मम्मटः - शब्दव्यापारविचारः

विस्तारः (द्रष्टुं नोद्यम्)

Mammata: Sabdavyaparavicara
Based on the ed. by Mangesh Ramkrishna Telang: Abhidhâvrittimâtrikâ of Mukula Bhatta
and Shabdavyâpâra-vichâra of Râjânaka Mammatâchârya.
Abhidhāvṛttimātṛkā Mukulabhaṭṭapraṇītā tathā Śabdavyāpāravicāraḥ Rājānakamammaṭācāryaviracitaḥ.
Bombay : Nirnaya Sagara Press, 1916.

Input by Daniele Cuneo
[GRETIL-Version vom 7.7.2015]

। श्रीः ।
श्रीराजानकमम्मटाचार्यविरचितः
शब्दव्यापारविचारः

इह हेयोपादेयानां हानोपादाने प्रमाणाद् एव । तच् च निश्चयात्मतया प्रामान्यं भजते । निश्चयश् च शब्दसाहित्येनार्थं विषयीकरोति । शब्दस्य चार्थप्रतीतिप्रतिपत्तिलक्षणकार्यान्यथानुपपत्त्या कारकत्वात् कल्प्यमानो व्यापरो ऽभिधादिशब्दप्रतिपाद्यो नानाप्रकार इति तत्परीक्षार्थं शब्दव्यापारविचारात्मकं प्रकरणम् इदम् आरभ्यते । व्यापारश् च शृङ्गग्राहिकया दर्शयितुं न युज्यते इति विषयमुखेन प्रदर्श्यते –
जातिः क्रिया गुणः सञ्ज्ञा वाच्यो ऽर्थः समितध्वनिः ।
अगृहीतसङ्केतस्य शब्दस्यार्थप्रतिपत्तेर् अभावात् सङ्केतसहाय एव शब्दो ऽर्थं प्रतिपादयति । तेन समितः सङ्केतितो ध्वनिः शब्दो यत्र यो ऽर्थः । पूर्वम् उपलभ्यत्वान् न तु विश्रान्तिधामत्वान् मुख्य इति प्रसिद्धो वाच्यो ऽभिधेयो ऽर्थः । तथा चाह – जातिर् इत्यादि । इह यद्यपि प्रवृत्तिनिवृत्तिविषयो व्यक्तिर् एव, तथाप्य् आनन्त्यद् व्यभिचाराच् च तत्र सङ्केतः कर्तुम् न पार्यत इति गौः शुक्लश् चलो डित्थ इत्यादीनाम् एकार्थत्वं मा प्रसाङ्क्षीद् इति च शब्दानाम् उपाधाव् एव सङ्केतः । उपाधिश् च वस्तुधर्मो वक्तृयदृच्छासन्निवेशितश् च । आद्यः सिद्धः साध्यश् च । सिद्धो ऽपि द्विविधः पदार्थस्य प्राणप्रदो विशेषाधानहेतुश् च । आद्यो जातिः । उक्तं हि वाक्यपदीये – “गौर् हि स्वरूपेण न गौः, नाप्य् अगौः, गोत्वाभिसम्बन्धात् तु गौः” इति । द्वितीयो गुणः । शुक्लादिना हि लब्धसत्ताकं वस्तु विशेष्यते । साध्यः पूर्वापरीभूतावयवः क्रियारूपः । डित्थादिशब्दानां अन्त्यबुद्धिनिर्ग्राह्यं संहृतक्रमं स्वरूपं वक्त्रा यदृच्छया डित्थादिष्व् अर्थेषूपाधितया सन्निवेश्यते इति च सञ्ज्ञारूपो यदृच्छात्मक इति । गौः शुक्लश् चलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिर् भाष्ये कथिता । परमाणुत्वादीनां तु गुणमध्यपाठात् पारिभाषिकं गुणत्वम् । ननु पयःशङ्खाद्याश्रयीभूतेषु शुक्लादिगुणेषु यद्वशेन शुक्लः शुक्ल इत्य् अभिन्नाव् अभिधानप्रत्ययौ स्तस् तच्छुक्लत्वादिसामान्यम् । गुडतण्डुलादिपाकेषु एवम् एव पाकत्वादिकम् । शुकसारिकाद्युदीरितेषु डित्थादिशब्देषु च डित्थादिशब्दत्वं प्रतिक्षणं भिद्यमाने वा डित्थाद्यर्थे डित्थादित्वम् अस्तीति कथम् चतुष्टयी शब्दानां प्रवृत्तिः । उच्यते । संस्थानावस्थानप्रमाणवर्णैर् भेदे ऽपि व्यक्तीनां शाबलेयो गौः धावलेयो गौर् इत्याद्येकप्रत्ययहेतुत्वं जातेर् एव । हंसहारादीनां घृतगुडादीनां शुकसारिकाद्युदीरितडित्थादिशब्दानां नानावस्थडित्थाद्यर्थानां च भेदे ऽपि हंसः शुक्लः, हारः शुक्लः, घृतं पच्यते, गुडं पच्यते, डित्थशब्दो डित्थशब्दः, डित्थो डित्थ इत्येकाकारावगतिनिबन्धनत्वाद् एकरूपत्वम् एव गुणक्रियायदृच्छानाम् इति नैतासां भिन्नेष्व् अभिन्नाभिधानप्रत्ययहेतुर् जातिर् घटत इति चत्वार्य् एव शब्दप्रवृत्तिनिमित्तानि ॥
अपरम् आह –
तद्बाधे रूढितो ऽर्थाद् वा लक्षणीयस् तदन्वितः ॥ १ ॥
शब्दे कुशल इत्यादौ दर्भग्रहणाद्ययोगात् गङ्गायां घोष इत्यादौ च गङ्गादीनां च घोषाधिकरणतासम्भवात् मुख्यार्थस्य बाधः, रूडितः प्रसिद्धेः तथा गङ्गातट इत्यादेर् येषां न तथा प्रतिपत्तिस् तेषां पावनत्वादीनां तथाप्रतिपादनात्मना प्रयोजनेन । तेन मुख्येनार्थेनान्वितो लक्षणीयो लक्षणाव्यापारगोचरः । सम्बन्धश् चात्र विवेकत्वादिः सामीप्यादिश् च । एवं वाच्यवाचकार्थनिष्ठौ व्यापाराव् अभिधालक्षणे ।
स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम् ।
उपादानं लक्षणं चेत्य् उक्ता शुद्धैव सा द्विविधा ॥ २ ॥
कुन्तान् प्रवेशय यष्टी प्रवेशयेत्यादौ कुन्तादिभिर् आत्मनः प्रवेशसिद्धये स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तत उपादानेनेयं लक्षणा । “गौर् अनुबन्ध्यः” इत्यादौ श्रुतिचोदितम् अनुबन्धनं कथं मे स्याद् इति जात्या व्यक्तिर् आक्षिप्यते न तु शब्देनोच्यते । “विशेष्यं नाभिधा गच्छेत् क्षिणशक्तिर् विशेषणे” इति न्यायाद् उपादानलक्षणा नोदाहर्तव्या । न ह्य् अत्र प्रयोजनम् अस्ति न वा रूढिः । व्यक्त्यविनाभावात् तु जात्या व्यक्तिर् आक्षिप्यते यथा क्रियताम् इत्य् अत्र कर्ता, कुर्व् इत्य् अत्र कर्म, प्रविश पिण्डीम् इत्यादौ गृहं भक्षयेत्यादि च । पीनो देवदत्तो दिवा न भुङ्क्ते इत्य् अत्र च रात्रिभोजनं न लक्ष्यते । श्रुतार्थापत्तेर् अर्थापत्तेर् वा तस्य विषयत्वात् । गङ्गायां घोष इत्य् अत्र तटस्य घोषाधिकरणतायाः सिद्धये गङ्गाशब्दः स्वार्थम् अर्पयतीत्य् एवमादौ लक्षणेनैषा लक्षणा । उभयरूपा चेयं शुद्धा उपचारेणामिश्रित्वात् । अनयोर् भेदयोर् लक्ष्यस्य लक्षकस्य च न भेदरूपं तटस्थत्वम् । तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्त्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसम्प्रत्ययः । गङ्गासम्बन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल् लक्षणायाः को भेदः ॥
सारोपान्या तु यत्रोक्तौ विषयी विषयस् तथा ।
आरोप्यमाण आरोपविशयश् च यत्रानुपह्नुतभेदौ सामानाधिकरण्येन निर्दिश्येते सा लक्षणा सारोपा ।
विषय्यन्तःकृते ऽन्यस्मिन् सा स्यात् साध्यवसानिका ॥ ३ ॥
विषयिणारोप्यमाणेनान्तःकृते निगीर्णे ऽन्यस्मिन्न् आरोपविषये सति साध्यवसाना ।
भेदाव् इमौ च सादृश्यात् सम्बन्धान्तरतस् तथा ।
गौणौ शुद्धौ च विज्ञेयौ
इमाव् आरोपाध्यवसानरूपौ सादृश्यहेतू गौर् वाहीक इत्य् अत्र गौर् अयम् इत्य् अत्र च । अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधानं प्रति निमित्तत्वम् उपयान्तीति केचित् । स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते न तु परार्थो ऽभिधीयत इत्य् अपरे । साधारणगुणाश्रयणेन परार्थ एव लक्ष्यत इत्य् अन्ये । उक्तं चान्यत्र –
अभिधेयाविनाभूतप्रतीतिर् लक्षणोच्यते ।
लक्ष्यमाणगुणैर् योगाद् वृत्तेर् इष्टा तु गौणता
इति । अविनाभावो ऽत्र सम्बन्धमात्रं न तु नान्तरीयकत्वम् । तत्त्वे हि मञ्चाः क्रोशन्तीत्यादौ लक्षणा न स्यात् । अविनाभावे चाक्षेपेणैव सिद्धेर् लक्षणाया नोपयोग इत्य् उक्तम् । येन गोगतजाड्यमान्द्यादिसदृशजाड्यमान्द्येत्याद्य् उच्यते तेन गुणाभेदाभ्युपगमे गुणजातिप्रसङ्गाच् चतुष्टयी शब्दानां प्रवृत्तिर् उक्ता व्याहन्यते ।
आयुर् घृतम्, आयुर् एवेदम् इत्यादौ सादृश्याद् अन्यः कार्यकारणभावादिः परः सम्बन्धः । एवमादौ च कार्यकारणभावादिलक्षणपूर्वे आरोपाध्यवसाने । अत्र गौणभेदयोर् भेदे ऽपि ताद्रूप्यप्रतीतिः सर्वथाइवाभेदावगमश् च प्रयोजनम् । शुद्धभेदयोस् त्व् अन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि । क्वचित् तादर्थ्याद् उपचारः, यथा इन्द्रार्था स्थूणा इन्द्रः । क्वचित् स्वस्वामिभावात्, यथा राजकीयः पुरुषो राजा । क्वचिद् अवयवावयविभावात्, यथा अग्रहस्त इत्य् अत्राग्रमात्रावयवे हस्तः । क्वचित् तात्कर्म्यात्, यथा अतक्षा तक्षा ।
लक्षणा तेन षड्विधा ॥ ४ ॥
आद्यभेदाभ्यां सह ।
सा च “वक्तुर् वाक्यस्य वाच्यस्य रूपभेदाद् विभिद्यते” । तत्र वक्तृस्वरूपपर्यालोचनात् सा यथा –
उपकृतं बहु तत्र किम् उच्यते सुजनता प्रथिता भवता परम् ।
विदधद् ईदृशम् एव सदा सखे सुखितम् आस्स्व ततः शरदाम् शतम् ॥
बहुभिर् उपकारैस् ताप्यमानस्य कस्यचिद् उक्तिर् इयम् । अतो वक्तृमहिम्ना मूर्खे बृहस्पतिड्शब्देन मूर्खत्वम् इवापकारिणि दुर्जनत्वाद्य् अत्र लक्ष्यते ।
वाक्यविशेषावधारणाद् यथा –
धन्यासि या कथयसि प्रियसङ्गमे ऽपि
विस्रम्ब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते च करे प्रियेण
सख्यः शपामि यदि किञ्चिद् अपि स्मरामि ॥
अत्र धन्यास्मि लक्ष्यते । वाक्यस्यैवात्र शक्तिः ।
वाच्यविशेषनिरूपणाद् यथा –
भुवनाभयदानसक्तशक्तेः
सकलस्वीक्रियमाणसम्पदस् ते ।
न समानधुराधिरोहदोषं
सुमते को ऽपि कदापि कर्तुम् ईष्टे ॥
अत्र प्राणसमस्य व्यसने ऽपि तटस्थस् तृणमात्रम् अपि दातुम् असमर्थश् च वाच्यः । एवं द्विकभेदास् त्रयः त्रिकभेदश् चैक उदाहार्यः ।
दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मद्गृहे दास्यसि
प्रायो नैव शिशोः पितास्य विरसाः कौपीर् अपः पास्यसि ।
एकाकिन्य् अपि यामि तद् द्रुतम् इतः स्रोतस् तमालाकुलं
नीरन्ध्रास् तनुम् आलिखन्तु जरठच्छेदा नडग्रन्थयः ॥
इत्य् अत्र
प्राप्तश्रीर् एष कस्मात् पुनर् अपि मयि तं मन्थखेदं विदध्यान्
निद्राम् अप्य् अस्य पूर्वाम् अनलसमनसो नैव सम्भावयामि ।
सेतुं बध्नाति भूयः किम् इति च सकलद्वीपनाथानुयाते
त्वय्य् आयाते वितर्कान् इति दधत इवाभाति कम्पः पयोधेः ॥
इत्य् अत्र
दुर्वारा मदनेषवो दिशि दिशि व्याजृम्भते माधवो
हृद्य् उन्मादकराः शशाङ्करुचयश् चेतोहरा कोकिलाः ।
उत्तुङ्गस्तनभारदुर्धरम् इदम् प्रत्यग्रम् अन्यद्वयः
सोढव्याः सखि साम्प्रतं कथम् अमी पञ्चाग्नयो दुःसहा ॥
इत्य् अत्र च नादेयपानीयानयनेन परपुरुषसम्भोगस्य नडग्रन्थलेखनेन सम्भाव्यमाननखदशनक्षतानां च निह्नवात्मकं वस्तु, भवान् हरिर् इति रूपकालङ्कारः, विप्रलम्भशृङ्गारश् च रसो लक्ष्यत इति नोदाहार्यम् । मुख्यार्थस्य बाधाभावात् । असख्या अपि सख्यभिधानस्यैवं सम्भवात् । आक्षिप्तस्यालङ्कारस्य लक्ष्यत्वे च वह्न्यानयने पात्रानयनस्य लक्ष्यत्वप्रसङ्गात् । अबाधितस्यैव वाच्यस्य रसप्रतीतिकृत्त्वात् । सप्रयोजनायां च लक्षणायां तदतिरिक्तो व्यापारो ऽवश्यम् अङ्गीकर्तव्यः । तथा च सति प्रयोजने लक्षणा । तच् च न मुख्यार्थबाधनिमित्तवत् प्रमाणान्तराद् बोद्धव्यम् । तदर्थम् एव लक्षणाशब्दप्रयोगात् । न खलु शाब्दे ऽर्थे प्रत्यक्षं क्रमते । नापि तत्पूर्वकम् अनुमानम् । नानुमानान्तरम् अनवस्थापत्तेः । न स्मृतिः तदनुभवाभावात् । सत्याम् अपि वा तस्यां नियतस्मरणं न स्यात् । तस्माच् छब्द एव तत्र प्रमाणम् । निर्व्यापारश् च शब्दो नार्थप्रतीतिकृत् । व्यापारश् च नाभिधा तत्र सङ्केताभावात् । न लक्षणा तस्मिन् सति हि सा न तु तद्विषया । नाप्य् अस्या लक्ष्ये बाधो ऽस्ति । लक्ष्यप्रयोजनयोश् च सम्बन्धस्य प्रयोजनस्य चाभावात् । तस्यापि लक्षणे ऽनवस्थापत्तिर् इति न लक्षणा स्यात् । अस्ति च सा । ततः प्रयोजनविषयो व्यापारओ ऽभ्युपगन्तव्यः । स च ध्वननावगमनप्रकाशनद्योतनादिशब्दव्यवहार्यः ।
ननु गङ्गातटे घोष इत्यादिस्वशब्दाद् यादृगर्थप्रतीतिर् न भवति तादृशी गङ्गायां घोष इत्यादेस् तद् एव प्रयोजनं पावनत्वादिधर्माक्रान्तं च तटादि लक्ष्यते इति विशिश्टे लक्षणा न तु लक्षिते विशेषाः । एवं हि तटादेः पावनत्वादीनां च धर्मधर्मिभावश् चतुर्थो व्यापार उररीकर्तव्यः । लक्षणाफलं च कथम् अन्येन क्रियते । न च व्यापारस्य लक्षणात्मनो व्यञ्जनात्मा व्यापारो भवति । शब्दस्यासाव् इति चेन् न । तर्हि लक्षणायाः प्रयोजनं तस्माद् विशिष्टम् एव लक्ष्यते । उच्यते । लक्षणायास् तटादिर् विषयः । न च तत्र पावनत्वादयः सन्ति । तत् कथं विशिष्टे लक्षणा । सामान्यनिष्ठश् च सङ्केत इति त्रितयात्मना सङ्केतभेदेन लक्षणा सा कथं विशिष्टं गोचरीकुर्यात् । व्यज्यते त्व् असङ्केतित एव । किञ्च लक्षणाया गोचरो लक्ष्यो न प्रयोजनम् । प्रत्यक्षस्य हि नीलं विषयः । प्रकटता संवित्तिर् वा फलम् । अव्यभिचाराच् च लक्ष्यसंवित् फलत्वेनोक्ता । एवं ह्य् अभिधाया अपि फलं शब्दस्य च वाचकस्य संविद् एव फलम् । तच् च विना व्यापारान् न सम्भवति । न च व्यापारस्य व्यापार इति शब्दस्यैवासौ वाच्यः । लक्षणान्वयव्यतिरेकानुविधानं च सव्यापारस्य फलस्येति तस्यास् तत् कार्यं कार्यं च फलम् उच्यते । क्रियान्तरप्राप्यस्य यागफलत्वम् इव व्यञ्जनशक्तिनिर्वर्त्यस्य प्रयोजनस्य लक्षणाफलत्वम् । नीलविषयस्य प्रमाणस्य यथा नीलनिष्ठैव प्रकटता संविद् वा फलम् तद्वल् लक्षणायास् तद्विषयनिष्ठम् एव प्रयोजनम् । तेन धर्मधर्मिभावपरिकल्पकं नोपयुज्यते व्यापारान्तरम् । तेन सिद्धम् एतल् लक्षणाया अतिरिक्तो व्यापारः समाश्रणीयः ॥
निरूढा काचनान्या तु कार्या सा काचिद् अन्यथा ।
अनुलोमप्रतिकूलादिशब्देषु काचन सा वाच्यम् अर्थं परिहृत्य लक्ष्य एवार्थे वाचकवन् निरूढा । अपरा तु मुख्यार्थबाधनिमित्तप्रयोजनेषु सत्सु कर्तव्या ।
रविणा हृतसौभाग्यस् तुषारावृत्तमण्डलः ।
निश्वासान्ध इवादर्शश् चन्द्रमा न प्रकाशते ॥
इत्यादाव् अन्धादिशब्देषु अनुपपद्यमानत्वाद् वाच्यम् अत्यन्ततिरस्कृतम् इति विच्छायत्वस्य लक्षितस्यासामान्यत्वं व्यङ्ग्यम् । तथा –
स पुरुषः स च जीवति सत्कृतं
जगति यस्य पराक्रमसम्भृतम् ।
भ्रमति सूर्यकरैः सह गाम् इमाम्
अभिनवोदितपल्लवितं यशः ॥
इत्यादौ पुरुषशब्दो ऽनुपयुज्यमानत्वाल् लक्षितस्वगतपराक्रमवत्त्वादिधर्मव्यङ्ग्यतदानन्त्यसङ्क्रमितवाच्यः । रेफद्वयानुगतभ्रमरादिशब्दाभिधेयत्वे द्विरेफशब्दः षट्पदे यथा प्रयुज्यते तथा कोकिलादौ द्विक इत्यादिका अन्यथा न प्रयोज्याः ।
उक्तान्वये च सा पश्चात्
इहानन्त्याद् व्यभिचाराच् च वाक्यस्य वाक्यार्थ इव विशेषरूपे पदार्थे पदस्य सङ्केतः कर्तुं न पार्यते इति सामान्य एव सङ्केतः । आकाङ्क्षासन्निधियोग्यतावशात् सामान्यानाम् अभिहितानां सताम् अन्वय इति पदार्थानां वैशिष्ट्यम् । एवं चापदार्थो ऽपि वाक्यार्थस् तात्पर्यशक्त्या प्रतिपाद्यते । अत्र पक्षे पूर्वम् अभिधा ततो ऽन्वयबाधे लक्षणा ।
अन्वितोक्तौ पुनः पुरः ॥ ५ ॥
देवदत्त गाम् आनयेत्यद्य् उत्तमवृद्धवाक्यश्रवणान् मध्यमवृद्धौ विशिष्टं व्यापारं करोतीति दृष्ट्वा व्युत्पाद्यमानो निर्विभागे ऽर्थे निर्विभागं वाक्यं वाचकं जानाति । ततो यज्ञदत्त गाम् आनयेत्यादिवाक्यान्तरप्रयोगे सति अन्वयव्यतिरेकाभ्यां नियतस्य नियतार्थम् अवस्यतीति सामान्यावच्छादिते विशिष्ट एव पदार्थे पदानां सङ्केत इत्य् अन्वितानाम् एव सताम् अभिधानम् इति विशिष्टानां पदार्थता । अत्र पक्षे अभिधायाः पुर आदौ लक्षणा, विशिष्टस्यैव पदार्थत्वात् ।
द्वये द्वयम्
पदापेक्षयाभिहितान्वयः वाक्यापेक्षया त्व् अन्विताभिधानम् इति द्वयपक्षे द्वयम् । अभिधायाः पश्चात् पुरस्ताच् च सा ।
अखण्डे तु वाक्यार्थे नास्ति सत्यतः ।
वाक्यम् एव वाक्यार्थस्य वाचकम् । पदेषु वर्णवद् वाक्येषु हि पदानाम् अनर्थकत्वम् । ततश् च लक्षणा नास्त्य् एव । कशाभिधानात् तुरगस्य यथा प्रेषितो ऽहम् अनेन धावन इति प्रतिभोदेति तद्वत् प्रतिभावशाद् विशिष्तवाक्यात् प्रतिपत्तिर् इति सैव वाक्यार्थः । असत्यभूतप्रकृतिप्रत्ययादिकल्पनवद् अविद्यापदे पदार्थकल्पनायां तूक्तेषु पक्षेषु त्रयः पक्षाः ।
यश् च सम्बन्धो लक्षणाया निमित्तं तं पञ्चविधम् आहुः । यथोक्तं
अभिधेयेन सम्बन्धात् सादृश्यात् समवायतः ।
वैपरीत्यात् क्रियायोगाल् लक्षणा पञ्चधा मता ॥ इति ।
तत्र द्विरेफादिशब्दस्य भ्रमरादिः शब्दो ऽभिधेयः । तत्सम्बन्धात् तेन षट्पदो लक्ष्यते इति अभिधेयसम्बन्धनिमित्तता ।
सादृश्याद् यथा सिंहो माणवक इति । यथा वा –
वर्षे समस्त एवैकः श्लाघ्यः को ऽप्य् एष वासरः ।
दिनैर् महत्तयान्वेयो यो न पूर्वैर् न चापरैः ॥
अत्र प्रकरणवशाद् महापुरुषः कश्चिल् लक्ष्यते यस्य कुले पूर्वे भाविनो वा पुरुषा न समानत्वम् उपयान्ति । समवायः उक्तसम्बन्धेभ्यो ऽन्यः सम्बन्धः । ततो यथा [खण्डितं पुस्तकम् अत्र] । सामीप्याद् गङ्गायां घोष इति । साहचर्यात् छत्रिणो यान्तीति । अत्र हि छत्रिसाहचर्याद् अछत्रा अप्य् एवं व्यपदिश्यन्ते । वैपरीत्याद् यथा कातरे भार्गव इति । क्रियायोगाद् यथा
पृथुर् असि गुणैः कीर्त्या रामो नलो भरतो भवान्
महति समर शत्रुघ्नस् त्वं तथा जनकः स्थितेः ।
इति सुचरितैर् मूर्तिं बिभ्रत् पुरातनभूभृतां
कथम् असि न मान्धाता देव त्रिलोकविजय्य् अपि ॥
अत्राशत्रुघ्ने ऽपि शत्रुहननक्रियायोगाच् छत्रुघ्नत्वेन व्यपदेशः ।
प्रज्ञानैर्मल्यवैदग्ध्यप्रस्तावादिविधायुजः ।
अभिधालक्षणयोगी व्यङ्ग्यो ऽर्थः प्रथितो ध्वनेः ॥ ६ ॥
यथा सङ्केतेन मुख्यार्थबाधादित्रितयेन च सहायेनाभिधायको लक्षकश् च यथा वा पक्षधर्मान्वयव्यतिरेकसहगतो विवक्षाया अनुमापकः तथा प्रतिभानैर् मल्यविदग्धपरिचयप्रकरणादिज्ञानसापेक्षो वाचको लक्ष्यकश् च व्यङ्ग्यम् अर्थं ध्वनिशब्दो व्यनक्ति । तत्र व्यङ्ग्यः
पदप्रकाश्यो यथा
वाणिअअ हत्थिदन्ता कुत्तो अह्माणं वग्घकत्तीअ ।
जाव लुलिआलअमुही घरम्मि परिसक्कए सुण्हा ॥
[वाणिजक हस्तिदन्ता कुतो ऽस्माकं व्याघ्रकृतयश् च ।
यावल् लुलितालकमुखी गृहे परिसङ्क्रामति स्नुषा ॥]
वाक्यप्रकाश्यो यथा –
अत्ता एत्थ णिमज्जै एत्थ अहं दिअसअः पलोएहि ।
मा पहिअ रत्तिअन्धअ सेज्जाए मह णिमज्जहिसि ॥
[श्वश्रुर् अत्र निमज्जति अत्राहं दिवसके प्रलोक्य ।
मा पथिक रात्र्यन्ध शय्यायाम् आवयोर् निमङ्क्ष्यसि ॥ ]
अत्राभिधानमूलं व्यञ्जनम् । लक्षणामूलं यथा – निश्वासान्ध इवादर्श इत्य् उदाहृतम् ।
स एव गुणभूतः पदप्रकाश्यो यथा –
कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सो ऽभिमानी
कृष्नाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः ।
राजा दुःशासनादेर् गुरुर् अनुजशतस्याङ्गराजस्य मित्रं
क्वास्ते दुर्योधनो ऽसौ कथयत न रुषा द्रष्टुम् अभ्यागतौ स्वः ॥
अत्रैते वराका दासभावं गताः किं करिष्यन्ति अस्मदेकशरणाः परिभविष्यन्ति इत्यादि द्यूतकाले भवद्भिश् चिन्तितम् आसीन् नास्मकं विस्मृतम् । तत्र काचित् प्रतिक्रिया निर्व्यूढा न किं निर्व्यूढा इत्यादिकं तम् अर्थम् अभिव्यज्य सर्वैर् एव कर्ता द्यूतछलानाम् इत्यादिभिर् वाच्य एवार्थे विश्रम्यते ।
वाक्यप्रकाश्यो यथा –
वाणिरकुडङ्गुड्डीणसौणिकोलाहलं सुणन्तीए ।
घरकम्मवावडाए वहुए सीअन्ति अङ्गाइ ॥
[वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वत्याः ।
गृहकर्मव्यापृताया वध्वाः सीदन्त्य् अङ्गानि ॥]
अत्र दत्तसङ्केतः पुरुषो वानीरलतागृहं प्रविष्ट इति व्यङ्ग्यम् अर्थम् अवगमय्य वाच्यो ऽर्थः स्वप्राधान्येनास्ति । न चैवम् अभिधाया लक्षणाया वा कश्चिद् अवसर इति भिन्नम् एव ध्वननम् ।
ननु ‘यत् परः शब्दः स शब्दार्थऽ; इति व्यङ्ग्याभिमतो ऽपि तात्पर्यात् कथम् न वाच्यः । इह सर्वाण्य् एव कारकाणि कारकत्वात् सव्यापाराणीति साध्यायमानान्य् अतो भूतभव्यसमुच्चारणे “भूतं भव्यायोपदिश्यत” इत्य् अदग्धदहनन्यायेन यावद् अवहितं तावद् विधीयते इति क्वचित् कारकपदार्थो ऽपि विषयो भवति । यथा दध्ना जुहोति पयसा जुहोतीति । एवं हि पूर्वो धावतीत्य् अपरार्थे ऽपि तात्पर्यं स्यात् । अन्वितः पदार्थो ऽभिहितान्वये अन्वितमात्रं त्व् अन्विताभिधाने । तत्रैव सङ्केतोपपत्तेः । अन्वितविशेषस् तूभयमते ऽप्य् अवाच्य एव । एवं च वाच्यत्वे का वार्त्ता वाच्यविपरीतात्मनो व्यङ्ग्यस्य । न तु व्यङ्ग्यम् अनुमेयम् इति शक्यं वक्तुम् । न हि वाच्यव्यङ्ग्ययोः प्रतिबन्धग्रहे किञ्चित् प्रमाणं क्रमते । प्रकरणादिसामग्रीम् अन्तरेण हि न व्यङ्ग्यम् । न च सा प्रमाणगोचरा । व्यङ्ग्यवाचिनां त्व् अदोषः । एवम्भूतायां प्रमाणैर् अप्रतिपन्नायां हि सामग्र्याम् उपपत्तिम् अनपेक्ष्यापि समुदयमाना प्रतीतिः केन निह्नोतुं शक्यत इति । सिद्धम् अभिधातात्पर्यलक्षणाव्यापारातिरिक्तं ध्वननम् । एतच् चान्यत्र विस्तरेण विचारितम् इति सङ्क्षेपेणेहोक्तम् इति शिवम् ॥

इति निखिलविपश्चिच्चक्रवर्तिश्रीराजानकमम्मटाचार्यविरचितः शब्दव्यापारविचारः समाप्तः ॥