द्वितीयो विलासः
चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता द्वितीयो विलासः
अथ वाक्यम्
समन्वितपदं वाक्यं लक्षकं व्यञ्जकञ्च तत् ॥ च्क्च्_२।१ ॥
लक्षकवाक्यं यथा
उच्चैराश्रितवत्सलोयममृषाभाषीति यद् गीयसे श्रीसिङ्गक्षितिनायकैतदधुना निव्यूढेमेतच्वया ।
मद्भाग्यानि पचेलिमानि नितरामेवं सपत्नीजने- ष्वारूढास्मि चिराय तावककृपासम्भावनाया पदम् ॥ च्क्च्_२।*१ ॥
अत्र मानवत्याः कृतापराधे दयिते चाटुवाक्यस्यासम्बद्धत्वाद् विप्रलम्भको ऽसीत्यादि वाच्यविरुद्धोर्ऽथो लक्ष्यते ।
व्यञ्जकवाक्यं यथा
क्षोणीभृतां शिशिरकल्पितपादकान्त- श्श्यामोपलालनकरो नयनप्रियाङ्गः ।
राजाचले सुमहसा मुदयानुकूले राजा विराजति सतामुपरञ्जनाय ॥ च्क्च्_२।*२ ॥
अत्र शब्दशक्तिमूलो नायकतारकानायकयोरुपमारूपो ऽनुरणनध्वनिः सर्वेणैववाक्येन प्रतीयत इति व्यञ्जकमिदम् ।
अथ वाक्यदोषाः
अपप्रयुक्तं दुस्सन्धि व्युत्कमं पुनरुक्तिमत् ।
दुरन्वयञ्च वाक्याङ्गसङ्कीर्णं वाक्यगर्भितम् ॥ च्क्च्_२।२ ॥
द्वे भिन्नीलिङ्गवचने द्वे च न्यूनादिकोपमे ।
विकलं केवलञ्चेति दुष्टं वाक्यमिहोच्यते ॥ च्क्च्_२।३ ॥
अपप्रयुक्तं पदयोर्योगे यत्रापशद्बनम् ॥ च्क्च्_२।४ ॥
यथा
राजान्यो हि धनान्यलं जनपदान विष्पीड्यतान्यन्वहं पण्यस्त्रीविटचेटपात्रठनटस्तोमाय संयच्छते ।
श्रीसिङ्गक्षितिपालकः पुनरयं न्यायक्रमैरर्जितान्युर्वीदेवजनाय वेदविदुषे वित्तानि दत्तेतराम् ॥ च्क्च्_२।*३ ॥
अत्र स्तोमायेत्यत्राशिष्टस्य व्यवहारत्वाच्चतुर्थ्यर्थे तृतीयया भवितव्यम् ।
तथापि चतुर्थीकृतिरिति सो ऽयमपप्रयोगो वाक्यदोषः ॥
अस्यापि गुणतामाहुः विवक्षावशतः क्वचित् ।
निसर्गसुन्दरत्वेन गुणदेषविवेचकाः ॥ च्क्च्_२।५ ॥
यथा
अस्मत्कल्पलतादलानि गिलति त्वत्कामगौर्वार्यतां मच्चिन्तामणिवेदिभिः परिणमेद् दूरान्नयोच्चैर्गजम् ।
इत्यारूढवितर्दिकाः प्रतिपतं जल्पन्ति भूदेवताः सिङ्गक्ष्माभुजि कल्पवृक्षसुरभीहस्त्यादिदानोद्यते ॥ च्क्च्_२।*४ ॥
अत्र कामगवीति वक्तव्ये कामगौरिति यदुक्तं तदिदं “गोरतद्धितलुकिऽ; इति टप्रत्ययस्य समासान्तविधिरनित्य इत्यनित्यत्वादर्थप्रसादविवक्षया नापप्रयुक्तम् ।
तथा च महाकविप्रयोगः तीर्थकरक्रमोत्तंसनामनि महाकाव्ये —
शुभ्राभ्रङ्कषशेखरेषु विदुषां वासेशु वाग्भासिनां भव्यत्वत्करुणा कटाक्षकणिकास्पर्शेन दर्शेश्वर ।
कालं वैजननं विना फलवती स्तल्पन्ति कल्पद्रुमाः पङ्क्तिः कामगवाञ्च निर्भरतरं प्रस्नोति वत्सान् विना ॥ च्क्च्_२।*५ ॥
इति तथा चाहुः आचार्याः
“इत्यादिशाश्त्रमाहात्म्यदर्शनालसचेतसाम् ।
अपभाषणवद्धाति न तु सौभाग्यमुज्झति” ॥ च्क्च्_२।६ ॥
इति ।
अश्लिष्टकष्टाश्लीलादिसन्दि दुस्सन्धि गीयते ॥ च्क्च्_२।७ ॥
अश्लिष्टकष्ट सन्धिनी यथा
कल्याणस्य इनेन्दुतुल्यमहसो अव्याजशौर्यश्रियो विद्विड्ढ्रीभरढोग्ध्र सिद्युतियुजो धृत्या अतन्व्या उरोः ।
श्रोत्रे ऊर्जितकुण्डले उरुरुचिं आद्यां कविप्रक्रियां नाश्राव्यां सहतः सुसन्धिललिते दुस्सन्धिसम्बन्धिनीम् ॥ च्क्च्_२।*६ ॥
अत्र संहिता विवक्षितेति प्रथमपादे पदानामश्लिष्टसन्धित्वाद् दुःसन्धित्वम् ।
विद्विड्ढ्रीभरेत्यादि पदे श्रुतिकटुरूपकष्ट सन्धित्वाद् दुःसन्धित्वम् ।
धृत्या अतन्व्या उरोरित्यत्र लुप्तविसर्गप्रायकष्टसन्धित्वाद् दुःसन्धित्वम् ।
तृतीयपादे प्रगृह्यप्रायकष्टसन्धित्वाद् दुःसन्धित्वम् ॥
अश्लीलसन्धि यथा
पश्य प्रिये भव्यनृपालख्ङ्गधारानिपाताच्चकितान्तरेण ।
सरोमया सीत्कृतसिन्धुपूरं विगाढमार्तस्य कुतो विवेकः ॥ च्क्च्_२।*७ ॥
चित्रे सकृत् प्रगृह्यादावाद्ययोर्गुणभूमिका ॥ च्क्च्_२।८ ॥
यथा
विधत्ते श्रीसिङ्गक्षितिपकमलर्धेर्निधिरसौ समुद्रस्ते बाहुश्वकितचकितक्ष्माभृदवनः ।
मदान्धद्वे षिस्त्रीकुचकलशकाश्मीरमकरी- निरासव्यासक्तिं शिव शिव चरित्राणि महताम् ॥ च्क्च्_२।*८ ॥
अत्र कमलर्धेरित्यस्य कष्टसन्धित्वे ऽपि कमलायाः कमलस्य च ऋद्धेरिति श्लेषनिवहिफलत्वात् सकृदेवेति गुणत्वम् ।
सकृदेव प्रगृह्यो यथा
प्रज्ञापि तव सूक्ष्मार्थग्राहिणी लोचने इव ।
श्रीसिङ्गभूपधाटीव कीर्ती राजातिलङ्घिनी ॥ च्क्च्_२।*९ ॥
अत्र लोचने इवेति कष्टसन्धित्वे ऽपि प्रगृह्यत्वात् सकृदेवेति गुणत्वम् ।
सन्ध्यश्लीलस्य सर्वत्र दुर्जनस्येव वर्जनम् ।
अस्यापि च गृणीभावे न ग्राह्यं नग्नदर्शनम् ॥ च्क्च्_२।९ ॥
यथा योग्यं प्रयोज्यस्य शब्दस्यार्थस्य वा क्रमः ।
विपर्यस्तो भवेद्यत्र व्युत्क्रमं तन्निगद्यते ॥ च्क्च्_२।१० ॥
यथा
श्रीसिङ्गभूपाल बलप्रभावे भीमौ यथा दर्पककीचकारी ।
आदेशनिवहिविधौ गुरूणां यथा राघवभार्गवौ त्वम् ॥ च्क्च्_२।*१० ॥
अत्र बले प्रभावे चेति सामान्यधर्मपरिगणनाक्रमवशादुपमानयोरपि तद्धर्मिणोः क्रमेणोक्तिरेव युक्तेति कीचकदर्पकारीति वक्तव्ये व्युत्कमेण भणनाच्छब्दव्युत्कममिदम् ।
अत्रैव राघवादपि भार्गवस्याभ्यर्हितत्वाद् भार्गवराघवाविति वक्तव्ये तदतिक्रम्य निर्देशादर्थव्युत्क्रममिदम ।
उभयत्रापि कीचकदर्पकारी भार्गवराघवाविति च पाठो रमणीयः ।
निर्विशेषविवक्षायां दुःशङ्काव्यपनोदने ।
उक्तिशङ्कोचसौकर्ये ऽ; प्यस्यापि समुपास्यता ॥ च्क्च्_२।११ ॥
निर्विशेषविवक्षायां यथा
घटामः स्वीयं वा पुरततिमनर्घ्यानपि मणी-नखर्वामुवीं वाविसृज गतिरन्या न महता ।
त्वया ग्राह्यं सिङ्गक्षितिभुजि न वैरं प्रियतम् प्रियाणामस्माकं वचनमुचितं मास्म परिभूः ॥ च्क्च्_२।*११ ॥
अत्र पुरदेशगजाश्वरत्नानामभ्यर्हितत्वात् पूर्वपूर्वं निर्देशः ।
अथवा न विसर्जनक्रियासम्बन्धादनभ्यर्हितानां पूर्वपूर्वमुद्देशः कर्तव्यः ।
एवं सत्युक्तप्रकारेणातिक्रमे ऽपि प्राणेश्वर सकलमपि धनं स्वामिने समर्प्य प्राणा रक्षणीयाः ।
कृतमभ्यहितानभ्यर्हितविवेकेनेति विवक्षया शत्रुकान्ताभिरूक्तत्वाद् दुष्टत्वम् ।
दुःशङ्कापरिहारे यथा नायकस्यैव वंशावल्याम्
यस्याद्यो विदितः कुमारतिलकः श्रीयन्नवोतो गुणैरेकस्याग्रजमात्मरूपविभवे चापे द्वयोरग्रजम् ।
आरूढे त्रितयाग्रजं विजयते दुर्वारदोर्विक्रमे सत्योक्तौ चतुरग्रजं वितरणे किञ्चापि पञ्चाग्रजम् ॥ च्क्च्_२।*१२ ॥
अत्र कर्णादीनामभ्यर्हितत्वात् पञ्चानामग्रजं त्रयाणामग्रजं द्वयोहग्रजमेकस्याग्रजमिति वक्तव्ये ऽपि सङ्ख्यापचयसूचिताप्रशस्तिप्रतीतिपरिहाराय सङ्ख्योपचयत्वारोपेणो त्तरोत्तराभिवृद्धिद्योतनादपक्रपे ऽपि क्रमादतिसुन्दर इति गुणत्वम् ।
उक्तिसङ्कोचसौकर्ये यथा
रामाः श्रीकिङ्गभूपाल चत्वारोंऽशा हरेः स्फुजम् ।
समौ तत्र महोदात्तौ विषमौ तु महोद्धतौ ॥ च्क्च्_२।*१३ ॥
अत्र कृतत्रेताद्वापरकलियुगेषु भार्गवो राघवो यादव इति त्रयो रामाः श्रीसिङ्गभूपालश्चेति चत्वारो लोकरक्षापेक्षया श्रीविष्णोरंशा इत्युक्ताः ।
तेषु चतुर्षु प्रथम उद्धतो द्वितीय उदात्तः तृतीयश्चोद्धतश्वतुर्थ उदात्त इति वक्तव्ये पठितप्रकारेण व्युत्क्रमे ऽपि समाविति द्वितीयचतुर्थयोर्दशरथान्नवोतसम्भूतयो रंशयोः, विषमाविति रेणुकारोहिणीगर्भसम्भूतयोः प्रथमतृतीययोरंशयोश्व धीरोदात्तधीरोद्धतत्वगुणसाम्यसम्बन्धानुसन्धायिना सङ्क्षोपोक्तिसौकर्ये ऽपि चारुता समुन्मीलतीति गुणत्वम् ।
पदं पदार्थस्वाभिन्ने यत्र तत्पुनरुक्तिमत् ॥ च्क्च्_२।१२ ॥
हास्तिकमास्तिकसेव्य तवेदं दुर्जनतर्जन सिङ्घनृपाल ।
तर्जितगर्जितडम्बरमास्ते शम्बरडम्बरमेति मदाम्बु ॥ च्क्च्_२।*१४ ॥
अत्र डमबरयोरेकरूपत्वात् पदपुनरुक्तिः ।
भावोत्कर्षविवक्षादावस्याप्यादरणीयता ॥ च्क्च्_२।१३ ॥
यथा दयोदधे त्वं नः पाहि पाहि नः करुणाम्बुधे ।
पोष्या वयं न विद्वेष्याः सिङ्गभूपाल पालय ॥ च्क्च्_२।*१५ ॥
अत्र करुणाम्बुधे दयोदधे इत्यर्थपुनरुक्तिः ।
पाहि नः पाहि न इति शब्दपुनरुक्तिः ।
तदुभयमपि शतृसम्बन्धिका विग्रहकारिगतदैन्यातिशयविवक्षायां न दुष्यति किन्तु स्वार्थातिशयं पुष्यतीति गुणत्वम् ।
दूरतान्वययोग्यानां यत्र स्यात्तद्दुरन्वयम् ॥ च्क्च्_२।१४ ॥
यथा
श्रीसिङ्गक्षितिपालसङ्गरतलेष्वङ्गानि दृष्ट्वा द्विषामातङ्केन समन्ततः किलकिलारावेण वैतालिकाः ।
कान्ताः खण्डविख्ण्डतां परिगतान्युच्चण्डखड्गाहतेः घोराः कङ्ककुलाकुलेषु चकिताश्विन्वन्ति मिन्वन्ति च ॥ च्क्च्_२।*१६ ॥
अत्र कङ्ककुलाकुलेषु सङ्गरेष्वित्यनयोरातङ्केन चकिता इत्यनयोः किलकिलारावेण घोरा इत्यनयोर्वैतालिका दुष्ट्वेत्यनयोरतिप्रत्यासत्तिकाङ्क्षिणोः दूरदूरा विघटना दृश्यते ।
सेयमन्वयावसरे सरसमानसं दुःखाकरोतीति दुरन्वयं दुष्टम् ।
गुणकक्ष्यापरिक्षेपः व्कचिदस्यापि दृश्यते ॥ च्क्च्_२।१५ ॥
यथा
दोग्धारः पालयां केचित् गोपालास्वक्रिरे गवाम् ।
सा परं सिङ्गभूपेन चरितार्था वसुन्धरा ॥ च्क्च्_२।*१७ ॥
अत्र पालयाञ्चक्रिरे इति वक्तव्ये पालयां केचिद् गोपालाश्वक्रिरे इति दूरान्वय्त्वे ऽपि व्यवहितमपीच्छन्ति केचिदिति विशेषाव्युत्वादनाद् गुणत्वम् ।
स्मृतं वाक्याङ्गसङ्कीर्णमन्यवाक्याङ्गसङ्गतम् ॥ च्क्च्_२।१६ ॥
यथा
खड्गानापृछ्य निर्यान्ति वधूराकृष्ट धुन्वते ।
दिवं मुञ्चन्ति यान्ति क्ष्मां सिङ्गभूपालविद्विषः ॥ च्क्च्_२।*१८ ॥
अत्र वधूरापृच्छ्य निर्यान्ति खड्गानाकृष्य धुन्वते क्ष्मां मुञ्चन्ति दिवं यान्ति इति वक्तव्ये वाक्ययोः परस्परपदसङ्करः कृत इति वाक्याङ्गसङिकीर्णमिदम् ।
वाक्यं वाक्यादिके तच्च गुणीभावेन भाव्यते ॥ च्क्च्_२।१७ ॥
यथा
वाचामीश सुरेश दैवतगुरो त्वामप्यजैषीत्किल प्रज्ञायामनवोतसिङ्गनृपतिः सच्वे तदैरावतम् ।
दाने कल्पतरून् जिता वयममी तत्साम्प्रतं साम्प्रतं भोगे स्वामिनि निर्जिते त्वयि यथा राजा तथा हि प्रजाः ॥ च्क्च्_२।*१९ ॥
अत्र वाचामीश दैवतगुरो त्वामप्यजैषीदित्येकं वाक्यम् ।
सुरेश वयं जिता इत्यपररं प्रतिवाक्यम् ।
तयोरंशभूतसम्बुद्धिपदसङ्करे ऽपि वाक्योपवाक्यत्वान्न दोषः ।
तद्वाक्यगर्भित यस्य गर्भे वाक्यान्तरस्थितिः ॥ च्क्च्_२।१८ ॥
यथा
कृतान्तदंष्ट्राक्रूराय खड्गाय तव भूपते ।
का हि शङ्का मदान्धानां तिष्ठन्ति शत्रुभूवराः ॥ च्क्च्_२।*२० ॥
अत्र नायक तव खड्गाय शत्रुभूपास्तिष्ठन्तीति वाक्यस्य गर्भे का हि शङ्का मदान्धानामिति वक्यान्तरमविकलं स्थितमिति तदिदं वाक्थगभितम् ।
इदं सहृदयाह्लादि स्वावस्थासूचनादिषु ॥ च्क्च्_२।१९ ॥
यथा
सख्यश्वन्द्रमुखो निषिञ्च चरणे मन्दाकिने चन्दनं पद्माक्षः सखि पद्मकी मधुकरौ पद्मेन निर्वापय ।
स्मेरश्रीर् नय शारिकां चतुरिकां दूरं दुरालापिनीं श्रीसिङ्गे हृदयङ्गमो मम परः किं जल्पितैः कल्पितैः ॥ च्क्च्_२।*२१ ॥
अत्र हे सख्यः चन्द्रमुखः पद्माक्षः स्मेरश्रीः नायको मे हृदयङ्गमो नायक इति वाक्यस्य निषिञ्च चरणावित्यादिना सखि पद्मके ममेत्यादिना नय शारिकामित्यादिना ।
वाक्यत्रयेण प्रतिपादितं गर्भितत्वे ऽपि नायिकायाः नायकगुण सङ्कीर्तनक्रमसमारूढसन्तापोद्वेगादिलक्षणकामावस्थातिशयसूचकत्वेन सहृदयहृदयाह्लादनाद् गुणत्वम् ।
यत्रोपमा भिन्नलिङ्गा भिन्नलिङ्गं तदीरितम् ।
तद्भिन्नवचनं यत्र विबिन्नवचनोपमा ॥ च्क्च्_२।२० ॥
यथा
शास्त्रादेव सिता प्रज्ञा हंसीव विशदं यशः ।
तव सिङ्गमहीपाल शशीव रूचिरा तनूः ॥ च्क्च्_२।*२२ ॥
अत्रोपमानोपमेययोः भिन्नवचनत्वं भिन्नलिङ्गत्वं च स्पष्टम् ।
गुणीभवेव्द्दयमिदं यत्रोद्वेगो न धीमताम् ॥ च्क्च्_२।२१ ॥
यथा
प्रज्ञापि तवसूक्ष्मार्थदर्शिनी लोचने इव ।
श्रीसिङ्गभूपधाटीव कीर्ती राजाति लङ्घिनी ॥ च्क्च्_२।*२३ ॥
अत्र लोचने इव प्रज्ञा इत्युपमानोपमेययोर्लिङ्गवचनभेदे ऽपि सूक्ष्मार्थग्राहिणीति विशेषावचनश्लेषवैचित्र्य कृतिसामर्थ्येन सहृदयानामुद्वेगो न भवतीति गुणत्वम् ।
यत्र न्यूनत्वमाधिक्यमुपमानविशेषणैः ।
लक्ष्येते ते क्रमेणैव ज्ञेये न्यूनाधिकोपमे ॥ च्क्च्_२।२२ ॥
न्यूनोपमं यथा
निभाति सिङ्गक्षितिपस्य मौलिः छत्रेण चामीकरकुम्भकेन ।
मानोन्नतं श्टङ्गमिवोदयाद्रेः सम्पूर्णबिम्बेन सुधाकरेण ॥ च्क्च्_२।*२४ ॥
अत्र चामीकरकलशोपमानस्य कस्यचिदपि धर्मस्य सुधाकरविशेषणत्वेनानुकृतत्वान्न्यूनोपममिदम् ।
अधिकोपमं यथा
सिंहासने राजति सिङ्गभूपो भुजान्तरे चञ्चलतारहारः ।
नवप्रवालोज्ज्वलदीर्घगुच्छस्तटे सूमेरोरिव कल्पवृक्षः ॥ च्क्च्_२।*२५ ॥
अत्रोपमेयपद्मरागेष्वनुक्तेषु तदुपमानस्य नवप्रवालस्या धिक्यादधिकोपमानम् ।
प्रसिद्धेरनुमानाच्च गुणतामनयोर्विदुः ॥ च्क्च्_२।२३ ॥
न्यूनोपमगुणीभावो यथा
भुजगाकम्पितोत्तालकरालकरवालया ।
भासते सिङ्गभूपालो भद्रश्रीरिव शाखया ॥ च्क्च्_२।*२६ ॥
अत्र करवालोपमानस्य कृष्णाहेरनुपादानान् न्यूनोपमत्वे ऽपि वसन्ति चन्दने कृष्णसर्पा इति रूढेरनतिक्लेशेन तत्प्रतीतिरिति न दुष्टत्वम् ।
अधिकोपमस्य यथा
हरावलीविलसिता विलसद्दुकूला वाराङ्गनाः क्षितिपतेर्वशयन्ति चेतः ।
ज्योत्स्नाविसारविशदा विकचोत्पलाभा राकानिशा इव विराजितलोलताराः ॥ च्क्च्_२।*२७ ॥
अत्र नीलोत्पलग्रहणादधिकोपमत्वे ऽपि वारविलासिनीकटाक्षविक्षेपयोरविनाभावविज्ञानपरिणतान्तःकरणानामुपमानो द्धाटनानुमानादनति प्रयासेन कुवलयोपमेयानां कटाक्षविक्षेपाणां प्रतीतिरिति गुणत्वम् ।
छन्दोयतिक्रियाद्यैस्तु विकलं विकलं विदुः ॥ च्क्च्_२।२४ ॥
तत्र छन्दोविकलं यथा
अव्यादव्याजचसौभाग्यवामभागौ महेश्वरः ।
कलाविदां वरेण्यं तु सिङ्गभूपालशेखरम् ॥ च्क्च्_२।*२८ ॥
अत्र तृतीयाक्षरविकलत्वाच्छन्दोविकलमिदम् ।
अन्यत्रसंस्कटतादस्य गुणताल्पापि गण्यते ॥ च्क्च्_२।२५ ॥
यथा
सिरिसिङ्गभूमि विहुणो जस भरगङ्गप्पवाह मज्झम्मि ।
परिण्हौण समद्धं तेल्लोक्कं होइ परिसुद्धम् ॥ च्क्च्_२।*२९ ॥
अत्र तृतीयपादे द्वितीयवर्णस्य संयोगपूर्वत्वाद्गुरुत्वेन छन्दोवैकल्ये ऽपि प्राकृतादिषु संयुक्तवर्णानां ह्वाण्वाकारल्पकारदीनां तीव्रप्रयत्नोच्चारणेन पूर्वलघुत्वं कैश्चिदिष्टमिति गुणत्वम् ।
यतिविकलं यथा
नित्यं तोयधिमणिमेखलां धरित्रीं श्रीसिङ्गक्षितिभुजी रक्षितं प्रवृत्ते ।
विद्वेष्टान् भजति वनिपतावनीपान् मित्राणि स्फुटमवनिपतावनीपात् ॥ च्क्च्_२।*३० ॥
अत्र तृतीयस्थाने यतौ कर्तव्यायां प्रथमपादे तथा न कृतमिति यतिविकलमिदम् ।
स्वरसन्ध्यनुभावेन गुणीभूतमिदं मतम् ॥ च्क्च्_२।२६ ॥
यथा
श्रीसिङ्गक्षितिपाल तावकचमूधाटीभयाटीकितानाकारैरपि शाबरैरपि हितान् घोराङ्गमे फक्कणे ।
आत्मीयैव हि पश्यतां पिशुनयत्याबालगोपालकं भूपालान् कुलिशातपत्रकरशीचिह्ना पदानां ततिः ॥ च्क्च्_२।*३१ ॥
अत्र द्वादशस्थाने कर्तव्यायां यतौ दृतीयपादे तथा न कृतमिति वैकल्ये ऽपि स्वरसन्धिनिमित्तत्वान्न दोषः ।
क्रियाविकलं यथा
चतुरङ्गरिपुप्यूहनिबर्हणपटीयसा ।
भूपाल तव खड्गेन विपदो मानगर्विताः ॥ च्क्च्_२।*३२ ॥
अत्र नामशेषक्रियान्त इति न विद्यते ।
तेन क्रियाविकलमिदम् ।
एवं कारकादिविकलमप्यूह्यम् ।
इदमस्त्यादिसापेक्षं समर्थं वा गुणीभवेत् ॥ च्क्च्_२।२७ ॥
यथा
रामाः श्रीसिङ्गभूपश्व चत्वारोंशा हरेः स्फुटम् ।
समौ तत्र महोदात्तौ विषमौ तु महोद्धतौ ॥ च्क्च्_२।*३३ ॥
अत्र प्रथमार्थे भवन्तीत्यपेक्षायां तदन्तर्भावेन वैकल्ये ऽपि यत्रान्य क्रियापदं नास्ति तत्रासिर्भवतिर्हि प्रथमपुरुषे प्रयुज्यत इत्यनुशासनाद् गुणत्वम् ।
द्वीतीयार्धे क्रियाभावेप्युदात्तादि गुणसम्बन्धद्योतकनिष्ठान्तत्वेन निराकाङ्भत्वात् समर्थकत्वमिति गुणत्वम् ।
केवलं त्वनभिव्यक्तचमत्करणकारणम् ॥ च्क्च्_२।२८ ॥
यथा
आन्दोलिकाया मासीनमायान्तं राजवर्त्मनि ।
स्त्रियः पश्यन्ति राजानं पुरः पश्चात्परिच्छदम् ॥ च्क्च्_२।*३४ ॥
अत्र गुणादीनां चमत्कारकारणानामस्फुटत्वेन प्रतीतेः जातिमात्रवत्तिष्ठतीति केवलमिदम् ।
तत्केवलं छान्दसानामासीरादौ गुणीभवेत् ॥ च्क्च्_२।२९ ॥
यथा
सर्वे ग्रहाः सनभत्रास्तव श्रीसिङ्गभूपते ।
भवन्त्वेकादसस्थानफलदा वरदास्सदा ॥ च्क्च्_२।*३५ ॥
यथा च
अमी वेदिं परितः क्लुप्तदिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।
अवघ्नन्तो दुरितं हव्यगन्धैर्- वैतानास्त्वां वह्नयः पालयन्तु ॥ च्क्च्_२।*३६ ॥
इत्यादावस्फुटचमत्कारहेतुत्वेन केवलत्वे ऽपि शुद्धश्रोत्रियस्य कण्वमहर्षेराशीर्वाक्यत्वाद् ग्राह्यत्वम् ।
इति वाक्यदोषगुणविचारः
श्रीः
इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकवीन्द्रचन्द्र प्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासारशीतलायां चमत्कारचन्द्रिकायां द्वितीयो विलासः ॥