अलङ्कारप्रदीपः

[[अलङ्कारप्रदीपः Source: EB]]

\

हरिदाससंस्कृतग्रन्थमालासमाख्य-

काशीसंस्कृतसीरिज़पुस्तकमालायाः

काव्यविभागे (१) प्रथमपुष्पम् ।

अलङ्कार प्रदीपः

पर्वतीय-विश्वेश्वरपण्डित -

विरचितः।

नेपालदेशीय-

विष्णुप्रसादभण्डारिणा

संशोधितः।

काशीस्थ-

चौखम्बासंस्कृतपुस्तकालयस्वामिनाश्रेष्ठिकुलभूषण-

हरिदासगुप्तात्मजेन जयकृष्णदासगुप्तमहोदयेन

विद्याविलासनाम्नि यन्त्रालये

मुद्रयित्वा प्रकाशितम्।

सन् १९२३

Registered According to Act XXV. of 1867

अलङ्कारप्रदीपः

कुवलयानन्दादिसदृशः केवलार्थालङ्कारनिरूपकोऽयं प्रबन्धः । अस्य च कर्ता सर्वतन्त्रस्वतन्त्रपाण्डितीको नानानिबन्धकर्ता कूर्माचलदेशीयः पाण्डेयकुलभूषणो विश्वेश्वरावतारो विश्वेश्वरपण्डितः । अस्य समयादीतिवृत्तं मुद्रयिष्यमाणैतदीयनिबन्धान्तरे यथावसरं निवेशयिष्यत इति तत एवावगन्तव्यम् । अत्र च ग्रन्थकर्त्रासरलैः सङ्क्षिप्तैः सूत्रभूतैर्वाक्यैरलङ्कारलक्षणानि तथा प्रतिपादितानि यथा सुकुमारमतयोऽपि क्लेशलेशं विनालङ्कारतत्वमवबुद्ध्येयुः । उदाहृतानि स्वकृतान्येव पद्यानि, अव्याप्त्यतिव्याप्तिबाध्यबाधकभावादिगहनः शास्त्रीयो विचारो न प्रचारित इति च विशेषः।

अत्र ( ) एतच्चिह्नमध्यपातिन्यः पङ्क्तय आदर्शपुस्तकेऽविद्यमाना अप्यपेक्षिता इति स्थापिताः ।

आदर्शपुस्तकस्य नातिशुद्धस्यैकस्यैव लाभात्तदाधारेण मुद्रयितुमारब्धे सपरिश्रमं परिशोधितेऽप्यस्मिन् मानुष्यकनान्तरीयेषु स्खलितेषु भवन्तु क्षमाशीला ग्रन्थतत्वमात्रग्रहिलाः सहृदया इति

काशी

३०-४-२३

**
**

निवेदयते-

**
**

नेपालदेशीयो


विष्णुप्रसादभण्डारी ।

अलङ्कारप्रदीपस्थालङ्काराणामकारादिक्रमेण-

सूची

पृ० पृ०
अक्रमातिशयोक्तिः १७ असम्भवः ४६
अङ्गाङ्गिभावसङ्करः ५६
अतद्गुणः ४६ आक्षेपः २४
अतिशयोक्तिः १६ " अन्यः २५
अत्यन्तातिशयोक्ति १८ " अपरः २५
अत्युक्तिः ३३ आक्षेपान्तरम् २६
अधिकम् ४७ आवृत्तिदीपकम् २२
अनन्वयः
अनुकूलम् ३३ उत्तरम् ४४
अनुपलब्धिः ३७ " द्वितीयम् "
अनुमानम् ३५ उत्प्रेक्षा
अनुरूपम् ४५ उदात्तम् ३३
अन्योन्यम् ४४ " द्वितीयम् "
अपह्नुतिः उदाहरणम्
अप्रस्तुप्रशंसा १५ उन्मीलितम् ४६
अर्थान्तरन्यासः २७ उपमा
अर्थापत्तिः ३७ उपमितिः ३६
अल्पम् ४८ उपमेयोपमा
अवज्ञा ५२ उल्लासः ५२
असङ्गतिः ५० उल्लेखः १९
,, अन्या ५१ " अपरः २०
" अपरा " ऊर्जस्वी ५७
असमः
असम्बन्धातिशयोक्तिः १७ एकदेशविवर्तिरूपकम्
पृ० पृ०
एकपदवृत्तिः (एकवाचकानुप्रवेशः ) सङ्करः ५६ पर्यायोक्तम् ३२
एकावली ४८ " द्वितीयम् "
ऐतिह्यम् ३७ पिधानम् ३९
पूर्वरूपम् ४५
प्रतिवस्तूपमा २०
कारकदीपकम् २१ प्रतीपम् ४९
कारणमाला ४४ प्रत्यनीकम् ४८
काव्यलिङ्गम् ३१ प्रत्यक्षम् ३६
गूढोक्तिः ३९ प्रस्तुताङ्कुरः १६
चपलातिशयोक्तिः १७ प्रहर्षणम् ४७
प्रेयोऽलाङ्करः ५७
छेकापह्नुतिः ११ प्रौढोक्तिः १८
छेकोक्तिः ४० भावशबलः ५७
तुल्ययोगिता २२ भावसन्धिः "
" अन्या " भाविकम् ३१
दीपकम् २१ भावोदयः ५७
दृष्टान्तः " भेदकातिशयोक्तिः १६
निदर्शना १३ भ्रान्तिमान् ४८
" द्वितीया १४ भ्रान्त्यपह्नुतिः ११
निरुक्तिः ४२ मालादीपकम् २१
निश्चयः ११ मालारूपकम्
निषेधः ४२ मालोपमा
परम्परितं रूपकम् मीलितम् ४६
परिकरः ३८ मिथ्याध्यवसितिः १८
परिकराङ्कुरः " यथासङ्ख्यम् २७
परिणामः युक्तिः ३८
परिवृत्तिः ३१
परिसङ्ख्या ४३ रत्नावली
पर्यायद्वयम् ३५ रशनोपमा
पृ० पृ०
रसवत् ५६ व्याघातः ५५
रूपकम् व्याजनिन्दा ३०
व्याजस्तुतिः २९
ललितम् १४ व्याजोक्तिः ३८
लुप्तोपमा शब्दः ३६
लेशः ५२ श्लेषः १२
लोकोक्तिः ४० सन्देहः
विकल्पः सन्देहसङ्करः ५६
विकस्वरः २८ समः ५२
विचित्रम् ५५ समस्तवस्तुविषयं रू०
विभावना २६ समाधिः ४६
वितर्कः समासोक्तिः १३
विधिः ४३ समाहितम् ५७
विनोक्तिः ३० समुच्चयः ३४
विरोधाभासः २८ सम्बन्धातिशयोक्तिः १७
विवृतोक्तिः ४० सम्भावनम् १८
विशेषः ४९ संसृष्टिः ५५
" अन्यः ५० सहोक्तिः ३०
" अपरः " सामान्यम् ४६
विशेषकम् ४६ सारः ५०
विशेषोक्तिः २६ सूक्ष्मम् ३९
विषमः ५३ स्मरणम् ४८
" अपरः " स्वभावोक्तिः २९
" अन्यः ५४
विषादनम् ४७ हेतुः १९
व्यतिरेकः २३ " द्वितीयः "

अलङ्कारप्रदीपस्थोदाहरणपद्यानामकारादिक्रमेणानु-

क्रमणिका।

श्लोकाः पृ० श्लोकाः पृ०
अग्निशिखावृत ४५ इच्छन्त्या ५८
अङ्गुलीष्वहृद ४४ इयमिन्दुमुखी ५५
अतिरोध २६ ईर्ष्याकषायितमपि २०
अतिसौरभ २१
अधर इवो उद्वेल्लद्भुजवल्लरी २९
अधरकरचरण २३ उन्नीताः प्रगुणा ५७
अधरे तव २८ उपनिबन्ध्यतया ३७
अधिवासर ४८ ऊर्ध्वीकृत्य ग्रीवां १३
अनया विहिते ५२
अन्तर्निगूढ ऋजुहृदयया २६
अन्योन्याभिमत ३५
अपहाय कुटिल "
अब्दोऽभ्यागमना ४१ ओजायते २७
अंहःसंहति ओन्नमः सकल
अलकावलोकने १२
असमाः शरा ४२
अस्मत्सख्यङ्क ३७ कङ्केल्लिपल्लव ४६
अस्माभिरेव १६ कण्टकभरेण ३८
कण्ठः कम्बुसमो २४
आकाशं स्मर ३३ कर्पूरं वह्निरुष्णो २८
आकुलयति ११ कश्चन्द्रो वरतनु ! ४४
आकृष्टिर्हृदयस्य १९ कस्तूरिकामृगाणां
आपातप्रणया ४० कान्ताकुचा ४३
आयाति वल्लभ ४७ कामनीकमनन्य ५३
आरज्यत्तपनीय ४४ कामुके किमपि ३९
श्लोकाः पृ० श्लोकाः पृ०
कालिन्दीयं ३३ जृम्भायामम्भोरुह १५
किञ्चित्तिर्यगवे " ज्योत्स्नारसानु २३
किमेद्राजीवं
कीचकवृन्दं ३९
कुचयोर्द्वयो ३५ तत्तद्व्यक्तितया ३२
कुचाभोगं ३८ तत्तत्सुन्दरभाव
कुमुदमन्दिति २४ ताटङ्कमौक्तिक १०
कुसुमशर १५ तामरसकुसुम ५४
कृतोत्साहां २५ तरुण्याद्भवति ४४
केतक्यो जनयन्ति ५२ तीरे तरणिसुताया ११
केयं नितान्त ५३ तुन्दपरिमृजमिदं १७
केशकलापः ५६ तुहिनरहितेव ३१
कौमुद्यामुद्यतायां ४७ त्वत्पाणिपल्लव ४५
त्वद्बिम्बाधर
त्वद्वक्त्रे रुचि २३
खञ्जनमञ्जुल १२ त्वद्वक्षोरुह ३७
खञ्जननयने ४५ त्वं तावदाचर ३०
त्वं श्यामा ५१
गगनतललक्ष्मी १८ त्वां पश्यन्नवतीर्णां ३१
गेहपतावायास्यति १७
चक्षुस्त्वदीक्षण दधती मदन १२
चाम्पेयमालिकोरसि ४६ दूति त्वं ! कृतिनी ५७
चित्राङ्गदा २० दूरीकरोति ११
चुम्बिता दृक्पाते स्वकुल ४८
चेतःसंवननं दृष्ट्वा बलाहक ३१
दृश्यं दर्पणवत् २३
जलदाः प्रचला २२
जातच्छायतया २८ धाराधरे गगन २२
जीवनहेतोर्दयि धुरि मधुरिम १५
श्लोकाः पृ० श्लोकाः पृ०
प्रालेयांशोः १९
न बिभीहि ४२ प्रियश्रोत्रोपान्त ५८
नलिनी केलि २१ प्रियान्यव्यावृ्त्तिः ५४
नव जपाकुसुम प्रेयसः प्रणय २९
नवयमवयवा १० प्रेयोमनीषित ५५
नवीनवरर्णिनी ५१
नाभिः सुभ्रु ! २४ बालाया दिन ४८
निपतितं गज १७ बालेयं सवि
निशि भवदास्य " बाले! विलासा ५४
नो तावन्मलया २६ बाले स्युर्यदि १८
बिभ्रद्भासा ३१
पयोधरपिधानतां ४७
परपुष्टगिरः ४२
परितो निपुणं ३७ भजत्याविर्भावं ५७
पाणिना स्वमधरं ३९ भवदौपम्य
पिदधति करभोरु ! २२ भवद्विषयता ३०
पीयूषद्युति ३६ भवनं तपनीयमयं ४५
पुरस्तादालीनां ३२ भावितमपि भव ४६
पुरातनानप्यधुना ५९ भुवनेषु भवन्तु २१
पुष्पेषोर्वीर भ्राम्यन्तीभि ५६
पूर्वं चाक्षुष ३४
पूर्वा हरिदपि १२ मदनमतिवेलयन्ती
प्रकाशादाकाश १० मधुरतामवधेेहि १४
प्रगल्भेभ्यो मध्यं यथा विहायः
प्रतिसृभ्रुवाम ५२ मनोमैवं कार्षीः २५
प्रत्यासत्तिभृता २१ महतामुपसं २८
प्रत्येकावयव ५७ माकन्दः कुसुमं १३
प्रदाय नव ३१ मानसे विरमसे ५०
प्रययुर्मदीय १८ माविरम षट्पद ! ५३
प्रसूनसम मुधैव विरु १४
श्लोकाः पृ० श्लोकाः पृ०
मृगमदचन्द ४६ विधाय वाच
विभ्रष्टं भूमि ५४
यत्तव स्तनसरोज ५२ वियुक्ताश्चाम्पे
युवत्वे बालत्वे २७ विरोधिनीनां ५५
यौवनविहित " विलसति परिच्छिन्नं १६
यौवनेन तनु ४४ विवेकवैकल्य ४९
वृक्षावतंस ४२
रदनच्छद ४६ व्यापारा हितहेत ४३
रमणीयपदार्थ ४९ व्याहरन्ति ३४
रमन्ते मालाया व्याहारनावहेल २६
रागोत्तरेण व्याहारा विहसन्ति २४
राजीवभ्रमभृति ५१
राजीवे इव ते २४ शशाङ्कसमवायि १८
रोहिण्याः सुत ३६ शिञ्जानेन सम १५
श्रमवारिपृषन्ति ४८
श्रवणकोकनदं ५४
लक्षमनङ्गस्य श्रवणाभिमुखं ३४
लावण्यं त्रिज ५९ श्रीमन्महीमहित ५९
लावण्येन ५० श्रोत्रेण कोकिल २०
लीलापूर्वक ३३ श्वश्रूरश्रूद्गमन ५२
लीलावने ३६
लोभेन त्वद्बिम्बा १६ सङ्केतकुञ्ज १९
सम्प्ररूढनव ४८
वदनमधि १४ सन्तप्तं त्वद ३२
वरवर्णिनि ! ५४ सध्रीची ३८
वर्षासुरजोयो ४३ सविलासमावलित ५६
वाणी चेच्छ्रवणे ४९ सहचरि ! ४०
विकसति कदम्ब २२ सहावहेलं ५१
विकसितमभि सारं जन्तुषु ५०
विच्छिति १७ साहसकी १३
श्लोकाः पृ. श्लोकाः पृ.
सुतनुमनुसमा ४७
सुन्दरि ! नेन्दुरयं १०
सोढा व्रणा ३० हरिति लोहितता ३४
स्नेहस्य संवरण ४९ हेयः सन्नपि
स्फुरदलकत्वं ३८ हृदयाद्वहिर्नि ५३
स्मारं स्मारमति ५८ क्षीयन्ते सह ३०

अलङ्कारप्रदीपस्थानि

अलङ्कारसूत्राणि।

चमत्कारप्रयोजकं सादृश्यवर्णनमुपमा ॥१॥

एकस्मिन्नुपमेये बहूपमानसादृश्यं मालोपमा ।

पूर्वपूर्वोपमायामुपमेयस्योत्तरोत्तरोपमायामुपमानत्वेन कथनं रशनोपमा। आरोप्यस्यारोपविषयतादात्म्यापत्त्या प्रकृतोपयोगः परिणामः ॥ २॥

सामान्येन निरूपितस्य विशेषेण निरूपणमूदाहरणम् ॥३॥

उपमानोपमेययोर्ज्ञायमानमैक्यमनन्वयः ॥ ४ ॥

सर्वथैवोपमाननिषेधोऽसमः ॥ ५॥

परस्परसादृश्यमुपमेयोपमा ॥६॥

प्रकृतेऽप्रकृततादात्म्यसम्भावनमुत्प्रेक्षा ॥ ७॥

सादृश्यनिबन्धनः प्रकृतसंशयः सन्देहः ॥८॥

संशयोत्तरमनिर्णये ऊहो वितर्कः ॥ ९॥

विरुद्धयोः पाक्षिकी प्राप्तिर्विकल्पः ॥ १०॥

उपमेये उपमानतादात्म्यारोपो रूपकम् ॥ ११ ॥

सर्वेषामारोप्यारोपविषयाणां शब्दोपात्तत्वे समस्तवस्तुविषयम्।

यत्र केचिदिच्छावहाः केचिदार्थास्तदेकदेशविवर्ति।

एकस्मिन्नुपमेये बहूपमानतादात्म्यारोपो मालारूपकम् ।

आरोपान्तरसापेक्ष आरोपः परम्परितम् ।

प्रसिद्धक्रमाणामेकत्रोपनिबन्धनं रत्नावली ॥ १२ ॥ प्रकृतनिषेधविशिष्टस्तदन्यारोपोऽपह्नुतिः ॥ १३ ॥

स्वकीयतात्पर्यख्यापनेन परभ्रान्तिखण्डनं भ्रान्त्यपह्नुतिः।

परकीयप्रमाखण्डनाय स्वतात्पर्यस्यान्यथाकरणं छेकापह्नुतिः।

अप्रकृतनिषेधविशिष्टप्रकृतस्थापनं निश्चयः ॥१४॥

शब्दैक्ये सत्यनेकार्थकथनं श्लेषः ॥१५॥

प्रकृतवृत्तान्तेनाप्रकृतप्रतीतिः समासोक्तिः ॥ १६ ॥

अन्वयानुपपत्त्या सादृश्यपर्यवसानं निदर्शना ॥ १७॥

क्रियया हेतुहेतुमद्भावप्रतीतिर्द्वितीया निदर्शना।

प्रकृतमनुपन्यस्य तत्स्थानीयवाक्यार्थान्तरोपन्यासो ललितम् ॥ १८ ॥

अप्रकृतवृत्तान्तेन प्रकृतप्रतीतिरप्रस्तुतप्रशंसा ॥ १९॥

प्रस्तुतवृत्तान्तेन प्रस्तुतप्रतीतिः प्रस्तुताङ्कुरः ॥२०॥

प्रस्तुताप्रस्तुतयोः सर्वथैवाभेदप्रतीतिरतिशयोक्तिः ॥२१॥

तस्यैवान्यत्वाभिधानं भेदकातिशयोक्तिः।

असम्बन्धे सम्बन्धकल्पनं सम्बन्धातिशयोक्तिः ।

सम्बन्धेऽप्यसम्बन्धकथनं द्वितीयाऽसम्बन्धातिशयोक्तिः। कार्यकारणयोर्यौगपद्यमक्रमातिशयोक्तिः ।

हेतुप्रसक्तावेव कार्योत्पत्तिकथनं चपलातिशयोक्तिः ।

कारणात्प्रागेव कार्योत्पत्तिकथनमत्यन्तातिशयोक्तिः।

केन चिदापादकेन कस्य चिदापादनं सम्भावनम् ॥२२॥

कस्य चिदर्थस्य मिथ्यात्वसिद्धये मिथ्याभूतार्थान्तरोपन्यसनं मिथ्याध्यवसितिः ॥ २३ ॥

उत्कर्षानुपपादनेऽप्युत्कर्षहेतुत्वकथनं प्रौढोक्तिः ॥२४॥ कार्यकारणयोरभेदाभिधानं हेतुः॥ २५ ॥

हेतुहेतुमद्भाववर्णनं द्वितीयो हेतुः । एकस्यानेकसमवेतभिन्नभिन्नप्रकारकज्ञानविषयत्ववर्णनमुल्लेखः ॥ २६ ॥ एकस्याप्येकवृत्त्यनेकप्रकारकज्ञानविषयत्ववर्णनमपर उल्लेखः ।

साम्याभिप्रायके वाक्यद्वये एकधर्मोपादानं प्रतिवस्तूपमा २७

तत्रैव बिम्बप्रतिबिम्बभावेन भिन्नधर्मोपादानं दृष्टान्तः।२८। प्रकृताप्रकृतानामेकधर्मान्वयो दीपकम् ॥ २९॥

एककारकस्यानेकक्रियान्वयः कारकदीपकम् ।

रूपान्तरेण पूर्वात्तस्य उत्तरत्रान्यरूपेणान्वयो मालादीपकम्॥

क्रियाया द्विरभिधानमावृत्तिः (त्तिदीपकम् ) ॥३०॥

प्रकृतानामप्रकृतानामेव वा एकधर्मान्वयस्तुल्ययोगिता ॥३१॥ सपक्षविपक्षयोर्वृत्तिसामान्यमन्या तुल्ययोगिता । उपमानादुपमेयस्योत्कर्षवर्णनं व्यतिरेकः ॥ ३२॥

अभिधातुमिष्टस्यापि विशेषलाभार्थोनिषेध आक्षेपः ॥३३॥ उपमेयेनोपमानवैयर्थ्योक्तिरन्य आक्षेपः ।

अर्थान्तरतात्पर्यको निषेधोऽपर आक्षेपः।

निषेधफलको विधिराक्षेपान्तरम् ।

विना हेतुं कार्योत्पत्तिर्विभावना ॥ ३४ ॥

हेतुसत्त्वेऽपि कार्यानुक्तिर्विशेषोक्तिः ॥ ३५ ॥

निर्देशक्रमेण पदार्थान्वयो यथासङ्ख्यम् ॥ ३६ ॥

सामान्यविशेषाभ्यां विशेषसामान्यसमर्थनमर्थान्तरन्यासः ३७ विशेषसमर्थकस्य सामान्यस्य विशेषान्तरेण समर्थनं विकस्वरः॥ ३८ ॥ आपाताद्विरोधभानं विरोधाभासः॥ ३९ ॥

रम्यस्वभाववर्णनं स्वभावोक्तिः ॥ ४०॥ स्तुतिनिन्दातात्पर्यकनिन्दास्तुत्यभिधानं व्याजस्तुतिः ॥४१॥

अन्यनिन्दया अन्यनिन्दाभिव्यक्तिर्व्याजनिन्दा॥४२॥ उभयोश्चमत्कार्येकधर्मान्वयः सहोक्तिः॥ ४३ ॥

किञ्चिद्विना कस्यचिदप्राशस्त्यप्राशस्त्यान्यतराभिधानं विनोक्तिः॥४४॥नित्यसम्बन्धानामसम्बन्धवचनमन्या विनोक्तिः ।

किञ्चिद्दत्वाकस्यचिदुपादानं परिवृत्तिः ॥ ४५ ॥

भूतभाविविशेषप्रत्यक्षं भाविकम् ॥ ४६॥

हेतूक्तिः काव्यलिङ्गम् ॥ ४७॥

वाच्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम् ॥ ४८॥

व्याजेनेष्टसाधनं द्वितीयं पर्यायोक्तम् । आनुकूल्यपर्य्यवसायिप्रातिकूल्यमनुकूलम् ॥ ४९॥ वस्तुनोऽतिशयविशेषकथनमुदात्तम् ॥ ५० ॥

महतामङ्गत्वकथनं द्वितीयमुदात्तम् ।

अद्भुतशौर्यादिवर्णनमत्युक्तिः ॥ ५१ ॥

एकहेतुत्वेऽपि हेत्वन्तरोक्तिः समुच्चयः ॥ ५२ ॥

गुणक्रियायौगपद्यमपरः समुच्चयः ।

एकस्यानेकत्रानेकस्यैकत्र वा क्रमेण वृत्तिः पर्य्यायद्वयम् ५३

व्याप्येन व्यापकज्ञानमनुमानम् ॥ ५४॥

चमत्कारिसाक्षात्कारः प्रत्यक्षम् ॥ ५५॥

अतिदेशवाक्यार्थजन्यं ज्ञानमुपमितिः॥ ५६ ॥

आप्तवाक्यं शब्दः ॥ ५७॥

उपपाद्येनोपपादककल्पनमर्थापत्तिः ॥ ५८ ॥

प्रतियोगिभिन्नायां प्रतियोगिप्रत्यक्षसामग्र्यांसत्यां प्रतियोगिनोऽप्रत्यक्षमनुपलब्धिः ॥ ५९ ॥

सम्भवः ॥६० ॥

अदृष्टवक्तृकः प्रवाद एवैतिह्यम् ॥६१॥

साभिप्रायविशेषणत्वं परिकरः ॥ ६२॥

विशेष्यस्य साभिप्रायकत्वं परिकराङ्कुरः ॥ ६३ ॥ रहस्यप्रकाशप्रतिबन्धकवाक्यं व्याजोक्तिः ॥ ६४ ॥

तादृशी क्रिया युक्तिः ॥ ६५॥

ज्ञातपररहस्यप्रकाशनं पिधानम् ॥ ६६ ॥

प्रतिभया ज्ञातस्यार्थस्यान्यानवगम्यप्रकारेण प्रकाशनं सुक्ष्मम् ॥ ६॥ अन्यतात्पर्येणान्यं प्रति कथनं (गूढो) गुच्छोक्तिः॥६८॥

गुप्तार्थस्य कविना स्फुटीकरणं विवृतोक्तिः ॥ ६९ ॥

लोकप्रवादानुकारो लोकोक्तिः ॥ ७० ॥

अर्थान्तरगर्भा लोकोक्तिरेव छेकोक्तिः ॥ ७१॥

(एकेनान्याभिप्रायेणोक्तं वाक्यं यद्यन्येनान्याभिप्रायकं कल्प्यते तदा वक्रोक्तियोगाद्वक्रोक्तिः ॥ ७२ ॥)

नाम्नामवयवार्थान्तरकल्पनं निरुक्तिः ॥ ७३ ॥

अन्यार्थाभिप्रायो निषेधो निषेधः ॥ ७४ ॥

तादृशं विधानं विधिः ॥ ७५ ॥

कार्यस्य कुतश्चिदसम्भवाभिधानमसम्भवः ॥ ७६ ॥

इतरनिषेधफलकं वचनं परिसङ्ख्या ॥ ७७ ॥

उत्तरकारणोक्तिः कारणमाला ॥ ७८॥

परस्परोपकारकथनमन्योन्यम् ॥ ७९ ॥

उत्तरे एव प्रश्नोन्नयनमुत्तरम् ॥ ८ ॥

सति प्रश्नेऽसकृदपूर्वोत्तरकथनमप्युत्तरम् ॥

वस्त्वन्तरगुणनिमित्तकः स्वगुणत्यागस्तद्गुणः ॥८१॥

तादृशः स्वगुणातिशयोऽनुगुणः ॥ ८२ ॥

पुनः स्वगुणप्राप्तिस्तादृश्येव पूर्वरूपम् ॥ ८३ ॥

अवस्थाभेदेऽपि पूर्वावस्थासाम्यमन्यत्पूर्वरूपम् ॥ अन्यगुणापसङ्क्रमोऽतद्गुणः ॥ ८४ ॥

गुणसाम्याद्भेदानवभासो मीलितम् ॥८५॥

हेत्वन्तरेण भेदप्रतीतिरुन्मीलितम् ॥ ८६ ॥

विजातीयव्यक्तितादात्म्यप्रत्ययः सामान्यम् ॥ ८७॥

हेत्वन्तरेण तत्प्रमा विशेषकम् ॥ ८८ ॥

कारणान्तरसमवधानात्कार्यसौकर्य्येसमाधिः ॥ ८९ ॥

इष्टादधिकलाभः प्रहर्षणम् ॥ ९० ॥

विरुद्धप्राप्तिर्विषादनम् ॥ ९१॥

आधाराधेययोरेव परस्पराधिक्यमधिकम् ॥९२॥

विरोधिपक्षापकारः प्रत्यनीकम् ॥ ९३ ॥

सूक्ष्मादप्याधारादाधेयस्य सूक्ष्मत्वकथनमल्पम् ॥९४ ॥

पूर्वपूर्वविशेषणानामुत्तरोत्तरं विशेष्यत्वोक्तिरेकावली ९५॥

चमत्कारिस्मृतिः स्मरणम् ॥ ९६॥

रम्यभ्रमो भ्रान्तिमान् ॥ ९७ ॥

उपमानतिरस्कारः प्रतीपम् ॥ ९८ ॥

आधारं विनापि वृत्तिर्विशेषः ॥ ९९ ॥

एकस्य युगपदनेकत्र वृत्तिरपरो विशेषः ॥

एककार्य्येणानेककार्य्यसिद्धिरन्यो विशेषः ॥

उत्तरोत्तरोत्कर्षः सारः॥१००॥

कार्यकारणयोर्भिन्नदेशत्वमसङ्गतिः॥ १०१॥

अन्यत्र चिकीर्षितस्यान्यत्र करणमपराऽसङ्गतिः॥

कार्यान्तरप्रकृतस्य तद्विरुद्धकार्यकरणमन्यासङ्गतिः॥ दोषगुणयोर्गुणदोषत्वकल्पनं लेशः ॥ १०२॥ अन्यगुणदोषाभ्यामन्यदोषगुणकथनमुल्लासः ॥ १०३ ॥ अन्यगुणदोषयोरप्रयोजकत्वकथनमवज्ञा ॥ १०४ ॥

गुणविशेषानुषङ्गाद्दोषस्य प्रार्थनमनुज्ञा ॥१०५॥

सम्बन्धानुरूप्यं समः ॥ १०६॥

अयोग्यसम्बन्धोविषमः ॥ १०७ ॥

इष्टप्राप्त्यभावविशिष्टानिष्टप्राप्तिरपरो विषमः ॥ कार्यकारणयोर्गुणक्रियान्यतरविरोधेऽन्यो विषमः ॥

उपादेयस्यापि कुतश्चिद्दोषात्तिरस्कारः …. ॥१०८॥

कार्यान्तरहेतोस्तविरुद्धकार्ये जनकत्वं व्याघातः॥१०९॥

इष्टार्थविरुद्धे प्रयत्नो विचित्रम् ॥ ११० ॥ परस्परमनपेक्षमाणानामलङ्काराणामेकवाक्यवृत्तित्वं संसृष्टिः ॥ १११॥ अलङ्कारस्यालङ्कारान्तरसापेक्षत्वेऽङ्गाङ्गिभावः सङ्करः ११२ साधकबाधकप्रमाणाभावादन्यतरालङ्कारनिणर्याभावे सन्देहरूपः सङ्करो द्वितीयः ॥ ११३ ॥

शब्दार्थालङ्करणयोरेकपदवृत्तित्वं तृतीयः सङ्करः ॥११४॥

रसस्य पराङ्गत्वे रसवदलङ्कारः ॥ ११५ ॥

भावस्य पराङ्गत्वे प्रेयोनामालङ्कारः ॥ ११६ ॥

रसाभासभावाभासयोः पराङ्गत्वे ऊर्ज्जस्वी ॥ ११७ ॥

भावशान्तेःपराङ्गत्वे समाहितम् ॥ ११८॥

भावोदयभावसन्धिभावशबलत्वानां पराङ्गत्वेतन्नामान एव त्रयोऽलङ्काराः शास्त्रकारैः संज्ञान्तरानुक्तेः ॥ ११९॥

इति ।

श्रीविश्वेश्वरपण्डितविरचितः

अलङ्कारप्रदीपः।

श्रीगणेशाय नमः ॥

ॐ नमः सकलगोपवधूनां स्वात्मनि प्रवणितप्रणयाय ॥घर्मवासरगमाऽवसरोद्यद्वारिवाहरुचिराय चिराय ॥१॥

विधाय वाचस्पतये धराया लक्ष्मीधरायाभिमतं प्रणामम् ॥

[विश्वेश्वरोऽर्थं1विशदं वितन्वन् करोत्यलङ्कारकुलपदीपम्॥२॥

तत्र-

चमत्कारप्रयोजकं सादृश्यवर्णनमुपमा ॥१॥

सा च पूर्णा लुप्ता चेति द्विविधा । यत्रोपमानमुपमेयं सामान्यधर्म इवादिपदं चेति चतुष्टयमुपात्तं सा पूर्णा।

यथा-

विकसितमभिरामतमं रदनद्युतिकेसरं रुचिरपत्रम् ॥ अलकश्यामलमाननमलिमलिनं नलिनमिव तस्याः ॥

धर्माभिधाने च बहवः प्रकाराः। अत्रोक्ताः षट् । विकसितमित्युपचारः2। पद्मे पत्रविभागात्मकमुख्यविकाशः, मुखे तूपचारादुल्लासविशेषः । अभिरामेत्यनुगामित्वम्3रदनद्युतिवत्केसराणि यत्रेति पद्मपक्षे, रदनद्युतय एव केसराणि यत्रेति मुखपक्षे

इति समासभेदः । पत्रपदस्य दलपरत्वं कस्तूर्यादिपत्रलेखापरत्वं चेति श्लेषः । कुन्तलभ्रमरयोर्विम्बप्रतिविम्बभावः4 । स च वस्तुतो भिन्नयोरन्योन्यसादृश्यादभिन्नतयाध्यवसितयोः प्रयोगः । श्यामलत्वं मालिन्यं चाभिन्नतया तद्विशेष्यतयोपात्तमिति । वस्तुप्रतिवस्तुभावः5

इवादिपदयोगे इवार्थकवतिप्रत्यये चोपमा श्रौती, तल्यादियोगे तुल्यार्थकवतिप्रत्यये च आर्थीति सिद्धान्तः । आर्थी यथा पूर्वश्लोके “अवलाया अलिमलिननलिनतुल्यम्” इति पाठे इति बोध्यम् ।

लुप्ता6 त्रिविधा-एकलुप्ता द्विलुप्ता त्रिलुप्ता चेति । तत्राद्या त्रिधा-धर्मलुप्ता वाचकलुप्तोपमानलुप्ता चेति । धर्मलुप्ता पञ्चधा7

यथा-

मध्यं यथा विहायस्तडिदिव तनुरक्षि तुल्यमब्जेन ॥

अधरः सुधासधर्मा कुशेशयाक्षि ! त्वमुर्वशीदेश्या ॥

उपमानिरूपणम्

अत्र वाक्ये समासे च श्रौत्यार्थी च । तद्धिते आर्थी च स्पष्टा । तद्धिते श्रौत्या धर्मलुप्ताया असम्भवात् । वाचकलुप्ता षड्विधा । यथा-

वियुक्ताश्चाम्पेयान्यहह दहनीयन्ति, मलया-

निलाः श्वासायन्ते तव, नवसुधाधाममधुरे ॥

शरव्ययित्यन्तर्मदनविशिखस्तस्य, भवतीं

रतिश्लेषं श्लिष्यन् कुसुमशरचारं चरतु सः ॥

अत्र श्वासायन्त इति कर्तरि क्यङ् । सुधाधाममधुरे इति

“उपमानानि सामान्यवचनैः” (२।१।५५) इति समासभेदः । दहनीयन्ति शरव्यीयन्तीति कर्मण्यधिकरणे क्यच् । रतिश्लेषं श्लिष्यन्निति कर्मणि णमुल् । कुसुमशरचारं चरत्वितिकर्तरि णमुल् ।

उपमानलुप्ता द्विधा । यथा-

चेतःसंवननं8 च विद्म इह तत् त्वं गीयसे यत्समा

नेत्रासेचनकं9 च यस्य भवती कल्याणि तुल्या भवेत् ॥

तेन त्वत्कुचजातरूपकलशे विन्यस्यमानो मुदा

यूनस्तस्य नवप्रवालतु करः पुष्पाशुगीयत्ययम् ॥

अत्र पूर्वार्द्धे समासे वाक्ये चोपमानमप्रयुक्तम् । द्विलुप्ता पञ्चविधा । क्विप्समासयोर्धर्मवाचकलुप्ता यथा - “नवप्रवालतु कर” इति । अत्राचारार्थकस्य क्विप इव शब्दस्य च लोपात् । अग्रिमपद्ये च ‘विम्बाधर’ इति । अत्रोत्तरपपदलोपिसमासे सदृशपदलोपे (वाचक) धर्माप्रयोगयोः सत्वात् । पुष्पाशुगीयतीति क्यचि वाचकोपमेयलुप्ता । पुष्पाशुगमिवात्मानमाचरतीत्यर्थे उपमेयस्यात्मान इवशब्दस्य च प्रयोगाभावात् ।

त्वद्बिम्बाधरवृत्तेः साम्यस्य निरूपको यः स्यात् ॥

यत्सादृश्यं दृश्यपि स दृश्यते नैव हरिणाक्षि ! ॥

अत्र वाक्ये समासे च धर्मोपमानलुप्ता । त्रिलप्ता यथा-‘हरिणाक्षि’ इति । हरिणस्याक्षिणी इवाक्षिणी यस्याइति धर्मोपमानवाचकलुप्ता । इत्थमेकोनविंशतिभेदा लुप्ता ।

एकस्मिन्नुपमेये बहूपमानसादृश्यं मालोपमा।

यथा-

रमन्ते मालायामिव कुसुममय्यां मधुकरा-

श्चमत्कारोद्रेकादिव रुचि चकोरा हिमरुचः॥

सरस्यां सौरभ्यादिव वरतनु ! श्वेतगरुतो

भवत्यामेतस्यां मम हृदयवृत्तिव्यतिकराः॥

पूर्वपूर्वोपमायामुपमेयस्योत्तरोत्तरोपमायामुपमानत्वेन कथनं रशनोपमा।

यथा–

अधर इवोक्तिर्मधुरा तनुलक्ष्मीरुक्तिवद्विशदवर्णा ।

तनुरिव मनोहरा दृग्दृगिवमृगाक्ष्याः सुदुःसहो विरहः ॥

आरोप्यस्यारोपविषयतादात्म्यापत्त्या प्रकृतोपयोगः परिणामः ।२।

यथा-

बालेयं सविलासं विवलितवदना विलोकयति ।

कमनीयतैकनिधिना प्रसेदुषा नेत्रनलिनेन ॥

नेत्रमिव नलिनमिति रूपकस्वीकारे नलिनस्य विशेष्यतया वीक्षणानुपयोगः । न चोपमा, नेत्रं नलिनमिवेति समासस्य दुर्लभत्वात् कमनीयेत्यादिसामान्यधर्मप्रयोगात् । “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे"(२।११।५६) इति सूत्रात् । अतो नलिनस्य

उदाहरणानन्वयासमालङ्काराः

नेत्रतादात्म्यापत्यैव प्रकृतोपयोगः।

सामान्येन निरूपितस्य विशेषेण निरूपणमुदाहरणम्10 ॥ ३॥

यथा–

हेयः सन्नपि विषयः स्वरूपतोऽस्मि-

न्नादेयो भवति समीहितानुकूलः ॥

चन्द्रास्ये ! हृदयकदर्थनानिदानं

सम्भोगानुगुणतयेव विप्रलम्भः ॥

उपमानोपमेययोर्ज्ञायमानमैक्यमनन्वयः ॥ ४॥
यथा–

तत्तत्सुन्दरभावभावकधियां सन्दाननं, मन्दिरं

मन्दाक्षस्य, विलासमानभवनं, शीलैकशालायिता ॥ अन्यस्माद्विषयान्मनोनयनयोर्व्यावृत्तिमातन्वती

लोकेऽस्मिन्वरवर्णिनि ! त्वमिव मे सत्यंत्वमाभाससे ॥ सर्वथैवोपमाननिषेधोऽसमः ।५।

यथा–

भवदौपम्यनिरूपकमभिदधतांबालिशा बहुशः ॥

इह सहृदयो रहस्यं व्याहरति न किञ्चिदस्तीति ॥

परस्परसादृश्यमुपमेयोपमा ।६।

यथा-

मदनमतिवेलयन्ती दिक्ष्ववदातत्वमादधती।

त्वं चन्द्रिकेव विदिता वरवर्णिनि ! चन्द्रिका त्वमिव ॥

अनन्वये उपमानान्तरव्यवच्छेदो व्यङ्ग्यः, असमे वाच्यः,

उपमेयोपमायां तृतीयोपमानव्यवच्छेदो व्यङ्ग्यइति विशेषः । प्रकृतेऽप्रकृततादात्म्यसम्भावनमुत्प्रेक्षा। ७ ।

सा त्रिविधा । स्वरूपहेतुफलभेदात् ।

स्वरूपोत्प्रेक्षा यथा–

नवजपाकुसुमद्युतिपाटलो विधुमुखि ! प्रतिभाति तवाधरः।

तरुणतातरुणा नवपल्लवो विशदतामुपनीत इव स्वयम् ॥

अत्राधरे तादात्म्येन पल्लवस्यारोपः॥

हेतूत्प्रेक्षा यथा-

अंहस्संहतियोगादिव मुक्तानां हिमे सरोजानाम् ॥

मलिनं मण्डलमिन्दोरवदातं तव मुखं सुकृतैः॥

अत्र स्वकृतादृष्टविशेषो मुखलावण्यहेतुः तत्र तादात्म्येन कमलसुकृतस्यारोपः । एवमन्यदप्यूत्द्यम् ।

फलोत्प्रेक्षा यथा–

चक्षुस्त्वदीक्षणोत्सुकमाकर्णितभवदुदन्तवृन्देन ॥

तस्याः श्रोत्रेण समं मिलितुमिव तदन्तिकं याति ॥

अत्र तदन्तिकगमनफलं तत्संयोगः तत्र वृत्तान्तश्रवणेच्छाजन्यत्वस्य तादात्म्येनारोपः ८॥

सादृश्यनिबन्धनः प्रकृतसंशयः सन्देहः । ८।

वितर्क-विकल्प-रूपकनिरूपणम्

यथा–

प्रसूनसमवायिभिर्मलयजस्य चारम्भकै-

र्मृणालपरमाणुभिः किमु कलाभिरिन्दोः किमु ।

व्यधायि किमु वेधसा कुसुमधन्वनाऽहो इति

प्रिये तव कलेवरं समवलोक्य सन्दिह्यते ॥

संशयोत्तरमनिर्णये ऊहो वितर्कः ।९।

यथा–

किमेतद्राजीवं रजनिषु तदुल्लासरहितं

सुधांशोर्बिम्बं किं तदपि च कलङ्कं कलयति ॥

किमादर्शः स्पर्शो भवति कठिनोऽस्येति दयिता-

मुखं साक्षात्कुर्वन्सहृदयजनोऽभ्यूहतितमाम् ॥

अत्र यदीदं कमलं स्यात्तर्हि रात्रावुल्लासवन्न स्यात् इति तर्कस्यापातात् यो रात्रावुल्लासाभावः स च मुखे नास्तीतितात्पर्यम्।

विरुद्धयोः पाक्षिकी प्राप्तिर्विकल्पः।१०।

यथा–

जीवनहेतोर्दयिततमस्य प्राणस्य वैष सखि ! ॥

आगमने गमने वा दिवसं समुपैत्यवधिरद्य ॥

अत्र प्रियतमस्यागमनं प्राणगमनं वेत्यन्यतरस्यपाक्षिकी प्राप्तिः ॥१०॥ उपमेये उपमानतादात्म्यारोपो रूपकम् ॥११॥

तच्च द्विविधम् । सावयवनिरवयवभेदात् । तत्र सावयवं द्विधा । (समस्तवस्तुविषयमेकदेशविवर्ति च । ) सर्वेषामारोप्यारोपविषयाणां शब्दोपात्तत्वे समस्तुवस्तुविषयम् ।

यथा–

कस्तूरिकातिमिरतो मलिनीयमानौ

वामेक्षणे ! भवदुरोरुहचक्रवाकौ ॥

हाराग्रहीरकसुधानिधिपद्मराग-

भानू निरीक्ष्य भवतो न मिथः पृथग्वा ॥

यत्र11 केचिदिच्छावहाः केचिदार्थास्तदेकशविवर्त्ति। यथा-

चुम्बिता12 सुमनसामनेहसा स्नेहसारसदृशं वनस्थली ॥

आतनोति कलकण्ठकूजितं सीत्कृतं कुवलयाक्षि! भावय ॥

अत्र वसन्ते आरोप्यो नायकः, वनस्थल्यां नायिका चेति द्वयमर्थगम्यम् । पिकरवे सीत्कृतारोपेण तदाक्षेपः।

निरवयवं यथा–

प्रगल्भेभ्योऽप्यन्तःकरणतलरत्वापहरणे

यतस्तेभ्यस्तेभ्यो भजति विषयेभ्यो विमुखताम् ॥

शरद्राकाजैवातृकमुखि ! विना त्वां प्रियतमो

निपीतायाः सोऽयं त्वदधरसुधाया मधुरिमा ॥

अत्रैक एवारोपः।

एकस्मिन्नुपमेये बहूपमानतादात्म्यारोपो मालारूपकम् ।

यथा–

पुष्पेषोर्वीरयात्राजयपटहरवोऽपूर्वशृङ्गारसूत्र-

व्याख्याभाष्यप्रपञ्चस्तरुणिमकरिणो बृंहितस्यानुबन्धः ॥ सौन्दर्यैकप्रशस्तिर्निधुवनकलहोपक्रमस्वस्तिवादः ।

श्रुत्योः पीयूषपूरो जयति कलकलं कामिनीकाञ्चिदाम्नः ॥

आरोपान्तरसापेक्ष आरोपः परम्परितम् ।

परम्परितरूपक रत्नावल्यौ

(तच्च श्लिष्टाश्लिष्टशब्दनिबन्धनत्वेन द्विविधम् )

यथा–

रागोत्तरेण रजनी निधिना कलानां

सौरभ्यवैभववता परिरभ्यमाणा ॥

उत्सार्यमाणतिमिरोत्करकेशपाशा

ताराः प्रसूननिवहानिव निर्जहाति ॥

अत्र कलानिधिपदं श्लिष्टम् ।

श्लेषाभावे यथा–

अन्तर्निगूढमपि गुम्फितगूढभाव-

कोलाहलं कलहहालहलं सहेलम् ॥

सद्योऽपसारयति भीरु ! रसालवीरु-

द्बद्धावधानमधुपध्वनिसिद्धमन्त्रः॥

अत्र(कलहे) विषारोपस्तदपनायकत्वेन भ्रमरगुञ्जिते मन्त्रारोपे निमित्तम् ।

प्रसिद्धक्रमाणामेकत्रोपनिबन्धनं रत्नावली । १२ ।

यथा-

लक्षमनङ्गस्य13 मतं कलेवरं तव सुधांशुमुखि ! ।

अब्जंपुनस्तनुभृतां ततः परार्द्धं सहृदयानाम् ॥

अत्र लक्षादिसङ्ख्यानां श्लेषेण निबन्धनम् । प्रकृतनिषेधविशिष्टस्तदन्यारोपोऽपह्नुतिः। १३ ।

निषेधो द्विधा शाब्द आर्थश्च ।

शाब्दे निषेधे यथा–

सुन्दरि ! नेन्दुरयं किमु नभोऽङ्गणे तारतण्डुलजिघत्सुः । हरिहयहरिन्महेलाहेलापारावतः स्फुरति ॥

आर्थे यथा–

ताटङ्कमौक्तिकमिषाद्वरतनु ! नक्षत्रपङ्तिरियम् ॥

किमपि परिष्कुरुते तव शब्दग्रहसाधनं गगनम्14

अत्र मिषपदेन नैतानि मौक्तिकानि किंतु श्रोत्रस्याकाशात्मकतया तदीयनक्षत्राणीति गम्यते । अत्रैव कैतवापन्हुतिरिति व्यवहारः । क्वचित्सहेतुको विषयनिषेधः15

यथा–

न वयमवयवार्थस्यान्वयादन्वयामो16

मतिमिह हिमधामाभेदमुद्गाहमानाम्17

विरहिनयनमीनत्रासदाने निदानं

गगनसरसि खेलन्व्यंसकोऽयं चकास्ति18

अत्र चन्द्रे चन्द्रत्वनिषेधे आल्हादकत्वाभावो हेतुरुक्तः । क्वचिद्विषयहेतूक्तावपि विषयनिषेधः ।

यथा–

प्रकाशादाशानां तिमिरनिकुरम्बाणि तिरय-

भ्रान्त्यपह्नुति-छेकापह्नुति-निश्चयालङ्काराः।

त्यशक्यं सङ्कोचं गमयति समूहं जलरुहाम् ॥

तथापि प्रज्ञैवं हृदि सहृदयानामुदयते

विधुर्नायं किन्तु प्रणयिनि ! मुखं ते विधुरिति ॥

स्वकीयतात्पर्य्यख्यापनेन परभ्रान्तिखण्डनंभ्रान्त्यपह्नुतिः ॥१॥

यथा–

दूरीकरोति कुचयोः सिचयोपराग19-

मासञ्जयत्यवयवेषु परागयोगम्20

किं भेजिषे विषयतां मलयानिलस्य

मुग्धे ! न, किन्तु हृदयाभिमतस्य तस्य ॥

परकीयप्रमाखण्डनाय स्वतात्पर्यस्यान्यथाकरणं छेकापह्नुतिः ।२।

यथा–

आकुलयति कुचमुकुलं चुम्बति बिम्बाधरं दृशौ स्पृशति ।

दयिततमः किमधिगतो न हि सहचरि ! विभ्रमन्भ्रमरः ॥अप्रकृतनिषेधविशिष्टप्रकृतस्थापनं निश्चयः ॥ १४ ॥

यथा-

तीरे21 तरणिसुतायास्तमालविथीयमुल्लसति ।

किमिति त्वरया दूरादध्वग ! नावं गवेषयसि ॥

अत्र तमालमालायां भ्रान्त्या प्रसक्तं यमुनातादात्म्यं नि-

षिध्य वस्तुतस्तमालमालातादात्म्यस्य स्थापनम् ॥

शब्दैक्ये सत्यनेकार्थकथनं श्लेषः

॥१५॥

स च द्विधा । अभङ्गसभङ्गभेदात् ।

यथा-

पूर्वा22 हरिदपि तमसा श्यामेयमकारि जृम्भमाणेन ।

तस्यामेव कलानिधिराधास्यति रागमुद्गच्छन् ॥

अत्रैकानुपूर्वीकपदानामेव भिन्नार्थकत्वम् । द्वितीयो भिन्नानुपूर्वीकशब्दबोद्ध्यान्यार्थकः । स चाष्टधा । वर्ण-पद-लिङ्ग-भाषा-प्रकृति-प्रत्यय-विभक्ति-वचनभेदात्। वर्णश्लेषो यथा-

खञ्जनमञ्जुलनयने ! त्वया समासञ्जितो यदसौ।

तेन तदीयावयवा बाधांदधतीति साधीयः॥

अत्र असु-असिशब्दयोरसाविति सप्तम्येकवचने तुल्यम् ।

पदश्लेषो यथा-

अलकावलोकने तवसारम्भा23 मम दृगुत्सुकिता।

उपरुद्धा निकषाभवचेलेन बतान्तरा मिलता ॥

अत्रालकानाम् अलकाया वेत्यादिपदभेदः ।

लिङ्गभेदो यथा-

दधती मदनविकारं कमलानां मालिकामुपहसन्ती ।

यूनां मनो हरन्ती सुतनु ! त्वं च त्वदीयनेत्रे च ॥

श्लेष-समासोक्त्यलङ्कारौ।

भाषाश्लेषो यथा–

साहसकी सरसं तं मोहं मा गच्छ भण सुमासवहम् ।

इत्याहेत्यभिदधतीं दयिततमो मानिनीमनुनिनीषन् ॥

अत्र तं पूर्वकालीनं मद्विषयकं (रसं) मोघं व्यर्थं कस्मात्कथयसि, मा आगच्छ आगमन(प्रयोजन)स्य मत्परिरम्भादेर्दुर्लभत्वात् , भण मा शपथमिति नायिकावाक्यार्थः। साहसकी साहसयुक्ता, सरसं साभिनिवेशं, मोहं मदपराधभ्रमं मा गच्छ माप्नुहि सुमानां पुष्पाणाम् आसः क्षेपः तद्वहं तद्वत्सुकुमारं यथा स्यात्तथा भण न तु निष्ठुरमिति नायकवाक्यार्थः ।

प्रकृत्यादिचतुष्टयश्लेषो यथा-

माकन्दः24 इति षष्ठीनिषेधः । अत्र प्रत्ययश्लेषः । समायास्यतः इति षष्ठ्यन्तं मलयानिलस्य इत्यस्य विशेषणं, क्रियापदं वा । अत्र च विभक्तिश्लेषः । गाते इति गाङ् गतौ इत्यस्य एकवचने बहुवचने च तुल्यं रूपम् । अत्र वचनश्लेषः । श्रमं, खेदम्।") कुसुमं प्रधास्यति मधुप्रस्यन्दमिन्दिन्दिरः

श्रोतारः पिककूजितानि परमामार्तिंगमिष्यन्ति च ॥

प्रत्यक्षं मलयानिलस्य सुरभिस्पर्शौसमायास्यतः

सञ्चिन्त्येति मनो वियुक्तसुतनोः सख्यश्च गाते श्रमम् ॥ प्रकृतवृत्तान्तेनाप्रकृतप्रतीतिः समासोक्तिः ॥१६॥

यथा–

ऊर्ध्वीकृत्य ग्रीवां चकोरि ! किं वा दिदृक्षसे चन्द्रम् । अयथास्थानस्थापितपञ्जररुद्धं न वेत्सि स्वम् ॥

अत्र प्रकृतचकोरीव्यवहारेण क्वचिदनुरक्तायाः पराधीन-

नायिकायाः प्रतीतिः । अत्र प्रकृतेऽप्रकृतनायिकादिव्यवहार एवारोप्यत इति सर्वस्वकारादयः। नायिकात्वादिकमप्यारोप्यत इति रसगङ्गाधरादयः॥ अन्वयानुपपत्त्या सादृश्यपर्यवसानं निदर्शना । १७।

यथा–

वदनमधि विधुविधुन्तुदमृधमाधुर्य्यंदधाति वाष्पाम्बु । कज्जलमलिनितमक्ष्णोरम्बुजरोलम्बसम्बलनम् ॥

अन्यदीयधर्मस्यान्येन धारणानुपपत्त्या सादृश्यसिद्धिः ॥

क्रियया हेतुहेतुमद्भावप्रतीतिर्द्वितीया निदर्शना ।

यथा–

मुधैव विरुणद्धि योऽधिकगुणेन सार्द्धं, स तन्निरूपितपराभवं भजति भावये भामिनि ! ॥

भवद्वदनभव्यतां समभिमन्यमानो विधुः

कपोलफलके तव प्रतिफलन् पराभूयते ॥

अत्र स्वोत्कृष्टविरोधः पराभवहेतुरिति सामान्यकार्यकारणभावः पूर्वार्द्धप्रतिपाद्यः। तत्रोत्तरार्द्धं दृष्टान्तः। तत्र वदनं गुणाधिकविशेषः चन्द्रोऽपकृष्टविशेषः । कार्यमुभयत्र पराभव एव ।

प्रकृतमनुपन्यस्यतत्स्थानीयवाक्यार्थान्तरोपन्यासो ललितम् ॥१८॥

यथा–

मधुरतामवधेहि मधोरिमां मलयमारुतमाकलयाबले ! ॥

किमितिनावदधासि मुधाऽबुधे ! विधिवशान्निधिमाहितसन्निधिम् ॥

अत्रस्वयमागतं नायकं किमित्युपेक्षसे इति प्रकृतमनभिधाय तत्समजातीयस्य स्वयमुपस्थितनिधिं कस्मान्नाद्रियसे इत्यस्यो-

अप्रस्तुतप्रशंसालङ्कारः ।

पन्यासः॥

अप्रकृतवृत्तान्तेन प्रकृतप्रतीतिरप्रस्तुतप्रशंसा ॥१९॥

सा च पञ्चविधा । कार्ये प्रस्तुते कारणस्योक्तिर्यथा-

धुरि मधुरिमधराणामधीयते मधु मुधैव वैधेयाः25

बिम्बाधरं वधूनामभिदधति विशुद्धधीनिधयः ॥

अत्र नायिकामात्राऽऽसक्तौ वाच्यायां तद्धेतोरधरमाधुर्यस्याभिधानम् ।

कारणे प्रस्तुते कार्यस्योक्तिर्यथा–

जृम्भायामम्भोरुहवदनाया भवदवेक्षणभवायाम् । पुलकोदञ्चितकञ्चुकसन्धिभिराबन्धि चटचटाशब्दः ॥

अत्र सा त्वय्यत्यन्तमनुरक्तेतिवक्तव्ये तत्कार्यमुक्तम् ।

सामान्याभिधाने विशेषाभिधानं यथा—

शिञ्जानेन26 समञ्जसमिह मञ्जीरेण खञ्जनाक्षि ! कृतम् । क्षणमलिगुञ्जितविरही दुरवस्थः स्यादशोककुसुमौघः ॥

अत्र यद्व्यतिरेको यदीयविलक्षणशोभाव्यतिरेकप्रयोजक-

स्तद्रहितस्य तस्य जन्मानर्थकमिति सामान्ये भ्रमरगुञ्जिताभावेऽशोककुसुमानां शोभाराहित्यमापादितम् ।

विशेषे प्रस्तुते सामान्याभिधानं यथा–

कुसुमशरवश्यमनसो नूतनकुवलयदलद्रोहिनयनायाः।

तन्वि! विभावय दयिते नैव विरुध्यासितुं युक्तम् ॥

अत्र कामार्तायास्तव दयितानादरो न युक्त इति विशेषे वाच्ये ईदृश्या नायिकाया दयितानादरणं न युक्तमिति सामान्यमुक्तम् ।

तुल्ये वाच्ये तुल्याभिधानं यथा–

अस्माभिरेव विहितस्तव लवलि ! लवङ्गसंसर्गः ।

अधुना वेल्लितविटपा मुखमप्यस्मिन्निवर्तयसि ॥

अत्र नायकसङ्घटनोत्तरं दूतीमनाद्रियमाणायां नायिकायां तत्सदृशी लवली उक्ता।

प्रस्तुतवृत्तान्तेन प्रस्तुतप्रतीतिः प्रस्तुताङ्कुरः ॥२०॥

यथा–

लोभेन त्वद्बिम्बाधररसपीयूषपानस्य ।

संविहितचरणपातस्तं27 रागी यावकः श्रयति ॥

अत्र यावकप्रक्रमे चरणसम्बन्धानन्तरमधरसम्बन्धोक्त्या प्रस्तुतस्य प्रणामानन्तरसम्भोगार्थिनो नायकस्य वृत्तान्तप्रतीतिः।

प्रस्तुताप्रस्तुतयोः सर्वथैवाभेदप्रतीतिरतिशयोक्तिः २१॥

यथा–

विलसति परिच्छिन्नं व्योम स्तनन्धयममुष्टिना

मिहिरमिलनादव्याकोशं कुशेशयकोरकम् ।

अहनि रजनावेकाकारं सुधानिधिमण्डलं

भुवि विजयते दृश्या विद्युन्महान्तमनेहसम् ॥

अत्र नायिकाया मध्यकुचमुखतनूनां व्योमाद्युपमानवाचकपदैरेव गौणवृत्याऽभिधानम् ।

तस्यैवान्यत्वाभिधानं भेदकातिशयोक्तिः । १ ।

अतिशयोक्तिभेदाः ।

यथा–

विच्छित्तिरत्यन्तविलक्षणेयमनन्यजोज्जृम्भितमन्यदेव28

अन्यानि दृग्भङ्गतरङ्गितानि तस्या विजातीयमथोक्तिजातम् ॥

असम्बन्धे सम्बन्धकल्पनं सम्बन्धातिशयोक्तिः ।२।

यथा–

निशि भवदास्यसमुद्भवपरिमलमाजिघ्रदेकजातीयम् ।

पद्मस्मितमनुमिनुते कोककुलं केलिवापीषु ॥

अत्र चक्रवाकानां तादृशानुमित्यसम्बन्धेऽपि तादृशसम्बन्ध उक्तः। सम्बन्धेऽप्यसम्बन्धकथनं द्वितीयाऽसम्बन्धातिशयोक्तिः ।३।

यथा–

तुन्दपरिमृजमिदं ते मुखरुचिपानाच्चकोरकुलम् ।

राकायामपि चन्द्रज्योत्स्नापानाय नो यतते ॥

अत्र ज्योत्स्नास्वादनयत्नसम्बन्धेऽप्यसम्बन्ध उक्तः।कार्यकारणयोर्यौगपद्यमक्रमातिशयोक्तिः।४।

यथा—

निपतितं गजगामिनि ! मामकं

तव कलेवरवीरूधि लोचनम् ।

अपि हृदि क्षणमाप्य तदैव मे

निपतिता रतिनायकासायकाः ॥

हेतुप्रसक्तावेव कार्योत्पत्तिकथनं चपलातिशयोक्तिः ॥५॥

यथा–

गेहपतावायास्यति दयिततमे च प्रवत्स्यति गृहिण्याः ।

तनुतोदयेन तत्क्षणमनर्थबीजं समर्थितप्रायम् ॥

अत्रप्रियप्रवाससम्भावनायामेव तत्कार्यतनुत्वस्योत्पत्तेः कथनम्। कारणात्प्रागेव कार्योत्पत्तिकथनमत्यन्तातिशयोक्तिः।६।

यथा-

प्रययुर्मदीयहृदयाद्गुणा विवेकादयः प्रथमम् ।

सर्वस्वं मदनस्य न्यविशत् स्वान्तं ततश्चरमम् ॥

केन चिदापादकेन कस्य चिदापादनं सम्भावनम् ॥२२॥

यथा-

बाले ! स्युर्यदि जातुचित्सुमनसांमाला विमर्दक्षमा

बिभ्राणा यदि सौरभं सहजतः स्युर्जातरूपस्रजः ॥

चैतन्यं यदि वा कदापि बिभृयुः श्रीखण्डपाञ्चालिका-

स्तर्ह्यन्येन निरूपितं तव तनुः सादृश्यमासादयेत् ॥

कस्य चिदर्थस्य मिथ्यात्वसिद्धये मिथ्याभूतार्थान्तरोपकल्पनं मिथ्याध्यवसितिः ॥२३॥

यथा-

गगनतललक्ष्मीकमलपरिमलकमनीयतनुर्मृगाक्षि29 ! पुमान् ॥

बन्ध्यासुतं प्रति वदेत्तवावलग्नस्य सावयवभावम् ॥

उत्कर्षानुपपादनेऽप्युत्कर्षहेतुत्वकथनं प्रौढोक्तिः॥२४॥

यथा-

शशाङ्कसमवायिभिः शकलितैः कलङ्कोज्झितैः

कृते30 सुमुखि ! चत्वरे यदि सरोवरं रोहति ॥

ततो भवति पद्मिनी यदि तया समारभ्यते

हेतूल्लेखालङ्कारौ।

प्रसूनममुना समं तव मुखं तदाचक्ष्महे31

अत्र निमित्तकारणगुणानां कार्य्यगुणे तदुत्कर्षे वानुपपादकत्वेऽपि तदुपपादकत्वोक्तिः।

कार्यकारणयोरभेदाभिधानं हेतुः । २५ ।

यथा–

आकृष्टिर्हृदयस्य विस्मयप्ततेःसृष्टिर्दृशोर्बन्धनं

प्रोल्लासो मकरध्वजस्य जगतीवामभ्रुवां न्यक्कृतिः।

उद्रेकः प्रमदस्य32 विभ्रमभुवो निर्दम्भमुज्जृम्भणं

प्रत्यासत्तिरसौ रसस्य जयति त्रस्यत्कुरङ्गेक्षणा ।

हेतुहेतुमद्भाववर्णनं द्वितीयो हेतुः।१।

यथा–

प्रालेयांशोः कलायामुपहतिमतये दृश्यतावश्यतायां

मालानां कौसुमीनामपि मृदुतरताव्यत्ययप्रत्ययाय ॥

अप्रामाण्याय वाण्यास्त्रिदिवमृगदृशां रूपवत्तापराया

विस्तारायाद्भुतानामिह भुवि भुवने भाससे भामिनि ! त्वम् ॥ एकस्यानेकसमवेतभिन्नभिन्नप्रकारकज्ञानविषयत्ववर्णनमुल्लेखः ॥ २६ ॥ यथा–

सङ्केतकुञ्जभवने प्रतिसञ्चरन्ती-

मालोक्य सुभ्रु ! भवतीं गहनान्धकारे।

चाम्पेयकोरकमयी स्रगिति द्विरेफाः

सौदामिनीति कलयन्ति मुदं मयूराः ॥

अत्र ज्ञानं भ्रमरूपम् ।

प्रमारूपं यथा–

श्रोत्रेण कोकिलवधूकलकूजितेति

घ्राणेन भासुरसरोरुहसौरभेति ॥

राजीवरम्यनयने ! रसनेन ताव-

द्विज्ञायसे ननु सुधामधुराधरेति ॥

एकस्याप्येकवृत्त्यनेकप्रकारकज्ञानविषयत्ववर्णनमपर उल्लेखः ।१।

यथा–

चित्राङ्गदा33 भुजयुगे तनुसन्निवेशे

पाञ्चालिका दृशि पृषत्यसि वाचि सत्या।

रोहिण्यसि त्वमधरे विनता विनीतौ

छाया मनोभवविकारमहानिदाघे॥

साम्याभिप्रायके वाक्यद्वये एकधर्मोपादानं प्रतिवस्तूपमा ॥२७॥

यथा–

ईर्ष्याकषायितमपितेवदनमिदं मां धिनोत्येव ।

इन्दुरुदयारुणिम्नाभिन्नोऽपि मुदे चकोराणाम् ॥

अत्र धिविप्रीणने इति धातुपाठात् धिनोतीति तिङन्तेन, ‘मुदे’इत्यनेन च प्रीतिजनकत्वरूपैकधर्मोक्तिः ।

दृष्टान्त-दीपकालङ्कारौ।

तत्रैव बिम्बप्रतिबिम्बभावेन भिन्नधर्मोपादानं दृष्टान्तः॥२८॥

यथा–

भुवनेषु भवन्तु भव्यभेदा नयनासेचनकं त्वसि त्वमेव ।

कुसुमानि वहन्तु वीरुधोऽन्या नलिनी केलिविलासभूरलीनाम् ॥

अत्र नयनासेचनकत्वं केलिभूमित्वं चेति भिन्नधर्मोक्तिः । प्रकृताप्रकृतानामेकधर्मान्वयो दीपकम् ॥ २९ ॥

यथा-

अतिसौरभवल्लिभिः34पिकानां

नलिनीभिश्च कलाः शिलीमुखानाम् ।

महिलाभिरनाविला विलासा

बहुवेलं हि विलक्षणा ध्रियन्ते ॥

अत्र महिलाविलासाः प्रकृताः (कोकिलानां भ्रमराणां च कला अप्रकृताः )तेषां कर्मत्वेन ध्रियन्ते इत्येकक्रियान्वयः ।

एककारकस्यानेकक्रियान्वयः कारकदीपकम् । १ ।

यथा-

त्वामात्मीयविहारसौधसविधावस्थायिरथ्यामुख–

प्रत्यासत्तिभृता पथा विधिवशादालोक्य सञ्चारिणम् ।

तत्र प्रक्षिपतीक्षणं वितनुते पाणौकपोलस्थलीं

ध्यायत्युत्पुलकायते शिथिलतामायाति मुह्यत्यपि ॥

रूपान्तरेण पूर्वात्तस्य कारकस्य उत्तरत्रान्यरूपेणान्वयो मालादीपकम् ॥२॥ यथा–

नलिनी केलिसरस्या तयाम्बुजं तेन मकरन्दः।

तेन मरुत्तेनाङ्गं विरहिण्यास्तेन लभ्यते लाभः ॥

पूर्वं कर्मत्वेनान्विताया नलिन्या उत्तरत्र कर्तृत्वेनान्वयः।

क्रियाया द्विरभिधानमावृत्तिः (त्तिदीपकम् ) ॥३०॥

शब्दावृत्तिर्यथा–

जलदाः प्रचलाकिनां कुलानि35

स्तनितैरुन्मदयन्ति सान्द्रमन्द्रैः।

इषवोऽनिमिषध्वजस्य चामी36

हृदयान्युन्मदयन्ति हन्त यूनाम् ॥

उन्मदानि कुर्वन्ति हर्षयन्ति चेत्यर्थभेदः ।

अर्थावृत्तिर्यथा–

पिदधति करभोरु ! पुष्करान्तं37

कलय कुलानि मुदा वलाहकानाम् ।

भुवमपि तिरयन्ति सातिरेकं

मलिनतमानि तमालकाननानि ॥

उभयावृत्तिर्यथा–

विकसति कदम्बकुसुमे मधुव्रता मधु धयन्त्यधुना।

सहृदयधुर्य्या मधुरं धयन्ति बिम्बाधरं वधूनाम् ॥

प्रकृतानामप्रकृतानामेव वा एकधर्मान्वयस्तुल्ययोगिता ३१

यथा–

धाराधरे गगनसीममलीमसत्व-

सम्पादके समभिवर्षति वारिजाक्षि!।

कल्लोलिनीषु कुसुमेषु च केतकीना-

मध्यन्यहृत्सु च विभाति रजोऽभियुक्तिः ॥

तुल्ययोगिता-व्यतिरेकालङ्कारौ।

अत्र वर्षावर्णने प्रकृतानां केतकादीनां रजोरूपैकधर्मसम्बन्धः । अप्रकृतानां यथा-

अधरकरचरणवृत्तिं तरुणि ! तवोत्पश्यतामरुणिमानम् ।

हिङ्गुललोहितकमहारजनानां हीयते महिमा ॥

सपक्षविपक्षयोर्वृत्तिसामान्यमन्या तुल्ययोगिता ॥१॥

यथा–

ज्योत्स्नारसानुभूतिप्रोल्लसदङ्गाररुचिभाजः38

हिमदीधितिना विहिताः सुतनु ! चकोराश्च चक्रवाकाश्च ॥उपमानादुपमेयस्योत्कर्षवर्णनं व्यतिरेकः । ३२ ।

स च चतुर्विंशतिभेदः । शाब्दे साम्ये चत्वारो भेदाः।

उत्कर्षापकर्षहेतूक्तौ, उत्कर्षमात्रहेतूक्तौ, अपकर्षमात्रहेतूक्तौ, उभयमात्रहेत्वनुक्तौचेति । एवमार्थे साम्ये, आक्षिप्ते चेति द्वादश भेदाः । तेषां श्लिष्टत्वेद्वादशेति मिलित्वा चतुर्विंशतिभेदाः ।

तत्र शाब्दे साम्ये यथा—

त्वद्वक्रेरुचिरब्जवत्पुनरवच्छिन्नाऽनवच्छिन्नता-

भिन्ना धूमलतेव भाति कबरी भूयोऽभिरामा दृशोः।

श्रीरोष्ठस्य च पद्मरागदलवत्तत्सौकुमार्योज्झितं

किञ्चित्कालिकवक्रतां न वहति भ्रूश्चापलेखा यथा ॥

आर्थे साम्ये यथा–

दृश्यं दर्पणवत्कपोलफलकं प्रातः शुभं सर्वदा

मुक्ताभिः सदृशा लसन्ति दशना रन्ध्रानुबन्धत्यजः ॥

कुम्भेनापि पयोधरावुपमितावन्तः स शून्यः परं

रम्भास्तम्भवदूरुयुग्ममहिमैकाश्लोषयोग्यं तु तत् ॥

आक्षिप्ते साम्ये यथा–

नाभिः सुभ्रु! सरःसनाभिरसकौमन्द्रा सदा जातु त-

द्रोमालिर्यमुनामसूयितवती नो वक्रतामञ्चति ।

मध्यं व्योमविरोधि दृश्यपदवींतज्जातु नोद्गाहते

पाणिः पल्लवमभ्यसूयति परं राजीवसंयोगभाक् ॥

एतत्क्रमेणैव द्वादश श्लिष्टभेदाः । यथा–

राजीवे इव ते पदे विसदृशी ते दृश्यभूते इमे मृद्व्यस्त्वङ्गुलयोऽतिलोहितमणिज्योतिःशलाका इव ।

तिस्रोऽमूर्वलयोऽपि वीचय इव प्रायेण ते नीचगाः

श्रीरुच्चैर्बिसवद्रुचिर्नियमतो दोष्प्रोचनोष्प्रोदये ॥(?)

कण्ठः कम्बुसमोविहाय हृदयं तस्यास्यसङ्गृह्यगो-(?)

र्नासेयं तिलपुष्पवद्वहति नो मालिन्यमस्याःफलम् ।

भालं चेन्दुदलोपमं भवति तदृश्यं तु पक्षान्तरे

दृक्कञ्जप्रतिमा शिलीमुखततेस्तादात्म्यमस्यां पुनः ॥

व्याहारा विहसन्ति कोकिलकलान्ध्वन्यात्मवर्णा ध्वनीन्

कौमुद्या मदहृत्स्मितं बहुलमप्यासाद्य विद्योतते ।

दृग्भङ्गी जलजस्रजां विजयिनी साकूतभावत्यजां

माधुर्य्येविरुणद्धि सुन्दरि ! सुधां दृष्ट्या प्रपेया तनुः ॥

अभिधातुमिष्टस्यापि विशेषलाभार्थोनिषेध आक्षेपः ३३॥

स द्विविधः । वक्ष्यमाणविषय उक्तविषयश्चेति । आद्योयथा-

कुमुदामिन्दति माद्यति कौमुदी

वहति गन्धवहो मलयोद्भवः ।

किमथवाभिहितैः क्रियते हितैः

सहृदयैरहितग्रहिले जने ॥

आक्षेपालङ्कारभेदाः ।

अत्रैतादृशसमये मानं मुञ्चेति अभिधित्सितमेव प्रतिषिद्धम् । तथाचावश्यं मानस्त्याज्य इति व्यङ्ग्यम् । द्वितीयो यथा-

मनो मैवं कार्षीरतिपरुषितं मानिनि ! रुषा

दृशौ मैवं नैषीरपि कलुषतामश्रुपृषतैः ॥

करेण स्प्राक्षीर्मा मृदिततिलकं गण्डफलकं

कृतं वा संवादैः सुहृदभिहितानीहितहृदाम्39

अत्रोक्त्वापि तत्प्रतिषेधः कृतः40

उपमेयेनोपमानवैयर्थ्योक्तिरन्य41 आक्षेपः ॥१॥

यथा-

वैफल्याकलिता बलाहककला तावत्कलापे स्थिते

केशानां सति ते मुखे कुमुदिनीकान्ते वृथैक्यं ततः ॥

व्याहारेषु पिकाङ्गनाकलकलः कोलाहलः केवलं

पानाच्चेन्मदकृत्कलेवरलता हालापि हालाहलम् ॥

अर्थान्तरतात्पर्यको निषेधोऽपर आक्षेपः ॥२॥

यथा-

कृतोत्साहां किञ्चिद्विषयकविजिज्ञापयिषया

तदीयामालिं मा गुणविधिनिषेधात्स्म जगणः ॥भवत्साक्षात्काराधिकरणमुपक्रम्य समयं

धियां धारा तस्यां विषयमपरं नो विषहते ॥

अत्र तत्सखीत्वेन ज्ञायमानायास्तत्सखीत्वेन ज्ञाननिषेधो

बाधितः सन् नाहं तत्पक्षपाततया ब्रवीमीत्यर्थे पर्यवसन्नः।

निषेधफलको विधिराक्षेपान्तरम् ॥३॥

यथा-

ऋजुहृदयया मया तव मृष्यन्त्या तावदपराधान् ॥

दृष्टान्तः स्वयमेव स्वहस्तितस्तत्सजातीये ॥

अत्र पूर्ववदन्यानप्यपराधानहं सहिष्ये अतो मत्प्रातिकूल्यंयथेष्टं क्रियतामिति विधिः स्पष्टः । अद्यपर्यन्तं सहनेऽप्यतः परं न सहिष्ये तस्मादपराधं मा कार्षीरिति तात्पर्य्यम् ॥

विना हेतुं कार्योत्पत्तिर्विभावना ॥ ३४ ॥

सा च द्विविधा । उक्तनिमित्ताऽनुक्तनिमित्ता च । आद्यायथा-

नो तावन्मलयानिलेन तरलायन्ते लवङ्गीलता

माकन्दे मुकुलाकुले कलकलं कुर्वन्ति नो कोकिलाः॥

नो वा चम्पकसम्पदा वनभुवः सम्पन्नशम्पान्वया42

जातं प्रोषितभर्तृकाजनमनश्चैतन्यमन्यादृशम् ॥

अत्र वसन्तानाविर्भावेऽपि विरहिणीनां मनोविकार उक्तः।

विरहरूपं तन्निमित्तं च प्रोषितपदेनोपात्तम् । द्वितीया यथा-

अतिरोधतिरोहिता दृशोः श्री-

रविभक्तावयवं कृशं शरीरम् ॥

अपरागपराहतौ प्रियायाः

प्रतिभातः परिपाण्डुरौ कपोलौ।

अत्र विरहहेत्वनुक्तिः ।

हेतुसत्वेऽपि कार्यानुक्तिर्विशेषोक्तिः॥ ३५ ॥

यथा–

व्याहारानवहेलयस्यपि वयस्यानां वयस्याग्रहा-43

यथासंख्यार्थान्तरन्यासालङ्कारौ ।

न्नोगृह्णासि गिरः प्रियस्य कियतीर्निर्मायमायस्यतः ॥

एते चेतसि केतकीसुमनसामामोदतो मेदुरा

उन्मादं पवना अपीह न मनाक्तन्वन्ति तन्वङ्गि! ते ॥

अत्र प्रस्तुतहेतुसत्वेऽपि तदनुत्पत्तिः ।

निर्देशक्रमेण पदार्थान्वयो यथासङ्ख्यम् ॥ ३६ ॥

यथा-

युवत्वे बालत्वेऽप्युपजिगमिषानिर्जिगमिषे

स्तने मध्ये वास्या महिमतनिमानौ निवसतः॥

गिरि श्रोणीभागेऽपि च मधुरभारातिगुरुते

दृशोर्भङ्गेचेतस्यपि कुटिलताविभ्रभरौ ॥

सामान्यविशेषाभ्यां विशेषसामान्यसमर्थनमर्थान्तरन्यासः ॥३७॥

प्रत्येकं द्विधा । साधर्म्यवैधर्म्यभेदात् । आद्यंसाधर्म्येण यथा-

ओजायते यथेन्दुर्ग्लायति तस्यास्तथा वदनम् ॥

न खलु विपक्षसमृद्धौ परितोषंयान्त्यपि विपत्स्थाः44

तदेव वैधर्म्येण यथा-

यौवनविहितविमर्दनमपि बालत्वं45कुरङ्गनयनायाः ।

बालेष्वेवावर्त्ततचिराय साधारणे दुरासम् ॥

अत्र तुरीयचरणस्य विपर्ययः - स्वासाधारणविषये चिरं स्थातुं शक्यम् इति तेन पूर्वसमाधानम् ।

द्वितीयं साधर्म्येण यथा,

महतामुपसङ्ग्रहेण दोषा

अपि सम्बिभ्रति भूरिभव्यभावम् ।

कुचसीमनि मत्तकाशिनीनां

कठिनत्वं कलयन्ति कौतुकाय॥

तदेव वैधर्म्येण यथा-

अधरे तव माधुरीनिधाने

हृदयं तस्य सदैव सानुबन्धम् ।

विषयेषु निसर्गसुन्दरेषु

प्रवणत्वं न नवीनमिन्द्रियाणाम् ॥

अत्रोत्तरार्द्धस्य विपर्यय इन्द्रियाणां विषयाभिमुख्यं स्वाभाविकमिति तेन पूर्वसमाधानम् ।

विशेषसमर्थकस्य सामान्यस्य विशेषान्तरेण समर्थनं विकस्वरः ॥ ३८॥

यथा–

जातच्छायतया कपोलभुवि ते वाच्छन्मुखस्य श्रियं कर्णालम्बितकेतकक्रकचभाक् शीतद्युतिर्भिद्यते ।

आकाङ्क्षाकिल बाधितेऽपि विषये भाति प्रयासैकभू-

र्बालस्येव सुधाकरस्य समुपादित्सा मुहुः पाणिना ॥

आपाताद्विरोधमानं विरोधाभासः ॥ ३९॥

स दशविधः । जातेः जातिगुणक्रियाद्रव्यैः, गुणस्य गुणक्रियाद्रव्यैः, क्रियायाः क्रियाद्रव्याभ्यां, द्रव्यस्य द्रव्येणेति ।

यथा-

कर्पूरं वन्हिरुष्णो मरुदपि तपनं चन्दनं क्ष्वेड इन्दुः

सा श्यामा पाण्डुरुच्छुष्यति सजलमुखं मन्मथोऽप्यप्रमेयः ।

स्वभावोक्ति-व्यानस्तुती।

चेतः शून्यायते चोल्लिखति च किमपि प्रेक्ष्यसे सर्वतस्त्वं

वैदेही सापि जाता विरहकपटतो रावणेनोपरुद्धा॥

अत्र कर्पूरं वह्निरिति जात्योर्विरोधः। मरुदुष्ण इति जातिगुणयोः। चन्दनं तपनमिति जातिक्रिययोः। इन्दुर्विषमिति जातिद्रव्ययोः। एककाले चन्द्रव्यक्तिभेदाभावेनचन्द्रत्वस्यात्र जातित्वेनाभिमतत्वात् । एवमग्रेऽपि बोध्यम् । श्यामा पाण्डुरिति गुणयोः । अश्रुजलसंयोगवन्मुखं शुष्यतीति गुणक्रिययोः।त्वं46 सर्वत्र दृश्यस इति क्रियाद्रव्ययोः । सापि वैदेहीतिद्रव्ययोरिति विवेकः । अपिशब्दत्वे शाब्दो विरोधः तदभावे त्वार्थ इति सिद्धान्तः।

रम्यस्वभाववर्णनं स्वभावोक्तिः॥४०॥

यथा-

उद्वेल्लद्भुजवल्लरीव्यतिकरप्रोक्षिप्तकूर्पासक-

प्रत्यन्तावरणव्युदासविशदीभूतार्द्धवक्षोरुहम् । दूरादायतरोमवल्लिविततस्कन्धोन्नमत्कन्धरं

किञ्चित्कोरकितेक्षणं विनयते रम्भोरु ! ते जृम्भणम् ॥स्तुतिनिन्दातात्पर्यकनिन्दास्तुत्यभिधानं व्याजस्तुतिः॥४१॥

यथा-

प्रेयसः प्रणयभूरहमेवेत्याकलय्य वरगात्रि ! न दृप्येः । कान्तसौहृदमनन्तरमस्ति त्वद्विपक्षयुवतीनिवहेऽपि ॥

अत्र त्वस्मिन्प्रणये विषयत्वेऽपि सपत्नीजनं प्रति तत् न बध्नातीत्यतो निर्दोषासीति स्तुतिपर्यवसानम् ।

सोढा व्रणा यदधरे च पयोधरे च

दौर्बल्यमभ्युपगतं च तनूलतायाम् ।

दूति ! त्वया सुविहितं सुहृदोऽनुरूपं

सिद्धौ विधेयविषयस्य विधिः प्रमाणम् ॥

अत्र निन्दायाम्47

अन्यनिन्दया अन्यनिन्दाभिव्यक्तिर्व्याजनिन्दा ॥४२॥

यथा-

त्वं तावदाचर जनेषु वियोगभाजा-

मात्मोचितानि मलयानिल ! चापलानि ।

वाच्यः स एव तु परं भगवानगस्त्यो

यो वृद्धिसम्मुखमरुन्ध मुधैव विन्ध्यम्॥

अत्रागस्त्यस्य निन्दया मलयानिलस्य निन्दा ।

उभयोश्चमत्कार्येकधर्मान्वयः सहोक्तिः ॥४३॥

यथा-

क्षीयन्ते सह निःसहैरवयवैस्तत्पूर्वपूर्वक्षणाः

प्राणात्याहितशङ्कयापि समुपागच्छन्ति हन्तोत्तराः।

सन्तस्तेऽपि निरन्तरायरुदितश्वासैः सहैवासते

त्वद्दत्तावधिवासरे व्यवधिना स्तोकेन युक्ते सति ॥

किञ्चिद्विना कस्यचिदप्राशस्त्यप्राशस्त्यान्यतराभिधानं विनोक्तिः**॥४४॥**यथा-

भवद्विषयतां विना सुमुखि ! ते मृषा चाक्षुषं-

विना तव वचःसुधामपि मुधा श्रवस्सम्भवः । त्वदीयपरिरम्भणानुभवमाधुरीमन्तरा

विनोक्ति-परिवृत्ति-काव्यलिङ्गानि ।

कलापिकलकाकली कलयते न कौतूहलम् ॥

तुहिनरहितेव नलिनी विकल्पजालैरनाकुलेव सती ।

हृदयदयितस्य विरहं विहाय रम्या वरारोहा ॥ नित्यसम्बन्धानामसम्बन्धवचनमन्या48 विनोक्तिः॥१॥

यथा–

बिभ्रद्भासामभावं स्फुरति हिमरूचिर्दृश्यमाने त्वदास्ये

बिम्बोष्ठे स्वाद्यमानेमधुरिमविधुरा बुध्यते सा सुधापि ।

एवं तावद्भवत्या अनघमवयवे मार्दवं संविभाव्य

प्रव्यक्तं सौकुमार्य्यातिशयविरहवद्भाति मन्दारदाम49

किञ्चिदत्त्वा कस्यचिदुपादानं परिवृत्तिः ॥४५॥

यथा-

प्रदाय नवयौवनं कुसुमधन्वना तावकं

मृगाङ्कमुखि ! मानसं सदृशमात्मसान्निर्मितम् ।

मदीयहृदयं त्वया समुपगृह्य मह्यं पुनः

प्रसह्य जडतातनुक्षितिरुंजः प्रसादीकृताः॥

पूर्वत्र सदृशयोर्विनिमय उत्तरत्रासदृशयोः ।

भूतभाविविशेषप्रत्यक्षं भाविकम् ॥ ४६॥

यथा-

त्वां पश्यन्नवतीर्णांविहारवापीविभागमगात् ।

पूर्वापरकालीनालङ्कृतिशोभां विभावयाम्येव ॥

हेतूक्तिः काव्यलिङ्गम् ॥४७॥

यथा–

दृष्ट्वा बलाहकगलद्बलवज्जलौघै-

रन्तर्हितानि सहसा सरसीरुहाणि।

नेत्रारविन्दयुगलं पथिकाङ्गनाया

वाष्पैः पयोधरपिधानमिवातनोति ॥

अत्रोत्तरार्द्धाभिधेयं प्रति पूर्वार्द्धंहेतुरवान्तरवाक्यार्थतयोक्तः। स्वतन्त्रवाक्यार्थत्वेन यथा–

तत्तद्व्यक्तितया निवेदनमनैश्वर्य्यादसम्भावितं

सन्देशार्थकमेकदेशकथनं ब्रूयादियत्तामिव ।

सामान्यानुगमोऽपि पर्यवसितोयत्किञ्चिदादाय त-

त्किंप्राणप्रियविप्रयोगरुजतां लेखे लिखेयं सखि ! ॥

अत्र विरहव्यथानिवेदनानुपपत्तौ वाक्यत्रयेण हेतूपन्यासः ।

वाच्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम् ॥४८॥

यथा-

सन्तप्तं त्वददर्शनेन हृदयं शेते स्वतापोर्मिषु

त्यक्तं त्वत्परिचुम्बनैरपि कराम्भोजे कपोलद्वयम् । त्वद्विश्लेषविशेषशोषविवशं वक्षोजकुम्भद्वयं विस्वस्तालकजालशैवललतामालम्बतेसुभ्रुवः ॥

अत्र विरहे तत्कार्यस्यावश्याभिधेयत्वादुक्तरीत्या विरहावस्थाभिधानम् ।

व्याजेनेष्टसाधनं द्वितीयं पर्यायोक्तम् ॥१॥

यथा-

पुरस्तादालीनां कृतपरिकरा मानकलहेऽ-

प्यमत्वा निर्वाहं प्रियतमपुरस्सूक्तिसुधया ।

समुद्दिश्य प्राणप्रणयितममुत्तंसकमणिं

तथाऽसावत्याक्षीत्प्रणिपतति दीपोपरि यथा ॥

अत्र सम्भोगप्रतिबन्धकसखीनिस्सारणार्थं दीपनिर्वापणे-

अनुकूलोदात्तात्युक्तयः।

न सम्भोगरूपेष्टसाधनम् ।

आनुकूल्यपर्य्यवसायिप्रातिकूल्यमनुकूलम् ॥४९॥

यथा-

किञ्चित्तिर्यगवेक्षणे सहजतो नीतेऽन्यथासिद्धतां

कर्णोत्तंसकुशेशये प्रणिहिते मूर्ध्नाधृते सादरम् ।

तात्पर्ये सति पर्यवस्यति विधौ नेत्यान्तिकानां गिरां

सा मानाद्व्यधित स्वयंभुजलताबन्धं प्रसादोचितम् ॥ वस्तुनोऽतिशयविशेषकथनमुदात्तम् ॥ ५० ॥

यथा-

लीलापूर्वकमिन्द्रनीलनिलयादभ्रंलिहाद्बिभ्रमा-

न्निर्यान्तीं जलदोदरादिव नवां सौदामिनीं कामिनीम् ।

पश्यन्तीभिरदभ्रमभ्रसमये दत्तावधीनां प्रियै–

रालीभिः सुदृशामभूयत भृशायस्यन्मनोवृत्तिभिः ॥

महतामङ्गत्वकथनं50 द्वितीयमुदात्तम् ॥१॥

यथा-

कालिन्दीयं51 सहचरि ! तमालनीलायमानतीरान्ता।

कैवर्तककन्यायां पराशरो यत्र रतिमापत् ॥

अद्भुतशौर्यादिवर्णनमत्युक्तिः ॥५१॥

यथा-

आकाशं स्मरशासितुः कलयता कामेन कायान्तरं यन्नक्षत्रमयप्रसूनविशिखैर्विष्वक्समाविध्यत।

तस्यैते पतयालवोऽप्यवयवा धाराधराणां छला-

न्निःश्वासानिलरंहसा विरहिणां मन्येऽन्तराले धृताः॥

एकहेतुत्वेऽपि हेत्वन्तरोक्तिः समुच्चयः ॥ ५२ ॥

यथा-

पूर्वं चाक्षुषमेव तद्विषयकं चेतोऽपहारक्षमं

तद्वृत्तेरथ चाक्षुषस्य विषयीभावस्य वा का कथा । वैलक्षण्यमपाङ्गभङ्गविषयं तत्रापि मन्दस्मितं

किं वाच्यं गमनक्षणे विवलितग्रीवं पुनर्वीक्षणम् ॥

गुणक्रियायौगपद्यमपरः समुच्चयः52 ॥ १॥

यथा-

हरिति लोहितता तडितां गुणै-

र्मलिनता च विहायसि वारिदैः।

विशदता विपिनेषु च केतकैः

प्रवसतां हृदि चोत्सुकताऽभवत् ॥

श्रवणाभिमुखं परिप्लवत्वं

गतवानेष च तावको दृगन्तः ।

मदनोऽपि शरासनं व्यकर्ष-

द्विशिखाश्चानशिरे मनो मदीयम् ॥

व्याहरन्ति सहसा सहकारा-

नोकहेषु परपुष्टसमूहाः।

बिभ्रते च मलिनत्वमिदानी-

पर्यायानुमानालङ्कारौ।

मध्वनीनवनिताहृदयानि ॥

एकस्यानेकर्त्रानेकस्यैकत्र वा क्रमेण वृत्तिःपर्य्यायद्वम् ॥ ५३॥

आद्योयथा-

कुचयोर्द्वयेऽर्द्धचन्द्रस्पर्शिनि53 वैमुख्यमर्हमेतस्याः ।

चित्रं प्रतियुवतीनां तद्व्यतिरेकेऽपि यत्तदभूत् ॥

अत्र वैमुख्यस्य कुचवृत्तेस्तदुत्तरं सपत्नीषु वृत्तिः ।

द्वितीयो यथा-

अपहाय54 कुटिलमीक्षणमृजुकविलोकेन सूचयसि मानम् ।

ऋजुकुटिलत्वमतन्त्रं प्राहास्वरसं तु विकृतिरेव ॥

अत्रैकस्यामेव नायिकायां पूर्वं कुटिलस्य पश्चात्सरलस्य दर्शनस्य वृत्तिः।

व्याप्येन व्यापकज्ञानमनुमानम् ॥ ५४॥

यथा-

अन्योन्याभिमतार्थकोविदतया स्वान्तात्मनोरेकक-

व्यापारव्यभिचारहानिनियतेःप्राणेन्द्रियाणामपि ।

अन्योन्यप्रतियोगिकस्य विरहे भेदस्य संसाधिते

साधीयो युवयोर्वियोगधिषणा भ्रान्तित्वमालम्बते ॥

अत्रेमौ भिन्नाविति भ्रमः भेदाभाववति भेदप्रकारकत्वा-

दितिहेतुविशेषणसिद्ध्यर्थं चेमौ भेदाभाववन्तौ सर्वदा समान-

विषयज्ञानादिमत्वादित्यनुमितिः । द्वयोरपि कल्पितव्याप्तिमूल- ’ कत्वादलङ्कारकत्वम् ।

चमत्कारिसाक्षात्कारः प्रत्यक्षम् ॥ ५५॥

यथा-

पीयूषद्युतिमणिशालभञ्जिका वा

किं प्रेयोविरहितमत्तकाशिनीति ।

सन्देहेऽभ्युदयति निश्चिकाय शोषा-

द्वारीणां स्तनकमले निपातुकानाम् ॥

अत्र वारिशोषेण तापकत्वमनुमाय ततो विरहित्वव्याप्यतापकत्वज्ञानरूपविशेषदर्शनसत्वेनेयं विरहिणीति प्रत्यक्षम् ।

अतिदेशवाक्यार्थजन्यं ज्ञानमुपमितिः ॥५६॥

यथा-

लीलावने कुसुमितेषु महीरुहेषु

तं सिन्दुवारतरुमिन्दुमुखि ! प्रतीहि ॥

स्वच्छन्दसेवितमनोभवकेलिखेद-

स्वेदानुबिन्दुसदृशाः स्तबका यदीयाः ॥

अत्र स्वेदबिन्दुमुकुलवान् सिन्दुवार इत्यतिदेशवाक्यार्थज्ञानादयं सिन्दुवारपदवाच्य इत्युपमितिः।

आप्तवाक्यं शब्दः ॥ ५७॥

यथा -

रोहिण्याः55 सुत उल्मुकमजनयदिति तावदाप्तवचः ।

अर्थापत्यनुपलब्ध्यैतिह्यालङ्काराः ।

तद्दयितादेव पुनस्तज्जनिरध्यक्षसंसिद्धा ॥

पपाद्येनोपपादककल्पनमर्थापत्तिः ॥५८ ॥

यथा–

अस्मत्सख्यङ्कपालीविरहसहकृतां पीवरोत्तुङ्गनारी-

वक्षोजाश्लेषमुद्रां दधदतिविशदां वक्षसा लक्ष्यसे त्वम् ।

आश्चर्य्यंपर्यवस्यत्यपि नियतमसद्दम्भमम्भोरुहाक्ष्याः

सम्भोगे यत्परस्याः शठ ! शपथशतैः श्राम्यसीत्यप्यसम्यक् ॥

अत्र तस्याङ्गनासम्भुक्तत्वं विनानुपपद्यमानम् एतत्सम्भो-

गरहितत्वे सति सम्भोगचिन्हत्वमन्याङ्गनासम्भोगमाक्षिपति ।

प्रतियोगिभिन्नायां प्रतियोगिप्रत्यक्षसामग्र्यांसत्यां प्रतियोगिनोऽप्रत्यक्षमनुपलब्धिः ॥५९॥

यथा-

परितो निपुणं निरूपयन्त्या

सहचर्य्यासह सुभ्रुवा निकुञ्जम् ।

अनिरीक्षणतः प्रियस्य तस्मि-

न्विरहं तस्य विभाव्य हा व्यषादि ॥

सम्भवो यथा- ॥ ६०॥

त्वद्वक्षोरुहयुगले विभाति शोभा

माणिक्याभरणभुवां भरेण भासाम् ।

भूभृत्त्वेसति शिखरस्य सम्प्रयोगः

पीयूषद्युतिमुखि ! सम्भवं बिभर्ति॥

अदृष्टवक्तृकः प्रवाद एवैतिह्यम् ॥ ६१ ॥

यथा-

स्फुरदलकत्वं युक्तं रोहणवृक्षस्य रोहिणीशमुखि !।

वैश्रवणस्य निवासो वृद्धैरभिधीयते यदयम् ॥

साभिप्रायविशेषणत्वं परिकरः ॥६२॥

यथा-

उपनिबन्ध्यतयाधिकमन्थरा

विधुरतां दधतो विधुतावधिम् ।

निरवकाशितपैशुनशासनाः

सहृदयप्रणयाः सखि ! दुर्लभाः॥

विशेष्यस्यसाभिप्रायकत्वं परिकराङ्कुरः ॥ ६३॥

यथा-

कण्टकभरेण भवतीमावृणुते कुसुमसायकोऽप्येताम् । अधरकुचस्मितपल्लवगुलुच्छकुसुमा हि वीरुदसि ॥

अत्र कुसुमसायकेतिविशेष्यसमर्पकपदं साकूतम् । कुसुमार्थिनि लतारक्षणस्यावश्यकत्वलाभात् ।

रहस्यप्रकाशप्रतिबन्धकवाक्यं व्याजोक्तिः॥६४॥

यथा-

कुचाभोगं भृङ्गाः कमलमुकुलत्वाकलनया

दशन्त्येते दन्तच्छदमपि शुकाः बिम्बरभसात् ।

विना मां प्रत्यग्रं कुसुमितमिदानीमुपवनं

प्रयाता स्वीयानां फलमविनयानामनुभव ॥

तादृशी56 क्रिया युक्तिः ॥ ६५ ॥

सा यथा-

सध्रीची दयितस्य सन्निधिमसम्बाधेन गत्वाऽध्वना

मार्गप्रस्मृतिकैतवेन रहसि स्थित्वा यथामानसम् ।

उद्यत्केतककण्टकाकुलतया प्राप्यव्रणेनाध्वना

पिधान-सूक्ष्म-गूढोक्तयः।

मार्गप्रस्मृतिकैतवेन कुशला दूती परावर्तते ॥

ज्ञातपररहस्यप्रकाशनं पिधानम् ॥ ६६ ॥

यथा-

पाणिना स्वमधरंपिदधानं

वीक्ष्य वल्लभतमं हरिणाक्षी।

तत्कपोलतलवर्तिगृहीत्वा

केतकीदलमबीजयदेनम् ॥

प्रतिभया ज्ञातस्यार्थस्यान्यानवगम्यप्रकारेण प्रकाशनं सूक्ष्मम् ॥ ६७ ॥

यथा-

कामुके किमपि केलिकन्दुकं

पाणिना स्पृशति भावपूर्वकम् ।

अन्तरा निजमुरोरुहद्वयं

कामिनी न्यधित मौक्तिकावलिम् ॥

स्वभावेनाध्यवसिते कन्दुके करन्यासेन सम्भोगसमयं

जिज्ञासमाने यूनि चक्रवाकाध्यवसिते स्तनद्वये मुक्तावलिदानेन चक्रवाकविच्छेदाधिकरणसमयस्तथेति विदग्धयुवत्या व्यञ्जितम्। अन्यतात्पर्य्येणान्यं प्रति कथनं गुच्छोक्तिः57॥६८॥

यथा-

कीचकवृन्दं सहचरि ! भीमेन ज्वलनतेजसा दग्धम् ॥

येनाकारि विहाराकाङ्क्षा निभृतैव कान्तायाः58

अत्र सख्याः सख्यन्तरं प्रति विराटपर्वकथोक्तिः । उप-

नायकं प्रति सङ्केतस्थानस्य विघटितत्वादन्यत्स्थलमन्विष्यतामिति व्यङ्गयम् ।

गुप्तार्थस्य कविना स्फुटीकरणं विवृतोक्तिः॥६९॥

यथा-

आरामातिशयेक्षणप्रकरणे नीतेन साक्षाक्रिया-

मेकामप्यतिसौरभेण तरुणोत्तंसेनतस्या भुवः ।

मूर्द्ध्नःसीमनि मञ्जरीं कलयता मन्दानिलावेल्लितां

चेतो मे हृतमित्युदाहृतवती साकूतमालीं वधूः॥

अत्र व्यङ्ग्योऽप्युपनायकदर्शनरूपोऽर्थः साकूतमिति कविना वाच्यप्रायतां नीतः।

लोकप्रवादानुकारो लोकोक्तिः ॥ ७० ॥

यथा-

आपातप्रणयातिमात्रहृतयानालोचयन्त्या पतिं

चित्तं न्यासि यया मया त्वयि शठे साहं विहेयाधुना ।

को वा पर्यनुयुज्यते वद परः किं वा त्वदावेदितै-

र्नेत्रे विध्यति यो हि तस्य पुरतोऽकिञ्चित्करं रोदनम् ॥

अर्थान्तरगर्भालोकोक्तिरेव छेकोक्तिः ॥७१ ॥

यथा-

सहचरि ! शरत्कालीनेयं वतायतकौमुदी

हृदयनियमो रत्याः पत्या प्रसह्य न सह्यते ।

तदभिसरणं तस्यैवास्मिन्ननेहसि युज्यते

कथय कलमाः केनोप्यन्ते निहत्य मृगानिह ॥

अत्र तुर्यपादे लोकोक्तिः। मृगशब्दस्यान्वेषकव्यञ्जकतया पिशुनानादरो व्यङ्ग्यः।

वक्रोक्तिरलङ्कारः।

श्लेषण59 यथा-

अब्दोऽभ्यागमनावधिः सुतनु ! मे संयोगविश्लेषयो-

र्नैयत्याद्वचसां कुतः प्रियतम ! प्रस्ताव एतादृशाम् ।

स्थैर्यं60 नन्वित एव निश्चितमुरीकार्यं मृगाक्षि ! त्वया

निघ्नत्वे मदनस्य सत्यसति वा प्राणेश ! तद्व्याहतम् ॥

अत्र वर्षोत्तरमागन्तव्यमिति नायकतात्पर्य्यम् । नायिकया तु

अब्दपदस्य मेघार्थकत्वम् अवधिपदस्यापादानार्थकत्वं च विवक्षित्वा

मेघादागत इति तदर्थं कल्पयित्वा विभागस्य संयोगपूर्वकत्वान्मेघसंयोगाभावेतव तस्मादागमनमनुपपन्नमित्युक्तम् । नायिकया स्थैर्यपदेन नायकाभिमतं द्वितीयक्षणनाशाभावरूपं च स्थैर्य्यमभिप्रेत्य मदनपारतन्त्र्येसति विश्लेषदुःखमावश्यकम्

तदभावे तु सौगतत्वापत्त्यास्थैर्य्यस्वीकरणमनुपपन्नम् तस्य क्षणभङ्गवादित्वादित्युक्तम् ।

किञ्चिदंशत्यागेन यथा-

व्रतापलापमादत्ते तत्क्षतित्रासवाञ्जनः ।

प्रियैवमेव वच्मि त्वां सर्वाद्यव्यञ्जनं विना ॥

स्वक्रोधचिह्नं गोपयन्त्यां प्रियायां पूर्वार्द्धेनायकस्योक्तिः ।

तदपरं61 रतापलापं त्वमेव करोषीत्यर्थकतया तयोक्तम् ।

काक्वायथा-

परपुष्टगिरः प्रमाणनीया दयितोक्तीरवमत्य किं त्वयैवम् ।

इदमेव वचः सखि ! स्वकीयं मम सन्देशतया नयापि तस्मै ॥

प्रियानुनयेन मानमपरित्यजन्त्या पिकशब्देन तत्परित्यागो नार्हइति सखीवाक्यार्थः । स्वप्रियाया अन्यनायिकाया उक्तीरनादृत्य परस्यां तद्भिन्नायां मयि पुष्टा दाक्षिण्यमात्रेण प्रयुक्तागिरःकिं त्वया प्रमाणनीया अपि तु नैवेति नायिकातात्पर्यम्।

नाम्नामवयवार्थान्तरकल्पनं निरुक्तिः ॥ ७३ ॥

यथा-

वृक्षावतंस ! सहकार ! वसन्तलक्ष्मी-

सर्वस्व ! दुष्प्रसह ! भामतिलङ्घ्यसौरीम् ।

यद्भासि चक्षुषि जनस्य वियोगभाज-

स्तेनातिसौरभ इति स्फुटसंज्ञकोऽसि ॥

सूर्यस्येयं सौरी सौरी चासौ भा च सौरभा तामतिक्रान्तोऽतिसौरभः ततोऽपि(प्रचण्ड इति) यावत् । इदं पदभङ्गेनोदाहरणम् । अतिशयितं सौरभं यस्येति तदर्थप्रसिद्धेः।

अभङ्गेन यथा-

असमाः शरा रतिपतेर्वैलक्षण्याच्छरान्तरापेक्षात् ।

सङ्ख्यावैषम्यादिति पुनरनुभूत्या विसम्वादि ॥

असमाः शरा यस्येत्यसमशरः इति कामनामधेयम् । तत्रासमत्वं पश्चसङ्ख्यत्वं पीडाविशेषानुपपादकत्वेन दूषयित्वा शरान्तरापेक्षयाधिकदुःखजनकत्वरूपमसमत्वं व्यवस्थापितम् । अन्यार्थाभिप्रायो निषेधो निषेधः ॥ ७४ ॥

यथा-

न बिभीहि ममोपकण्ठमेतुं

न च जिह्रीहि विभाव्य पूर्ववृत्तम् ।

निषेध-विध्यसम्भव-परिसङ्ख्यालङ्काराः।

दयिता तव सा भवत्यहं किं

भवताहं निकृतास्मि सास्मि किं वा ॥

अल्पेऽपराधे परकीयया तिरस्कृतं नायकं प्रति स्वकीयोक्तिः । तस्यां स्वभेदस्य स्वस्मिंस्तद्भेदस्य च सत्वात्तद्वचनमनुपयुक्तं सत् तस्यां तदपराधासहिष्णुत्वं62च व्यञ्जयति ।

तादृशं विधानं विधिः ॥ ७५ ॥

यथा-

कान्ताकुचाकलितकुङ्कुमसङ्करेण

वक्षोऽनुरञ्जितमिदं विषहे समक्षम् ।

चित्रं तथापि पिदधासि निजापराधं

किं वा विधेयमथवा मम वल्लभोऽसि ॥

अत्र वल्लभे वल्लभत्वविधानं ममानन्यगतिकत्वान्मिथ्याभूतमपि त्वदुक्तं मन्तव्यमेवेत्यत्र पर्य्यवसन्नम् ।

कार्यस्य कुतश्चिदसम्भवाभिधानमसम्भवः ॥ ७६ ॥

व्यापारा हितहेतवः सहचरीव्यूहेहिता हेलिता

यस्यार्थे न समर्थितानि वचनान्यायस्यतः प्रेयसः ।

को नामाकलयेदयं दृढतरारूढिंसमारूढिवा-

न्मानः कोकिलकूजितैः कलकलाकारैर्निकारिष्यते ॥

इतरनिषेधफलकं वचनं परिसङ्ख्या ॥ ७७ ॥

(इतरनिषेधो वाच्यो व्यङ्ग्यश्च । वाच्यो)

यथा-

वर्षासु रजोयोगः सरित्सु निर्भाति न हरित्सु ।

सुन्दरि सचन्द्रकमिदं केकिकुलं नान्तरिक्षतलम्63

व्यङ्ग्यो यथा-

अङ्गुलीष्वहृदयाक्षरमुद्राचापलं घनमिदं प्रतिभाति ।

तीक्ष्णता कररुहस्य शिखायां मत्तकाशिनि ! विभाति भवत्याः ॥

उत्तरकारणोक्तिः64 कारणमाला ॥ ७८ ॥

यथा-

तारुण्याद्भवति मदो मदात्परेषामाभाति प्रतिपदमप्रयोजकत्वम् । एतस्मात्तदवमतिस्तयेतरेषां विद्वेषः सुतनु ! ततो निजापकर्षः ॥

परस्परोपकारकथनमन्योन्यम् ॥७९ ॥

यथा–

यौवनेन तनुवीरुद्भुता यौवनं च तनुवीरुधा तव ।

भासते मधुमवाप्य माधवी रोचते मधुरुपेत्य माधवीम् ॥

उत्तरे एव प्रश्नोन्नयनमुत्तरम् ॥८०॥

यथा-

आरज्यत्तपनीयगौरवपुषां प्रेयोवियोगानलो-

त्तप्तानामवलोकिनो मृगदृशामुद्योतचन्द्रद्विषाम्65

दावोपद्रवशङ्कया परिहृतारण्यप्रयाणोद्यमा

यद्व्याधाः सखि ! भाग्यजृम्भितमिदं पल्लीभुवां सुभ्रुवाम् ॥

अत्र66 व्याधीं प्रति कस्यचिदुपनायकस्यार्थे तव पतिर्वनं गतो न वेति सख्याः प्रश्नोऽवगम्यते ।

सति प्रश्नेऽसकृदपूर्वोत्तरकथनमप्युत्तरम् ॥ १ ॥

यथा-

कश्चन्द्रो वरतनु ! तावकीनमास्यं

किं बिम्बं सुतनु ! रदच्छदं त्वदीयम् ।

तद्गुणानुगुणपूर्वरूपालङ्काराः ।

का वीणा प्रणयिनि ! कण्ठकन्दली ते

को मेरुः कमलमुखि ! स्तनस्तवायम् ॥

वस्त्वन्तरगुणनिमित्तकः स्वगुणत्यागस्तद्गुणः ॥ ८१॥

यथा-

भवनं तपनीयमयं चम्पकमयमखिलमपि कुसुमम् । कुङ्कुममयमनुलेपनमाभाति भवत्प्रभाभारैः ॥

अत्र विजातीयवर्णानां देहप्रभासम्बन्धः।

तादृशः स्वगुणातिशयोऽनुगुणः ॥ ८२ ॥

यथा-

खञ्जननयने ! पुञ्जीभवदञ्जनमञ्जुलैरधुना ।

मालिन्यमाकलयति द्वैगुण्यं गगनगामि जीमूतैः ॥

अत्राकाशवृत्तेर्मालिन्यस्य मेघयोगादुत्कर्षः।

पुनः स्वगुणप्राप्तिस्तादृश्येव पूर्वरूपम् ॥ ८३ ॥

यथा-

त्वत्पाणिपल्लवरुचा वरगात्रि ! मुक्ता-

दामापि लोहितपदं प्रतिपद्य सार्थम् ।

सद्यः समागमवशात्स्मितकौमुदीनां

दीनायते न किमपि स्वगुणोदयस्य ॥

अत्र करकान्त्या प्राप्तारुण्यस्यस्मितप्रभया श्वैत्यापत्तिः ।

अवस्थाभेदेऽपि पूर्वावस्थासाम्यमन्यत्पूर्वरूपम् ॥१॥

यथा-

अग्निशिखावृतदेहा सदैव सा नयनमुद्रयाकुलिता।

अयि याति त्वद्विरहापत्तावपि पान्थ ! पूर्वदशाम्67

अत्र श्लेषवशादवस्थाद्वयैकरूप्यम् ।

अन्यगुणापसङ्क्रमो68ऽतद्गुणः ॥ ८४ ॥

यथा-

मृगमदचन्दनकुङ्कुमपङ्कैरपि सङ्करापन्ना।

वरतनु ! तवतनुवीरुत्काञ्चनपाञ्चालिकैवेयम्॥

अत्र विजातीयवर्णानुलेपनयोगेऽपि देहस्य स्वगुणतादवस्थ्यम् । गुणसाम्याद्भेदानवभासो मीलितम् ॥ ८५ ॥

यथा-

भावितमपि भवदीये तापिततपनीयकमनीये।

काश्मीरपङ्कलेपं कलेवरे नावकलयामः ॥

हेत्वन्तरेण भेदप्रतीतिरुन्मीलितम् ॥८६॥

यथा-

रदनच्छदभाभराभिभूतस्तरुणि ! व्यक्तमलक्तकद्रवोऽयम् । दशनद्युतिभिर्निवदेनीयः सरसं केसरसन्निवेशभाग्भिः ॥ विजातीयव्यक्तितादात्म्यप्रत्ययः सामान्यम् ॥८७॥

यथा-

चाम्पेयमालिकोरसि तव तनुभासैवलम्भिताभिभवम् ॥

मिलितापि मीलितेयं मिलिन्दमालेन्द्रनीलगुलिकाभिः ॥

हेत्वन्तरेण69 तत्प्रमा विशेषकम् ॥ ८८ ॥

यथा-

कङ्केल्लिकिशलयोपरि पिहितं तव पाणिमरुणिम्ना । सरणरणकङ्कणगणोद्गुणच्छणत्करणमेव विगणयति ॥ कारणान्तरसमवधानात्कार्यसौकर्य्यंसमाधिः ॥८९ ॥

यथा-

प्रहर्षण-विषादनाधिकालङ्काराः।

पयोधरपिधानतां गमितयोररालभ्रुवो

भजामि भुजंवीरुधोरपनयाय यावत्स्पृहाम् ॥

कुशेशयतया धियं कलयता कुलेनालिनां

व्यधीयत तदानने किमपि तावदास्कन्दनम् ॥

इष्टादधिकलाभः प्रहर्षणम् ॥९०॥

यथा-

सुतनुमनुसमाजमाजिहानामहमगमं समहं दिदृक्षमाणः70 । जनसमुदयनोदनादशङ्कं स्वयमनया भुजपञ्जरेण बद्धः ॥

विरुद्धप्राप्तिर्विषादनम् ॥९१॥

यथा-

आयाति वल्लभतमेऽभिमुखं मृगाक्षी

यावन्निभालयति सस्मितमास्यमस्य ।

तावद्विपक्षरमणीवदनारविन्द-

दत्तां ददर्श नवयावकरागमुद्राम् ॥

आधाराधेययोरेव परस्पराधिक्यमधिकम् ॥ ९२॥

यथा-

कौमुद्यामुद्यतायां विशदयितुमिदं दिक्कदम्बं पदानि

न्यस्यन्त्याः केलिकुञ्जाभिमुखमभिमतासादने सादरायाः ।

अद्वैतापन्नपुष्पायुधविविधसमुल्लासपुण्यास्तरुण्याः

धारावाहिस्पृहाया मुद उदयभृतो मानसे नैव मान्ति ॥

अत्राऽऽधेयस्याधिक्यम् ।

विरोधिपक्षापकारः प्रत्यनीकम् ॥ ९३ ॥

यथा-

अधिवासरमात्मनोऽभिभूतिंमिहिरेणोपहितामिवासहित्वा।

विजितं जलजं प्रिये ! त्वदीयाननतादात्म्यवता सुधाकरेण ॥

सूक्ष्मादप्याधारादाधेयस्य सूक्ष्मत्वकथनमल्पम् ॥९४॥

यथा-

बालाया दिनयौवनाभिसरणेऽवश्यायबिन्दूपमा

याः स्वेदोदकविप्रुषः समभवन्वक्षोजयोरन्तरे।

ता एव प्रियदर्शनोल्लसितयोर्मध्ये तयोः सङ्कटा-

दुत्सृज्य स्वदशांविशन्ति नलिनीनालोल्लसत्सूत्रवत् ॥

अत्र स्वभावपीवरयोः स्तनयोरन्तरस्य सूक्ष्मतया तदन्त-

र्वर्तिस्वेदकणानां सूक्ष्मत्वे तदपेक्षयापि स्तनान्तरसूक्ष्मत्वं स्तनोल्लासवशादुक्तं तेन स्वेदकणानां सूक्ष्मतमत्वसिद्धिः ।

पूर्वपूर्वविशेषणानामुत्तरोत्तरं विशेष्यत्वोक्तिरेकावली ९५

यथा -

सम्प्ररूढनवयौवनमङ्गं यौवनं जनितचित्तविकारम् ।

चञ्चलीकृतदृशोऽपि विकारा मानसं च गमयन्ति दृशोऽस्याः॥

चमत्कारिस्मृतिः स्मरणम् ॥९६॥

यथा–

श्रमवारिपृषन्निषिक्तगण्डस्थलमालम्बितचूर्णकुन्तलास्यम् । पुरुषायितमायतेक्षणायाः श्वसितेन स्फुरिताधरं स्मरामि॥

रम्यभ्रमो भ्रान्तिमान् ॥९७॥

यथा-

दृक्पाते स्वकुलस्य मन्दहसिते किञ्जल्कराजेर्भ्रमा-

दप्रामाण्यमधुच्युतिश्रवणतो गन्धोपलब्धेरपि ।

प्रतीपविशेषालङ्कारौ।

पद्मत्वप्रतिपत्तिमाकलयता भृङ्गेण जैवातृक-

भ्रातृश्रीमुखि ! शेमुषी तव मुखं पातुं समाधीयते ॥

उपमानतिरस्कारः प्रतीपम् ॥९८॥

स च त्रिविधः । उपमेयेनोपमानस्यानर्थक्यं, तस्योपमेयत्वकथनम्, उपमेयत्वस्यापि प्रतिषेधश्च । क्रमेणोदाहरणानि ।

वाणी चेच्छ्रवणे कृतार्थयति तद्राक्षारसः क्षारव-71

न्निर्बन्धोऽपि मुधैव गन्धफलिकां प्रत्यङ्गमस्या यदि ।72

वक्रंचेदवलोक्यते तदफलोदर्कादिदृक्षा विधो-

र्वक्षोजौ यदि तर्हि गर्हिततमा मेरोरवाप्तिस्पृहा ॥

रमणीयपदार्थसार्थपूर्णं भुवनं भावनया विभाव्य तस्याः । वदनप्रतियोगिकोपमाया अनुरूपं शशिनं निरूपयामः ॥

विवेकवैकल्यमनेकशाखं कल्याणि ! पर्याकलनीयमेषाम् ।

मुखेन पीयुषमयूखमब्जं दृशा रतिं ये तुलयन्ति तन्वा ॥

आधारं73 विनापि वृत्तिर्विशेषः ॥ ९९ ॥

यथा-

स्नेहस्य संवरणगोचरता रसावि-

र्भावोऽनिरुद्धविषयः सुरताभिलाषः ।

अप्यन्तरेण तपतींजनकात्मजां वा

बाणोद्भवामपि वसन्ति नवाङ्गनायाम् ॥

एकस्य युगपदनेकत्र वृत्तिरपरो विशेषः ॥१॥

मानसे विरमसे न कदाचिल्लक्षसे नयनयोरनुलग्ना ।

व्याहृतिं न विजहासि मुहूर्तं भाससे वपुषि सुभ्रु ! निषण्णा ॥

एककार्य्येणानेककार्य्यसिद्धिरन्यो विशेषः ॥२॥

यथा-

लावण्येन विलक्षणेन चरितैःसाध्व्या असाधारणैः

कान्त्यां केनचिदद्भुतेन भवतीमातन्वता वेधसा ।

नीता लोचनगोचरं भुवि सतां पुष्पायुधप्रेयसी

वैदेही विहितान्यदेहसहिता विद्युत्कृता स्थायिनी ॥

उत्तरोत्तरोत्कर्षः सारः॥ १००॥

यथा-

सारं जन्तुषु मानुषं वपुरिदं तत्रेन्द्रियाणीन्द्रिय-

ग्रामेऽमी विषयास्त्वमेषु सुमुखि ! त्वय्युद्धतं यौवनम् ।

लावण्यातिशयोऽत्र तत्र मदनस्तस्मिन्विलासोदय-

स्तस्मिन्नुन्नमितभ्रुवः स्मितभृतः साकूतदृग्भङ्गयः ॥कार्यकारणयोर्भिन्नदेशत्वमसङ्गतिः ॥ १०१॥

यथा-

त्वं श्यामा74 ज्वलति त्वयं मयि शशी रम्भोपमौ तावका-

असङ्गति-लेशालङ्कारौ।

वूरू जाड्यसमन्वयो मयि घनश्रीस्त्वं दृशोरम्बु मे।

कुम्भत्वं बिभृतस्तवोरसिरुहौ शून्यान्तरत्वं तु मे

पाणौ ते तरुणि ! स्फुरत्यरुणता तापो मयीत्यद्भुतम् ॥75

अन्यत्र चिकीर्षितस्यान्यत्रकरणमपराऽसङ्गतिः ॥१॥

यथा-

सहावलेहं76 स्पृहयन्वयस्ते स्मरः सपत्नीजनमेवमाधात् ।

त्वदीक्षणस्य श्रवणाभिमुख्यमिच्छन्व्यधत्त स्वधनुर्गुणस्य ॥कार्यान्तरप्रकृतस्य तद्विरुद्धकार्यकरणमन्यासङ्गतिः॥२॥

यथा–

नवीनवरवर्णिनीवदनचन्द्रमोमण्डले

विधातुमभिवाञ्छता किमपि नेत्रसंयोजनम् ।

निरूपय कुतूहलं प्रियतमेन नेत्रं मुखा-77

द्व्यधीयत विदूरगं करकुशेशयेन स्वयम् ॥

दोषगुणयोर्गुणर्दोषत्वकल्पनं लेशः॥१०२॥

यथा-

राजीवभ्रमभृति सुभ्रु! भृङ्गपूगे त्वद्वक्रंरुजति कृतः प्रदीपभङ्गः। विज्ञायाशयमपरं ययुर्वयस्याः सम्पन्नं रह इह दोषवैभवेन ॥

अत्र भ्रमराणां सखीनां च भ्रान्त्या एकान्तसम्पत्याभ्रा-

न्तेर्दोषभूताया अपि गुणत्वेनाभिधानम् । (गुणस्य दोषत्वेनाभिधानं)

यथा–

केतक्यो जनयन्ति ते दृशि रजोराजीभिरुच्चै रुजं

व्याधूता मरुता लताः किसलयैराघातमातन्वते।

सङ्केतस्थलमप्यतिव्यवहितं तुर्यांशशेषा निशा

सोऽयं ते जघनस्तनस्य78 गुरुणो गौराङ्गि ! बोध्यो गुणः ॥

अत्र जघनस्तनगौरवस्य वस्तुतो गुणस्यापि शीघ्रगमनप्रतिकूलत्वाद्दोषत्वेनोक्तिः। अन्यगुणदोषाभ्यामन्यदोषगुणकथनमुल्लासः ॥१०३॥

यथा–

यत्तव स्तनसरोजगुलुच्छे सङ्गतोऽपि वरवर्णिनि ! हारः।

भाति रागरहितः प्रतिवेलं तत्तदीयमहहाऽहृदयत्वम् ॥

श्वश्रूरश्रूद्गमनजननी यातरो जातरोषाः

प्राचुर्य्येण प्रतियुवतयो रन्ध्रबद्धावधानाः ।

दूरावस्थे हृदयदयिते सर्वमेतन्मृगाक्ष्याः

शीलं साक्षादनुगुणतया यामिकप्रायमासीत् ॥ अन्यगुणदोषयोरप्रयोजकत्वकथनमवज्ञा ॥१०४॥

यथा–

अनया विहिते प्रियावमाने परितुष्यन्तु विपक्षसारसाक्ष्यः। गुणगौरवयोगयोग्यगर्वानुगुणं स्यादियतैव किं विधेयम् ॥

प्रतिसुभ्रुवामदभ्रा भवन्तु निःश्वासमातरिश्वानः।

स्वगुणानुरूपमनया दयिततमो नमयितव्य एवायम् ॥ गुणविशेषानुषङ्गाद्दोषस्य प्रार्थनमनुज्ञा ॥ १०५ ॥

समविषमालङ्कारौ।

यथा-

मा विरम षट्पद ! दश रदनच्छदमिन्दुवदनायाः। सरभससीत्कृतकरधुतिनयनविकाराः किमन्यथा प्रेक्ष्याः॥

सम्बन्धानुरूप्यं79 समः ॥१०६ ॥

यथा-

कामनीयकमनन्यसमानं बिभ्रतोर्गुणगणानगणेयान् ।

सङ्गमेन सदृशेन विधिर्वा नूनमप्रतिहतप्रतिपत्तिः ॥

अत्र सतोर्योगः।

यथा वा-

हृदयाद्बहिर्निहितयोवैर्मुख्यभृतोर्नितान्तनिष्ठुरयोः । स्तनमौक्तिकदाम्नोरयमनुरूपो भवति सम्बन्धः ॥

असत्वमारोपितं न तु वास्तवमित्यन्यदेतत् ।

अयोग्यसम्बन्धो विषमः ॥ १०७ ॥

यथा-

केयं नितान्तसुकुमारशरीरवीरु-

द्भीरुर्धवप्रहितवारिरुहासहिष्णुः।

झञ्झानिलाभिहतवैद्युतहेतिदीप्त-

धारासु वारिदनिशासु च कोऽभिसारः॥

अत्रद्वाभ्यां किम्पदाभ्यां तन्नायिकाव्यक्तेःतादृशाभिसारस्य च सम्बन्धानौचित्यं द्योत्यम् ॥

इष्टप्राप्त्यभावविशिष्टानिष्टप्राप्तिरपरो80 विषमः॥१॥

इष्टप्राप्त्यभावमात्रं यथा-

बाले ! विलासालयजालरन्ध्रकृतप्रवेशान्विधुरश्मिदण्डान् ।

मृणालबुद्ध्या दशतो मरालकुलस्य दृश्यो विफलप्रयासः ॥

अनिष्टप्राप्तिमात्रं यथा-

श्रवणकोकनदं स्पृहयन्नयं तव कपोलतले निपतत्यलिः।

न चलितुं बत पिण्डितकुङ्कुमद्रवनिबद्धपदः पदमप्यलम् ॥

उभयं यथा-

विभ्रष्टं भूमिभागेऽभिसरणरभसादायताक्ष्याः सरस्या-

स्तीरे मञ्जीरमारादरुणमणिमयं भासमानं प्रभाभिः।

चुम्बन्तश्चक्रवाका दिवसकरसमारम्भकालीनभास्व81

द्बिम्बभ्रान्त्या भजन्ते रुजमतिरभसाद्भावयन्तोऽभिघातम् ॥

कार्यकारणयोर्गुणक्रियान्यतरविरोधेऽन्यो विषमः ॥२॥

यथा-

तामरसकुसुमकिसलयचन्द्रमसां हिततमास्तवावयवाः।

तेषु त्वं समवेता शिशिरे शिशिरेतरस्पर्शा॥

वरवर्णिनि ! बाहुवल्लरीयं भवदीया भवतीह कण्टकारिः ।

जनितं परिरम्भणं तया मे मदनाजिह्मगकण्टकं हिनस्ति ॥

उपादेयस्यापि कुतश्चिद्दोषात्तिरस्कारः….॥१०८॥

यथा-

प्रियान्यव्यावृत्तिः परिजनभयं स्वस्य विभुता

गुणा भासन्तेऽमी सखि ! यदपि माने बहुविधाः ।

व्याघात-विचित्र-संसृष्टयः ।

तथापि प्रारब्धप्रणयपरिपाटीषु विषया-

न्तराणां सञ्चारोऽनुपममपकर्षंध्वनयति॥

अत्र स्वोत्कर्षोपपादकस्यापि मानस्य प्रणयव्यवधायकत्वा-

दनादरणीयत्वम् ।

कार्यान्तरहेतोस्तद्विरुद्धकार्ये जनकत्वं व्याघातः॥१०९॥

यथा-

प्रेयोमनीषितनिराकरणप्रयत्नोबिम्बाधरस्फुरणमीक्षणवक्रभावः ।

अन्यत्र रागविहतेरनुमापकानि तानि त्वयि प्रणयितामनुमापयन्ति॥

अत्र रागाभावानुमापकत्वेन प्रसिद्धानां रागानुमापकत्वम् ।

इष्टार्थविरुद्धे प्रयत्नो विचित्रम् ॥ ११० ॥

यथा-

विरोधिनीनां वरवर्णिनीनामपेक्षया स्वातिशयं विधातुम् ।

चित्रं कुरङ्गाक्षि ! गणं गुणानामनारतं स्वापचयं तनोषि ॥

अत्र स्वोत्कृष्टिमिच्छन्त्या गुणस्य स्वस्यापचयकरणं गुणा-

पचयस्य स्वापकर्षहेतुत्वात् अविच्छेदेन स्वापचयो वृद्धिर्यस्येत्यविरोधः।

परस्परमनपेक्षमाणानामलङ्काराणामेकवाक्यवृत्तित्वं संसृष्टिः ॥१११॥

यथा-

इयमिन्दुमुखी गुणं विपक्षप्रतिलोमं दधती तिलोत्तमायाः ।

स्वतनुप्रभया दिगन्तगानां तिमिराणामचिरान्निरासहेतुः॥

अत्रेन्दुमुखीत्युपमा, तिलोत्तमाया गुणं दधतीति निदर्शना,

‘उत्तरार्द्धेऽसम्बन्धे सम्बन्धरूपातिशयोक्तिः, एतेषां परस्परनिरपेक्षत्वात्संसृष्टिः।

अलङ्कारस्यालङ्कारान्तरसापेक्षत्वेऽङ्गाङ्गिभावः सङ्करः ११२

यथा-

केशकलापः प्रकरं समुद्गिरन् कुन्दमुकुलानाम् ।

प्रियपरिरम्भानन्दाद्भातितरां वाष्पविप्रुषइवोज्झन् ॥

अत्र तृतीयचरणोक्तकाव्यलिङ्गमुपजीव्य कुन्दमुकुलेषु

वाष्पवर्षबिन्दूत्प्रेक्षासिद्धिः।

साधकबाधकप्रमाणाभावादन्यतरालङ्कारनिणर्याभावे सन्देहरूपः सङ्करो द्वितीयः ॥ ११३ ॥

यथा-

भ्राम्यन्तीभिरनन्तरं मधुकरश्रेणीभिरम्भोरुहं

रम्भोरुप्रणयात्प्रियेण(सहसा) हस्तेन संमार्ज्यते ।

तत्सम्बन्धभृतां परस्परविभागाय प्रयासस्पृशां

पत्राणामवलोकनेन विगतप्राया निशा ज्ञायताम् ॥

अत्र किं मानत्यागो विधीयतामित्यर्थस्य रात्रिर्गतेतिभङ्ग्यन्तरेणाभिधानात्पर्यायोक्तम्, किं वा मधुकराम्भोरुहपदाभ्यामलकमुखप्रतीतेरतिशयोक्तिः, किं वाऽप्रस्तुतेन कमलमार्जनेन प्रस्तुतस्य मुखमार्जनस्यावगमात्प्रस्तुताङ्कुर इति सन्देहः । शब्दार्थालङ्करणयोरेकपदवृत्तित्वं तृतीयः सङ्करः॥११४॥

यथा-

सविलासमावलितलोलतारका नवयौवनोदयविकारघूर्णिताः ।

हृदयं न कस्य मदयन्ति भङ्गयो घनसारसारसदृशां दृशां तव ॥

अत्र तुर्यचरणे उपमानुप्रासौ । वर्णसाम्यमनुप्रासः।

रसस्य पराङ्गत्वे रसवदलङ्कारः ॥ ११५ ॥

यथा

प्रेय ऊर्जस्विनौ।

प्रत्येकावयवसमूहसन्निवेशे माधुर्य्येवयसि विभूषणे विलासे ।

शोभायामपि तव तन्वि! यन्निदानं जानीमस्तदितरदन्यजन्यहेतोः82

अत्राद्भुतरसः शृङ्गारस्याङ्गम् ।

भावस्य पराङ्गत्वे प्रेयोनामालङ्कारः॥ ११६ ॥

यथा-

उन्नीताः प्रगुणा गुणाश्चरणयोः प्रह्वीकृतो वल्लभो

विध्वस्तश्च विपक्षयौवतमदः सौभाग्यमुद्भावितम् ।

अस्मिन्याति कुहूरुतां कुहुरुतैः काले सकोलाहलं

निर्बन्धादनिबन्धनाद्विरम तद्दीर्घानुबन्धादितः॥

अत्र सखीनिष्ठनायिकाविषयकभावः शृङ्गारस्याङ्गम् ।

रसाभासभावाभासयोः पराङ्गत्वे ऊर्ज्जस्वी॥११७॥

यथा–

भजत्याविर्भावं मलिनिमनि सीमासु हरितां

गुलुच्छावस्थानं कुवलयकलापे कलयति।

मनः केलीकुञ्जेनयनमिदमीयेऽध्वनि तनु-

र्गृहाचारे सज्जत्यभिसृतिपटूनां विधुमुखि ! ॥

अत्राभिसारिकानिष्ठरसाभासो नायकनिष्ठशृङ्गारस्य ।

दूति ! त्वं कृतिनी मम प्रियतमप्रेक्षोत्सवानन्वभू-

र्विश्रम्भादित आशु भास्वति तपत्यास्वादयन्त्यातपम् ।

स्वेदस्य व्यजनानिलैरवयवालस्यस्य संवाहनैः

साकूतं करपल्लवेन रजसांकुर्यां तवापक्रियाम् ॥

अत्र नायकं सम्भुज्यागतायां वैरिण्यां दूत्यां नायिकारति-

र्भावाभासरूपा नायिकानिष्ठनायकविषयशृङ्गारस्य ।

भावशान्तेःपराङ्गत्वं समाहितम् ॥११८॥

यथा-

स्मारंस्मारमतिक्रमान् प्रणयिनः कृत्वाऽऽलिभिः सम्मतिं

यो मध्येहृदयं कुशेशयदृशां संवासितो वासरम् । विश्लेषाकुलचक्रवातरुणीकूजासमाकर्णनैः

सायं कुण्डलनेव83तस्य विहिता मानस्य हारच्छलात् ॥

अत्र क्रोधशान्तिः शृङ्गारस्य ।

भावोदयभावसन्धिभावशबलत्वानां पराङ्गत्वेतन्नामान एव त्रयोऽलङ्काराः शास्त्रकारैः संज्ञान्तरानुक्तेः११९॥

यथा–

प्रियश्रोत्रोपान्तात्किशलयमशोकस्य कुतुक-

ग्रहाद्यज्जग्राह प्रथममनुरागाङ्कुरमिव ।

तदेव प्रोन्मीलन्नवरदपदं गण्डफलकं

विलोक्य व्यत्याक्षीन्मदनदहनाजिह्मगमिव ॥84

अत्र क्रोधोदयः पराङ्गम् ।

इच्छन्त्या85 हृदयप्रियं प्रियसखीसम्प्रेरणात्प्रस्थिति-

मन्दाक्षातिशयात्ततो विमुखतामासादयन्त्या पुनः ॥

उत्कम्पो हृदि चम्पकीयमुकुलोत्तंसःप्रतिच्छायया

भात्यात्मेव चिरादनिर्णयवशाद्दोलायमानो मुहुः ॥

औत्सुक्यलज्जयोः सन्धिः पराङ्गम् ।

भावोदय-भावसन्धि-भावशबलोदाहरणानि।

लावण्यं त्रिजगद्विलक्षणमिदं चेतस्त्वमेधि स्थिरं

संवादि स्पृहया विधेर्विलसितं दौर्जन्यमन्यादृशम् ।

स्यामस्या86 नयनत्रिभागविषयो नन्वेतदेवाधिकं

दुर्बोधाः परबुद्धयो भगवते पुष्पायुधायोन्नमः ॥

अत्र विस्मयमतिहर्षशङ्कौत्सुक्यधृतिदैन्यासूयानां

शबलत्वं गौरीविषयकशिवनिष्ठशृङ्गारस्याङ्गमिति शिवम् । पुरातनानप्यधुनातनांश्च महानिबन्धानवधार्य्यसम्यक् ।

अयं कृतोऽलङ्करणप्रदीपो विद्वत्स्यमानैर्बहुमाननीयः॥

श्रीमन्महीमहिततत्तदसीमधीम-

न्मूर्द्धन्यताकलनसङ्गतधन्यताकः।

लक्ष्मीधरो यमुदसूतमुदं प्रसूतां

विश्वेश्वरस्य कृतिरस्य चिरस्य लोके ॥

इति पण्डितवरविश्वेश्वरकृतोऽलङ्कारप्रदीपः समाप्तः ॥

हरिदाससंस्कृतग्रन्थमालासमाख्या

काशीसंस्कृतसीरीज।

अस्यां काशी-संस्कृतग्रन्थमालायां बिभागशः प्रकाशिता भवति । एतस्यां प्राचीनाः नवीनाश्च दुर्लभाः सुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृतपाठशालीयैः पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण समुद्रिता भवन्ति । अस्यां प्रकाश्यमाणानां ग्रन्थानां मूल्यं सूचीपत्रे प्रकाशितं वर्तते । परं तु एतस्या नियमेनाऽविच्छिन्नतया निश्चितग्राहकमहाशयानां प्रतिमुद्राशतकं पञ्चविंशतिमुद्राः ( कमिशन) परावर्तिता भवेयुः मार्गव्ययश्च न पृथक् दातव्यो भवेत् ।

तत्र मुद्रित ग्रन्थनामानि ।
रु. आ. पा.

१ नलपाकःनलविरचितः । संपूर्णः (पाकशास्रम् १)… १-८-०

२ संक्षेपशारीरकम् । रामतीर्थस्वामिकृता-

ऽन्बयार्थबोधिनीटीकासहितम्। (वेदान्तः १) १०-०-०

३ वैशेषिकदर्शनम् । सटीक-प्रशस्तपादभा-

ष्योपस्काराभ्यां समन्वितम् । (वैशेषिक १) … ३-८-०

४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधराद्याचार्य

कृतभाष्यत्रयेण टिप्पण्या च समलङ्कृतम् ( वैदिक १) … ०-६-०

५ लघुशब्देन्दुशेखरः सटीकः तत्पुरुष-

समासादारभ्य कृदन्तान्तः (व्याकरण १) … १०-०-०

६ कारिकावली मुक्ता० दिन० राम०

शब्दखण्डसहिता तथा “गुणनिरूपण”

दिनकरीय महामहोपाध्याय पं० लक्ष्मण-

शास्त्रीव्याख्या सहिता । (न्याय १) …. १०-०-०

७ पञ्चीकरणम् । वार्तिकाभरणालङ्कृत वार्तिकटीकया-तत्त्व

चन्द्रिका समवेत विवरणेन च समन्वितम् । (वेदान्त २)०-८-०

८ अलङ्कारप्रदीपः पण्डितवर विश्वेश्वर

पाण्डेयनिर्मितः। (काव्य १)… …. ०-८-०

पत्रादिप्रेषणस्थानम्-

हरिदासगुप्ता एण्ड सन्स,

मालिक, चौखम्बा संस्कृत सीरीज आफीस,

विद्याविलासप्रेस गोपालमंदिरलेन

बनारससिटी।

]


  1. “अर्थम् अर्थालङ्कारम्। शब्दालङ्काराणां यमकानुप्रासादीनामन्यत्र विस्तरतो निरूपितत्त्वादर्थालङ्काराणामेव विशदीकरणे यत्नः।” ↩︎

  2. “उपचारः सादृश्यलक्षणा।” ↩︎

  3. “उपमानोपमेयोभवानुगतत्वम् ।” ↩︎

  4. “अत्र उपमेयवृत्तिधर्मस्य बिम्बता उपमानवृत्तिधर्मस्य च प्रतिविम्बतेत्यालङ्कारिकसम्प्रदायः।” ↩︎

  5. “प्रतियोगिभेदेन एकस्यैव धर्मस्य द्विरुपादानं वस्तुप्रतिवस्तुभावः। स च शुद्धो न सम्भवति किन्तु विम्बप्रतिबिम्बभावे विशेषणतया विशेष्यतया वा। प्रकृते च एक एव धर्मः श्यामलमलिनपदाभ्यां विशेष्यतया निर्दिष्टः । केचित् ‘विमलं वदनं तस्या निष्कलङ्कमृगाङ्कति’ इत्यादौशुद्धोऽपि वस्तुप्रतिवस्तुभावः सम्भवति. वैमल्यनिष्कलङ्कत्वयोर्भेदाभावेन बिम्बप्रतिबिम्बभावाभावात् इत्याहुः ॥” ↩︎

  6. “अत्र प्रयोगाभावरूपो लोपो विवक्षितो न तु सर्वथाऽभावरूपः अन्यथोपमाया एवानिष्पत्तेः । स च क्वचिच्छास्त्रकृतः क्वचिच्च कवयित्रिच्छाकृत इति बोध्यम् ।” ↩︎

  7. “वाक्य-समासगतत्वेन द्विविधा श्रौती,वाक्य-समास-तद्धितगतत्वेन त्रिविधा आर्थी इतिमिलित्वा धर्मलोपे पञ्चविधा लुप्तोपमा ।” ↩︎

  8. “संवननं वशीकरणम् वशक्रिया संवननम् इत्यमरात् ।” ↩︎

  9. “तदासेचनेकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् । इत्यमरः ।” ↩︎

  10. “विशेषेण सामान्यसमर्थनरूपार्थान्तरन्यासभेदेन नास्य गतार्थता, यथेवदृष्टान्तादिशब्दघटितत्वादस्य तद्रहितत्वाच्चार्थान्तरन्यासस्य।इवशब्दघटितस्थले उपमया गतार्थत्वशङ्कापि न कार्या,लक्षणयेवादेः सामान्यविशेषात्मकवाक्यार्थयोरवयवावयविभावपरत्वेन उपमाप्रयोजकसादृश्यासमुल्लासात् । इवादिरहितस्थले आर्थेनानेनैवोपपत्तौनार्थान्तरन्यास आश्रयणीय इति न वक्तव्यम् । द्वयोर्वैलक्षण्यस्य जागरूकत्वात् । तथाहि- यत्र विशेषवाक्यार्थेन सामान्यवाक्यार्थः समर्थ्यतेतत्र द्वयी गतिर्भवति । अनुवाद्यांशे विशेषत्वं विधेयांशस्तु सामान्यगत इत्येका,उभयांशेऽपि विशेषत्वमित्यन्या । तत्र पूर्वा उदाहरणालङ्कारस्य विषयः । अन्या अर्थान्तरन्यासस्य इत्यादि रसगङ्गाधरे उदाहरणालङ्कारप्रकरणे अर्थान्तरन्यासप्रकरणे च प्रतिपादितम् ।” ↩︎

  11. “इच्छावहाः, ऐच्छिकाः शब्दोपात्ता इतियावत् ॥” ↩︎

  12. “सुमनसामनेहसा, वसन्तेन ।” ↩︎

  13. “लक्षं शरव्ये सङ्ख्यायामिति विश्वः । अब्जं कमलं तद्वत्सुकुमारत्वात् । पक्षे शतकोटिसङ्ख्या । परार्धंश्रेष्ठम् । पक्षे सङ्ख्यान्तरानपकृष्टसङ्ख्याविशेषः।” ↩︎

  14. “शब्दसाक्षात्कारहेतुभूतमाकाशं श्रोत्रेन्द्रियमितियावत् । कर्णशष्कुल्यवच्छिन्ननभस एव श्रोत्रत्वात्।” ↩︎

  15. “यस्मिन् विषयिणि धर्मिणि यो विषयो धर्मस्तस्य निषेधः । अयमेव कुबलयानन्दे हेत्वपह्नुतित्वेनोक्तः।” ↩︎

  16. “अन्वयाम इति अनुदात्तेत्त्वप्रयुक्तात्मनेपदानित्यत्वश्रयणेन अय गतौ इत्यस्य, इट किट कटी इत्यत्र प्रश्लिष्टस्य ईधातोर्वाऽनुपूर्वस्य रूपमिति ध्येयम्।” ↩︎

  17. “हिमधामाभेदम् हिमाभिन्नंधाम यस्य स तदभेदम् ।” ↩︎

  18. “व्यंसको धूर्तः।” ↩︎

  19. “सिचयस्य वस्त्रस्य उपरागं सम्बन्धम् ।” ↩︎

  20. “परागः धूलिः सुरतश्रमशान्तिनिमित्तककर्पूरादिचूर्णेच ॥” ↩︎

  21. “अत्र कालिन्दीतीरलग्नतमालमालायां कालिन्दीभ्रात्या नावं गवेषयन्तं पान्थंप्रति कयाचित् तद्भ्रमखण्डनेन तरणोपायो नापेक्षित इति प्रतिपाद्यते।” ↩︎

  22. “अत्र हरित् दिक् हरितवर्णा च, श्यामा नायिका कृष्णरूपा च, कलानिधिश्चन्द्रो विदग्धश्च, रागं रक्तवर्णत्वं अनुरागं चइति एकानुपूर्वीमद्भिः पदैर्भिन्नार्थप्रतिपादनादभङ्गश्लेषः ।” ↩︎

  23. “सारम्भा कृतोपक्रमा सा रम्भा स्वर्वेश्या, अममदृक् ममत्वशून्यदृष्टिः, निकषाभवं समपिस्थं चेलं वस्त्रं तेन प० निकषाभवोराक्षसः चेलः कुत्सितार्थः रावणेनेत्यर्थः । उत्तरकाण्डगेयं कथा।” ↩︎

  24. “प्रधास्यति इति धाञो धेटश्च रूपम् । अत्र प्रकृतिश्लेषः । श्रोतारः इति श्रुधातोर्लुटि, तृनि च बहुवचने रूपम् । तृन्पक्षे ‘नलोकाव्ययनिष्ठाखलर्थतृनाम् (२।३ । ६९ ↩︎

  25. “मुर्खवैधेयवालिशा इत्यमरः ।” ↩︎

  26. “अत्र दोहदाय विहिताशोकचरणताडना का चित्केन चिदुच्यते । आकस्मिकचरणतलताडनोत्पन्नानां पुष्पाणां तदानीं भ्रमरसंयोगाभावेन तद्गुञ्जितहीनतया शोभाविशेषहानिः स्यात् । नूपुरकूजितसम्पत्त्यातु उत्पत्तिकालावच्छेदेनैव भ्रमरध्वनिसजातीयध्वनिसम्बन्धात्तत्प्रयुक्त वैजात्यहानिर्न भवतीति भावः ।” ↩︎

  27. “पातः संयोगः प्रणामश्च । रागी रक्तवर्णः स्नेहवांश्च । यावकः अलक्तकः,यौति मिश्रीभवितुमर्हतीति च।” ↩︎

  28. “अनन्यजः कामः।” ↩︎

  29. “अत्र मध्यगतसावयवत्वस्य मिथ्यात्वसिद्धये बन्ध्यासुतादिमिथ्याभूतार्थान्तरकल्पनम् ।” ↩︎

  30. “कृते निर्मिते।” ↩︎

  31. “अत्र निष्कलङ्कचन्द्रखण्डानि निमित्तकारणानि तद्गता धावल्यादिगुणाः कार्यभूतकमलगतशुभ्रतादेस्तदतिशयस्य वान हेतवस्तथापि तद्धेतुत्वकल्पनम्” ↩︎

  32. “प्रमदो हर्षः।” ↩︎

  33. “श्लेषसङ्कीर्णमिदम् । चित्राङ्गदा काचिदङ्गना विचित्रकेयूरवती च । पाञ्चालिका द्रौपदी पुत्तलिका च । अथवा पञ्चमेव पाञ्चं विस्तृतम् अलिकं ललाटं यस्याः सा, पचि विस्तारे इत्यस्य पचाद्यजन्तस्य स्वार्थेऽण् । पृषती हरिणी । सत्या सत्यभामा ऋता च सत्यभाषिणीति यावत् । रोहिणी वसुदेवपत्नी रक्तवर्णा च । विनता गरुडप्रसूः विनयवती च । छाया सूर्यप्रिया अनातपश्च।” ↩︎

  34. “अतिसौरभः सहकारः।” ↩︎

  35. “प्रचलाकिनो मयूराः।” ↩︎

  36. “अनिमिषध्वजः मीनध्वजः काम इत्यर्थः ।” ↩︎

  37. “पुष्करान्तम् आकाशप्रदेशम् ।” ↩︎

  38. “अत्र चक्रवाकाणां विरहितया ज्योत्स्नारसे वह्निबुद्धिः सन्तापजनकत्वात्, चकोराणां ज्योत्स्नारसास्वादने सत्यपि स्वाभाविकी स्फुलिङ्गास्वादनेच्छा जायत इति तात्पर्यं बोध्यम् ।” ↩︎

  39. “मित्रोक्तेषु अनिष्टधियामित्यर्थः।” ↩︎

  40. “अत्र ‘यत्र वक्तुमुपक्रान्तः पूर्वार्थो निषिध्यते स वक्ष्यमाणविषयः । यत्र तु उक्त्वा तद्वचनवैयर्थ्यमुच्यते स उक्तविषय’ इति द्विविधस्याक्षेपस्य स्वरूपं बोध्यम् ।” ↩︎

  41. “काव्यप्रकाशकार इममाक्षेपभेदम् उपमानाक्षेपरूपप्रतीपभेदेऽन्तरयामास ।” ↩︎

  42. “शम्पा विद्युत् । शम्पा शतह्रदाहादिन्यैरावत्यः क्षणप्रभाः। इत्यमरः” ↩︎

  43. “वयसि यौवने ।” ↩︎

  44. “विपदापन्नेऽपि परितोषः इति पाठान्तरम् ।” ↩︎

  45. “बालत्वं शैशवं केशवृत्तिजातिश्च । यौवनप्रागभावाधिकरणतया तत्साधारणे तस्याः शरीरे स्थितमपि यौवनागमे तत्र स्थातुमसमर्थेस्वासाधारणाश्रयेषु बालेष्वेवबालत्वं स्थितंयतः स्वपरसाधारणविषये आसितुं दुष्करं भवतीत्यर्थः ।” ↩︎

  46. “अत्र-मन्मथोऽप्यप्रमेय इति गुणद्रव्ययोः । शून्यायते च उल्लिखति च इति क्रिययोः । इत्यपेक्षितम् ।” ↩︎

  47. “पर्यवसानमिति शेषः ।” ↩︎

  48. “नित्यः सम्बन्धो येषामिति विग्रहः।” ↩︎

  49. “विरहवदिति मतुबन्तो न वत्यन्तः।” ↩︎

  50. “महताम् उत्कृष्टानां वर्णनीयनिष्ठाङ्गित्वप्रतियोगित्वरूपस्य अङ्गत्वस्य कथनं द्वितीयमुदात्तमित्यर्थः।” ↩︎

  51. “सङ्केतस्थानं सूचयन्त्याः कस्याश्चित्काञ्चित्प्रत्युक्तिः । यत्र तादृशसंयमवतःपराशरस्यापि मनःक्षोभोदयादगम्यागमनं जातं तत्र का वार्ताऽन्येषामिति भावः ।” ↩︎

  52. “अत्रगुणौ च क्रिये च गुणक्रियाः गुणश्च क्रिया च गुणक्रिये गुणक्रियाश्च गुणक्रिये च गुणक्रियाः तासां योगपद्यम् इति विग्रहो बोध्यः। एवं च गुणयोः क्रिययोर्गुणक्रिययोश्च यौगपद्येऽपरः समुच्चय इत्यर्थः। अत्र च सङ्ख्याविशेषोऽविवक्षितः। तेन गुणानां क्रियाणां वा यौगपद्येऽपि भवति।” ↩︎

  53. “सौभाग्यं सूचयन्त्याः कस्याश्चित्काञ्चित्प्रति कथनम् । अर्धचन्द्रो नखक्षतविशेषो गलहस्तश्च। वैमुख्यं वृत्तत्वं पराङ्मुखत्वं च । तद्व्यतिरेकेऽपि अर्धचन्द्राभावेऽपि सपत्नीनांस्वस्मिन्नायकाननुरागमाशङ्क्यपराङ्मुखत्वम् ।” ↩︎

  54. “मानं गोपयन्तीं काञ्चित्प्रति कस्यचिदुक्तिरियम् । अतन्त्रम् अविवक्षितम् । विकृतिः सार्वदिकावस्थावैपरीत्यम् । तथा चाभिमुखदर्शनान्मानो नास्तीति न वाच्यम् । सर्वदा कुटिलदर्शनहीनायाः कटाक्षमुन्मुच्य दर्शनेन मानस्यानुमानादिति भावः ।” ↩︎

  55. “विरहिण्या उक्तिरियम् । बलरामपुत्र उल्मुकसंज्ञइति पुराणे प्रसिद्धम् । तद्दयितादेव रोहिणीप्रियाच्चन्द्रात्तस्योल्मुकस्यअलातस्य उत्पत्तिस्तु अध्यक्षसंसिद्धा प्रत्यक्षेणानूभूयते चन्द्रकिरणानामङ्गारवदुष्णस्पर्शत्वानुभवादिति भावः । अङ्गारोऽलात उमुल्कमित्यमरः।” ↩︎

  56. “तादृशी, रहस्यप्रकाशप्रतिबन्धिकेत्यर्थः ।” ↩︎

  57. “गूढोक्तिरित्युचितम्। तथा च कुवलयानन्दे-गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते । इति।” ↩︎

  58. “कुलटायाः सखीं प्रति कस्याश्चिदुक्तिः । महता ज्वलनमयेन तेजसा वंशवनं दग्धं, येन नायिकाया अभिसरणं गुप्तमेव स्थापितमिति विवक्षितार्थः । वन्हिसदृशप्रभावेन भीमसेनेन कीचककुलं नाशितं येन द्रौपद्या विहाराकाङ्क्षाविहितेति यथाश्रुतार्थः।” ↩︎

  59. “इतः पूर्वं वक्रोक्तेर्लक्षणमपेक्षितं तत् त्रुटितं भाति। तल्लक्षणं च-एकेनान्याभिप्रायेणोक्तं वाक्यं यद्यन्येनान्याभिप्रायकं कल्प्यते तदा वक्रोक्तियोगाद्वक्रोक्तिः । सा च श्लेषेण काक्वा वा । श्लेषेऽप्यविकृतश्लेषवक्रोक्तिर्विकृतश्लेषवक्रोक्तिरिति । अत्र " ↩︎

  60. “पक्षे इतः कामत इत्यर्थः।” ↩︎

  61. “तदपवंइति पाठोऽपेक्षितः । वकाररहितमिति तदर्थः ।” ↩︎

  62. “अत्र ‘स्वस्मिंस्तत्सहिष्णुत्वं’ इत्यपेक्षितं चकारानुरोधात् ।” ↩︎

  63. “रजः रेणुः आर्तवं च । चन्द्रकःमेचकः शशी च।” ↩︎

  64. “अत्र ‘पूर्वे पूर्वे’ इत्यपेक्षितम् । “कारणमाला प्रोक्ता पूर्वे पूर्वे यथोत्तरं हेतौ” ↩︎

  65. “‘अवलोकिन’ इत्यस्य ‘व्याधा’ इत्यनेन सम्बन्धः।” ↩︎

  66. “व्याधीं व्याधस्त्रियम्।” ↩︎

  67. “अग्निशिखा विरहानलज्वाला, अग्निशिखं कुङ्कुमम् । अथ कुङ्कुमम् । काश्मीरजन्माग्निशिखम् । इत्यमरः ।” ↩︎

  68. “अपसङ्क्रमः = असम्बन्धः ।” ↩︎

  69. “तत्प्रमा = तस्य विजातीयव्यक्तितादात्म्यापन्नस्य प्रकृतस्य प्रमा।” ↩︎

  70. “समहं सोत्सवम् ।” ↩︎

  71. “अत्र तच्छब्दस्य तर्हीत्यर्थः । एवं तृतीयचरणेऽपि।” ↩︎

  72. “गन्धफलिकां चम्पककलिकां प्रति । ‘अथ चाम्पेयश्चम्पको हेमपुष्पकः । एतस्य कलिका गन्धफली स्यात्’ इत्यमरः ।” ↩︎

  73. “अत्र आधारपदं प्रसिद्धाधारपरं बोध्यम्।” ↩︎

  74. “श्यामा रात्रिः अप्रसूता वनिता च । तथा च मेदिनी- श्यामो वटे प्रयागस्य वारिदे वृद्धदारके। पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु॥मरीचे सिन्धुलवणे क्लीबंस्त्री शारिवौषधे। अप्रसूताङ्गनायां च प्रियङ्गावपि चोच्यते ॥ यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ । इति ।” ↩︎

  75. “अरुणता सूर्यता रक्तवर्णता च ‘अरुणः सूर्यभेदे स्याद्वर्णभेदेऽपि च त्रिषु’ इत्यमरात् ।” ↩︎

  76. “सहावहेलम्इति सहावलेशम्इति वा पाठो भवेत् ।” ↩︎

  77. “नेत्रं धस्त्रम् ‘स्याज्जटांशुकयोर्नेत्रम्’ इत्यमरात् ।” ↩︎

  78. " जघनस्तनस्य इति प्राण्यङ्गत्वादेकवद्भावेन प्रयोगः।” ↩︎

  79. “अनुरूपसम्बन्ध इत्यर्थः। परस्परसम्बन्धानुरूपयोः सम्बन्धइति यावत् । स च सम्बन्धः सतोरसतोश्चेति द्विविधः समालङ्कारः।” ↩︎

  80. “अत्र इष्टप्राप्त्यभावानिष्टप्राप्त्योर्मिलितयोः प्रत्येकमपि विषयत्वं बोध्यम् । अलङ्कारकौस्तुभादौ तथैव प्रतिपादनात् । इहाप्युदाहरणानां तेनैव क्रमेण दत्तत्वात् ।” ↩︎

  81. “दिवसेति-दिवसकरस्य समारम्भकालीनं = उदयकालिकं भास्वत्=दीप्तिमत् यत् बिम्बं तस्य भ्रान्त्या।” ↩︎

  82. “अन्यजन्यहेतोः =अन्यंअवयवसन्निवेशादर्भिन्नं यत् जन्यं कार्यं तस्य यो हेतुः कारणं तस्मात्, इतरत्=भिन्नम् अलौकिकमितियावत् ।” ↩︎

  83. " कुण्डलना= वैयर्थ्यसूचिका रेखावेष्टना।” ↩︎

  84. “मदनदद्दनेति शिवसम्बोधनम् । अजिह्मगः सर्प इत्यर्थः ।” ↩︎

  85. “अत्र हृदयप्रियमिति प्रतिशब्दाध्याहारेणोपपादनीयम् । हृदयप्रियं प्रति सखी-इति पाठो वा बोध्यः।” ↩︎

  86. “अस्या नयनत्रिभागाविषयः स्याम् इत्यन्वयः । पार्वत्याः कटाक्षगोचरो भवेयम् इत्यर्थः।” ↩︎