्विपतीप्रमुखानां तु क्षुद्रेष्वन्तर्गतिर्मता ।
येषां लक्ष्यं बुधैरूह्यं वयं विस्तरभीरवः ॥ च्क्च्_३।७३ ॥
इति श्री सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासारशीतलायां चमत्कारचन्द्रिकाया मर्थगुणदोषप्रबन्धविशेषविवेको नाम तृतीयो विलासः ॥