०१

प्रथमो विलासः

चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता प्रथमो विलासः

वाग्देवी वदने मम स्फुरतु या ध्वन्यात्मनोल्लासिनी वर्णव्यक्तिमुपागता च तदनु स्थानप्रयत्नादिभिः ।
भावानां पदसञ्ज्ञया विदधती त्रेधा समुल्लेखनान्य् आनन्दाननुसन्दधाति विदुषां प्राप्ता महावाक्यताम् ॥ च्क्च्_१।१ ॥
रम्योच्कयर्थतनूज्ज्वला रसमयप्राणा गुणोल्लासिनी चेतोरज्जकरीतिवृत्तिकलिता पाकं वयो बिभ्रती ।
नानालङ्करणोज्ज्वला रसवती सर्वत्र निर्देषतां शय्यामञ्चति कामिनीव कविता कस्यापि पुण्यात्मनः ॥ च्क्च्_१।२ ॥
कृतिरभिमतकृतिचतुरा यदि चतुरोदात्तनायकगुणोदारा ।
इति लज्ञणकृतिरत्नं रचये श्रीसिङ्गनृपगुणोदाहरणम् ॥ च्क्च्_१।३ ॥
लोके राघवपाण्डवाद्भुतकथागन्धानुसन्धायिनौ तौ ग्रन्थाविब तन्मुनिप्रणिहितौ श्रीसिङ्गभूपाश्रयः ।
यायादादरणीयतां कृतधियां ग्रन्थो ऽयमस्मत्कृतो नाहं यद्यपि तादृशो ऽस्म्ययमसौ राजा हि तादृग्गुणः ॥ च्क्च्_१।४ ॥

नृणां विधौ च नाथे च शिक्षा काव्यप्रयोजनम् ।
शिक्ष च सचमत्कारं बोधिता स्थिरतां भजेत् ॥ च्क्च्_१।५ ॥
चमत्कारस्तु विदुषामानन्दपरिवाहकृत् ।
गुणं रीतिं रसं वृत्तिं पाकं शय्यामलङ्कृतीम् ॥ च्क्च्_१।६ ॥
सप्तैतानि चमत्कारकारणं ब्रुवते बुधाः ।
गुणादीनां वाक्यशोभाकृतौ साधर्म्ययोगतः ॥ च्क्च्_१।७ ॥
एकाङ्गतैव काव्यस्य कथिता कुब्जकादिभिः ।
गुणभूषारसान्यत्र त्रीण्यङ्गान्याह भोजराट् ॥ च्क्च्_१।८ ॥
सप्ताङ्गसङ्गतं काव्यं साम्राज्यमिव भासते ।
लक्ष्यते तदितं साङ्गं मया कृतधियां मुदे ॥ च्क्च्_१।९ ॥

अत्रालङ्करणे भवन्तु सुधियः स्निग्धा इति प्रार्थना व्यर्था यद्भरतादिभक्तिषु मतिर्येषां तलस्पर्शिनी ।
ते सारज्ञतयैव बिभ्रति मुदं ये संशयेनास्फुटा- स्ते सन्देहनिवृत्तये हृदि धैयं कर्तुं यतन्ते स्वयम् ॥ च्क्च्_१।१० ॥
वागर्थौ सचमत्कारौ काव्यं काव्यविदो विदुः ।
वाक्छब्द इति पर्यायौ वाग्भिरर्थः शिवः स्मृतः ॥ च्क्च्_१।११ ॥
सा वाक त्रेधा स्मृता वर्णाः पदं वाक्यमिति क्रमात् ।
अकारादिहकारान्ता वर्णाः स्युर्मातृकाह्वयाः ॥ च्क्च्_१।१२ ॥
अल्पप्राणा महाप्राणा इति ते द्देविधा मताः ।
बुधास्तत्र महाप्राणानाहुरूष्मचतुष्टयम् ॥ च्क्च्_१।१३ ॥
वर्गेषु समवर्णाश्व सवर्णं केचिदीरते ।
अल्पप्राणास्तु शेषाःस्युः शसावपि परैः स्मृतौ ॥ च्क्च्_१।१४ ॥
उभयो ते ऽपि कथिता स्निग्धा रूक्षा इति द्बिधा ।
अल्पप्राणाः सजाती यैर्युक्ताः स्निग्धा इति स्मृताः ॥ च्क्च्_१।१५ ॥
स्वै रन्यैर्वा महाप्राणा युक्ता रूक्षाः परैः पुनः ।
अल्पप्राणाश्व कथिता रूक्षा यरलवैर्युताः ॥ च्क्च्_१।१६ ॥
सानुस्वारतया स्नैग्ध्यं यान्ति रूक्षा अपि क्वचित् ।
भेदो ज्ञेयस्तस्य सङ्ख्यावन्द्यवन्ध्यादिके बुधैः ॥ च्क्च्_१।१७ ॥
यथोचितमिमे वर्णा रसादेरुपयोगिनः ।
न्यस्ता काव्यमुखे वर्णास्तत्त द्दैवतमूर्तयः ॥ च्क्च्_१।१८ ॥
कर्तुः कारयितुः श्रौतुः कल्पयन्ति शुभाशुभे ।
अकारः प्रीतिदायी स्यान्निषेधे तु विपर्ययः ॥ च्क्च्_१।१९ ॥
त्र्प्राकारो हर्षदः सौऽपि कोधार्त्यादिषु नोचितः ।
इकारादिचतुप्कं तु कुर्यात्तुष्टिमनोरथौ ॥ च्क्च्_१।२० ॥
ऋकारादीनि चत्वारि सन्ततिस्तम्भहेतवः ।
एकाराद्याश्व चत्वारः कामवाङ्मोक्षभूतिदाः ॥ च्क्च्_१।२१ ॥
लक्ष्मीकरः कवर्गः स्याच्चकारः कीर्तिनाशनः ।
छजकारौ रौगहरौ झजौ तु मरणप्रदौ ॥ च्क्च्_१।२२ ॥
टठकारौ खेदकरौ डः शुभो ढस्त्वकान्तिकृत् ।
वस्तुलाभकरो णस्तु तकारो विघ्ननाशनः ॥ च्क्च्_१।२३ ॥
थकरो युद्धकारी स्याद्दधकारौ धृतिप्रदौ ।
नकारस्तापकृत् कश्विदनिषेधे शुभः स्मृतः ॥ च्क्च्_१।२४ ॥
रक्षादायी पकारः स्यात्फकारः साध्वसप्रदः ।
आरोग्यकृद्बकारः स्याद्भकारः स्मृतिभाग्यकृत् ॥ च्क्च्_१।२५ ॥
मकारः क्षोभकृद्यस्तु श्रीदो रेफस्तु दाहकृत ।
लो जाड्यकृद्वकारस्तु वागारोग्यायुषां खनिः ॥ च्क्च्_१।२६ ॥
ऊष्माणः सुखभेदश्रीनिर्वाणनिधयः क्रमात् ।
क्षं विना क्रूरसंयुक्तः सौम्यस्त्याज्यो विषान्नवत् ॥ च्क्च्_१।२७ ॥
श्लेषस्तु कुभयोः श्रेयान् श्रीविश्राणनयोरिव ।
गुरुः पुनर् लघुश्चेति वर्णाः पुनरमी द्विधा ॥ च्क्च्_१।२८ ॥
अनुस्वारविसर्गान्ता दीर्घा युक्तपराः प्लुताः ।
गुरवो लघवस्त्वन्ये स्मृतास्ते तु त्रयो गणाः ॥ च्क्च्_१।२९ ॥
मयरसतजभनसञ्ज्ञा गणाः प्रसूता परस्तु पूर्वस्मात् ।
जन्यो ऽत्र जनकनिकटे सुतवद्वितनोति नाशुभं कर्म ॥ च्क्च्_१।३० ॥
सर्वमूलं तु मगणं प्राप्य सर्वगणः शुभः ।
पूर्वाचार्योदितं तेषां लक्ष्म दैवं फलं ब्रुवे ॥ च्क्च्_१।३१ ॥
क्षेमं सर्वगुरुर्दत्ते मगणो भूमिदैवतः ।
करोत्यर्थानादिलघुर्यगणो वारिदैवतः ॥ च्क्च्_१।३२ ॥
भीतिदायी मध्यलधू रगणो वह्निदैवतः ।
कुरुते ऽन्त्यगुरुर्नाशं सगणो वायुदैवतः ॥ च्क्च्_१।३३ ॥
ईशत्वमन्तिमहघुस्तगणो व्योमदैवतः ।
रुजाकरो मध्यगुरुर्जगणो भानुदैवतः ॥ च्क्च्_१।३४ ॥
आदिगुरुः सौख्यदायी भगणश्वन्द्रदैवतः ।
धनङ्करः सर्वलघुर्नगणो यज्ञदैवतः ॥ च्क्च्_१।३५ ॥
अष्टौ जातिष्वमी प्रोक्ता मात्रायां तु त्रयः स्मृताः ॥ च्क्च्_१।३६ ॥
गण इहतु लघुचतुष्कं द्वे वा गुरुणी लघुद्वयं चैकगुरु ।
सर्वलधोः सर्वगुरोरेकगुरोरपिच पूर्ववद्दैवफलै ॥ च्क्च्_१।३७ ॥
शुभं काव्यमुखे न्यस्यैद्गणं वर्ण च नासुभम् ॥ च्क्च्_१।३८ ॥
अस्त्युत्तरस्यां वागर्थौ कश्वित्कान्तेत्युदाहृतिः ।
कालिदासत्रये ज्ञेया शुभयोर्गणवर्णयोः ॥ च्क्च्_१।३९ ॥
श्रियः कुरूणामित्यत्र श्रियः पतिरितीह च ।
वेष्टुं जगणदोषस्य कृते श्रीश्रीपतिस्मृतिः ॥ च्क्च्_१।४० ॥
यद्वा तगणसान्निध्यात्तज्जन्यो जगणः शुभः ।
इदं कविभ्य ङत्यत्र पुनर्मगणयोगतः ॥ च्क्च्_१।४१ ॥
मङ्गलार्थे ऽभिधाने वा देवनामाङ्कने ऽपि वा ।
गणो न दूप्यो वर्णश्व देवताधिष्टिताश्मवत् ॥ च्क्च्_१।४२ ॥
चतुर्मुखमुखे त्यादौ चवर्णो जगणो ऽपि च ।
ब्रह्मनामाङ्कितत्वेन कव्यादावपि शोभनौ ॥ च्क्च्_१।४३ ॥
शृङ्गारवीरसौहार्दमित्यत्र तु कृतेर्मुखे ।
ऋवर्णगः शकारो ऽपि मङ्गलार्थो विशिष्यते ॥ च्क्च्_१।४४ ॥
प्रशस्तेः पात्रनित्यादौ प्रकर्षस्याभिधानतः ।
पकारो रेफयुक्तो ऽपि स्फुटं काव्यमुखे शुभः ॥ च्क्च्_१।४५ ॥
मुखे प्राक्तनकाव्यस्य प्रामाण्यमनुबध्नतः ।
दुष्टे वर्णे गणे धीमान् कुर्यादेवं विचारणाम् ॥ च्क्च्_१।४६ ॥
प्राचां प्रायेण गम्भीरा वाचः तदधुनातनैः ।
तदुदाहृतिमात्रेण लङ्घ्या लक्षणसंस्थितिः ॥ च्क्च्_१।४७ ॥
नियमो ऽयं वर्तमाननायकस्तुतिगोचरः ।
न भूतपुर्वविषय इति केचन मन्वते ॥ च्क्च्_१।४८ ॥
तच्चिन्त्यमथवा त्याज्यं दाक्षिण्येन किमीदृशा ।
प्रबन्धे ऽपि पुराभूत निवृच्यन्त निबन्धने ॥ च्क्च्_१।४९ ॥
कर्तुः कारयितुः श्रोतुः फलकाङ्क्षाप्रवृत्तितः ।
निर्देषस्यैव काव्यस्य पोत्पादनशक्तितः ॥ च्क्च्_१।५० ॥
मर्यादाया अभावेन यथेच्छोक्तिप्रसङ्गतः ।
पक्षे दोषश्रुतेश्वैव नैवत्प्रज्ञावतां मतम् ॥ च्क्च्_१।५१ ॥
एकस्मिन्नपि नष्टं स्याद् दृष्टे दोषे व्रतायुतम् ।
दोषस्यैतादृशी शक्तिः सहजा किं नु कुर्महे ॥ च्क्च्_१।५२ ॥
तस्मात्सर्वप्रयत्नेन धर्मार्थाद्यभिलाषिणा ।
कविना दोषलेशो ऽपि त्याज्य एवेति निश्चयः ॥ च्क्च्_१।५३ ॥
गुणस्तु श्रुतिमाधुर्यं वर्णदोषो विपर्ययः ॥ च्क्च्_१।५४ ॥
इति वर्णविवेकः ॥

विभक्त्यन्तं पतं तच्च वाचकं लक्षकं द्विधा ।
व्यञ्जकञ्चापरं प्रोक्तं ध्वनिप्रस्थानवेदिभिः ॥ च्क्च्_१।५५ ॥
यथासङ्केतमर्थस्य बोधकं वाचकं मतम् ।
यौगिकं रूढमित्येतद् द्विधा स्यात्तत्र यौगिकम् ॥ च्क्च्_१।५६ ॥
यत् प्रकाशयति स्वार्थमङ्गव्युत्पच्यपेक्षया ॥ च्क्च्_१।५७ ॥

यथा
चन्द्रे चन्दनसरसे राज्ञि श्रीसिङ्गनामधेये च ।
चरितार्थानि जनानां रूपग्राहीणि करणानि ॥ च्क्च्_१।*१ ॥

अत्र चन्द्रचन्दनसरसादिशब्दानामाङ्लादयतीत्यादिव्युत्पत्तिपुरस्सरमेवार्थबोधकत्वमिति यौगिकत्वम् ।

रूढं पुनश्चावयवव्युत्पत्तिनिरपेक्षकम् ॥ च्क्च्_१।५८ ॥

यथा
दानेन कर्णो दयया दिलीपो नयेन काव्यो विनयेन रामः ।
यदि प्रसिद्धिं दधताममीभिः श्रीसिङ्गभूपो निखिलैः प्रसिद्धः ॥ च्क्च्_१।*२ ॥

अत्र कर्णादीनां शब्दानामवयवव्युत्पत्तिमन्तरेणाप्यर्थबोधकत्वाद्रूढत्वम् ।

सङ्केतितार्थबाधेन तत्सम्बन्धिनि वस्तुनि ।
व्यापृतं लक्षकं तच्च द्विधा रूढेः प्रयोजनात् ॥ च्क्च्_१।५९ ॥

तत्र रूढं लक्षकं यथा

श्रीसिङ्गक्षितिपाल पालनकलानिष्णात सेवावतां संशिक्षाकुशलप्रतीतमनसां प्राप्तौ प्रवीणश्रियाम् ।
त्वत्पाददयमर्चयन्त्यरिनृपाः कोटीरकोटीगतैर् माणिक्यैर्नवशक्रगोपसुषमाहङ्कारसङ्कोचकैः ॥ च्क्च्_१।*३ ॥

अत्र निष्णातकुशलप्रवीणशक्रगोपशब्दानां नितरां स्नातः, कुशान् लाति, प्रकृष्टा वीणास्य, शक्रं गोपायतीति मुख्यार्थानमविवक्षया चातुर्येन्द्रगोपकीटलक्षणाया रूढिरेव मूलम्, नान्यत्सहृदया ह्लादकारणं किञ्चिदिति रूढलक्षकत्वम् ।
सप्रयोजनलक्षकं यथा

श्रीसिङ्गभूप समये समये भवन्तम् आस्थानमण्टपगतं जनरञ्जनाय ।
कल्याणहेमकलशैः सममातपत्रैर् आन्दोलिकाः सपदि सेवितुमापतन्ति ॥ च्क्च्_१।*४ ॥

अत्राचेतनानां हेमकलशाङ्कितछत्राणामान्दोलिकानाञ्च सेवार्थमागमनमसम्भावितमिति छत्राधाराः पुरुषाः, आन्दोलिकाधेया राजानो विद्वांसो वा संलक्ष्यन्ते ।
अनेन चास्थानमण्टपाङ्गणे छत्रान्तोलिकानामतिबाहुल्यं प्रयोजनतया विवक्षितम् ।
तेन च नायकमाश्रितानामान्दोलिकाद्यवधयो विभूतय इति च ।
तदिदं प्रयोजनलभकम् ।

अमुख्यया मुख्यया वा वृच्यार्थे प्रतिपादिते ।
उत्कर्षाय यदन्यार्थद्योतकं व्यञ्जकं हि तत् ॥ च्क्च्_१।६० ॥

यथा
अहो साहित्यसौभाग्यं श्रीसिङ्गधरणीपतेः ।
श्लाघायै यस्य सन्नद्धा वाचो विश्वेश्वरस्य मे ॥ च्क्च्_१।*५ ॥

अत्र सरससाहित्यचातुरीविश्रामभूमिरहमिति विशिष्टो ऽस्मदर्थोर्ऽथान्तरसङ्क्रमितेन ममेति पदेन लक्ष्यते ।
अनेन साहित्यसहजसैरभं विना नान्यस्मै चमत्कारकारितेति व्यज्यते ।
सन्नद्धा इति पदेनात्यन्ततिरस्कृतवाच्ये (न?) तत्परतया ग्रथिता इति लक्ष्यते ।
अत्रानेन च नायकसाहित्यस्य सर्वसाजात्यातिशायित्वं द्योत्यत इति पदव्यञ्जकमेतत् ॥

मुख्यया यथा
सिङ्गप्रभुरलङ्कारी लङ्कारी रावणः पुनः ।
वर्णान्तरत्वमुभयोः श्रूयते सर्वसम्मतम् ॥ च्क्च्_१।*६ ॥

वर्णेनाक्षरेणान्तरं भेदो ययोस्तच्वमिति मुख्यया वृच्या वाच्ये प्रतिष्ठिते वर्णां वैश्यजातिरन्तरं नायकरघुनायकयोरिति परस्परव्यतिरेकारङ्कारो वर्णान्तरमिति पदेन व्यज्यत इति पदव्यञ्जकमेतत् ॥

यथा वा
कृतायस्तम्भनिर्भेदो भक्तप्रह्लादपोषकः ।
श्रीपतिर्नरसिंहो ऽयं राजते राजशेखरः ॥ च्क्च्_१।*७ ॥

कृतो रचित अयस्तम्भस्य शुभावहविधिजाड्यस्य निर्भेदो निवारणं येन सः कृतायस्तम्भनिर्भेदः ।
दैवानुकूल्यसम्पादनचतुर इत्यर्थः ।
भक्तप्रङ्लादपोषकः सेवकसन्तोषवर्धनः राजशेखरो भूपालमौलिः नरसिंहः श्रीसिङ्गभूपालो राजत इत्यसिद्धया प्राकरणिकेर्ऽथे प्रतिपादिते ये ऽयं कृतलोहस्तम्भभेदनस्य प्रह्लादाभिधानभक्तपोषकस्य चन्द्रकलाधारिणो भगवतः श्रीनृसिंहस्य प्रतीतिस्तया शब्दशक्तिमूलया नायककण्ठीरवकपटकण्ठीरवयोरुपमालङ्कारध्वनिरनुसन्धीयत इति व्यञ्जकमिदम् ।

अथ पददोषाः
पदं दुष्टमपभ्रष्टमप्रयुक्तं निरर्थकम् ।
विरुद्धार्थमपुष्टार्थमप्रतीतमनिश्चयम् ॥ च्क्च्_१।६१ ॥
क्लिष्टं देश्यं सनेयार्थं प्रतिहस्तमवाचकम् ।
जुगुप्सितमकल्याणं व्रीडाकरमितीरितम् ॥ च्क्च्_१।६२ ॥

तत्राशिष्टमपभ्रष्टं

यथा
वाग्देव्याः प्रभविष्यता प्रभवता गाढं प्रभुतेन च श्रेयःपाकभरेण सिङ्गनृपते भावज्ञचूढामणिम् ।
त्वां जेतारमजीजनत् प्रसविता सर्गस्य नोचेदियं सत्ये वा विफलायुषां कृतधियां शापे न जीवेत विम् ॥ च्क्च्_१।*८ ॥

अत्र जीवेतेत्यात्मनेपदित्वमनुशासनविरुद्धम् ।
तेन जीवेत्कथमिति साधीयान् पाठः ॥

तदप्यनुकृतौ गुणः ॥ च्क्च्_१।६३ ॥

राजा संस्कृतवादिषु प्रणयवानित्याशया गुण्भितं तद्भृत्यत्र भवामहे पदरजैरेधेम मौलिस्थितैः ॥
इत्थं पण्डितमानिनां क्षितिभुजां दुस्संस्कुतं वाचिनां तैः साकं सुपदीकरोति कृपया श्रीसिङ्गनारायणः ॥ च्क्च्_१।*९ ॥

अत्र भृत्यत्नेत्यसर्वनाम्नो भृत्यशब्दात् त्रल्प्रत्ययः, भवामहे इत्यात्मनेपदम् पदरजैरित्यकारान्तत्वम् एधेमेत्येधतेः परस्मैपदित्वं चापभ्रंशाः ।

तथाप्यव्युत्पन्नजनवचनानुकरणान्न दोषः ।
अप्रयुक्तं शिष्टमपि कविभिर्यदनादृतम् ॥ च्क्च्_१।६४ ॥

यथा
पद्मास्त्यक्ता महीपालस मुखलोतुपया श्रिया ।
न चेदेषामलक्ष्मीकैः कुमुदैर्न सहासिका ॥ च्क्च्_१।*१० ॥

अत्र “वा पुंसि पद्मं नलिनंऽ; इत्यनुशासने ऽपि कविभिः पुंलिङ्गे प्रायेण न प्रयुज्यत इति पद्मा इत्यप्रयुक्तमिदम् ।
पद्मं त्यक्तमिति प्रथमार्धे, न चेदस्य गतश्रीकैरिति द्वितीयार्घे च पाठो रमणीयः ॥

गुणात्वमिष्यते तञ्ज्ञेरस्यापि यमकादिषु ॥ च्क्च्_१।६५ ॥

यथा
या पङ्क्तिर्ब्राह्नणेन्द्राणामाशास्ते सर् वदैवताः ।
श्री सिङ्गभूप दधतामाशास्ते सर्वदैवताः ॥ च्क्च्_१।*११ ॥

अत्र दैवतशब्दस्य पुंलिङ्गे कविभिरनादृतस्यापि हेयत्वाद् आवृत्तियमके प्रयोगो न दुष्टः ।

पादपूरणमात्रं यदविशेषकरं च यत् ।
तन्निरर्थकमित्युक्तं पदोपस्कारवेदिभिः ॥ च्क्च्_१।६६ ॥

यथा
कमला कमलापायशङ्किनी शिशिरादिषु ।
अध्यास्ते सर्ववन्द्या वै मुखं श्री सिङ्गभूपतेः ॥ च्क्च्_१।*१२ ॥

अत्र वै इति पादपूरणमात्रमा ।
क्षियः सर्ववन्द्येति विशेषणं सशङ्कायामध्यासनक्रियायां विशेषं नोपपादयतीति तद्द्वयं निरर्थकम् ।
“अध्यास्ते सर्वदा रम्यम्ऽ; इति द्वितीयार्घपाठो रमणीयः ।

आहुरस्यापि सार्थत्वं यमकादिषु सूरयः ॥ च्क्च्_१।६७ ॥

यथा या प्रङ्क्तिर्ब्राह्नणेन्द्राणामाशास्त इति पूर्वोदाहृतम् ।
अत्र निरर्थकत्वादेवकारस्य पादपूरणमात्रत्वे ऽपि यमकनिर्वाहकत्वादेव सार्थत्वम् ।
विरुद्धार्थत्वम् ।

विरुद्धार्थ हि तद्यत्र विरुद्धार्थः प्रतीयते ॥ च्क्च्_१।६८ ॥
इन्द्राणीनथभोगो ऽयं गुह्यकेशनिभः श्रिया ।
राजते पाण्ड्यभूपालो गोपालसमवैभवः ॥ च्क्च्_१।*१३ ॥

पुरातनकविप्रोक्तः सो ऽपि दोषाय नो भवेत् ॥ च्क्च्_१।६९ ॥

यथा
धनुषि जनकपुत्रीनायकप्रौडिभाजा विदलितनिजधर्मैः सिङ्गभूपालकेन ।
वपुषि कृतजौभिश्वर्मचेलैर्जटालै- रधिगतमरिभूपैरम्बिकानाथसाम्यम् ॥ च्क्च्_१।*१४ ॥

अत्र जनकपुत्रीनायको रघुराम इति विवक्षायामपि पितृसुतापतिरिति यद्यपि विरुद्धार्थः; अम्बिकानाथ इत्यत्र च पार्वतीपतिरिति विवक्षायां जननीपतिरिति प्रतीयते तथापि न विरोधः ।
ननु-विरुद्धार्थप्रतीतिसाधारण्ये अम्बिकानाथादीनां गुणत्वम्, इन्द्राणीनाथादीनां दोषत्वमितिकथं व्यवस्थेति चेत्; उच्यते-प्रायिकप्रयोगरूपेण शिष्टानां परिग्रहेणैव ।
कैपुनरत्र सिष्टाः? यत्र प्रथमं मार्गमुपदिशन्ति तत्र त एव सिष्टा इति स्थितिररोचकिनः ।
पुरातनाः कवीन्द्रा एव शिष्टाः न पुनः सतृणाभ्यवहारिणः ।
अतः “दिनकरकुलरत्नं जानकीचानिरेषःऽ; इति; “तदितिजनकपुत्री शिक्षिता चऽ; इति; “जनकतनयास्नानपुण्योदकेषुऽ; इति; “पायाद्वः सो ऽम्बिकारमणःऽ; इति; “अम्बिकानितम्बविम्बस्पर्शलम्पटकराम्बुजाऽ; इति; “तामपाययत पानमम्बिकाम्ऽ; इति च महाकविभिरङ्गीकृता गुणप्रयोगाः ।
जनकपुत्रीनायकाम्बिकारमणादीनां गुणत्वं स्वकपोलकल्पितानां पुनरिन्द्रणीनाथादीनामारूढेरसुन्दरत्वमिति सो ऽयं सरससाहित्यतीर्थकरसम्मतो घण्टापथः ॥

यत्तुच्छार्थमतिस्थूलं तदपुष्टार्थमुच्यते ॥ च्क्च्_१।६९(अ) ॥

यथा
ईशानगरिमैश्वर्यप्रतीपैश्वर्ययोग्यताम् ।
भजन्ते रिपुभूपालास्तव श्री सिङ्गभूपते ॥ च्क्च्_१।*१५ ॥

अत्र लाघवयोग्यतामिति वक्तव्ये गरिमैश्वर्थप्रतीपैश्वर्यमिति शब्दगौरवम् ॥

उत्कर्षादिविवक्षायामस्यापि गुणता व्कचित् ॥ च्क्च्_१।७० ॥

यथा नायकस्यैव वंशाबलल्याम्
तस्य पादाम्बुजाज्जातो वर्णो विगतकल्मषः ।
यस्य सोदरतां प्राप्तं भगीरथतपःफलम् ॥ च्क्च्_१।*१६ ॥

अत्र गङ्गेत्यर्थे कनीयसि भगीरथतपःफलमिति पदाधिक्यम् ।
तथापि तस्य सगरकुतपाबनक्रियासूचकत्वेन गङ्गाशब्दादत्युत्कर्षापादकत्वमिति गुणत्वम् ।

वेदशास्त्रैकविख्यातमप्रतीतमिहोच्यते ॥ च्क्च्_१।७१ ॥

यथा श्रीसिङ्गधरणीपाल भवतः स्फ्येन भूयते ।
मित्रश्रीराममनुना गर्ववृद्धिकिता द्विषाम् ॥ च्क्च्_१।*१७ ॥

अत्र स्फ्यस्य खड्गाकारवस्तुवाचकत्वं वेद एव; मनोर्मन्त्रवाचकत्वमागम एव; वृद्धिनिरासकत्वं शब्दशास्त्र एव प्रसिद्धमिति तदप्रतीतम् ॥

तद्विद्याक्रमनिर्वाहप्रवृत्तौ तदिदं गुणः ॥ च्क्च्_१।७२ ॥

यथा
ईडापिङ्गलयोः पिधाय वदनं बद्ध्वा त्रिश्टङ्गाटिकां सौषुम्नोपरि सङ्क्रमय्य सरुतः षड्ग्रन्थिगन्धच्छिदः ।
प्रात्यग्ज्योतिषरोचिषा प्रसरता सन्द्राव्य चान्द्रीङ्कलां तन्निष्ठ्यूतपरामृतैः परिचितो योगी चिरं जीवति ॥ च्क्च्_१।*१८ ॥

अत्र ईडापिङ्गलादीनां योगशास्त्रमात्रप्रसिद्धत्वादप्रतीतत्वे ऽप्यभ्यासयोगप्रकारस्य सर्वतो निर्वाहाद्गुणत्वम् ।

अनिश्वितं तद्यत्र स्यादनुत्कर्षाय संशयः ॥ च्क्च्_१।७३ ॥

यथा
श्रीसिङ्गभूपपादाब्जसेवाहेवाकगर्वितः ।
सामन्तराजसन्तानो धात्रीभोगाय कल्पकृत् ॥ च्क्च्_१।*१९ ॥

अत्रोपमाता धात्री धरित्री वा धात्रीति संशयप्रतीतेरिदमनिश्चितम् ।
भूमिभोगायेति पाठो रमणीयः ।

इदं प्रकरणादिभ्यो विशेषावगमेपि च ।
उत्कर्षे वाविरोघे च दोषकक्ष्यां न गाहते ॥ च्क्च्_१।७४ ॥

यथा
रेचर्लान्वयमौलिमण्डनमणे श्रीसिङ्गभूपालक त्वत्खड्गस्य घनद्युतेः स महिमा लोके कथं वर्ण्यते ।
यस्मिन् कम्पितमात्र एव समितिक्षोणीभृतां मण्डलं सान्तत्येन विमानवर्तनकथामाप्नोति मित्रैस्समम् ॥ च्क्च्_१।*२० ॥

अत्र घनद्युतेरित्यस्य घना सान्द्रा द्युतिरस्येति, घनस्य मेघस्येव द्युतिरस्येति वा संशये ऽप्यविरोधान्न दुष्टत्वम् ।
विमानवर्त नकथामित्यत्र विगताभिमानवर्तनस्य वा व्योमयानवर्तनस्य वेति संशयेप्यत्यन्तोत्कर्षान्न दोषः ।
क्षोणीभृतामित्यत्र राज्ञां गिरीणां वेतिसंशये नायकखड्गवर्णनप्रकरणात् प्रतिराजलक्षणविशेषावगमान्न दोषः ।
एवं संयोगविप्रयोगादिभिरपि विशेषावगमे द्रष्टव्यम् ॥

दूरदूरो भवेद्यस्मादर्थः क्लिष्टं तदुच्यते ॥ च्क्च्_१।७५ ॥

यथा
वाराशिमित्रजनकप्रभवासहाय- केयूरवेतनकयानविलोचनानाम् ।
श्रीसिङ्गभूवर विरोधिनृपाङ्गनानां वन्यस्थली समभवन्निजराजधानी ॥ च्क्च्_१।*२१ ॥

अत्र वारासिमित्रं मैनाकः, तस्य जन्को हिमवान्, तत्प्रभवा पार्वती, तत्सहायो महेश्वरः, तत्केयूराणि सर्पाः, तेषां वेतनकं जीवनकारणं वायुः, तस्य यानं वाहनं मृगः तस्य लोचने इव लोचने यासां ताः, इत्यतिव्यवहितार्थत्वात् क्लिष्टमिदम् ॥

प्रक्रमस्य च निर्वाहे महतां हैन्यसूचने ।
प्रयुक्तस्य व्कचित् काव्ये क्लिष्टस्य गुणथा भवेत् ॥ च्क्च्_१।७६ ॥

प्रक्रमनिर्वाहे यथा–
श्रीसिङ्गनृपो विभवे धनुषि नये वपुषि रञ्जने जिष्णुम् ।
तत्पुत्रं तन्मित्रं तत्पुत्रं जयति तन्मित्रम् ॥ च्क्च्_१।*२२ ॥

विभवे जिणुं देवेन्द्रम्, धनुषि तत्पुत्रं देवेन्द्रपुत्रमर्जुनम्, नये देवेन्द्रपुत्रमित्रं वासुदेवम्, वपुषि देवेन्द्रपुत्रमित्रपुत्रं प्रद्युम्नम्, रञ्जने देवेन्द्रपुत्रमित्रमित्रपुत्रमित्रं चन्द्रमिति व्यवधानाद दुर्वितर्कप्रत्ययमपि तच्छब्दप्रक्रमनिर्वाहाद् गुणत्वम् ॥

महापुरुषहैन्यसूचने यथा
श्रीभर्तुरायतसुवर्णकराकृतेर्यद् अंशास्तदायतसुवर्णकरा द्विषस्ते ।
श्री सिङ्गभूप नगरार्गलदीर्गबाहो तच्वे ऽप्यनायतसुवर्णकरो ऽसि चित्रम् ॥ च्क्च्_१।*२३ ॥

अत्र आयतो दीर्घभूतः सुवर्णः सुकारो यस्येति आयतसुवर्णः तादृशः करशब्दो यस्य सः आयतसुवर्णकरः सूकर इत्यर्थः ।
आयतसुवर्णकराकृतिः सूकराकृतिरिति विष्णोस्तिर्यक्त्वकथनभयेन वक्त्रा दूरार्थप्रत्ययः शब्दः प्रयुक्त इति गुणत्वम् ।

हठार्थप्रतीत्या च यथा
शम्भोः स्थिता भूषणपेटिकायां श्रियः सपत्नीमभितः स्फुरन्ती ।
विष्णोः पदं मध्यममाविशन्ती विराजते सिङ्गनृपालकीर्तिः ॥ च्क्च्_१।*२४ ॥

अत्र शम्भुभूषणपेटिका पातालम्, श्रीसपत्नी भूमिः, मध्यमविष्णुपदमाकाशमिति नातिदुर्बोधत्वादक्लेशकरमिति गुणत्वम् ।

देशप्रसिद्धं व्युत्पत्तिरहितं देश्यमुच्यते ॥ च्क्च्_१।७७ ॥

यथा
पेकापरीतकमनीयनितम्बबिम्बा हालामदद्बिगुणपाटलगण्जेरखा ।
श्रीसिङ्गभूप भवतो मृगयाविहारे का वानुयाति यवनी परिचारिकेव ॥ च्क्च्_१।*२५ ॥

अत्र पेका परिधानभस्त्रा, हला मदिरा, इमे देश्ये ।

ननु
भस्त्रा पेटिकयोस्साम्यात्पेटिका मध्यलोपिनी ।
पेका हला च हलिनः प्रिया देश्या न हीति चेत् ॥ च्क्च्_१।७८ ॥
कन्दादुट्टीकत इति कन्दाट्टादेरदेश्यत् ।
इत्थं निरुक्तनिर्वाहा दमर्यादा प्रशस्यते ॥ च्क्च्_१।७९ ॥
तदिदं मार्गसङ्क्षोभप्रज्ञाकण्डूतिरुज्झ्याम् ।
अङ्कोपालम्बनामादौ न देश्यं दूषणं भवेत् ॥ च्क्च्_१।८० ॥

अङ्को बिरुदं ।

तत्र यथा
चलमर्तिगण्डबिरुदो जयति प्रतिगण्डभैरवो राजा ।
सौमकुलपरशुरामः पाण्डयविभालो ऽप्यगायि गोपालः ॥ च्क्च्_१।*२६ ॥

अत्र चलमर्तिगण्डादीनां देश्यत्वे बिरुदत्वाद्गुणत्वम् ॥

उपारम्भे यथा
किं दारुणा कोङ्करवङ्करेण किं वाससा चीङ्गिरिमाङ्गिरेण ।
श्रीसिङ्गभूपारविलोकनाय वैदुष्यमेकं सुधियां सहायः ॥ च्क्च्_१।*२७ ॥

अत्र कोङ्करवङ्करेणेति दूषणं पदं देश्यम् ।
तादृशेन दारुणा आन्दोलिकयेत्यर्थः ।
नानावर्णविचित्रे चीङ्गिरिमाङ्गिरेणेति पदं देश्यम् ।
तादृशेन वाससा किं पट्टांशुकेनेत्यर्थः ।
अत्र कश्चिदान्दोलिकापट्टाम्बराद्याडय्बर मतिव्ययेन सम्पाद्य नानादिगन्तेषु राजास्थानानि विगाह्य तद्व्ययमात्रमप्यलभमातः ऋणाधिकतया क्लिस्यन्नाढम्बरं विनापि नायकमालोक्य तत्करुणाकटाक्षसमग्रीभूत नानावैबवस्सन कस्मैचिदाडम्बररहितेन भवता कथं सम्पदीदृशी सम्पादितेति पृच्छेते जनाय केवलं व्ययकारिणान्दोलिकापट्टपटादिबाह्याडम्बरविह्म्बनापुरःसरमुत्तरं वदति ।
तदत्र कोङ्करवङ्करादेरुपालम्बनत्वात् देश्यत्वे ऽ; पि सुन्दरत्वम् ॥

नाम्नि यथा नायकस्यैव वंशावल्याम् –
तयोरभूवन् क्षितिकल्पवृक्षाः पुत्रास्त्रयस्त्रासिरवैरिवीराः ।
सिङ्गप्रभुर्वेन्नमनायकश्व वीराग्रणी रेचमहीपतिश्व ॥ च्क्च्_१।*२८ ॥

अत्र सिङ्गम, वेन्नम, रेचय शब्दानामव्युत्पत्तिमच्वाद्देश्यत्वे ऽपि नामपदत्वाददुष्टपदत्वम् ॥

आत्मना क्ल्टप्तसङ्कल्पं नेयार्थमिति गीयते ॥ च्क्च्_१।८१ ॥

यथा
व्यत्यस्तपात्ररहिता मेदिनीपालशात्रवाः ।
लीयन्ते हन्त कान्तारे व्यावृत्तपिकसङ्कुले ॥ च्क्च्_१।*२९ ॥

अत्र पात्रशब्दो वर्णप्रातिलोम्येन त्रपां वदति ।
तथैव व्यावृत्तः
पिकः कपिरिति स्वसङ्केतितत्वान्नेयत्वम् ॥

प्रहेलिकादौ प्रास्तदभ्यनुज्ञायते बुधैः ॥ च्क्च्_१।८२ ॥

यथा
योगिनां भोगिनां किं स्यादिष्टमेतन्न वेत्ति यः ।
विपरीतो हरस्तेन न ज्ञातो मेदिनीपते ॥ च्क्च्_१।*३० ॥

अत्र योगिनां भोगिनाञ्च किं प्रियमिति प्रश्ने रह इत्युत्तरे वक्तव्ये विपरीतो हर इत्युक्तम् ।
तस्य स्वसङ्केतितत्वे ऽपि प्रहेलिकात्वाददुष्टत्वम् ॥

स्वपर्यायपदज्ञानसाधनं प्रतिहस्तकम् ॥ च्क्च्_१।८३ ॥

यथा
श्यामदंष्ट्राकरालेन करवालेन खण्डिताः ।
त्वया श्रीसिङ्गभूपाल कर्पूरेण विरोधिनः ॥ च्क्च्_१।*३१ ॥

अत्र श्यामसब्दः स्वपर्यायकालशब्दं ज्ञापयति ।
तेन यमः ।
कर्पूरशब्दश्व स्वपर्यायं घनसारं ज्ञापयति ।
तेन अधिसार इति लभ्यते ।
ततः श्यामकर्पूरश्ब्दयोः स्वपर्यायकालघनसारशभ्दमात्रज्ञापकत्वात् प्रतिहस्तत्वम् ॥

गूढलेखादिषु प्रायो नैतच्चारूत्वमुज्झति ॥ च्क्च्_१।८४ ॥

यथा
हरिद्रायां राहुप्रसरपिहितेच्छापरिषदि प्रयुक्तालङ्कृत्यै वियुतगरुतां दुर्गकुजरीम् ।
वयं सार्कान्वीताः प्रहर इति सेनापतिकृता- नमात्येभ्यो लेखान् प्रथयति च सिङ्गक्षितिपतिः ॥ च्क्च्_१।*३२ ॥

अत्र हरिद्रा निशा रात्रिरिति यावत् ।
राहुस्तमः ध्वान्तमिति यावत् ।
इच्छा आशा दिक् ।
प्रयुक्तालङ्कृतिरिति प्रहारः ।
वियुतगरुतां विपक्षाणाम् ।
कुजरीं नगरीम् ।
सार्का सेना चमूः ।
प्रहरः यामः गच्छामः ।
एवं हरिद्रादीनां स्वपर्यायमात्रबोधकत्वेन प्रतिहस्तत्वे ऽपि सेनापतिभिरभियाति दुर्गोच्छित्तये गतैः तदालोचितकार्य वयं सेनान्विताः तिमिरपिहितदशदिशि निशायां प्रहाराय विपक्षाणां दुर्गनगरीं याम इत्येवं लक्षणं मन्त्रभेदभयाद् गूढलेखमुखेन राज्ञि प्रेषितमिति न दुष्टत्वम् ॥

असमर्थं योगमात्रप्रयुक्तत्वादवाचकम् ॥ च्क्च्_१।८५ ॥

यथा
मेदिनीरमणास्थानप्राङ्गणे वारवासिनः ।
वाजिनो मञ्जुवाशन्ते शिञ्जनते सत्तकुञ्जराः ॥ च्क्च्_१।*३३ ॥

अत्र तिरश्वां रुतं वासितम् ।
भूषणशब्दः सिञिजितमिति मर्यादायां “वाश्ट शब्दकुत्सायाम्ऽ, “शिज अव्यक्ते शब्देऽ; इति च योगमात्रेण प्रयुक्तौ वाशितशिञ्जितशब्दौ हेषाबृंहितयोरवाचकौ ।

अस्यापि गुणता ग्राह्या तच्छास्रस्वीकृतादिषु ॥ च्क्च्_१।८६ ॥

यथा
श्री सिङ्गभूमिरमणे भरितप्रतापे नान्ये स्फुरन्ति रणसीमनि राजलोकाः ।
किं वा स्फुरन्ति रटितस्पृशि पाञ्चजन्ये लीलानुकारि तरुणीजनकूजितानि ॥ च्क्च्_१।*३४ ॥

अत्र कामिनीनां रतान्तरेषु कामसास्त्रकारैः हंसतित्तिरिलावकादिरुतविकाराम्नानात् पक्षिणो रुतादन्यत्रावाचकस्यापि कूजितस्य समर्थत्वम् ॥

चित्तं जुगुप्सते यस्मात्तज्जुगुप्सितकं त्रिधा ।
हेयार्थं हेयार्थान्तरं हेयार्थस्मृतिहेतुकम् ॥ च्क्च्_१।८७ ॥

हेयार्थं यथा
निस्संस्कारमुखा दृशान्ततदरीनिर्यन्महादूषिका पूत्युद्गार भरानुभूतिसयुजा दीक्षामिषात्मारया ।
हेयादन्तरदन्तनैष्ठिकतया सीदन्ति दुर्गाङ्गणे कल्याणक्षितिपप्रतीप सरणी सञ्चारिणो वैरिणः ॥ च्क्च्_१।*३५ ॥

अत्र दूषिकापूत्यादीनां साक्षाज्जुगुप्सार्थत्वेन हेयार्थत्वम् ॥

हेयार्थान्तरत्वं यथा –
करोपलालितविशामासान्तागूढवर्चसाम् ।
द्विषामकालराहुस्ते खड्गः कल्याणभूपते ॥ च्क्च्_१।*३६ ॥

अत्र विड्गूढवर्चश्शब्दयोः प्रजातेजोलक्षणार्थंवन्मलार्थस्यापि वाचकत्वेन जुगुप्सार्थान्तरत्वम् ॥

हेयस्मृतिहेतुकं यथा –
पूयन्ते पृतनोद्धूतरजोरञ्जितविग्रहाः ।
कल्याणखड्गधारायां मज्जनेन विरोधिनः ॥ च्क्च्_१।*३७ ॥

अत्र पूयन्ते मज्जनेनेत्यनयोर्वर्णसारूप्य ब्रमेण पूयमज्जार्थे सर्णेजपत्वाज्जुगुप्सार्थस्मारकत्वम् ।

एषां ग्राह्यो गुणीभावः व्कजिदङ्गीकृतादिषु ॥ च्क्च्_१।८८ ॥

यथा
पल्लवकोमलपाणितलानामुन्नतमांसलवक्षसिजानाम् ।
मानसमुत्तममानवतीनां रक्ततरं त्वयि सिङ्गनृपाल ॥ च्क्च्_१।*३८ ॥

अत्र मांसरक्तकोमलशब्दानां जुगुप्सार्थतदर्थान्तरतत्सूचकत्वे जुगुप्सितत्वे ऽपि महाकविभिरङ्गीकृतत्वाद्गुणत्वम् ॥

अमङ्गलार्थं यथा –
श्रीसिङ्गभूपालजयप्रयाणसन्नाहनिस्साणधणङ्क्रियाभिः ।
सद्यः परिस्फोटितसन्धिवन्धाः परिम्रियन्ते परिपन्थिभूपाः ॥ च्क्च्_१।*३९ ॥

अत्र परिम्रियन्त इति साक्षादमङ्गलम् ।
“निद्रान्ति दीर्घं परिपन्थिभूपाःऽ; इति पाठो रमणीयः ।

अमङ्गलार्थान्तरं यथा –
श्रीसिङ्गभूपालचमूसमूहसन्नाहसन्नाहवसम्भ्रमाणाम् ।
सन्तिष्ठमानैः पूरतो रिपूणां कृतान्निबोधैः स्वविकत्थनानि ॥ च्क्च्_१।*४० ॥

अत्र सन्तिष्ठमानैरित्यनेन सम्यक् स्थितिरिव मरणमपि प्रतीयते ।
उत्तिष्ठमानैरिति पाठो रमणीयः ।

अमङ्गलस्मरणहेतुर्यथा
कात्यायनसुतोद्देशबलिरक्षितकुक्षयः ।
भवन्ति मेदिनीनाधमनमन्तो नरेश्वराः ॥ च्क्च्_१।*४१ ॥

अत्र कुक्षय इति पदे ऽन्त्यवर्णद्वयेना मङ्गलार्थस्मरणम् ।

एषां गुप्तादिषु प्रायो गुणभावो ऽपि गण्यते ॥ च्क्च्_१।८९ ॥

यो निर्यस्य द्रुहिणचरणो जन्मभूम्यां नृपाणां ब्रह्माण्डेशे भगवति परं केशवे भक्तिभाजाम् ।
कृत्याकृत्यस्फुरणहरणे रक्षिते येन शो ऽयं शत्रुछेदव्यसनकुशलो भाति रेचर्लवंश्यः ॥ च्क्च्_१।*४२ ॥

अत्रोच्छेदस्य साक्षादमङ्गलार्थत्वे ऽपि शत्रुपदेन गुप्तत्वाद्गुणत्वम् ।
कृत्येत्यस्यामङ्गलाथत्वे ऽपि कृत्याकृत्ये कार्याकार्ये इति साहचर्येण गुप्तत्वम् ।
केशव इत्यस्यान्त्यवर्णद्वयेनामङ्गलार्थस्मरणहेतुत्वे ऽपि भगवन्माहात्म्येन गुप्तत्वम् ।
केशव इत्यस्यान्त्यवर्णद्वयेनामङ्गलार्थस्मरणहेतुत्वे ऽपि भगवन्माहात्म्येन गुप्तत्वमित्यमीषां गुप्तत्वम् ।

व्रीडाकरमसभ्यं सयात्पूर्ववत्तदपि त्रिधा ॥ च्क्च्_१।९० ॥

वंशास्सहस्रं सन्त्वन्ये शिश्नोदरपरायणाः ।
एको रेचर्लवंशो ऽयं साधुरक्षापरायणः ॥ च्क्च्_१।*४३ ॥

अत्र शिपूर्वश्नं साक्षादसभ्यार्थम् ।
निजोदरेति पाठो रमणीयः ।

असभ्यार्थान्तरं यथा
सिङ्गभूवरवरूधिनीधुनी रंहसा दलितमूलभक्तयः ।
यान्ति के ऽपि यमपालितां द्विषो गुह्यकेशकलितां दिशां परे ॥ च्क्च्_१।*४४ ॥

अत्र गुह्यकेशशब्दः कुबेरमिवकुत्सितकेशार्थमपि व्यनक्तीत्यस्यासभ्यार्थान्तरत्वम् ।
यक्षराजकलितामिति पाठो रमणीयः ।

असभ्यत्वस्मारकं यथा
श्रीसिङ्गभूपालपदारविन्दसेवाप्रसादीकृतराज्यभोगाः ।
क्रीडन्ति सामन्तनृपा वनान्ते शेफालिकाचञ्चलचञ्चरीके ॥ च्क्च्_१।*४५ ॥

अत्र शेफालिकापदस्य प्रथमवर्णंयुगलस्यासभ्यार्थस्मृतिहेतुत्वम् ।
“वासन्तिकाचञ्चलऽ; इति पाठो रमणीयः ।

अमीषाञ्च गुणीभावो लक्षितादिषु लक्ष्यते ॥ च्क्च्_१।९१ ॥

यथा योनिर्यंस्य द्रुहिणचरण इति पूर्वस्मिन्नुदाहरणे ।
योनिरित्यसभ्यार्थत्वे ऽपि योनिरिव योनिरिति गौणवृच्या न दुष्टत्वम् ।
जन्मभूमिभगवच्छब्दयोरसभ्यार्थान्तरत्वे ऽपि लोकसंवीतत्वाद्गुणत्वम् ।
ब्रह्माण्डेत्यस्य चोत्तरवर्णन्द्वयेनासभ्यार्थस्मृतिहेतुत्वे ऽप्यण्डमिवाण्डमिति गौणवृच्या गुप्तत्वाद्गुणत्वम् ॥

न वाच्यमेषां सर्वेषां हेयार्थत्वादिसाम्यतः ।
गुणत्वमगुणत्वं वा केवलं तर्ककर्कशैः ॥ च्क्च्_१।९२ ॥
एकस्यैव परान्यत्वमाप्तवान् गुणमानयोः ।
सचमत्कार साहित्यब्रह्यसाक्षात्क्रियोचितैः ॥ च्क्च्_१।९३ ॥
अनुज्ञातं बुधैः कैश्वित् कुमारीकमलादिकम् ।
नैवं श्रविष्ठा संस्थानशिपूर्वश्नादिकं पुरा ॥ च्क्च्_१।९४ ॥
यैः कैश्वित्प्राक्तनी सीमा न लङ्घ्या कोविदैरपि ।
तदुक्तेनैव मार्गेण गुणदोषान् परामृशन् ॥ च्क्च्_१।९५ ॥
काव्यं कल्पान्तरस्थायि कल्पयेदनुपप्लवम् ॥ च्क्च्_१।९६ ॥

श्रीः

इति सरससाहित्यचातुरीधुरीणश्रीविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालसुधासारशीतलायां चमत्कारचन्द्रिकायां वर्णपदविवेको नाम प्रथमो विलासः ॥