[[Sanjeevani-alankarasarvaswateeka Source: EB]]
[
सञ्जीवनि-अलङ्कारसर्वस्वटीका
श्रीमद्विद्याचक्रवर्तिविरचिता सञ्जीवन्याख्या व्याख्या विश्वं प्रकाशयति या जातिगुणाद्यात्मकैः निजैः प्रसरैः ।
संस्कारगुणसमृद्धा वाणी मामवतु सरलसन्दर्भी ॥
रुचकाचार्योपज्ञे सेयमलङ्कारसर्वस्वे ।
सञ्जीवनीति टीका श्रीविद्याचक्रवर्तिना क्रियते ॥
उदाहरणशेषोऽत्र ध्वनौ ग्रन्थकृताकृतः ।
तदीयन्यायसम्पनैः स्वपद्यैः पूरयामि तम् ॥
ध्वनिदर्शनानुरक्ताः सूक्ष्मेक्षिकया निरीक्ष्य टीकां मे ।
कवयःसचेतना अपि वितनुत साहित्यसाम्राज्यम् ॥
किं विस्तरेण बहुना टीकां सञ्जीवनीमिमां कश्चित् ।
यद्यभ्यसूयति जडः स्वमेव पाण्डित्यमभ्यसूयति सः ॥
तत्र तावदधिकृतेष्टदेवतानमस्कार पुरस्कारेण प्रकरणप्रतिपाद्यमर्थं प्रतिजानीते नमस्कृत्य परमिति ।
सर्वैव खल्वियं वाक्परा पश्यन्ती मध्यमा वैखरीति चतुर्भिः पदैः परिमीयते ।
यच्छुतिः “चत्वारि वाक्परिमिता पदानि"इत्यादिका ।
तत्र परा नाम निरुपधिकं रूपम् ।
पश्यन्त्यादीनि त्रीणि पुनरौपाधिकानि स्थूलत्वात्विग्रहस्थानीयानि ।
यथा चागमः
स्वरूप ज्योतिरेवान्तः परा वागनपायिनी ।
यस्यां दृष्टस्वरूपायां त्रधिकारो निवर्तते ॥
अविभागेन वर्णानां सर्वकतःसंहृतक्रमा ।
प्राणाश्रया तु पश्यन्ती मयूराण्डरसोपमा ॥
मध्यमा बुद्ध्युपादाना कृतवर्णपरिग्रहा ।
अन्तःसञ्जल्प रूपा सा न श्रोत्रमुपसर्पति ॥
ताल्वोष्ठ व्यापृत्ति व्यङ्ग्या परबोधप्रकाशिनी ।
भनुष्यमात्रसुलभा बाह्या वाग्वैखरी मता ॥
इति ॥
तत्र पश्यन्त्याद्य परवाक्त्रयापेक्षया ज्येष्ठत्वादाद्य परा ।
द्वितीया विश्वाभिमुखीभावात्पश्यन्ती ।
तृतीया नाभ्यन्तरी न च बाह्येति कृत्वा मध्यमा ।
तुरीया तुपरावबोधार्थं प्रवृत्तेति वैखरी ।
यद्वा “खं सुखं दुःखं च॑ तद्विशिष्य राति ददातीति विखरो देहेन्द्रियसङ्घातः तत्र भवा वैखरीति” ज्ञेयम् ।
तदेवाभिसन्धायोक्तम्वाचं त्रिविधविग्रहामिति ।
चतुर्विधामपि ।
कीदृशीं देवीम्? परादिभिश्चतुर्भिः पदैः क्रीडन्तीं नामपूर्वकत्वात्सर्वस्यैव रूपस्य जगदेतद्विजिगीषमाणां समस्तव्यवहारात्मिकां स्वरूपावबोधक्षमतया द्युतिमयीमन्यस्तुतौस्तोतव्यतायां च प्रभवन्तीमविमर्शान्धतमस ध्वंसनात्कान्तिमयीमप्रतिहतप्रसरत्वात्गत्यात्मिकाञ्चेत्यर्थः ।
तामिमां नमस्कृत्य ।
नमस्कारो हि नाम पृथगहङ्कारपरित्यागेन नमस्कर्तव्यमहिमोद्घाटनं सामरस्यमिति यावत् ।
तथाहियेयं परा सा शक्तत्वम् ।
या पश्यन्ती सोद्युक्तता ।
या तु मध्यमा सा प्रवृत्तता ।
या पुनर्वैखरी सा निर्वाहकतेति ।
शक्तिमतो वक्तुरेव स्वरूपं परादिशक्तयः ।
इत्थमिमां वाचं नमस्कृत्य निजानां स्वेनैव प्रणीतानामलङ्कारसूत्राणां तात्पर्यमुच्यते ।
हृदयमुद्घाट्यते ।
केन प्रकारेण? वृत्त्या वृत्ति स्वरूपेण सन्दर्भेण ।
अथ ध्वनिदर्शनानुसारेण प्रकारणं प्रणिनीषुः भामहोद्भटादीनां दर्शनस्थितिं पूर्वपक्षत्वेनो पन्यस्यतिइह हि तावद्भामहोद्भटेत्यादिना ।
अत्रेयं दर्शनस्थिति दिक् ।
काव्यं हि नाम विशिष्टशब्दार्थात्मकम् ।
तत्रार्थो वाच्यः, प्रतीयमानश्च ।
यथा भम धंमिअ वीसत्थो सो सुणाओ अज्ज मारिओ देण ।
गोलाणै कच्छ कुडङ्ग वासिणा दरिअ सीहेण ॥
अत्र स्वैरिण्युक्तौ श्वभयनिवृत्त्या धार्मिकभ्रमणाविधिर्वाच्यत्वेन स्थितः, साक्षात्सङ्केतितत्वेना व्यवधान प्रतीतिकत्वात्॑ गोदावरीतीरे सिंहोपलब्ध्या भ्रमणनिषेधस्तु प्रतीयमानः, वाक्यार्थसमन्वयसमनन्तरमसङ्केतितत्वेन प्रतीतेः ।
इत्थं वाच्यविलक्षिणः प्रतीयमानो योर्ऽथः स यथायोगं रसवस्त्वलङ्कारस्वरूपेण त्रिस्कन्धः सन् सचमत्कारत्वात्कविसंरम्भ गोचरत्वात्सहृदयप्रतीति विश्रान्तिविषयत्वाञ्च काव्यात्मा ।
तस्य माधुर्यादयो गुणाः शौर्यादिवत्समवायवृत्त्या उपकुर्वते ।
उपमादयः पुनः कटकादित्संयोगतवृत्त्येति ध्वन्याचार्याः ।
त्रिविधोऽपि प्रतीयमानो वाच्योपस्कारकत्वादलङ्कारकक्ष्यैवेत्यन्ये ।
अथ ग्रन्थमवयवशो व्याकुर्मः ।
इह काव्यमार्गे ।
अलङ्कारपक्ष निक्षिप्तं मन्यन्ते, तत्त्वं पुनरन्यथेति यावत् ।
यन्मन्यन्ते तत्सविशेषं दर्शियितुमाहतथाहीत्यादिना ।
पर्यायोक्तमप्रस्तुतप्रशंसा समासोक्ति राक्षेपः व्याजस्तुतिरुपमेयोपमा अनन्वयः इत्यादिषु वस्तुमात्रमेव प्रतीयते न तु रसालङ्कारौ ।
व्यञ्जनाव्यापारस्येह लक्षघणामूलत्वात् ।
लक्षणामूलत्वे रसालङ्कारयोर्व्यङ्ग्यत्वासम्भवात् ।
तत्र प्रतीयमानलस्यार्थस्य प्रकारान्तरेणाभिधानं पर्यायोक्तम् ।
यद्वक्ष्यति “गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम्” इति ।
यथा स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः ।
सावघज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ॥
अत्र हयग्रीवस्य स्वर्गविजयः सैनिकसावघज्ञपारिजातमञ्जरी स्पर्शलक्षणेन कार्येण प्रत्याय्यते ।
सामान्यविशेषभावादीनां सम्बन्धेन यदप्रस्तुतात्प्रस्तुतप्रतीतिः सेयमप्रस्तुतप्रशंसा ।
यद्वक्ष्यति “अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा” इति ।
यथा तण्णात्थिं किंपि पहणो पकप्पियं जं ण णिऐ घरणीए ।
अणावरअगमणसीलःस कालपहिअःस पाहिज्जम् ॥
[कन्नास्ति किमपि पत्युः प्रकल्पितं यन्न नियतिगृहिण्या ।
अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् ॥
इति च्छ्राया] ।
अत्र अनवरतगमनशीलस्य पत्युर्निजगृहिण्या पाथेयत्वेन यन्न कल्पितं तद्यथा नास्ति, तथा कालपथिकस्य पाथेमत्वेन यदकल्पितं तन्नास्तीत्यत्र कालःसव ग्रसतीति सामान्यरूपादप्रस्तुतात्प्रस्तुतो विशेषात्मा प्रहस्तवधः प्रत्याय्यते ।
विशेषणासाम्यादप्रस्तुतोर्ऽथो यदवगम्यते सा समासोक्तिः ।
यद्वक्ष्यति"विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः” इति ।
यथा उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्ष्यितम् ॥
अत्रोपोढरागत्वादिना विशेषणसाम्येनाप्रस्तुतो नायकवृत्तान्तः प्रतीयते ।
उक्तस्य वक्ष्यमाणस्य वा प्राकारणिकस्य विशेषप्रतीत्यर्थमाभासतो निषेधनमाक्षेपः ।
यद्वक्ष्यति उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः इति ।
यथा बालग्र!णाहं दूरि तीए पिओसित्ति णाम्हवावारो ।
सा मरै तुज्भ्फ अयसो एअं धंमक्खरं भणिमो ॥
[ऽबालक!नाहं दूति तस्याः प्रियोऽसीति नास्मद्व्यापारः ।
सा म्रियते तवायश एतद्धर्माक्षरं भणामः ॥
इति च्छ्रायाऽ] अत्रऽनाहं दीतितिऽ दीतित्वनिषेधो विशिष्टास्मि दूतीत्यवगमयति ।
स्तुतिनिन्दयोः निन्दास्तुतिगमकत्वे व्याजस्तुतिः ।
यद्वक्ष्यति"स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः" इति ।
यथा हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे! नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥
अत्र मरोरुपकारं करोषीति स्तुतिर्निन्दामवगमयति ।
उपमानोपमेययोः पर्यायेण तथात्वं चेदुपमेयोपमा ।
यद्वक्ष्यति “द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा” इति ।
यथाऽखमिव जलं जलमिव खं हंसश्वन्द्र इव हंस इव चन्द्रःऽ ।
अत्रोपमानोपमेयभावविनिमयः तृतीय सब्रह्मचारिणां निवर्तयति ।
एकस्यैवोपमानोपमेय भावकत्वेऽनन्वयः ।
यद्वक्ष्यति"एकस्यैवोपमानोपमेयत्वेऽनन्वय" इति ।
यथाऽयुद्धेऽर्जुनोर्ऽजुन इव प्रथितप्रभावःऽइति ।
अत्र द्वितीयसब्रह्मचारिनिवृत्तिः ।
आदि शब्दाल्लाटानुप्रासादि परिग्रहः ।
एषु पर्यायोक्तादुषु यदेतद्वस्तुमात्रं प्रतीयते स्वर्गविजयादिकं रसालङ्कारपरिहारेण तदिदं सर्वैरपि प्रमाणैरात्मत्वेना वभासमानमेव सद्गज निमीलिकया वाच्यापस्कारकत्वेन तैरुद्भटादिभिः प्रतिपादितम् ।
न्यग्भावितवाच्यस्य वाच्यकक्ष्यातिलङ्घिनः कथमस्तु वाच्योपस्कारकत्वमिति भावः ।
केन प्रकारेण प्रतिपादितम्? “स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्” इति द्विविधया भङ्ग्या ।
भङ्गि प्रकारः ।
अत्रायमाशयः ।
लक्षणमूलोऽयं पर्यायोक्तादिषु प्रतीयमानोर्ऽथः ।
लक्षणा च द्विरूपाअजहत्स्वार्थैका “कुन्ताः प्रविशन्ति” इत्यादौ ।
परा तु जहत्स्वार्था “गङ्गायां घोषः” इत्यादौ ।
तत्राजहस्त्वार्थायां कुन्तानां स्वतः प्रवेशासंभवे कौन्तिकानाक्षिप्य प्रवेशसंभवः ।
अतःस्व सिद्धये परानाक्षिपतीति तत्र लक्षणा ।
स्वकीय प्रवेशादेःसिद्धये परस्य कौन्तिकस्याक्षेप इति ।
जहत्स्वार्थायां तु गङ्गादेर्मुख्यार्थस्यात्यन्तमनुपपत्तिरेव ।
अतः परार्थं स्वसमर्पणमिति लक्षणम् ।
परार्थं तटादेर्घोषाद्यधिकरणार्थं स्वसमर्पणं स्वस्वरूपपरित्याग इति ।
इत्थं च सतिस्पृष्टास्ता नन्दनऽ इति पर्यायोक्तोदाहरणे सैनिकानां सावज्ञपारिजातमञ्जरीस्पर्शः स्वर्गविजयमनाक्षिप्य न संभवतीति कुन्तादिनयेन स्वसिद्धये पराक्षेपः ।
एवम् “उपोढरागेण” इति समासोक्त्युदाहरणेऽपि ज्ञेयम् ।
नायकत्वाक्षेपे सति निशादेः तिमिरांशुकादियोगसंभवातजहत्स्वार्थत्वम् ।
अथ “तं णात्थी” ति अप्रस्तुतप्रशंसोदाहरणे मुख्यार्थस्याप्रस्तुतत्वात्॑ “बालग्रणाहम्"इत्याक्षेपोदाहरणे दूतीत्वनिषेधस्याभासरूपत्वात्"हे हेलाजिते” ति व्याजस्तुत्युदाहरणे खजलयोर्द्वयोरपि चैकस्यानेकत्त्वलाभाभावात्मुख्यार्थस्य अत्यन्तमनुपपत्तिरेव ।
अतः परार्थं स्वसमर्पणामिति लक्षणम् ।
तमिमं विषयविभागमभिसन्धायोक्तम्यथायोगं द्विविधयेति ।
योगो योग्यता तामनतिक्रम्येत्यर्थः ।
इत्थं वस्तुध्वनौ विमतिर्भामहादिषु दर्शिता ।
अथ रुद्रटे रसालङ्कारध्वन्योर्विमतिमुपन्यस्यतिरुद्रटेनापीत्यादिना ।
भावालङ्कारः प्रेयोऽलङ्कारः स द्विधैवोक्तः ।
तथा हि यस्य विकारः प्रभवन्नप्रतिबन्धेन हेतुना येन ।
गमयति तदभिप्रायं तत्प्रति बन्धं च भावोऽसौ ॥
इति ॥
भावस्थितिभावशान्तिरूपेण रुद्रटो भावालङ्कारं द्विधैवोक्तवान् ।
तदिदमुत्प्रेक्षावत्कृत्यमिति भावः ।
यतो भावासङ्कारस्य सन्धिशबलतादि लक्षणा अपि भेदाः संभवन्ति ।
वक्ष्यति हि भावोदय सन्धिशबलताश्च पृथगलङ्कारा इति ।
रूपकादिष्वपि उत्तानदर्शितामुद्घाटयतिरूपकदीपकेत्यादि ।
रूपकं दीपकमपह्नुतिस्तुल्ययोगिता ।
आदिशब्दान्निदर्शनादिकं च लक्षयिष्यते ।
तत्रोपमालङ्कारः प्रतीयमानो वाच्यशोभाहेतुत्वादुपसर्जनत्वेन नोक्तः ।
तदप्यसारमिति भावः ।
उपमालङ्कारस्य वाच्यशोभा हेतुत्वादुपन्यग्भावनेन उत्थापितस्य प्राधन्येन तेष्ववस्थानात् ।
अथ रसभावयोः अयथादृशमुद्घाटयतिरसवत्प्रेयऊर्जस्वीत्यादि ।
रसो गुणीभूतो रसवानलङ्कारो, भावस्तु प्रेयान्, रसाभास ऊर्जस्वी, भावाभासःसमाहितम् ।
एवं रसभावादिः वाच्यशोभा हेतुत्वेनोक्तः ।
तदपि मन्दमिति भावः ।
यतो रसादेरलङ्कारत्वं सदातनं न भवति, प्राधान्यदशायामलङ्कार्यत्वात् ।
उत्प्रेक्षात्विति ।
प्रातीयमाना स्वयमेव कथिता प्रतीयमानाप्यलङ्कार्यत्वेन कथितेत्यर्थः ।
तदप्य गंभीरमिति यावत् ।
प्रतीयमानदशायां सर्वस्यैव अलङ्कारस्यालङ्कार्यकत्वं सिद्धान्तितं यतः ।
त्रिविन्धं वस्त्वलङ्काररसरूपमलङ्कार्यतया ख्यापितमेव ।
काव्यजीवितत्वेनालङ्कार्यमेव सत्तथा न चेतितमिति यावत् ।
इत्थं काव्यजीवितांशविचारविमुखानामलङ्कारमात्ररसिकत्वातुत्तानदृशां मतमुपन्यस्य, काव्यजीवितकांशपराणां, मतानि यथावदुपन्यस्यतिवामनेन त्वित्यादिना ।
सादृश्यनिबन्धनाया इति वदता सादृश्यं संबन्धनिबन्धना शब्दवृत्तिर्गौणीति वदन्तो दूष्यत्वेन कटाक्षिताः ।
ध्वन्याचार्याणां गौण्या वृत्त्या लक्षणान्तर्भावो नोष्टः ।
सादृश्यनिबन्धना लक्षणा वक्रोक्त्यलङ्कार “इति प्रथयता कश्चित्ध्वनिभेदो लक्षणामूलोऽत्यन्ततिरस्कृतवाच्य नामालङ्कारत्वेनोक्तः काव्यात्मभूतःसन्नलङ्कार्यत्वेन नावधारित इतियावत् ।
यस्त्त्वंशोऽलङ्कार्यो न भवति सोऽप्यलङ्कार्यत्वेन कथित इत्याहकेवलं गुणविशिष्टेति ।
केवलग्रहणाद्रसालकारनैरपेक्ष्यं कटाक्षितम् ।
रसालङ्कार निरपेक्षैर्माधुर्यादि भिर्गुणैर्विशिष्टा येयं संघटनाधर्मभूता वैदर्भ्यादि रूपिणी रीतिः सैव काव्यात्मेत्युक्ता ।
तथा च सूत्रितं तेन “रीतिः आत्मा काव्यस्य"इति ।
प्रख्यापितं च अविदितगुणापि सत्कविभणितिः कर्णोषु वमति मधुधाराम् ।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ।
इति ॥
इदमप्ययुक्तमिति भावः ।
तथाहिकाव्यस्य शरीरस्थानीयौ (शब्दार्थौ) कटकमुकुटादिकल्पा अनुप्रासोपमादयः ।
व्यङ्ग्यार्थस्तु आत्मभूत इति स्थिते, शब्दालङ्कारेभ्योषऽपि यो बाह्यो वर्णालङ्कारोऽनुप्रासस्तत्समकक्ष्यका एता रीतयः ।
यतो द्वयोरपि वर्णधर्मता ।
एतदभिसन्धाय वृत्त्यनुप्रासवर्णालङ्कारप्रस्तावे वैदर्भ्यादयो रीतयो विवेचिताः काव्यप्रकाश कृदादिभिः ।
ग्रन्थकारोऽपि तत्र विवेचयिष्यति ।
व्यञ्जकास्वेतासु व्यङ्ग्यरससन्निकर्षादात्मत्व भ्रमः उत्तान धियाम् ।
तदनुप्रासादावपि समानमिति मन्दमेतद्रीतिमात्रपक्षपातित्वम् ।
वस्तुतस्तु व्यङ्ग्यार्थ एव आत्मा काव्यस्य ।
अथोद्भटादिभिः गुणालङ्कारयोर्भेदोऽपि नावधारित इत्याहौद्भटादिभिस्त्विति ।
साम्यं सजातीयत्वमित्यर्थ ।
तत्र हेतुः “विषयमात्रेण भेदप्रतिपादनादिति” ।
मात्रग्रहणात्स्वरूपभेदाभावः कटाक्ष्यते ।
काव्यशोभाहेतुत्वलक्षणं तु स्वरूपमेकविधमेवेति तेषामाशयः ।
विषामाशयः ।
विषयभेदं दर्शयतिऽसङ्घटनेत्यादिऽ ।
“सङ्घटनाधर्मागुणा, अलङ्कारास्तु शब्दार्थधर्माः” इति ।
तदिदमप्यगम्भीरमिति भावः ।
गुणालङ्कारयोश्च स्वरूपत एवातिविभिन्नत्वात् ।
तथाहिअङ्गिनो रसस्य धर्मा गुणाः अङ्गयोः शब्दार्थयोस्त्वलङ्काराः ।
गुणास्तुनियमेनोत्कर्षहेतवः अलङ्कारास्त्वनियमेन ।
गुणाःसमवायेन वर्तन्ते, अलङ्कारास्तु संयोगेन ।
यदाह “ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युः अचलस्थितयो गुणाः ॥
उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् ।
हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः " ॥
इति ॥
इत्थं च सति अलङ्कारापेक्षया गुणेष्वेव प्रकृष्टः काव्योपस्कारः यद्वदस्फुटटालङ्कारत्वेऽपि काव्यत्वाभ्युपगमः, न हि तद्वतस्फुटगुणत्वे ।
यदाहऽअनलङ्कृती पुनः क्वापीतिऽ ।
यदेतदेवंविधं गुणानामलङ्काराणां च प्राधान्यं , तत्रापि पुरातनानां दृष्टिरसमीचीनेत्याहऽतदेवं अलङ्कारा एवेतिऽ ।
अथ वक्रोक्तिजीवितकारभट्टनायक योःसं [दृष्टी] सन्निकृष्टे ध्वनिदर्शनस्येत्यभिप्रायेणाहऽवक्रोक्तिजीवितकारः पुनरित्यादिना ।
वैदग्ध्यभङ्गीभणितिस्वभावां वैदग्ध्यप्रकारोपेतभणितिस्वरूपामित्यर्थः ।
जीवितमुक्तवानित्यलङ्कारमात्रदुराग्रहाभावो द्योतितः ।
अन्योऽपि सारभूतः सूक्ष्मोंऽशः तेन अवधारित इत्यभिप्रायेणाहव्यापारप्राधान्यं चेति ।
व्यापारो रसप्रत्यायनात्मा ।
तस्य प्राधान्यं प्रतिपेदे ।
न पुनः अप्राधानस्य अलङ्कारमात्रस्येति यावत् ।
अलङ्काराः पुनर्वाच्यकक्ष्यैवास्य संमतेत्याहअभिधाप्रकारेत्यादि ।
यश्च वस्त्वलङ्काररसरूपः त्रिविधः प्रतीयमानोर्ऽथः यत्र विद्यमानोऽपि तत्प्रत्यायनलक्षणस्यऽ व्यापारस्यैव प्राधान्यमस्य मतमित्याहसत्यपि चेत्यादि ।
उपचारो लक्षणाश्रयणां तद्वक्रतेति अविवक्षितवाच्यादि समस्तध्वनिः कटाक्षितः ।
इत्थं च सति ध्वनिदर्शना देतद्दर्शनस्याल्पकोभेद इत्याहऽकेवलमुक्तिवैचित्र्येतिऽ ।
अथ भट्टनायकमतम्भट्टनायकेनत्वित्यादि ।
प्रौढोक्त्याभ्युपगतस्येति ।
भोग इतिस्वकपोल कल्पितो व्यवहारः प्रौढोक्तिस्तयाङ्गीकृतस्येत्यर्थर्ः ।
इदृशस्य व्यञ्जनव्यापारस्य काव्यात्मत्वं कथयता न्यग्भावितशब्दार्थ स्वरूपोऽयं व्यापारस्तस्यैव प्राधान्यमुक्तम् ।
स च व्यापारो लौकिको न भवतीत्याहतत्राप्यभिधाभावक त्वेत्यादि ।
तत्र तेषु व्यापारेषु मध्यादभिधाभावकत्वे इति ।
साक्षात्सङ्केतार्थ विषया शक्तिरभिधा ।
असाधारण्येन प्रतीतेष्वर्थेषु साधारणीकरणरूपा शक्तिर्भाविकत्वम् ।
एतद्व्यापारद्वरद्वयोत्तीर्णः साधारणीकृतेषु विभावादिषु रसचर्वणात्मां भोगापरनामधेयो व्यापारो विश्रान्तिस्थानतया प्राधन्येनाङ्गीकृतः ।
अत्र दर्शने भोगादिव्यावहारस्य स्वकपोलकल्पितव्यापारप्राधान्यमि[त्यंशो] ध्वनिकारदर्शनविलक्षणाः ।
अथ सिद्धन्तःध्वनिकारः पुनरित्यादि ।
ध्वनिकारस्तु व्यङ्ग्यात्मनो वाक्यार्थस्यैव काव्यात्मत्वं सिद्धान्तितवान् ।
तत्रहेदतुः व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वादिति ।
कीदृशस्य ? अभिधालक्षणातात्पर्याख्य व्यापारत्रयोत्तीर्णस्य ।
तात्पर्य नाम पदार्थाधिगमसमनन्तरभाविनी समन्वयशक्तिः ।
एतत्त्रयोत्तीर्णस्येति चतुर्थकक्ष्यावस्थापियोक्ता ।
ध्वननद्योतनेति ।
ध्वननं द्योतनं प्रत्यायनं व्यञ्जनमित्यादिप्रसिद्धपर्यायसहतस्त्रस्यावश्याभ्युपगम्यत्वात्तदनभ्युपगमे व्यङ्ग्यार्थप्रतीतौ न गत्यन्तरं यतः, अतः व्यङ्ग्योर्ऽथ एवात्मेत्यर्थः ।
ननु व्यञ्जनाव्यापारः प्रधानं किं न भवति, इत्यत आहव्यापारस्य च वाक्यार्थत्वाभावादिति ।
अप्रत्यक्षत्वेन निरुक्त्यनर्हत्वाद्वाक्यार्थत्वाभावः ।
सर्वा एव खलु पदार्थशक्तयः कार्यादिप्रतीत्यन्यथानुपपत्त्या अभ्यूह्यन्त एव ।
अतो व्यापारो न प्राधानम् ।
यश्च हेतुः प्राधान्ये सोऽपि व्यङ्ग्य एवोपपद्यते, न तु व्यञ्जनव्यापार इत्याहवाक्यार्थस्यैवेति ।
गुणालङ्कारोपस्कर्त्तव्यत्वं विश्रान्तिस्थानत्वं च प्राधान्ये हेतुः ।
अतो व्यङ्ग्यार्थ एव काव्यात्मेति सिद्धान्तितवन् ।
अथ भूयस्तरा युक्तीरभ्युच्चिनोतिव्यापारस्य विषयमुखेनेत्यादि ।
व्यञ्जनादेगि व्यापारस्य व्यङ्य्यार्थमुखेनैव स्वरूपसिद्धिः ।
अतो न वाक्यार्थत्व संभवः ।
यथास्वरूपोपलम्भो विषयमुखेन तथा प्राधान्यं विचारक्षमत्वमपि तन्मुखेनैवेत्याहतत्प्राधान्येन प्राधान्यात् ।
स्वरूपेण विचार्यत्त्वाभावादिति च ।
विषय एव तु पुष्कलं वाक्यार्थं भावमर्हतीत्याहविषयस्यैवेति ।
साक्षात्स्वरूप प्रतिलंभः स्वतः प्राधान्यं स्वलरूपेण विचार्यत्वं चेत्यादि समग्रे भरः ।
तत्सहिष्णुत्वं हि व्याङ्ग्यार्थलक्षणस्य विशषयस्यैव ।
अतो विषयस्यैवात्मत्वं युक्तमित्याहतस्माद्विषय एवेति ।
समग्रभर सहिष्णुत्वात्स निरवशेषवैभवमर्हतीत्यत आहयस्य गुणालङ्कारेत्यादि ।
ननु रसादयो रसवदाद्यालङ्कारा एव प्राचां मताः ।
कथमेषामलङ्कार्यत्वमित्यत आह रसादयस्त्विति ।
तत्र हेतुः अलङ्काराणामुपस्कारकत्वात्रसादीनां च प्राधान्येनोपस्कार्यत्वाच्च इति ।
रसादीनां हि यदा गुणीभावः तदालङ्कारत्वं , यदा तु प्राधान्यं तदालङ्कार्यत्वमेव ।
यत इत्थं व्यवस्था , अतोः व्यङ्ग्यार्थ एव काव्यात्मेति निगमयति
तस्माद्व्यङ्ग्य एवेत्यादि ।
वाक्यार्थीभूत इति प्राधान्यदशां कटाक्षयति, अप्राधानय दशायामनात्मत्वात् ।
तदिदं ध्वनिकृतो दर्शनाम् ।
एतदनुसारित्वमात्मनो दर्शयुतुमाह एष एव पक्ष इत्यादि ।
एवकारेणपक्षान्तरेष्वनुपपत्तिराविशष्क्रियते ।
आवर्जकः बलादात्माभिमुखीकारकः ।
तत्र हेतुः व्यञ्जनव्यापारस्येत्यादि ।
य इच्छ्रन्ति व्यङ्ग्यार्थस्य काव्यात्मतां, ये च नेच्छन्ति , सर्वैरेव खल्वेभिः न शक्यते हि व्यञ्जनव्यापारोऽपह्नोतुम् ।
यदि नापह्नुतः किं तत इत्यत आहतदाश्रयणे चेत्यादि ।
पक्षान्तरस्याप्रतिष्ठानं दर्शैतचरीभिर्युक्तिभिः सिद्धम् ।
यत्तु तत्र व्यक्तिविवेककारः प्रत्यवस्थैतः तदुपन्यस्यति यत्तु व्यक्तिविवेककारः इत्यादिना ।
लिङ्गतया गमकतया ।
तादात्म्यतदुत्पत्त्यभावादिति ।
धर्मधर्मिणोर्लिङ्गलिङ्गिभावे तादात्म्यं नाम नियतःसम्बन्धः ।
कार्यकारणायोस्तु तदभावे तदुत्पत्तिर्नामास्तीति ।
अनयोर्नियतसम्बन्धयोः यद्यन्यतरो न स्यात्तदा व्यभिचारान्न संभवति लिङ्गलिङ्गिभाव इति यावत् ।
यत इत्थमेतततस्तदविचारिताभिधानं , तदेतद्व्यक्तिविवेककृतो दर्शनं वायसवाशितकल्पमिति यावत् ।
एवं ध्वनिदर्शनसमर्थने यद्यावदस्ति युक्तिजातं तदतिगहनम् ।
ध्वनिगुणीभूतव्यङ्ग्ययोरेव काव्ययोर्मीमांसायामुपयुज्यते॑ चित्रकाव्यमीमांसायां तु नात्युपयुज्यते इत्याशयेन निगमयितितदेतत्कुशाग्रीयेत्यादि ।
इह चित्रकाव्ये ।
न प्रतन्यते, यथोपयोगमनूद्यत एवेति यावत् ।
अथ यावानुपयोगश्चित्रप्रस्तावे ध्वनेस्तावन्मात्रमनुवदतिअस्ति तावदित्यादिना ।
यद्यस्ति किं तत इत्यत आहतत्र व्यङ्ग्यस्येत्यादि ।
प्राधान्ये ध्वनिर्नमोत्तमः काव्यभेदः ।
अप्राधान्ये तु गुणीभूतव्यङ्ग्य नामा मध्यमः ।
चित्रस्य विषयमाहतत्रोत्तमो ध्वनिरित्यादिना ।
स चाभिधामूलतया लक्षणामूलतया च प्रथते इत्याहतस्य लक्षणाभिधामूलत्वेनेति ।
लक्षणामूलत्वे सति अविवक्षित वाच्याख्यः मुख्यार्थबाधशालिन्यां लक्षणायां वाच्यांशस्याविवक्षितत्वात् ।
अभिधामूलत्वे तु विवक्षितान्यपरवाच्याख्यः , अभिधायां वाच्ये बाधाभावाद्विवक्षितत्वं, व्यङ्ग्याङ्गत्वेन विवक्षणातन्यपरता चेति विवक्षितान्यपरत्वमभिधामूलस्य ।
इत्थं लक्षणामूलोऽभिधामूलश्चेति सामान्यतो ध्वनिर्द्विराशिकः ।
तत्र लक्षणामूलस्यावान्तरभेदमाहआद्योर्ऽथन्तर इति ।
आद्यो लक्षणा मूलःसोर्ऽथान्तरसङ्क्रमितवाच्यो अत्यन्ततिरस्कृतवाच्यश्चेति द्विधा ।
अजहत्स्वार्थतया स्वसिद्धये पराक्षेपे सति अर्थान्तरसङ्क्रमितवाच्यः ।
यथा प्रारम्भे श्रुतिसुन्दरं परिणातौ पथ्यं जनैःसुग्रहम् ।
नानाशास्त्ररसैः प्रसन्नमधुरैः प्रत्यक्षरं क्षालितम् ।
आह्लादाय न कस्य नाम विदुषां वक्त्राम्बुजादुद्गतं चित्तान्तर्विकसद्विवेक मुकुलामोदानुबिद्धं वचः ॥
अत्रैवंविधवच उपदेशालक्षणे अर्थान्तरे सङ्क्रामति ।
वचोमात्रस्यैवं वैशिष्ट्यासंभवात् ।
अथ यदा जहत्स्वार्थतया परार्थं स्वसमर्पणं तदात्यन्ततिरस्कृतवाच्याख्यः ।
यथा एके मूकवदासते जडधियो जिह्नेति तत्सन्निधा वन्ये दुर्विचिक्त्सितं विदधते तेभ्योऽपि बीभत्सते ।
अस्थाने बहुधा स्तुवन्ति कतिचित्तैरुल्कया दह्यते विद्या विक्लवते कया न विधया प्राप्यान्तिकं दुष्प्रभोः ॥
अत्र विद्यायां ह्लीबीभत्सादिः गङ्गादौ घोषाधिकरणतादीव सर्वथा स्वसंयोगिनो स्वार्थं परित्यज्य न संभवतीत्यत्यन्त तिरस्कृतवाच्यता ।
इत्थम विवक्षितवाच्यस्यार्थान्तरसंक्रमित वाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्वौ भेदौ ।
अथाभिधामूल प्रभेददिक् ।
द्वितीयोऽपीति ।
द्वितीयोऽभिधामूलो विवक्षितान्यपरवाच्याख्यः ।
तत्र क्विचिद्व्यङ्ग्य क्रमो न संलक्ष्यते ।
क्वचित्संलक्ष्यते ।
तस्माद्विवक्षितान्यपरवाच्योऽपि असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः ।
अथानयोः सक्षणाभिधामूलध्वन्योर्वस्त्वलङ्कार रसरूपता विषयविशेषं व्यवस्थापयितुमाहलक्षणामूल इत्यादिना ।
यो हि लक्षणामूलः स नियमेव शब्दशक्तिमूलो वस्तुरूपश्च भवति ।
यद्वि यावदस्ति जातिगुणाक्रियाद्यात्माकं पदार्थजातं सर्वमेवैतद्वस्तु कथ्यते ।
तदेव कविकल्पितविच्छित्ति सध्रीचीनमलङ्कारः ।
रसास्तु विभावानुभावव्यभिचारिभिव्याज्यमाना रत्यादयः सहृदयप्रतीतिविशेषाः ।
अथ विवक्षितान्यपरवाच्यो योऽयं असंलक्ष्यक्रमव्यङ्ग्यः स नियमेनार्थशक्तिमूल उभयशक्तिमूलश्च भवति ।
नियमेन वस्तुरूपोऽलङ्काररूपश्च भवति ।
तत्र यदा रसभावरसाभास भावाभासभावोदयभावशान्ति भावसन्धिभावशबलता व्यज्यन्ते, तदा क्रमो न संलक्ष्यत इति असंलक्ष्यक्रमत्वम् ।
तत्र रसेषु शृङ्गारःसंभोगात्मा यथा पुष्पोद्भेदमवाप्य केलिशयनाद्दरस्थया चुम्बने कान्तेन स्फुरिताधरेण निभृतं भ्रूसंज्ञया याचिते ।
आच्छाद्य स्मितपूर्णा गण्डफलकं चेलाञ्चलेनाननं मन्दान्दोलितकुण्डलस्तबकया तन्व्या विधूतं शिरः ॥
अत्र नायिकानायकवृत्तान्तलक्षणो यो वाच्योर्ऽथः या च सहृदयप्रतीतेः वेद्यान्तरविगलनेन वर्ण्यवस्तुतन्मयीभावलक्षणा रससंवित्, न खलु तयोः क्रमःसंलक्ष्यते ।
विद्यमानोऽपि पद्म पत्रशतव्यतिभेदनयेन अविद्यमानवदुपलक्ष्यते ।
विप्रलम्भशृङ्गारो यथा नान्तः प्रवेशमरुणाद्विमुखी न चासी दाचष्टरोष परुषाणि न चाक्षराणि ।
सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं विलोकितवती जननिर्विशेषम् ॥
एवमादिष्वक्रमत्वं प्राग्वदनुसन्धेयम् ।
हास्यो यथा पैमरणामण्डणाज्जलवेसा पासंग एसु तरुणेसु ।
णिद्धसरं परुग्रन्ती सविब्भमं हणा इ थणावट्ठम् ॥
अत्र पतिमरणामण्डनोज्ज्वलवेषायाः तरुणेषु पार्श्वमुपगतेषु सत्सु सद्यः स्निग्धस्वरंप्ररुदत्याः सविभ्रमं यदेतत्स्तनवृत्तहननं तत्प्रच्छन्नानुरागस्यानौचित्येन प्रवृत्तेर्हास्यमभिव्यनक्ति ।
करुणस्य यथा साहित्यलक्षणकले समुपैषि नव्य वैधव्यमद्य विरते गुरुविष्णुदेवे ।
कर्णान्तिकप्रणायन प्रणायोत्सवाय तालीदलार्पणमितः परमक्षमं ते ॥
रौद्रन्य यथा दृप्यत्सूकर कालकण्ठ शकलव्याकीर्ण धारान्तरा क्रोधोत्ताललुलायकण्ठनलकच्छेदार्धवक्त्राननाः ।
श्रीबल्लाल विधाय केलि मृगयामावर्तमानस्य ते शार्दूलेन्द्रवसाभिषेकसमये जीयासुरुग्राःशराः ॥
वीरस्य यथा आधातुर्भुवनं तदेतदखिलं चक्षुष्मदाकीटकाद्दिव्यं चक्षुरनन्यलभ्य मुभयत्रास्ते परं दुःसहम् ।
फाले भूतपतेर्मनोभवमुख क्षुद्र क्षयोज्जागरं बाणे च प्रतिराजदर्पदलनं बल्लाल पृथ्वीपतेः ॥
भयानकस्य यथा गिरिकुञ्जेषु गूढानां तवारि वरयोषिताम् ।
असूर्यंपश्यतामात्रं भूतिचिह्नेष्वशिष्यत ॥
बीभत्सस्य यथा स्वात्मानन्दं किमपि परमं साधु संभुञ्जते ये तेषामस्यां विषयविततौ जायते हेयबुद्धिः ।
अन्येषां तु प्रसरतितरां प्रत्युतास्वादनेच्छा छर्दिक्लिन्ने कफकलुषिते मक्षिकाणामिवान्ने ॥
अद्भुतस्य यथा आकर्णितोत्तमगुणानुगुणेति कृत्वा यामुल्लिलेख सुचिरेण मनो मदीयम् ।
तामाकृतिं विसदृशीमतिमात्रमस्या दास्येऽपि नास्मि विनिवेशयितुं विदग्धः ॥
अत्र सुचिर मदृष्टचरनायिकारूपस्यानुगुण श्रवणानुरागिणो नायकस्य नायिकाप्रथमदर्शने आकर्णितोत्तम गुणानुगुणतया मनसा समुल्लिखितचरी या नायिकामूर्तिः, सा सम्प्रति साश्रात्कृतनायिकामूर्तेरतिमात्रं विसदृशी सती दासीत्वेनापि निवेशयितुं न शक्यत इत्युक्तिराभिरूप्यनिबन्धनस्य परां काष्ठामाविष्करोति ।
शान्तस्य यथा मा भैषीः कुल मा व्यथस्व विनय क्लेशोऽस्तु मा ते श्रुत प्रध्वंसाय यतस्व मा खलु मते माहात्म्य मा मा त्यज ।
युष्मद्रौरवसारदारणापरान्मत्वा तृणाय प्रभून् भिक्षापर्यटनार्जितेन कलये पिण्डेन पिण्डस्थितिम् ॥
इत्थं रसध्वनिर्दिङ्मात्रेणोदाहृतः ।
अथ भावध्वनिःभावो हि नाम नायिकाव्यतिरिक्ते देवतागुरुनृपपुत्रादौ व्यज्यमाना रतिर्वाक्यार्थत्वेन व्यज्यमाना निर्वेदादयो व्यभिचारिणाश्च ।
यथा अद्य स्वप्नमुपागतेन यमुनातीरे मयावस्थितं दृष्टस्तत्र च वेणुवादनिपुणो बालो गवां पालकः ।
तं दृष्ट्वा करणैरनन्यविषयैरन्तर्विलीनोऽभवं यावत्तावदहं चिरादुपचितैः पापैः प्रबोधं गतः ॥
यथा च संसारार्त्या विधुरविधुरो ब्रह्म यत्नाद्विचिन्वन्नानारूपं जगदिदमहं दृष्टवानेव पूर्वम् ।
हस्ते न्यस्ते सति तव गुरो सांप्रतं मस्तकेऽस्मिं ब्रह्मैवैतत्सकलमभवन्नो जगन्नापि चाहम् ॥
यथा च काष्ठाप्रात्पिरियं परा खलु परीपाकस्य भाग्योन्नतेः श्री बल्लाल नृपाल!यद्वयमिंमौ पादौ तवोपास्महे ।
यस्तिष्ठेत्प्रतिहार सीम्नि भवतो रुद्धप्रवेशश्चिरं किं नासावपि चोलपाण्ड्यपृथ्वीपालैःसमं गण्यते ॥
इत्थं पुत्रादिविषयो व्यभिचारिरूपश्च भावः स्वयमूह्यः ।
रसाभासो यथा स्फुरन्मुखामोदविवृद्ध गन्धं, जिघ्रन्मुहुर्मीलितरक्तनेत्रः ।
पूर्वं प्रियाचञ्चुपुटोपयुक्तं चूताङ्कुरं चुम्बति चञ्चरीकः ॥
इत्यादि ॥
अत्र तिर्यग्विषयत्वाद्ररसस्याभासता ।
धीरोदात्तत्वाद्यभावात् ।
यदाह “उत्तमप्रकृतिरुज्ज्वलवेषः शृङ्गारः” इति ।
भावाभासो यथा क्वणादूद्विरेफावलिनीलङ्कणां प्रसार्यं शाखाभुजमाम्र वल्लरी ।
कृतोपगूहा कलकण्ठकूजितैः अनामयं पृच्छति दक्षिणानिलम् ॥
अत्र सौहार्दस्यारोपितत्वात्भाव आभासी भवति ।
भावोदयो यथा केलितल्पगतमङ्घ्रियावकं, सूचयत्युषसि चक्षुषा प्रिये ।
भू[भ्रू] त्रिभागमुपकल्प्य भङ्गुरं, गूढ हास मधुरं चुकोप सा ॥
अत्र लज्जाहर्षयोरुदयः ।
भावसन्धिर्यथा नेत्रे जिह्यखरारुणे क्षणामथ व्यामील्यमानेक्षणां हस्तं व्यग्रगमागनं क्षणामथो दन्ते शयानं क्षणम् ।
सञ्चारं विषमाकुलं क्षणमथ प्रक्रान्तलीलं क्षणं धत्ते तोत्रिषु षट्पदेषु च समं दत्तावधानो गजः ॥
अत्र गजस्य मदाकुलस्य यदेतत्क्षणमात्रं नेत्रयोः जिह्याखरा रुणायोः धरणां समनन्तरमेव यच्चैतदूव्यामीलनं, तथा हस्ते च यत्क्षणामत्रं व्यग्रो गमागमः यच्च समनन्तरमेव दन्ते शयनं, सञ्चारे च क्षाणामात्रं येयं विषमाकुलता, समन्तरमेव यश्चायं लीलाप्रक्रमः, तदेतत्विविधं विलक्षणं विचेष्टितद्वयं उद्भवाभिभवधर्मितया क्षणं क्षणामाविर्भवत्तोत्रिविषयं रोषं षट्पदशब्दलक्षितषट्पदगीतविषयं हर्ष च परस्परस्यादत्ता वसरतयासमुत्क्षुभितमभिव्यनक्ति ।
द्वन्द्व वृत्तिषु च त्रिष्वपि वाक्येषु प्रतिस्वं क्षणं क्षणमित्युपादानाद्यथा यथा समुत्क्षुभिताब्धिकल्लोलकत्प [ल]तयो तोत्रिणामुपर्युपरि विनिपात जन्मानो रोषावेशमहावेगाः तथा तथा तदभिभवक्षमाणां षट्पदगीताकर्णानसुखाभिनिवेशविकासानां मध्ये प्रादुर्भाव इति प्रत्याय्यन्ते ।
धत्त इति वर्तमाननिर्देशेन प्रारब्धापरिसमात्पभावादेकतरस्यां कोटावनिष्ठेति द्योत्यते ।
तथा जिह्वाखरारुणत्वव्यग्रगमागमत्वविषमाकुलत्वलक्षणाधर्मयोगाद्व्यालयमानत्वदन्तेशयनत्वप्रकान्तलीलत्वलक्षणाधर्मयोगाच्चानुक्षणामाकुलीभावमापाद्यमानैर्नैत्रहस्तसञ्चारैर्लिङ्गैर्यदेतद्वोध्यते, तोत्रिषुषट्पदेषु च तुलितमवधानदानं तदप्येक तरस्यां कोटा वनिष्टामेव व्यनक्ति ।
अतो रोषहर्ष भावयोरयं सन्धिः ।
भावशबलता यथा मध्येसखीजनमुपह्वरवृत्तजातं वाचा प्रकाशयति मय्युपदेशवृत्त्या ।
सासूयसप्रणायसत्रप सप्रसादैः सा मां विलोकितवती चटुलैः कटाक्षैः ॥
अत्रासूयादीनां कटाक्षेषु समारोपाद्वाच्यता न मन्तव्या ।
अतो हृद्येवं भावशबलता व्यज्यते ।
भावशान्तिर्यथा तौ संमुखप्रचलितौ सविधे गुरुणां मार्गप्रदानरभसस्खलितावधानौ ।
पार्श्वापसर्पणामुभावपि भिन्नदिक्कं कृत्त्वा मुहुर्मुहुरपासरतां सलज्जौ ॥
अत्र मतिविबोध योरुपशमः ।
एषु रसादिध्वनिषु प्रपञ्चोऽन्यतो ज्ञेयः ।
चित्रकाव्यप्रपञ्चनपरेण ग्रन्थकृतौवातिसङ्कोचितत्वातस्माभिर्दिङ्मात्रमुदाहरणैः प्रदर्शितम् ।
अथ संलक्ष्यक्रमे शब्दशक्तिमूलोऽलङ्काररूपो वस्तुरूपश्च नियमेन भवति ।
तत्रालङ्काररूपो यथा प्राप्याधरद्वयधुरां परिचुम्बतीव लीलोत्तरं विलिखतीव नखत्वमेत्य ।
तस्याः कटाक्षवलनं गुरुसन्निधौ मामाश्र्लिष्यतीव समवाप्य च बाहुभावम् ॥
अत्रोत्प्रेक्षालङ्कारेण चुम्बनादिकारणा भावेऽपि संभोगसुखा वात्पिलक्षणाकार्योत्पत्तिरूपा विभावना व्यज्यते ।
वस्तुध्वनिर्यथा दृष्टिः कातरतामुपैति सहसा तस्मिन्पुरोऽवस्थिते, नर्मालापिनि तत्र न प्रतिवचो जिह्वाग्रमारोहति ।
संस्पर्शं च न तस्य वेत्युपचितस्तम्भं ममैतद्वपुः संवृत्तःसखि सङ्गमोऽपि विरहप्रायो विधातास्मि किम् ॥
अत्र वस्तुनि अवस्तुत्वभ्रमात्मौग्ध्यलक्षणं वस्तु प्रत्याय्यते ।
अथार्थशक्तिमूलोव्यञ्जकोर्ऽथः स्वतः संभवी कविप्रौढोक्तिनिष्पादितः कविर्निबद्धवक्तृप्रौढोक्तिनिष्पादितश्चेति त्रिरूपः ।
स चालङ्काररूपो वस्तुरूपश्चेति प्रत्येकं द्वैविध्ये षोढा ।
षड्विधस्य च व्यङ्ग्योर्ऽथो वस्तुरूपोऽलङ्काररूपश्चेति द्वादशंभेदोऽयम् ।
तथा हि स्वतःसंभविना वस्तुना वस्तु स्वतःसंभविना वस्तुना अलङ्कारः ।
स्वतःसंभविनालङ्कारोण वस्तु, तेन अलङ्कार इति चतुर्धा ।
तथा कविप्रौढोक्तिनिष्पादितेन वस्तुना वस्तु, तेनालङ्कारः कविप्रौढोक्तिनिष्पादितेन अलङ्कारेण वस्तु तेन अलङ्कारः इत्यपि चतुर्धा ।
इत्थङ्कविनिबद्धवक्तॄप्रौढोक्तिनिष्पादितेऽपि विषयेचातुर्विध्यमनुसन्धेयम् ।
अत्र प्रपञ्चः संप्रदायप्रकाशिन्यां काव्यप्रकाशटोकायां अस्माभिः वितत्योप दर्शित इति ततोऽवधार्यः ।
इह तु ग्रन्थगौरवभयात्प्रस्तावानुपयोगाच्च न प्रतन्यते ।
दिङ्मात्रन्तूदाह्लियते तत्र स्वतःसंभविना वस्तुना वस्तु यथा अद्यापि लोके न कविर्न सोऽस्ति प्राचां तुलां यः प्रबलोऽधिरोढुम् ।
पुरातनो नायमितीय देव तथापि निन्दा यदि किं करोतु ॥
अत्र स्वतःसंभविना वस्तुना अहमेवंविध इति वक्तुः स्वमाहात्म्यप्रख्यापनलक्षघणं वस्तु प्रत्याय्यते ॥
कविनिबद्धेनालङ्कारेण वस्तु यथा दृष्टिर्निष्ठुर बद्धसारखदिराङ्गार स्फुलिङ्गोपमा जिह्वे सज्जनतर्जनोल्बणाबलत्कालाङ्गुलीचञ्चले ।
दन्ताश्चान्तककेलिकाननविषां (?)कूरानुकारःसखे जङ्घे द्वे यदि तेभुजङ्गभुवनं वल्मीकशेषं भवेत् ॥
अत्र कविप्रौढोक्तिनिष्पादितेन अप्रस्तुतप्रशंसालङ्कारेण विधिविहितमनार्याणां क्विचिदंशे दौर्बल्यं विश्वमभिरक्षतीति वस्तु ।
कविनिबद्धवक्तृप्रौढोक्तिनिष्पादितोऽलङ्कारेणालङ्कारो यथा अणिवारओवगूहण संछ्रन्दालावसोअ ववसजणा ।
बन्धवमरणामहूसव दिअहे दिअहे समो अरसु ॥
छायाअनिवारितोपगूहनस्वच्छ्रन्दालापशोकविवशजनः ।
बान्धवमरणमहोत्सवः दिवसे दिवसे समवतरतु ॥
इति ॥
कविनिबद्धायाः स्वैरिण्याः प्रौढोक्तिनिष्पादितेन रूपकालङ्कारेण उपगूहनादिनिवारणाशालिभ्योऽस्य बान्धवमरणमहोत्सवस्य अतिशयप्रत्यायनात्मा व्यतिरेकालङ्कारः प्रत्याय्यते ।
इत्थमन्यदप्यूह्यम् ।
अथ गुणीभूतव्यङ्ग्यस्वरूपदिक् ।
गुणीभूतव्यङ्ग्यं वाच्याङ्गेत्यादि ।
वाच्याङ्गत्वमगूढत्वमपराङ्गत्वमस्फुटत्वम्, सन्दिग्धप्राधान्यं तुल्यप्राधान्यं काक्काक्षित्प मसुन्दरत्वमिति वाच्याङ्गत्वादयो भेदाः ।
समासोक्त्यादौ प्रदर्शितमिति ।
ध्वनिकारादिभिरिति शेषः ।
तत्र वाच्याङ्गत्वं यथा शून्ये त्वद्रिपुराजधाम्नि सुदृशां चित्रार्पिता नां करं संल्लापस्पृहया पतन्नपि मुहुः कीरःसमारोहति ।
श्रीबल्लालनृपाल! शिञ्जितरसान्मञ्जीररेखामुखं चञ्च्वग्रेण च हन्त हंसपृथुकःसञ्चालयन्क्रन्दति ॥
अत्र शून्यीकृतरिपुराजवेश्मा नायकप्रभावातिशयः प्रतीयमानोऽपि शुकहंसवृत्तान्तोपपादकत्वेन स्थित इति वाच्याङ्गत्वम् ।
इत्थमगूढत्वादयोऽपि भेदा ज्ञेयाः ।
इत्थं ध्वनिगुणीभूतव्यङ्ग्ययोः काव्ययोःस्वरूपमुपोद्गधातत्वेन यथायोगमुपन्यस्य प्रकरणा प्रतिपिपादयिषितं चित्राख्यं काव्यमधिकीर्षुराहचित्रं त्विति ।
ध्वनिगुणीभूतव्यङ्ग्यापेक्षया भेदबाहुल्यं तरबर्थः ।
अथादिसूत्रमवतारयितुमाहतथाहीतिअथ सूत्रम् ।
इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः ॥ १ ॥
ननु चित्रमित्युपक्रम्य पौनरुक्त्यप्रकारकथने का सङ्गतिः इत्यत आह आदौ पौनकुक्त्येत्यादि ।
पौनरुक्त्यप्रकाराणामेषां यदेतदादौ वचनन्तिन्निरूपयिष्यमाणानां शब्दार्थोभयाश्रयतया कक्ष्याविभागं घटयितुं कक्ष्याविभागस्यैव च स्फुटीकाराय प्रत्येकं पौनरुक्त्यग्रहणम् ।
अतोऽनुप्रासयमकादयः शब्दालङ्काराः ।
उपमारूपकादयोर्ऽथालङ्काराः ।
लाटानुप्रासादयस्तूभयालङ्काराः इति कक्ष्याविभागोऽनुसन्धेयः ।
ननु शब्दप्रतीतिपूर्वकत्वादर्थप्रतीतेः प्रथमं अर्थपौनरुक्त्यनिर्देशो न युज्यत इत्यत आहअर्थापेक्षयेत्यादि ।
अन्तरङ्गत्वं प्राथमिकत्वं, अर्थगतनिर्देशः अर्थविषयक पौनरुक्त्य निर्देश इत्यर्थः ।
चिरन्तनप्रसिद्ध्या भामहोद्भटादिपूर्वाचार्यप्रसिद्ध्यनुसारेण ।
ते हि पुनरुक्तवदाभासाख्यमर्थालङ्कारमेव पूर्वं लक्षितवन्तः ।
निर्दिष्टस्य च पौनरुक्त्यत्रयस्य सम्पब्रतिपन्नतामभिसन्धायाहशाब्दे प्रस्थान इत्यादि ।
इतिशब्दं योग्येर्ऽथे व्यवस्थापयति इतिशब्दः प्रकार इति ।
ननु त्रय एवेतिसमाप्त्यर्थता किं नेष्यत इत्यत आहत्रिशब्दादेवेत्यादि ।
अत्रायमाशयः ।
विभागेनैव त्रित्वमवगतम् ।
त्रिशब्दात्तु परिसमात्पिःसिद्धा,ऽसिद्धे सत्यारम्भो नियमायऽ इति न्यायात् ।
अत इतिशब्दः प्रकारे विवक्ष्यते ।
न च मन्तव्यं सति प्रकारशब्दे पौनरुक्त्यं प्रसजेदिति ।
प्रकारशब्दो हि पौनरुक्त्यप्रकारमाबहस च पौनरुक्त्यप्रकारः केन प्रकारेण त्रिप्रकार इति जिज्ञासायामितिशब्दः तत्प्रकार वचन इति सर्वमवदातम् ।
विभावाधिगगतं त्रित्वं त्रिशब्देन समाप्यते ।
त्रिप्रकारत्व वचनः इति शब्दस्ततो मतः ॥
इति ॥
अथैषु पौनरुक्त्येषु हेयांशं विभक्तुं सूत्रम्
तत्रार्थपौनरुक्त्यं प्ररूढन्दोषः ॥ २ ॥
प्ररुढग्रहणस्य व्यावर्त्यमुद्घाटयतिप्ररुढाप्ररुढत्वेनेति ।
उपादेये विश्रान्त्यर्थमिति ।
उपादेये प्रतियेग्यन्तरे प्रसृतायाः प्रतिपत्तॄ प्रतीतेः अव्याक्षेपाय इत्यर्थः ।
हेयांशैर्हि विविच्य त्यक्तके स्वरसा भवत्युपादेयमीमांसा ।
त्रयनिर्धारण इति ।
भावानयने द्रव्यानयनमिह अनुसर्तव्यं निर्धारिते पौनरुक्त्यत्रय इत्यर्थः ।
ननु प्ररुढं दोष इत्युच्यते ।
कोऽयं प्ररोह इत्यत आहयथावभासनमित्यादि ।
यच्छ्रवणसमनन्तरं यथावदवभातं तत्तथैव चेत्प्रतीतिःविश्रान्त्यन्तं निर्बाधमवतिष्ठेत स प्ररोह इत्यर्थः ।
यथोद्देशं पौनरुक्त्यमधिकृत्य सूत्रम्
आमुखाव भासनं पुनरुक्तवदाभासम् ॥ ३ ॥
आमुखमारम्भः ।
पर्यवसानान्यथात्व इत्यनेन हेयात्वैधर्म्यं दर्शितम् ।
ननु लक्ष्यपदे पुनरुक्तवदाभास इति स्वरूपप्राधान्येन निर्देशो न्याय्यः, न तु पुनरुक्तवदाभासमिति काव्यपरतन्त्रतया इत्यत आहलक्ष्यनिर्देश इत्यादिना ।
नापुंसकः संस्कारः पुनरुक्तवदाभासो यत्रेति बहुब्रीहिसमासाश्रयणेनालङ्कार्यपारतन्त्र्यध्वननार्थः इति लौकिकालङ्कारवन्न काव्यालङ्काराणां अलङ्कार्यपृथग्भावेनाप्यवस्थानसंभवः ।
अपि तु नियमेन काव्यपारतन्त्र्यमेवेति ।
अतिगम्भीरेंऽशे वृथाप्राथनभीरुतामाविश्रिकीर्षुराहप्रभेदास्त्विति ।
अवान्तरभेदाः प्रभेदाः ।
मङ्खीये मङ्खाख्यकविकर्तृके ।
अहीनेति ।
इनःस्वामी अहीनामिनो भुजङ्गानामधीशश्चेति ।
वलयं कङ्कणाञ्चेति आमुखे पौनरुक्त्या वभासनं, पर्यवसानेषु अहीनस्य महतो भुजङ्गाधीशस्य वपुर्वलयं कङ्कणमस्येत्यन्यथात्वम् ।
इत्थं शिलादेरपत्यं शैलादिः शैलादेः नन्दिन इव चरितमस्येति, शैलादिं नन्दयति चरितमस्येति च ।
तया क्षतः कन्दर्पो दर्पश्चेति, क्षतः कन्दर्पदर्पो येनेति च ।
तथा वृषः पुंरूपो गौश्चेति, वृषःश्रेष्ठ इति च ।
तथा शिखी पावकश्च लोचने यस्येति च शिखिपावकलोचन इति च ।
तथा सर्वमङ्गलासहितः पार्वतीश इति च सर्वैर्मङ्गलैस्महितश्तेति पौनरुक्त्यं चामुखाभासनं, पर्यवसानान्यथात्वं च अनुसन्धेयम् ।
अथ व्यस्ततया समासान्तरायश्रयतया च दर्शियितुमुदाहरणान्तरंदारुण इति ।
पौनरुक्त्यापेक्षया दारुणा इति पञ्चम्यन्तम् ।
पर्यवसाने तु प्रथमान्तम् ।
इत्थं भस्म च भूतिश्चेति भस्मवनोऽभिवृद्दिरिति च ।
तथा रक्तं च शोणां चेति च रुधिरवच्छ्रेणमिति चावगन्तव्यम्ष ।
इत्थं सुबन्तापेक्षया द्विधोदाहृतम् ।
अथ तिङन्तापोक्षयाभुजङ्गेति ।
कुण्डली सर्पो भुजङ्गश्च कुण्डली चेति भुजङ्गकुण्डलवानिति च ।
शशी शुभ्राशुः, शीतगुश्चेति ।
शं शिवः शुभ्रैः अंशुभिः शीतं चक्षुरिन्द्रियमिति च ।
हरःशिव इति चेतो हर इति च योजनीयम् ।
शशिशुभ्रांशुशीत गुरिति त्रुषु पौनरुक्त्यं दर्शितम् ।
पायादव्याच्चेति तु तिङन्तापेक्षया इत इत्यपायविशेषणत्वेन पर्यवसाने पञ्चम्यन्ततया पायादव्यादित्यन्यथात्वम् ।
पुनरुक्तवदाभासो यत्रेत्येवं हि संस्क्रिया ।
अलङ्कार्यैकनिध्नत्वव्यक्त्ये समुपाश्रिता ॥
अथ शब्दपौनरुक्त्यप्रस्तावाय सूत्रम्
शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च ।
अत्राद्यं पदमुद्देश्यं चरमं तु द्वयं विधेयम् ।
शब्दपौनरुक्तयं व्यञ्जनमात्रनिष्टतया, स्वरव्यञ्जनसमुदायनिष्ठतया च द्विप्रकारमित्यर्थः ।
ननु केवलस्वरपौनरुक्त्यस्य किं वृत्तमित्यत आहअलङ्कारप्रस्ताव इत्यादि ।
अलङ्कारो हि विच्छ्रित्तिः, तत्प्रस्तावे केवलस्वरपौनरुक्त्यम चारुत्वात्न गणनामर्हतीति भावः ।
तत्र व्यञ्जनमात्रमधिकृत्य सूत्रम्
सङ्ख्यानियमे पूर्वं छेकानुप्रासः ॥ ४ ॥
कोऽयं सङ्ख्यानियम इत्यत आहद्वयोर्व्यञ्जनेत्यादि ।
युग्मशोऽवस्थितानां व्यञ्जनसमुदायानां परस्परमनेकधासादृश्यमिह सङ्ख्यानियमः ।
किन्नामेति ।
दर्दुरो भेकः ।
कायं निपीड्य वपुरायास्य ।
सितच्छ्रदाः हंसाः ।
अत्र दर्दुरदुरध्यवसाय इत्यादौ सङ्ख्यानियमः ।
ननु सायं कायमित्यत्र कोऽलङ्कार इत्यत आहअत्र सायं शब्देत्यादि ।
यकारमात्रसादृश्यापेक्षया हि साय सायेतिच्छ्रेकानुप्रासः ।
सायं कायमिति तुसानुस्वार यकारमात्रापेक्षया वृत्त्यनुप्रासः ।
इत्थं च सति सायं शब्दे द्वयोरेकाभिधानलक्षणाःसङ्करः अभिधत्त इत्यभिधानं वाचक शब्दः एकवाचकानुप्रवेशलक्षणा इत्यर्थः ।
लक्ष्यपदं निर्विवक्षुराहछ्रेका विदग्धाः इति ।
छेकोपलालितत्वाच्छेकानुप्रास इत्यर्थः ।
अथानुप्रासान्तराय सूत्रम्
अन्यथा तु वृत्त्यनुप्रासः ॥ ५ ॥
अनयथात्वं त्रिधा संभवतीत्याहकेवलव्यञ्जनेत्यादि ।
केवलव्यञ्जनसादृश्यं समुदायत्वाभावादन्यथात्वम् ।
एकधा समुदायसादृश्यं त्वनेकधात्वविरहात् ।
त्र्यादीनां पुनःसमुदायानां द्वयातिरिक्तत्वादन्यथात्वमनुसन्धेयम् ।
लक्ष्यपदं निर्वक्तिवृत्तिस्त्विति ।
शृङ्गारादिरसविषयो योऽयं प्रतिनियमभाजां वर्णानां व्यञ्जनव्यापारः स वृत्तिरुच्यते ।
सोऽयं वर्णव्यापारोऽस्मिन् वर्णारचनात्मके कविव्यापारेऽस्तीत्युपचारेण वर्णरचनावृत्तिरित्याहतद्वती पुनरित्यादि ।
तस्यास्त्रैविध्यं दर्शयति सा च परुषेत्यादि ।
श्रुतिप्रतिकूलता वर्णानां परुषत्वम् ।
या परुषवर्णारब्धा सा गौडीयी रीतिः ।
या तु कोमलवर्णारब्धा सावैदर्भी ।
मध्यमवर्णारब्धा तु पाञ्चाली ।
एता रीतयो वामनादिभिः काव्यात्मत्वेन सिद्धिन्तताः ।
उपपत्तिपर्यालोचनायां तु काव्यात्मकथा तावदास्ताम् ।
यावता शब्दालङ्कारेष्वपि यो बहिरङ्गो वृत्त्यनुप्रासात्मा वर्णालङ्कारः तद्धर्मत्वात्तच्छ्रेषभूता एता इत्यलमप्रासङ्गिकवैदद्ध्य प्रवचनेन ।
सह्या इति ।
विषद्रवमुच इति ।
किरणापेक्षया दुःसहत्वम् ।
वाय्वपेक्षया तु गरलकल्पजलकणायोगः ।
सरला अनरालपातिन्यः ।
सितासितरुचेः उत्तरलतारकत्वातनवस्थितवर्णसन्निवेशाः साचीकृताः अपाङ्गान्निर्गन्तुमिवेहमानाःसालसा रसानुशयं निवर्तमानाः ।
यदुक्तं भावप्रकाशे"आलस्यं तदभीष्टार्थात्व्रीडादेर्यन्निवर्तनम्” इति ।
साकूता भवतु पश्याम इतीव व्याहरन्त्यः सरसाः ।
रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे ।
रोषारुणिम्ना विषयं विंलिंपन्त्यः मानानुविद्वाः दृष्टश्रुताद्यपराधजन्मा रोषोमानस्तेन संमूर्च्छिताः ज्वलत्कल्पा इत्यर्थः ।
अत्र केवलव्यञ्जनपौनरुक्त्यलक्षणामन्यथात्वम् ।
वृत्तिस्तु रोषवर्णनात्परुषा ।
आटोपेनेति ।
यद्यपि कवेर्वाणी प्रबलेन शब्दाडम्बरेण खेलन्ती प्रारम्भे प्रथते, तथापि सतां मानोरञ्जनं न कुरुते अमन्दैः सुन्दरैश्च गुणालङ्कारैः मुखरीकृतः सनिष्पन्दं विलसद्रसायन रसा सारानुसारी शृङ्गारादिको रसो यावन्न स्यादित्यत्र केवलवर्णा साम्यञ्चतुर्ष्वपि पादेष्वलङ्कारः ।
भ्फङ्कारितेत्यादावेकधा समुदायसादृश्यं रसायन रसेत्यत्र तु रसेति समुदायत्रयस्य परस्परसादृश्यमित्यनुसन्धेयम् ।
तथा च “आटोपे” त्यादौ गौडीया “अमन्दसुन्दरे” त्यादौ वैदर्भी, “गुणालङ्कारे"त्यादौ पाञ्चालीया च तत्तदर्थानुसारेण द्रष्टव्या ।
प्रकृष्टो वर्णविन्यासो रसाद्यनुगतो हि यः ।
सोऽनुप्रासःस च छेक वृत्त्यु पाधिव शाद्रूद्विधा ॥
समुदायद्वयं यत्र विविधं साम्यमृच्छति ।
सच्छेकलालनात्प्रौढैः छ्रेकानुप्रासरिरितः ॥
व्यञ्जनव्यापृतिर्वृत्तिः वर्णानां रसगोचरा ।
तत्संयोगदियं वर्णरचना वृत्तिरिष्यते ॥
सा वैदर्भ्यादिभेदेन त्रिधा पूर्वैर्निरूपिता ।
तयोपलक्षितत्त्वात्तु वृत्त्यनुप्रास इष्यते ॥
इत्थं वर्णालङ्कारो द्विधा दर्शितः ॥
अथ शब्दालङ्कारप्रस्तावः ।
तत्र यमकलक्षणाय सूत्रम् ।
स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् ॥ ६ ॥
स्वरव्यञ्जनात्मकस्य शब्दसमुदायस्य यत्तेनैव रूपेण पुनर्वचनं तद्यमनाद्यमकम् ।
तस्य पादावृत्त्यर्धावृत्तादयो भेदाश्चिरन्तनैरेव बहुधा प्रपञ्चिताः ।
ते काव्यगडुभूता इति नेहप्रतन्यन्ते ।
किन्तु सर्वेषामेवैषां भेदानामेतद्वैचित्र्यत्रयमावहतीति अभिप्रायेणाहअत्र कचिद्भिन्नार्थेत्यादि ।
यम्यमानयोः समुदाययोर्द्वयोरपि कचिद्भिन्नार्थता, क्वचिदनर्थकतका, क्वचिदेकसस्यार्थ वत्त्वमपरस्य अनर्थकत्वमिति क्रोडीकृतसकलविशेषमेतद्भेदत्रयम् ।
यो य इति ।
रुचिरे रम्ये वनजायते पद्मदलवत्दीर्घे तस्याः नेत्रे यो यः पश्ययति, तस्य तस्यान्यनेत्रेषु अभिरतिरेव न जायते ।
इदं द्वयोःसार्थकत्वे अनर्थकत्वे द्वैरूप्ये यथा त्वं रावण! जगत्पुण्यैर्लङ्कालङ्कारभूरभूः ।
वाल्मीकेर्येन ववृधे सारःसारस्वतःस्वतः ॥
अत्र “रभूरभूरि” ति अनर्थकता ।
“लङ्कालङ्कारे"त्यादौद्वैरूप्यम् ।
इत्थमर्थपौनरुक्त्ये पुनरुक्तवदाभासं शब्दपौनरुक्त्ये तु अनुप्रासयमकालङ्कारौ च विवेचितौ ।
अयोभयपौनरुक्त्ये हेयांशं विभक्तुं सूत्रम् ।
शब्दार्थपौनरुक्त्यं प्ररुढं दोषः ॥ ७ ॥
प्ररुढग्रहणस्य प्रयोजनमाहप्ररुढग्रहणमित्यादि ॥
अप्ररुढपौनरुक्त्यं वक्ष्यमाणो भेदः ।
तस्य प्ररुढाद्वैलक्षण्यमदोषात्मककत्वम् ।
तदेवादोषात्मकत्वमभियुक्तसंवादेन द्रढयतियदाहुरित्यादि ।
शब्दस्यार्थस्य च पुनर्वचनमनुवादादतिरिक्ते विषये दोषः इत्यर्थः ।
अथोपादेयांशमधिकृत्य सूत्रम् ।
तात्पर्यभेदवत्तु लाटानुप्रासः ॥ ८ ॥
यत्र पौनरुक्त्ये शब्दार्थौ तावेव, तात्पर्यमात्रं त्वन्यत् ।
सोऽयं लाटोपलालनात्लाटानुप्रासः ।
तस्मादसार्वजनीनत्वात्ग्राम्यानुप्रास इति केचित् ।
ताला जाग्रन्तीति ।
तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥
अत्र द्वितीययोर्गुण कमलशब्दयोः श्लाघाद्या श्रयत्वं तात्पर्यभेदः ।
ननु यत्र प्रकृतिमत्रं तदर्थश्च पुनरुच्यते, न प्रत्ययतदर्थौ, अत्र कोऽलङ्कार इत्यत आहअत्राब्ज पत्रेत्यादि ।
विभक्त्यादेरिति ।
आद्योहि नयनशब्दो बहुव्रीहिवर्तित्वातन्यपदार्थलिङ्ग वचनविभक्तिकः ।
द्वितीयस्तु स्वलिङ्गवचनविभक्तिकः ।
अतो नेह विभक्त्यादेः पुनरुक्तिः ।
नापि लाटानुप्रासत्वहानिः ।
कुत इत्यत आहबहुतरशब्दार्थपौनरुक्त्यादिति ।
इत्थं च सति पदनुबन्धनतया प्रातिपदिक मात्रनिबन्धनतया च लाटानुप्रासो द्विधा मन्तव्यः ।
अनन्वयाद्विशेषमस्य दर्शयतिकाशाः काशा इवेत्यादि ।
अनन्वये ह्येकस्यैवोपमानोपमेयत्वम् ।
तत्र यद्यपि अर्थपौनरुक्त्यं लक्षणम्, अथापि शब्दपौनरुक्त्यं दोषभयादङ्गीक्रियत एव ।
“यथोद्देशस्तथैव प्रतिनिर्देश” इति न्यायोल्लङ्घने पर्यायप्रक्रमभेददोषप्रसङ्गात् ।
लाटानुप्रासे तु शब्दपौनरुक्त्यमपि लक्षणमिति विशेषः ।
तदेतदाहअन्योन्यापेक्षेत्यादि ।
परस्परव्यपेक्षिणोः शब्दार्थयोः पौनरुक्त्यं लाटानुप्रासः ।
अनन्वये त्वर्थमात्रपौनरुक्त्यमित्यर्थः ।
अत्रार्थे सङ्ग्रहश्लोकः अनन्वये तु इत्यादि ।
औचित्यादुद्देशप्रतिनिर्देशयोः ऐकरूप्यसमाश्रयणलक्षणात् ॥
यत्र तावेव शब्दार्थौ तात्पर्यं तु विभिद्यते ।
तत्पौनरुक्त्यमाचार्यैर्लाटानुप्रास इष्यते ॥
दोषापत्तिभयादेव शब्दैक्यं स्यादनन्वये ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव हि लक्षणम् ॥
अथ पौनरुक्त्यनिबन्धनानामलङ्काराणां नियमनाय सूत्रम् ।
तदेवं पौनरुक्त्ये पञ्चालङ्काराः ॥ ९ ॥
यथैवं पौनरुक्त्यं व्यपाश्रित्य वर्गशोऽवतिष्ठन्ते ।
तथोपमादयोऽपि साधर्म्यादिव्यपाश्रयेण वर्गशोऽवस्थायिन इत्यव बोधितं मन्तव्यम् ।
तदिदं न्यायविदामवगतमेवेत्यभिप्रायेणाहनिगदव्याख्यातमिति ।
निगदशब्दोच्चारणं तन्मात्रेण प्रतीतार्थत्वात्व्यख्यातकल्पमित्यर्थः ।
अथ चित्रार्थं सूत्रम् ।
वर्णानां खङ्गाद्याकृतिहेतुत्वे चित्रम् ॥ १० ॥
सङ्गतिमाहपौनरुक्त्य प्रस्ताव इत्यादि ।
स्थानविशेषेषु खङ्गाद्यवयवविशेषेषु विन्यासक्रमेणश्लिष्टानां वर्णानां यत्पाठे पौनरुक्त्यं तदात्मकस्य खङ्गबन्धादिचित्रस्य कथनं पौनरुक्त्यप्रस्तावे सङ्गच्छ्रत इत्यर्थः ।
ननु कथमयं शब्दालङ्कारः? लिपिसन्निविष्टानांवर्णानां वाचकत्वाभावातित्यत आहयद्यपीत्यदि ।
खङ्गादिसन्निवेशो हि लिप्यक्षराणामेव न श्रोत्राकाश समवायिनाम्ष ।
वाचकत्वं तु श्रोत्राकाशसमवायिनामेव न पुनर्लिपि सन्निवेशिनाम् ।
इत्थं च सति खङ्गादिबन्धगतानां यद्यपि वाचकशब्दालङ्कारता नोपपद्यते, तथापि लौकिकानां लिप्यक्षरेशष्वपि वाचकत्वप्रतीतेवचिकशब्दालङ्कारत्वमुपचर्यत इति भावः ।
अतः स्थूलबुद्धिलालनीयत्वात्वाचकशब्दबहिर्भावाच्च नात्र कविभिरादरः कार्य इति मन्तव्यम् ।
आदिशब्दार्थमाहआदिग्रहणादित्यादि ।
यथाव्युत्पत्तिसंभवं, यथा शब्दः प्रत्येकमभिसंबध्नाति ।
अतो यथाव्युत्पत्ति यथासंभवं च पद्ममुरज गोमूत्रिकादिबन्धानां परिग्रहोऽभ्यनुज्ञायत इति शेषः ।
भासत इति ।
प्रतिभया सारभूत सभा ते भासते ।
बतेत्याश्चर्ये ।
रसाभाताशृङ्गारादिना समन्तादुपशोभिता ।
हताविभा निर्णाशितव्यामोहा ।
भावितात्मातत्संस्कारैः आत्मानं भावितवती ।
शुभा वादे तत्त्वबुभुत्सा(सया?) तु (वा?) विजिगीषया वा वादमात्रे विदग्धा ।
अत एव देवाभासुधर्मासदृशीत्यर्थः ।
अत्रोद्धारप्रकारमुपदिदिक्षु एषोऽष्टदल इत्यादि ।
दलानि दिक्षु चत्वारि चत्वारि च विगिक्षु, प्रथमाक्षरं कर्णिकायाम् ।
अथ दलेषु द्वयं द्वयमक्षराणां प्राग्दलात्प्रादक्षिण्येन पाठः ।
दिग्दलेषु प्रवेशनिर्गमौ ।
अत्रायं निष्कर्षः कर्णिकायां लिखेदेकं द्वौ दिक्षु विविक्षु च ।
प्रवेशनिर्गमौदिक्षु पद्मबन्धो भवेदयम् ॥
आरोप्यलिपिवर्णानां साम्याद्वाचकवर्णताम् ।
खङ्गबन्धादिकं चित्रं काव्यालङ्कार इष्यते ॥
इति ॥
इति श्रीविद्याचक्रवर्तिकृतौ अलङ्कारसर्वस्वसञ्जीवन्यां शब्दालङ्कारप्रकरणम्
॥ अर्थार्थालङ्काराः ॥ तत्र सादृश्यविच्छ्रत्तिविशेषैः नानालङ्कारबीजभूतामुपमामादौ लक्षयितुं सूत्रम् ।
उपमानोपययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा ॥ ११ ॥
उपमीयते साधर्म्यं नयतीत्युपमानमप्राकरणिकोर्ऽथः तच्च नियमेन अधिकगुणमेव भवति गुणाधावृत्वात् ।
उपमीयते साधर्म्यं नीयते इत्युपमेयं प्राकरणिकोर्ऽथः तच्च नियमेनाधेयगुणत्वात्न्यूनगुणामेवं भवति ।
तयोर्यस्तुलित भदाभेदांशः समानधर्माभिसम्बन्धः , स उपमालङ्कार इति सूत्रार्थः ।
तदेतद्व्याचिख्यासुः प्रकरणाविभागायाहअर्थालङ्कारेति ।
ननु साधर्म्यं नामैतदुपमानोपमेययोरेव भवति ।
न कार्यकारणादिकयोः ।
इत्थमपर्यवसानसिद्धयोरनयोः किं शब्दोपादानेनेत्यत आहौपमानोपमेययोरितीत्यादि ।
सुद्धे सत्यारम्भोऽयं, प्रसिद्धयोरेवोपमानोपमेययोरलङ्कारत्वमिति नियमाय ।
अतो मेरुसर्षपादौ विवक्षया परिकल्पयितुं शक्योऽपि उपमानोपमेयभावो नालङ्कारविषयः ।
अप्रतीतत्वादित्यनुसन्धेयम् ।
भेदाभेदेत्यस्य व्यावर्त्य दर्शयितुं साधर्म्यं प्रकारान्विविनक्ति साधर्म्ये यत्र इत्यादि ।
व्यकिरेकवदिति ।
“तत्र तस्येवेति"वतिः ।
व्यतिरेकालङ्कारे यथेत्यर्थः ।
यथास्यामिति ।
उदाहरिष्यत इति शेषः ।
भेगाभेदतुल्यत्व एवोपमा स्यादिति यदुक्तं तत्प्रामाणिकसंवादेन द्रढयितुमाहयदाहुरित्यादि ।
भाष्यकृदादय इति शेषः ।
सामान्यं साधर्म्यम् ।
विशेषोवैधर्म्यम् ।
सदृशतायाः उपमाया॑ साधर्म्यवैधर्म्ययोः तुलया वृत्तावुपमा स्यादिति यावत् ।
यदेतदस्या उद्देशे प्राथम्यं तत्र प्रयोजनं दर्शयतिउपमैव चेति ।
प्रकारवैचित्र्येणेति ।
तथाहिमुखं चन्द्र इवेत्युपमा ।
मुखं मुखमिवेत्यनन्वयः ।
मुखं चन्द्र इव सतदिवेत्युपमेयोपमा ।
दृष्ट्वा मुखं चन्द्रमनुस्मरामीति स्मरणम् ।
मुखमेव चन्द्र इति रूपकम् ।
मुखचन्द्रेण तापः शाम्यतीति परिणामः ।
किं चन्द्र आहोस्विन्मुखमिति सन्देहः ।
मुखं चन्द्र इतिचकोरा नन्दन्तीति भ्रान्तिमान् ।
चन्द्र एव न मुखमिति अपह्नुतः ।
नूनं चन्द्र इवेत्युत्प्रेक्षा ।
चन्द्रं पश्येत्यतिशयोक्तिः ।
अस्यां प्रावृषि मुखं चन्द्रबिम्बञ्च विच्छ्रायमित्येका तुल्ययोगिता ।
शरदि रम्यमितित्वन्या ।
इदं च तच्च रम्यमिति दीपकम् ।
मुखमेव रम्यं चन्द्र एव हृद्य इति प्रतिवस्तूपमा ।
भुविमुखं दिवि चन्द्र इति दृष्टान्तः ।
मुखदूषणं चन्द्रमसो मलिनीकरणमिति निदर्शना ।
चन्द्रादधिकं मुखं, मुखादधिकश्चन्द्र इति व्यतिकेकः ।
चन्द्रेण सह मुखमिति सहोक्तिः ।
न मुखेन विना चन्द्रः समीचीना इतिविनीक्तिः ।
कलाभिरामं मुखमिति समासोक्तिः ।
कलाभिरामौ मुखचन्द्राविति श्लेषः ।
नमस्ते चन्द्र प्रसन्नोऽसि इत्यप्रस्तुतप्रशंसा ।
मुखे रोषो न दोषाय नहीन्दो र्निन्दायै कलङ्करेखेत्यर्थान्तन्यासः ।
इत्थं स्वप्रकारवैचित्र्येण सादृश्यविच्छ्रित्तिविशेषात्मना यतो नानालङ्कारनिदानभूता, अतोर्ऽथालङ्कारेषु प्रथमं निर्दिष्टेति यावत् ।
स्थूलप्रभेदप्रथनभीरुता माविश्चिकीर्षुराहअस्याश्च पूर्णेत्यादि ।
पूर्णालुत्पात्वेत्यत्र भाषितपुंस्कत्वाभावात्न पुंवद्भावः ।
संज्ञे हि खलूपमाया एते पूर्णालुत्पाचेति ।
तत्रोपमानोपमेयसाधारणधर्म उपमाप्रतिपादकानां चतुर्णामपि शब्दो पादानेपूर्णा ।
एकस्य द्वयोस्त्रयाणां वा लोपे लुत्पा ।
अनयोर्भेदप्रभेदवैचित्र्यसहस्रमस्माभिः संप्रदायप्रकाशिन्यां काव्यप्रकाशबृहट्टीकायां वितत्य दर्शितम् ।
लघुटौकायां च यथोपयोगमिति ततोऽवधार्यम् ।
अयं पुनराचार्यः सर्वस्यैवोपमाप्रपञ्चस्य अन्यैः अनुपपादितचर वैचित्र्यत्रयमुपपादयिषुराहतत्रापि साधारणाधर्मस्येत्यादि ।
अनुगामितया उभयाभिसंबन्धार्हतया ।
मुखं चन्द्र इव हृद्यमित्येकेनैव रूपेण हृद्य त्वादेःसाधारणधर्मस्य निर्देशः क्रियते इत्येकं वैचित्र्यम् ।
अथ वस्तुप्रतिवस्तुभावेन पृथङ्निर्देश इति द्वितीयम् ।
एकोर्ऽथो वस्तुत्वेनोपमेयगतः प्रतिवस्तुत्वेन निर्दिश्यत इति यावत् ।
यदैवं पृथङ्निर्देशः, तदावान्तरभेदोऽस्तीत्याहपृथङ्निर्देशेचेत्यादिना ।
सम्बन्धिभेदमात्रमिति ।
“वलितकन्धरमाननमावृत्तवृन्तशतपत्रनिभम्” इत्यादौ हि येन सह संबध्नाति साधारणो धर्मः स सम्बन्धी, केवलं भिन्नः एकत्र कन्धरा अपरत्र वृन्तं तद्भेदोपाधिना स्वयमभिन्नोऽपि अभेदोधर्मोभेदेन निर्दिष्टः ।
इदमेकं वैचित्र्यम् ।
प्रतिवस्तूपावदिति ।
यथा प्रतिवस्तूपमायाम् ।
अभिन्न धर्मस्य भेदेन निर्देशे न्यायोयःस इहापि संभवतीति यावत् ।
यदा प्रतिवस्तूपमायाम् ।
अभिन्नधर्मस्य भेदेन निर्देशे न्यायोयःस इहापि संभवतीति यावत् ।
यदा पुनरंसार्पित हारोऽयं सनिर्झरोद्गार इवेत्यादौ साधर्म्यं धर्मिद्वारकं, तदा द्वयोरैकात्म्यभावात्न वस्तुप्रतिवस्तुभावः ।
अपि तु बिम्बप्रतिबिम्बभावनय इत्याहबिम्बप्रतिबिम्बभावो वेति ।
प्रतिबिम्बं प्रतिमा ।
हारनिर्झरादौ हि बिम्बप्रतिबिम्बनयेनसाधर्म्यावगतिः ।
अत्र नये दृष्टान्तालङ्कारं दृष्टान्तयतिदृष्टान्तवदिति ।
अत्रैतदाकूतम् ।
या यावती संभवत्युपमापूर्णा लुत्पा च सप्रभेदप्रपञ्चा सा सर्वैवास्मदुपदर्शितेन वैचित्र्यत्रयेण त्रिधा प्रथत इति ।
प्रभामहत्येति ।
प्रभापेक्षया महतीति कथनात्स्वापेक्षया तन्वीति विवक्ष्यते ।
तदेतत्प्रभामहत्त्वं दीपशिखापेक्षया देव्याः साधारणो धर्मः ।
उभे हि खलु एते स्वापेक्षया तनीयस्यौ प्रभापेक्षया तु महत्यौ ।
एवं संस्कारवत्त्वं वागपेक्षया ।
तत्र वाचिसंस्कारो व्याकृतिः, देव्यां तु निसर्गसिद्धदिव्यानुभाववासनानुवृत्तिः ।
त्रिमार्गयेत्यत्र तु साधारणधर्मः प्रतीयमानः ।
न चात्र प्रक्रमभेदः शङ्क्यः ।
जगत्पावनत्वादेःसाधारणधर्मस्य उभयत्रापि सुप्रसिद्धतमस्य शब्दोपादाननिरपेक्षत्वात् ।
इत्थं च सत्यनुपात्तस्यापि साधारणधर्मस्यानु गामितयैकरूप्येण निर्देश उदाहृतो मन्तव्यः ।
यद्वा त्रिमार्गयेत्येतदेव तन्त्रेण न्यायेन देवीविशेषणतयापि सङ्गच्छ्रते ।
तथाहित्रिवृत्करणादिवैदिकप्रक्रियानुसारेण वा, त्रैपुरादितान्त्रिकप्रक्रियानुसारेण वा देव्यास्त्रिमार्गत्वं प्रसिद्धमेव ।
हिमगिरेस्तु दीपत्रिदिवमार्गमनीषिभिःसह साधारणो धर्मः पूतत्वम् ।
विभूषितत्वं या आद्यन्तवाक्यापेक्षया पूर्णोपमा ।
मध्यमवाक्यापेक्षया लुत्पसाधारणधर्मा ।
तत्रापि सा पूर्णैव वा ।
सा च मालारूपेणावस्थानान्मालोपमेत्यादि वैचित्र्यमनुसन्धेयम् ।
अथ वस्तुप्रतिवस्तुभावेनोदाहरतियान्त्येति ।
मालतीविलाससाक्षात्कारोत्क्षुभितमन्मथस्य माधवस्येयमुक्तिः ।
यान्त्या उपवनात्पुरं प्रति करेणुकया गच्छन्त्यासहचरीसंल्लापादिव्यपदेशेन वारंवारमपवृत्तशिरोधरा, अत एव आवृत्तवृन्तस्य कलहंसकर्णकण्डूयनादिना विवलितबन्धनस्य कुशेशयस्य सदृश्यमाननं वहन्त्याः कटाक्षो मे हृदये निखातः ।
अपाङ्गे निक्षित्पा चक्षुःप्रभा स कटाक्षः, सः कीलित इव ।
केन प्रकारेण? गाढं परिचाल्यापि उत्कीलयितुं न शक्यते, यथा तथेति यावत् ।
कीट्टक्कटाक्षः? अमृतेन दिग्धः लित्पः, यतस्तदा जीवातुरभूत् ।
विषेण च दिग्धः यतःसंप्रति दहति ।
अत्रैक एव धर्मःसम्बन्धिभेदेन वलितावृत्तशब्दाभ्यां वस्तुप्रतिवस्तुभावेन निर्दिष्टः ।
वस्तुप्रतिवस्तुभावोऽयं धर्मापेक्ष एव ।
बिम्बप्रतिबिम्बभावस्तु धर्म्यपेक्ष इति व्यवस्थार्थमाहधर्म्यंभिप्रायेणेत्यादि ।
पाण्ड्योऽयमिति ।
हारनिर्झरादीनां धर्मित्वाद्विम्बप्रतिबिम्बभावः ।
भेदाभेदतुलावृत्तौ साधर्म्यमुपमोच्यते ।
धर्मविच्छित्तिवशतः त्रैविध्यमुपयाति सा ॥
अनन्वयं सूत्रयति
एकस्यैवोपमानोपमेयत्वे अनन्वयः ॥ १२ ॥
ननु उपमेयत्वमुपमानत्वं च कथमेकत्रैव सङ्गच्छ्त इत्याहवाच्याभिप्रायेणोत्यादि ।
पूर्वं रूपमुपमेयत्वं तदनुगमो वाच्याभिप्रायेण यत्पुनरपूर्वं रूपमुपमानत्वं तदनुगमो व्यङ्ग्याभिप्रायेणेति यावत् ।
नन्वेकत्र विरुद्धधर्मोपनिबन्धलभ्यः कोर्ऽथ इत्यत आहएकस्य तु विरुद्धेत्यादि ।
सब्रह्मचारी सदृशः ।
एकस्यैवोपमानोपमेतत्वकॢत्पिः सदृशान्तरसम्बन्धनिवृत्त्यर्थमित्यर्थः ।
यत इत्थं सदृशान्तरस्यानन्वयः अतःसंज्ञेयमन्वर्थेत्याहअत एवानन्वय इत्यादि ।
योगः प्रवृत्तिनिमित्तम् ।
अपि शब्देन सदृशान्तरनिवृत्तिःसमुञ्चीयते ।
यद्धेर्ऽजुन इति ।
उत्प्रासनमभिप्रायपरिज्ञानम् ।
अत्र प्रथमार्जुनभीमशब्दौ वाच्यपरौ, चरमौ तु व्यङ्ग्यपरौ ।
विरुद्धधर्मसंसर्गस्तुल्यान्तरनिवृत्तये ।
अतस्तदन्वयाभावात्भवेदयमनन्वयः ॥
अथ तृतीयसब्रह्मचारिनिवृत्तिफलीमुपमेयोपमां सूत्रयति
द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ॥ १३ ॥
द्वयोरुपमानोपमेयभावविनिमये सत्युपमेयोपमालङ्कार इत्यर्थः ।
तदेतद्व्याचष्टेतच्छब्देनेत्यादि ।
तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्श इति वदता सन्निहितानन्वयप्रत्यवमर्शशङ्का निवार्यते ।
अनन्वयाद्वैधर्म्यान्तरं दर्शयितुमाहपर्याय इत्यादि ।
यौगपद्यमिहैकवाक्यानुप्रवेशः ।
तदभावाद्भिन्नवाक्यत्वमेवेत्याहअतैवत्विति ।
अत्रायमाशयः ।
उपमेयमुद्देश्यम्, उपमानं तु विधेयम् ।
इत्थं च सत्युपमानोपमेयभावव्यत्ययो वाक्यैकवाक्यतामन्तरेण न संभवति ।
अनन्वये तु पदैकवाक्यतैवेति ।
अत्र बिम्बप्रतिबिम्बभावो न संभवति ।
भिन्नवाक्यत्वेन तन्निबन्धनवैचित्र्यप्रतीतेः ।
साधर्म्यनिबन्धनमन्यत् ।
वैचित्र्यद्वयं संभवतीत्याहैयं तु धर्मस्येत्यादि ।
साधारण्यमैक्यरूप्येण निर्देशः ।
वस्तुप्रतिवस्तुभावस्तु प्रतीतचरः ।
खमिवेति ।
अत्र प्रतीयमानस्य नैर्मल्यधर्मस्यानुगामित्वेन साधारण्यम् ।
सच्छ्रायेति ।
छ्राया, शोभा अत्र सच्छायत्वं सम्बन्धिभेदाद्भिन्नम् ।
उपमानोपमेयत्वव्यत्ययो न क्रमं विना ।
उपमेयोपमा तेन वाक्यभेदैकगोचरा ॥
अथ स्मरणं सूत्रयति
सदृशानुभावाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥ १४ ॥
सदृशानुभवात्सदृशान्तरस्मरणं स्म्रणालङ्कारः ।
व्याचष्टेवस्त्वन्तरमिति ।
सदृशं समभिव्याहाराद्वस्त्वन्तरसदृशमेवेति भावः ।
द्विष्ठस्य धर्मस्य एकत्र स्थास्नोः प्रतियोग्यपेक्षामन्तरेण अनुपरमादनुमानवैर्म्यायाहअवनाभावेत्यादि ।
अविनाभावो व्यात्पिः ।
नहि गवादिदर्शने नियमेन गवयादिसदृशान्तरस्मरणमस्ति ।
तादात्म्यवदुत्पत्त्योरन्यतराभावेनालिङ्गत्वात् ।
अतिशयितेति ।
इयं योद्धुकामं लवमालोक्य सकौतुकस्य सूतस्य चन्द्रकेतुं प्रत्युक्तिः ।
तदैव तुल्यरूपमिति सदृशानुभावोद्गघाटनम् ।
असादृश्यहेतुका स्मृतिर्नस्मरणालङ्कार इत्याहसादृश्यं विना त्विति ।
प्रत्युदाहरतिअत्रानुगोदमिति ।
अत्र हि पूर्वानुभूतार्थदर्शनादेव स्मृतिः न तु सदृशानुभवात् ।
प्रसङ्गात्गूढमभवन्मतयोगदोषमुद्घाटयतिअत्र च कर्तृविशेषणानामित्यादि ।
मृगयादशाभाविकर्तृविशेषणानां स्मरामीति स्मरणक्रियाकर्तृर्दाशरथेर्विशेषणानां मृगयनिवृत्त्यादीनां स्मर्तव्यदशाभावित्वेऽनुभूतचरत्वात् ।
स्मर्तव्यमृगयादशभावित्वे युक्ते स्मर्तृदशाभावित्वं मृगयानिवृत्तिंस्मरामीति स्मरणकालभावित्वमसमीचीनम् ।
नहि मृगयानिवृत्त्यपनीतखेदत्वादिविशिष्टस्मृतिः ।
किन्तु मृगयानिवृत्त्यादिकं स्मर्तव्यसुत्पिविशेषणमत इष्टार्थोऽपि न भवतीत्यभवन्मतयोगाख्योऽयं दोषः ।
ननु यदि प्रेयोऽलङ्कारो रतिभावात्मकः, न तदा स्मृतिः ।
यदा तु व्यभिचारिभावात्मकस्तदा स्मृतिरूपोऽपि कदाचित्संभवति ।
ततोऽस्य स्मरणालङ्कारस्य किं वैधर्म्यमित्यत आहप्रेयोऽसङ्कारास्य त्वित्यादि ।
उदाहृत्य दर्शयतिअहो कोपेऽपि कान्तं मुखमित्यादि ।
अत्राभिनिविष्टस्य नायकस्य प्रियानुरागसंस्काराणां सस्कारान्तराभिभाव कतयाभूयोभूयःसमुद्धुध्यमानानां महिम्नैव स्मृतिः, नहि सदृशानुभावात् ।
वैधर्म्यान्तरमुद्धावयतितत्रापि विभावेत्यादि ।
विभावानुभावादिभिः यदा स्मृतिर्व्यज्यते, तदैव हि भावालङ्कारः ।
यैर्दृष्टोऽसीति ।
प्रासप्रहारनेत्रयोरसृक्स्त्रुत्यनलज्वालयोः परपातनकालदहनयोः नायकस्मररिप्वोश्च सादृश्यं विवक्ष्यते ।
अत्र योऽयं सदृशवस्त्वन्तरानुभावोयैर्दृष्टोऽसीति निर्दिष्टः ।
नासौ स्मररिपुस्मरणजननात्स्मरणालङ्कारः किन्त्वशक्यस्मररिपुदर्शनकौतुकास्तमयरूपार्थान्तरकरणात्मा विशेषालङ्कारः ।
एतद्दर्शनेन तदपि सिद्धमिति प्रतीतेः ।
नन्वशक्यवस्त्वन्तरकरणं विशेषालङ्कारस्य लक्षणं, इह तु करणं नोपलभामह इत्यत आहकरणास्येत्यादि ।
कृञ्भ्वस्त्यर्थानां सर्वधात्वनुयायित्वात्क्रियायाःसामान्यात्मा करोत्यर्थः दर्शनेऽपि संभवत ।
यिदुक्तमस्माभिः प्रयोगदीपिकायाम् ।
“तेऽस्त्यर्था धातवोज्ञेया य उदासीनकर्तृकाः ।
विकुर्वाणप्रयुञ्जानकर्तृका भूकृञर्थकाः " ॥
इति ॥
येषां कर्तारः उदासतेतेऽस्त्यर्थाः ।
येषां विकुर्वते ते भवत्यर्थाः ।
येषां तु प्रयुञ्जते ते करोत्यर्थाः ।
अतोदृशिः प्रयुञ्जानकर्तृकत्वात्करोत्यर्थ एवेति सिद्धम् ।
ननु स्मररिपुदर्शनकौतुकास्तमये प्रकृतनायकदर्शनं हेतुरिति काव्यलिङ्गं किं न स्यादित्यत आहमतान्तर इत्यादि ।
अस्मद्दर्शने विशेषालङ्कारः, मतान्तरे काव्यलिङ्गं, स्मरणं तु सर्वत्र न भवतीति भावः ।
काव्यलिङ्गत्वाभावे अशक्यकरणात्मा विच्छित्तिविशेषहेतुः ।
स्मृतिःसा स्मर्यते यत्र सदृशात्सदृशान्तरम् ।
असादृश्यादवाच्यत्वादितः प्रेयान्विभिद्यते ॥
इत्थं भेदाभेदतुल्यत्वेऽलङ्कारान्विविच्य अभेदप्राधान्यमधिचिकीर्षुराहतदेते सादृश्येत्यादि ।
तत्राप्यारोपमूललङ्काराणां बीजभूतं रूपकमादौ सूत्रयति
अभेदप्राधान्य आरोप आरोपविषयानपह्नवे रूपकम् ॥ १५ ॥
ऽमुखमेव चन्द्रऽ इत्यादौ हि साधर्म्यमभेदप्राधान्यम् ।
चन्द्रत्वाद्यारोपस्य यो विषयो मुखादिः तस्यानपह्नवश्च रूपकालङ्कार इति सूत्रार्थः ।
तदेतद्व्याचष्टेअभेदस्येत्यादि ।
भेदस्य वस्तुतःसद्भाव इत्यातिशयोक्तितो वैधर्म्यदर्शितम् ।
अथारोप शब्दार्थं विवृण्वन् व्युदसनीयविषयविवेचनपुरस्कारेण विषयमस्य विवेचयतिआरोपोऽन्यत्रान्येति ।
अन्यत्र हि मुखादौ अन्यस्य चन्द्रादेरध्यवसानमारोपः ।
स च द्विष्ठत्वात्विषयिणा विषयेण चावष्टभ्यते ।
इत्थं द्वौ शब्दौ सिद्धौ ।
यदा चन्द्र एव न मुखमिति विषयस्यापह्नवः तदापह्नुत्यलङ्कारः ।
अनपह्नवे तु रूपकमिति विभागः ।
लक्ष्यपदं निर्वक्तिविषयिणा विषयस्य रूपवतः करणादिति ।
विषयी विषयं स्वेन रूपेण रूपवन्तं करोतीति रूपकमित्यर्थः ।
उपमातः प्रभृति साधर्म्याधिकारमनुस्मारयतिसाधार्म्यं त्वित्यादि ।
तत्रार्थे संवादायाहौपमैवेत्यादि ।
तिरोभूतभेदा नत्वपह्नुतभेदा ।
आरोपमूलस्याध्यवसायमूलेभ्य उत्प्रेक्षादिभ्यो निर्देशप्राथम्यंन्यायतोऽवस्थापयतिआरोपादभेदेनेत्यादि ।
प्रकृष्यते ।
अतिसादृश्यप्रत्यायनाद्रसस्य प्रत्यासन्नोपकारी भवतीत्यर्थः ।
इतिर्हेतौ ।
यत इत्थमभेदेनाध्यवसायः प्रकृष्यते, अतस्तन्मूलालङ्काराणां विभजनं पश्चात्करिष्यत इति शेषः ।
अत्रेदमनुसन्धेयम् ।
इह यावानलङ्कारवर्गो विवेचयिष्यते, विवेचितचरश्च, स सर्वश्चैव(तस्य सर्वस्यैव?) अत्र रसं(प्रति?)प्रत्यासन्नोपकारिता पुनरारादुपकारिता ।
तत्र यद्यपि प्रत्यासन्नोपकारिणां प्राधान्यं, तथापि तेषां सूक्ष्मतरत्वात्स्थूलालङ्कारपुरस्कारेण व्युत्पादनमिति ।
तद्भेतानाहैदञ्च निरवयवमित्यादि ।
परम्परितं परम्परायातम् ।
प्रथमग्रहणं प्रभेदान्तरप्रथनोपोद्घातः ।
निरवयवस्य द्वैविध्यं दर्शयतिआद्यमित्यादि ।
केवलं सहचररूपकान्तररहितं मालारूपकं नानारूपकसाहचर्यावस्थम् ।
सावयवस्य द्वैविध्यमाहद्वितीयं समस्तेत्यादि ।
वस्तुशब्दोऽत्र पदार्थवचनः ।
समस्तानि निरवशेषाणि विशेषण विशेष्यात्मकानि वस्तूनि विषयो यस्य तत्समस्तवस्तुविषयम् ।
यत्पुनः विशेषणांशे क्वचिन्न क्रियते विशेषणांशान्तरे विशेष्ये च क्रियते तदेकदेश एव विशिष्य वर्तनादेकदेशविवर्ति ।
परम्परितं तु चतुर्धेत्याहतृतीयं तु श्लिष्टाश्लिष्टेत्यादि ।
श्लिष्टशब्दमश्लिष्टशब्दं चेति द्वैरूप्यमनुप्रपद्य प्रतिस्वं केवलं मालारूपं चेति प्रतम इत्यर्थः ।
भेदचर्चां निगमपतितदेवमष्टाविति ।
केवलनिरवयवं, मालानिरवयवं, समस्तवस्तुविषयं सावयवम्, एकदेशविवर्ति सावयवं, श्लिष्टशब्द केवलपरम्परितं, श्लिष्टशब्दमालापरम्परितम्, अश्लिष्टशब्दकेवलपरम्परितम्, अश्लिष्टशब्दमालापरम्परितञ्चेति ।
यदा तु विशेषणांश रूपणबलादेव विशेष्ये रूपकमर्थादवगम्यते, तदा समासोक्तिरूपकम् ।
यद्वा समासेनोक्तम् ।
एवमादिभेदाः स्थूलतया न प्रतन्यन्त इति आहअन्येत्वित्यादि ।
दास इति ।
अस्मीत्यहमर्थे निपातः ।
अत्र पुलकाङ्कुराणां कण्टकत्वेन निरवयवरूपणम् ।
तच्च रूपकान्तरसाहचर्याभावात्केवलम् ।
पीयूषप्रसृतिरिति ।
दात्रं लवित्रं, लूनिर्लवनम् ।
विमनस्कत्वं निशि विरहेणद्विर्भावो द्विरुदयः एतन्मालानिरवयवम् ।
विस्तारशालिनीति ।
पत्रपात्रं पलाशोपरचितममत्रं, भानिताराः ।
भक्तमन्नं, धनं शृतम् ।
अत्र ग्राम्यजनोक्तौ समस्तपदार्थविषयत्वात्समस्तवस्तुविषयं सावयवं रूपकम् ।
आभातीति ।
क्षितिभृद्राजा स एव क्षितिभृत्शैलः ।
निस्त्रिंशः खङ्गः स एव तमालवनान्तलेखा ।
अत्र कीर्तीनां हठहृतमहिलात्वमर्थात्प्रतीयत इति एकदेश विवर्ति सावयवम् ।
क्षितिभृत इत्यंशे तु संकरः इत्यभिप्रायेणाहक्षितिभृत इत्यत्रेत्यादि ।
किं पद्मस्येत्यादि ।
अत्र न हन्ति किमित्यादौ नाञा प्रथमतो हननादिनाषेधः किमिति काक्वा निराक्रियते ।
अतो हन्त्येवेत्याद्यर्थः सम्पद्यते ।
अत्र वक्त्रेन्दुरिति रूपणं यस्येन्दुनिष्ठस्य पीयूषस्य हेतुः तदधरामृतेन सह श्लिष्टम् ।
इतरथा तदपीहास्तीत्युपन्यासः कथं सङ्गच्छ्रते ।
अत इन्दुरूपणद्वारा भातत्वात्परंपरितं केवलं च ।
तदेतद्दर्शयितुमाहअत्र वक्त्रेन्दुरूपणेत्यादि ।
विद्वन्मानसहंस इति ।
विदुषां मानसमेव मानसं तत्र हंसः , वैरिणां कमलायाः लक्ष्म्याः सङ्कोच एव कमलानामसङ्कोचः ।
तत्र दीत्पद्युते गभस्तिमालिन् ।
दुर्गाणां नदीशैलादि परिक्षेपवतामावासानां मार्गणमन्वेषणम् ।
तदभाव एव दुर्गायाः कात्यायिन्या मार्गणं तत्र नीललोहितः ।
समितः संग्रामाः ता एव समिध एधांसि तत्स्वीकारे वैश्वानरः ।
सत्ये प्रीतिरेव ।
सत्यां दाक्षायिण्याम् ।
अप्रीतिस्तद्विधाने ।
दक्षः दक्षप्रजापतिः विजये प्राग्भावोऽग्रेसरता स एव विजयादर्जुनात्प्राग्भावः पुरोजन्म तत्र भीम!वत्सरशतमित्यन्तसंयोगे द्वितीया ।
क्रियाः कुरु ।
अत्र विदुषां मानसेत्वं हंस इति प्रतीतौ कथमस्य हंसत्वमिति विमर्शो जातो, मानसपदे श्लेषमवगमयति ।
तथावगमितेन श्लेषेण हंसत्वमेव व्यवतिष्ठत इति श्लिष्टशब्द परंपरितम्ष ।
तच्च मालारूपम् ।
तदिदमभिसन्धायाहअत्र त्वमेवेत्यादि ।
समर्थत्वभयावहत्वलक्षणयोरर्थयोराभासनमात्रमेवेति न विरोधः ।
यद्वा तत्र अंशे श्लेष एवास्तु ।
दक्षभीमपदयोः श्लेष एव प्रतीतिविश्रान्तः अंशान्तरमिहोदाहरणमिति सर्वमवदातम् ।
यामीति ।
तरण्डंल्पवः ।
अत्र तरण्डत्वरूपणसिद्धिः ।
जन्मजरामरणानां अर्णवत्वरूपणायत्तेत्यश्लिष्टशब्दरूपणं केवलं परम्परितम् ।
पर्यङ्क इति ।
पर्यङ्को विष्टरः ।
वंशः कुलम्, वेणुश्च ।
स्त्यानं घनम् ।
मुरलोदेशविशेषः ।
सौविदल्लः कञ्चुरी ।
इदं स्पष्टमेवाश्लिष्टशब्दमालापरम्परितम् ।
ननुक्ष्मासौविदल्ल इत्यत्र भूमेः महिष्यादिरूपणमशाब्दमित्यत आहअत्र क्ष्मेत्यादि ।
किमनेनांशविषमोदाहरणेन प्रयोजनमित्यत आहएवमादयोऽपीत्यादि ।
तथापि अत्र समासोक्त्यादिभेदो निरुदाहरणं सूचितम् ।
आभातिक्षितिभृत इत्यत्र सङ्करः ।
क्ष्मासौविदल्लैत्यत्र परंपरितमप्येकदेशविवर्तीत्येवमादयो भेदा इति यावत् ।
न केवलमिदं परंपरितं रूपकमन्वयमुखेनैव यावता व्यतिरेकमुखेनापि संभवतीत्याहैदं चेत्यादि ।
सौजन्येति ।
सौजन्यरूपस्याम्बुनो मरुस्थली अत्यन्तमसंभवात् ।
सुचरत रूपस्य चित्रकर्मणो गगनभित्तिरनधिष्ठानत्वादित्यनुसन्धेयम् ।
दुराशया दुरभिप्राया दुष्टया लिप्सया च ।
ननु रूपके यस्यारोपस्तस्य धर्मित्वादाविशष्टलिङ्गसङ्ख्याकत्वं युक्तम् ।
तत्राविष्टलिङ्गत्वं व्यात्पमाविष्टसङ्ख्यात्वं तु क्वचिद्व्यभिचरति ।
तत्र का गतिरित्यत आह अत्र चारोप्यमाणस्येत्यादि ।
सत्यम्, आविष्टलिङ्गसङ्ख्याकत्वं धर्मिणो युक्तं, तत्र लिङ्गान्यथा करणो गतिरस्ति काचित् ।
सङ्ख्यान्यथाकारस्तु प्रत्येकमारोपादुपपद्यते ।
तदेतदुदाहृत्य हृदयं गमयतियथाक्वचिदित्यादि ।
दावाग्निषु प्रत्येकमारोपात् ।
कपिलमुनावसत्यपि बहुत्वसङ्ख्योपपत्स्यत इति यावत् ॥
निपवकाशत्वाद्वली श्लेशःसर्वालङ्कारबाध इति सिद्धान्तयिष्यते ।
तेन श्लेषेणरूपकबाध इति सोदाहरणमाहभ्रमिमरतिमित्यादि ।
भ्रमिः शिरोघूर्णि ररतिरनवस्था ।
आलस्यमभीष्टतानिवृत्तिः ।
प्रलय इन्द्रियोपरतिः , मूर्च्छ्रा तेषामान्ध्यं तमोऽन्तर्धूमायमानता, शरौरसादः अङ्गानामप्रभविष्णुता, मरणं प्रतीतम् ।
तैरेतैः निमित्तैरष्टभिः विषकार्यैरेव गरलरूपोर्ऽथं उद्भाव्यत इति नेह विषशब्दश्लेषो रूपकहेतुकः ।
यथा विद्वन्मानस इत्यादौ ।
किन्तु श्लेषे पूर्वसिद्धे रूपकहेतुः इति ।
एवंविधे विषये श्लेष एव न तु रूपकमित्याहुः ।
न्यायविद इति शेषः ।
यत्त्वभेदप्रधानं स्यात्साधर्म्यं तद्द्विधा मतम् ।
आरोपाध्यवसानाभ्यामारोपे रूपकं भवेत् ॥
वस्तुतो भेदसद्भावाच्छ्रङ्क्या नातिशयोक्तिता ।
विषयस्याना पह्नुत्या न चैतत्स्यादपह्नुतिः ॥
ततो विषयिरूपेण रूपवान् विषये मतः ॥
आरोपणेन क्रियते तेनैतद्रूपकं मतम् ॥
भेदस्तृतीयो यस्तत्र परंपरितसंज्ञकः ।
साधार्म्येणापि तत्सिद्विर्वैधर्म्येणापि दृश्यते ॥
विषय्यारोप्यते येन प्रतिस्वं विषयेषु तत् ।
भवेद्विषयसङ्ख्यात्वं सङ्ख्याभेदेऽपि धर्मिणोः ॥
रूपकं पूर्वसंसिद्धं श्लेषमुत्थापद्यदि ।
तदा रूपकमेव स्यादन्यथा श्लेष इष्यते ॥
अथ रूपकात्प्रकृतोपयोगलक्षणवैधर्म्यशालिने परिणामालङ्काराय सूत्रम्
आरोप्यमाणास्य प्रकृतोपयोगित्वे परिणामः ॥ १६ ॥
प्रकृतोपयोगित्वं विविच्य दर्शयितुमाहआरोप्यमाणं रूपकमित्यादि ।
आरोप्यमाणं चन्द्रत्वादि ।
प्रकृतोपयोगित्वाभावादिति ।
प्रकृतं मुखादि, तत्रोपयोगित्वं वाक्यार्थानुप्रवेशपर्यन्तमारोपणविवक्षायां स्यात् ।
तद्वि रूपके न्स्ति ।
“मुखमेव चन्द्रऽइत्येतावतैव रूपकत्वसिद्धिः ।
तस्मादारोप्यमाणं चन्द्रत्वादिमुखादौ प्रकृतार्थे ताद्रूप्यप्रतीत्याधानरूपेण उपरञ्जकत्वेनैव रूपकालङ्कारेऽन्वयं भजते ।
परिणामेत्विति ।
परिणामालङ्कारे पुनः आरोप्यमाणं न केवलं प्रकृतोपरञ्जकं यावता प्रकृतरूपमपह्नुवानं सत्तदात्मत्वेनोपयुज्यते ।
अत इह वाक्यानुप्रवेशान्तमारोपविवक्षा ।
सा चाप्रकृतस्य प्रकृतरूपापत्तावेवोपयुज्यते ।
न पुनः रूपकवत्प्रकृतस्य अप्रकृतरूपापत्तौ ।
तदेतदाहप्रकृतमारोप्यमाण रूपत्वेनेत्यादि ।
अत्रैतदुपह्वरम् ।
आरोपस्य द्विष्ठत्वेऽपि प्रकृताप्रकृतयोर्नैकविधा वृत्तिः ।
विषय विषयित्वेन विवक्षा नियमात् ।
विषयः खलु आधेयगुण एव भवति ।
विषयी पुनर्गुणाधात्तैव भवति ।
इत्थं च सति विषयित्वारोपणं विषये ताद्रूप्यप्रतीतिमात्रं चेद्विवक्ष्यते, तदा ताद्रूप्यप्रतीति जनकत्व मात्रमु परञ्जकत्वमित्ये तावतैव आरोपणस्य चरितार्थता ।
अतस्ताद्रूप्यप्रतीतिमात्र प्रसिद्ध्यर्थं प्रकृतम् (अ)प्रकृत रूपापान्नं भवति रूपके ।
परिणामे तु प्रकृतोपयोगान्तमारोपविवक्षयेति ।
स्वरूपादप्रच्युतस्यैव प्रकृतस्याप्रकृतरूपो पग्राहित्वलक्षणावस्थान्तरापत्तिरेव ।
इतरथा रूपकन्यायेन प्रकृतस्य स्वरूपस्थगनेन प्रकृतमेव न प्रतीयेत ।
का तत्र प्रकृतोपयोगिता? तदभावे च का रूपकस्य विविक्तविषयता? प्रायेणात्र प्राचामाचार्याणामपि व्यामोहकलानुवृत्तिरिति रहस्यमुद्धाटितम् ।
रूपकपरिणामविषयविवेचनस्यात्र संङ्ग्रहायावान्तरश्लोकौ विषय्याकारमारोप्य विषयस्थगनं यदा ।
रूपकत्वं तदा तत्र रञ्जनेन समन्वयः ॥
यदा तु विषयो रूपात्स्वस्मादप्रच्युतो भजेत् ।
उपयुक्त्यै पराकारं परिणामस्तदा मतः ॥
इति ॥
नन्वयं लक्षणपरिणामः साङ्ख्यैरप्युपवर्णितः ।
तथाहिधर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चेति त्रिधा परिणामः सङ्ख्यातः ।
तत्र लक्षणपरिणामत्किमस्य वैधर्म्यमित्यत आहआगमानुगमेत्यादि ।
आप्तोक्तिरागमः ।
अनुगमो व्यात्पिः ।
व्यावृत्तिर्विगमः ।
तदभावात्तद्वैलक्षण्यम् ।
न खल्वयं काव्ये लक्षणपरिणामः आगमरूपेण वा अनुमानरूपेण वा ख्या (त इ)त्यलं प्रसंगेन बहुना ।
तत्रापि साङ्ख्ययोगादिशास्त्रविषयेण प्रतिज्ञातं खल्वस्माभिः श्रीगुरुप्रसादसमनन्तरं शैशव एव यथा “शैवं विष्णुनिबद्धमौपनिषदं साङ्ख्यं सपातञ्जलम् ।
शास्त्रं स्वात्महिताय वेद सकलैःसाकं पुराणादिभिः ॥
भूतानां तु विनोदनाय भरतं नीर्ति च वात्स्यायनम् ।
षड्भाषाकवितां च लक्षणवतीं श्रीचक्रवर्ती कविः " ॥
इति ॥
स्पर्धया सिसाधयिषु (षून्)दुस्तार्किकजरद्गवान् प्रत्यापहालपरस्य ममायमन्यः श्लोकः साङ्ख्यं वेश्मनि वेश्मनि श्रुतिशिरः कक्ष्यासु कक्ष्यासु च द्वारि द्वारि शिवागमाः पथि पथि प्राचां कवीनां गिरः ।
पठ्यन्ते यदसूयिभिर्जडदरप्रज्ञैर्जरत्तार्किकैः तत्सर्वं खलु चक्रवर्तिकवितुर्विद्यायशोडिण्डिमः ॥
इति ॥
महाराज वीरबल्लालास्थानजुषां विदुषां प्रसादाशिषो हि मय्येताः प्रथन्ते ।
कास्ताः? संस्कृतसार्वभौमः , प्राकृत पृथ्वीश्वरः शौरसेनी शिरोमणि मगिधीमकरध्वजः षैशाचीपरमेश्वरोऽपभ्रंशराजहंसोऽलङ्कारचक्रवर्ती ध्वनिप्रस्थानपरमाचार्यः सहजसर्वज्ञ(ः)परमयोगीश्वरः शैववैष्णवयोगसाङ्ख्यप्रमुखसमस्तस्वात्मविद्यातत्त्वनिष्णा(तः)श्रुताधिगतसमस्तविद्याकलापोऽद्वैतविद्याविद्वेषिवनदावानल(ः) कलियुगस्कन्द(ः)अभिनवभट्टाचर्यवैदिकविद्याप्रतिष्ठापनपरमाचार्य(ः)काव्यमीमांसाप्राभाकरवादिमृगेन्द्र(ः) वेशष्याभुजङ्ग इत्याद्या महाराजहोसलराज कुलद्वारि प्रशस्ति शिलाशासनप्रभृतिभिः वयमुपशान्तरभसाः ।
अत्र तु ग्रन्थे काव्यमीमां(सा)निकषतां ममोपयान्तु वत्सलाःसचेतसः ।
प्रकृतमनुसरामः ।
सा चायं परिणामालङ्कारो द्विरूप इति व्युत्पादयतितस्य सामानाधिकरण्येत्यादि ।
तीर्त्वेति ।
धुनी सरित् ।
आत्मना तृतीय इत्यनेन सीतासौमित्रिव्यतिरिक्तपरिजनविसर्जनं प्रत्याय्यते ।
आतरस्तरणपण्यम् ।
तस्मै नाविकाय गुहाय ।
व्यामशब्देन तत्परिमाणामुच्यते तदिह बाहुद्वयं लक्षयति ।
तद्ग्राह्यस्तनीत्वेन तु कृच्छ्रानुयाने हेतुरूपन्यस्तः ।
अत्रातरस्या प्रकृतस्या न केवलं मैत्रीताद्रूप्यप्रतीतिमात्रं विवक्ष्यते, अपि तु नदीतरणप्रत्युपकरणात्मकं प्रकृतोपयोगित्वमपि ।
अतः अप्रकृतस्य प्रकृतरूपापन्नस्य प्रकृतोपयोग इति प्रकृतस्य स्वरूपादप्रच्युतेः परिणामत्वम् ।
तदेतद्दर्शयितुमाहअत्र सौमित्रिमैत्रीत्यादि ।
समानाधिकरणग्रहणं प्रथमप्रकारत्वप्रथनाय ।
प्रकृतरूपापन्नस्य प्रकृतोपयोग इति परिणामबीजभूतं उपयोगित्वमुद्धाटयितुमाहभ्रातसस्य मैत्रीत्यादि ।
यत इत्थं सामानाधिकरण्यप्रयोगे परिणामालङ्कारस्य विषयव्यवस्थातस्मात्समासोक्तिसाधर्म्यमस्तीति व्युत्पिपादयुषुरुपक्रमतेतवत्र यथेत्यादिना ।
विशेषणासाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिर्वक्ष्यते ।
उपोढरागेण विलोलतारकं तथा गृहीतं शशिना नसामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥
अत्रोपोडरागत्वविलोलतारकत्वादिहेतुना नायिकानायकयोः धर्मविशेषः गृहीतः ।
न लक्षित[मि]ति वाक्यानुप्रेशान्तं विवक्षित इति प्रकृतोपयोगी ।
स चारोपविषयभूतसन्ध्यारागनक्षत्रादिरूपेणैवास्ते ।
अनेन प्रकृतस्य स्वरूपादप्रच्युतिर्दर्शिता ।
अतो व्यवहारान्तमारोपः ।
न तु रूपकन्यायेन रूपसमारोपमात्रमित्यंशे परिणामसमासोक्त्योः साधर्म्यमवगन्तव्यमित्यत आहएवमिहापीति ।
तर्हि किमनयोर्मिथो वैलक्षण्यमित्याहकेवलं तत्रेत्यादि ।
प्रयोगः शब्देनोपादानम् ।
ननु यदि द्वयोः प्रयोगस्तर्हि परिणामत्वमेव कथमित्यत आहतादात्म्यात्त्विति ।
न खलु तादात्म्ये सति “क्षीरं दधीति” प्रयोगमात्रात्परिणामत्वहानिः ।
वैधर्म्येणोदाहरतिअथ पक्त्रिमतामिति ।
पाको [विक्लित्तिः] ।
पक्त्रिमता प्रयोजनवत्लक्षणप्राचुर्यम् ।
वक्रः पन्थाः ।
तदिश्रितैस्तदवलम्बिभिः ।
तत्परतः तदनन्तरम् ।
अत्र लक्षणयोजनायाहअत्र राजसङ्घटनेत्यादि ।
उचितग्रहणेन प्रकृतत्त्वं द्योतितम् ।
आरोप्यमाणः प्रकृते यदासावुपयुज्यते ।
परिणामस्तदा तेन रूपकादस्य भिन्नता ॥
रूपमात्रसमारोपाद्रूपके रञ्जको ह्यसौ ।
व्यवहारसमारोपादिह स्यात्प्रकृतान्वयः ॥
परिणामसमासोक्त्योर्ज्ञातव्योऽस्माद्विपर्ययः ।
उपादानानुपादानकृतो भेदस्तयोर्मिथः ॥
विषयस्य सन्दिह्यमानत्वे सन्देहः ॥ १७ ॥
सङ्गत्यर्थमधिकारमनुस्मारयति"अभेदप्राधान्य इत्यादि” ।
ननु विषयत्वे निर्ज्ञातेऽकःसन्देह इत्याहविषय(ः) प्रकृत इत्यादिऽ ।
निर्ज्ञातमेव णुखादिलक्षणं प्रकृतमर्थं भित्ती कृत्य चन्द्रादावप्रकृतेर्ऽथेसन्दिह्यमाने सन्देहस्य द्विष्ठत्वात्प्रकृतोर्ऽथोऽपि सन्देहडोलामधिरोहति ।
इत्थं प्रकृताप्रकृतगतत्वेन य उत्थाप्यते प्रतिभयैव सन्देहः, स सन्देहोऽलङ्कारः न तु स्थाणुपुरुषादाविव स्वरसवाही ।
तद्विशेषार्थमाहस च त्रिविध इत्यादि ।
किं तारुण्येति ।
उत्कलिका उत्कण्ठा समयः सम्प्रदायः उपदेशयष्टिरक्षरनिर्देशदण्डः ।
शृङ्गारी देवी मन्मथः ।
अत्र निश्चयानुपादानात्सन्देहः शुद्धः ।
निश्चयगर्भं विविच्य दर्शयतिनिश्चय इति ।
संशयान्ते कथनात्मध्ये निश्चयो निश्चयाभासोऽनुसन्धेयः ॥
अयं मार्तण्ड इति ।
इतः प्रात्पः ।
सर्वा दिशो न प्रसरतीति ऊर्ध्व ज्वलनैकस्वभाव रूपत्वात् ।
तिरस्तिर्यक् ।
अत्रासङ्ख्य तुरगत्वा दिना मार्तण्डत्वदिसन्देहापगम एव जायते ।
तेन पुनर्नायकस्य शृङ्ग्राहिकया रूपनिर्ज्ञानमिति निश्चयाभासा एते ।
अत एव पुनःसंशयोत्थानमिति निश्चयगर्भता ।
तृतीयं विवेचयतिनिश्चयान्तः इत्यादि ।
इन्दुः किमिति ।
परतो निश्चितमिति कथनात्द्वितीयार्धान्ते इत्थं सन्दिह्येत्यध्याहार्यम् ।
क्वचित्पुनर्विषये संशयितव्येऽपिर आरोप्यमाणानां धर्माणां विषयान्तरत्वमपि भवतीति आहक्वचिदित्यादि ।
रञ्जिता इति ।
रञ्जिता वर्णान्तरं नीताः ।
संहृताःसंक्षित्पाः ।
अत्र भिन्नाश्रतां दर्शयतिअत्रारोपेत्यादि ॥
नन्वत्र सम्भावनापि प्रतीयत इति कथं सन्देहालङ्कार इत्यत आहकेचिदध्यवसायेत्यादि ॥
अध्यवसायः उत्प्रेक्षणम् ।
उत्प्रेक्षाश्रयोऽयं सन्देह इति केचित् ।
उत्प्रेक्षैवेत्यन्ये ।
उभयत्र नुशब्दस्य सन्देहसंभावनाद्योतकत्वमेव हेतुः ।
वस्तुतस्तु नेह संभावनाप्रतीतिः ।
वितर्कस्यैककोटिपक्षपाताभावात् ।
अतो डोलायमानानानाकोटिकोऽयं सन्देह एवेति भावः ॥
सन्देहः प्रकृतद्वाराप्रकृतं संस्पृशेद्यदि ।
प्रतिभोत्थापिता सेयं सन्देहालङ्कृतिर्मता ॥
अथ भ्रान्तिमतः सूत्रम् ।
सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् ॥ १८ ॥
सादृश्यहेतुको विपर्ययो भ्रान्ति मानित्यर्थः ।
सङ्गत्यर्थमाहअसम्यग्ज्ञानेत्यादि ॥
लक्ष्यपदं निर्वक्तिभ्रान्तिश्चित्तेत्यादि ।
चित्तधर्म मात्रस्यालङ्कारता मा भूदित्याशङ्क्याहसादृश्यप्रयुक्तेत्यादि ।
ओष्ठे बिम्बेति ॥
शोणो मणिर्माणिक्यम् ।
निष्पत्य आलीय सादृश्यादिति यदुक्तं तत्र प्रत्युदाजिहीर्षुराहगाढमर्मेत्यादि ।
दामोदरेति ।
वक्षोरूपमर्मचूर्णनं नभसः शतचन्द्रत्वेन हेतुः ।
सादृश्यहेतुकापि लोकविलक्षणैव भ्रान्तिरलङ्कारबीजमित्याहसादृश्यहेतु कापीत्यादि ।
विच्छ्रित्तिरलौकिकी शोभा ।
शुक्तिकारजतवत् ।
शुक्तिकारजते यथेत्यर्थः ।
अलौकिकत्वनयोऽयं सन्देहेऽपि समान इति व्युत्पादयतिएवं स्थाणुरित्यादि ।
“सादृश्योत्थापिता भ्रान्तिर्यत्रासौभ्रान्तिमान्मतः ॥
" अथोल्लेखालङ्काराय सूत्रम्
एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः ॥ १९ ॥
एकस्यापि वस्तुनो नानाविधधर्मयोग निमित्तवशादनेकधाग्रहे सत्युल्लेखालङ्कारः ।
तच्च अनेकधात्वं गृहीतृभेदाद्भवति विषयभेदाद्वा भवति ।
तदेतद्व्याचष्टेयत्रङ्कं वस्त्वित्यादि ।
यत्रोक्तिप्रकारे ।
गृह्यते ज्ञायते ।
उल्लेखनं नुर्धारणम् ।
नानाविधधर्माभावे त्वनेकधाग्रहणमात्रेणा नोल्लेख इत्याहन चेदमित्यादि ।
एतत्क्रियते, उल्लेखनं निष्पाद्यत इत्यर्थः ।
ननु नानाविधधर्मयोगमात्रान्नोनोकधाग्रहणमनुपश्यामः इत्यत आहतत्र च रुच्यर्थित्वेत्यादि ।
रुचिरभिरतिः ।
अर्थित्वं लिप्सा ।
व्यत्पत्तिः शब्दार्थमङ्केतज्ञानम् ।
यथायोगमिति ।
योदो योग्यता ।
तामनतिक्रम्य रुच्यादिषु त्रिषु यथायोगमेकं द्वयं त्रयमेव वा प्रयोजकं भवतीतियावत् ।
तत्र संवादायाहतदुक्तम् ।
यथारुचीत्यादि ।
रुर्च्यर्थित्वव्युत्पत्त्यनुसारेण एकस्मिन्नप्यनुसन्धानेन साधिते निर्धारितेर्ऽथे आभासः प्रतीतिर्भिद्यते ।
नानोल्लेखात्मिका जायत इत्यर्थः ।
यस्तपोवनमित्यादि ।
एक एव श्रीकण्ठजनपदः मुन्यादिभिस्तपोवनत्वाद्याकारेण गृह्यते ।
तथा चानेकधा ग्रहणे तपोवनत्वादिनानाविधधर्मयोगो निमित्तम् ।
जनपदे हि तपोवनत्वादि धर्मा निसर्गत एव सन्ति ।
इतरथा नोल्लेखः ।
रूपकत्वप्रात्पेः ।
लक्षणं योजयतिअत्रह्येक एवेत्यादि ।
समस्ता व्यस्ता इति मुन्यादीनां तपोवना दित्वेनोल्लेखे तथाविधा रुच्यादयो हि समस्ततया व्यस्ततया वा संभवन्ति ।
विषयपरिशुद्ध्यै चोदयतिनन्वेतन्मध्ये इत्यादि ।
वज्रपञ्जरत्वादेर्हि तपोदित्यादि ।
न तावदस्य रूपकविविक्तविषयता नास्ति ।
यत्र त्वंशे रूपकं तत्र यद्युल्लेखात्मिका विच्छित्तिर्न संभवति तदा नास्त्येव विवादः ।
अथ संभवति, तदा सङ्कर एव न्याय्यः ।
न पुनरस्य स्वरूपत एवापलापः शक्यः ।
भ्रान्तिमतो विविक्तविषयतामस्य दर्शयितुमाक्षिपतिएवं तर्हीत्यादि ।
तत्रोति ।
यो रूपविविक्तः तत्र विषय इत्यर्थः ।
भ्रान्तिमत्त्वशङ्काया बीजमुद्धाटयतिअत द्रूपतेति ।
यद्यपि जनपदे तपोवनत्वादयः सन्त्येव धर्माः ।
वस्तुतस्तु न तद्रूपो जनपदः ।
तस्मादतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनेन भ्रान्तमानस्त्विति यावत् ।
परिहरतिनैतत् ।
अनेकधेत्यादि ।
न ह्यनेकधाग्रहणरूपं वैचित्र्यं भ्रान्तिमानपि स्वलक्षणोपपन्न इत्यत आहसङ्करप्रवृत्तिस्त्विति ।
अतोशयोक्तिविषयतोऽप्यस्य विभक्तविषयतायै शङ्कतेयद्येवमभेदे भेद इत्यादि ।
वस्तुतो हितपोवनाद्यवयवापेक्षया न जन पदस्यावयविनो भेदोऽस्ति ।
इत्थं च सत्यभेदे भेद इत्येवं रूपातिशयोक्तिरत्रास्तु किं मन्यकल्पनेनेत्याक्षेपनिष्कर्षः ।
परिहरति नौष दोषः ।
ग्रहीतृभेद इत्यादि ।
न ह्यतिशयोक्तौ ग्रहीतृभेदेपयोगः ।
अत्र पुनरुपयोग इति ।
नातिशयोक्तिमात्रमेतत् ।
न च ग्रहीतृभेदस्याप्रयोजकत्वंशङ्क्यमित्याहतस्य चेत्यादि ।
यत इत्थमतः सर्वथा नास्यान्तर्भावः शक्यक्रियः ।
रूपकासङ्कीर्णतयोदाहरतिणाराअणोत्तीति ।
नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभैः ।
बालाभिः पुनः कौतुकेन एवमेव दृष्टः ।
अत्र पुरः प्रवेशावसरे एक एव कृष्णो जरतीभिः साक्षान्मोक्षप्रदो नारायण इतिदृष्टः ।
तासां रुच्यादेस्तथाविधत्वात् ।
तरुणीभिः पुनः लक्ष्म्याः प्राणवल्लभघ इति ।
बालाभिः पुनः कौतुकेन एवमेव दृष्टः ।
एवमेवेति निपातो यत्किञ्चिदित्यर्थे विवक्षितः ।
न चात्र शङ्कनीयं कौतुकेनेति प्रयोजकान्तरोपादानान्नेह रुच्यादयः प्रयोजका इति ।
कौतुकस्यापि रुच्या दिकमन्तरेणासंभवात् ।
एवं ग्रहीतृभेदादुदाहृत्य विषयभेदादुदाहरतिएवं गुरुर्वचसीत्यादि ।
वचसि विषयभूते गुरुः प्रामाणिकत्वातनुल्लङ्घ्यो वाचस्पतिश्च ।
तथोरसि पृथुः प्रथीयान् पृथुनामा नृपश्च ।
यशस्यर्जुनोऽवदातो धनञ्जयश्च ।
इत्यादौ ह्येक एव उपवर्ण्यो नायको वचःप्रमुखर्विषयभेदाद्ग्रहीतृभेदनैरपेक्ष्येण रुच्यादिवशातनेकधा गृह्यत इत्युल्लेखालङ्कारत्वम् ।
प्रकारद्वयस्यावान्तरवैधर्म्यायाहैयांस्त्वित्यादि ।
अत्रोल्लेखाभावमाशङ्कतेनन्वयमित्यादि ।
श्लेषस्सर्वालङ्कारबाधकत्वं हि वक्ष्यते ।
अतो लक्षणोपपन्नमलङ्कारान्तरं सति श्लेषे न स्यादिति नात्रोल्लेखो युक्त इत्याक्षेपः ।
परिहरतिसत्यमित्यादि ।
सत्यम् ।
उक्तनयेन श्लेषेणोल्लेखो बाध्यते ।
अथापि स्वरूपेण अविद्यमानस्य बाधासंभवात्बाध एवोल्लेखसद्भावे लिङ्गम् ।
अनेकधा ग्रहणारूपविच्छित्तिविशेषबलात्प्रतिभात्युल्लेख इति यावत् ।
यत इत्थमतो न तु सर्वथा तदभाव इत्यलङ्कारान्तरमेव ।
एतदेव साधयितुमत्रैवोदाहरणे श्लेषनैरपेक्ष्यं दर्शयतियदेवंविध इत्यादि ।
अत्र “अनुल्लङ्घ्यो वचसि, प्रथीयानुरसि, निर्मलो यशसि” इति श्लेषाभावेऽपि न उल्लेखाभावः ।
यस्मादित्थं तस्मादेवमादौ विषये उल्लेखालङ्कार एव विशेषविच्छित्तिक इति अलङ्कारान्तरापेक्षया श्रेयान् प्रशस्यतर इत्यर्थः ।
इत्थं रूपकातिशयोक्तिश्लेषादिविच्छित्त्याश्रयत्वन्यायेन अलङ्कारान्तरविच्छित्त्याश्रयोणाप्ययं संभवति ।
स तु स्वयमनुसन्धेयः ।
न्यायस्य व्युत्पादितत्वातित्यभिप्रायेणाहएवमलङ्कारान्तरेत्यादि ।
निदर्शनीयः उदाहरणीयः ।
क्वचित्कारकान्तरेति पाठः ।
नानाधर्मबलादेकं यदि नानेव गृह्यते ।
नानारूपसमुल्लेखात्स उल्लेख इति स्मृतः ॥
यदेकं तद्धि नानेति गृह्यते रूपभेदतः ।
रुच्यादिवशतो लोके नानात्वं चेदकृत्रिमम् ॥
अतद्रूपस्य ताद्रूप्यान्नह्यासौ भ्रान्तिरिष्यते ।
न चाप्यतिशयोक्तिःस्यादभेदे भेदरूपिणी ॥
आद्ये नानेकधत्वं स्याज्ज्ञातृभेदौ न चान्तिमे ।
विषयज्ञातृभेदाभ्यां विना नोल्लेखसंभवः ॥
यद्यपि श्लेषतो बाधो न तथाप्यस्य निह्नवः ।
अनपेक्ष्यापि यच्छ्रलेषं तथैव स्थातुमर्हति ॥
अथापह्नुत्यै सूत्रम् ।
विषयापह्नवेऽपह्नुतिः ॥ २० ॥
ननु मुखं न भवतीति विषयापह्नवमात्रे सत्यपि नापह्नुतिरित्यतोऽधिकारं स्मारयतिवस्त्वन्तरप्रतीतिरित्येवेति ।
अतः प्रकृतनिषेध पुरस्कारेण अप्रकृतसमर्थनमपह्नुतिरित्यर्थः ।
तथाहि काव्यप्रकाशकृत्"प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः ।
" ननु यदि सादृश्याद्वस्त्वन्तरप्रतीतिरिहापि को विशेषः तर्ह्यस्य भ्रान्तिमत इत्यत आहप्रकान्तानपह्ववेत्यादि ।
प्रक्रान्तं प्रकृतम् ।
तस्य ह्यत्रापह्नुवः ।
भ्रान्तिमत्यनपह्नव इति विशेषः ।
उल्लेखे तु न प्रकृतानपह्नवमात्रं विशेषः किन्तु अनेकधाग्रहणमपि ज्ञेयम् ।
इदमिति वचनं क्रियाविशेषणम् ।
यत्त्वेवमिदमपह्नुतिवचनं तत्प्रक्रान्तानपह्नववैधर्म्येणेत्यर्थः ।
लक्षणं निष्क्रष्टुमाहआरोपप्रस्तावादित्यादि ।
आरोपप्रस्तावो रूपकात्प्रभृतीति ॥
तत्प्रकारवैचित्र्यायाहतस्य त्रयीत्यादि ।
त्रयी त्रिप्रकारेत्यर्थः ।
बन्धच्छायाग्रथ नवैचित्र्यम् ।
त्रैविध्यं विविनक्तिअपह्नवपूर्वक इत्यादि ।
छ्रलादयः छ्रलछ्रद्मकैतवनिभादयः ।
तैरपि हि नञर्थ एव अवस्थाप्यते ।
तर्हि तृतीयभेदे को विच्छ्रित्तिविशेषः इत्यत आहपूर्वक इत्यादि ।
यदेतदिति ।
नो मां प्रति तथेति प्रकृतापह्नवः उत्तरार्धेऽप्रकृतसाधनमिति ।
यद्यपि अपह्नुतिरेषा तथापि दोषानुविद्धत्वातुदाहरणाभास इत्यत आहअत्रैन्दवस्येत्यादि ।
शशक प्रतिवस्त्विति ।
अपह्नोतुमिष्यस्य शशकस्य यः प्रतिवस्तुभूत उल्कापातकिणः तस्यैवारोपो न्याय्यः ।
न पुनस्तद्वतः इन्दोःतो नान्वयः संघटते ।
इत्थं लक्षणोपपन्नोऽपि अलङ्कारो दोषानुविद्धःसनाभासी भवतीति व्युत्पाद्य सम्यगुदाजिहीर्षुराहतत्तु यथेति ॥
पूर्णोन्दोरिति ।
दृष्टश्रुताद्यपराधजन्मा रोषो मानः ।
तेनोन्नद्धः उत्सिक्तो जनः शृङ्गारी लोकः तस्याभिमानःसान्त्वासहिष्णुता ।
हेवाकः स्वाच्छ्रन्द्यम् ।
अत्र न मण्डलमपि तु आतपत्रमेवेत्यन्वयो घटते अयमपह्नवपूर्वक आरोपः ॥
आरोपपूर्वकमुदाहरतिविलसदमरेति ॥
संयमो मनोनिग्रहः ।
तेनाधःकृतान्याक्रान्तानि ।
अत्र नेत्रषण्डानि अध्यास्ते ।
न तु मयूरे वर्तत इत्यारोपपूर्वकता ।
उद्भ्रान्तेति ।
सार्धं धावतामित्यनेन यशसस्तत्प्रदेशव्यात्पिः समकालमेव सूचिता ।
मुक्ताफलच्छ्रद्मना ।
अम्भः कणैर्भष्टमित्यत्र हि न मुक्ताफलानि, अपि तु अम्भः कणा एवेति प्रतीतिः ।
इत्थमेवापह्नुतिमुत्प्रेक्षाङ्गत्वेन प्रतिपिपादयुषुरुपक्षिपतिअत्र शून्यं इत्यस्य इत्यादि ॥
“मन्ये मरावि"त्यादि पाठे हि मन्येशब्दमाहात्म्यादुत्प्रेक्षा ।
छद्मशब्दतस्त्वपह्नुतिः सा चोत्प्रेक्षाङ्गं भविष्यति ।
इत्थमुत्प्रेक्षाङ्गत्वं न केवलं तृतीयभेदस्यैव, यावता पूर्वभेदद्वयस्यापि संभवतीत्याह अहं त्विन्दुमित्यादि ॥
वाक्यभेदग्रहणं प्राथमिकभेदद्वयप्रथनाय ।
इत्थं त्रिरूपाप्यपह्नुतिरुत्प्रेक्षाङ्गत्वेन सूचिता ।
ननु च्छ्रलादिप्रयोगेऽप्यपह्नवारोपपौर्वापर्यविपर्ययनिबन्धनं वैचित्र्यं किं नोच्यत इत्यत आहएतस्मिन्नपीति ॥
अत्रेदमाकूलम् ।
यद्यपह्नवारोपपौर्वापर्यविपर्ययेभेदद्वयं भवत्येव, न तु चमत्कारः कश्चित् ।
नहि भेदसंभवोऽलङ्कारप्रथनहेतुरपि तु सचमत्कारभेदसंभवः ।
सचमत्कारता च सति वाक्यभेदे स्यात्, एकवास्यतायां तु च्छ्रलादि शब्दस्य पौर्वापर्यविपर्ययप्रसङ्गेऽपि न प्रतीतिभेदःकश्चित् ।
क्रियाविशेषणत्वेन क्रियापेक्षया प्रतीतौ प्राथम्यनियमातथ श्छ्रालादिप्रयोगे द्विधा न गणितम् ।
वैचित्र्याभावमेव सोदाहरणं दर्शयितुमाहतत्रापह्नवेत्यादि ।
समनन्तरमिहोक्तप्रतियोगिकमुद्भ्रान्तोज्भ्फतेत्यत्रेति याव्त् ।
ज्योत्स्ना भस्मेति ।
छुरणामुद्धूलनम् ।
अन्तर्धानं रात्रिपक्षे तिरस्कृतिः विलयः, अन्यत्र त्वद्दश्यत्वसिद्धिः ।
मुद्रा भिक्षापिण्डस्तदर्थं कपालं मुद्राकपालम् ।
परिमल(ः)परिमर्दस्तेन तज्जनितं लक्ष्म लक्ष्यते ।
यथाच्छ्रलादिप्रयोगेण अर्थाक्षेपातसत्यत्वं, तथा प्रकारान्तरेणापि संभवतीत्याहक्विचित्पुनरित्यादि ।
वस्त्वन्तरं प्रकृतापह्नवक्षमम् ।
अमुष्मिन्निति ।
अत्र हि धूमशिखा रोमावलिवपुः परिणमतीत्युक्तौ , न रोमावलिरपितु धूमशिखेति प्रतीयते ।
अनेनैषा प्रतीयमानापि दर्शिता मन्तव्या ॥
प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः ।
नञाच्छ्रलादिशब्दैश्च सा शब्दान्तरतस्त्रिधा ॥
स्याद्भेदाभेदतुलया विच्छित्तिरूपमादिकः ।
रूपकाद्स्त्वभेदांशे मुख्ये त्वारोपसंश्रयात् ॥
तामेव सङ्गतिं विशदीकुर्वनुत्प्रेक्षाप्रस्तावायाहएवमभेदप्राधान्य इत्यादि ।
आरोपमूला रूपकादयो अपह्नुत्यन्ताः ।
अध्यवसायगर्भास्तु उत्प्रेक्षादयः ।
अत एव टीका तत्रेति ।
अध्यवसायगर्भेषु मध्ये इत्यर्थः ।
अथ सूत्रम्
अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा ॥ २१ ॥
अध्यवसायो निश्चयज्ञानम् ।
स च लोके द्विरूपः सम्यगात्मा मिथ्यारूपश्च ।
उभयरूपोऽप्ययं नालङ्कारः ।
नहि शुक्तिरिति सम्यगध्यवसाये रजतमिति मिथ्याध्यवसाये वा विच्छित्तिः काचित् ।
उभय विसक्षणास्तु जानतोऽप्येतस्मिन् तदेवेति योऽध्यासरूपस्य इहालङ्कारत्वेन परिगृङ्यते ।
तस्यैव अलौकिकस्य विच्छित्तिरूपत्वात् ।
तस्य च द्वयी गतिः ।
कदाचिदध्यवसायात्मनः स्वरूपस्य प्राधान्यं, कदाचिदध्यवसितस्य विषयस्य ।
इत्थं च सत्यध्यवसाये विषयभूते यदा अध्यवसानस्य प्राधान्यं तदोत्प्रेक्षालङ्कार इति सूत्रार्थः ।
तदेतदवयवशो व्याचष्टेविषयनिगरणेनेत्यादि ।
निगरणं निगलनम् ।
स्वरूपतोऽपलापैत्यर्थः ।
विषयं निगीर्णवतो विषयिणो विषयितादात्म्येन प्रतीतस्य इहाध्यवसायो अभिमत इति यावत् ।
अनेनालौकिकस्यैवाध्यवसायस्य अलङ्कारबीजत्वं दर्शितम् ।
व्यापारप्राधान्यग्रहणस्य व्यावर्त्यमुद्धाटयितुमाह स च द्विविध इत्यादि ।
तत्र साध्यस्य स्वरूपमाहसाध्यो यत्रेत्यादि ।
साध्य इति यदैकं वाक्यमाक्षिप्तेन तच्छब्देनार्थेनाभिसंबन्धः ।
उत्तरवाक्यगतोऽपि यच्छब्दः पूर्ववाक्याच्छब्दोपादाननिरपेक्ष एव तदर्थेन सम्बन्धमीष्टे ।
यत्र विषयिणोऽसत्यतया प्रतीतिः स साध्य इत्यर्थः ।
अत्रेदमनु सन्धेयम् ।
मुखं मुखत्वेन जानन्नेव यदा नूनं चन्द्र इति संभावयति तदा विषयी चन्द्रो मुखत्वेनासत्यः प्रतिभाति तदाध्यवसायः साध्यः ।
ननु साध्य एवास्तु अध्यवसायः सिद्धो वा, अभेदप्रतीतौ कथमसत्यत्वं इत्यत आह असत्यत्वं चेत्यादि ।
विषयिगतस्य चन्द्रादिगतस्य माधुर्यादेः धर्मस्य विषये, मुखादावुपनिबन्धे, नूनं चन्द्र इत्यस्यां दशायां विषयिण्येव संभवत्ययं विषथयेतु न संभवतीति प्रतीयमानत्वात् ।
विषयविषयिणोरभेदस्फुरणेऽपि धर्मस्यासत्यताप्रतीत्या न प्ररोहति ।
अतोऽध्यवसानव्यापारस्य साध्यता ।
ननु को धर्मः? किंप्रमाणा चासौ? तदाश्रयस्य सत्यत्वासत्यत्व प्रतीतिरित्यत आहधर्मो गुणक्रियारूपः इत्यादिना ।
गुणक्रियारूप इति धर्मस्य साकल्यकथनात्तदुभयमूलतया उत्प्रेक्षासंभवस्मूचितः ।
अस्य हि धर्मस्य संभवोऽसंभवश्च विषय्याश्रयतया संभवः असंभवस्तु विषयाश्रयतया ।
इत्थं च सति सत्यत्वासत्वप्रतीतिर्नाप्रामाणिका ।
कुतः? संभवाश्रयस्य तत्रावस्थायां परमार्थबुद्ध्यनुदयातसत्यत्वं प्रतीयते ।
यतस्तदितरस्य तु सत्यत्वमेव परमार्थत्वात् ।
चर्चितमर्थं निष्कर्षयतियस्यासत्यत्वमित्यादि ।
अतश्चेति ।
यत इत्थमध्यवसायः साध्यः अतः उत्प्रेक्षायामध्यवसायव्यापारस्यैव प्राधान्यमित्यर्थः ।
अथ सिद्धं विवेचयतिसिद्धो यत्रेत्यादि ।
सिद्ध इति पूर्ववदेकं वाक्यम् ।
स इति द्योतितः कोऽसावित्यत आह यत्र विषयिणो वस्तुत इत्यादि ।
यदा तु मुखमुद्दश्य चन्द्रोऽपमिति प्रयोगः तदा वस्तुतोऽसत्योऽपि विषयी सत्यतया प्रतीयते ।
सत्यत्वप्रतीतेर्हेतुमाहसत्यत्वं चेत्यादि ।
संभवाश्रयस्य अपरमार्थत्वप्रतीतिरसत्यत्वस्य निमित्तम् ।
यत इत्थमतश्चाध्यवसितस्यार्थस्यैव प्राधान्यं, तदातिशयोक्तिर्वक्ष्यते ।
यदा साध्यत्वप्रतीतिः तदाध्यवसायस्य पर्यायान् व्युत्पादयति तत्र साध्यत्वेति ।
चर्चितलक्षणानिष्कर्षणम्तदेवमित्यादि ।
तस्याःसामान्यतस्तावद्द्वैविध्यमाहसा च वाच्येत्यादि ।
तत्रापि सामान्याच्चातुर्विध्यं दर्शयतिसा च जातिक्रियेत्यादि ।
अध्यवसेयत्वेन संभव्यत्वेन ।
नन्वप्रकृतग्रहणं किम्? प्रकृतेऽप्येवं संभवादित्यत आहप्रकृतस्यैतदित्यादि ।
प्रकृतं हि लौ किकं कविकॢत्प विच्छ्रत्तिविधुरतया न वैचित्र्याय ।
भेदचतुष्टयमपि द्विधा दर्शयतिप्रत्येकं च भावाभावेत्यादि ।
भावरूपा संभावना अभावरूपा चेति ।
अयं व्यापारभेदाद्भेदः ।
पूर्वं व्यापारवद्भेदात्व्यापारनिमित्तभेदादाहभेदाष्टकस्य चेत्यादि ।
भेदषोडशकमपि निमित्तोपादानानुपादानाभ्यां द्विगुणायतितेषां चेत्यादि ।
अथ संभाव्यस्य हेत्वादि रूपतया पुनस्त्रैविध्यमाहतेषु च प्रत्येकमित्यादि ।
वा(च्यां)निगमयतिएषा गतिरित्यादि ।
तत्रापोह्य अंशायाह तत्रापि द्वव्यस्येत्यादि ।
पातनोयाः हापनीयाः ।
प्रतीयनामां विभक्तुमाहप्रतीयमानायाश्चेत्यादि ।
उद्देशत एतावन्त ।
लक्षणापरीक्षयोस्तु कृतयोः कतिचन हीयन्त इति भावः ।
ये हीयन्ते तान् प्रस्तौतितथापि निमित्तस्येत्यादि ।
तैरिति (निमित्ता)नुपादाननिबन्धनैः ।
अयं प्रकार इति प्रतीयमानोत्प्रेक्षाप्रकारः इत्यर्थः ।
निमित्तानुपादानं न संभवतीति यत्प्रतिज्ञातं तत्प्रमाणो न द्रढयतिइवाद्यनुपादान इत्यादि ।
इवाद्यनुपादाननिमित्तकीर्तनयोरन्यतराभावे न किञ्चित्प्रमाणामुत्प्रेक्षणे ।
अनुपात्तनिमित्तका हि या वाच्योत्प्रेक्षा तस्यामिवाद्युपादानबलादेवोत्प्रेक्षणप्रतीतिः ।
इह पुनरिवाद्यनुपादानवन्ध्यायां प्रतीयमानायां निमित्तबलादेवेति निमित्तोपादाननियमः ।
स्वरूपोत्प्रेक्षणमपि न संभवतीत्याहप्रायश्चेत्यादि ।
प्रायोग्रहणात्पर्यायोक्तनयेन स्वरूपस्य क्वचित्संभवदप्युत्प्रेक्षणं गम्यस्यापिभङ्ग्यन्तराभिधानान्न निरापणार्हमिति द्योतितम् ।
प्रतीयमानां निगमयतितदेवमिति ।
यथासंभवं संभवमनतिक्रम्य ।
तथा हि प्रतीयमानोत्प्रेक्षा तावत्वाच्योत्प्रेक्षाप्रकृतिका ।
वाच्योत्प्रेक्षाषण्णावतिधोद्दिष्टा ।
यथा जातिगुणक्रियाद्रव्याणामुत्प्रेक्ष्यत्वेन चतस्र उत्प्रेक्षाः ।
जातयः प्रतिस्वं चतुर्विशतिधा प्रथन्ते ।
यथा जात्युत्प्रेक्षा तावत्भावाभावाभिमानरूपतया द्विधा ।
द्विविधापि गुणनिमित्तिका, क्रियानिमित्तिका च ।
इत्थं चतुर्धा ।
साचोपात्तनिमित्तानुपात्तनिमित्ता चेत्यष्टधा ।
अष्टविधापि हेतुस्वरूपफलोत्प्रेक्षारूपतया त्रिविधा इति चतुर्विशतिप्रकारा ।
अनेनैव नयेनान्यदप्युत्प्रेक्षात्रयं प्रत्येकं चतुर्विशतिधामन्तव्यम् ।
तथा च प्रत्येकं त्रिस्कन्धिका एता हेतुस्वरूपफलोत्प्रेक्षणतया स्कन्धत्रयमपि प्रतिस्वमष्टविधम् ।
तथा हि उपात्तगुणनिमित्ता भावाभिमानरूपिणी हेतुजात्युत्प्रेक्षा ।
सैवानुपात्तगुणनिमित्ता ।
तथोपात्तक्रियानिमित्ता, सैवानुपात्तक्रियानिमित्ता चेति भावाभिमानरूपतया चतुर्धा ।
एवमभावाभिमानरूपतया चतुर्धेति हेतूत्प्रेक्षास्कन्धोऽष्टविधः ।
अनयैवरीत्या स्वरूपोत्प्रेक्षास्कन्धः फलोत्प्रेक्षास्कन्धश्च प्रतिस्वमष्टविधेति जात्युत्प्रेक्षा त्रिस्कन्धतया चतुर्विशतिधा ।
एवं गुणक्रियाद्वव्योत्प्रेक्षापि प्रत्येकं चतुर्विशतिधा विज्ञेया ।
तत्र द्वव्योत्प्रेक्षायां हेतुफलोत्प्रेक्षापातेषोडशकहानिः ।
अतः स्थूलदृशा तावतशीतिविधा वाच्या ।
प्रतीयमानायां तु अनुपात्तनिमित्ताया निरवशेषं पाते अष्टचत्वारिशद्धानिः ।
उपात्तनिमित्तायां च स्वरूपोत्प्रेक्षापाते षोडशकहानिः ।
अतो द्वर्त्रिंशद्भेदाः प्रतीयमाना मन्तव्याः ।
उभयरूपायामपि अस्य वैचित्र्यान्तरायाहएषा चेत्यादि ।
अर्थाश्रयापि अर्थालङ्कारोऽपीत्यर्थः ।
धर्मोगुणक्रियात्मको विषयो यस्य सः ।
श्लिष्टशब्दः कश्चिद्धेतुर्भवत्यस्याः ।
उत्प्रेक्षा ह्यर्थालङ्कारः ।
श्लेषः पुनरुभयालङ्कारोऽलङ्कारान्तरबाधकश्च ।
तथापि धर्मविषयेश्लिष्टशब्दहेतुका संभवत्येषा न बाध्यते, न चोभयालङ्कारप्रात्पिरिति यावत् ।
यथेत्थं श्लेषमुत्प्रेक्षाङ्गं तथोपमापि अङ्गमस्याः भवतीत्याहक्वचित्पदार्थान्वयेत्यादि ।
पदार्थसमन्वयदशायामुपमयोपक्रमः ।
तथोपक्रान्ताप्युपमावाक्यार्थतात्पर्यपर्यालोचनमहिम्ना अभिमन्तुःसंभावयितुर्व्यापारोऽपारोहक्रमेणसंभावनव्यापारस्य प्रतीतिविश्रान्त्यन्तं उपर्युपरि प्रसरपरिपाट्या उत्प्रेक्षायां पर्यवस्यति ।
अथ अपह्नुतिप्रस्तावः ।
उत्प्रेक्षाङ्गत्वेन यदपह्नुतिः प्रतिज्ञान्ता, तस्या अयमवसर इत्यभिप्रायेणाहक्वचिच्छ्रलादि इत्यादि ।
इत्थंये प्रकाराः उक्ताः, ये च वक्ष्यन्ते तेषां वैचित्र्यादस्या इयत्तैव नास्तीत्याहअतश्चोक्तवक्ष्यमाणेत्यादि ।
ननु यद्यानन्त्यं कथमुदाहरणतो दर्शयिष्यते इत्यत आहसाम्प्रतन्त्वित्यादि ।
दिङ्मात्रेणेत्यादि ।
यथा दिङ्मात्रेणोदाहृता अपि न्यायतःसाकल्येन ज्ञातुं शक्यते, तथेति यावत् ।
उद्देशक्रममाविश्चिकीर्षुराहतत्र जात्युत्प्रेक्षा यथेति ।
स वः पायादिति ।
कुटिलत्वलक्षणो गुणो निमित्तम् ।
अङ्कुरशब्दो जातिवचनः ।
अत उपात्तगुणनिमित्तिका भावाभिमानरूपिणी जात्युत्प्रेक्षेयम् ।
तत्र यद्यपि स्वरूपमुत्प्रेक्ष्यते न तु हेतुफले, अथाप्युद्देशक्रमविरोधात्सोंऽशो नोदाजिहीर्षितः ।
एवमुदाहरणेषुदाहर्तव्या विशेषांशाः स्वयमनुसन्धेयाः ।
क्रमस्याविवक्षणात्नास्माभिः प्रतिस्वं प्रतन्यन्ते ।
अत्र जात्युत्प्रेक्षात्वं विविच्य दर्शयतिअत्राङ्कुरेत्यादि ।
अथ क्रियोत्प्रेक्षालिम्पतीवेत्यादि ।
क्रियोत्प्रेक्षात्वं विवेचयतिअत्र लेपनेत्यादि ।
न च मन्तव्यं वर्षणस्य नभःकर्तृकत्वात्न तमोगतत्वमिति ।
नभसोऽपि तमसाधिष्ठिन्तस्यैव वर्षणकर्तृकत्वसंभवादनेन परंपरायाताया अपि सम्भावनाया उत्प्रेक्षात्वं द्योतितम् ।
ननूत्तरार्धानुदाहरणे को हेतुरित्यत आहौत्तरेत्वित्यादि ।
उपमैव नोत्प्रेक्षेति ।
अत्रैतदुपह्वरमुपमानांशश्चेल्लोकतः सिद्धस्तदोपमैव द्वयोःसिद्धत्वादिवशब्दः साधर्म्यद्योतकः ।
यदा तु कविकल्पितः तदोत्प्रक्षैव ।
उपमानस्य लोकतोऽसंभवादिवशब्दः संभावनां द्योतयति यतः ।
अत्रावान्तरश्लोकौ यदायमुपमानांशो लोकतःसिद्धिमृच्छ्रति ।
तदोपमैव येनेवशब्दः साधर्म्यसूचकः ॥
यदा पुनरयं लोकादसिद्धः कविकल्पितः ।
तदोत्प्रेक्षैव येनेवशब्दःसंभावनापरः ॥
इति ॥
अथ गुणोत्प्रेक्षासैषास्थलीति ।
इयं प्रतिष्ठमानस्य दाशरथेः सीतां प्रत्युक्तिः ।
गुणोत्प्रेक्षात्वं दर्शयतिदुःखं गुणं इति ।
अथ द्रव्योत्प्रेक्षापातालमेतदिति ।
द्रव्यत्वं दर्शयतिचन्द्रस्येत्यादि ।
उदाहरणचतुष्केऽपि अनुगतं विशेषमुद्धाटयतिएतानि भावाभिमान इत्यादि ।
अथाभावाभिमानेकपोलफलकाविति ।
कष्ट कृच्छ्रात् ।
तथाविधाविति ।
स्वनुभवैकसमधिगम्यो रमणीयातिशयोद्योत्यते ।
क्षामतागमनं नैसर्गिकम् ।
परस्परदर्शनाभावो हेतुत्वेनोत्प्रेक्ष्यते ।
अत एवाभावाभिमानरूपना ।
तदेतद्दर्शयतिअत्रापश्यन्तावितीत्यादि ।
न्यायस्य सुज्ञानत्वात् ।
स्थालीपुलाकन्यायेनोदाहरणमात्रमिति न व्युत्क्रमदोषः शङ्कनीयः ।
क्रमापेक्षया तु जात्याद्युत्प्रेक्षापुरस्कारेणोदाहर्तव्यम् ।
तदेतदभिसन्धायाहएवं जात्यादावप्यूह्यमिति ।
इत्थं जात्यादि चतुष्कमभावाभिमानरूपतयोदाहृतम् ।
अथ भेदाष्टकस्य गुणक्रियानिमित्ततोदाहर्तव्या ।
तत्र गुणनिमित्तकत्वेनोदाजिहीर्षुराहनवबिसलतेत्यादि ।
तद्विवेचितचरम् ।
एवं गुणनिमित्तकत्वं क्रियाद्युत्प्रेक्षात्रये स्फुटतरत्वादुदाहरणनिरपेक्षनित्यभिसन्धाय क्रियानिमित्तकत्वेनोदाहरतिरिदृक्षमित्यादि ।
क्षामता गमनलक्षणक्रियाह्यदर्शनोत्प्रेक्षाया निमित्तम् ।
इयता षोडशकमुदाहृतं मन्तव्यम् ।
अथ निमित्तोपादानानुपादानाभ्यां षोडशकस्य यद्द्वैविध्यं प्रतिज्ञातं तत्र निमित्तोपादानस्य समनन्तरोदाहरणान्येवोदाहरणत्वेन दर्शयति एते निमित्तेत्यादि ।
कुटिकत्व क्षामतागमनयोरुपादानादनुपादानमप्युदाहृतेष्वेव दर्शयतिलिंपतीवेत्यादि ।
अत्र लेपनादित्वेन संभावने व्यापनादि निमित्तं नोपात्तम् ।
इयता द्वात्रिंशद्भेदा उदाहृताः ।
अथ द्वात्रिंशद्धेतुफलस्वरूपात्मकतया त्रिधोदाहर्तव्या ।
तत्र हेतुरूपतयोदाहरतिविश्लेषदुःखादिवेत्यादि ।
अत्र दुःखगुणो हेतुत्वेनोत्प्रेक्षितः ।
इत्थं जातिक्रिये हेतुत्वेनावगन्तव्ये ।
द्रव्योत्प्रेक्षायां तदभावात्तन्निबन्धनमष्टकं पातनीयम् ।
अथ स्वरूपतयोदाहरतिकुबेरजुष्टामित्यादि ।
जुष्टां सेविताम् ।
कुबेरजुष्टा दिगुदीची, सा प्रतिनायिकात्वेनानुसन्धीयते ।
समय एकदर्तुविशेषः ।
अन्यदात्वनन्यत्र गमनलक्षणाः संकेतः ।
दक्षिणस्यां दिशि नायिकात्वमनुसन्धीयते ।
व्यलीकमपराधः ।
अत्र निश्वासस्य स्वरूपमेवोत्प्रेक्ष्यं, न तु हेतुः फलं वा ।
इत्थं गुणोत्प्रेक्षादित्रये स्वरूपात्मकत्वं ज्ञेयम् ।
अथ फलवोत्प्रेक्षाचोलस्येत्यादि ।
अत्र दर्शनक्रिया विपाटनफलत्वेनोत्प्रेक्ष्यते ।
इत्थं जातिगुणयोरपि फलत्वमनुसन्धेयम् ।
द्रव्योत्प्रेक्षायां हेतुफलासंभवात्तन्निबन्धनं षोडशकं पातनीयम् ।
इत्थमशीतिविधापि वाच्योत्प्रेक्षा साकल्येनोदाहृतकल्पैव ।
तदेतन्निगमयन्नाहएवं वाच्योत्प्रेक्षाया इत्यादि ।
अथ प्रतीयमाना परिपाट्योदाह्रियतेमहिलासहःसेत्यादिना ।
महिलासहस्रभरिते तव हृदयेसुभग! सा अमान्ती ।
दिवसमनन्यकर्मा अङ्गं तन्वपि तनयति ॥
दिवसमित्यत्यन्तसंयोगे द्वितीया ।
प्रतीयमानामुत्प्रेक्षामुद्धाटयतिअमा(अ)न्तीत्यत्रेत्यादिना ।
न्यायस्य सुज्ञानत्वात्विस्तरभीरुराहएवं भेदान्तरेष्विति ।
अर्थाश्रियापि धर्मविषये श्लिष्ट शब्दहेतुका संभवतीति योद्दिष्टा तामुदाहरतिश्लिष्टशब्देत्यादि ।
अनन्येति ।
प्रसिद्धस्त्यागीति गानप्रकारः ।
मार्गणाःशाराः याचकाश्च ।
लक्ष्ययोजनायाहअत्र धर्मविषय इति ।
मार्गणविषयीभावो धर्मः संभावनाशं एव प्रतीतिविश्रान्तेः श्लेषो नोत्प्रेक्षाबाधकः ।
कस्तूरीति ।
रोलम्बाभृङ्गाः ।
अङ्कः पर्यान्तः ।
स्थासकश्चर्चिका ।
उपमोपक्रमतामुपपादयतिअत्र यद्यपीत्यादि ।
“सर्वप्रातिपदिकेभ्य उपमानार्थे क्विपित्येके आचार्या” इति सूत्रार्थः ।
अत्र क्विपो माहात्म्यादुपाप्रतीतापि संभावनायां पर्यवस्यतीति ।
कण्ठत्विषां तिलकादिरूपत्वनियमासिद्धेः तिलकादिरूपतापि कदाचित्स्यादुपमानांशे संभावनाप्राणत्वमेव नतु वास्तवत्वम् ।
अत उत्प्रेक्षायां पर्यवसानम् ।
तदिदमभिसन्धायाहतथाप्युपमानस्येत्यादि ।
उपमानस्य तिलकादेः प्रकृते कण्ठत्विङ्रुड्पे संभवैचित्यात्संभावनमात्रस्योचितत्वात् ।
संभावनस्योत्थाने उत्प्रेक्षणस्योदयात् ।
अथोपमार्थकप्रत्ययान्तरप्रयोगेऽपि उपमोपक्रमत्वं दर्शयितुमाहयथा वेत्यादि ।
केयूरायितमित्यत्रापि हि क्यङ्गो माहात्म्यादुपमा प्रतीतिरङ्गदादेः ।
केयूरादिवदाचरणे नियमाभावात्तथात्वसंभावनायामुत्प्रेक्षैव पर्यवस्यति ।
अथोपमानांशस्य वस्तुतोऽसिद्धस्य कविकल्पनायातत्वे सर्वैवोपमा (प्रतिपादक)शब्दमाहात्म्यादामुखे प्रतीताप्युत्प्रेक्षात्वेन पर्यवस्यतीत्यभिसन्धायाहएषा चेत्यादि ।
अप्रपञ्चने हेतुमाह इति त्विति ।
गतासु तीरमिति ।
ससंभ्रमा गतिः फेनोल्लासहेतुः ।
अत्रेवशब्दादट्टहासस्य संभाव्यता ।
यत्तु व्यक्तिविवेककृदीद्दशि विषये मन्यते"इवादिशब्दैरेव प्रकृतार्थस्यासत्त्वप्रतीतेः छ्रलादिशब्दाः पुनरक्ता” इति तत्मन्दम् ।
न खल्वीद्दशि विषये छलादिशब्दाप्रयोगेऽपि प्रकृतार्थस्यासत्यासत्यता गम्यते ।
अपि तु उत्प्रेक्षां प्रति हेतुभाव एव ।
यथा अत्रैव “फेनपरंपराभि"रिति पाठे ।
अतःसापह्नवत्वलक्षणमुत्प्रेक्षावैचित्र्यं छ्रलादिप्रयोगैकशरणम् ।
तदेतदभिसन्धायाहअत्रेवशब्देत्यादि ।
अथोत्प्रेक्षाया एव प्रपञ्चनार्थं तत्तदलङ्कारबीजभूत तत्तत्पदावापोद्धाराभ्यामलङ्कारवैचित्र्यमाविर्भवतीति व्युत्पादयतिअपर इवेत्यादिना ।
अपरशब्दाप्रयोगेऽपि पाकशासनः सिद्धतया प्रतीयत इत्युपमैव ।
तत्प्रयोगे तु प्रकृतो राजैव अपरपाशासनत्वेनाध्यवसीयते ।
इवशब्दाञ्चाध्यवसानस्य साध्यतेत्युत्प्रेक्षैव ।
इव शब्दापोहे रूपकभेदप्राधान्यप्रतीतेः ।
इत्थं नानावैचित्र्यनिर्भरायामस्यां कुत्रचिदंशे नियमेन वाच्यता, कुत्रचित्तु कामचारः इति व्युत्पिपादयिषुर्हेतूत्प्रेक्षां तावत्व्युत्पादयतितदेवंप्रकारेत्यादिना ।
प्रकृतसंबन्धिनः उपमेयसंबन्धिनः ।
यस्य धर्मस्य हेतुरुत्प्रेक्ष्यते, स धर्मोऽध्यवसायवशातभेदोपचरणवशातभिन्न उत्प्रेक्षानिमित्तमाश्रीयते नियमेन वाच्यो भवति ।
अस्योपमानधर्मेण सहाभेदाश्रयणं वाच्यत्वं वेति नियमद्वयमनुसन्धेयम् ।
यदैवं न स्यात्तदोत्प्रेक्षमाणो हेतुरभित्तिकमेव चित्रं स्यादित्याहअन्यथा कं प्रतीति ।
तामिमां व्यवस्थामुदाहरणतो हृदयं गमयतियथा अपश्यन्तावित्यादिना ।
अत्र कपोलौ प्रकृतौ तत्संबन्धी धर्मः क्षामता तद्धेतुत्वेन दर्शनमुत्प्रेक्षतम् ।
तदुत्प्रेक्षणे च न केवला कपोलक्षामता निमित्तम्, अपि तु लोके परस्परमद्रष्ट्रोर्या क्षामता तदभिन्नत्वेना ध्यवसिता सैवं चोत्प्रेक्षिता दर्शनलक्षणस्य हेतोः फलम् ।
तददमभिन्धायाहअत्र कपोलयोरित्यादि ।
तच्च भिन्नमिति फलदशायामभेदेनाध्यवसीयत इत्यर्थः ।
अदर्शनं प्रत्य प्रकृतैव हि क्षामता फलं, तत्र निमित्तं हेतूत्प्रेक्षणे प्रयोजकम् ।
परस्परमद्रष्ट्रोर्यत्क्षामतागमनं तेन सहाभेदेनाध्यवसितमित्यर्थः ।
इयमभावाभिमानरूपक्रियालक्षणा हेतूत्प्रेक्षा ।
एवं भावाभिमानरूपलक्षणाहेतूत्प्रेक्षायामपि न्यायःसमान इत्याहएवं दृश्यतेत्यादिना ।
अत्रापि हि नूपुरगतमौनित्वस्य हेतुत्वेन दुःखमुत्प्रेक्षितम् ।
तदुत्प्रेक्षणे च लौकिकदुःखमौनत्वाभेदेनाध्यवसितं नूपुरमौनित्वमेव निमित्तं दुःकोत्प्रेक्षणफलं च ।
इयं प्रक्रिया सर्वत्रैव हेतूत्प्रेक्षायामेकरूपेत्याहएवं सर्वत्रेति ।
अथ स्वरूपोत्प्रेक्षायां क्वचिद्धर्मीं धर्म्यन्तरगतत्वेनाध्यवसीयते ।
क्वचित्तु धर्म एव धर्म्यन्तरगतत्वेन ।
तत्रोभयत्रापि निमित्तांशः कदाचिद्वाच्यो भवति ।
कदाचित्तु नेतिविवेचयुतुमारभते स्वरूपोत्प्रेक्षायां यत्र धर्मीत्यादिना ।
स वः पायादित्यादि ।
अत्रेन्दुकलाकपालाङ्कुरयोः साधर्म्यस्यासिद्धत्वात् ।
कुटिलत्वलक्षणस्य शब्देनोपादानम्, “वेलेव रागसागरस्ये"त्यत्र तु संक्षोभकारितायाः प्रसिद्धत्वादनुपादानम् ।
अथ धर्मस्य धर्मिगतत्वेनाध्यवसाने निमित्तोपादानानुपादाने दर्शयतियत्र च धर्मं एवेत्यादि ।
प्राप्याभिषेकमिति ।
द्विषां भूरिति समन्वयः ।
अत्र धर्मसंभावनं, निमित्तोपादानञ्च विवेचयतिअत्र भूगतत्वनेत्यादि ।
लिप्मतीवेति ।
निमित्तानुपादानं विवेचयतिअत्र तमोगतेत्यादि ।
ननु धर्मे धर्मोत्प्रेक्षणवैचित्र्याय व्यापने लेपनमुत्प्रेक्ष्यतामित्यत आहव्यापानादौ त्विति ।
निमित्तमन्यदन्वेष्यं स्यादिति ।
यथा लेपनोत्प्रेक्षणे व्यापनं निमित्तत्वेन गम्यते, न हि तथा व्यापनोत्प्रेक्षणे निमित्तमन्यदवगम्यते ।
अतोऽनवगतस्य कल्पनमवगतस्य परित्याग इति दोषद्वयमापतेदिति भावः ।
देषान्तरमप्युद्भावयतिन च विषयस्येति ।
यदि व्यापनमेव उत्प्रेक्षणविषयः न हि तस्यगम्यमानता युक्ता ।
तत्र हेतुः तस्योत्प्रेक्षिताधारत्वेनेति ।
उत्प्रेक्षितमुत्प्रेक्षिणं, तदाधारत्वेनाभिधातुं , प्रस्तुतस्याभिधातुमेवोचितात्वात् ।
अतो लेपनमेवोत्प्रेक्ष्यमिति निगमयतितस्माद्यथोक्तमेर्वेति ।
अथ फलोत्प्रेक्षायां निमित्तानुपादानमसंभवमित्यारभतेफलोत्प्रेक्षायामित्यादि ।
तस्य फलस्य यदेव लोकस्थित्या कारणं , तदेवोत्प्रेक्षणनिमित्तम् ।
तच्चेन्नोपादीयेत, तदेवोत्प्रेक्ष्यमाणं फलं कस्य फलतयोक्तं स्यात् ।
अतः फलोत्प्रेक्षायां निमित्तोपादाननियम एव ।
तदिदमुदाहृत्य दर्शयतिरथस्थितानामिति ।
अत्रोत्तरदिशस्तुरगोत्पत्तिभूमित्वात्तद्गमनं पुरातनतुरङ्गपरिवर्तने हेतुः ।
तदेवोत्प्रेक्षणनिमित्तम् ।
तदनुपादाने परिवर्तमानं उत्प्रेक्ष्यमाणं कस्य फलं स्यात् ।
तदिदमभिप्रेत्याहअत्र परिवर्तनस्येत्यादि ।
अनेनाशीचिलिधत्वेन दृष्टेषु प्रभेदेषु पुनः केषाञ्चित्पातोदर्शितः ।
तथाहिउपात्तनिमित्ता ये षोडषभेदास्तेषां प्रतिस्वं हेतुस्वरूप फलोत्प्रेक्षणरूपत्वे अष्टचत्वारिंशत् ।
द्रव्ये हेतुफलोत्प्रेक्षा पातेऽष्ट कहानिरिति चत्वारिंशत् ।
अनुपात्तनिमित्तत्वे तु षोडशकेहेतुफलरूपताभावात्स्वरुपोत्प्रेक्षैकरूपतैवेति षोडशैव ।
अतः तत्षट्पञ्चाशदेव प्रभेदाः ।
यदित्थमियमुत्प्रेक्षा अतिसूक्ष्मेक्षिकया प्रपञ्चिता ।
तत्रहेतुमाहतदसावित्यादि ।
कक्ष्याविभागो जातिगुणादिरूपतया स्थितः ।
प्रचुरस्थितोऽपि अनाकुलन्यायतया प्रभूतवृत्तिरपि ।
लक्ष्ये दुःरवधारत्वातुत्तानधियां लक्ष्ययोजनान्तमशक्याधिगमत्वात्(न)प्रपञ्चित इत्यर्थः ।
अथ मन्येप्रमुखस्य शब्दस्य संभावनाद्योतकत्वेऽपि तत्प्रयोगमात्रेणोत्प्रेक्षाभ्रमो न कार्य इति व्युत्पादयतिअस्याश्चेत्यादि ।
उत्प्रेक्षासामग्रयभाव इति ।
अप्रकृतगतगुणक्रियाभिसम्बन्धातप्रकृतत्वेन प्रकृतसंभावनमुत्प्रेक्षासामग्री ।
तदभावे वितर्को नूनमित्यभ्यूहमात्रम् ।
तदिदमनुस्मारयतियथोदाहृतं प्रागित्यादि ।
अत्र संग्रहश्लोकाः गुणक्रियाभिसम्बन्धात्प्रकृतेऽप्रकृतात्मना ।
संभावनं स्यादुत्प्रेक्षा वाच्येवाद्यैः परान्यथा ॥
जातिक्रियागुणद्रव्योत्प्रेक्षण सा चतुर्विधा ।
भावाभावाभिमानत्वे जात्यादेःसाष्टधा पुनः ॥
गुणक्रियानिमित्तत्वे ज्ञेया षोडशधा तथा ।
द्वात्रिंशच्च निमित्तस्योपादानादन्यथा स्थितेः ॥
हेतौ स्वरूपे चोत्प्रेक्ष्ये फले षण्णावतिः पुनः ।
द्रव्यहेतुफलात्मत्वासंभवात्तद्भिदाच्युतिः ॥
तथा प्रतीयमानायां निमित्तस्यानुपग्रहः ।
नापि स्वरूपं तैर्भेदैः तस्मान्न्यूना भवेदियम् ॥
क्वचिच्छ्रलेषेण धर्मांश गतेर्नैषा न बाध्यते ।
उपमोपक्रमाप्येषा भवेत्सापह्नवापि च ॥
अथोत्प्रेक्षां निगमयनतिशयोक्तिं सङ्गतिपुरस्कारेण प्रस्तौतिएवमध्यवसायस्येति ।
सिद्धत्व इति ।
अध्यवसितस्य विषयिणः प्राधान्ये अध्यवसायस्य सिद्धत्वम् ।
अथ सूत्रम्
अध्यवसितप्राधान्ये त्वतिशयोक्तिः ॥ २२ ॥
उत्प्रेक्षातिशयोक्त्योः विषयं विभक्तुमाहअध्यवसाये त्रयमित्यादि ।
स्वरूपमध्यवसानं व्यापारात्मकम् ।
विषयः प्रकृतोर्ऽथः विषयी त्वप्रकृतः ।
तत्राध्यवसायस्वरूपमुत्प्रेक्षाप्रस्तावे विवेचितम् ।
प्रतीतिवैशद्याय स्मारयतिविषयस्य हीत्यादि ।
अन्तर्नीतत्वे निगीर्णत्वे ।
तत्रोत्प्रेक्षाविषयं विभजतिशाध्यत्वे स्वरूपप्राधान्यमिति ।
अतिशयोक्तिविषयं विभजतिसिद्धत्वे अध्यवसितप्राधान्यमिति ।
अध्यवसितो गुणीकृताध्यवसानो विषयी ।
विषयस्तु प्राधान्यं नार्हतीत्याहविषयप्राधान्यमिति ।
नैव संभवतीति विषयस्य ।
विषयिणानिगीर्णस्वरूपप्रतीतिरेव तिरोधीयते ।
प्राधानयसंभवः कुत इति भावः ।
अतिशयोक्तिलक्षणं निगमयतिअध्यवसितप्राधान्ये चेति ।
तद्भेदानुद्दिशतितस्याश्चेत्यादि ।
क्रमेणोदाहरणानिकमलमनम्भसीति ।
अत्र मुखनयनगात्रलक्षणान्विषयान्निगीर्य कमलकुवलयकनकलतालक्षणा विषयिणः तदभेदेनाध्यवसिताः ।
भेदेऽभेदं विवृणोति अत्र मुखादीनामित्यादि ।
अण्णं सडहेति ।
अन्यत्सौन्दर्यमन्यापि च कापि वर्तनच्छ्राया ।
श्यामा सामान्यप्रजापते रेखैव न भवति ॥
लडहत्वं प्रौढत्वम् ।
अभेदे भेदं दर्शयतिअत्र लडहेत्यादि ।
अत्राभेदे भेदो धर्मनिष्ठ एकविषयो दर्शितः ।
धर्मिनिष्ठतया विभिन्नविषयतया च दर्शयितुमाहयथावेति ।
णाराणोत्तीति ।
“नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः ।
बालाभिः पुनः कौतुकेन एवमेव दृष्टः” ॥
इत्यत्र परिणातवयस्कानां श्रीवल्लभत्वाभेदेऽपि नारायण इति (भे)देन दृष्टस्तथैवाभिरुचेः ।
तरुणीनां नारायणत्वाभेदेऽपि श्रीवल्लभ इत्येव, तथैवार्थित्वात् ।
बालानां तु यत्किञ्चिदिति नूतनं वस्तु द्रष्टव्यमित्येव, तथा व्युत्पत्तेः ।
यद्वा प्रत्येकं समस्ता रुच्यर्थित्वव्युत्पत्तयोभेददृष्टौ निमित्तं प्रपञ्चितमुल्लेखप्रस्तावे ।
तदिदमभिसन्धायाहअत्राभिन्नस्यापीति ।
अभिन्नस्य धर्मिणा इति शेषः ।
विषयविभागेन ।
परिणतवयस्कादि(ना) ।
लावण्येत्यत्र सम्बन्धेऽसम्बन्ध ।
अत्रैकनिर्मातृनिष्टतया धर्मसम्बन्धेऽसम्बन्धः ।
अथ भिन्ननिर्मातृनिष्ठतयापि दर्शयितुमाहयथा वेति ।
अस्याःसर्गेति ।
शृङ्गारैकरस इति प्रत्येकमभिसंबध्यते ।
पुष्पं प्रवालेलि ।
अत्र पुष्पप्रवालादिकयोः साक्षादसम्बन्धेऽपि यदीति संभावनया सम्बन्धः ।
पुष्पकाले प्रवालत्वापगमात् ।
न च मन्तव्यं संभावनायां व्यापारप्राधान्यातत्रोत्प्रेक्षैवेयमिति ।
ततोऽनुकुर्यादिति समन्वयवाक्ये अध्यवसितप्राधान्यात् ।
अत उत्प्रेक्षानुगृहीतेयमतिशयोक्तिः ।
तदितमभिसन्धायाहअत्र संभावनया संबन्ध इति ।
अथोत्प्रेक्षाग्रहणमन्तरेणापि असंबन्धे संबन्धमुदारहतिदाहोऽम्भः प्रसृतिमिति ।
अत्र दाहबाष्पश्वासवपुषामम्भः प्रसृतिं पचत्वप्रणालोचितत्वदीपकलिकाप्रेङ्खोलनपाण्डिममज्जनेषु संबन्धाभावे अपि सिद्धत्वेनोक्तिः ।
तदेतदाहअत्र दाहादीनामित्यादि ।
कार्यकारणपौर्वापर्यविध्वंसे द्वैविध्यमाहकार्यकारणेत्यादि ।
विपर्ययः कार्यस्य पूर्वकालभाविता ।
हृदयमिति ।
अत्र हृदयस्य दयटिताधिष्ठानं कुसुमचापबाणाधिष्ठानस्य कारणम् ।
कारणञ्च नियतपूर्वकालभावि ।
तदिहान्यथोपन्यस्तमिति पौर्वापर्यविपर्ययः ।
अविरलेति ।
नीपः कदम्बः ।
प्रावृडयनं पथिकगेहिनीमृतिकारणम् ।
अत्र त्वायातो मृता इति निष्ठाभ्यां तयोःसमकालता ।
ननु भेदेऽभेदादिकथ नमसङ्गतमित्यत आहएषु पञ्चस्विति ।
लोकातिक्रान्तगोचरंलोकातिशा यित्वलक्षणं गोचरयतीत्यर्थः ।
अतो भेदेऽभेदरूपो मुख्यार्थो न विवक्षित इतियावत् ।
ननु भेदेऽभेदाध्यवसायो लक्षणमतिशयोक्तेः ।
तदभेदे भेद इत्यादावव्यापकमित्यत आहअत्र चातिशयाख्यमित्यादिना ।
यदिह भेदेऽभेदादिरूपाया अतिशयोक्तिनिमित्तभूतं प्रयोजकमतिशयाख्यं फलं तत्राभेदाध्यवसायो, न तु फलिनोः ।
तदितमुपदर्शयतितथा हीत्यादि ।
वदनादीनां यद्वस्तुवृत्तसिद्धं सौन्दर्यं तत्कविसमर्पितेन कमलादिसौन्दर्येण सहाभेदेनाध्यवसितं सद्भेदेऽभेदादिवचनस्य निमित्तं कमलमुखादिकयोरभेदाध्यवसायो योजयितुं शक्यः ।
तथासति अव्यात्पिदोषः स्यादित्यत आहअभेदे भेद इत्यादि ।
आदिशब्दात्सम्बन्धेऽसम्बन्धपरिग्रहः ।
प्रकारेष्विति ।
बहुवचनं तदवान्तरभेदपरम् ।
अभेदे वास्तवे यदा भेदकथनं न हि तदा फलिनोरभेदाध्यवसायः ।
फलं तु तत्राप्यभेदेनैवाध्यवसीयत इत्यत आहअण्णं लडहत्तणअं इत्यादाविति ।
अण्णं लडहत्तणअमित्यादौ हि यत्वस्तु तस्मिद्धं लडहत्वं यच्चान्यत्वेन कविसमर्पितं सातिशयं, न खलु तयोर्भेदः कश्चित् ।
किन्तु समान्यप्रजापतिनिर्माणकविसमर्पितनिर्माणयोरेव फलिनोर्भेदः ।
अयं न्यायःसम्बन्धेऽसम्बन्धः इत्यत्रापि सम इत्याहएवमन्यत्रेति ।
तत्रापि खलु “लावण्यद्रविणे"त्यादौ वेधसो लावण्यर्द्रविणसम्बन्धेऽप्यसंबन्धः केवलं न पुनस्तन्व्या नैसर्गिकलावण्यकविसमर्पितवेधःसम्बन्धि लावण्ययोरसंबन्धः ।
एव “मस्याः सर्गविधा"वित्यत्रापि ज्ञेयम् ।
नियमतो लक्षणभूतमध्यवसितप्राधान्यं फलाभिप्रायेणैवेत्याहतदभिप्रायेणैवेत्यादि ।
अथ कार्यकारणलक्षणप्रकारे पुनर्विवेचयिष्यमाणो पौनरुक्त्यशङ्कां शमयितुमाहप्रकारपञ्चकेत्यादि ।
कार्यताश्रयत्वात्तत्रापि सङ्गतिः प्रपञ्चार्थत्वात्नानर्थक्यमिति सर्वमवदातम् ।
अभेदाध्यवसायो हि फलेऽतिशयनामनि ।
न पुनः फलिनोस्तत्राभेदो न सिध्यति ॥
अथाध्यवसायमूलमलङ्कारद्वयं निगमयन् धर्मान्तरमधिचिकीर्षुराहएवमध्यवसायाश्रयेणेत्यादि ।
गम्यमानौपम्याश्रयेष्वपि यन्न्यायात्प्राधान्यमर्हति तद्द्वयमधिकरोतितत्रापि पदार्थेत्यादिना ।
तत्र तुल्ययोगितार्थं सूत्रम् ।
औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसम्बन्धे तुल्ययोगिता ॥ २३ ॥
औपम्यस्य गम्यत्वे पदार्थगतत्वेनेत्यधिकारद्वयम्, अन्यत्तु लक्षणं व्याचष्टेइवाद्यप्रयोग इत्यादि ।
प्राकरणिकानामप्राकरणिकानां वेति विषयद्वयम् ।
गुणक्रिया चेति धर्मद्वयम् ।
अत श्चातुर्विध्यमनुसन्धेयम् ।
प्राकरणिकेषु गुणाभैसंबन्धः, क्रियाभिसम्बन्धश्च ।
अप्राकरणिकेषु तथेति ।
समानगुण क्रियासंबन्धो हि तुल्ययोगि(ता) ।
तामिमां निरुक्तिमाविष्करोतिअन्वितार्थेति ।
अन्वितार्था अन्वर्था ।
सज्जेति ।

दिनानि सज्जानामातपत्राणां प्रकरैरञ्चितानि ।
पद्मानि तु सज्जातानां सुजातानां पत्राणाम् ।
पाटलेत्येकत्क वर्णाः, अन्वत्र तु पुष्पम् ।
प्राकरणिकार्थविषयतां क्रियाभिसंबन्धं च दर्शयतिअत्र ऋतुवर्णनेत्यादि ।
ऋतुर्ग्रीष्मः ।
प्राकरणिकेषु गुणाभिसन्धायाहएवं गुणेऽपीति ।
योगपट्ट इति ।
अत्र तपः प्रस्तावाद्योगपट्टादीनां प्रकृतत्वम् ।
उचितत्वं गुणस्वभावाभिमानरूपतयाभिसंबध्यते, यद्युचितानि तदुच्यतामित्याक्षेपात् ।
अनेन गुणक्रिययोर्भावाभावाभिमानरूपं वैचित्र्यमप्यासूत्रितम् ।
धावत्त्ववश्वेति ।
अश्वपृतनायाःसकाशात्गूर्ञ्जरनृपस्य भग्रस्य मुखे पतितं रजः ।
कयापि सानुकम्पया तन्व्या प्रमृष्टम् ।
यशस्तु तवासिलतया ।
अप्राकरणिकविषयं क्रियाभिसंबधं दर्शयतिअत्र गूर्जरं प्रतीत्यादि ।
गूर्जरापेक्षयाहिकयापीति निर्देशात्तन्व्या अप्राकरणिकत्वम् ।
असिलतायास्तु वर्ण्यनायकविषयतया ।
त्वदङ्गेति ।
त्वदङ्गमार्दवं पश्यतः सर्वस्यैव चित्ते मालत्यादीनां कठोरतावभासत इत्यर्थः ।
अत्र मालत्यादिषु अप्राकरणिकेषु कठोरत्वगुणाभिसंबन्धः ।
तुल्ययोगितां निगमयतिएवमेषेति ।
प्रकृतेष्वथवान्येषु ज्ञातव्या तुल्ययोगिता ।
गुणक्रियाभिसम्बन्धात्समानादन्वितार्थिका ॥
अथ सङ्गतिपुरस्कारेण दीपकं प्रस्तौतिप्रस्तुताप्रस्तुतयोः इत्यादि ।
अथ सूत्रम्
प्रस्तुताप्रस्तुतानां तु दीपकम् ॥ २४ ॥
समानधर्माभिसंबन्ध इत्यनुषज्यते ।
अधिकारमनुस्मारयन् व्यचष्टे ओपम्यस्येत्यादिना ।
इह प्राकरणिकाः अप्राकरणिकाश्चोपादीयन्ते ।
तेष्वेकतरत्रोपात्तःसाधारणो धर्मोऽन्यत्रोपकरोति ।
अतो दीपनरूपादुपकारात्दीपसदृशोऽयमिति कृत्वा दीपकमिदम् ।
तदिदमुक्तम्प्राकरणिकाप्राकरणिकेत्यादिना ।
औपम्यस्य गम्यत्वं प्राग्वदेवेत्याहतत्रेवाद्य प्रयोगादित्यादि ।
यश्चात्रोपमानोपमेयभावः स तुल्ययोगितातो विलक्षण इत्याहस चेत्यादि ।
वास्तवः प्राकरणिकाप्राकरणिकनिम्नत्वात् ।
पूर्वत्र तुल्ययोगितायाम् ।
वैवक्षिकः विवक्षया कॢत्पः ।
वैवक्षिकत्वेहेतुः शुद्धप्राकरणिकेत्यादि ।
शुद्धप्राकरणिकत्वे हि उपमानत्वं वास्तवम् ।
शुद्धाप्राकरणिकत्वे तूपमेयत्वम् ।
तदिदं विशदीकरोतिप्राकरणिकत्वेत्यादिना ।
ननु प्रतिस्वं क्रियासम्बन्धे कथं पदार्थगतं इत्यत आहअनेकस्यैकक्रियेत्यादि ।
सम्बध्यमानधर्मस्यैकत्वात्पदार्थत्वोपचरणमित्यर्थः ।
अतो वाक्यार्थगतत्वे वास्तवे त्रैविध्यमुपपद्यत इत्याहवस्तुतस्त्वित्यादि ।
रेहै इति ।
राजते मिहिरेण नभो रसेन काव्यंः सरेण यौवनम् ।
अमृतेन धुनीधबस्त्वया नरनाथ भुवनमिदम् ॥
धुनी सरिद्धवः पतिः, सागर इत्यर्थः ।
इदं क्रियायाः आदिवाक्यगतत्वादादादिदीपकम् ।
संचारेति ।
निलयो गृहमस्तमयश्च ।
पल्लवरागो माणिक्यविशेषः योगाढरागः(?) ।
इदमप्यादिदीपकम् ।
क्रियायाः प्रथम पदत्वं तन्त्रमिति द्योतयितुम्(यथा वेति) ।
(विसमअओ)इति ।
एतन्मध्यदीपकम् ।
(बोले इ)इति मध्ये वाक्ये क्रियाविनिवेशात् ।
किवणाणेति ।
कृपणानां धनं नागानां फणामणिः केसराणि सिंहानाम् ।
कुलपालिकानां च स्तनौ कुतःस्पृश्यन्तेऽमृतानाम् ॥
जीवितान्न (जीवितां न?) स्पृश्यन्ते इत्यर्थः ।
क्रियादीपकत्रयं निगमयतिएवमेकेति ।
अनयैवनीत्या कारकदीपकं उदाहर्तुमाहअत्र च यथेत्यादि ।
साधूनामिति ।
कारकदीपकत्वं विकृणोति अत्रोपकरणादिति ।
मालादीपकं तु प्रस्तावान्तरे भविष्यतीत्याहछायान्तरेण त्विति ।
दीपकं वास्तवौपम्यं प्रकृताप्रकृताश्रयम् ।
आदिमध्यान्तवाक्येषु क्रियाकारकभेदतः ॥
अथ वाक्यार्थगतत्वेन प्रतिवस्तूपमां सूत्रयति
वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देश प्रतिवस्तूपमा ॥ २५ ॥
सङ्गतिमाहपदार्थारब्वेति ।
इह नानालङ्कार शङ्कामपनेतुं विषयं विभजतितत्र सामान्यधर्मस्येत्यादि ।
इत्ता(इवा?)दिकमुपादाय सामान्यधर्मस्य सकृन्निर्देश उपमायामेवोदाहृतंऽप्रभामहत्याशिखयेव दीपऽ इति ।
इवादिकमुपादायवस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैवऽयान्त्या मुहुर्वलितकन्धरमाननं तदावृत्त वृन्तशतपत्रनिभऽमिति ।
इवादिकमनुपादाय यथा सकृन्निर्देशस्तदा प्रस्तुताप्रस्तुतानां समस्तत्वे दीपकं, तथैव व्यस्तत्वे तुल्ययोगिता ।
तदुभयमपि समनन्तरमेव दर्शितम् ।
असकृन्निर्देशेतु द्वयी गतिःशुद्धसामान्यरूपत्वं, बिम्बप्रतिबिम्बो वा ।
शुद्धसामान्यत्वं नाम सम्बन्धिभेदमात्राद्धर्मस्य पृथङ्निर्देशः ।
तथा इवाद्यनुपादाने प्रतिवस्तूपमा ।
प्रतिवस्तूपमांनिर्वक्तिवस्तुशब्दस्येत्यादि ।
वस्तुशब्द इह वाक्यार्थपरः ।
उपमा तु साम्यम् ।
प्रतिवाक्यार्थं भवतीत्यन्वर्थाश्रयणा ।
ननु यदि धर्मस्यासकृन्निर्देशरूपं शुद्धसामान्यरूपत्वं तदा किं पर्यायान्तरेणेत्यत आहकेवलं काव्येत्यादि ।
उद्देशप्रतिनिर्देशभावाभावे यदा तस्यैव पुनरुपादानं, तदा पर्यायान्तराभावे अनवीकृतदोषः स्यात् ।
अतः पर्यायान्तरेण पृथङ्निर्देशेः इति काव्यसमयः ।
सोऽयं प्रतिवस्तूपमाविषयः ।
अथ धर्म्यपेक्षो बिम्बप्रतिबिम्बभावो यदा, तदा दृष्टान्तो वक्ष्यत इत्याहद्वितीयप्रकारेत्यादि ।
सादृश्याधिकारमनुस्मारयतितदेवमौपम्येत्यादि ।
चकोर्य इति ।
आवन्त्यः अवन्तीप्रभवाः ।
धर्मस्य शुद्धसामान्यरूपतां पर्यायान्तरत्वं च दर्शयतिअत्र चतुरत्वमित्यादि ।
विच्छित्त्यन्तरायाहन केवलमित्यादि ।
लाघवाय प्रागुदाहरणमेव वैधर्म्येण दर्शयतिविनावन्तीरिति ।
असकृद्धर्मनिर्देशादिवादेरनुपग्रहात् ।
प्रतिवस्तूपमाज्ञेयाप्रतिवाक्यार्थसाम्यतः ॥
अथ दृष्टान्तं सूत्रयति
तस्यापि बिम्बप्रतिबिम्बतया निर्देशे दृष्टान्तः ॥ २६ ॥
व्याचष्टेतस्यापि न केवलमित्यादि ।
प्रतिवस्तूपमान्यायेन द्वैविध्यमाहअयमपीति ।
अब्धिर्लङ्घित इति ।
गुरुकुलाक्लिष्टः नित्योपासनेन तदेकशरणीभूतः ।
अत्र बहूनां वानरभटैः मन्थाचलेन सहधर्म्यपेक्षो बिम्बप्रतिबिम्बभावः ।
दिव्यवागुपासनस्य अब्धिलङ्घनेन गुरुक्लिष्टत्वस्या पातालनिमग्रत्वेन च धर्मापेक्षः ।
ननु जानाति जानीत इति ज्ञानस्य पृथङ्निर्देशात्कथमिदं दृष्टान्तोदाहरणमित्यत आहअत्र यद्यपीत्यादि ।
नैतन्निबन्धनमिति ।
न हि ज्ञाननिबन्धनं औपम्यं विवक्षितं, ज्ञानस्योपचारात् ।
यत्र तु विवक्षा तत्र न किञ्चिन्न्यूनमित्यत आहयन्निबन्धनं चेत्यादि ।
इदं साधर्म्ये ।
कृतञ्चेति ।
त्वया मनसि गर्वाभिमुखे कृते तत्क्षणमेव द्विषो निहता इत्यर्थः ।
द्वौ चकारौ क्रिययोरेक रूपकालतामाहतुर्यतः ।
वैधर्म्येण प्रतिबिम्बनं निदर्शयतिअत्र निहितत्वादेरित्यादि ।
निहतत्वं गर्वाभिमुखीकरणं च अन्वयमुखेन उक्तम् ।
तमःस्थानं उदयाद्रिमौलित्वं च व्यतिरेकमुखेन ।
न यावदित्युपन्यासात् ।
अतो वैधर्म्येण प्रतिबिम्बनम् ।
बिम्बानुबिम्बन्यायेन निर्देशे धर्मधर्मिणोः ।
दृष्टान्तालङ्कृतिर्ज्ञेया भिन्नवाक्यार्थसंश्रया ॥
निदर्शनां सूत्रयति
संभवतासंभवता वा वस्तुसम्बन्धेन गम्यमानं प्रतिबिम्बकरणंनिदर्शना ॥ २७ ॥
सङ्गतिमाहप्रतिबिम्बेति ।
व्याचष्टेतत्र क्वचिदित्यादि ।
वस्तुसम्बन्धो वाक्यार्थसम्बन्धः ।
इत्थमियं द्विधासम्भवद्वस्तुसम्बन्धा, असम्भवद्वस्तुसम्बन्धाचेतिचूडामणीति ।
यो गिरिरागतं अभ्यागतं रविं सतां आतिथेयी अतिथिसत्कृतिः कार्येति बोधयन् धत्ते ।
योजयतिअत्र बोधयन्धत्त इति ।
बो धनसमर्थस्य आचारोगिरौ प्रयिक्तः तस्याचेतन्त्वेऽपि कारीषोऽग्रिरध्यापयतीतिवत्गिरिः गृहमेधिनो बोधनक्रियासमर्थान् करोतीति तत्सामर्थ्याचरणो णिचः प्रयोगात्सम्भवति वस्तुसम्बन्धः ।
अव्यात्स इति ।
स शिवोऽव्यादित्यर्थः ।
यस्येन्दुः स्मरचापलीलां स्पृशति ।
अत्रान्यसम्बन्धिन्या लीलाया अन्येन स्पर्शासंभवातियमसंभवद्वस्तुसम्बन्धा ।
ननु तर्हि असङ्गतिरेव स्यादित्यत आहलौलासदृशीं लीलामित्यादि ।
लक्षणाश्रयणाददूरविप्रकर्षम् ।
वैचित्र्यान्तरायाहएषापीत्यादि ।
समनन्तरेदाहृतायामेकक्रियाभिसम्बन्धात्पदार्थवृत्तिता ।
त्वत्पादेति ।
नखरत्नानां निसर्गशोणात्वातलक्त(क)मार्जनमेव पाण्डुरीकरणं न भवति यतः अत्र येषां दृष्टान्तधीः ते मन्दा इत्याहकेचिदित्यादि ।
वाक्यार्थनैरपेक्ष्ये दृष्टान्तः ।
सापेक्षत्वे तु निदर्शनेत्याहयत्र तु प्रकृत इत्यादि ।
सामानाधिकरण्ये नाध्यरोप्यत इति वाक्यैकताश्रयणेन एकक्रियान्वयात्प्रकृतान्तः पातित्वं नीयत इत्यर्थः ।
तत्र वाक्ये प्रकृताप्रकृतवाक्ययोः सम्बन्धानुपपत्तिमूला निदर्शनैवेत्यर्थः ।
यत्राप्यनतिस्फुटं सापेक्षत्वं दृष्टान्तधीर्माभूदिति उदाहरणेन दर्शयतिएवं चशुद्धान्तेत्यादि ।
आश्रमवासिनो जनस्य शुद्धान्तदुर्लभं वपुर्यदीति यच्छ्रब्द उत्तरवाक्ये तर्हिदूरीकृता इति तच्छ्रब्द मुत्थापयति इति वाक्यार्थयोः सापेक्षत्वान्निदर्शनैव इयम् ।
तदेतदाहौक्तन्यायेनेति ।
अथ वैचित्र्यान्यरायाहैयं च सामान्यैनैवेत्यादि ।
सामान्येन वाक्यार्थयोपसंबन्धात्प्रतिपादनं वैचित्र्यानतरोपोद्धातः ।
वैचित्र्यान्तरं विवेचयतिउपमेयवृत्तस्येत्यादि ।
शुद्धान्तदुर्लभमित्यादौ हि उपमेयवृत्तेऽध्यारोपितस्य उपमानवृत्तस्याम्भवः ।
अथैतद्विपर्ययोऽपि वियोग इति ।
वियोगेन निमित्तेन पाण्डरीभूतानां नारीणां गण्डतलेयः पाण्डिमासखर्जुरी मञ्जरीगर्भरेणुष्वलक्ष्यतेत्यत्र उपमेयवृत्तस्य गण्डपाण्डिम्रो मञ्जरीगर्भरेणुरूप उपमानवृत्तेर्लक्ष्यत्वासंभवातुपमा प्रतीयते ।
तदेतदाहअत्र गण्डतलमित्यादि ।
अस्यैव च प्रकारस्य वैचित्र्यान्तरायाहएष प्रकार उपमेयवृत्तस्य उपमानवृत्तेऽन्वयासंभवलक्षणाम् ।
मुण्डसिरेति ।
मण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरन्धारयसि ।
द्विगुच्छ्रायसे आत्मा मूढः छ्रेकाश्छ्रल्यन्ते ॥
छ्रेका विदग्धाः ।
छ्रल्यन्ते छलं नीयन्ते ।
अत्र छ्रेकछ्रलनहेतोर्नष्फलदुःसङ्घटमूढकार्यपरम्परालक्षणस्य प्रतीयमानस्य उपमेयवृत्तस्य बदरधरणादावुपमानवृत्तेऽन्वयासंभवः ।
स च परस्परसव्यपेक्षत(या)पड्क्त्यवस्थानत्शृङ्खलान्यायेन स्थितः ।
मिथोऽनपेक्षपड्क्त्यवस्थानलक्षणाया मालारूपेणापि संभवतीत्याहैयमपीति ।
अपिशब्दो भिन्नक्रमः ।
मालयापि भवन्तीत्यर्थः ।
अरण्येति अरण्यरुदितं कृतं तादृशोदुःखातिभारस्य दुःखभागिजनमन्तरेण अनुभूतत्वात् ।
शवशरीरमुद्वर्तितं अगरुचन्दना दिनानुलित्पम् ।
तथाविधस्य संस्कारस्य तस्य वा स्वस्य वा अन्येषां वा भोगायोगात् ।
स्थलेऽब्जमवरोपितं भुवनलालनीयस्य वस्तुनोऽपत्वात् ।
सुचिरमिति प्रतिवाक्यमन्वीयते ।
ऊषरे वर्षितं नैरर्थक्यनैष्फल्ययोरुद्वेलत्वात् ।
श्चपुच्छ्रमवनामितं चिरसंस्काराधानेऽप्य नाहितंसंस्कारत्वात् ।
बधिरकर्णजापः कृतः ।
जापः उपांशुरहस्योक्तिः ।
अपात्रमिति ज्ञात्वैव दुरुत्कण्ठया समारम्भात् ।
अन्धमुखमण्डना कृता तस्य अनुपयोगादन्येषां विडम्बनास्पदत्वात् ।
अबुधो जनः सेवितो यदिति वाक्यार्थेन विशेषितो यच्छब्दः प्रधान वाक्यार्थभूता(म्) क्रिया (मु)पगृह्णाति ।
यदबुधजनसेवनं तदरण्यरुदितादिकरणामित्युपमेयवृत्तस्य उपमानवृत्तेऽध्यारोपितस्य अन्वयासंभवो मालयावतिष्ठते ।
अथ शाब्दोपादानां विनापि अर्थाक्षेपादेव निदर्शनावैचित्र्यं भवतीत्याहक्वचित्पुनरित्यादि ।
निषेधो हि प्रात्पिपूर्वक एवेति प्रात्पिमाक्षिपति ।
निषेधाक्षित्पायाः प्राप्तेः सम्वन्धानुवपपत्तिरपि क्वचिन्निदर्शनाबीजमित्यर्थः ।
तदा(नी मिय)मार्थीति भावः ।
उत्कोप इति ।
अत्र पद्भ्यां हंसगतिर्मुक्तेति त्यागरूपनिषेधबलात्पादयोर्हसगतिप्रात्पिराक्षित्पा ।
सा साक्षात्सम्बद्धुमशक्ता सादृश्यमवगमयति ।
तदेतदाहअत्र मुक्तेतीत्यादि ।
सम्भवद्वस्तुसम्बन्धोऽसम्भवद्वावबोधयेत् ।
प्रतिबिम्बं यदि तदा निर्ज्ञातव्या निदर्शना ॥
बिम्बानुबिम्बार्थतया वाक्ययोः प्रकृतान्वयोः ।
स्यान्नैरपेक्ष्ये दृष्टान्तः सापेक्षत्वे निदर्शना ॥
इत्थमभेदप्राधान्याधिकारनिपातिनोऽलङ्काराः विवेचिताः ।
अथ भेदप्राधान्येन व्यतिरेकं सूत्रयति
भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः ॥ २८ ॥
भेदप्राधान्ये साधर्म्य इत्यनुषज्यते ।
भेदप्राधान्यं व्यतिरेकस्योक्तचरमनुस्मारयनधिकरोति अधुनेत्यादि ।
भेदमसम्भववैचित्र्यद्वयं प्रभेदबीजत्वेन उट्घाटयतिभेदो वैलक्षण्यमित्यादि ।
विपर्ययशब्दात्मिथ्याज्ञानभ्रमो मा भूदित्याहविपर्ययो न्यूनगुणत्वमिति ।
दिद्दक्षव इति ।
अत्र नीलोत्पलिनी विकासापेक्षयाक्षिसहस्रपक्ष्मलताया अधिकगुणत्वम् ।
क्षीणः क्षीणोऽपीति ।
अत्र अनिवर्तिनो यौवनस्य क्षयिणोऽपि भूयोऽभिवर्धितशशिव्यपेक्षया न्यूनगुणत्वम् ।
तदेतदुभयं योजयतिअत्र विकस्वरेत्यादिना ।
भेदप्रधाने साधर्म्ये व्यतिरेको विधीयते ।
आधिक्यादुपमेयस्य न्यूनत्वाद्वोपमानतः ॥
सर्हेक्तिं सूत्रयति
उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसम्बन्धे सहोक्तिः ॥ २९ ॥
अधिकारमनुस्मारयन् सामग्रीमस्या विविनक्तिभेदप्राधान्य इत्येवेत्यादिना ।
ननु सहार्थ तया तुल्यकक्ष्ययोः कथं भेदप्रधानतेत्यत आहगुणप्रधानभावेत्यादि ।
सत्यम् ।
सहार्थसामर्थ्यात्साधर्म्यमेवात्र ।
भेदप्राधान्यं तु व्यतिरेकनयेन साधार्म्यभित्ति कमिह न भवति अपि तु गुणा प्रधानभावभित्तिकमिति यावत् ।
ननु समानयोगत्वे गुणप्राधानभावोऽपि कीदृगीत्यत आहसहार्थप्रक्तेति ।
सहार्थो हि तृतीयां तं गुणत्वेन प्रयोजयति ।
ननु सहार्थत्वे क उपमानोपमेयभाव इत्यत आहौपमानोपमेयत्वं चेत्यादि ।
तद्धि तृतीयान्तस्य विशेषणत्वादुपमानत्वं विवक्ष्यते ।
इतरस्य तु विशेष्यत्वादुपमेयत्वम् ।
अतो वैवक्षिकमेव न तु वास्तवमिति भावः ।
अवास्ततत्वे हेतुमाहद्वयोरपीत्यादि ।
ननु द्वयोः प्राकरणिकत्वमेवाप्राकरणिकत्वमेव वेतिकिं नियामकमित्यत आहसहार्थसामर्थ्यादिति ।
ननु तर्हि वैवक्षिकत्वे कतरत्केन रूपेण विवक्ष्यतामित्यत आहतृतीयान्तस्येत्यादि ।
ननु प्रधानमपि तृतीयान्तेन निर्देशमर्हतीत्यत आहशाब्दश्चेति ।
सहशब्दो हि नियमेन तृतीयान्तस्य शाब्दगुणत्वं कल्पयति ।
इतरस्य तु प्राधान्यम् ।
तर्हि अर्थापेक्षया का स्थितिरित्यत आहवस्तुतस्त्विति ।
गुणस्यापि प्राधान्यं, प्रधानस्यापि गुणत्वं विपर्ययः ।
अपिशब्दादनवस्थितिरपि ।
एवं न्यायक्रमे स्थितेऽपि विशेषोऽन्योऽस्याः प्रयोजक इत्याहतत्रापीत्यादि ।
अतिशयोक्तिरपि न साकल्येन अस्या मूलमित्यत आहसा चेत्यादि ।
कार्यकारणप्रतिनियमविपर्ययोऽत्र तुल्यकालता न तु कार्यस्य पूर्वकालता सहार्थत्वात् ।
अभेदाध्यवसायस्तु द्विधा भवतीत्याहअभेदाध्यवसायश्चेत्यादि ।
तेनेयं त्रिविधोपक्षित्पा ।
वैचित्र्यान्तरमुपक्षिपतिसाहित्यं चात्र्येत्यादि ।
कर्तृकर्मादि साहित्यनिबन्धनेनापि प्राभेदेन प्रथत इति यावत् ।
क्रमेणोदाहरणानि ।
भवदपराधैरिति अत्रापराधानां तृतीयान्तत्वाद्गुणता ।
सन्तापस्य प्रथमान्तत्वात्प्रधानता ।
अतो गुणप्रधानभाव निबन्धनैवात्र भेदप्रधानता, न पुनर्वृद्धिक्रियानिबन्धना ।
स च गुणप्रधानभावः सहार्थप्रयुक्तः ।
द्वयोश्च प्राकरणिकत्वादुपमानोपमेयभावो वैवक्षिकः ।
अपराधानां च तृतीयान्तत्वात्विशेषणानामुपमानत्वं नियतमपराधा यथा वर्धन्त इति ।
सन्तापस्य तु प्रधानत्वादुपमेयत्वं सन्तापस्तथा वर्धत इति ।
स चायं गुणप्रधानभावः शाब्दः ।
अर्थं व्यपेक्ष्य तु सन्ताप एव (इव)अपराधा वर्धन्त इत्यपि प्राप्तेः ।
न्याय क्रमोऽयं उदाहरणान्तरेष्वपि योजनीयः ।
अत्र कार्यकारणसमकालत्वलक्षणातिशयोक्तिर्मुलमिति दर्शयतिअत्रापराधानामित्यादि ।
अस्तं भास्वानितिसंह्रियन्तां विप्रकीर्णानि एकीक्रियन्तामित्यर्थः अत्र श्लेषाभित्तिकाभेदाध्यवसायरूपा मूलमिति दर्शयतिअत्रास्तङ्गमनमित्यादि ।
अस्तमेकदा गिरिः अन्यदात्ववसाद इत्युभयार्थत्वम् ।
कुमुददलैरितिअत्र पुनः अश्लेषभित्तिकाभेदाध्यवसायरूपमूलमिति दर्शयतिअत्र विघटनमित्यादि ।
एवमतिशयोक्तिमूलत्वादिलक्षणो यो विशेषः तदभावे सहोक्तिमात्रं नालङ्कार इति व्युत्पादयतिएतद्विशेषेति ।
प्रत्युदाहरतिअनेन सार्धमिति ।
कर्तृसाहित्यलक्षणं वैचित्र्यमप्येष्वेव दर्शितमित्याहएतान्येवेति ।
एषु हि सन्तापापराधादि कर्तृसाहित्यम्द्युजन इति ।
द्युजना देवाः ।
द्युजनस्य मृत्युना सह मनोरथावात्पिः दैत्यबलक्षयः ।
अत्र कर्मसाहित्यं दर्शयतिअत्र करोतिक्रियेत्यादि ।
द्युजनमृत्योः आत्पिक्रियापेक्षया कर्तृत्वेऽपि तस्योपसर्जनत्वात्नेह कर्तृसाहित्यम् ।
या तु (चक्र इति)प्रधानभूता करोतिक्रिया तदपेक्षया कर्मत्वात्कर्मसाहित्यमेतदिति यावत् ।
एवं करणादिसाहित्यवैचित्र्यमुन्नेयम् ।
अथ पुनर्वैचित्र्यायाहैयं चेति ।
उत्प्रेक्षित्पमिति ।
धनुष उत्क्षेपः ज्यावन्धसङ्घट्टनम् ।
आस्फालनमाकर्षः ।
शिलीमुखमोक्ष इत्यादि क्रमिकाणि धानुष्ककर्माणि ।
तत्रा कर्षणमात्रान्तं परिपणानात्तावन्त्येवोपवर्णितानि ।
तत्रातिवत्सलस्य कौशिकस्य पुलकानां धनुरुत्क्षेपसम समयमुत्क्षेपः, मत्सरग्रस्तत्वातुत्क्षेपमात्रा परितोषितानां भूपानां धनुर्नति(सम)समयं मुखनतिः ।
परिपणताकर्षणस्य जनकस्य नत्यन्तं संशयानुवृत्तेः ।
ज्यास्फालनसमसमयं संशयबुद्ध्यास्फानम् ।
वैदेह्याः पुनः परिपणनसिद्ध्यन्तमनाकृष्टमनःसमाकर्षसमसम(यं)म(नः)समाकर्षः ।
भार्गवाहङ्कृतिकन्दलस्य तु धनुर्भङ्गान्तमभग्रस्य भङ्गसमसमयं भङ्गःश्रीमता रामचन्द्रेणाकारीति समन्वयात्कर्मसाहित्यमिह मालात्वेनावतिष्ठते ।
एवमन्यदपि मालात्वेन ज्ञेयम् ।
गुणप्राधानभावो यः शाब्दस्तेन भिदोत्कटा ।
संश्रितातिशयोक्तिं च सहोक्तिःसमयोर्मता ॥
अथ विनोक्त्यौ सङ्गतिमाहसहोक्तिप्रतिभटेत्यादिप्रतिभटभूतां प्रतियोगिभूताम् ।
तत्र सूत्रम्
विना कञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः ॥ ३० ॥
व्याचष्टेसत्त्वस्येत्या(दि) ।
(व्यत्ययेनाभावशब्दार्थौ)प्रत्येकमभिसम्बध्येते ।
शोभनत्वाभावोऽशोभनत्वं तत्त्वाभावः शोभनत्वमिति ।
कञ्चिदर्थं विना यत्र शोभनत्वं नास्ति सैका विनोक्तः ।
यत्र त्वशोभनत्वं नास्ति सान्येति द्विरूपेयमित्यर्थः ।
ननु कस्मिंश्चित्तत्त्वासत्वे इत्येतावतैव पर्यात्पौ (किं?)निषेधद्वयाश्रयणगौरवेणोत्यत आहअत्र चेत्यादि ।
अन्यनिवृत्तिप्रयुक्तेति ।
अन्यनिवृत्तिश्चेत्सदसत्त्वनिवृत्तिं न प्रयोजयति ।
तदा न विनोक्त्यलङ्कारः ।
न ह्यस्मिन् सति तत्त्वमसत्त्वंवेत्युक्तौ विच्छित्तिः काचित् ।
अतोऽन्यनिवृत्तिप्रयुक्ता सदसत्त्वनिवृत्तिरेव विनोक्त्यलङ्कारः इति भावः ।
अस्मिन्सति सत्त्वमसत्त्वं चेति वस्तुविधिः , सत्त्वलङ्कारफलत्वेन प्रात्पे प्रकाश्यत इत्याहएवं चान्यनिवृत्तावपि इत्यादि ।
द्विरूपाया अपि परिपाट्योदाहरणं विनयेति ।
अत्र विनयशशिसत्कत्वनिवृत्त्या श्रीनिशाविदग्धा (धता)नि वृत्तिरिति सत्त्वाभावोदाहरणम् ।
विनयादिषु च सत्सु श्रीप्रभृतिसद्भावः फलत्वेन प्रकाश्यते ।
तदिदमभिसन्धायाहअत्र विनयादीत्यादि ।
विनादि शब्दाभावे तदर्थं सद्भावे विनोक्तिरेवेति व्युत्पादयितुमाहअत्र विना शब्द इत्यादि ।
यथा सहोक्ताविति ।
सहोक्तावप्ययं न्याय इति यावत् ।
अत्रोदाहरतिनिरर्थकं जन्मेति ।
अत्र तुहिनाशुदर्शनं विना नलिनीजन्म न शोभनमिति प्रतीयते ।
अतो विनोक्तिः इयम् ।
विनाशब्दानुपादाने त्वार्थीति विशेषः ।
तदिदमभिसन्धायाहैत्यादौ विनोक्तिरेवेत्यादि ।
अत्र च हेतुहेतुमद्भावव्यक्तयो विनोक्तेरेव विच्छित्तिविशेषाधायकः न पुनरलङ्कारान्तरमित्याहैयं च परस्परेत्यादि ।
उदाहृतविषय इति ।
निरर्थकं जन्मेत्ययमुदाहृतो विषयः ।
मृगलोचनयेति ।
लोके हि मृगलोचनां विना विचित्रव्यवहारप्रतिभाप्रागल्भ्यं नास्ति सुहृदा विना च सुन्दराशयत्वम् ।
अस्य तु नरेन्द्रसूनोर्न तयेति श्लोकार्थः ।
असत्त्वा भावं दर्शयतिअत्राशोभनत्वाभावादित्यादि ।
प्रतिभाप्रागल्भ्यं सुन्दराशयत्वं च शोभनपदार्थौ ।
निगमयतिसैषा द्विधेति ।
सदसत्त्वनिवृत्तिश्चेन्निवृत्त्यान्यस्य वर्ण्यते ।
तदा द्विधा विनोक्तिःस्पाद्विधिरत्र फलं भवेत् ॥
अथ विशेषणविच्छित्तिमूलौ समासोक्तिपरिकरौ प्रस्तौति अधुना विशेषणेति ।
विशेषण विच्छित्तिश्च द्विरूपा साभ्यं साभिप्रायता च ।
साम्ये समासोक्तिमधिकरोतितत्रादावित्यादि ।
तत्र सूत्रम् ।
विशेषेणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः ॥ ३१ ॥
यत्र विशेष्यांशे प्रकृतमात्रपरता विशेषणसाम्यात्पुनरप्रकृतोऽवगम्यते सा समासेन संक्षेपेणा अभिधानात्समासोक्तिः ।
तदेतद्व्याचिख्यासुर्विषयविभागायाहैह प्रस्तुतेत्यादि ।
क्वचिद्वाच्यत्वम् ।
उभयेषामिति शेषः ।
क्वचिद्गम्यत्वं, एकतरेषामित शेषः ।
श्लेषनिर्देषभ्ग्येति ।
विशेषणविशेष्यांशयोः श्लेषोरनिबन्धने नेत्यर्थः ।
पृथगुपादानेन विति ।
विशेषणांशे पृथक्शब्दोपादानेनेत्यर्थः ।
एतद्द्विभेदमपि वाच्यत्वं श्लेषालङ्कारस्य विषयः ।
यदा पुर्गम्यत्वं प्रस्तुतविषयं विशेषणसाम्यात्तदानीम प्रस्तुतप्रशंसा, यदा त्वप्रस्तुतविषयं तदा समासोक्तिरिति विवेकः ।
अप्रस्तुतस्य गम्यत्वे यदि विशेष्यस्यापि साम्यं तदा किं स्यादित्यत आहविशेष्यस्यापि साम्ये श्लेषप्राप्तेरिति ।
श्लेषमूलध्वनिप्रात्पेरिति यावत् ।
ननु श्लेषालङ्कारः शब्दशक्तिमूलध्वनिश्चेति त्रिषु विषयेष्वप्यस्ति श्लिष्टपदापनिबन्धः ।
तत्र यदा श्लेषः तदार्थद्वयस्य नियमेन वाच्यता ।
वाच्यत्वं चैवं संभवतियदार्थौ द्वावपि प्राकरणिकौ स्तः अप्राकरणिकौ वा तदा विषेषणविष्यांशयोर्द्वयोरपि श्लिष्टपदोपनिबन्धात्श्लेषालङ्कारः ।
अभिधाया अनियन्त्रणात्द्वावप्यर्थौ वाच्यौ ।
अथ यदैकस्य प्राकरणिकत्वमितरस्य अप्राकरणिकत्वं तदा विशेष्यांशे पृथक्शब्दोपादानबलादेव श्लेषालङ्कारः ।
यदि विशेष्यांशेऽपि श्लिष्टपदोपनिबन्धः तदा प्रकरणनियन्त्रिताया अभिधायाः प्राकरणिकार्थः एवोपक्षयाद प्राकरणिकर्थावगतिर्व्यञ्जनस्यैव विषयःस्यात् ।
यदसमासोक्तिस्तदा ।
विशेषणांशे अर्थद्वयप्रतिपादकशब्दोपनिबन्धः विशेष्यांशे तु प्राकरणिकार्थमात्रपरता ।
तदा विशेषणसाम्यादप्रस्तुतस्य गम्यत्वादुक्तलक्षणा समासोक्तिः ।
यदा पुनः प्राकरणिकाप्राकरणिकयोः विशेषणविशेष्यांशेऽपि श्लिष्टता तदा तावन्न समासोक्तिः विशेषणमात्रसाम्यलक्षणा यतः श्लेषालङ्कारत्वप्रात्पिरपि ।
कथम्? तत्रार्थद्वयस्य वाच्यतैव लक्षणं यतः, न ह्यत्र द्वयोर्वाच्यतोपपत्तिः प्रकरणपक्षपातिन्या अभिधाया अप्राकरणिकेर्ऽथे स्पर्शाभावातप्राकरणिकस्य समन्वयसमनन्तर प्रतीतिकत्वात्शब्दशक्तिमूलस्य ध्वनेः श्लेषेण विषयग्रासप्रसङ्गाच्च ।
विविक्तोऽयं घण्टापथः ध्वनिनिदर्शनरहस्यविदामित्यलम् ।
अथ समासोक्तिरूपकयोः वैधर्म्यं विवेचयतिविशेषणसाम्यवशादित्यादिना ।
हिर्हेतौ ।
यतो विशेषणसाम्यादप्रस्तुतोर्ऽथः प्रतीयते, अतो विशेष्यांशे संस्पर्शाभावाद्विशेष्यं प्रकृतार्थं न स्वेन रूपेण रूपवन्तं कर्तुमीष्टे किन्दु विशेषणांशप्रतीतं स्वव्यवहारं विशेषणांशप्रतीते प्रकृतार्थव्यवहारेऽवच्छ्रेदकत्वेन समारोपयति ।
तदिदमाहप्रस्तुता वच्छ्रेदकत्वेन प्रतीयत इति ।
अवच्छेकत्वाच्चेत्यादि ।
व्यवहारसमारोपः न तुरूपकाद्वैधर्म्यमित्याहअवच्छेदकत्वाच्चेत्यादि ।
व्यवहारसमारोपः न तु रूपसमारोपः ।
ननु यदा रूपसमारोपः तदा किं स्यादित्यत आहरूपसमारोपेत्यादि ।
अवच्छ्रादितत्वेन क्रोडीकृत्वेन ।
प्रकृतरूपरूपितत्वातप्रकृतरूपेण उपरञ्जितत्वात्रूपकमेव ।
विवेचितं चैतद्यथायोगं परिणामालङ्कृतौ ।
अत्रावान्तरश्लोकाः अप्रस्तुतं प्रतीतं चेद्भेदकांशैकसाम्यतः ।
व्यवहारं समारोप्य प्रस्तुते न्यग्भवत्यथा ॥
तेनाप्रस्तुतवृत्तान्तारोपेण प्रस्तुतं स्वयम् ।
संक्षेपेणोच्यते तस्मात्समासोक्तिरियं मता ॥
स्याद्विशेष्यांशसाम्यं चेत्प्रस्तुताकाररूपितम् ।
भवेदप्रस्तुतं भेद्यं रूपकालङ्कृतिस्तदा ॥
इति ॥
अस्या विशेषप्रपञ्चनार्थमाहतच्च विशेषणसाम्यमित्यादि ।
साधारण्यमुभयत्र प्रवृत्तिनिमित्तसंभवः ।
औपम्यगर्भत्वं तद्गर्भसमासाश्रयणात् ।
इत्थं तद्विशेषणसाम्यं त्रिधा भवतीत्यर्थः ।
अतःसमासोक्तिरंपि त्रिधा ।
क्रमेणोदाहरणानिउपोढरागेणोति ।
रागः सन्ध्यारुणिमा कामश्च ।
तारकेत्यतो नक्षत्रदृगन्तर्मण्डलयोः प्रतिपत्तिः ।
मुखं प्रारभ्भो वक्त्रं च ।
तिमिरमंशुकमिव तिमिरसदृशमंशुकं च ।
लक्षणं योजयितुमाहअत्र निशाशशिनोरित्यादि ।
नायकश्चनायिका च नायकौ ।
“पुंमांस्त्रिये"त्येकशेषः ।
उपोढरागत्वादिश्लिष्ट विशेषणमहिन्मा खल्वत्र निशाशशिनौ नायकव्यवहार विशिष्टौ प्रतीयेते ।
ननु कथमत्र निर्ज्ञायते व्यवहारसमारोपो न रूपसमारोप इत्यत आहअपरित्यक्तेत्यादि ।
यदि रूपसमारोपस्तदा प्रकृतौ रूपकन्यायेन स्वं स्वं रूपमवच्छ्रादितत्वेन परित्यज्य यदवच्छ्रादकमुपमानरूपं ताद्रूप्यमुपगृह्णाति ।
इह पुनर्विशेष्यांशे निष्प्रतियोगिकतया ज्ञातयोरत एवापरित्यक्त स्व रूपयोः निशाशशिनोर्विशेषणसाम्यावगमितेन नायकत्वधर्मेण विशिष्टतया प्रतीतेः ।
अतो व्यवहारसमारोप एव ।
तन्वीति ।
पुष्पमार्त्तवं रजः, प्रसूनं च ।
इह तनुत्वादीनां विशेषणानामुभयत्रैकार्थतासाम्यं न तु श्लिष्टता ।
तदेतदाहअत्र तनुत्वेत्यादि ।
ननु तनुत्वादिधर्मसाम्यात्कथं लताव्यवहारप्रतीतिरित्यत आहतत्र च लतैकेत्यादि ।
विकासो हि लताया एव तत्समारोपो लोलाक्ष्या लताव्यवहारप्रतीतेः कारणम् ।
ननु विकासस्य लतैकगामित्वात्कथं साधारण्यमित्यत आहविकासस्त्वित्यादि ।
यथैवं विशेषणसाधारण्यं धर्मसमारोपश्च व्यवहारसमारोपस्य कारणं तथा कार्यसमारोपोऽपीति व्युत्पादयुतुमाहएवं च कार्येत्यादि ।
कार्यसमारोपनिबन्धनो हि भेद इह धर्मसमारोपनीत्या सुज्ञानः उपरि च शुद्धत्वेन पृथग्राशीकरिष्यति ।
अत इह नोदाहृतः ।
एवमादौ धर्मकार्ययोरन्यतरारोपमन्तरेण अप्रकृतार्थो नावगम्यते ।
प्रकरणनियन्त्रिताया अभिधायाः प्राकरणिकार्थ एवोपक्षयात् ।
अतो धर्मकार्ययोरन्यतरारोप एव व्यञ्जनव्यापारोत्था पनेनाप्रकृतार्थावगतिहेतुः ।
इतो विशेषणसाधारण्यनिबन्धनासमासोक्तिर्न्यायविदामेव विभक्तविषया ।
अस्फुटत्वात्तदिदमभिसन्धायाहैयञ्चेत्यादि ।
पूर्वापेक्षया श्लिष्टविशेषणनिबन्धना समासोक्तिः पूर्वा तदपेक्षयेत्यर्थः ।
दन्तप्रभा पुष्पचितेति ।
अत्रानपेक्षिताख्याने वाक्ये श्रवण समनन्तरमेव दन्तप्रभापुष्पचितत्वादिना हेतुना हरिणेक्षणायाः सुवेषता प्रतीयते ।
अतस्तदा सुवेषत्वलक्षणकार्यवशाद्विशेषणानां दन्तप्रभाः पुष्पाणीवेत्युपमासमासपरत्वम् ।
अथ दन्तप्रभासदृशैः पुष्पैरिति मध्यमपदलोपि समासान्तरप्रत्यायितैः पुष्पपल्लवादिभिः विशेषणासाम्यदशायां लताव्यवहारप्रतीतिः ।
तदेतदवबोधयतिअत्र दन्तप्रभा इत्यादिना ।
लताव्यवहारप्रतीतिरिति वदता रूपकसमासस्याप्रात्पिरासूचिता ।
व्यवहारसमारोपे समासोक्तिः ।
रूपसमारोपे तु रूपकमिति प्रतिपादितं यतः अतः प्रतीतोऽपि रूपकसमास इह न्यायतो न प्राप्नोति ।
नन्वेवमादौ प्रागुपमासमासाससमाश्रयणनिमित्तं यदि सुवेषत्वादिना नोपात्तं तदा किं स्यादित्यत आहअत्रैव परीतेत्यादिना ।
परीता केशपाशालिवृन्देन परिगता ।
इह दन्तप्रभापुष्पाणीवेत्यादिना किमुपमासमासः, उत दन्तप्रभा एव पुष्पाणीत्यादिको रूपकसमास इति सन्देहः, उपमारूपकयोः साधकबाधकाभावात् ।
अतः सन्देहरूपसङ्करसमाश्रयेण पूर्वं योजना ।
न च मन्तव्यं समासः सन्देहो पपन्न इति, सन्देहस्य कविप्रतिभोत्था पितस्य विच्छ्रित्तिरूपत्वात् ।
अतःसङ्करसमाश्रयेणादौ योजना ।
अथ सन्देहोपशमकाले दन्तप्रभासदृशैः पुष्पैरित्यादि पूर्ववदेव मध्यमपदलोपसमासः लताव्यवहारप्रतीतौ समासोक्तावेव विश्रन्तिः ।
इत्थं च सति उपमा समासगर्भतया सङ्करसमासगर्भतया च समासोक्तिभेदोऽयं द्विधा दर्शितो मन्तव्यः ।
ननु केवलरूपकसमासाश्रयेणापि समासोक्तिभेदोऽयं किं नेष्यत इत्यत आहरूपकगर्भत्वेन त्विति ।
प्राक्रूपकसमासे अथ तद्गर्भतयोपमासमासाश्रये यद्यपि विशेषणसाम्यं भवत्येव, तथापि न तत्समासोक्तेः प्रयोजकम् ।
कुतः? एकदेशविवर्तिमुखेनैव लताव्यवहारप्रतीतौ समासोक्तेः वैयर्थ्यात् ।
ननु उपमासमासे सङ्करसमासे च समासोक्तिवैपर्थ्यं किं न स्यादित्याहन च प्राङ्निदर्शितेत्यादि ।
एष न्यायः समासोक्तिवैपर्थ्यापत्तिलक्षणः ।
तत्र हेमुमाहौपमासङ्करयोरेकदेशविवर्तिनोरभावात् ।
न ह्युपमालङ्कारः सङ्कराङ्कारश्च एकदेशविवर्तित्वेन केनचिदनुशिष्टौ ।
अतः स्वतन्त्रालङ्कारत्वसंशयान्नान्यबाधक्षमौ ।
रूपकं तु एकदेशविवर्तितयानुशिष्टमन्यबाधक्षममेव ।
अत एवंविधे विषये रूपकप्रात्पौ समासोक्ते प्रात्पिरिति सोदाहरणं दर्शयितुमाहतच्चैकदेशविवर्तीत्यादि ।
नीरक्ष्य विद्युन्नयनैरिति ।
पयोदो विद्युन्नयनैर्निशायामभिसारिकायाः मुखं निरीक्ष्य धारानिपातैः सह चन्द्रो मया वान्त इति धियेवार्ततरं ररासेत्यर्थः ।
अत्राश्लिष्टमेकदेशविवर्तिरूपकं समासोक्तेर्नावकाशं ददातीति दर्शयतिअत्र निरीक्षणेत्यादि ।
निरीक्षणं हि पुरुषधर्मो न पयोदधर्मः ।
अतः पुरुषानुसारेण योजने विद्युत एव नयनानीति रूपकमेव न पुनरुपमा सङ्करो वा ।
अतः पयोदे द्रष्टृपुरुषरूपणमर्थादिति एकदेषविवर्तिता ।
तच्चेदमार्ततरं ररासेति प्रतीयमानोत्प्रेक्षाया एव निमित्तं समासोक्ते रप्रात्पिरेवेति भावः ।
मगनणनेतिपत्राणि दलानि तान्येव पत्राणि तालदलानि ।
लिपयोरीतयः ता एव लिपयोऽक्षर सन्निवेशाः ।
कायस्थो देही गणकः ।
एषु रूपणसामर्थ्यान्मदनो महाराजतया मधुश्च श्रीकरणाग्रणीत्वेन रूपितः प्रतीयते ।
तदेतदुपदर्शयतिअत्र हि पत्रलिपीत्यादि ।
ननु पत्राणीवेत्यादिरुपमा किं न स्यादित्यत आहद्विरेफमषीत्यादि ।
मषीयोगो हि मधावसंभवन्नुपमा समासंबाधित्वा गणकवृत्तेः संभवस्तदनुसारेण रूपकसमासं साधयतीति यावत् ।
ननु समासोक्तिप्रस्तावे किं सोदाहरणं रूपकभेदप्रदर्शनेनेत्यत आहअस्य च प्रचुर इत्यादि ।
अस्य एकदेशविवर्तिरूपकस्य ।
अत्रावान्तरश्लोकौ स्यादौपम्यसमासेन समासोक्तिर्विनिश्चये ।
स्यात्सङ्करसमासेन समासस्य तु संशये ॥
न रूपकसमासस्य प्रात्पावस्याः प्रवर्तनम् ।
रूपकादर्थसंसिद्धेरेकदेशविवर्तिनः ॥
अतः प्रभेदान्तरप्रथनाय उक्तभेदान् संचष्टेतदेवमित्यादि ।
इयं खलु श्लिष्टात्साधारणादौपम्यगर्भाच्येति विशेषणवैचित्र्यात्त्रिधोद्दिष्टा ।
तत्र श्लिष्टाद्विशेषणादेकविधा ।
साधारणात्पुनर्धर्मसमारोपकार्यसमारोपाभ्यां द्विधा ।
औपम्यगर्भादपि उपमासमासेन सङ्करसमासेन चेति द्विधा ।
श्लिष्टाश्लिष्टतया तु रूपकसमासद्वयमस्या न विषयः ।
अतः पञ्च प्रकाराः ।
इत्थं विशेषणसाम्यात्पञ्चप्रकारत्वसिद्धा ववान्तरं विशेषसहितामिमां पुनस्त्रिराशिकतया संचष्टेइत्थं शुद्धकार्येत्यादिना ।
कार्यस्य शुद्धत्वं नाम निरूपित विशेषणसाम्या संकीर्णता ।
प्रथमं विशेषणसाम्यनिबन्धनभेदोदयावर्वागित्यर्थः ।
अत्रैतदाकूतम्विशेषण साम्यादप्रस्तुतस्य गम्यत्वे हि समासोक्तिः ।
तच्च विशेषणसाम्यं शुद्धकार्यसमारोपे सत्युपचरितं, यथा विलिखतीत्यादावुदाहरिष्यमाणेपद्ये स एको राशिः , यदा पुनरिदमनुपचरितं तदा पञ्चधोदाहृतं प्राक्स द्वितीयः ।
उभयमयत्वे तु तृतीयो राषिः ।
अनुपचरितविशेषणसाम्यनिबन्धनस्य न्यायनिर्भरत्वेन प्राक्प्रदर्शनं पञ्चविधत्वेन कृतमिति ।
अथ तदेव प्राक्प्रदर्शनमनुस्मारयतिविशेषणासाम्यं चेति ।
ननु शुद्धकार्यसमारोपे विशेषणसान्यमुपचरितम् , अन्यदात्वनुपचरितं अनुगतमेकरूपं तु प्रयोजनं नानुपश्याम इत्यत आहसर्वत्र चात्रेत्यादि ।
एवकारेण तदेकप्राणतां समासोक्तेरभैप्रैति ।
तस्य चातुर्विध्यं दर्शयतिस च लौकिक इत्यादि ।
वस्तुजातिगुणादि ।
अनेन च व्यवहारसमारोपचातुर्विध्येन राशित्रयमपि प्रत्येकं चतुर्धा प्रथते ।
अतःसमासोक्तिः प्रपञ्चचवतीत्याहतदेवं बहुप्रपञ्चेति ।
तत्राद्यं राशिमुदाजिहीर्षराहतत्र शद्धकार्येति ।
विलिखतीति ।
उच्चैर्विलेख(न)(?)गाढं कचग्रहः पत्रावल्यामसामञ्जस्यमंशुकविकर्षश्चेचेति हठका (मु)ककार्यम् ।
हठादिति विकर्षथण क्रियाविशेषणम् ।
अत्रोपचरितत्वादप्रस्तुतावगतौ विशेषणसाम्यं नातिबद्धभरमपि तु शुद्धकार्यसमारोप एव इत्याहअत्र पत्रावलीत्यादि ।
खदिरेऽत्यसंभवात्पत्रावलीग्रहः ।
व्युत्क्रमोक्तानां क्रमस्वारस्यायानुस्मारयतिविशेषणसम्येनेति ।
विशेषणसाम्यं हि यदा श्लिष्टता तदोभयार्थता ।
यदा साधारण्यं तदोभयत्र प्रवृत्तिनिमित्तसंभवः ।
यदौपम्यगर्भविशेषणता तदा समासभेद इति ।
विशेषमसाम्यवशादेव अप्रस्तुतावगतिरिति ज्ञेयम् ।
अथोभयमयत्वेनोदाहरतिलिर्लूनानीति ।
नीरसैः शुष्कै रहृदयैश्च ।
कण्टकिभिः क्षुद्रशङ्कुमद्भिः घातकजनयोगिभिश्च ।
उभयमयतां योजयतिअत्र कण्टकिभिरिति ।
एषित्रिषु राशिषु व्यवहारसमारोप वैचित्र्यनिबन्धनात्भेदानुपदर्शयितुकाम आहव्यवहारसमारोपेत्यादि ।
द्यामालिलिङ्गेति ।
अम्बरं नभो वासश्च ।
निमग्रचरपुष्प शरत्वं दाहेन ।
तरुणः प्रबलो युवा च ।
अत्र अम्बरकरतरुणेषु विशेषण साम्यम् ।
अन्यत्र कार्यसमारोपः ।
अत्र लौकिकवस्तुनि लौकिकव्यवहारसमारोपः ।
प्रदर्शितोदाहरणेषु च ।
तत्र लौकिकं वस्तु विविधमित्याहलौकिकं चेति ।
यैरिति ।
एकरूपमविकृतम् ।
वृत्तिषु जागरितादिषु ।
अव्ययं सौषु(प्त्या)दिषु स्थगितम् ।
अत एवासङ्ख्यतया प्रवृत्तम् ।
जागरे विश्वः प्रथमः , स्वप्ने तैजसो द्वितीयः, सौषुप्ते प्राज्ञस्तृतीय इति ।
सङ्ख्यया वस्तुतो रहितं तुरीयस्य सर्वानुस्यूतत्वात् ।
उक्तं हि श्रीमद्गौडपादौः"माया सङ्ख्या तुरीयमि"ति ।
यैरीदृशं त्वांपश्यद्भिः परत्वजुषो विभक्तेर्लोपः कृतः ।
अस्मात्परमस्तीति विभागो लुत्पः ।
तैस्तव सक्षणं कृतं (मन्ये)परमेश्वरस्य हि सर्ववृत्तिष्वकत्वं रूपमव्ययत्वं असंख्यता न कुतश्चिदपिदेशकालादेर्भेद इति इदमेव लक्षणम् ।
इदमागमशास्त्रप्रसिद्धं वस्तु ।
अथ सर्वासु कारिकादिवृत्तिष्वेकत्वादिसंख्यारहितमव्यये हि स्यादिति प्रतियोग्येकत्वं नास्ति किं त्वभेदैकत्वमेवर् ।
इदृशमव्ययं पश्यद्भिः परत्वजुषः प्रकृतेः परत्वलक्षणायाः विभक्तेः प्रथमादेर्लोपः कृतः ।
इदमव्ययलक्षणं"सदृशं त्रिषु लिङ्गेष्वि"त्यादिना प्रतिपादितम् ।
इदं व्याकरणाप्रसिद्धं वस्तु ।
अत्र विशेषणासाम्यमेव ।
सीमानमिति ।
अत्र नयनसीमालङ्घनेन प्रत्यक्षप्रमाणस्याविषयता ।
अन्येनासङ्गत्या नियतसम्बन्धाभावातनुमानस्य, वचःस्पर्शाभावाच्छब्दस्य लौकिकस्य अदृष्टो पमानतयोपमानस्य, अर्थादनापातादर्थापत्तेर्न च न यदिति प्रमाणानुक्तावपि वस्तुतरिदृशि लावण्ये मीमांसादिसिद्धादृष्टादिवस्तुसमारोपः ।
चोदनैकलक्षणस्य प्रमाणान्तरासन्निकर्षादत्र विशेषणासाधारण्यम् ।
शास्त्रीयवस्तुनो वैविध्यं प्रदर्शयतिएवं तर्के त्यादि ।
स्वपक्षेति ।
पक्षो गरुत्साध्यधर्मविशिष्टो धर्मी च ।
हेतिसायुधं हेतुर्लिङ्गं च ।
विशेषोऽतिशयः पदार्थविशेषश्च ।
मानारोषः प्रमाणं च ।
मन्दमग्निमिति ।
अत्र मन्दाग्रिश्वयथुतिमिरदोषाविर्भावः ओषधिपतेर्भिषजोऽसन्निधाविति ।
अत्र विशेष्यांशेऽपि साम्यमित्युदाहरणान्तरं मृग्यम् ।
यद्वा चन्द्रमस इति विशेष्याध्याहारादोषधिपतेरित्येतत्विशेषणातया विवक्षिणीयम् ।
प्रसर्पत्तात्पर्यैरिति ।
ये तात्पर्यविदः ये चानुमानरसिकाः तैरपि (अवि)ज्ञेयश्चासौ पारिमित्यं जहाति न वक्तुं शक्यः न च लक्षयितुं किन्तु गुरुवरः !तव सहृदयस्थो गुणगणो बुधैरपूर्वव्यापारगुणगणान्तरव्यापारातिशायि व्यापार इत्यवसितः ।
अत्र गुणगणे शृङ्गारादिरसव्यवहारः समारोपित इत्याहअत्र भरतेत्यादि ।
रसं हि भरतोपज्ञमामनन्ति ।
विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरित्याम्नानात् ।
तद्व्यवहारमुपपादयतितथा ह्यत्रेत्यादिना ।
न तात्पर्यशक्तिज्ञेय इति ।
तात्पर्यं हि नाम अभिहितान्वयमते समन्वयशक्तिः अभिधोत्तीर्णा समन्वयमात्र विश्रान्तयानया समन्वयसमनन्तर प्रतीतिको रसो न ज्ञायते ।
विभावानुभावव्यभिचारिभाःसह नियतसम्बन्धाभावादनुमानस्यापि न विषयः ।
साक्षात्सङ्केता विषयत्वात्न वाच्यः ।
मुख्यार्थबाधाद्यभावन्नापि लक्ष्यः अपि तु वेद्यान्तरविगलनादपरिमितःसनभिधालक्षणातात्पर्योत्तीर्णेन व्यञ्जनाख्येन काव्यैकगामिना शास्त्रान्तरापूर्वेण व्यापारेण विषयीक्रियमाणो लौकिकत्वातनुकार्यमभिनयप्रयासनिघ्नत्वातनुकर्तारं च परिहृत्य सहृदयैकगत इति बुधैरवसीयते ।
दिङ्मात्रमिदं, रसमीसांसायां विस्तरः ।
प्रकृतानुपयोगीति न क्रियते ।
संप्रदायप्रकाशिन्यां काव्यप्रकाशटीकायां वितत्य कृत इति तत एवावधार्य इत्यलम् ।
ज्योतिःशास्त्रादिवस्तुसमारोपोऽनया रीत्या ज्ञेय इत्याहएवमन्यदिति ।
पश्यन्तीति ।
अत्रैदुपह्वरम्वाग्देवता हि परा पश्यन्ती मध्यमावैखरी चेति चतुष्पदपरिमिता ।
तत्र नामरूपात्मकं प्रपञ्चं स्वात्मन्युपसंहृत्य स्वरूपज्योतीरूपिणी जागरितादिधामत्रयोल्लङ्घिनी परा ।
नामरूपप्रपञ्चोल्लासनाय प्राथमिकप्राणपरिस्पन्ताभिमानिनी कन्दमन्दिरा मणिपूरकावधिप्रसरन्ती बीजभावापन्ननिर्विभागवर्णमयीविश्वाभिमुखी भवन्ती सौषुत्पवृत्तिः पश्यन्ती ।
पारायाः सकाशादुदिता मणिपूरकातनाहतावधि प्राणपरिस्पन्दोत्क्षुभितबुद्धिवृत्त्यभिमानिनी वर्णपदादिपरिग्रहान्तःसंजलपात्मिका पश्यन्तीप्रभावा स्वप्नवृत्तिर्मध्यमा ।
अनाहतान्मुखकरन्दरावधि प्रसृताबहिःसंजल्पात्मिका स्थूला मध्यमोद्भवाजागरितवृत्तिर्वैखरी ।
आसां नाम निरुक्त्यादिविशेषः प्रथमश्लोकविवरणे प्रपञ्चितः ।
अथ संहारावसरे जागरितलयपुरस्कारेण वैखरी मध्यमायां लीयते ।
मध्यमाययां लीयते ।
मध्यमा स्वप्नलयपुरस्कारेण पश्यन्त्याम्, सा च सौषुत्पलयपुरस्कारेण परायाम्, परा तुरीयपर्वात्मिका समाधिवृत्तिरुच्यते ।
इत्थं च सति शक्तिमानात्मा परायां तुरीयां , पश्यन्त्यां प्राज्ञाः, मध्यमायां तैजसः, वैखर्यां विश्व इत्यागमार्थदिक् ।
अथ शब्दसङ्गत्या व्याकुर्मः ।
प्रभो!वश्येन्द्रियतया प्रभवनशील! तव परया देव्या सह क्रीडादृढालिङ्गने अप्रयासेन तादृशी समाधिसामरस्ये प्रवृत्ते बाह्या वाक्कथं चाटूच्चारणाचापलं स्फुटताल्वोष्ठपुटव्यापारमखततां कथं नाम वितनुतां चापलकथैव नास्तीत्यर्थः ।
कुतो नास्तीत्यत आहआभ्यन्तरी पश्यन्ती त्रपयेवात्मानं यत्र तिरयति, मध्यमापेक्षयाभ्यन्तरतमा स्वात्मानं न प्रकाशयतुमीष्टे ।
तुरीयपर्वणि प्राणानुदयाद्यत्र मध्यमापि मधुरध्वन्युज्जिहासारसात्त्रुट्यति ।
अन्तःसञ्जल्परूपं मधुरमपि ध्वनिं नोन्मूलयतीत्यर्थः ।
यत्र परा समाधौ पशायन्तीमध्यमयोरनुदयः ।
तत्र वैखरी कथं नाम प्रवर्ततामिति तात्पर्यार्थः ।
अत्रागमसिद्धे वस्तुनि लौकिकवस्तुव्यवहारः शृङ्गारात्मकःसमारोपितः ।
यथा परयोदेव्या पट्टमहिष्या सह तव क्रिडादृढालिङ्गने प्रवर्तमाने अन्या काचिदाभ्यन्तरी आभ्यन्तरत्वादेव युवयोरालिङ्गनं पश्यन्ती त्रपयेवात्मानं यत्र तिरयति गोपयति ।
मध्यमापि नाभ्यन्तरी न च बाह्या ।
मध्यमावृत्तिर्मधुरध्वनिः यथा भवति तथा उज्जिहासारसात्त्रुट्यतिष ।
उद्गातुकामा कौतुकादुपरमति ।
तत्र बाह्या परिग्रहवेश्या चाटूच्चारणचापलं कथं वितनुतामिति ।
अत्र लक्षणयोजनायाहअत्रागमेति ।
लौकिकवस्तुनि काव्योपयोगिवैविध्यं उक्तचरंमनुस्मारयतिलौकिकवस्त्विति ।
ननु विशेषसाम्यं समासोक्तिलक्षणमुक्तम् ।
शुद्धकार्यसमारोपे तु तदव्यापकमित्यत आहतत्र शुद्धकार्येत्यादि ।
शुद्धकार्यसमारोपे हि विलिखति कुचावित्यादौ यत्कुचविलेखनादि ह(ठ)का(मु)ककार्यं तस्य यद्यपि न मुख्यतया यत्खदिरादिविशेषणत्वं, अथाप्युपचारेण विशेषणीकरणं , तत्(तत्र?)यथाकथञ्चिल्लक्षणयोजना कार्या ।
ननु किं उपचाराश्रयणेनेत्यत आहपूर्वशास्त्रानुसारेणेत्यादि ।
अथ यत्र समासोक्तेरसामञ्जस्यं तत्र न्यायसञ्चारेण समञ्चारेण समञ्जसीकर्तुमाहैह त्वित्यादिना ।
ऐन्द्रं धनुरिति ।
आर्द्रनखक्षताभमैन्द्रं धनुः पाण्डुपयोधरेण दधाना सकलङ्कमिन्दुं प्रसादयन्ती शरद्रवेस्तापभभ्यधिकं चकार ।
पयोधरो मेधः कुचश्च ।
प्रसादाति शयेकलङ्कोद्धुरीभावात्सकलङ्कत्वोक्तिः जारत्वाविष्करणाय ।
प्रवृडपेक्षया शरदिरवेः तापाधिक्यम् ।
अत्र चर्चाअस्तितावदित्यादि ।
नायकत्वप्रतीतिरस्तीति प्रतिज्ञघाया तदाक्षिपतिन चेत्रेति ।
साकुकस्त्या नायकत्वप्रतीतिरस्तीति प्रतिज्ञाय तदाक्षिपतिन चात्रेति ।
साकुतस्त्या नायकत्वप्रतीतौ नास्तिहेतुरित्यर्थः ।
हेतुसद्भावमाशङ्क्य निराचष्टेप्रसादयन्तीत्यादि ।
सकलङ्कप्रसादलक्षणविशेषणसाम्यात्शरदस्तावदिस्ति नायिकात्वप्रतीतिः, तजनुदुणत्वेनेन्दुररयोर्नायकत्वप्रतीतिरिति चेत्मन्यसे, नैतद्धयते ।
कुतः आर्द्रनखक्षताभं ऐन्द्रं धनुरिति विशेषणस्यासाम्यात् ।
ऐन्द्रं धनुः शरद एवविशेषणं न नायिकायाः ।
नन्वार्द्रनखक्षताभमिति विशेषणौपम्यादेकदेशविवर्तिन्युपमा शरदि तत्सामर्थ्यादिन्दुरव्योः नायकत्वप्रतीतिरस्त्वित्यत आहन चैकदेशेति ।
यद्येकदेशवर्तिन्युपमा केनचिदुक्ता तदा तत्सामर्थ्यादनयोर्नायकत्वप्रतीतिः स्यात् ।
न चेयमुक्ता केनचित् ।
अत स्तत्सामर्थात्कथमनयोर्नायकत्वव्यवस्थितिः ।
अत्र समाधित्सुराहौच्यत इति ।
एकदेशविवर्तिनीत्यादि ।
यद्यपि साक्षान्नोक्ता अथापि नास्याः प्रतिषेधोऽस्ति ।
ननूक्तिप्रतिषेधयोर्द्वयोरप्यभावे कथं संभव इत्यत आहसमान्यलक्षणेति ।
ननु यद्येकदेशविवर्तिन्युपमाया इह संभवः तदर्युपमालङ्कारस्यैव प्रात्पिर्म समासोक्तेरित्यत आहअथात्रेत्यादि ।
अथेत्यधिकारे ।
यद्युपमानत्वेन नायकोऽधिकारी कश्चित्प्रतीयते, भवेत्प्रात्पिरुपमालङ्कारस्य ।
नहि प्रतीयते नायकोऽत्र कश्चिदधिकारी ।
अपि तु रविशशिनोरेव नायकत्वव्यवहारे प्रतीतिः , तयोरेवास्यां शरदि नायकत्वोपचारात् ।
इत्थं समासोक्तिप्रात्पौ, तदनुसारेण शब्दन्यासो न्याय्य इत्यत आहतदत्रेत्यादि ।
आर्द्रनखक्षते श्रुत्यास्थितमप्युपमानत्वमिन्द्रधनुषिसंचारणीयम् ।
कुतः? वस्तुपर्यालोचनया ।
तामेव वस्तुपर्यालोचनां स्फुटयतिइन्द्रचा(पाभं)इत्यादि ।
प्रतीतिः पदार्थान्तरसमभिव्यवहारादित्थमेव यतः ।
अन्यनिष्ठस्य धर्मस्यान्यत्र संचारणं कुत्र दृष्टमित्यत आहयथा दध्नेत्यादि ।
दध्ना जुहोतीत्यत्र हि हवनगतत्वेन विधिः प्रतीतः स त्वग्निहोत्रं जुहोतीत्य(त)एव सिद्ध इति ।
वस्तुपर्यालोचनया यथादध्नि संचायेते तथेहाप्यनुसन्धेयमिति यावत् ।
अतः समासोक्तिरेवेयमिति निगमयतिएवमुपमानुप्राणितेति ।
ऐन्द्रधनुष उपमेयस्योपमानत्वङ्कॢप्तेः वैवक्षिकोपमानुप्राणितत्वम् ।
अथ यत्र न्यायतः समासोक्तिमपोह्य एकदेशविवर्तिन्युपमैव प्रथते तं विषयं दर्शयितुमाहैह पुनरिति ।
नेत्रैरिवेति ।
अत्र सरःश्रियां नायिकात्वप्रतीतौ निमित्तं विवचयतिसरः श्रियमिति ।
विशेषणसाम्यान्नायिकात्वप्रतीतिर्न समासोक्त्या ।
अत एव व्यवहारसमारोपोऽपि न भवतीत्याहतस्मान्नायिकेति ।
नायिकाप्यत्र सरः श्रियामुपमानतया, न तु व्यवहारससारोपेण सरःश्रीधर्मतया अत एवंविधे विषये गत्यन्तराभावादेकदेशविवर्तिनी उपमैवोपास्या ।
अनुक्ता कथमुपास्येत्यत आहयैस्त्विति ।
अस्माभिस्तावदुपपत्तिभिरुक्ता ।
यैस्तु नोक्ता तैरपि गत्यन्तराभावादुपसंख्यातव्यैवेत्यर्थः ।
ननु पूर्वमेकदेशविवर्तिन्युपमा निराकृता, सम्प्रति साधितेति व्याघात इत्यत आहयत्र तु केशपाशेत्यादि ।
दन्तप्रभाः पुष्पाणीवेत्यादि समासेनोक्तायामुपमायां सत्यामपि दन्तप्रभासदृशैः पुष्पैरिवेत्यादि समासान्तरमहिम्ना विशेषणसाम्यमुपपद्यते ।
तत्रौपम्यगर्भविशेषणोत्थापिता समासोक्तिरेव युक्ता ।
सम्प्रति तु नेत्रैरिवेत्यत्र गत्यन्तराभावादेकदेशविवर्तिन्युपमैव व्यवस्थापितेति व्यघाताभावात्सर्वमवदातम् ।
अथार्थान्तरन्यास प्रभावितायामस्यां वैचित्र्यान्तरं अस्तीत्याह सा चेत्यादि ।
समर्थ्यः प्रकृतोर्ऽथः समर्थकस्त्वप्रकृतः ।
अथोपगूढ इति ।
उपगूढे आलिङ्गिते ।
ययौ अपगता ।
अत्र समर्थ्यगता ।
असमाप्तेति ।
अत्र तु समर्थकगता ।
उभयत्र योजनायाहअत्रोपगूढत्वेनेत्यादि ।
उपगूढत्वं शान्ततटित्कटाक्षत्वं च विशेषणसाम्यं तदुत्थापितया समासोक्त्या नायकव्यवहारप्रतीतिः ।
तथा सति समासोक्त्यालिङ्गितो योऽयं विशेषात्मा स सामान्यात्मना अर्थान्तरन्यासेन समर्थ्यते ।
सामान्यरूपस्य च समर्थकस्योत्थानम् ।
परिभ्रष्टपयोधराणामिति श्लेषवशादुपगूढ इति विशेषणं साधारणतया स्फुटम् ।
शान्ततटिदित्येतत्तु प्रागुपमागर्भम् ।
तटितः कटाक्षा इवास्या(व यस्या?) इति ।
अथ तटित्सदृश कटाक्षेति समान्यरूपसमर्थोर्ऽथः स्त्रीलिङ्गपुल्लिङ्गनिर्देशगर्भेण भजनरूपेण कार्येणोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण विशेषात्मना रविसन्ध्यावृत्तान्तेन समर्थ्यते ।
उत्प्रेक्षावशात्वैचित्र्यायाहआकृष्टिवेगेति ।
वेष्टना वेष्टनं यस्य मन्दरगिरेः, पादः पर्यन्तपर्वतः चरणश्च ।
अत्र समासोक्तेरुत्प्रेक्षायाश्च समकालतां दर्शयितुमाहअत्र निर्मोकेत्यादि ।
निर्मोकपट्टपरिवेष्टनया मन्दाकिनीति कथनात्तदपह्नवेन मन्दाकिनीसमारोपः, तस्याश्च यत्प्रान्तपर्वतवेष्टनं तच्चरणमूलवेष्टनमेवेति, पादशब्दश्लेषोत्थया भेदेऽभेदः इत्येवंरूपया अतिशयोक्त्याध्यवसीयते ।
तथाध्यवसितं च मन्थव्यथेत्यादि फलोत्प्रेक्षामुत्थापयति ।
सा च अम्बुरशिम्दाकिन्योर्भर्तृपत्नीव्यवहारसमाश्रयां समासोक्ति स्वसमकालमुत्थापयतीति अनयोरेककालता ।
इत्थमन्यत्रापि दर्शयतिएवं नखक्षतेति ।
उत्प्रेक्षान्तरमनुप्रविष्टेति समकालता सूचिता ।
इत्थं वैचित्र्यमनुसन्धेयमिति निगमयतिएवमियमित्यादि ।
विशेषणांशसाम्येनाप्रस्तुतार्थस्य गम्यता ।
समासोक्तिर्मता येन संक्षिप्यार्थोऽभिधीयते ॥
शुद्धकार्यसमारोपे साम्यं स्यादौपचारिकम् ।
व्यवहारसमारोपः साक्षादस्यां प्रयोजकः ॥
स्याद्विशेषणसाम्यं चेत्समासान्तरसंक्षयात् ।
उपमा बाधते नैनामेकदेशविवर्तिनी ॥
दृश्यतेर्ऽथान्तरन्यासे समर्थ्ये च समर्थके ।
उत्प्रेक्षायोगिनी चैषा क्वचित्स्यादेककालगा ॥
परिकरं लक्षयति
विशेषणसाभिप्रायत्वं परिकरः ॥ ३२ ॥
सङ्गतिमाहविशेषणवैचित्र्येति ।
व्याचष्टेविशेषणनामित्यादि ।
प्रसन्नगंभीरत्वं नाम पदानां व्याङ्ग्यार्थगर्भीकार एव न तु व्यङ्ग्यस्य वाच्यातिशायिता ।
निर्वक्तुमाहएवं चेति ।
वाच्योन्मुखत्वं वाच्याङ्गता ॥
राज्ञः इति ।
राज्ञो न तु यादृशतादृशस्य ।
तत्रापि मानधनस्य न त्ववमानसहस्य ।
कार्मुकभृतो न निरायुधस्य ।
दुर्योधनस्य न तु शक्ययोधनस्य ।
अग्रतो न त्वसमक्ष्यम् ।
कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च न निःसहायस्य ।
सर्वैवेय"मनादरे षष्ठी” ।
इत्थं मिषतो दुर्योधनकर्णशल्याननादृत्येत्यर्थः ।
दुःशासनस्येत्यनुक्त्वातस्य पाण्डववधूकेशाम्बराकर्षिण इत्युक्तिः हन्तव्यत्वप्रसिद्ध्यै ।
जीवता एव न तु मूर्च्छितस्य मृतस्य वा ।
तीक्ष्णाकरजक्षुण्णाद सृग्वक्षसः न त्वायुधविदारितात् ।
कोष्णं न तुपर्युषितम् ।
मयाद्य पीतमिति भीमसेनोक्तिः ।
साभिप्रायतां दर्शयतिअत्रेत्यादि ।
वाक्येऽपि दर्शयतिएवमङ्गराजेत्यादि ।
विशेषणानां व्यङ्ग्यार्थगर्भीकरणलक्षणा ।
सोत्प्रासता परिकरो व्यङ्ग्यः परिकरो यतः ॥
श्लेषं लक्षयति
विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः ॥ ३३ ॥
अर्थद्वयस्य यदा प्राकरणिकत्वमप्राकरणिकत्वमेव वा तदा विशेषणविशेष्ययोः शब्दसाम्ये श्लेषः ।
यदा तूभयमयत्वं अर्थद्वयस्य तदा विशेष्यांशे पृथगुपादाने श्लेष इति सूत्रार्थः ।
सङ्गतिमाहकेवलविशेषणेति ।
इदमिति वचनविशेषणम् ।
व्याचष्टेतत्र द्वयोरित्यादि ।
विशेषणविशेष्यसाम्य एवेति ।
उभयत्र शब्दसाम्ये सत्येवेत्यर्थः ।
विशेष्यांशेऽपि शब्दसाम्यं तदा अर्थप्रकरणादिना अभिधानियास्यात्न तु श्लेषस्य ।
अनेकार्थो हि शब्दः प्रकरणादिना प्राकरणिक एवार्थे नियम्यते ।
आद्ये तु प्रकारद्वये नियमहेत्वभावात्द्वावपि वाच्यौ ।
इत्थं सति विकल्पो व्यवतिष्ठत इत्याहअत एवेति ।
श्लिष्टप्रकारद्वयेति ।
आद्यं प्रकारद्वयं श्लिष्टं विशेष्यांशेऽपि श्लेषार्थत्वात् ।
येन ध्वस्तेति ।
अनःशाकटम् ।
अभवेन असंसारेण बलिदैत्यजित्कायः पुरामृतसंविभागकाले स्त्रीकृतः स्त्रीभावं नीतः ।
यश्च उद्वृत्तकालियादिभुजङ्गघातीति ।
अरवलयवानरवलयं चक्रम् ।
अगं गोवर्धनं गां महीं च यः कृष्णः वराहावतारे अधारयत् ।
यस्य च स्तुत्यं नाम अमरः शशिमच्छिरोहर इत्याहुः ।
शशिमद्राहुः शशिनं मथ्नातीति ।
अन्धकानां वृष्णिसरहचराणां क्षयकृतावासकरः ।
स माधवस्त्वां सर्वदा पायात् ।
अथ येन ध्वस्तमनोभवेन नाशितमन्मथेन बलिजित्कायः विष्णोर्वपुः पुराणां संहरणे अस्त्रीकृतः ।
यश्चेद्वृन्द्रकलावत्स्तुत्यं च नाम हर इत्याहुः ।
अन्धकासुरक्षयकरः उमाधवो गौरीपतिःसर्वदा त्वां पायात् ।
अत्र हरिहरयोर्द्वयोरपि प्राकरणिकता ।
नीतानामिति ।
लुब्धैर्मधुलंपटैः व्याधैश्च भूरिति क्रियाविशेषणमेकदा शिलीमुखैर्भ्रमरैः अन्यदा भूरिबाणैः ।
वनं जलं विपिनं च ।
कमलानां पद्मानां मृगाणां च ।
अत्र पद्ममृगयोरप्राकरणिकता ।
स्वेच्छेति ।
विषयो देशकोशादिस्त्र्यादिश्च ।
देहीति वितरेति देहवानिति च ।
मार्गणशतैर्याचकसार्थैः ।
वक्तुं न यातीत्येकदा मार्गणशतैः प्रयोगभेदान् (त्)शतसङ्ख्यैर्बाणैः दुःखं ददातीत्यन्यदा ।
जीवितं जीविका जीवश्चर् ।
इश्वरः दुर्विदग्धः ।
प्रभुरत्र प्राकरणिकतः, अप्राकरणिको मनोभवःष अत्र विशेष्ययोर्द्वयोरुपादानम् ।
उदाहरणत्रयेऽपि योजनायाहअत्र हरिहरेत्यादि ।
पुनस्त्रैविध्यायाहएष च शब्दार्थेति ।
उदात्तादीति ।
लौकिकशब्देष्वपि स्वरभेदादेवार्थावगतिः ।
ताल्वोष्ठादिव्यापारः प्रयत्नः अयं शब्दान्यत्वे हेतुः ।
शब्दश्लेषे लिङ्गान्तरमाहयत्र प्रायेणेति ।
अर्थश्लेषस्तु अन्यथेत्याहअत एवेति ।
उभयश्लेषमाहसङ्कलनयेति ।
उभयश्लेषमुदाहरतिरक्तच्छदत्वमिति ।
छदोदलंवासाश्च ।
विकचाः विकस्वराः, कचरहिताश्च ।
जलैःसङ्गतं नालमादधानाः जडजनैःसख्यमलं नादधानाः ।
पुष्पेषु कुसुमानतरेषु रुचिं शोभां पुष्पबाणप्रियतां च ।
उभयश्लेषतां दर्शयतिअत्ररक्तेत्यादि ।
पृथगनुदाहरणे हेतुमाहग्रन्थगौरवेति ।
अथास्य सावकाशनिरवकाशादिचर्चामारभतेएष चेत्यादिना ।
अलङ्कारान्तरेष्वप्राप्तेषु अनारभ्यमाणोऽयं निरवकाशत्वात्बलीयानिति बाधित्वा तत्प्रतिभामात्र मुत्पादयतीति केचित् ।
येन ध्वस्तेति ।
अन्ये पुनः “येन ध्वस्तमनोभवेने"ति अलङ्कारान्तरविविक्तोऽस्य विषयः इति सावकाशत्वान्नान्यबाधकः ।
अतोऽन्यसम्पाते सङ्करः न्यायतो वा दौर्बल्ये बाध्यत्वमित्याहुः ।
तत्र स्वमतनिरवकाशत्वमाविश्चिकीर्षुराहतत्र पूर्वेषामित्यादि ।
अनेकार्थगोजरत्वेनेति प्रत्येकमभिसम्बन्धः ।
आद्यं प्रकारद्वयं प्राकरणिकानेकार्थगोचरत्वं अप्राकरणिकानेकार्थगोचरत्वं च ।
तदुभयमपि हि तुल्ययोगिताया विषयः ।
तस्याः प्रस्तुतानां वा समानधर्माभिसम्बन्धो लक्षणम् ।
यत्रोभयरूपानेकार्थगोचरत्वं तृतीयः प्रकारः तत्र तु दीपकं प्रभवति ।
तस्य प्रस्तुताप्रस्तुतानां समानधर्माभिसम्बन्धो लक्षणं यतः ।
अतः श्लेषविषथयोऽनेनालङ्कारद्वयेन व्यात्पः ।
अलङ्कारान्तरेणापि व्याप्यत इत्यत आहतत्पृष्ठेचेति ।
यत इत्थं नास्य विविक्तविषयता अतोऽलङ्कारान्तराणि श्लेषबाधितानि प्रतिभामात्रावशेषाणि भवन्ति ।
इत्थं सति विवक्तो यःशाङ्कितो विषयः सोऽपि अविविक्त एवेत्याहयेन ध्वस्तेत्यादि ।
इत्थं विविक्तो यःशाङ्कितो विषयः सोऽपि अविविक्त एवेत्याहयेन ध्वस्तेत्यादि ।
इत्थं निरवकराशत्वादन्यबाधकत्वमुपपाद्य शब्दार्थो भयविषयतामस्य उपस्थापयितुमाहअलङ्कार्येत्यादि ।
अलङ्कार्यलङ्करणभावो हि आश्रयाश्रयिभावेनोपपन्नो लोके कर्णाश्रितः कर्णालङ्कार इति ।
अतो रक्तच्छ्रदेत्यादावर्थाश्रयणादर्थालङ्कारोऽयं , नालमित्यादौ तु स्फुटःशब्दभेद इति शब्दालङ्कारः ।
ननु अर्थभेदे शब्दभेदोऽपि भिन्न एवेति रक्तच्छ्रदमित्यादावपि न शब्दैक्यमित्यद आहयद्यपीत्यादि ।
औपपत्तिकत्वादिति ।
प्रत्यर्थं शब्दभेद इत्युपपत्त्या हि शब्दभेदोपपादनम् ।
प्रतीतौ पुनरैक्यमेवावसीयते ।
अतः साहित्यसरणेः प्रतीत्यैकसारत्वात्शब्दैक्यप्रतिपादकदर्शनावष्टाम्भाच्च नास्ति शब्दभेदः ।
नालमित्यादौ तु शब्दभेदः प्रतीत्यनुरोधी ।
अतो रक्तच्छदमित्यादौ शब्दैक्यादेकवृन्तगतफलद्वयन्यायेन अर्थयोः श्लिष्टता, नालमित्यादौ तु जतुकाष्ठन्यायेन शब्दयोरेव ।
रक्तच्छदमित्यादौ पुनःशब्दाललङ्कारतामाशङ्कते पूर्वात्रान्वयेति ।
परिहरतिन ।
आश्रयेत्यादि ।
अलङ्कारत्वं हि लोकेशङ्कतेपूर्वात्रान्वयेति ।
परिहरतिन ।
आश्रयेत्यादि ।
अलङ्कारत्वं हि लोकेनान्वयव्यतिरेकाभ्यां व्यवतिष्ठते, अपि त्वाश्रयाश्रयिभावेनैव, इहापि तद्वदित्यर्थः ।
एव मुभयालङ्कारतां प्रसाध्यबाध्यबाधकभावविवेचनमुपक्रमतेएवं च सकलेत्यादि ।
इत्थं निरवकाशत्वोभयालङ्कारत्वसिद्धौ सकलकलमित्यादौ श्लेष एव नोपमा ।
तत्रहेतुः गुणक्रियासाम्यवत्शब्दसाम्यं नोपमाप्रयोजकमिति ।
सुधांषुबिम्बं कलाभिरुपेतं परन्तु कलकलसहितमिति शब्दसाम्यमेवेह ।
अत उपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसीयते ।
ननु निरवकाशत्वाच्छ्रलेषश्चेद्वाधकः, तर्हि रूपकसमासोक्त्योः कुतो च बाध इत्यत आहश्लेषगर्भेत्वित्यादि ।
रूपकं हि सिद्धश्लेषमुत्थाप्य स्वस्वरूप एव विश्राम्यतीति श्लेषबाधकः ।
तत्रापि यदि श्लेषः पूर्वसिद्धो रूपकमुत्थाप्य यदि स्वरूपे विश्राम्यति, तदा रूपकं बाध्यमेव, यथा भ्रमिमरतिमित्यादौ ।
चर्चितं चैतत्रूपकप्रस्तावे ।
रूपकं पूर्वसंसिद्धं श्लेषमुत्थापयेद्यपि ।
तदा रूपकमेव स्यादन्यथा श्लेष इष्यते ॥
इति ॥
श्लिष्टविशेषणोति ।
समासोक्तौ तु श्लिष्टविशेषणनिबन्धनायां विशेष्यांशस्य गम्यत्वात्समासोक्तिरेव बाधिका ।
श्लेषे हि वाच्यत्वमेव लक्षणम् ।
अतो लक्षणविकलत्वात्विशेषणोष्वाभातोऽपि बाध्य एव ।
विशेषणान्तरेऽपि श्लेषस्य बाधकतां दर्शयितुमाहैह त्वित्यादि ।
जगत्सु त्रयीमयत्वेन प्रथितोऽपि विवस्वान् वारुणीं प्रति यदगमत् ।
वारुणी प्रतीची दिक्सुरा च ।
अत एवास्तशैला(त्पतितः) ।
पातित्यं अधः प्रदेशसंयोगः उपहतिश्च पतितत्वादेव शुद्ध्यैबडवाग्निमध्यं विवेशेत्यर्थः ।
व्याचष्टेविवस्वतो वस्तुवृत्तेत्यादि ।
लोकेत्रयीमयस्य सतो वारुणी स्पर्शतो यौ पति तत्वाग्रप्रवेशौ, ताभ्यां श्लेषमूलयातिशयोक्त्या द्वे अपि विवस्वत्क्रियेऽध्यसिते ।
सोऽयं तत्क्रिया(एकक्रिया)योगो नाम अतिशयः ।
यद्यप्येकैव क्रिया कर्तृभेदभिन्ना सत्यभेदेनाध्यवसिता स तु तत्क्रिया(एकक्रिया)योगः , तद्धेतुकातिशयोक्तिहेतुका ।
अत्र (उत्प्रे)क्षायाम् ।
अत एवेति सर्वनाम्ना परामृष्टो यो विरोधालङ्कारः विरुद्धचरणाभासरूपः तेनालङ्कृतोर्ऽथः पातित्यरूप हेतुत्वेनोत्प्रेक्ष्यते ।
शुद्ध्यै इति च फलत्वेन ।
अतो हेतूत्प्रेक्षा फलोत्प्रेक्षा च ।
विरोधालङ्कारोऽपि सम्पन्नलक्षण इत्याहविरोधालङ्कारस्य चेति ।
अतो विरोधोत्प्रेक्षालङ्कायोस्तुल्यकालता एकवृत्तन्तः पा(ति)ता, उत्तरकालं तु विरोधोपशम इति प्रतीतिक्रमः ।
इत्थञ्च सति श्लेषः सर्वबाधकःसन् विरोधालङ्कारं बाधित्वा प्रतिभामात्रेणावस्थापयति ।
विरोधबाधे च तद्धेतुकोत्प्रेक्षाबाधः सिद्ध एवेत्याशयः ।
अतः श्लेष एवायम् ।
यत्र तु नाटकादौ भाव्यर्थोपक्षेपात्मकं बीजन्यासलक्षणं सूचकत्वं तत्र मीमांसार्थमाहयत्र त्वित्यादि ।
प्रस्तुताभिधेयपरत्वेऽपि वर्तमानार्थनिष्ठत्वेऽपि ।
उपक्षेपापराभैधानमिति ।
उपक्षेप इति तस्य संज्ञा ।
यदाह"बीजन्यासः उपक्षेप"इति ।
अर्थद्वयस्येति ।
तत्रार्थद्वयमभैधागोचरत्वेनान्वितं वक्तुं नेष्यते ।
किं तर्हि? एकोर्ऽथोऽभिधेयः प्रस्तुतः ।
वक्ष्यमाणस्तु सूच्यः ।
अतो न श्लेषः ।
श्लेषे द्वयोरभिधेयत्वनियमात्नापि ध्वनिः ।
कुतः ? उपक्षेप्यस्य भाव्यर्थस्य असम्बन्धेनौपम्या विवक्षणात् ।
श्लेषध्वनिव्यतिरेकिणी गतिरपि नास्ति, तत्र किं कर्तव्यमित्याक्षेपः ।
समाधत्तेउच्यत इत्यादि ।
श्लेषस्तु द्वयोर्वाच्यत्वाभावात्सर्वथा न प्रवर्तत इति ध्वनेः एव विषयोऽयम् ।
एतदुपपादयतितथाहीति ।
शब्दशक्तिमूले हि ध्वनौ वाच्यप्रतीयमानयोः सम्बन्धाभावात्सम्बन्धायौपम्यक्लॄत्पिः ।
स(च)सम्बन्धः औपम्यानपेक्षया प्रकारान्तरेण यदि सूपपादः तर्हि उपमाध्वनौ कोऽभिनिवेशः? न कार्य एव, यतो वस्तुध्वनिरपि तत्र विषये सम्बगन्धान्तरेणोपपन्नः ।
अत एव ध्वनिकृता शब्दशक्तिमूलो ध्वनिः अलङ्काररूपो वस्तुरूपश्चेति द्विधा न्यायत उक्तः अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते ।
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥
इति ॥
इत्थं च सति प्रकृतेऽपि सूचकत्वसम्बन्धात्शब्दशक्तिमूलो वस्तुध्वनिरवसेयः ।
अत्र उदाहरणम्सद्यः कौशिकेति ।
हरिश्चन्द्रचरिते नाटके ।
कौशैकदिकुलूकदिशा हर्षात्मिका ते हि प्रभाते हर्षेण कूजन्ति ।
यद्वा कौशिक इन्द्रः , तस्य दिक्प्राची तद्विजृम्भणवशात् ।
प्रभाते हि प्राची प्रतायते ।
आकाशं राष्ट्रसमं इच्छ्या त्यक्त्वा वल्कलसदृशधूसरकान्तिधरश्चन्द्रः अस्तशैलं यौ ।
अथ तत्कान्तापि निशा समुल्लासिभिरलिकुलैः क्रन्धन्तं सुतमिव कुमुदाकरं सान्त्वयन्ती तेन सह क्षिप्रं प्रतस्थे ।
सूचनीये त्वर्थे विश्वामित्रक्रोधवशातिच्छ्या राष्ट्रं त्यक्त्वा वाराणसीं प्रस्थितः ।
तत्कान्ताप्यौशीनरी क्रन्दन्तं रोहिताश्वं सुतं सन्त्वयन्ती तेनैव सह प्रस्थितेति ।
इह वस्तुध्वनिरेवेति दर्शयितुमाहअत्र प्रभातेत्यादि ।
ननु धूसरकान्तिवलकलेति सुतमिवेति च औपम्यसम्बन्धसद्भावात्कथमयं वस्तुध्वनिरित्यत आहवल्कलसूताभ्यां त्विति ।
सूचनीयार्थनैरपेक्ष्येण सादृश्यं हि संभवति ।
प्रकृतार्थविषयत्वेन तावन्मात्रेण विश्रमणीयं सूचनीयेर्ऽथे अनुपयोगात् ।
अतः प्रकृतेन सह सूचनीयस्य सूचनसम्बन्धाच्च शब्दशक्तिमूलो वस्तुध्वनिरेव ।
इत्थं सर्वत्र नाटकादौ ज्ञेयम् ।
अथ यत्र न तुल्ययोगिता नापि दीपकं तत्रापि नास्त्यलङ्कारान्तरविविक्तोऽस्य विषय इति दर्शयितुं आहैहेति ।
अत्र विशेषणानां अलकाकर्षवक्त्रासञ्जनादीनां वल्लभपरतया प्रथमं प्रतीतिः ।
अथ इत्थं वदन्त्यास्ते लज्जा प्रलीनेति सखीव्यवहाके नहि नहीति वल्लभस्य निह्नावपुरःसरं कूर्पासकवल्यपदेशः क्रियते ।
अत्र हि न तुल्ययोगिता दीपकं वा अतो विविक्तोऽयं श्लेषविषय इति न शङ्कनीयम् ।
तत्र हेतुः अपह्नवुतेर्विद्यमानत्वदिति ।
चोदयतिवस्तुत इति ।
अपह्नवो हि वस्तुतःसादृश्यार्थं प्रवर्त्तते इह तु सादृश्यं अपह्नवाय प्रवृत्तिमिति नायमपह्नव इति चोद्यम् ।
परिहरतिन उभयथापीति ।
भूतार्थस्य प्रकृतार्थस्य ।
प्रकृतापह्नवोह्यपह्नुतिलक्षणम् ।
स चोभयथापि संभवतीति अपह्नुतिः ।
अत्र संग्रहश्लोकमाहसादृश्यव्यक्त इति ।
आद्यासादृश्यपर्यवसाय्यपह्नवरु(पा)स्वप्रस्तावे अपह्नुतिप्रस्तावे ।
द्वितीयापह्नवपर्यवसायिसादृश्यात्मिका ।
निगमयतितेनालङ्कारान्तरेति ।
शब्दसाम्यं भवेच्छ्रलेषो विशेषणविशेष्ययोः ।
यद्येकोऽप्रकृतार्थश्चेत्भेद्यांशे भिन्नशब्दता ॥
शब्दार्थोभयनिष्ठोऽयं सर्वालङ्कारबाधकः ।
पूर्वसिद्धस्य चेदङ्गं तदा न्यायेन बाध्यते ॥
इत्थं न्यायनिर्भघरतया अनेन प्रपञ्चितोऽपि काव्यप्रकाशकृता प्रतिपदं खण्डितोऽयं श्लेषोऽलंङ्कारः ।
खण्डनयुक्तयस्तु अनौचित्यान्नेह लिख्यन्ते ।
संप्रदायप्रकाशिन्यां तु काव्यप्रकाशटीकायां वितत्य दर्शिता इति ततेवावधार्याः ।
अप्रस्तुतप्रशंसां लिलक्षयिषुः विशेषणविच्छ्रित्तिसङ्गतिसमाप्तेः सङ्गत्यन्तरं दर्शयतिप्रस्तुतादप्रस्तुतेत्यादि ।
तत्र सूत्रम्
अप्रस्तुतात्सा मान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीता वप्रस्तुतप्रशंसा ॥ ३४ ॥
सामान्यविशेषभावादि संबन्धावलम्बेनाप्रस्तुतात्प्रस्तुतावगतौ अप्रस्तुतप्रशंसा ।
व्याचष्टेइहाप्रस्तुतस्येति ।
नह्यप्रस्तुतं प्रस्तुतपरकत्वाभावे वर्णनीयम्, अप्रस्तुतत्वात् ।
प्रस्तुतप्रत्यायकं च संबन्धः ।
त्रिधैव सामान्यविशेष्यभावः कार्यकारणभावः सारूप्यं चेति ।
तत्र सामान्याद्विशेषस्य विशेषाद्वा सामान्यविशेष्यभावः कार्यकारणभावः सारूप्यं चेति ।
तत्र सामान्यद्विशेसषस्य विशेषाद्वा सामान्यस्य प्रतीतिरिति द्वैविध्यम् ।
एवं कार्यकारणभावेऽपि ।
सारूप्ये तु यद्यपि नैवम्, अतः पञ्चप्रकारः ।
तथापि साधर्म्यवैधर्म्याभ्यां द्वैविध्यं भेदान्तरवत्सारूप्येऽपि ।
अथसर्वैवेयं वाच्यस्य संभवेन उभयरूपतया चेति त्रिधा ।
श्लिष्टशब्दप्रयोगे तु श्लेषेण न बाध्यते प्रस्तुतस्यावाच्यत्वात् ।
तण्णात्थीत्यादि ।
तन्नास्तिकिमपि(पत्युः प्र)कल्पितं(यन्ननियति)गृहिण्या ।
अनवरतमनशीलस्य कालपथिकस्य पाथेयम् ॥
व्यख्यातं प्राक् ।
सामान्याद्विशेषप्रतीतिं दर्शयतिअत्र प्रहस्तेत्यादि ।
एतत्तस्येति ।
तस्य मुखातेतत्कियत् ।
वक्ष्यमाणस्य जाड्यापेक्षया जाड्यमस्य अल्पकमित्यर्थः ।
एतदित्युक्तम् ।
किं तत्? कमलिनीपत्रे पाथसः कणं मुक्तामणिरित्यामंस्तेति यत् ।
एवं मन्ता नातिजड इत्यर्थः ।
स एवातिजडः यस्तु मुक्तामणिधियाऽदीयमाने तत्र पाथःकणे अङ्गुल्यग्रक्रियाप्रविलयिनि सतिमम मणिरुडडीय गत इति अन्तःशुचा न निद्राति ।
अत्र विशेषात्सामान्यप्रतीतिं दर्शयतिअत्र जडानामिति ।
पश्याम इतिसुहृदा सह नायिकावृत्तान्तोपवर्णनरूपा नायकोक्तिरियम् ।
किमियं प्रपद्यत इति पश्याम इति धिया संलापपरिहारादिरूपं स्थैर्यं मयालम्बितम् ।
तया तु “अयं खलु शठः मां न किमप्यालपतीति"कोप आश्रितः ।
इत्यन्योन्यवैलक्षण्येन दर्शनचतुरे तस्मिन्नवस्थान्तरे मया व्याजेन हसितं, तयापि धैर्यतहरो बाष्पो मुक्तः ।
उद्वाष्पायां तस्यां धैर्यमेव मुक्तमित्यर्थः ।
अत्र कारणात्कार्यप्रतीतिं दर्शयतिअत्र तथा धाराधिरुढेति ।
माननिवृत्तिकार्ये प्रस्तुते बाष्पमभिहितमप्रस्तुतत्वेन विवक्षणीयम् ।
इन्दिरितिइन्दुरञ्जनेन लित्प इवेत्यनेन मुखस्य सौन्दर्यं, मृगीणां दृष्टीर्जडितैवेति दृक्वाञ्चल्यं, विद्रुमदलं प्रम्लानारुणिमेवेति अधरप्रभा, कोकिलवधूकण्ठेषु कार्यश्यं प्रस्तुतमेवेति स्निग्धकण्ठता, बर्हाःसगर्हा इवेति च केशभारवैपुल्यं प्रतीयते ।
कार्यात्कारणप्रतीति दर्शयतिअत्र संभाव्यमानैरित्यादि ।
संभाव्यमानैरुत्प्रेक्ष्यमाणैः ।
अत्रातिव्यात्पिमाशाङ्कतेननु कार्यादित्यादि ।
येन लम्बालक इतिअत्र लम्बालकत्वादिना कार्येण गजासुरवधरूपकारणप्रतीतिः ।
चक्राभिघातेतिअत्र रतस्यालिङ्गनवन्ध्यत्वचुम्बनमात्रशेषत्वरूपकार्यभेदाद्राहुशिरश्छेदः कारणम् ।
अत्रातिव्यात्पिं दर्शयतिअत्र हीत्यादि ।
परिहरतिनैष दोष इति ।
द्वयोरपि प्रस्तुतत्वे कारणापेक्षया कार्योपवर्णनस्य सचमत्कारत्वे तद्द्वारा कारणप्रत्यायनं पर्यायोक्तविषयः ।
कार्यस्या प्रस्तुतत्वे त्वप्रस्तुतप्रशंसाया इति विभागः ।
विभक्तविषयतया निगमयतिएवं यत्रेत्यादि ।
तादृशमेवं, प्रकृतमेव ।
आगूरयति सामर्थ्यादानयति ।
इत्थं च सति प्रकृतस्यच सतौर्ऽथस्य स्वोपस्काराय प्रकृतानतरागूरणे पर्यायोक्तमेवेचि प्रथनाय पुनराहततश्च अनयेत्यादि ।
राजन्निति ।
कुब्जा शुकभोजननियुक्ता ।
कुमारेति संबोधनम् ।
तत्सचिवाःसजग्ध्याधिकारिणः ।
राजशुकः श्रेष्ठशुकः ।
अत्र राजशुकवृत्तस्यापि नायकप्रतापाङ्गतया प्रकृतत्वात्पर्यायोक्तमेव बोद्धव्यम् ।
अन्येषां हृदयमाहअन्ये त्विति ।
कारणरूपस्य अरिपलायनलक्षघणस्यर् ।
इदृशि विषये अन्येषामप्रस्तुतप्रशंसासात्वे बुद्धावपि न विरोधः कश्चित् ।
द्वयोः प्रस्तुतत्वे पर्यायोक्तम् ।
कार्यस्याप्रस्तुतत्वे तु अप्रस्तुतप्रशंसेति विभागस्याना कूलत्वातित्यभिप्रायेणाहसर्वथेति ।
अथ एतानि साधर्म्योदाहरणत्वेन विज्ञेयानीत्याहएतानि साधर्म्य इति ।
वैधर्म्ये तु उन्नेयानि ।
सारूप्यहेतुकं तु भेदमनया नीत्या साधर्म्येण सुज्ञानत्वातां वैधर्म्यणोदाहरतिधन्या इति ।
वैधर्म्यं दर्शयति अत्र वाता इति ।
वाच्यसंभवे पृथङ्नोदाहर्तव्यानीत्याहवाच्येति ।
कस्त्वं भो इति ।
कस्त्वमिति पृष्ट शाकोटकतरुर्वक्तिभोः कथयामीत्यादि ।
तत्र पुनः प्रश्रःवैराग्यादिव वक्षीति ।
तत्रोत्तरंसाधु विदितमिति ।
अथ कस्मादिदमिति प्रश्नेऽवशिष्टमुत्तरम् ।
असंभवं दर्शयतिअत्राचेतनेनेति ।
नन्वेवमसंभवत्वं प्रात्पमित्यत आहप्रस्तुतं प्रतीति ।
प्रमुख एव शाकोटकवृत्तस्य आरोपितत्व प्रतीतेर्युज्यत एवासम्भवः वाच्यस्य जहत्स्वार्थलक्षणामूलत्वेन अत्यन्ततिरस्कारात् ।
अन्तश्छ्रिद्राणीतिछ्रिद्राणि रन्ध्राणि अनर्थद्वाराणि च ।
कण्टकाः पुलकाः विधातकाश्च ।
अत्र वाच्येर्ऽथे छ्रिद्राणि गुणभङ्गुरीभावे हेतुरित्युभयरूपता ।
प्रस्तुततात्पर्येण प्रतीतेः तदध्यारोपात्सङ्ग(त)मेव ।
तदिदमाहअत्र वाच्य इत्यादि ।
श्लेषगर्भत्वे चैतदेव द्रष्टव्यं छ्रिद्रकण्टकगुणानां श्लिष्टत्वादित्याहएतदेव चेति ।
अस्यार्थान्तरन्यासदृष्टान्ताभ्यां विषयविवेकं दर्शयतितदत्रेति ।
अर्थान्तरन्यासे हि सामान्यविशेष्ययोः कार्यकारणयोश्च वाच्यत्वं(दृष्टान्ते तु)सरूपयोः वाच्यत्वम् ।
सर्वत्रैव प्रस्तुतस्य गम्यत्वे अप्रस्तुताभिधानादप्रस्तुतप्रशंसैव ।
अप्रस्तुतप्रशंसा तु प्रस्तुतावगमोऽन्यतः ।
सा सामान्यविशेषादिविच्छ्रित्या पञ्चधा मता ॥
भवेत्साधर्म्यवैधर्म्ययोगतःसा पुनर्द्विधा ।
संभनेऽसंभवेद्वैधे वाच्यस्याथ पुनस्त्रिधा ॥
प्रस्तुतस्यावगम्पत्वात्पर्यायोक्ताद्विभिद्यते ।
इयमर्थान्तरन्यासाद्दृष्टान्तालङ्कृतेरपि ॥
अर्थान्तरन्यासार्थं सङ्गतिमाहौक्तनयेनेति ।
सामान्यविसेषादिसम्बन्धयोगत उक्तो नयः ।
तत्र सूत्रम्
सामान्यविशेषकार्यकारणाभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः ॥ ३५ ॥
आभ्यां सम्बन्धाभ्यां समर्थ्यत्वेन निर्दिष्टस्य प्रकृतस्य समर्थनमर्थान्तरन्यास इत्यर्थः ।
व्याचष्टेनिर्दिष्टस्येत्यादि ।
समर्थनार्हस्य न तु समर्थननिर्व्यपेक्षस्य ।
समर्थकात्पूर्वं पश्चाद्वेति पूर्वपश्चाद्भावे कामचार उक्तः ।
न त्वपूर्वत्वेनेति ।
निर्दिष्टत्वेनैव प्रतीतिर्नत्वपूर्वत्वेन ।
अपूर्वत्वे को दोषः इत्यत आहअनुमानरूपेति ।
तथा प्रतीतावनुमानरूपत्वमेव प्रसजेदित्यर्थः ।
भेदान् संचष्टे तत्र सामान्यमित्यादि ।
संभवतोऽपि वैचित्र्यविरहिणो भेदानपोहतिहिशब्देत्यादि ।
उट्टङ्कितं निष्टङ्कितम् ।
अनन्तरत्नेतिसन्निपातो बहूनां सङ्घातः ।
अत्र गुणसन्निपाते दोषनिमज्जनलक्षणं सामान्यं साधर्म्येण विशेषसमर्थकम् ।
लोकोत्तरमिति ।
पुंसां लोकोत्तरं चरितमेव प्रतिष्ठामर्पयति औदार्यं प्रतिष्ठापयतीत्यर्थः ।
न तु कुलमिह निमित्तम् ।
वातापितापनोऽगस्त्यः ।
कलशः कुलस्थानीयस्तस्य समुद्रपाने कोऽधिकारः ।
लीलायितं चरितस्थानीयम् ।
अत्र अगस्त्यवृत्तलक्षणो विशेषः साधर्म्येण सामान्यसमर्थकः ।
सहसेतिक्रिया ध्यवसायः सहसाविधानरूपो ह्याविवेकः आपदां पदमनेनापत्पदत्वरूपं कार्यं सहसा विधानाभावरूपस्य कारणस्य वैधर्म्येण समर्थकम् ।
विमृश्यकारिणां सम्पदो (वृणत)इति ।
सहसाविधानाभावात्मनो विमृश्यकारित्वस्य कारणस्य सम्पद्वरणं कार्यं साधर्म्येण ।
अत्र साधर्म्यस्य प्राथमिकत्वातुत्तरार्धार्थपुरस्कारेण योजयतिअत्र सहसाविधानेत्यादि ।
विमृश्यकारित्वरूपस्य कारणस्येति शेषः ।
तस्यैव कारणस्येत्यर्थः ।
पृथ्वीतिद्वितयं पृथ्वी भुजङ्गरूपं तत्त्रितये कूर्मराज युक्तद्वितयात्मनि ।
दिधीर्षा धारयितुमिच्छा ।
अत्राततज्यीकरणं कारणं स्थिरीभावादिकार्ये साधर्म्येण समर्थकम् ।
तदिदं योजयति अत्र हरकार्मुकेति ।
अहो हीतिआयुषा बह्वपराद्धं हि सुह्यदः पराभवं दृष्ट्वा रिदृशमप्रियं वक्तव्यत्वेनापतितं यतः ।
त एवर हिधन्या, सुहृत्पराभवमट्टष्ट्वा ये क्षयं गताः ।
अत्र सामान्यस्य वैधर्म्येण समर्थकत्वम् ।
योजयतिअत्रायुः कर्तृकेति ।
आयुः कर्तृकेण हि अपराधेनाधन्यत्वं आक्षित्पम् ।
आयुर्विरुद्धक्षयगमनप्रयुक्तं यद्धन्यत्वं तद्वैधर्म्येण समर्थकं सामान्यमुक्तम् ।
अनुस्मारयतिकार्यतकारणातायामिति ।
अपोढेष्वौदासीन्यमाविष्करोति हिशब्देत्यादि ।
समर्थ्यत्वे न निर्दिष्टः प्रकृतो यः समर्थ्यते ।
सोऽयमर्थान्तरन्यासः सामान्यादिभिरष्टधा ॥
पर्यायोक्तार्थसङ्गतिं शोधयतिएवं अप्रस्तुतेति ।
गम्यप्रस्तुवेति ।
प्रतीयमानार्थप्रस्तावो हि वर्तते ।
तत्र सूत्रम्
गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम् ॥ ३६ ॥
प्रतीयमानस्यापि कार्यादिमुखेन प्रकारान्यचरेणाभिधानं पर्यायोक्तम् ।
व्याचष्टेयदेवेत्यादि ।
गम्यस्य सतोऽभिधानमाक्षिप्योपपादयतिगम्यस्यैवेति ।
भङ्ग्यन्तरेणेत्येतद्विवृणोतिन हीत्यादि ।
ननु कार्याद्यभिधाने गम्यस्य कथमभिधानमित्यत आहकार्यादेरपीति ।
अप्रस्तुतप्रशंसातो भेदं निरूपितचरमनुस्मारयतिएतच्चेति ।
स्पृष्टास्ता इति ।
व्याख्यातं प्राक् ।
योजयतिअत्र हयग्रीवस्येति ।
कार्यं मञ्जरीस्पर्शः ।
पर्यायोक्तं तु कार्यादिद्वारा गम्यस्य वर्णनम् ।
अप्रस्तुतप्रशंसातो वाच्यस्य प्रस्तुतेभिदा ॥
व्याजस्तुतेःसङ्गतिमाहगम्यत्वेति ।
सूत्रम्
स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः ॥ ३७ ॥
स्तुत्या निन्दाया गम्यत्वे एका निन्दया स्तुतेस्त्वन्या ।
अतो व्याजरूपास्तुतिः व्याजेन स्तुतिरिति च विग्रहः ।
व्याचष्टेयत्र स्तुतिरित्यादि ।
प्रमाणान्तराताभासीकरणक्षमात् ।
अनुगमेन अर्थान्वयेन द्वितीया तु निन्दाव्याजेन स्तुतिरिति आहयत्रापीति ।
अतो योगविभागात्व्याजस्तुदिद्वयम् ।
ननु स्तुतिनिन्दयोर्गम्यांशस्य प्रस्तुतत्वाद प्रस्तुतप्रशंसातः को भेद इत्यत आहस्तुतिनिन्देति ।
हे हेलेति ।
बोधिसत्त्वो जीमूतवाहनः ।
स हि कदाचिदेव परस्य हितमाधात्त्वं तु ये यावन्तस्तृष्यन्ति, तेभ्यःसर्वेभ्य एव वैमुख्यलब्धानामयशोभाराणं प्रोद्वहने मरोःसाहायर्कं करोषि ।
अतो हेलाजितबोधिसत्त्वे त्वयि स्तुतिवचोविस्तरो(न)पर्याप्नोतीत्यर्थः ।
स्तुतेर्निन्दागमकत्वं दर्शयति अत्र विपरीतेति ।
इन्दोर्लक्ष्मेति ।
उर्वीवलयतिलक इन्दुलक्ष्मादिषु श्यामलेषु सत्सु त्वद्यशोभिर्नकिञ्चिद्धवलितं इति स्तुतिर्गम्यते ।
तदेतदाहअत्र धवलत्वेति ।
अनवकॢत्पिः अपर्यात्पिः ।
यत्र तु गम्यांशस्य न्यग्भावस्तत्र नास्याःसामञ्जस्यमिति दर्शयितुमाहकिं वृत्तान्तैरिति ।
अत्र वल्लभा भ्रमति हन्तेत्युक्त्या निन्दायाःसुतिपर्यवसायित्वं न स्फुटीभावति, अनौचित्यादिति क्लिष्टता ।
तदेतदाहअत्र प्रक्रान्तापीति ।
व्याजेन व्याजरूपा वा स्तुतिर्व्याजस्तुतिद्वयम् ।
अप्रस्तुतप्रशंसातः स्तुतिनिन्दात्मिका भिदा ॥
आक्षेपार्थं सङ्गतिमाहगम्यत्वमेवेति ।
विशेषोऽतिशयः ।
विशेषप्रतिपत्तिगभ्यविषयेत्यर्थः ।
तत्र सूत्रम्
उक्तवक्ष्यमाणयोः प्राकरणिकयोः विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः ॥ ३८ ॥
उक्तस्य वक्ष्यमाणस्य वा प्राकरणिकस्य विशेषप्रतीत्यर्थं आभासतो निषेधनमाक्षेपः ।
विजातीयमिदमाक्षेपद्वयं ज्ञेयम् ।
व्याचष्टे इह प्राकरणिक इत्यादि ।
तथाविधस्य विवक्षितस्य ।
अत एव विधेयस्य स कृतः अविषये प्रवर्तित इत्यर्थः ।
अत एव बाधितस्वरूपः आभासीभवति ।
ननु किमेतेन प्रयासेनेत्यत आहतस्यैतस्तयेति ।
अन्यथेति ।
विशेषप्रतिपत्त्यर्थताभावे पुनर्विधिपर्यवसानात्गजस्नानतुल्यता स्यात् ।
गजो हि स्नात एव सन् सद्यो धूलिधूसरो भवति ।
तस्य द्वैरूप्यायाहस चेति ।
आसूत्रिताभिधानत्वेन अभिधातुमुपक्रान्ततयेत्यिर्थः ।
तत्र कस्य कः प्रकार इत्यत आहौक्तविषयत्वेनेत्यादि ।
कैमर्थक्यं निरर्थकता ।
आगूरणम्, सामर्थ्यात्साधनम् ।
अतो विजातीयत्वमित्यत आहएवं चेति ।
उभयत्र निषेध्यांशो विभिन्न इत्याहतत्रोक्तेति ।
अतो वैलक्ष्यमित्याहतेनात्रेति ।
शबानुपात्तत्वादिति ।
निषेधाभासबलायत्तत्वात्शब्दानुपात्तता ।
उक्तविषय इति ।
वस्तुनो वस्तुकथनस्य निषेधाद्द्वैविध्यम् ।
वक्ष्यमाणेति ।
वस्तुनोऽनुक्तत्वात्कथखनस्यैव निषेधः ।
तत्रान्यथा द्वैविध्यमाहतत्र सामान्येति ।
इत्थं चातुर्विध्यम् ।
अत्र च प्रकारप्रकारिभावहेतुःसामान्यविशेषभावो अर्थानपेक्ष इत्याहशब्दसाम्येति ।
बालश्च इति ।
बालक! नाहं दूति तस्याः प्रियोऽसीति नास्माकं व्यापारः ।
सा म्रियते तवायश एतद्वर्माक्षरं भणामः ॥
प्रसीदेति ।
यति प्रसीदेति ब्रूयामसति कोप इदं वचो न घटते ।
एवं न पुनः करिष्यामीति चेद्ब्रूयां तथा विद्यमानस्याभ्युपगमः, न मे दोषोऽस्तीति चेद्ब्रूयां त्वं पुनरिदं दोषाभाववचो मृषेतिज्ञास्यासि ।
अतः किं वक्तुं क्षममिति न वेद्मि ।
सुहश्च इति ।
सुभग!विलम्बस्व स्तोकं यावदिदं विरहकातरं ह्यदयम् ।
संस्थाप्य भणिष्याम्यथवाप(व्यति)क्राम किं भणामः ॥
मम विरहकातरहृदयं संस्थाप्य भणिष्यामीत्यनेन जीवितसंशयहेतुरूपद्रवरूपद्रवः? )आसूत्रितः ।
अथवा व्यतिक्राम किं भणम इति तु तस्यैव प्रत्यासन्नतरत्वाद्भणत्यनर्हता ।
ज्योत्स्नेति ।
अत्र विरहवेदनावशात्ज्योत्स्नापिकवचः प्रभृतीनां तमःक्रकचादिरूपापत्त्या यतो दुरन्तता ।
अतो सा न्यूनमित्यर्धोक्त्या प्राणसंशयदशोपक्षित्पा ।
आःकिमथवा जीवितेनेत्यनेन तु तद्विपत्तेरर्वाक्प्राणोपेक्षात्वा ।
एषु क्रमतोयोजयितुमाहआद्य इत्यादि ।
“नाहं दूती"ति दूतित्वरूपवस्तुनिषेधः ।
किमेतस्मिन् वक्तुं क्षममिति तूक्तिनिषेधः ।
तदुभयमपि उक्तविषयम् ।
उभयत्र निषेधाभासद्योत्यं विशेषमुद्धाटयतितत्र चेति ।
वस्तुवाचित्वं यर्थार्थवाचित्वम् ।
विशेषो गम्यत इति शेषः ।
भण्यमानस्य (प्रसादे)ति ।
उदीर्यमाणस्य इदं न घटत इति निषेधमुखेनैव ।
उत्तरस्मिन्निति ।
किं भणाम इति सामान्यद्वारेण वक्तुमिष्टस्य जीवितसंशयादेः स्वरूपत एव भणितिनिषेध इत्यर्थवशादागूरणमित्यर्थः ।
सा नूनमित्यं शोक्तौ जीवितुं न शक्नोमीत्यंशान्तरस्य स्वरूपतो भणितिनिषेधादागूरणम् ।
उभयत्र द्योत्यविशेषणोद्घाटनायाहतत्र चेति ।
अतिशयकोपजनकत्वं प्रस्थानाध्यवसायात् ।
अत्र सामग्रीं निष्कर्षतिएवञ्चेति ।
अत आक्षेपस्वरूपमीदृगित्याहतेनेति ।
ननु निषेधाक्षेपः किं न स्यादित्यत आहविधिना त्विति ।
विधिना विध्याभासेनेत्यर्थः ।
वक्ष्यते सूत्रान्तरेणेति शेषः ।
यत इत्थं निषेधेन विधेराक्षेपः अतरिदृशि विषये नालङ्कान्तरमित्यत आहततश्चेति ।
यस्मादात्मसंभावनमत आनुरूप्योक्तिर्नयुज्यत इत्युक्तिनिषेधः ।
इत्थं न स्नेहसदृशमित्यत्रापि याननिषेधः ।
अतोऽयमुक्तविषय आक्षेपः ।
अविषयं दर्शयतिकेवलमित्यादि ।
अत्र ह्यपरित्याज्यतादि बाल्यादेर्न निषेधकमपि तु तस्य साधकमेवेति नाक्षेपबुद्धिः कार्या ।
किन्तु व्याघातविशेषेत्यनुयोगपुरस्कारेण दर्शयतिकस्यर्हीत्यादि ।
अत्र निष्कर्षाय श्लोकःतदिष्टस्येति ।
तस्मात्कारणात्सौकर्येण विशेषसिद्ध्यर्थं तस्य निषेधाभास आक्षेपोक्तेः निमित्तं, न तु वस्तुतो निषेधैकता ।
अतो यत्र निषेधो वास्तवो न तत्राक्षेप इति सोदाहरणं दर्शयतिइह त्वित्यादि ।
अत्र पूर्व श्लोके दैत्या इव काव्यार्थचोरा लुण्टनाय यत्प्रगुणीभवन्ति, अतः काव्यामृतं रक्षतेति रक्षणं विहितम् ।
उत्तरश्लोके तु सर्वे यथेच्छं गृह्णन्तु लोकेऽपि न क्षतिरिति, पूर्वविहितङ्काव्यरक्षणं साक्षान्निषिध्यते ।
तथा वायोः कारागृहकॢप्त्यै कन्दरासु शिलाकवाटदानं विहितं, उत्तरश्लोके एवं चिन्तारूपं दैन्यं मृषा किराता मरुतासह निरोधनवैरं नेच्छ्रन्दीति कवाटदानं साक्षान्निषेध्यत इति नैतद्युगलकयुगमाक्षेपोदाहरणम् ।
आक्षेपाभावे युक्त्यन्तरमाहचमत्कारोऽपीति ।
व्यङ्ग्यत्वेनास्य संभवं दर्शयतिअयं चेत्यादि ।
गणिकास्विति ।
गणिका धनपरायणाः सत्यः सर्वमसाम्प्रतमाचरन्ति यतः ।
अतस्त्वया विश्वासो न कार्य इति गणिकाया एवोक्तौ विश्वासनिषेध आभासायते ।
धनवैमुख्येन शुद्धस्नेहभाजन मियमिति प्रतीतेः ।
अतो उक्तविषयोऽयमाक्षेपो व्यङ्ग्यः ।
एतद्दर्शयतिअत्र हि गणिकाया इत्यादि ।
व्यङ्ग्यतायामप्यविषयं दर्शयतिन तु स वक्तुमिति ।
योऽम्बुनिधेः परिच्छे निषेधाभास आक्षेपः प्रकृतस्येष्टसिद्धये ।
स उक्तविषये वस्तु तदुक्त्यो वरिणात्मकः ॥
वक्ष्यमाणो पुनस्त्वन्यो ज्ञेय आगूरणात्मकः ।
सामान्यतो विशेषांशादंशश्चेत्येष च द्विधदा ॥
इष्टार्थोऽस्य निषेधोऽस्य बाधोऽथातिशयध्वनिः ।
चतुष्टयमिदं ज्ञेयं संभूयाक्षेपकारणम् ॥
आक्षेपान्तरमुपक्षिपतिएवमिष्टेत्यादि ।
समानन्यायत्वादिति ।
अन्वयव्यतिकेकावस्थायिनो वस्तुनो न्याय्योऽपि अन्वयव्यतिरेकावस्थायितया समान इति भावः ।
तत्र सूत्रम्
अनिष्टविध्या भासश्च ॥ ३९ ॥
प्राकरणिकस्य विशेषप्रतीत्यर्थमिति अनुवर्तते, न तु प्राकरणिकयोरिति, वक्ष्यमाणैकविषयत्वात् ।
अस्य यथेष्टस्य निषेधाभासः आक्षेपः प्राक् ।
तथा विशेषप्रतीत्यर्थमनिष्टविध्याभासोऽप्याक्षेपः ।
व्याचष्टेयथेष्टस्येत्यादि ।
यथेति यद्वृत्तेन समानन्यायतायै निरूपितचरमाक्षेपमनुस्मारयति ।
एवमित्यादि तु प्रस्तुतविषयम् ।
प्रस्खलद्रूपत्वमविषयप्रवृत्तेः ।
विधिनायमिति ।
यतो विधिरयं आभासमानो निषेधे व्यज्यमान उपकरणमतो विध्याभासेन व्यञ्जकेनायं निरूप्यमाणो निषेध इत्यर्थः ।
स चानिष्टविशेषे पर्यवस्यनाक्षेपालङ्कार इति योजना ।
नन्वाक्षेपो द्विधा दर्शितः ।
उक्ते विषये कैमर्थक्यपरतया लक्ष्यमाणे त्वागूरकत्वेन ।
इह तु कतर इत्यत आहनिषेधागूरणादिति ।
निषेधो ह्यनुक्त इह विध्याभासेन आगूर्यते ।
अतोऽयं वक्ष्यमाणैकविषय इति ज्ञातव्यः ।
उक्तं हि “वक्ष्यमाणविषयत्वेन आनयनरूपमागूरणमाक्षेप"इति ।
गच्छेति ।
गच्छसि चेदित्यनेन, जिगमिषास्ति चेत्नाहं निराकरोमि इति गम्यते ।
गच्छ्रेत्यत्र तु तेन पुरस्कृतो विधिर्ममापि तत्रैव गतिर्भूयादिति तु प्राणनैराश्याविष्कारान्निषेधप्रत्यायनम् ।
योजयतिअत्र कयाचिद्त्यादि ।
अनिराकरणमुखेनेत्यनेन गच्छसि चेदित्यर्थानुगमो दर्शितः ।
(प्रस्खलद्)रूपत्वमिह साक्षात्वाक्याननुप्रवेशः ।
विशेषप्रतिपत्तिरूपं फलं चोपदर्शयतिफलं चात्रेति ।
गम्यस्यात्यन्तपरिहार्यत्वं फलम् ।
तत्र किं निमित्तमित्याहअसंविज्ञानेति ।
न सम्यग्विज्ञायते येनार्थः तदसंविज्ञानम् ।
पदं चेदिति निपातात्मकम् ।
गच्छसिचेदित्युक्तो हि किं तत्र गमनेन मम संविज्ञानेत्यादि प्रतीयते ।
इदमेवार्थप्रत्यायकं सत्पदमत्यन्तपरिहार्यत्वे निबन्धनमित्यर्थः ।
नन्वेतदत्यन्तपरिहार्यत्वं केन व्यवस्थापितमित्यत आहएतच्चेति ।
निषेधापगमं प्रकारान्तरेण दर्शयितुमाहयथावेति ।
नो किञ्चिदिति ।
प्रौढाः कथनमन्तरेणापि कथनीयार्थाभिज्ञाः ।
शिथिलेति ।
हंसो हि शिथिलांसःसन् सविशेषं रम्यो भवति, अन्तर्धवलिमा विष्कारात् ।
तत्सदृशरुचयो वीचय इतिनैर्मल्यकाष्टा ।
योजयतिअत्रानभिप्रेतमित्यादि ।
अनभिप्रेतस्यैव सतो गमनस्य नो किञ्चिक्तथनीयमस्तीति प्रमुख एवाभ्युपगमः प्रतीयते ।
इत्थं च सति विधिरयं अनिष्टत्वेनाभासमानो निषेधागूरणात्मन आक्षेपस्याङ्गम् ।
स्मर्तव्या इत्यनेन भूयस्तरान्निषेध एवोपोद्विलितः तथाविध वीचिस्मृतौ गमनवार्ताया अप्ययोगात् ।
निगमयतितस्मादिति ।
अभिनवत्वेनान्यैरप्रहरत्वेन ।
अनुक्तस्य निषेधस्य विध्याभासेन सूचिनम् ।
आक्षेपो वक्ष्यमाणैकविषयस्त्वेष संमतः ॥
अथ विरोध विच्छित्तिमधिचिकीर्षुराहआक्षेप इष्टेत्यादि ।
आक्षेपालङ्कारे हि विरुद्धत्वमनुप्रविष्टम् ।
इष्टनिषेधावलम्बेन अनिष्टविध्यवलम्बेन वा सूत्रद्वयप्रवृत्तेऽस्मिन्ननृपपत्तिसद्भावातित्यर्थः ।
तमिमं प्रस्तुतं विरोधमधिकुर्मः इत्याहएतत्प्रस्तावेनेति ।
तेष्वपि अधिष्ठानभूतं विरोधालङ्कारं प्रामुख्यात्प्रथममुपगृह्णातितत्रापीति ।
तत्र सूत्रम्
विरुद्धाभासत्वं विरोधः ॥ ४० ॥
विरोधस्य समाधानसद्भावाताभासत्वं विरोधालङ्कारः ।
व्याचष्टेइह जात्यादीनामिति ।
जातेर्जातिःसजातीयं अन्यद्विजातीयम् ।
एवं गुणस्य गुण इत्यादि ।
भेदान् सञ्चष्टेतत्र चेति ।
जातिविरोधस्य जातिनिबन्धनस्य विरोधालङ्कारस्य ।
परिच्छेदेति ।
अपरिच्छेद्यः सर्ववचनानामविषयः ।
अत्र जन्मनि पुनरित्थामनुभूतमनस्त्वमिह न प्राक्कोट्यपेक्षं पूर्वमित्यर्थः ।
विवेकस्य विशेषतो ध्वंसादुपचितेन मोहान्धकारेण दुरुत्तरः कोऽपि विरहविकारो अन्तर्जडयति तापयति च ।
योजयतिअत्र जडीकरणेति ।
अप्रात्पिर्विरहः तद्धेतुकोऽयं विरुद्धक्रियोपनिपात इत्यर्थः ।
अयं वारामिति ।
तृष्णा पिपासा रत्नविषया लप्सा च ।
क एवं जानीते? न कस्यचिदिदं संभाव्यमित्यर्थः ।
योजयतिअत्र जलनिधिरिति ।
भेदान्तरं सुज्ञानमित्याहएवमिति ।
इह श्लेषगर्भत्वे किं वृत्तमित्यत आहविविक्तेति ।
श्लेषतो विविक्तविषयतयोक्तोदाहरणादौ दृश्यते यतः ।
अतः श्लेषगर्भत्वे श्लेषो बाधकः उद्भटमतावलम्बिनामन्येषां तु सङ्करः ।
उदाहरणम्सन्निहितेति ।
बालान्धकारा केशकालिमा नूतनतिमिरं च ।
भास्वन्मूर्तिः भास्वतो रवेमूर्तिश्च ।
इदं द्वयोरपि विरोधिनोः श्लिष्टत्वे ।
कुपतिमिति एकतरस्य ।
पृथ्वीपतिः कुत्सितपतिश्च ।
अत्र विशेषमाहएकविषयेति ।
विरोधस्यैकविषयत्वे विरोधालङ्कारः ।
विषयभेदे त्वसङ्गत्यादिर्वक्ष्यते ।
विरोधस्तु तदाभासो जात्याद्यर्थसमाश्रयः ।
तद्वैचित्र्याद्दशविधो विषयैक्ये व्यवस्थितः ॥
अथ विरोधमूलाः ।
तत्रापि कार्यकारणविरोधालङ्कारत्वेन विभावनोच्यते ।
तत्र सूत्रम्
कारणाभावे कार्यस्योत्पत्तिर्विभावना ॥ ४१ ॥
प्रसिध्दकारणाभावे सूक्ष्मकारणवशात्कार्योत्पत्तिर्विशिष्टतया कार्यभावनात्विभावना ।
व्याचष्टेइह कारणेति ।
कार्यं हि कारणमन्तरेण न संभवतीति तदन्वयव्यतिरेकानुविधानात्तदभावेऽपि यदि कार्यसंभवः, तदवास्तवत्वात्विरोधोदुष्परिहरः ।
यदि केनचिदुक्तिवैचित्र्येण कारणाभावेऽपि कार्यसंभव उपनिबद्धः तदा वैशिष्ट्येन कार्यभावना द्विभावना ।
क (या)चिदित्युक्तम् ।
सा केत्यत आहसाचेति ।
प्रसिध्दस्यैव कारणस्य अनुपनिबन्धः अप्रसिद्धकारणसंभवात्तु विरोधि ।
विरोधाद्वैलक्षण्यायाहकारणाभावेनेति ।
प्रामाणिकत्वात्बलिना कारणाभावेन कार्यमेव बाध्यते, न तु कारणाभावः, अत उभयविरोधानुप्राणितात्विरोधात्विशेषः ।
एतद्वव्यतिरेकरूपया नीत्या वक्ष्यमाणस्य विशेषोक्त्यलङ्कारस्यापि विरोधतो भेद इत्याहएवं विशेषोक्तवित्यादि ।
तत्र हि कार्याभावः कारणसत्ताया बाधकः ।
अतः सापि वोरोधाद्विभिन्ना ।
लक्षणांशेविमतिमुपन्यस्य दूषयतिइह लक्षणा इति ।
क्रियाग्रहणं कृतम् ।
क्रियाभावे कार्योत्पत्तिः विभावनेति तथापि कारणपदविधानार्हत्वान्निवेशितम् ।
तत्र हेतुः न हि सर्वैरिति ।
क्रियाफलमेव कार्यमिति न हि सर्वेषामभ्युपगमः, किन्तु वैयाकरणानामेव ।
अतः क्रिया व्यतिरेकिणोऽपि कारणास्य संभवात्सामान्यतः कारणग्रहणमेव कृतम् ।
अत्र द्वितीयेति ।
मदस्यासवकारणापोहेन यौवनकराणोपनिबन्धो यौवनासवमदयोरभेदाध्यवसायात् ।
सा चातिशयोक्तिर्विभावनां न व्यभिचरतीति न बाध्यते ।
अपि त्वनुग्राहकत्वेनावतिष्टते ।
तद्द्वैविध्यमाहैयं चेति ।
अनेन विशेषोक्तेरपिद्वैविध्यं सूचितम् ।
तत्रासंभृतमिति ।
इयमेवोक्तनिमित्ता वयसो निमित्तत्वात् ।
अङ्गलेखामिति ।
काश्मीरसमालम्भनङ्कुड्कुमालेपः निमित्तानुक्तिं दर्शयतिअत्र सहजत्वमिति ।
वैचित्र्यान्तरमाह इयं चेति ।
अनिद्र इति ।
प्रपतनं मरणाध्यवसायेन पातः ।
तिमिरसहितस्त्राससमयो निषा अयं तु तदभावात्मकः ।
आघातो वधस्थानं, धृतिर्धारणं अन्वयोऽनुवृत्तिः ।
आद्योदारहरणे द्वितीयतृतीयपादयोर्विमतिरित्याहअसंभृतमिति ।
सभरणपुष्पकारणाभावेऽपि मण्डनकामास्त्रकार्योत्पत्तेरियमेव विभावनेति केचित् ।
अन्ये तु संभरणापुष्पयोर्मण्डनास्त्रे प्रत्यासवमदन्यायेन साक्षादकराणत्वाद्वाङ्मात्रं विभावनात्ववचनम् ।
किञ्च एकगुणहानिकल्पनायां साम्यदाढर्यं विशेषोक्तिरित्युक्तलक्षणविशेषोक्तिरियम् ।
संभरणाद्येकगुणहान्या मण्डनादेः वयसा सह साम्यदार्ढ्यादित्याहुः ।
अपरे तु वयसि मण्डनत्वाद्यारोपात्रूपकमेव यत्त्व संभरणादि वैशिष्ट्यं तदत्रैव अधिरोपितमित्याहुः ।
अथ सिद्धान्तः आरोप्यमाणस्येति ।
आरोप्यमाणस्य मण्डनत्वादेर्वयोरूपे प्रकृते प्रतिपत्तिरूपादुपयोगात्परिणामोऽयम् ।
मण्डनादिकं हि वयोरुपो पग्राहिप्रतिपत्तिकत्वेन उपयुज्यते ।
रूपकत्वे हि वयसो मण्डनं रूपोपग्राहिताया मण्डनमेवेदमित्यादि प्रसजेत् ।
अतः परिणाम एव ।
अद्यतना इति आचार्यः स्वात्म प्रमुखान्वक्ति ।
प्रसिद्धकारणाभावे कार्योत्पत्तिर्विभावना ।
कार्योत्पादनवैशिष्ट्याद्द्विधा चेयं निमित्ततः ॥
विशेषोक्त्यौ सङ्गतिमाहविभावनामिति ।
तत्र सूत्रम्
कारणसामग्र्ये कार्यानुत्पत्तिर्विशेषोक्तिः ॥ ४२ ॥
विभावनावैपरीत्येन विशेषमभिव्यङ्क्तु प्रयुज्यमाना विशेषोक्तिः ।
व्याचष्टेइह समग्राणीत्यादि ।
अन्यथेति ।
सामग्रयं हि कार्यनिष्पत्त्यवसानकम् ।
तदेव चेत्यार्यं न जनयेत(त्)तदा किमेषां समग्रत्वम् ।
अतः कारणानि चेत्समग्राणि तदा नियमेन कार्योत्पत्तिरिति स्थितम् ।
अनेन व्यात्पिर्दर्शिता ।
अत्राभासतो विरोधमुत्थापयतियत्त्विति ।
कश्चिदिति ।
यदि कारणासमाग्रये कार्यानुत्पत्तिस्तदा विशेषः कश्चिदभिव्यङ्ग्यःस्यात् ।
इत्थं च सति विशेषमभिव्यङ्गक्तुमुक्तिरिति विशेषोक्तिः ।
तद्भेदार्थमाहसा चेति ।
अचिन्त्यत्वमतर्किता ।
तदनुक्तेर्निमित्तमित्यनुक्तनिमित्तैव ।
कर्पूरैवेति ।
अत्र निर्भस्मांशं दाहशक्तिवैकल्ये सामग्री ।
अथापि जने जने शक्तिमानिति कार्यानुत्पत्तिः ।
आहूतोऽपीति ।
आह्वानप्रत्युक्ति जिगमिषा(ः)सङ्कोचशैथिल्य कारणसामग्री ।
नैवेति तु कार्यानुत्पत्तिः ।
तत्र हेतुः कान्तास्वप्नादि चिन्तितुं शक्यम् ।
स एक इति ।
तनुहरणं बलहरणे सामग्री ।
न हृतमिति तु कार्यानुत्पत्तिः ।
तत्र हेतुः अनुक्तश्चिन्तितुमशक्यः त्रिष्वपि योजयतिअत्र सत्यपि दाहेति ।
स्वरूपेण शक्तिमानिति स्वशब्देन विरुद्धेन धर्मेण क्वचिदियं विभावनया सङ्कीर्यत इति दर्शयितुमाहकार्यानुपत्तिरित्यादि ।
यः कौमारेति ।
नायिका काचिदुद्दीपन विभावना(विभावा)भिरता वक्ति ।
यो मे प्रथमपरिभोगेन कौमारं हृतवानद्यापि स एव वरः वसन्तक्षपाः अपि ता एव ।
उन्मीलितमालतीवत्सुरभयः कदम्बानिलाः त एव ।
कदम्बोऽत्र धूलिकदम्बाख्यस्तद्विशेषः यो वसन्ते विकसति ।
अहमपि सा चैवास्मि, पुरातनी प्रेमदारा न कुण्ठितेत्यर्थः ।
अथापि रेवानदीकूले तत्र वेतसीतरुतले सुरतव्यापारलीलाविधौ चेतःसमुक्तण्ठते ।
योजयति अत्र विभावनेत्यादि ।
कौमारहरादिसद्भावोऽनुत्कण्ठा कारणसामग्र्यम् ।
अथापि चेतःसमुत्कण्ठक इति विरुद्धोपनिबन्धेनानुत्कण्ठानुत्पत्तिरुक्ता ।
अतो विशेषोक्तिः ।
तथा कौमारहराद्ययोरूपकारणाभावे तत्सद्भावरूपविरोधिमुखेनोपनिबद्धेत्युक्तण्ठाकार्योत्पत्तिर्विभावना ।
तयोश्च साधकबाधकाभावात्सन्देहसङ्करः ।
कार्यकारणभावयोश्च विरोधिसद्भावायातत्वादस्फुटत्वम् ।
अनयोश्च न सर्वदा सङ्करः ।
कार्योत्पत्त्यनुत्पत्त्योरन्यतर विवक्षणे शुद्धत्वात् ।
प्रकृतोदाहरणे तु उत्कण्ठोत्पत्त्यनुत्कण्ठानुत्पत्त्योर्द्वयोपरि विवक्षा ।
अत्र श्लोकः कार्यांशस्य यदा भावाभावौ वक्तुमपेक्षितौ ।
विभावनाविशेषोक्त्योस्तदा सन्देहसङ्करः ॥
लक्षणान्तरमव्यापीत्याहयात्वेकगुणेत्यादि ।
विशेषोक्तिर्भवेत्कार्यानुत्पत्तिःसति कारणे ।
अत्रैकगुणहान्या तु साम्यदाढर्यमलक्षणम् ॥
प्रतिज्ञातचरायातिशयोक्त्यन्तराय सङ्गतिःतिशयोक्ताविति ।
तत्र सूत्रम्
कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः ॥ ४३ ॥
कार्यकारण विरोधमूलत्वादिह कथनम् ।
प्रपञ्चाय व्याचष्टे इह नियतेति ।
एतद्रूपापगमः पौर्वापर्ये नियमभङ्गः ।
द्वौविध्यमाहएतद्रूपेति ।
पश्यत्सूद्गतेति ।
राजसुविस्मेरेषु पश्यत्सु तव खङ्गे युगपत्कीर्त्या निर्गमेन श्रिया प्रवेशेन चेन्द्रजालं कृतम् ।
अत्र श्रीप्रवेशे कीर्ति निर्गमहेतौ समकालोपनिबन्धः ।
पथि पथीति ।
आभा प्रभा ।
लासकी नर्तकः ।
नरि नरि पुंसि पुंसि ।
अत्र सायककिरणकार्यभूता माननिवृत्तिः प्राक्सिद्धत्वेनोक्ता ।
उभयत्र योजयतिपूर्वत्रेत्यादि ।
प्रौढोक्तिनिर्मित मिन्द्रजालात्मकं व्यङ्गयम् ।
विशेषमाहकार्यस्य चेति ।
कार्यकारणयोर्यौ तु कालसाम्यविपर्ययौ ।
अन्या त्वतिशयोक्तिःसा विरोधांसोपजीवनात् ॥
असङ्गत्यै सूत्रम्
तयोर्विभिन्नदेशत्वेऽसङ्गतिः ॥ ४४ ॥
व्याचष्टेतयोरिति ।
उचितेति ।
समदेशत्वमुचिता सङ्गतिः ।
असङ्गतिमाहविरोधीति ।
प्रायः पथ्येति ।
प्रायेण भूपाः स्वतो स्वतो हितपराङ्मुखा विषयाक्रान्ता भवन्ति ।
लोकापवादस्तु निर्देषान् सचिवानेति ।
विपिने सन्तोषभाजो मुनयः ।
यद्वा बाह्यो मन्त्रानधिकृतःसेवकजनो वर मन्त्रिणस्तु धिक् ।
योजयतिअत्रेति ।
लोकापवादस्य पथ्यविमुखत्वं विभिन्ना८ ओ हेतुः ।
इत्थं वैचित्र्यान्तरेऽपि दर्शयतिएवमिति ।
सा बालेति ।
योजयतिअत्र चेत्यादि ।
निगमयतिएवमिति ।
अन्यत्र विच्छ्रित्त्यन्तरे ।
कार्यकारणयोर्भिन्नदेशत्वे स्यादसङ्गतिः ।
अभेदाध्यवसायादि विच्छित्या दृश्यते च सा ॥
विषमार्थं सूत्रम्
विरूप कार्यानर्थयोरुत्पत्तिर्विरूपसङ्घटना च विषयम् ॥ ४५ ॥
कारणविरूप कार्योत्पत्तिरेकं, अनर्थोत्पत्तिरन्यतननुरूपयोः संघटना तृतीयमिति त्रिधा ।
विषयं सङ्गतिःविरोधेति ।
व्याचष्टेतत्र कारणेति ।
निर्वक्तिअननुरूपेति ॥
सद्य इति ।
करस्पर्शः पाणिग्रहः ।
नीलायाः पाण्डुरूपं कार्यम् ।
तीर्थेति ।
तीर्थान्तरेषु पातकपङ्किलाः तनूर्विहाय दिव्यास्तनूर्लभन्ते ।
वाराणासि!त्वयि तु त्यक्ततनूनां दिव्यतनुलाभस्तावदास्तां मूलं प्राचीना तनुरप्यपुनर्लाभाय याति ।
अत्र मूलनाशलक्षणानर्थोत्पत्तिः ।
अरण्यानीति ।
आकूतं हृदयम् ।
निभृतं गूढं पल्लवयति प्रकाशयत् ।
अत्रारण्यान्यादीनां विरूपाणां असङ्घटनीयानां सङ्घटना ।
त्रिष्वपि योजयतिअत्र कृष्णोत्यादि ।
ननु मध्यमोदारहणे व्याजस्तुतिपर्यवसानमित्यत आहकेवलमिति ।
स्तुतिनिन्दाछ्रायापरित्यागेशुद्धं सुज्ञातत्वादभ्यूहितुं शक्यम् ।
विरूपानर्थयोर्हेतीरुत्पत्तिर्विषमं मतम् ।
तथा विरूपघटना तेनेदं त्रिप्रभेदकम् ॥
समार्तं सूत्रम्
तद्विपर्ययः समम् ॥ ४६ ॥
तृतीयभेदापेक्षया विषमविपर्ययःसमम् ।
सङ्गतिपुरस्कारेण व्याचष्टेविषमेत्यादि ।
अनलङ्कारत्वादिति ।
सरूपकार्यस्यार्थस्योत्पत्तौ न हि विच्छित्तिः ।
द्वैविध्यमाहसस चेति ।
ल चान्त्यो भेदः ।
त्वमेवमिति ।
त्वमेवाञ्चिधसौन्दर्या स च रुचिरतायाः परिचितः युवां कलाभिज्ञौ च ।
शेषं पाणिग्रहणम् ।
तदा गुणत्त्वं विश्वोत्कर्षी स्यात् ।
योजयतिअत्रेति ।
नायकेत्येकशेषः नायको नायिका चेति ।
चित्रं चित्रमिति ।
स्फातिः स्फीतता ।
कोविदो निगुणः ।
योजयतिअत्रेति ।
द्वयोरनभिरूपत्वं आनुरूप्यम् ।
सरूपयोःसंघटना समालङ्कार इष्यते ।
श्लाध्या श्लाध्यत्वयोगेन द्वौ भेदावस्य सङ्गतौ ॥
विचित्राय सङ्गतिःविरोधेति ।
सूत्रम्
स्वविपरीतफल निष्पत्तये प्रयत्नो विचित्रम् ॥ ४७ ॥
विपरीतफलाय प्रयत्नो विचित्रम् ।
व्याचष्टेयस्येति ।
तद्वि परीतेति ।
तस्य विपरीतफलस्येत्यर्थः ।
निर्वक्तिआश्चर्येति ।
विषमप्रकाराद्वैलक्षण्यायाहन चायमिति ।
इह हि स्वनिषेधो वैपरीत्यं गमयति ।
विषमे तु व्यत्ययः ।
उदाहरणतो द्रढयतितमालेति ।
इह त्वन्यथाधेत्तुमिति ।
(ग्रहीतुं)मुच्यतेऽधरोऽन्यतो वलति (प्रेक्षितुं)दृष्टिः ।
घटितुं विघटेते भुजौ (रतायसुरतेषु)विश्रमः ॥
योजयतिअत्रेत्यादि ।
उन्नत्या इति ।
भोगेच्छ्रया भोक्तुमित्यर्थः ।
योजनं स्फुटमित्याहअत्रेति ।
प्रयत्नस्तु विचित्रं स्याद्विपरीतफलात्पये ।
निषेधतो वैपरीत्याद्विषमालङ्कुतेर्भिदा ॥
अधिकार्थं सूत्रम्
आश्रयाश्रयिणोरनांनुरूप्यमधिकम् ॥ ४८ ॥
आश्रयाश्रयिणोरयथात्वमाधिकम् ।
ससङ्गतिकं व्यचष्टेविरोधेत्यादि ।
आश्रयाधिक्याताश्रय्याविक्याञ्च द्वैविध्यमाहतत्रेत्यादि ।
द्यौरत्रेति ।
द्यौःस्वर्गः, धरा पृथ्वी, जलाधाराःसमुद्रास्तदवधिरिति निःशेषत्वोक्तिः अहो कियत्, इयत्तैव नास्तीत्यर्थः ।
पूरणं दूरेऽस्तु का पूरणकतयेत्यर्थः ।
यावता शून्यमिति नाम्नोऽपि नास्ति गतिः काचित् ।
दोर्दण्डेतिआञ्चितं आयामितम् ।
नत्वञ्चितामिति पाठः ।
गतिपूजनयोरनुपयोगात् ।
आञ्चिरायामार्थो धातुः ।
भ्राम्यत्पिण्डितचण्डिमा च ।
योजयतिपूर्वन्त्रेति ।
अनानुरूप्यमधिकमाश्रयाश्रयिणोर्मतम् ।
आश्रयाश्रयिवैपुल्यवशतो द्विप्रभेदकम् ॥
अन्योन्यार्थं सूत्रम्
परस्परं क्रियाजननेऽन्योन्यम् ॥ ४९ ॥
क्रियाव्यतीहारेऽन्योन्यालङ्कारः ।
ससङ्गतिकंव्याचष्टेइहापीत्यादि ।
न स्व रूपापेक्षया परस्परजननस्यासंभवेन सम्यग्विरोधित्वात्क्रियाद्वारकमेवेह परस्परजननम् ।
कण्ठस्येति ।
तनुत्वरम्यत्वे देवीकण्ठस्य आत्मोत्कृष्टत्वे सामग्रीमुक्ताकलापस्य च वृत्तत्वात्निस्तलत्वमानोचनीयत्वे ।
इत्थं द्वयोरपि सम्पन्नसामग्रीकत्वात्भूषणभूष्यभावःसाधारणः ।
योजयतिअत्र शोभेति ।
क्रियामुखकं क्रियाद्वारकम् ।
क्रियाजननमन्योन्यमन्योन्यालङ्कृतिर्मता ।
विशेषार्थं सूत्रम्
अनाधारं माधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं च विशेषः ॥ ५० ॥
दिवमपीति ।
दिवमुपयातानामपि गिरो रमयन्ति जगन्तीत्यनाधाराधेयता ।
प्रासादेतिअत्रैकस्यानेकगोचरता ।
निमेषमपीति ।
अत्र सर्वसम्पादनात्मनोऽशक्यवस्त्वन्तरस्य करणम् ।
त्रिष्वपि योजयतिअत्र कवीनामिति ।
येषामिति षष्ठीनिदेशेऽपि न गीर्भिःसह सम्बन्धमात्रम्, अपि तु विशिष्टः सम्बन्ध इत्याहअन्यत्रेति ।
भावि लोकोत्तरेति ।
किंशब्देन नञा चाक्षित्पोर्ऽथः ।
अनाधारादिभेदेन विशेषोऽपि त्रिधा मतः ।
व्याघातार्थं सूत्रम्
यथा साधितस्य तथैवान्येनान्यथाकरणं व्याघातः ॥ ५१ ॥
एकेन यद्यथा साधितं तस्य तथैवान्यथीकरणं व्याघातः ।
व्याचष्टेकञ्चिदिति ।
दृशेति ।
दृशा दग्धस्य दृशैव जीवनाञ्चारुलोचना विरूपाक्षस्य जन्यिन्यः ।
योजयतिअत्र दृष्टीति ।
जोवनीयत्वमिति ।
प्राणितव्यं जीवनमित्यर्थः ।
अयं चात्र व्यतिरेकहेतुरित्याहसोऽपीति ।
विरूपाक्षचारुलोचनाशब्दौ हि व्यतिरेकगर्भौ ।
जयेन च व्यतिरेक उक्तः ।
सङ्गतिमाहपूर्ववदिति ।
अनानुरूप्यं इह लक्षणां प्रकरणस्य ।
यथा साधकमेकेन तथैवान्येन बाधनम् ।
व्याघातोऽथ विरुद्धस्य सौकर्येण क्रिया तथा ॥
तत्र सूत्रान्तरम्
सौकर्येण कार्यविरुद्धक्रिया च ॥ ५२ ॥
कार्यापेक्षया सुकरस्य विरुद्धस्य करणं कार्यव्याहतिहेतुरिति व्याघातान्तरम् ।
व्याचष्टेव्याघात इत्यादि ।
अयं लक्ष्यपदानुषङ्गः ।
कार्यार्थंसंभावितस्य कारणविशेषस्य तद्विरुद्ध निष्पादनं व्याघातः ।
विरुद्धनिष्पत्तिश्च सुकरा कारणस्य विशिष्टानुगुण्यात् ।
इत्थं च सति अनर्थोत्पत्तिलक्षणाद्विषामात्भेद इत्याहन त्वत्रेति ।
न ह्यत्र कार्यमकार्यं किन्तु तद्विरुद्धं सुकरं कार्यम् ।
अतो द्वितीयविषमाद्भेदः ।
यतस्तत्र कार्यमकार्यं विरुद्धस्तु अनर्थः ।
इहोभयमपि कार्यमिति ।
यदि बाल इतीति ।
अत्र बाल्यं रक्ष्यत्वं चाप्रस्थाने हेतुत्वेन सम्भावितं प्रत्युत सौकर्येण प्रस्थानं साधयति ।
सङ्गत्यन्तरायाहएवमिति ।
तत्र कारणामालार्थं सूत्रम्
पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला ॥ ५३ ॥
यदा पूर्वमित्यादि ।
जितेन्द्रियत्वमिति ।
जितेन्द्रियत्वाद्विनयः, विनयाद्गुणप्रकर्षः ततो जनानुरागः ।
अत्र सारादिविच्छ्रित्त्यन्तरसंभवेऽपि नालङ्कारान्तरमित्याहकार्यकारणेति ।
कार्यं कारणमालायां प्राचः प्राचः परं परम् ॥
एकावल्यै सूत्रम्
यथापूर्वं परस्य विशेषणातया स्थापनापोहने एकावली ॥ ५४ ॥
यदि पूर्व पूर्वस्य परं परं विशेषणतया स्थाप्यते, सैका एकावली यञ्चापोह्यते सान्या ।
पुराणीति ।
अत्र पराणां वराङ्गनास्तासां रूपं तस्य विलासः स कुसुमायुधस्य विशेषणतया स्थाप्यते ।
योजयतिअत्र वराङ्गना इति ।
न तज्जलमिति ।
अत्र जलादेः पूर्वं पूर्वस्य पङ्कजाद्युत्तरोत्तरं विशेषणमपोह्यतया स्थितम् ।
एकावल्यां यथापूर्वं भेदकं तूत्तरोत्तरम् ।
स्थाप्यतेऽपोह्यते चैव तेनेयं द्विविधा मता ॥
मालादीपकार्थं सूत्रम्
पूर्वपूर्वस्योत्तरोत्तरगुणवहत्वे मालादीपकम् ॥ ५५ ॥
एकावल्यामुत्तरोत्तरस्य पूर्वपूर्वगुणवहत्वमिह तु व्यत्ययः ।
व्याचष्टेउत्तरोत्तरस्येति ।
प्रस्तावोल्लङ्घने हेतुमाहमालात्वेनेति ।
संग्रामेति ।
अत्र कोदण्डादेः पूर्वपूर्वस्य शराद्युत्तरोत्तरसमासादनं दीपनेन गुणावहत्वम् ।
व्याचष्टेअत्र कोदण्डादिभिरिति ।
मालादीपकमाद्यस्योत्तरोत्तरदीपनम् ।
सारार्थं सूत्रम्
उत्तरोत्तरमुत्कर्षःसारः ॥ ५६ ॥
व्याचष्टेपूर्वपूर्वेति ।
निबन्धनं ग्रथनम् ।
राज्य इति ।
सारमित्यत्र वस्त्वित्यध्याहर्तव्यम् ।
इतरथा लिङ्गासङ्गतिः ।
योजयतिअत्र राज्येति ।
उत्तरोत्तरमुत्कर्षावहत्वे सार इष्यते ।
सङ्गत्यन्तरायाहएवं शृङ्खलेति ।
तत्र काव्यलिङ्गार्थं सूत्रम्
हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गम् ॥ ५७ ॥
वाक्यार्थपदार्थरूपहेतौ द्विधा काव्यलिङ्गम् ।
व्याचष्टेयत्र हेतुरिति ।
तर्कवैलक्षण्यं दर्शयतिन ह्यत्रेति ।
अनुपाधिकः सम्बन्धो व्यात्पिः ।
हेतोः पक्षेऽवस्थितिः पक्षधर्मता ।
उपसंहारो निगमनम् ।
आदिशब्दादुपनयादिः ।
वाक्यार्थत्वे विशेषमाहवाक्यार्थगत्येति ।
अनेन हेतुत्वस्य शाब्दत्वनियम उक्तः ।
आर्थत्वे विशेषमाहवाक्यार्थगत्येति ।
अनेन हेतुत्वस्य शाब्दत्वनियम उक्तः ।
अर्थत्वे अर्थान्तरन्यास प्रात्पिः इत्याहअनयथेति ।
अर्थान्तरन्यासे हि अर्थात्प्रकृत समर्थनम्, इह तु शब्दत इति विभागः ।
यत्त्वन्नेत्रेति ।
नेत्र रुचिसमानरुच इन्दीवरस्य सलिले निमज्जनम्, मुखच्छ्रायानुकारिणः शशिनो मेघैश्छ्रादनं, गमनानुकारिगतीनां हंसानां पलायनं चेति वाक्यार्थत्रयमेकवाक्यतापन्नायां सादृश्यविनोदाक्षान्तौ हेतुः ।
मृग्य इति ।
दर्भनिर्व्यपेक्षत्वलोचनव्यापारणे पदार्थो संबोधने हेतुः ।
उभयत्र योजयति पूर्वत्रेत्यादि ।
अत्र वाक्यार्थपदार्थयोरेकैकहेतुत्वेनोदाजिहीर्षुराहएवमेकेति ।
मनीषिता इति ।
अत्र तपोनिवारणे गृहेष्वपेक्षितदेवतासद्भावो वाक्यार्थो हेतुः ।
यद्विस्मयेति ।
अत्रानन्द मन्दत्वे विस्मयस्तिमितत्वं पदार्थो हेतुः ।
योजयतिपूर्वत्रेत्यादि ।
काव्यलिङ्गत्व तु हेतुत्वेनोक्तिर्वाक्यपदार्थयोः ।
नायमर्थान्तरन्यासो हेतोःशाब्दत्वसंश्रयात् ॥
अनुमानाय सूत्रम्
साध्यं साधननिर्देशोऽनुमानम् ॥ ५८ ॥
साध्यसिद्ध्यै साधननिर्देशोऽऽनुमानम् ।
व्याचष्टेयत्र शब्देत्यादि ।
शब्दवृत्तेन नत्वर्थस्य ।
वस्तुतस्तथा भावेनपक्षधर्मान्वयेति त्रैरूप्यमुक्तम् ।
तर्कानुमानवैलक्षण्याहविच्छित्तीति ।
अर्थात्कविकल्पितवैचिर्त्यात् ।
यथा रन्ध्रमिति ।
जलदधूमस्य व्योमस्थगनं खद्योतानां स्फुलिङ्गायमानता, ककुभां विद्युज्ज्वालापिङ्गता च ।
पथिकतरुषण्डे स्मरदवानललग्नं लिङ्गम् ।
योजयति अत्र धूमेत्यादि ।
रूपकमूलत्वमेवालङ्कारान्तरगर्भीकारः ।
अलङ्कारान्तरविविक्ततयापि दर्शयितुमाहक्वचित्त्विति ।
यत्रैता इति ।
लहरीवञ्चलाश्चलदृशो यासां ताः ।
तत्र भ्रूव्यापारस्तत्रैव मार्गणपतनम् ।
स्मरस्याग्रगमने शुद्धतया लिङ्गम् ।
तदेतदाहअत्रेति ।
अनलङ्कृतमेव रूपकाद्यसंकीर्णमेव ।
तर्कानुमानाद्वैलक्षण्यायाहप्रौढोक्तीति ।
मात्रग्रहणादलङ्कारान्तरापोहः ।
चारुत्वं न तु तर्कानुमानवन्निश्चमत्कारता ।
अथानुमानकाव्यलिङ्कार्थान्तरन्यासानां विषयं विवेचयतिअयमत्रेत्यादि ।
पिण्डार्थः अवान्तरविशेषनिर्व्यपेक्षो निष्कृष्टार्थः ।
अप्रतीतः प्रत्याय्यते चेत्प्रत्याय्यप्रत्ययकभावः तदानुमानम्, प्रतीतःसमर्थ्यते चेत्समर्थ्यसमर्थकभावः तदा पदार्थस्य त्वतलादिशिरस्कतया हेतुत्वेनोपादाने न कश्चिदलङ्कारः ।
यथा नागेन्द्रहस्ता इत्यादौ ।
कर्कशत्वातूर्वोरुपमानबाह्या इति हेतुमद्भावस्य लौकिकत्वात् ।
यदा त्वतलाद्यसंस्पर्शेनोपात्तस्य पदार्थस्य हेतुत्वं तदा “मृगश्च दर्भाङ्कुरे"त्यादौ पदार्थनिमन्धनमेकं काव्यलिङ्गम् ।
यदा पुनर्वाक्यार्थो हेतुत्वप्रतिपादकयच्छ्रब्दादिप्रयोगमन्तरेण हेतुत्वेनोपादीयते, तदा वाक्यार्थनिबन्धनमन्यत्काव्यलिङ्गम् ।
यदा ताटस्थ्येनोपात्तस्य वाक्यस्य अर्थपर्यालोचनया हेतुत्वं तदार्तान्तरन्यासः ।
इत्थं च सति वाक्यार्थनिबन्धनं काव्यलिङ्गं कार्यकारण एव भवति ।
समर्थ्य वाक्यार्थस्यानया क्रियया सापेक्षत्वेन ताटस्थ्याभावात् ।
अर्थान्तरन्यासस्तु सामान्यविशेषभाव एव भवति ।
तथात्व एव ताटस्थ्यसंभवात् ।
यत्पुनः कार्यकारणगतत्वेनार्थान्तरस्य समर्थकत्वं तदुक्त लक्षणं काव्यलिङ्गमप्यनपेक्ष्यैव ।
आचार्यैर्लक्षणान्तरकरणात् ।
इत्थं च सति उक्तलक्षणाश्रयणे, “यत्त्वन्नेत्रे"त्यादौ अर्थान्तरन्यासविविक्तं काव्यलिङ्गमेव ।
कार्यकारणयोस्तु समर्थकत्वं अर्थानतरन्यासे दर्शितचरमिति गतिरियती विषयविभागा याश्रयितव्या ।
अनुमानं तु साध्याय साधनस्योपवर्णना ।
तत्संकीर्णत्वशुद्धत्वविच्छित्त्यान्यविलक्षणात् ॥
अप्रतीतप्रतीतौ स्यादनुमानव्यवस्थितिः ।
पदार्थाद्वाथ वाक्यार्थात्निर्देशे सति हेतुतः ॥
समर्थनं प्रतीतस्य काव्यलिङ्गद्वयं मतम् ।
भवेदर्थान्तरन्यासः ताटस्थ्ये हेतुभावतः ॥
कार्यकारणभावे तु तस्योक्तं लक्षणान्तरम् ।
सङ्गत्यन्तरायाहएवं तर्केति ।
तत्र यथासंख्यार्थं सूत्रम्
उद्दिष्टानामर्थानां क्रमेणनुनिर्देशो यथासंख्यम् ॥ ५९ ॥
प्राङ्गनिर्दिष्टनां पश्चान्निर्दिष्टैः क्रमेण सम्बन्धो यथासंख्यालङ्कारः ।
व्याचष्टेऊर्ध्वमित्यादि ।
ऊर्ध्वं प्रागित्यर्थः ।
स चेति ।
अनुनिर्देशोऽर्थान्तरगतः न तु उद्दिष्टार्थगतः ।
सामर्थ्यादुद्दिष्टानुनिर्देश्ययोः सापेक्षत्वलक्षणात् ।
सम्बन्धप्रतीतिं निष्कर्षतिऊर्ध्वनिष्ठानामिति ।
वाक्यार्थः सूत्रत्मनो वाक्यस्यार्थः ।
अतः क्रमविशेषः ।
अन्ये तु क्रम इत्येवाभिदधिरे ।
द्वैविध्यमाहतच्चेति ।
आद्यस्य लक्षणमाहशाब्दं यत्रेति ।
व्यस्तानां व्यस्तैरर्थादभिसंवन्धे शाब्दक्रमावलम्बिनः सम्बन्धस्यातिरोधानप्रतीतिकत्वाच्छाब्दता ।
द्वितीयं लक्षयतिआर्थन्त्विति ।
समुदायस्य समुदायेन सम्बन्धे शाब्दे पर्यालोचनया अवयवत्रमसम्बन्ध इत्यार्थता ।
लावण्येति ।
लावण्यप्रभा त्यागावनीभरक्षणत्वशालिनि त्वयि सति इन्दुपूषचिन्तारत्नकुलक्ष्माभृतां नैरर्थक्यम् ।
योजयतिअत्र लावण्यौकस्त्वेत्यादि ।
कज्जलेत्यत्रार्ऽऽथत्वं योजयतिअत्र कज्जलादीनामिति ।
श्रुत्या शब्देन समुदायगतःसंबन्धः ।
“प्रागुक्तानामनूक्तैस्तु सम्बन्धः त्रिमिको यदा ।
यथासंख्यं तथा शाब्दमार्थं चेति द्विधा मतम्” ॥
पर्यायार्थं सूत्रम्
एक मनेकस्मिननेकमेकस्मिन् वा क्रमेण पर्यायः ॥ ६० ॥
एकस्यानेकाधारत्वे एकः पर्यायः ।
अनेकस्यैकाधारत्वे द्वितीयः ।
ससङ्गतिकं व्याचष्टेक्रमप्रस्तावादित्यादि ।
क्रमग्रहणस्य प्रयोजनायाहनन्वेकमित्यादि ।
एकस्यानेकगोचरत्वलक्षणविशेषालङ्कारव्यावृत्त्यै अमग्रहणामित्यर्थः ।
एवं तर्हि विशेषालङ्कारे यौगपद्यग्रहणं किं न कृतमित्यत आहैह चेति ।
इह अमप्रतिपादनात्तत्र यौगपद्यं लक्षणत्वेन अर्थात्सिद्ध्यति इत्यर्थः ।
अतो विविक्तविषयतया द्वितीयमाहतथा एकस्मिन्निति ।
तत्र अपग्रहणात्समुच्चयालङ्कारव्यावृत्तिरित्याहनन्वत्रेति ।
वक्ष्यमाणे समुच्चये यौगपद्यं लक्षणत्वेन गृहीष्यत इत्याहअत एव गुणेति ।
लक्ष्यपदं निर्वक्तिअत एव क्रमेति ।
पर्यायस्य अमात्मकत्वात्परिवृत्त्यलङ्कारतो वैधर्म्यायाहविनिमयेति ।
अस्य चातुर्विध्यं दर्शयतितत्रानेक इति ।
इह योऽयमनेकार्थः स पृथवृत्तिः सङ्घतात्मा च ।
द्विविधोऽप्याधाराधेयश्चेति चत्वारो भेदाः ।
नन्वाश्रयेति ।
रे कालकूट! तवाश्रयेषुवृत्तिः उत्तरोत्तरविशिष्टपदन्यासा केनोपदिष्टा यतः प्राखृदये, अय तदपेक्षयोपरिकण्ठे वात्सीः ।
सम्प्रति तु कण्ठादप्युपरितन्यां वाचि वससि ।
अत्रार्णवादिराधारो अनेकः पृथग्वृत्तिः ।
विसृष्टरागादिति ।
अत्राधर[कन्दु]कौ कराधारौ निवृत्तिक्रियां प्रति अपादानत्वेन संहतौ ।
निवृत्तेरनेकत्वेनाविवक्षणात्निशास्विति ।
संचरः संचाराधिष्ठानम् ।
अत्राभिसारिकाशिवारूपं अनेकमाधेयं पृथग्वृत्तिः ।
यत्रैवेति ।
अत्र मुग्धत्वादिकं पत्नीत्वादिकं च अनेकमाधेयम् ।
वर्गत्वावस्था इति सङ्घात वृत्तिचतुष्टयेऽपि योजयतिअत्र कालकूटमित्यादि ।
पर्याय एकोऽनेकस्मिनेकत्रानेक इत्यापि ।
द्विधा अमवशादेतौ न विशेषसमुच्चयौ ॥
नेयं विनिमयाभावात्परिवृत्तिः भिदास्त्विह ।
चतस्रोऽनेकरूपस्य पृथक्सङ्घातवर्तनात् ॥
पृथक्सङ्घातवृत्तित्वादनेकोर्ऽथो द्विधा स च ।
आधाराधेयभावस्थश्चतस्रोऽस्य भिदास्ततः ॥
परिवृत्तर्थं सूत्रम्
समन्यूनाधिकानां समाधिकन्यूनैः विनिमयः परिवृत्तिः ॥ ६१ ॥
समस्य समेन सह विनिमयः एका परिवृत्तिः ।
न्यूनस्याधिकेन द्वितीया ।
अधिकस्य न्यूनेन तृतीया ।
व्याचष्टेविनिमयोऽत्रेति ।
सङ्गतिमाहक्रमप्रतिभासेति ।
उरो दत्वेतिहिरण्याक्षवधाद्येषु युद्धेषु उरो दत्वा दैत्यानां यशो गृहीतम् ।
योजयतिअत्र उर इति ।
किमितीतिअरुणायन कल्यते इत्यर्थः ।
योजयतिअत्रोत्कृष्टेति ।
तस्यहीति ।
प्रवयस्त्वात्स्वर्गमुपेयुषो न शोच्यं किञ्चित् ।
योजयतिअत्र कलेवरेणेति ।
द्वैरूप्येणादाहरतितत्वेति ।
दर्शनप्राणयोःसमता ।
मनोऽपेक्षया रणारणकस्य न्यूनता ।
योजयतिअत्राद्य इति ।
“परिवृत्तिर्विनिमयस्त्रिधा सेयं समादिभिः ॥
" परिसङ्ख्यार्थं सूत्रम्
एकस्यानेकप्रात्पवेकत्र नियमनं परिसङ्ख्था ॥ ६२ ॥
अनेकत्र प्रात्पवत एकस्यैकत्र नियमनं परिसङ्ख्या एककरत्र वर्जनेन अन्यतरत्र सङ्ख्यानात् ।
ससङ्गतिकं व्याचष्टेएकानेकेत्यादि ।
असंभाव्ये स्थूलदृशा संभावयितुं अशक्ये ।
निर्वक्तिपरीति ।
परीत्युपसर्गोवर्जनवृत्तिरित्यर्थः ।
भेदानाहसा चैषेति ।
प्रश्रपूर्विका शाब्दी तथैवार्थी अप्रश्रपूर्विका शाब्दी तथैवार्थी[ति]चतुर्धा ।
किं भूषणमिति आर्यैराचरितम् ।
इयं प्रश्रपूर्विका शब्दोपात्तवर्ज्या ।
किमासेव्यमिति ।
यदासक्त्या द्युसरिदादिसमासङ्गेन ।
इयं प्रश्रपूर्वा अर्थाक्षित्पवर्ज्या ।
भक्तिर्भव इति ।
युवतिरूपे कामास्त्रे ।
इयमप्रश्रा शाब्दवर्ज्या ।
कौटिल्यमिति ।
इयमप्रश्रा आर्थवर्ज्या ।
योजनस्य सुज्ञानत्वान्न्यायसंचारायाहअत्रालौकिकमिति ।
अलौकिकग्रहो हि लौकिकं व्यवच्छिनत्त्येव विरोधात् ।
अतो व्यवच्छ्रद्यं शाब्दमार्थं चेति भेदद्वयोदयः ।
अलौकिकस्य प्रसिद्धेः क्वचित्प्रश्रोऽन्यथा चेति चातुर्विध्यम् ।
श्लेषभित्तिकतया, दर्शयतिविलङ्घयन्तीति ।
श्रुतिवर्त्म कर्णोपकण्ठो वेदमार्गश्च ।
विक्रिमा अरालता दौःशील्य च ।
चित्रकर्मस्तितिवर्णा वलक्षायदयो द्विजातयश्च ।
दण्डोयष्टिः शास्तिश्च ।
अत्र श्लेषः पूर्वं सिद्ध इति न बाधकः अपि तु चारुतावह इत्याहश्लेषसम्पृक्तत्वमिति ।
अलौकिकतां दर्शयितुमाहअत्र चेति ।
पाक्षिकत्वनियम अनेकत्र युगपत्प्रात्पौ परिसङ्घ्येति हि वाक्यवित्प्रसिद्धं लक्षणम् ।
तद्वैलक्षण्याय नियमनसामान्याधिकरण्यं यतः ।
इत्थमतः पाक्षिकप्रात्पिरूपं नियमलक्षणमपि स्वीक्रियत इति युगपत्संभावनात्मकं परिसङ्ख्यालक्षणामिह[प्रायिकम्] ।
परिसङ्ख्या त्वनेकत्र प्रात्पस्यैकत्र यन्त्रणम् ।
चतुर्धा प्रश्रवर्ज्योक्त्योर्भावाभावादियं मता ॥
न परं युगपत्प्रात्पिः पक्षेऽपि प्रात्पिरिष्यते ।
परिसङ्ख्यानियमयोरतोऽत्रालौकिकी स्थितिः ॥
अर्थापत्त्यर्थं सूत्रम्
दण्डपूपिकया अर्थान्तरापतनं अर्थापत्तिः ॥ ६३ ॥
यथा दण्डभक्षणेनापूपभक्षणं कैमुत्येनापतति तथार्थान्तरस्यापतनमर्थापत्तिः ।
व्यचष्टेदण्डापूपयोरिति ।
“द्वन्द्वमनोज्ञे"ति वुञ्सिद्धौ पृषोदरादित्वेन वृद्ध्यभावेऽहमहमिकादिनयेन दण्डापूपिकेति केचित् ।
अन्ये तु मत्वर्थीयेन रूपसिद्धिमिच्छ्रन्ति ।
स्वसंमतिमाहअपरेत्विति ।
अपरे पुनः “इवे प्रतिकृता"विति कन उपमार्थत्वेन वर्णायन्ति ।
निष्कर्षार्थमाहअत्रेति ।
अनुमानशङ्कां निरचष्टेन चेदमिति ।
समानन्यायस्य दण्डापूपर्थमाहअत्रेति ।
अनुमानशङ्कां निराचचष्टेनचेदमिति ।
समानन्यायस्य दण्डापूपवृत्तस्यसर्ङ्तिमाहअर्थापत्तिश्चेति ।
तज्जातीयेन तत्सम्बन्धितया भेदायाहैयं चेति ।
पशुपतिरितिउत्कः उन्मनाः ।
विप्रकुर्युः बाधं विकुर्युः ।
अमी भावा वनितादयः ।
अप्राकरणिकापातनं दर्शयतिअत्र वि[भ्व]ति ।
धृतधनुषीति ।
स्थिरा अपिप्रह्वी भवन्ति, लोलेषु का कथा? अत्र प्राकरणिकार्थापातः ।
विच्छित्त्यन्यरायाहक्वचित्त्विति ।
अलङ्कार इति ।
शङ्काकरं किमयं सेव्य उत नेति शङ्काजनकम् ।
विधुरिन्दुः विधिर्दिष्टम् ।
श्लेषतः प्राकरणिकापातमाहअत्र विधाविति ।
अर्थापत्तिस्तु कैमुत्येनान्यार्थापात इष्यते ।
प्रकृताप्रकृतापातादियं च द्विविधा मता ॥
विकल्पार्थं सूत्रम्
तुल्यबलविरिधो विकल्पः ॥ ६४ ॥
विरुद्ध्योः तुल्य बवयोर्युगपत्प्रात्पौ विकल्पः ।
व्याचष्टेविरुद्धयोरिति ।
तुल्यप्रमाण विशिष्टत्वं तुल्यबलत्वे हेतुः ।
वैलक्षण्यं दर्शयतिऔपम्यगर्भत्वादिति ।
लौकिक विकल्पस्या तथात्वात् ।
नमन्त्विति सन्धौ शिरसां नतिः विग्रहे धनुषाम् ।
एवमाज्ञामौर्व्योः कर्णपूरिकरणमपि ।
व्यचष्टेअत्र प्रतिराजेति ।
नमनमिह प्रतिराजानां कार्यम् ।
तत्र शिरांसि धनीषि च सन्धिविग्रहप्रमाणतया तुल्यबलानि विरुद्धत्वाद्युगपत्प्राप्त्ययोगेऽपि प्राप्नुवन्ति ।
अतःसाधनबाधनादिरुपगत्यन्तराभावात्विकल्पः ।
वैधर्म्यं योजयतिनमनकृतमिति ।
एवं कर्णपूरीकरणेऽपि ।
वैचित्र्यान्तरायाहऔपम्येति ।
भक्तिप्रह्वेतिप्रणायिनीस्पर्धिनीत्यादौ प्रथमाद्विवचनैकवचनयोः नपुंसकस्त्रीलिङ्गयोश्च श्लेषः ।
नीतेहितेति नीतारिहितेति च पदभङ्गः ।
निधी इति निधिरिति च ।
योजयतिअत्र नेत्रे तनुरिति ।
समुच्चयभ्रमो मा भूदित्याहन चेति ।
अनुशासनात्गतिसंभवेऽपि कविप्रयोगाभावान्न समुच्चयः ।
अप्रयुक्तदोषापत्तेर्लक्षणे न्यूनतामाशङ्कतेनन्विति ।
परिहरतिनैतदिति ।
नेत्रे अथवेति ।
विकल्पस्वरूपोन्मीलित श्लेशानुगममुद्धाटयतिस चात्रेति ।
निगमयतितस्मादिति ।
स्वोपज्ञ इत्याहपूर्वैरिति ।
विरोधे तुल्यबलयोर्विकल्पःसन्निपातिनोः ।
अश्लेषश्लेषभित्तित्वाद्द्विधायमुप वर्ण्यते ॥
समुच्चयार्थं सूत्रम्
गुणाक्रियायौगपद्यं समुच्चयः ॥ ६५ ॥
गुणानां क्रियाणां च यौगपद्यं समुच्चयः ।
व्याचष्टेगुणानामिति ।
विकल्पेति सङ्गतिकथनम् ।
विदलितेति ।
प्र(ख)लमुखानि दुर्दान्तप्रचुराण् ।
अत्र वैमल्यमालिन्ययोः समुच्चयः ।
अयमिति ।
एकपदे युगपद्भवितव्यं भूतमित्यर्थः ।
अत्र उपमतिभूतिक्रिययोः ।
वैचित्र्यान्तरायाहएतद्विभिन्नेति ।
बिभ्राणेति ।
शल्यभरणं शयनादिक्रियाहेतुः ।
अत्र शयनादीनां एकाधिकरणतया समुच्चयः ।
गुणसमुच्चयोऽपि सुज्ञान इत्याहएवमिति ।
गुणक्रिययोः संभृतयोरपि संभवतीति दर्शयतिकेचिदिति ।
न्यञ्चदितिचक्षुरिह चक्षुर्विकारः ।
एकैकं चक्षुरन्यक्रियं भिन्नव्यापारं वर्तते ।
अतो हेतो रसवशात् ।
रस इह शृङ्गारःषद्दग्विकाराणामेषां तदेकनिष्ठत्वात्कथं भिन्नक्रियं न्यञ्चितमित्यर्थः ।
यदपाङ्गे न्यञ्चति ।
उक्तं हि मया भरतसंग्रहे “स्यान्नयञ्चितन्नयञ्चदपाङ्गभाव” इति ।
“अपाङ्गसङ्कोचितकुञ्चितं स्यातुन्मुखं” इत्युदञ्चितस्य लक्षणम् ।
उदञ्चितं दूर्ध्वमपाङ्गवृत्ति निमेषशून्यं हसितं विहासि ।
साकूतमाकाङ्क्षितभावगर्भमाकेकरं तिर्यगरालतारम् ॥
व्यावृत्तं विलितम् ।
“तिर्यङ्निवृत्तं वलितं विलोक्य प्रेम्णा सुदूरं परिवल्ग[दुक्तम्]” ।
प्रसादि प्रसन्नम् ।
“सभ्रूविलासं स्मयते प्रसन्नं संमील्यमानं मुकुलं वदन्ति ।
" सप्रेम प्रेमगर्भम् ।
“स्यात्प्रेमगर्भं असौ द्रवाय (?)” ।
कम्पमुत्कम्पितपक्ष्मतारम् ।
स्थिरं विदूरान्तरितार्थनिष्ठम् ।
उद्भ्रूउद्वर्तितं तूर्ध्वविकम्पितभ्रू ।
भ्रान्तं मदमन्थरं स्यात् ॥
अपाङ्गवृत्ति विक्षेपि ।
विक्षेपि पार्श्वे यदपाङ्गवृत्ति ।
[विकचण्] विकासि ।
विकासि दृश्ये सविशेषलक्षम् ।
मज्जन्निहाञ्चितम् ।
नासाग्रनिष्ठान्तुनिहञ्चिताख्यम् ।
तरङ्कोत्तरं तरङ्गितम् ।
“तरङ्गितं यद्युतिरुर्मिकल्पा ।
" साश्रु उत्कण्ठितम् ।
“उत्कण्ठितं रागनिबद्धबाष्पम् ।
" योजयतिअत्राकेकरेत्यादि ।
नन्वाकूतप्रसादप्रेम्णां गुणवचनत्वेऽपि समासतद्धिताद्यर्थैस्तिरोधानमित्यत आहप्रसादिसप्रेमेत्यादि ।
समासादयो हि सम्बन्धाभिधायिनः ।
सम्बन्धश्च सिद्धरूपो गुणात्मा ।
न गुणावचनानां स्वभावं भिनत्ति ।
साकूतं सत्प्रेम इति समासः ।
प्रसादीतितद्धितः ।
निगमयतिएवमयमिति ।
व्यस्तत्वेन उभौ समस्तत्वेन एकेति त्रिधा ।
“गुणक्रियायौगपद्ये त्रिविधःस्यात्समुच्चयः “।
समुच्चयान्तरायाहएकमिति ।
सूत्रम्
एकस्य सिद्धिहेतौ अन्यस्य तत्करत्वं च ॥ ६६ ॥
एकस्मिन् कस्यचित्सिद्धिहेतौ स्पर्धया अन्यस्यापि तत्करत्वं समुच्चयः ।
व्याचष्टेसमुच्चय इत्यादि ।
इत्येवेत्यनुषङ्गकथनम् ।
समाधिवैधर्म्यायाहन चायमिति ।
एकः पर्यात्पः साधकः ।
अन्यः काकतालीयवृत्त्या चेत्समाधिः ।
यथा खले कपोत्ताः स्पर्धया प्रतिस्वं अहमहमिकयावतरन्ति ।
तथा भावे समुच्चयः इति महान् भेदः ।
खले कपोता अस्यां सन्ति नीताविति खलेकपोतिका ।
मत्वर्थीयः ष्ठन् ।
ननु काकतालीयं इति कथमुच्यते ।
काकस्यागमनं यादृच्छिकं तालस्य च पातः ।
तेन पतता काकस्य वधः ।
एवं देवदत्तस्य आगमनं दस्यीनाञ्चचोपनिपातस्तैश्च तस्य वधः ।
तत्र देवदत्ततस्युसमागमः काकतालसमागम इवेति एक उपमार्थः ।
तद्वधः काकवध इवेति द्वितीयः ।
आद्यः समासार्थः काकतालमिति ।
द्वितीयस्तद्वितार्थः काकतालीयमिति ।
समासश्चायम् ।
अस्मादेव ज्ञापकात्"समासाच्च तद्विषया"दाकस्मिक इवार्थेच्छ्रो भवतीति ।
तद्विषयादिवार्थविषयादित्यर्थः ।
एवमर्धजरतीयं अजाकृपाणीयं घुणाक्षरीयमित्यादौसमासतद्धितौ ज्ञेयौ ।
भेदानाहएष इति ।
कुलमिति ।
यैर्जनो दर्पं व्रजति, त एव तवाङ्कुशाः उन्मार्गनिवारकाः ।
योजयतिअत्रामालिन्येति ।
अमालिन्यं शोभनत्वहेतुः ।
एकैकं चैतन्यस्य तत्करत्वं दर्शयतिदुर्वारा इति ।
मन्मथसुहृद्वसन्तादिः शठो वञ्चकः ।
योजयतिअत्र स्मरेति ।
नववयः प्रभृतेः कथमशोभनत्वमित्यत आहनववय इत्यादि ।
शशीतिशश्यादि विशेष्यं शोभनं धूसरत्वादि विशेषणवशादशोभनमिति विशिष्टस्य द्वैरूप्यम् ।
तत्र तथाविधैः कामिन्यादिभिःसमुञ्चीयते ।
योजयतिअत्र शशिन इत्यादि ।
अन्यथा तु न योजनीयमित्यत आहन त्वत्रेति ।
न व्यख्येयस्तथा ।
सदसद्योगविवक्षणादिति शेषः ।
अत्राक्षिपतिननु नृपेति ।
नृपाङ्गण खलयोर्द्वयोरप्यशोभनत्वादन्ये शोभना इति कथम् ।
न तथा समुच्चयः ।
परिहरतिनैतदिति ।
विशिष्टस्य द्वैरूप्यप्रक्रमे द्वयोरशोभनत्वम् ।
प्रक्रमभेदो वाक्यदोषः ।
प्रक्रमभेदा वलम्बेन चान्यैर्देषान्तरं उद्भावितमित्याहअत एवेति ।
विशेष्यान्तरं शोभनं खलत्वरूपं त्वशोभनमिति सहचरभिन्नोर्ऽथः ।
अत इत्थं विवक्षिणीयमित्याहप्रकृते त्विति ।
तथापि न दोषनिवृत्तिरित्याहएवमपीति ।
पूर्वोदाहरणे सदसद्योगमाशङ्कतेननु दुर्वारा इति ।
स्मरमार्गणादीनां शोभनत्वं दुर्वारत्वादीनामशोभनत्वमिति प्रतीतेः ।
परिहरतिनैतदिति ।
विवक्षाभेदे गमकमाहअत एवेति ।
सुन्दरत्वेनान्तः प्रविष्टानामपि शश्यादीनां धूसरत्वादिना वैयर्थ्यहेतुत्वमुपसंहृतम् ।
दुर्वारेत्यत्रत्वित्थं “शठः कथं सोढव्य” इति सर्वथा कष्टत्वमेवोपसंहृतम् ।
निगमयतितस्मादिति ।
एकक्रियायामन्यस्य क्रिया त्वन्यः समुच्चयः ।
सदसद्द्वैधयोगेन सत्रिधा संव्यस्थितः ॥
इति ॥
समाध्यर्थं सूत्रम्
कारणान्तरयोगात्कार्यसुकरत्वं समाधिः ॥ ६७ ॥
आरब्धस्य कार्यस्य कारणान्तरयोगात्सम्यगाधानं समाधिः ।
व्याचष्टेकेनचिदिति ।
समुच्चयेति सङ्गत्युक्तिः ।
समुच्चयवैधर्म्यं स्मारयतितद्वैलक्षण्यमिति ।
मानमिति ।
पादपतने कारणे गर्जितं कारणान्तरम् ।
योजयतिमाननिराकरण इति ।
उपकापरेति सौकर्यप्रकाशनम् ।
समाधिःसम्यगाधानं कारणान्तरयोगतः ।
सङ्गत्यरायाहएवं वाक्येति ।
प्रत्यनीकार्थं सूत्रम् ।
प्रतिपक्षतिरःसाकाशक्तौ तदीयतिरस्कारः प्रत्यनीकम् ॥ ६८ ॥
बलवतः तिरस्काराशक्तौ तदीयतिरस्कारः प्रत्यनीकम् ।
व्याचष्टेयत्र बलवदित्यादि ।
तत्सम्बन्धिनः बलवत्सम्बन्धिनः ।
तं बाधितुं बलवन्तं बाधितुम् ।
अत्र दृष्टान्तमाहयथा अनीक इत्यादि ।
प्रयोजनमाहप्रतिपक्षेति ।
यस्य किञ्चिदिति ।
यस्य कृष्णस्य ।
विग्रहः कलहः ।
कान्तेन बक्रेण सदृशाकृतिः ।
योजयतिअत्र राहोरिति ।
तत्तिरस्कारादिति प्रयोजनोक्तिः ।
तदीयस्य तिरस्कारः प्रत्यनीकमशक्तितः ।
प्रतीपार्थं सूत्रम्
उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम् ॥ ६९ ॥
उपमेयस्यैव पुष्कलगुणत्वविवक्षणेनोपमानस्य कैमर्थक्यं प्रातिकूल्यादेकं प्रतीपम् ।
यञ्चोपमानान्तरार्थं प्रसिद्धोपमानस्योपमेयत्वकॢत्पिरनादरात्दद्वद्वितीयम् ।
व्याचष्टेउपमेयस्यैवेत्यादि ।
यत्र चेति ।
चक्षुष एव मुण्डमालात्वमिति कुवलयदाम्नो नैरर्थक्यम् ।
अलङ्कारान्तरसंभेदेनापरमुदाहरतिलावण्येति ।
लावण्यौकस्त्वादिगुणानामुपमेय एव पौष्कल्यादिन्द्वाद्युपमानानां कैमर्थक्यम् ।
संभेदमनुस्मारयतिअत्र यथासङ्ख्यमपीति ।
ए एहीति ।
ए इत्यामन्त्रणे ।
अयि एहि तावत्सुन्दरि कर्णां दत्त्वा शृणु वचनीयम् ।
ततव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥
चन्द्रस्योपमानत्वं वचनीयमिति कथनात्चन्द्रस्य निकृष्टत्वेनोपमेयत्वेन कल्पनम् ।
प्रयोजनं तु मुखस्योपमानता ।
योजयतिअत्रोपमानत्वेनेति ।
क्वचितुपमानस्य सतः उपमानत्वमेव न्यक्करणादलङ्कारं समुत्थापयतीत्याहक्वचित्पुनरिति ।
गर्वमितिर् ।
इदृशानि नील नलिनानि सन्तीति उपमानाविर्भावः ।
एवं निःसामान्यस्य लोचनयुगलस्य न्यक्कारः ।
योजयतिअत्रोत्कर्षेति ।
यथात्रोपमेयस्य उपमानासहत्वं, तथैव अतिप्रकर्षादुपमान भूमिमप्यतिपतते ।
उपमानत्वकॢत्पिरपि प्रतीपमित्याहअनेनेति ।
अहमेवेति ।
दारुणात्वकाष्ठाप्रात्पस्य हालाहलस्य दुर्जनवचनो उपमानताकॢत्पिर्न्यक्काराय ।
तदेतद्योजयतिअत्र हालाहलत्वमिति ।
उपमानस्य कैमर्थ्यादुपमेयत्वकल्पनात् ।
द्विधा प्रतीपं क्काप्येतदुपमानत्वतोऽपि च ॥
निमीलितार्थं सूत्रम्
वस्तुना वस्त्वन्तरनिगूहनं निमीलितम् ॥ ७० ॥
वस्तु वस्त्वन्तरं सहजेन लक्ष्मणा यन्निगूहयति आगन्तुकेन वा तन्निगूहितत्वान्निमीलितम् ।
व्याचष्टेसहजेनेत्यादि ।
सामान्यतो भेदमाहन चायमिति ।
तस्य हि गुणसाधारण्याद्भेदानुपलक्षणम् ।
अस्य पुनरुत्कृष्टेन गुणेन निकृष्टस्य स्थगनम् ।
अपाङ्गेति ।
अङ्गेलीलया इति स्फुरितमित्थं लीलया प्रससारेत्यर्थः ।
दृक्तारल्या दिना सहजेन लक्षणेन लीला मदोदयहेतुकं दृक्तारल्यादि तिरोदधाति ।
योजयतिअत्र दृक्तारल्येति ।
ये कन्दरास्विति ।
त्वत्पादशङ्कितधियः त्वदा पातशङ्काचकिताः ।
अत्र हिममा गन्तिकलक्षणाभ्यां कम्परोमाञ्चाभ्यां भयकृतौ कम्परोमाञ्चौ स्थगयति ।
योजयतिअत्र हिमाद्रीति ।
निजेनागन्तुना वापि लक्षणेनान्यगोपनम् ।
निमीलिताख्योऽङ्कारः द्विप्रकारः प्रकाशितः ॥
सामान्यार्थं सूत्रम्
प्रस्तुतस्यान्येन गुणासाम्यादैकात्म्यं सामान्यम् ॥ ७१ ॥
प्रस्तुतस्य अप्रस्तुतेन गुणसाम्यादेकरूपत्वं सामान्ययोगात्सामान्यालङ्कारः ।
व्याचष्टेयत्र प्रस्तुतस्येत्यादि ।
अपह्नुतेर्भेदायाहन चेयमिति ।
अपह्नुतौ हि प्रकृतनिषेधेनाप्रकृतप्रतिष्ठापनमिहतु न तथा ।
किं तर्हि? ऐकात्म्यम् ।
मलयजरसेति ।
दन्तपत्रं करिदशनताटङ्कम् ।
अविभाव्यता गतिरैकात्म्यलिङ्गम् ।
योजयतिअत्र मलयजेति ।
प्रस्तुतस्यान्यतादात्म्यं सामान्यं गुणसाम्यतः ।
तदुणार्थं सूत्रम्
स्वगुणात्यागादत्युत्कृष्टगुणास्वीकारस्तद्गुणः ॥ ७२ ॥
परिमितगुणस्य वस्तुनोऽत्युत्कृष्टगुणस्वीकारस्तद्गुणः ।
व्याचष्टेयत्रेति ।
निर्वक्तितस्येति ।
निमीलिताद्भादमाहन चेति तत्र हि वस्त्वन्तरनिगूहनम् ।
इह त्वनिगूहितस्य तद्गुणेनोपरागः ।
विभिन्नेति ।
अरुणेन वर्णाभेदं नीता रथवाहा यत्र वंशाङ्कुरनीलैर्मरकतरत्नैः प्रभया पुनः स्वां प्रभां आनिन्यिरे ।
अत्राश्वानामारुण्ये तद्गुणता ।
आरुण्यस्य च हारित्येन ।
योजयतिअत्र रवीति ।
तद्गुणाःस्वगुणत्यागादुत्कृष्टस्य गुणग्रहः ।
सति हेतौ तद्रूपाननुहारोऽतद्गुणाः ॥ ७३ ॥
तद्रुणविपरीतोऽतद्गुणः ।
सङ्गतिं व्याचष्टेतद्गुणेति ।
उत्कृष्टगुणवस्तुप्रत्यासक्तौ हि न्यानगुणस्य तद्गुणस्वीकारो न्यायोपपन्नः ।
प्रस्यासत्ता वप्यननुहरणमतद्गुणालङ्कारः ।
निर्वक्तितस्योत्कृष्टस्येति ।
यदि वेति ।
निरुक्त्यन्तरमनुहरणाहेतौ सत्यपि अननुहरणाततद्गुणः ।
अत्र विगृह्णातितस्या प्रकृतस्येति ।
इत्थमियं द्विधा ।
धवलोऽसीति धवलोऽसि यद्यपि सुन्दर! तथापि त्वया मम रञ्जितं हृदयम् ।
रागभरितेऽपि हृदये सुभग! निहितो न रक्तोऽसि ॥
धवलो युवा वलक्षश्च ।
रागभरितहृदयनिधानेऽप्यरक्तत्वमतद्रुणाः ।
गाङ्गमिति ।
अङ्गेति सम्बोधनम् ।
चीयते उपचीयते ।
अत्र अप्रकृतरूपाननुहारः ।
उभयत्र योजयतिपूर्वत्रेत्यादि ।
प्रथमार्धे कोऽलङ्कार इत्यत आहधवलोऽसीति ।
धवलस्यापि रञ्जने अतद्रुणत्वं स्फुटमेव ।
यतः कार्यकारणेति ।
विषमवैधर्म्यं व्यक्तम् ।
न तद्रुणेऽनुहारस्तु गुणताद्रूप्ययोर्द्विधा ।
उत्तरार्थं सूत्रम्
उत्तरात्प्रक्षोन्नयनमसकृदसम्भाव्यमुत्तरं चोत्तरम् ॥ ७४ ॥
प्रश्रानुपादानेऽप्युत्तरा दुन्नयनमेकमुत्तरमुपात्तस्य च प्रश्रस्य यदसम्भाव्यमसकृदुत्तरं तद्द्वितीयम् ।
व्याचष्टेयत्रानुपनिबध्यमान इत्यादि ।
अतिव्यात्पिं परिहरतिन चेदमिति ।
त्रैरूप्यनिर्देशो ह्यनुमानलक्षणम् ।
द्वितीयस्य स्वरूपमाहयत्र चेति ।
तत्र नियममाहतच्चेति ।
अत्र अतिव्यात्पिं परिहरतिन चेयमिति ।
परिसंख्यायां व्यवच्छ्रेद्यव्यवच्छेदकभावः विवक्ष्यः ।
अत्र स्वविवक्षा ।
एकाकिनीतिकिं याचसे वासयाचनेन किमित्यर्थः ।
का विसमेति ।
का विषमा दैवगतिः किं (लब्धं)यज्जनो गुणग्राही ।
किं सौख्यं सुकलत्रं किं दुःखं यत्खलो लोकः ।
यत्र दैवगत्यादि गूढत्वादप्रतिसम्भाव्यम् ।
उत्तरं योजयतिपूर्वत्रेत्यादि ।
असकृदिति ।
नानात्वनियमोद्धाटनम् ।
“उत्तरं प्रश्रपिशुनं असम्भाव्योत्तरं द्विधा ।
" सङ्गत्यन्तरायाहैतः प्रभृतीति ।
सूक्ष्मार्थं सूत्रम्
संलक्षितसूक्ष्मार्थंप्रकाशनं सूक्ष्मम् ॥ ७५ ॥
इङ्गितादिभिःसंलक्षितस्य सूक्ष्मार्थस्य विदग्धाय प्रकाशनं सूक्ष्मम् ।
व्याचष्टेइह सूक्ष्म इत्यादि ।
कुशाग्रवत्तीक्ष्णा कुशाग्रीया ।
अत इदमिङ्गिताकाराभ्यां द्विधा ।
आकूतव्यञ्जिताश्चेष्टां इङ्गितं बुद्धिकारिताः ।
आकाराः पुनराम्नातास्ता एवाबुद्धिकारिताः ॥
यथा तारापुटभ्रूद्दष्ट्यादेर्विकारानिङ्गितं विदुः ।
आकाराःसत्त्वजा भावा आद्या बुद्ध्यापरेऽन्यथा ॥
सङ्केतेतिकालमनसं कालं ज्ञातुमनसमित्यर्थः ।
नेत्रार्पिताकूतं नेत्राभिव्यञ्जितभावमित्यर्थः ।
सङ्केतकालमनसो ज्ञानं भ्रूकटाक्षादि ।
तदीयेङ्गितेन ज्ञात्वेति सूक्ष्मार्थं सलक्षणम् ।
पद्मनिमीलनं तु प्रकाशनम् ।
योजयति ।
अत्र सङ्केतेति ।
वक्त्रस्यन्तीतिस्वेदेन आकारस्तेन कुङ्कुमभेदात्पुरुषायितज्ञानं सूक्ष्मार्थंसंलक्षणं खङ्गलेखस्तु तत्प्रकाशनम् ।
योजयतिअत्र स्वेदेति ।
सूक्ष्मं तु सूक्ष्मं संलक्ष्य विदग्धेषु प्रकाशनम् ।
इङ्गिताकारतः सूक्ष्मसंलक्षणामिति द्विधा ॥
व्याजोक्त्यै सूत्रम्
उद्भिन्नवस्तुनिगूहनं व्याजोक्तिः ॥ ७६ ॥
कुतश्चिन्निमित्तात्प्रकाश्यास्यगूढवस्तुनो व्याजवचसा निगूहनं व्याजोक्तिः ।
व्याचष्टेयत्र निगूढमित्यादि ।
वःस्वन्तरप्रक्षेपेति निरुक्तिः ।
शैलेन्द्रेति ।
प्रतिपाद्यमाना दीयमाना ।
आदिशब्दात्स्तम्भवेपथू ।
विधिव्यसङ्गः क्रियाशक्तिः ।
शैलान्तःपुरेण मातृमण्डलेन गाणैश्च दृष्टः ।
योजयतिअत्र रोमाञ्चेति ।
असामञ्जस्यं शमयितुमाहयद्यपीत्यादि ।
अपलापमात्रं चिन्तयेति सस्मितस्वकथनात्पुनः प्रकाशनं लक्षणतयान चिन्तनीयमिति भावः ।
उल्लेख उट्टङ्कनम् ।
अव्यासिमाशङ्कतेनन्वपह्नुतीति ।
उत्तरः प्रकारः अपह्ववाय सादृश्यं इत्येवमात्मकः ।
परिहरतिसत्यमिति ।
तत्र तथोक्तिः उद्भटसिद्धान्ताश्रयेण ।
तन्मते व्यजोस्त्यनुपवर्णानात्तथापह्नुतिसम्भवः ।
इह तु व्याजोक्त्युपवर्णनात्सोऽपह्नुति प्रकार एव नास्तीत्येकैवापह्नुतः ।
अत इयं व्याजोक्तिरेव ।
व्याजोक्तिर्त्र्याजवचनेनोद्भिन्नस्य निगूहनम् ।
अपह्नवाय सादृश्यमिष्टा नापह्नुतिर्यतः ॥
वक्रोक्त्यर्थं सूत्रम्
अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथा योजनं वक्रोक्तिः ॥ ७७ ॥
एकाभिप्रायेणोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथाभिप्रायेण योजनं वक्रोक्तिः ।
ससङ्गतिकं व्याचष्टेउक्तिव्यपदेशेति ।
गुरुपरतत्रेति ।
दूरतरं गन्तुमुद्यत इति नायिकोक्तिरसौ ।
गुरुपरतन्त्रतया असौ गुरुपरता समयेऽस्मिन्नैष्यति न नेष्यतीति काकुगर्भसख्युक्तिः ।
योजयतिएतद्वाक्यमिति ।
ननु गमनविधिनिषेधौ शाब्दौ ।
तस्माद्रमननिषेधविधिर्योजितौ ।
अत आहकाकुवशेतिर् ।
इदृशि विषये काकोर्निषेधद्योतकत्वात्विपरीतार्थसंक्रान्तिः ।
अहो केनेतिदारुणा घोरा काष्ठेन च ।
योजयतिअत्रेति ।
त्वं हालाहलेति ।
हालाहलवान्मूर्छ्रां करोषीति देवी ।
देवस्तु हालां सुरां न विभर्मि नापि च हलं सीरम् ।
किंहलवत्तया हालिकोऽसि इति पुनर्देवी ।
गोवाहने शक्तस्यहालिकतैव सत्यमिति ।
अत्र हालाहलेति सभङ्गश्लेषः ।
विजय इति ।
कुलकात्मकं वाक्यम् ।
विजये इति देवीकर्तृकं विजयासंबोधनम् ।
देवस्योक्तौ जित्वरतायां शक्तोऽस्मि ।
न तु त्र्यक्षोऽहमक्षद्वयसद्भावादिति ।
अक्ष शब्दःपाशवचनः ।
किं म इति देव्याह ।
दुरोदरेण लम्बोदरेण नार्थश्चेत्गणपतिपरसरतु ।
देव्याहको द्वेष्टि विनायकम्? देव आहअहिलोक इति ।
इह विनायको गरुडः ।
चन्द्रेति ।
चन्द्रग्रहणेन इन्दु पणेन विना न रमे इति देवी ।
देवस्तु चन्द्रग्रहणापेक्षा चेद्राहुराहूयताम् ।
हा राहाविति ।
राहौस्थिते हा! कस्य रकिरिति देवी ।
देवस्तु हारारगोऽपनीयतामिति ।
वस्तुरहितेनेति ।
वसुद्रविणां वसवोऽष्टौच ।
आरोपयसीति ।
अङ्कः अङ्कनञ्चनञ्चलनं उत्सङ्गश्च ।
इति(कृत)पशुपतिपिति ।
पाशका अक्षाः ।
ननु विच्छित्तिरूपत्वात्सर्व एवालङ्कारो वक्रोक्तिरित्यत आहवक्रोक्तीति ।
अन्यथा योजनं वाक्ये वक्रोक्तिरभिधीयते ।
द्विप्रकारा च विज्ञेया काकुश्लेषसमाश्रयात् ॥
स्वभावोक्त्यर्थं सूत्रम्
सूक्ष्मवस्तुस्वभावस्य यथावद्वर्णनं स्वभावोक्तिः ॥ ७८ ॥
कविप्रतिभागोचरस्य स्वभावस्य सम्यग्वर्णनं स्वभावोक्तिः ।
व्याचष्टेइह वस्त्विति ।
अत एवेति ।
कविमात्र गम्यत्वात् ।
कविना निर्मित एव ।
उक्तिवचनमुक्तिशब्दः ।
अनेन सङ्गतिवैधर्म्यं वर्णयिष्यत इत्याहभाविकेति ।
हुङ्कारेतिकुन्तलगतिकण्डूव्यपनयने तन्व्या हुङ्कारः कृतिनः कर्णावतंसीभवेत् ।
कीदृशः ? चञ्चुपुटाकारया नखकोट्या यद्व्याघट्टनं तेनोट्टङ्कितःसीत्कारोपशोभि च ।
कीद्दशस्य? पृष्ठश्लिष्यत्कुचाङ्कपालीसुखेनाकेकरदृशः ।
स्वभावोक्तिर्बुधोन्नेयवस्तुस्वाभाव्यवर्णनम् ।
अथ प्रतीतिवैचित्र्यात्तारतम्यनिरूपणैः ।
भाविकं दूरदुर्लक्षं व्यक्तं व्याक्रियतेतमाम् ॥
तत्र सूत्रम्
अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् ॥ ७९ ॥
भूतभाविनोः अर्थयोः अत्यद्भुतत्वादनाकुलसम्बन्धशब्दसमर्पितत्वाच्च प्रत्यक्षायमाणात्वं भाविकम् ।
व्याचष्टेअतीतेत्यादि ।
कविगतेति ।
कविभावस्य श्रोतरि प्रतिबिम्बतापत्तिर्भाविकमित्यर्थः ।
भावो वेति ।
भावि भाविकस्य भावनैकप्राणत्वात् ।
निरुक्त्यन्तरं, सोऽत्रा(स्ती०)ति ।
भाविकमित्यनुषङ्गः ।
ननु मुनिर्जयतीत्युदाहरिष्यमाणे भूतभाविनोः प्रत्यक्षता भ्रान्तिः किं नेष्यत इत्यत आहन चेयमिति ।
भूतभाविनोर्भूतभावित्वेनैव प्रत्यक्षीभावे का भ्रान्तिरिति भावः ।
ननु भूतभाविनोर्भूतभावित्वेन प्रकाशने वस्तुवृत्तमात्रमित्यत आहनापि रामोऽभूदित्यादि ।
रामोऽभूदिति वस्तुवृत्तान्तमात्रे हि न प्रत्यक्षायमाणता ।
इह तु स्फुटस्य प्रत्यक्षत्वस्य उपलम्भः ।
न हि प्रत्यक्षत्वेन अध्यवसायादतिशयोक्तिरित्यत आहनापीयमिति ।
तत्र हेतुः ।
अन्यस्यान्यतयेति ।
अतिशयोक्तौ हि अन्यदन्यतया अध्यवसीयते इह तु न तथा ।
भूते भाविनि प्रत्यक्षत्वेच अन्यत्वाधायवसायाभावः ।
एतदुपदर्शयतिन हि भूतभावीति ।
भूतमभूतत्वेन भाविन अभावित्वेन ना ध्यवसीयते ।
एतद्विपर्ययोऽपि नास्तीत्याहअभूतभाविवेति ।
यञ्चात्र प्रत्यक्षत्वं तदप्यन्यथा अध्यवसीयते इत्याहन चापीति ।
विपर्ययोऽपि नास्तीत्याहअप्रत्यक्षं वेति ।
ननुभूतभाविनोः अप्रत्यक्षयोः प्रत्यक्षायमाणत्वमन्यथाध्यवसाय इत्यत आहन हि प्रत्यक्षत्वमिति ।
यदि प्रत्यक्षत्वं केवलवलस्तुधर्मः तदा भूतभाविनोरप्रत्यक्षता ।
वर्तमानस्य तु प्रत्यक्षत्वमिति भवेद्व्यवस्था ।
न हि प्रत्यक्षत्वं केवलवस्तुधर्मः ।
किं तर्हि? प्रतिपत्त्रपेक्षयैव प्रत्यक्षस्येति वस्तुधर्मता ।
न हि प्रतिपत्तारमनपेक्ष्य वस्तुनि प्रत्यक्षता नाम काचित् ।
अत्र प्रामाणिकसंवादायाहयचदाहुरित्यादि ।
यो ह्यर्थः स्वग्रहकप्रतिपत्तुः ज्ञानप्रकाशं स्वान्वयव्यतिरेकावनुकारयति ।
स्वयमस्ति चेत्ज्ञानप्रतिभासोऽस्ति, नास्तिचेन्नास्तीति व्यवस्थापयति ।
स प्रत्यक्ष इत्यर्थः ।
अतः प्रत्यक्षत्वं न केवलं वस्तुधर्मः प्रतिपत्तुस्तु सामग्री तत्र उपयुज्यत इत्याहकेव्रलमिति ।
असामग्रीके प्रतिपत्तरि न वस्तु प्रत्यक्षीभवतीत्येतावद्वक्तुं शक्यते ।
न तु प्रतिपत्त्रन पेक्षेति भावः ।
तां सामग्रीं विवेचयति सा चेति ।
लोकयात्रायां लौकिकार्थं प्रत्यक्षीकरणे देशकालादिव्यवधानादतीन्द्रियेर्ऽथे योगिनामैकाग्षात्मकभावनारूपा ।
साक्षात्करणसामग्री काव्यवस्तुगतमत्यद्भुतत्धं योजयति(सा चेति । )
अत्यद्भुतानि हि वस्तूनि आदरप्रत्ययेन हृदि सन्धार्यमाणानि तथा भावनां प्रयोजयन्ति ।
इत्थं च सतिलिकयात्रायां वर्तमानार्थसाक्षात्करणसामग्री चक्षुरादिर्योगिनां काव्यतत्त्वविदां चातीतानागतार्थसाक्षात्करणभावना ।
अतो योगिवत्काव्यतत्त्वविदामतीतार्थसाक्षात्कारो नान्यथाध्यवसाय इति नातिशयोक्तिः शङ्क्या ।
ननु प्रत्यक्षतयैव प्रतीयन्ते भूतभाविन इति प्रतीयमानोत्प्रेक्षा किं न स्यादित्यत आहनापि भूतभाविनामिति ।
तत्र हेतुः तस्याभिमानेति ।
अभिमानःसंभावना तद्रूपस्याध्यवसाय इति उत्प्रेक्षाया लक्षणम् ।
न ह्यत्राप्रत्यक्षं प्रत्यक्षतया संभाव्यते ।
किं तर्हि? प्रत्यक्षं दृश्यते ।
अतो नोत्प्रेक्षा ।
अनुत्प्रेक्षात्वे गमकान्तरमाहनापि वस्त्विति ।
पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षात्वे गमकान्तरमाहनापि वस्त्विति ।
पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षायाः ।
तत्र हेतुःतस्या अभिमानेति ।
उत्प्रेक्षा हि अभिमानरूपा प्रतिपत्तॄधर्मः ।
तस्मादभिमानगोचर एव इवार्थं उत्प्रेक्षाप्रयोजक इति भावः ।
अत्र संवादायाहयदाहुरित्यादि ।
सुखादिवज्ज्ञानधर्मेऽभिमानेऽध्यवसायोक्तिरित्यर्थः ।
ननु प्रतिपत्तॄधर्मोऽध्यवसायस्तर्हि प्रयोक्तुः कवेः न स्यादित्यत आहकाव्यविषये चेति ।
कविरपि खलु काव्ये सहृदय एव ।
अतो नेयमुत्प्रेक्षा ।
नन्वद्भुतदर्शनात्प्रत्यक्षत्वमिहेति काव्यलिङ्गमित्यत आहनाप्यत्यद्भुतेति ।
अत्यद्भुतपदार्थसाक्षात्कारो हि प्रत्यक्षायमाणत्वे हेतुः ।
अकाव्यलिङ्गत्वे हेतुमाहलिङ्गलिङ्गीति ।
हेतुत्वे सत्यपि लिङ्गलिङ्गिभावेन नेह प्रतीतिः ।
तथात्वे पारोक्ष्यं प्रसजेदिति भावः ।
कथं तर्हि प्रतीतिरित्यत आहयोगिवदिति ।
नन्वत्यद्भुतत्वहेतुका सचमत्कारप्रतीतिरिह पुरः स्फुरतीव ।
अतोऽत्यद्भुतत्वहेतुको रसवदलङ्कार एव इत्यत आहनाप्ययमिति ।
तत्र हेतुः रत्यादीति ।
परिपाट्यापि सचमत्कारप्रतीतेः पुरः स्फुरणा साधारणी, अथापि न भाविकरसवतोरभेदः ।
कुतः? रतिहासादिचित्तवृत्तीनां तदनुरञ्जितत्वेन विभावानुभावव्यभिचारिणां च यदा परमाद्वैतज्ञानिवत्ममैव शत्रोरेवेत्यादिविशेषपरिहारात्साधारण्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः ।
विभानादीन् रसवत्प्रस्तुतौ विवेचयिष्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः ।
विभावादीन् रसवत्प्रस्तुतौ विवेचयिष्यामः ।
इह तुभूतभाविनां प्रतीतिर्न साधारण्येन अपितु प्रतिपत्तुः ताट्स्थ्येन ।
स्फुटतया तादस्थ्यं हि भेदः ।
यथा साङ्ख्यादिसिद्धानां भेदे न सर्वं जानतां प्रतीतिः ।
ननु ताटस्थ्येन प्रतीतावतीतादिस्फुटत्वं हेतुः ।
स्फुटप्रतीतिश्च प्रमुखे निष्पत्तौ तु साधारण्यप्रतीतिरेव ।
अतः कथं भाविकमित्यत आह स्फुटप्रतिपत्तीति ।
स्फुटप्रतिपत्तिनिमित्तकस्फुटप्रतीत्युत्थापितभाविकहेतुक इत्यर्थः ।
“मुनिर्जयति"त्यादौ हि कुम्भसम्भवादिवृत्तमादौ ताटस्थ्येन अतीतादिरूपतया प्रतीयते तदैव भाविकसिद्धिः ।
अथोक्तरकालं प्रतिपत्तॄप्रतीतेः ताद्रूप्यापत्त्या विभावादीनां साधारण्ये रसवान् भाविकहेतुकःस्यात् ।
न चैतावता भाविकापलापःशक्यत इति यावत् ।
नन्विह सुन्दरवस्तुस्वभावश्चेन्न वर्ण्येत ततस्तदप्रत्यक्षायमाणता ।
अतःस्वभावोक्तिरित्यत आहनापीयमिति ।
तत्र हेतुः तस्यां लौकिकेति ।
स्वभावोक्तेर्हि लौकिकानामेव वस्तूनां यःसूक्ष्मो धर्मः प्रेक्षावत्प्रतिभैक समधिगम्यस्तस्य वर्णने हृदयसंवादःसाधारण्येन ।
इह पुनरत्यद्भुतत्वेनालौकिकानां वस्तूनां प्रतीतिः तटस्थतया ।
अतो हृदयसंवादातिरिक्तानामंसानां वैलक्षण्यम् ।
ननु लौकिकवस्तुप्रतीतिसाधारण्ये स्वभावोक्तिः, अलौकिकवस्तुप्रतीतिस्फुटत्वेतु भाविकमिति व्यवस्था ।
यदि लौकिकवस्तुप्रतीतेःस्पुटत्वं तदा किं स्यादित्यत आहक्वचित्त्विति ।
लौकिकवस्तुबलात्स्वभावोक्तिः ।
स्फुटत्वप्रतीतिबलात्भाविकमतःसङ्करः ।
हृदयसंवादसाधारण्यात्स्वाभावोक्तिरसवतोर्योऽयमभेदः प्रसङ्गात्प्रतीतस्तत्र विवेचयतिन च हृदयसंवादेति ।
स्वभावोक्तौ रसवति च यद्यपि साधारण्येन हृदयसंवादःसचेतसां, तथापि नानयोरभेदः ।
तत्र हेतुः वस्तुस्वभावेति ।
सत्यपि साधारण्ये वस्तुस्वभावस्य संवादः स्वभावोक्तौ रसवति तु चित्तवृत्तेः ।
वस्तुस्वभावचित्तवृत्तिरूपत्वातनयोःसंपाते तु सङ्करः इत्याहौभयसंवादेति ।
समावेशःसङ्करः ।
समावेशघटने लिङ्गमाहयत्र वस्तुगतेति ।
यत्र चित्तवृत्तिसंवादवति विषये वस्तुगतसूक्ष्मधर्मवर्णना स्यादित्यर्थः ।
अन्यत्रत्विति ।
सूक्ष्मवस्तुधर्मवर्णनाविरहिणि चित्तवृत्तिसंवादमात्रशालिनि विषये रसवानेव ।
ननु व्यस्तसम्बन्धरहितसन्दर्भसमर्पितत्वमिह लक्षणं तथात्वे च प्रसादाख्यो गुण एवेत्यत आहनाप्ययं शब्देत्यादि ।
इह यद्यपि झटित्यर्थसमर्पणं शब्दानाकुलत्वहेतकः अथापि नायं प्रसादः ।
तत्र हेतुः तस्य हि स्फुटा स्फुटेत्यादि ।
स्फुटोऽस्तु वाक्यार्थो अस्फुटो वा ।
तदुभयगतत्वेन झटिति समर्पणं प्रसादस्वरूपम् ।
यदाह शुष्केन्धनाग्निवत्स्वच्छ्रजलवत्सहसैव यत् ।
व्याप्नोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः ॥
इति ॥
अत्र शुष्केन्धनाग्निवदित्यस्फुटं वाक्यार्थं प्रस्युपमोक्तिः स्वच्छ्रजलवदिति स्फुटं प्रति ।
अतःसर्वत्र विहित स्थितित्वेन झटिति समर्पणं रूपं प्रसादस्य ।
अस्य तु प्रसादे झटिति समर्पितस्य स्फुटत्वेन प्रतीतौ सत्यां समनन्तरं स्वरूपप्रतिलम्भः ।
स्वरूपं हि अस्यश्रोतरि कविगतभावप्रतिबिम्बनं पौनःपुन्येन चेतसि विनिवेशस्वभावभावनात्मकं वा ।
तथाविधस्य तु प्रतिबम्बनं स्फुटप्रतीत्युत्तरकालमेव ।
अतः प्रसादोऽस्याङ्गत्वेन प्राक्सिद्धिकः ।
अयं तु तदुपकृत(स)मनन्तर(स्व)सिद्धिकः ।
ततोऽन्य एव ।
अदो न कुत्रचिदन्तर्भीव इति निगमयतितस्मादयमिति ।
सर्वोत्तीर्णः भ्रान्त्यादिषु प्रसादगुणान्तरशङ्कितेष्वेकत्रापि नान्तर्भावयितुं शक्य इत्यर्थः ।
इत्थं लक्षणतोऽस्यनानुपपत्तिः काचित् ।
लक्ष्यतोऽपि प्राचुर्यमित्याहलक्ष्ये चायमिति ।
मुनिर्जयतीति ।
मननात्मुनिः ।
योगीन्द्रत्वान्महात्मा ।
स्वयं तु कुम्भसंभवः ।
तथाविधेन येन एकस्मिन्नेव चुलुके पिपासोद्धृतनिरवशेषार्णवार्भ्भसि प्रसृतिगर्ते दिव्यौ अमानुषानुभावातिशयौ विष्णोर्दशावतारेषु प्रसिद्धापदानौ मत्स्यकच्छ्रपौ यदृच्छ्रया चुलुकान्तर्भावात्पर्याकुलं लुठन्तौ दृष्टौ ।
अत्रातीतवृत्तोऽपि मुनिः अलौकिकत्वेनात्यद्भुतःसन्नादर प्रत्ययेन हृदि सन्धार्यमाणत्वातनाकुलसन्दर्भसमर्पितत्वाच्चप्रत्यक्षायमाणः तथाविधं कविभावं प्रतिपत्तॄषु प्रतिबिम्बयति पौनःपुन्येन चेतसि भावनां विनिवेशयतीति भावकत्वम् ।
प्राचुर्यार्थमुदाहरणान्तराणियथा वा हर्षचरितेत्यादिना ।
हर्षचरितप्रारंभे हि देवीं सरस्वतीं अभिशत्पवते क्रोधमुनये क्रुद्धानां वेदानां स्वरूपमुपवर्णितम् ।
यथा “रोषविमुक्तवेत्रासनैरोङ्कारमुखरमुखैरुत्क्षेपडोलायमानजटाभारभरि तदिग्भिः परिकरबन्धभ्रमितकृष्णाजिनपटच्छ्रायाश्यामायमानदिवसैरमर्षनि ः श्वासडोलाप्रेङ्खोलितब्रह्मयोकैः सोमरसमिवस्वेदविसरव्याजेन स्त्रवद्भिः अग्रिहोत्रपवित्रभास्मस्मेरललाटपट्टकुशतन्तुचीवरीभिराषाढिभिः प्रहरणीकृतदण्डकमण्डलुमण्डलैः मूर्तैः चतुर्वेदैरिति” ।
योजनायाहअत्र हि प्रत्यक्षमिवेति ।
ननु वर्णानावशात्प्रत्यक्षायमाणत्वं किं भाविकविषयः आहोस्विदनुभावविशेषात्प्रत्यक्षायमाणस्य सतो वर्णनमित्यत आहअयं त्वत्रेत्यादि ।
लेश इत्यल्पावशिष्टता आहवर्णानावशादिति ।
भणितिमाहात्म्यमाविष्करोति प्रत्तयक्षायमाणस्यैवेति ।
भणितिमाहात्म्यनैरपेक्ष्येण निजानुभावविशेषादेव प्रत्यक्षायमाणत्वमनुसन्धत्ते ।
अनातपत्रोऽपीति ।
अत्र अनातपत्रोऽपि सितातपत्रैरिव वृतत्वमचामरस्यापि बालव्यजनेनैवोपलक्षितत्वम् ।
अनुभावविशेषादेव प्रत्यक्षायमाणत्वं वर्ण्यते न तु वर्णनावशात्प्रत्यक्षायमाणता ।
इत्थं विषयद्वये अवस्थिते भाविकमेकत्रैवेत्याहअत्र प्रथमप्रकारेति ।
न प्रकारान्तरगोचर इति यदुक्तं तत्र हेतुः कविसमर्पितानामिति ।
ये हि कविना प्रतिभया समर्प्यन्ते मुखादौ चन्द्रत्वकमलत्वादयो धर्मास्तेषामेवाङ्कलारत्वम् ।
न तु परमार्थतःसन्निविशिष्टानां हिमांशुलावण्यादीनाम् ।
अतो द्वितीयप्रकारे प्रत्यक्षायमाणत्वं वस्तुसन्निवेशीति न भाविकालङ्कारः ।
युक्त्यन्तरेणापि द्रढयितुमाहअपि च शब्दानाकुलतेत्यादि ।
चकारादभूतभावित्वादयः शब्दानाकुलता चेति हेतवो भामहानुशासने उद्भटलक्षणे च अनाकुलत्वरूपं यदेतद्व्यस्तसम्बन्धरहितशब्दसमर्पितत्वं प्रत्यक्षायमाणात्वप्रतिपादकमुक्तं तत्कथं प्रयोजकीभवेत् ।
वस्तुमन्निवेशिधर्मगतत्वेनापि भाविकसंभवे निष्प्र योजनमेव स्यात् ।
अतो न द्वितीयप्रकारे भाविकमिति निगमयतितस्माद्वास्तवमेवेत्यादि ।
अत्र उत्तरे प्रकारे ननु वास्तवेऽपि सौन्दर्ये लौकिकतया मा भूद्विच्छित्तिः ।
कवेः ककविनिबन्धस्य वा वक्तुः निबन्धवशादस्त्येव सकलव्यवहर्तृगोचरीभातता दुरपह्नवाविच्छित्तिः ।
तत्र कुतो न भाविकमित्यत आहयदि तु वास्तवमपीत्यादिना ।
यदि वस्तुसन्निवेश्यपि सौन्दर्यनिबन्धवशात्सविच्छित्तिकं प्राञ्च आचार्याः स्वभावोक्तिवदलङ्कारतया वर्णयेयुः तदा अयमपि वास्तवसौन्दर्यविषयतया समाशङ्कितो भाविकप्रकारो नातीव दुःश्लिष्ट एव सत्यां सामग्याम् ।
अयमिहाशयःयथा हि स्वभावोक्तिः वास्तवसौन्दर्यावलम्बिनी वस्तुस्वभावसौक्ष्म्यात्साधारण्येन सचोतनसंवादाच्च विच्छित्तिमती वर्णिता तथैव वास्तवसौन्दर्यावलम्बितया निबन्धा द्विच्छित्ति विशेषोऽयमलङ्कारतया वर्णनीय एव ।
तथा च सतिभूतभावित्वादि सामग्रीसद्भावेऽन्यकल्पनागौरवादयमपि भाविकप्रकार इति उन्मीलनं योग्यतया सुशकमेव ।
उन्मीलिता श्चोल्लेखभावोदयसन्धिशबलतादय अतिप्रथन स्वातन्त्र्येऽपि चिरन्तनसमयव्यतिक्रमः स्यादिति ।
अमुमेवाशयमाविश्चिकीर्षुः अभियुक्तसंवादायाहअतैवेत्यादि ।
भूतभाविनः प्रत्यक्षा इव यत्र क्रियन्ते इत्येतावदेव भाविकलक्षणमकारि यैः खलु तैरशब्दानाकुलत्वादिव लक्षणत्वेनोक्तम् ।
नापि वा वस्तुसन्निवेशिनः ।
सौन्द्रर्यस्यनिबन्धाद्विच्छित्तिः स्वभावोक्तितुल्यनयशालिनी अलङ्कारत्वेन प्रसिञ्जिता ।
अतो भूतभाविप्रत्यक्षवद्भाविकलक्षणस्य भाविकस्य शब्दानाकुलत्ववास्तव सौन्दर्यावलम्बेनापि भाविकप्रभेदोऽभ्यनुज्ञायते ।
यत इत्थं स्वभावोक्तिप्रतियोगितया मीमांसा प्रवर्तयितव्या, अतः सम्प्रति सङ्गतिमाहस्वभावोक्त्या किञ्चिदिति ।
वास्तवसौन्दर्यत्वं सादृश्यम् ।
तच्च लौकिकत्वसूक्ष्मत्वस्फुटत्वसाधारण्यताटस्थ्यप्रतीत्तयादिभिः वैधर्म्यप्राचुर्यातल्पकमित्यभिसन्धायोक्तंकिञ्चिदिति ।
सत्यपि सादृश्यं किञ्चिन्मात्रं अथापि न्यायसञ्चारायेहास्माभिः लक्षणमस्य कृतम् ।
योऽयं प्रत्यक्षवद्भावस्त्वतीतानागतार्थयोः ।
तद्भावबिम्बनाच्चित्ते विनिवेशाच्चभाविकम् ॥
नाविपर्ययतो भ्रान्तिः साक्षात्त्वान्नेतिवृत्तकम् ।
अन्यत्वानध्यवसितेर्नचात्रातिशयोक्तिता ॥
न परं वर्तमानार्थं धर्मः प्रत्यक्षतेष्यते ।
प्रतिपत्र्तनपे क्षायां प्रत्यक्षत्वपरिक्षयात् ॥
प्रत्यक्षत्वे च सामग्री भावनाद्भुतवस्तुजा ।
प्रत्तयक्षत्वं न संभाव्यमिह नोत्प्रेक्षणं ततः ॥
अलिङ्गलिङ्गभावाच्च काव्यलिङ्गं न चेष्यते ।
ताटस्थ्यात्स्फुटसंवित्तेः न तदा रसवद्भ्रमः ॥
पश्चात्साधारणीभावे रसवांस्तन्निमित्तकः ।
स्फुटत्वान्नर स्वभावोक्तिर्लोकोत्तीर्णस्य वस्तुनः ॥
स्वभावोक्तेः रसवतो भेदःसंवादभेदतः ।
न प्रसादगुणश्चैतद्यस्यादौत्तरकालिकम् ॥
वास्तवेऽपि हि सौन्दर्ये योग्यत्वादस्य सम्भवः ।
चिरन्तनानुरोधात्तु तथा व्यक्तं न कीर्तितम् ॥
भाविके बुद्धिसंवादो मया स्याद्यदि कस्यतचित् ।
व्याख्याशिल्पस्य निकषः स मे धीमान्भविष्यति ॥
उदात्ताय सूत्रम्
समृद्धि मद्धस्तुवर्णनमुदात्तम् ॥ ८० ॥
समृद्धिमतो वस्तुनः कविप्रतिभोत्थापितैश्चर्य वर्णनमुदात्तालङ्कारः ।
ससङ्गतिकं व्याचष्टेस्वभावोक्तावित्यादिना ।
यथावस्थितत्वं लौकिकत्वम् ।
आरोपितत्वं ककविकल्पितत्वम् ।
अव(सरः) प्रात्पिः ।
ऐश्वर्यलक्षितमिति लक्ष्यपदनिरुक्तिः ।
मुक्ताः केलीतिविसूत्रता छ्रिन्नसूत्रता ।
संमार्जनीभिः प्राङ्काणासीम्नि कृताः यत्कर्षन्तीति वाक्यार्थपरामर्शः ।
यदेतत्कर्षणं तत्त्यागलीलायितमित्यर्थः ।
उदात्तं तु समृद्धस्य वस्तुनः कविवर्णनम् ।
उदात्तान्तराय सूत्रम्
अङ्गभूतमहापुरुषचरितञ्च ॥ ८१ ॥
पूर्वमैश्वर्ययोग उदात्तत्वम् ।
इह पुनश्चरितस्य उदात्तत्वम् ।
अतःशब्दसाम्यात्सङ्गतिः ।
तदेतदाहौदात्तशब्देत्यादि ।
तदिदमितिअत्रारण्यं तद्वृत्तान्तः पातादङ्गी, यद्वृत्तान्तःपातात्रामचरितमङ्गम् ।
तदेतदाहअत्रारण्य इति ।
अस्य चेह कीर्तनं दर्शनान्तरानुसारेण ।
ध्वनिदर्शने तु द्वितीयोदात्तविषये रसवदादय एव ।
विवेचयिष्यते चैतत् ।
अङ्ग्यन्तरेऽङ्गतापन्नं महच्चरितलक्षणम् ।
द्वितीयोदात्तविषयो व्यात्पो रसवदादिभिः ॥
रसवदाद्यर्थं सूत्रम्
रसभावतदाभासतत्प्रशमानां निबन्धे रसवत्प्रेयऊर्जस्वसमाहितानि ॥ ८२ ॥
विभावादिभिः अभिव्यञ्जितोरत्यादिभावो रसः ।
तथा विभावानुभावैः सूचिता व्यभिचारिणः देवताविषया रतिश्च भावः ।
तावेवाविषयप्रवृत्तावाभासौ ।
प्रयास्यदवस्था तु प्रशमः ।
एषां चतुर्णामुपनिबन्धे परिपाट्या रसवान् प्रेयः ऊर्जस्वि समाहितमिति अलङ्कारा इति सूत्रार्थः ।
ससङ्गतिकं व्याचष्टेउदात्ते महापुरुषेत्यादिना ।
तदलङ्काराणां चित्तवृत्तिविच्छित्त्यात्मनामलङ्काराणामित्यर्थः ।
अत एवेति ।
यतश्वत्वारोऽपि चित्तवृत्त्यात्मानः अतःसमानयोगक्षेमतया युगपदेकसूत्रक्रोडीकारेण लक्षिताः ।
रसस्वरूपं विवेचयतितत्र विभावेति ।
रतिहासशोकादीनां वासनात्मनां स्थायिभावानां यानि लोके कार्यकारणसहकारीणि तानि काव्ये सन्दृब्धानि नाट्ये चाभिनीतानि गुणालङ्कारमहिम्ना चतुर्विधाभिनयमहिम्ना च विभावना दनुभावनाद्विशिष्याभिमुख्यचरणाच्च विभावानुभावव्यभिचारिणा उच्चन्ते ।
तैः प्रकाशितो व्यञ्चितो रत्यादिः सामाजिकचित्तवृत्तिविशेषः शृङ्गारादिको रस इति दिक् ।
विशेषः सम्प्रदायप्रकाशिन्यादौ ज्ञेयम् ।
इहानुपयोगान्न प्रपञ्च्यते ।
भावस्वरूपमाहभावो विभावेत्यादि ।
विभावानुभावाभ्यामिति ।
व्यभिचारिव्यञ्जने व्यभिचार्यन्तराभावोव्यञ्जितः ।
विभावानुभावाभ्यां व्यञ्जितो व्यभिचारि वाक्यार्थीभावदशायां भाव उच्यते ।
सोऽपि त्रयस्त्रिंशद्भेदः ।
निर्वेदग्लान्यादिरूपतया ।
तथा कान्ताव्यतिरिक्ते देवतादिविषये व्यञ्जितो रत्यादिरपि भावः ।
तस्माद्वूयभिचारिस्थाय्यात्मकतया भावो द्विजातिकोऽवगन्तव्यः ।
यदाह रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ।
भावः प्रोक्तः…………………. ॥
आभासयोःस्वरूपमाहतदाभासो रसेत्यादि ।
तच्छब्देन रसभावप्रत्यवमर्शः ।
आभासीभावस्तु अविषयप्रवृत्त्यानौचित्यात् ।
भावप्रशमस्वरूपमाहतत्प्रशम उक्तेत्यादि ।
उक्तभावप्रकाराणां निवृत्तौ प्रयास्यदवस्था भावप्रशम उच्यते ।
ननु रसेऽपि प्रशमः किं नोच्यते इत्यत आहतत्रापीत्यादि ।
रसस्य हि अखण्डनिरन्तरायप्रतीति चर्वणीयस्य परमविश्रान्तिरूपत्वात्मध्ये प्रयास्य दवस्था दुर्लक्ष्येति रसव्यतिरिक्तपरिशिष्टभेदविषयोऽयं प्रशमो द्रष्टव्यः ।
एषां च रसभावादीनामुपनिबन्धे परिपाट्या रसवदादयोऽलङ्काराः ।
चत्वार्यपि लक्ष्यपदानि निर्वक्तिरसो विद्यत इत्यादिना ।
यत्र हि व्यञ्जनोपस्कृतेऽर्भिधादिव्यापारात्मनि निबन्धे रसोऽस्ति तद्रसवत् ।
प्रियतरनिबन्धनमेव प्रेयोज्ञेयम् ।
ऊर्जो बलं तद्योगिनिबन्धनमेव ऊर्जस्वि ।
ननु निबन्धने बलं नाम किमित्यत आहअनौचित्येति ।
रसस्यानौचित्येन प्रवृत्तत्वात्दौर्बल्यम् ।
निबन्धने तु तदुपकृते बलयोगः ।
समाहितः परिहारः ।
कस्य? प्रकृतत्वादुक्तस्य भावभेदस्य यस्य प्रशम इत्यपि पर्यायः ।
ननु रसवदादिना द्वितायोदात्तस्य च का कक्ष्येत्यत आहतत्र यस्मिन्नित्यादि ।
यत्र हि भामहादिदर्शने वाक्यार्थीभावात्प्रधानभूता एव रसादयो रसवदाद्यलङ्काराः तत्र अङ्गभूतरसादिविषय उपपद्यते ।
कल्पो(?)द्वितीय उदात्तालङ्कारः ।
यस्मिंमस्तु रसवदादिरलङ्कारो अङ्गभूतरसादिविषय एव अङ्गिनस्तु रसादेरलङ्कार्यभावापन्नस्य रसभावादिध्वनिरूपतया व्यात्पत्वात्तत्र धव निदर्शने द्वितीयस्याङ्गभूतमहापुरुषचरितलक्षणस्योदात्तालङ्कारस्य विषयो नावशिष्यते ।
कुत इत्यत आहतद्विषयस्येति ।
इयमिह प्रक्रिया ।
यत्र रसादयो वाक्यार्(थी)भूताः तत्र रसवदादयोऽलङ्कारा इत्यलङ्कारमात्ररसिकानां भामहादीनां दर्शने ।
यदा तु अवाक्यार्थीभावादङ्गभूतो रसादिः, तदाङ्गभूतमहापुरुषचरितलक्षणो द्वितीय उदात्त उपपद्यते नाम ।
ध्वनिदर्शने तु काव्यात्मनो रसादेः प्राधान्यदशायां अलङ्कार्यत्वादलङ्कारभावानुपपत्तौ अङ्गभूता रसादयो रसवदाद्यलङ्काराः ।
तथा च सति रसभावादिनायकमहापुरुषचरिताविर्भावोऽपि रसभावाद्यङ्गभावानतिरेकी व्यङ्ग्यव्यञ्जकमन्बन्धात् ।
व्यञ्जकं हि महापुरुषचरितम् ।
व्यङ्ग्यं रसभावादि ।
व्यङ्ग्यभावाविनाभूताङ्गभावं रसवदलङ्कारस्यैव विषयः ।
व्यञ्जकमात्र विश्रान्तानां अनवगाढधियां द्वितीयोदात्तभ्रम इति ।
किं हास्येनेतिस्वप्नदृष्ट नायकं स्वरूपसन्दर्शननिह्नवपरिहासप्रवृत्तं मन्यमानस्य रिपुस्त्रीजनस्योक्तिवर्णनम् ।
किं हास्येन चिरात्प्रात्प्रःसन् पुनर्मे दर्शनं न प्रयास्यसि? निष्करुणता तवेयं प्रात्पिसमकालमेव प्रवासरुचिता इत्युदीरयन्नेवतमदृष्ट्वा “केनासि दूरीकृतः"इति वदन् व्यासक्तकण्ठग्रहो बुद्ध्वा रिक्तबाहुलयचस्तारं रोदितीति ।
अत्राङ्गाङ्गिनौ द्वावपि रसावङ्गी रसः ।
रसवान्मतान्तरे ।
स्वमते त्वङ्गभूतो रसवान् ।
अत उदाहरणमेतन्मतद्वयार्हम् ।
तदेतदभिसन्धायाहएतन्मतद्वयेऽपीति ।
तदेतद्विभज्य दर्शयितुमाहअत्र वाक्यार्थीभूत इति ।
वाक्यार्थीभावात्करुणे रसवान् ।
मतान्तर इति शेषः ।
अङ्गभावाद्विप्रलंभशृङ्गारो रसवान् ।
अस्मन्मत इति शेषः ।
एवंविधे हि विषये वाक्यार्थीभावातङ्गिनं रसं रसवन्तमन्ये प्रतिपेदिरे ।
अङ्गिभूतं तु द्विततीयोदात्तम् ।
ध्वनिदर्शनविदस्तु अङ्गिनो अलङ्कार्यतां अङ्गिभूतस्य रसवदादिरूपतां द्वितीयोदात्तासंभवं च सिद्धान्तितवन्तः ।
इयं च प्रक्रिया रसान्तरेष्वपि ज्ञेयेत्याहएवं रसान्तरेष्विति ।
उदाहार्यं उदाहर्तुमर्हं शक्यम् ।
प्रात्पकालता वोदाहरणस्य ।
अर्हे शक्ये प्रात्पकालतायां च कृत्यः ।
इत्थं रसवदलङ्कारे मतद्वयं कक्ष्यानिभागेनोदाहृतम् ।
प्रेयोऽलङ्कारादौ तु विशेषांशस्तु ज्ञात इति साधारण्येनोदाहीर्षुराहप्रेयोऽलङ्कारादाविति ।
गाढालिङ्गनेति ।
मानद मानखण्डन मामेत्यर्धोक्त्या भावावसानहर्षः प्रत्याय्यते ।
लक्ष्ययोदजनायाहअत्र नियिकाया इति ।
हर्षाख्यो व्यभिचारिभावः सम्भोगशृङ्गारंप्रति गुणात्वात्प्रेयोऽलङ्कार इति शेषः ।
व्यभिचारिभावः सम्भोगशृङ्गारंप्रति गुणात्वात्प्रेयोऽलङ्कार इति शेषः ।
व्यभिचार्यन्तरायोदाहरतितद्वक्त्रेति ।
अत्र चिन्तालक्षणोव्यभिचारी विप्रलंभशृङ्गाराङ्गतया प्रेयान् ।
तदेतदाहअत्र चिन्ताख्या इति ।
अलङ्कारान्तरभ्रमौ मा भूदेति पर्यायमस्याहएष एव चेति ।
प्रेयान् भावालङ्कारश्चेति पर्यायौ ।
भावशान्त्युदयादिभ्योऽस्य भेदमाहभावस्य चात्रेति ।
स्थितिरूपतायां भावालङ्कारः ।
शान्त्युदयाद्यवस्था तु पृथगलङ्कारा इति भावः ।
कौ तौ शान्त्युदयाविति अत आहशान्त्युदयेति ।
शान्त्यवस्था ऊर्जस्वी समनन्तरं समाहितत्वेन वक्ष्यते ।
उदयावस्था तु सन्धिशबलताभ्यां सह पृथगलङ्कारत्वेनेत्यर्थः ।
दूराकर्षणेति ।
कालकलामपि नावस्थितिं प्रकुरुते ।
अत्र विप्रलम्भशृङ्गारोऽनौचित्येन प्रवृत्तः देव्याःसीताया अविषयत्वाद् ।
अतो रसं गुणीकृत्य निबन्धनमेव बलादिति ऊर्जस्वी ।
औत्सुक्यव्यभिचारिणोऽप्यनौचित्यात्प्रेयोऽलङ्कारसङ्करः ।
तदेतदभिप्रेत्याहअत्र रावणस्येत्यादि ।
शान्त्यवस्था लक्ष्यत इति प्रतिज्ञातमुदाजिहीर्षुराहसमाहितं यथेति ।
अक्ष्णोरिति ।
उत्क्षुभितेनाश्रुणा पर्याविलोऽरुणिमा चक्षुषोरपगत इत्यादिना रोषापगमः ।
कटाक्षविलासतारकातारल्याद्यनाविर्भावात्प्रसराप्रदानम् ।
अतः प्रशाम्यदवस्था कोपस्येत्याहअत्र कोपस्येति ।
इत्थं व्यभिचार्यन्तेरेऽपि प्रशमो ज्ञेय इत्याहएवमन्यत्रापीति ।
रसभावगुणीभावादनौचित्यप्रवृत्तितः ।
रसवत्प्रेयऊर्जस्विसमाहितचतुष्टयम् ॥
रसवत्त्वप्रियत्वाभ्यामूर्जःप्रशमयोगतः ।
निबन्धनं रसवदाद्याख्यां सम्प्रतिपद्यते ॥
भावोदयाद्यर्थं सूत्रम्
भावोदयसन्धिशबलताश्च पृथगलङ्काराः ॥ ८३ ॥
उक्तसर्वालङ्कारान्यत्वात्सर्वालङ्कारशेषतयौतत्त्रयोक्तिः ।
पृथग्रसवदादिविविक्तविषयतयेत्यर्थः ।
व्याचष्टेभावस्याङ्कुररूपेत्यादि ।
अङ्कुररूपस्योद्गमदशोदयः ।
विरुद्धयोः तुल्यकक्ष्यतया विनिवेशनं सन्धिः ।
पूर्वपूर्वोपमर्देन बहूनामुत्तरोत्तरनिबन्धःशबलता ।
पृथक्प्रतिपादने हेतुमाहएतत्प्रतिपादनं चेति ।
केवलालङ्कारत्वात्संसृष्टिसंकरवैलक्षण्यम् ।
तयोः सम्पृक्तत्वं स्वरूपमित्याहसंसृष्टिसंकरयोर्हीति ।
एकस्मिन्नितिविपक्षनामग्रहणं ग्लपितत्वे, ग्लपितत्वमावेगे, आवेगोऽवधीरणे,, अवधीरणं प्रियतमतूष्णींभावे, तूष्णींभावस्तु पुनर्वीक्षणे हेतुः ।
अत्रौत्सुक्यं भावस्योदयः तस्य च गुणभाव इह विवक्षणीयः ।
वामेन नारीति ।
वामेन करेण प्रियतमाया नयनाश्रुधारां दक्षिणीन कृपाणाधारां प्रमार्जयन् कर्तव्यमूढोऽभूदित्यत्थः ।
अत्र रतिभावरणौत्सुक्ययोः सन्धिः ।
तदेतदाहअत्र स्नेहाख्य इति ।
स्नेहग्रहणादृते शृङ्गारस्थायितामाह भाविस्थायित्वे (भावः, अस्ययित्वे?) तु रतिः प्रीतिमात्रम् ।
क्काकार्यमिति ।
अत्र क्काकार्यं क्व च शशलक्ष्मणः कुलमिति वितर्कः ।
भूयोऽपि दृश्येत सा इति औत्सुक्यम् ।
श्रुतं दोषप्रशमायेति मतिः ।
अहो कोपेऽपि मुखं कान्तमिति स्मृतिः ।
किं वक्ष्यन्त्यपकल्मषा इति शङ्का ।
स्वप्नेऽपि दुर्लभेति दैन्यम् ।
चेतः स्वास्थ्यं उपेहीति धृतिः ।
को धन्योऽधरं पास्यतीति चिन्ता ।
अत्रोत्तरोत्तरेषां पूर्वपूर्वोपमर्देन अवस्थानात्शबलता ।
तदेतदाहअत्र वितर्केत्यादि ।
तानिमान्निगमयतितदे[त]इत्यादि ।
स्थितिप्रशमवद्भावस्योदयःसन्धिरेव च ।
शाबल्यं च गुणीभावे पृथक्पृथगलङ्क्रिया ॥
सङ्करसंसृष्टी प्रस्तुष्टूषुराहअधुना एषामिति ।
संश्लेषःसम्बन्धः ।
तस्यद्वैविध्यमाहतत्र संश्लेष इत्यादि ।
भेदकोटेरुद्भटतायां संयोगन्यायः अनुत्कटत्वे तु समवायन्यायः ।
दृष्टान्तेन न्यायभेदमवस्थापयतितिलतण्डुलन्यायः क्षीरनीरसादृश्यमिति च ।
उभयमपि परिपाट्या सूत्रयितुमाहक्रमेणेति ।
एषां तिलतण्डुलन्यायेन मिश्रत्धे संसृष्टिः ॥ ८४ ॥
व्याचष्टेउक्तालङ्काराणामित्यादि ।
य एते अनुप्रासादयो भावशबलतान्ताः पृथगुक्ताः तेषां संभवानुसारेण यदि कुत्रचित्विषये सहभावः तदैते किं पृथक्पृथगेवालङ्काराः उत्त सहभाववैचित्र्यमलङ्कारान्तरमेवेति चिन्तायां सिद्धान्तयितुमाहतत्र यथेत्यादि ।
सौवर्ण मणिमयानां पृथक्चारुत्वहेतुत्वेऽपि संश्लेषतो यथा चारुत्वान्तरं तथानुप्रासादीनां अप्यलङ्कारान्तरमेव ।
संश्लेषेऽपि भेदांशस्फुटत्वास्फुटत्वाभ्यां विच्छ्रित्तिद्वयमाहअलङ्कारान्तरत्वे चेति ।
तत्र सङ्करसंसृष्टी व्यवस्थापयतिपूर्वत्रेत्यादि ।
यतोभेद उत्कटोऽनुत्कटश्च अतो दृष्टान्तौ समञ्जसावित्याहअत एवेत्यादि ।
उत्कटामुत्कटत्वे भेदस्य यथार्थता ।
संसृष्टिस्त्रिधेत्याहतत्र तिलतण्डुलेत्यादि ।
सङ्करः सप्रभेदं जिज्ञासितोऽपि संसृष्ट्यनन्तरं वक्ष्यत इत्याहसङ्करस्त्विति ।
कुसुमसौरभेति ।
अलकैर्व्याकुलैः लोलदृशा ।
अत्र पूर्वार्धे भकारापेक्षया उत्तरार्धे च लकारापेक्षया वृत्त्यनुप्रासः ।
लकलोलकलो इत्यादौ यमकमिति विजातीययोःसंसृष्टिः ।
तथा लकलोलकलो इति कलोलकलोल इति च सजातीययमकयोरपि ।
तदेतदाहअत्रानुप्रासेत्यादि ।
देवि क्षपेति ।
अत्र नलिनीव रुचेवेति उपमाद्वयं संसृष्टम् ।
तदेतदाहअत्र सजादीययोरिति ।
लिम्पतीवेत्यत्र तु विजातीयसंसृष्ठिः स्फुटा ।
आनन्दमन्थरेति ।
मन्थरो मन्दक्रियः ।
हठेन बलेन ।
अत्रोपमावृत्त्यनुप्रासयोः उभया लङ्कारयोः संसृष्टिः ।
नन्वत्रोपमाव्यवस्था कुत इत्यत आहपादाम्बुजमिति ।
पादाम्बुजमिवेत्युपमाया मञ्जीरशिञ्जितयोगो व्यवस्थापकः ।
पाद एवाम्बुजमिति रूपकपक्षेस प्रतिकूलः अम्बकूलः अम्बुजे तदयोगात् ।
अतःशिञ्जितयोगोऽयं पारिशेष्यादुपमां प्रसादयति ।
निगमयतितदेवमिति ।
तिलतण्डुलनीत्या संश्लेषः संसृष्टिरिष्यते ।
सा शब्दार्थोभयगतैरलङ्कारैस्त्रिधा मता ॥
संकरमुपक्षिपतिअधुनेत्यादि ।
क्षीरनीरन्यायेन सङ्करः ॥ ८५ ॥
अधिकारमनुस्मारयतिमिश्रत्वमेवेति ।
चर्चितं सङ्करस्वरूपमनुवदतिअनुत्कटेति ।
तत्र त्रैविध्यायाहतच्चेति ।
अङ्गाङ्गीभावात्संशयादेकवाचकानुप्रवेशाच्च त्रिधा तु सङ्करोत्थानम् ।
अङ्गुलीभिरिवेति ।
अत्र अङ्गुलीभिरिवेत्युपमा सरोजं लोचनमिवेत्युपमां साधयति ।
रूपकापोहनं साधने प्रकर्षः ।
मुखशब्देन प्रारम्भवदनयोरभिधानात्श्लेषः ।
मुखयोरभेदाध्यवसायात्श्लेषमूलातिशयोक्तः ।
अतोऽनयोरङ्गिभावः ।
एवं च सति अङ्गुलीभिरिवेति या वाक्येनोक्ता या च सरोजलोचनमिति समासेन ताभ्यामुपमाभ्यां श्लेषेण चानुगृहीता मुखमिति अतिशयो(क्तिः)चुम्बतीवेत्युत्प्रेक्षाया अनुग्राहिका ।
तेषां बलेन समुत्थानादुत्थिता चोत्थापकानां चमत्कानां चमत्कारकत्वहेतुः इत्यङ्गाङ्गिता ।
अतोऽङ्गाङ्गिभावे मिथोऽप्युपकारप्रथनायोदाहरणान्तरम्त्रयीमयोऽपीति ।
वारुणी पश्चिमा दिक्सुरा च ।
पतनमवतरणमुपहतिश्च ।
व्याचष्टेअत्र प्रथम इत्यादिना ।
अत्र वारुणीति श्लेषः त्रयीमयोऽप्यगमदिति विरोधप्रतिभोत्थापकः तद्वाधकश्च ।
श्लेषस्य निरवकाशत्वानङ्गीकारिणां मते द्वावपि ।
तदनुग्राहश्च “मन्ये पतित"इति शुद्धिं प्रति हेतूत्प्रेक्षा ।
शुद्ध्यै विवेशेति फलोत्प्रेक्षा च ।
एतद्विशिष्योपपादयतितथाहीत्यादि ।
वारुणीगमनं पातादिकारणमुत्प्रेक्षितम् ।
तत्र विरोधश्लेषा वनुप्रविष्टौ यच्च कारणोत्प्रेक्षानिमित्तं पातादिकार्यं तत्र वास्तवौ पाताग्रिप्रवेशावुपहतिहेतुकपाताग्रिप्रवेशाभ्यामभेदेन अध्यवसितौ ।
तेन श्लेषेण सह हेतुफलोत्प्रेक्षयोरङ्गाङ्गिता ।
ननु विरोधश्लेषयोरतिशयोक्त्युत्प्रेक्षयोश्च कुतो नाङ्गाङ्गिभाव इत्त्याहन च विरोधेत्यादि ।
यद्यपि श्लेषो विरिधप्रतिभोत्पत्तिहेतुः यद्यपि चातिशयोक्तिः उत्प्रेक्षानिमित्तं तथापि नानयोः श्लेषाभ्यां सहाङ्गाङ्गिभावः ।
तत्र हेतुःताभ्यां विनेति ।
विरोधातिशयोक्तिभ्यां विना श्लेषोत्प्रेक्षयोः अनुत्थानात् ।
अतो निरवकाशयोः श्लेषोत्प्रेक्षयोर्बाधकत्वमेव ।
नन्वभेदाध्यवसायमन्तरेणानुत्थानातुत्प्रेक्षा वा माभूत् ।
अतिशयोक्तिर्विविक्तौ विषयः ।
श्लेषस्य तु विविक्तौऽस्त्येवेत्यत आहन च मन्तव्यमित्यादि ।
अलङ्कारान्तरविविक्तश्लेषयो नास्तीति श्लेषविवेचने वितत्यौक्तम् ।
अतः श्लेषेण अन्यबाध इति तम्नध्यानुप्रविष्टो विरोधोऽपि बाध्य एव ।
अर्थालङ्कारसङ्करं निगमयतिएवमर्थेति ।
शब्दालङ्कारेति ।
कैश्चिदित्यवधीरणा ।
राजतीति ।
दानवानां रासः आक्रोशस्तदतिपातिनः ।
सारावा तदा यत्र सेयमद्रेस्तटी राजति ।
गजता गजसमूहः ।
स च यूथमतिपाति अतितरां रक्षति ।
कीदृशी? अविरतेन दानेन मदेन ।
वरा उक्तृष्टा सा प्रसिद्धा ।
सारा बलवती ।
वनदा वनस्य खण्डयित्री ।
योजनायाहअत्र यमकेत्यादि ।
पादावृत्तिलक्षणं यमकम् ।
आदितो अन्यतश्च पाठे सन्दर्भैक्यादनुलोभप्रतिलोमता च ।
तदेतदुभयं सापेक्षमिति शब्दालङ्कारसङ्करः ।
तदेतद्दूषयतिएतत्त्विति ।
अनावर्जकत्वे हेतुमाहशब्दालङ्कारयोरिति ।
यथा हि शब्दयोर्मिथो नोपकारः तथा शब्दालङ्कारयोरपि ।
कस्तर्हिरिदृशि विषये प्रकार इत्यत आहशब्दालङ्कारेति ।
मिथोऽनुपकारात्नैरपेक्ष्यम् ।
अतः संसृष्टिः श्रेयसी ।
सङ्करतया चैकवाचकानुप्रवेशः स्यादित्याहयद्वेति ।
अतः शब्दालङ्कारपरिहारेण अङ्गाङ्गिभाव इति निर्णायतिएवमेष इति ।
सन्देहसङ्करं विवेचयतिद्वितीय इति ।
सन्देहं दर्शयतियत्रोभयोरित्यादि ।
यः कौमारेति ।
व्याख्यातं प्राक् ।
योजयतिअत्र विभावनेत्यादि ।
अन्यत्र काव्यप्रकाशादौ ।
इत्थमुपमरूपकयोः सन्देहं दर्शयितुमाहयथा चेति ।
यद्वाक्त्रचन्द्रेति ।
श्मश्रुच्छ्लेन नवयौवनेनोल्लिखितो मन्त्रश्चकास्तीव ।
योजयतिअत्र वक्त्रेत्यादि ।
संशयस्य हेतुमाहसमासस्योभयथापीति ।
व्याघ्रादीनामाकृतिगणात्वाद्विशिष्टगुणानां चन्द्रादीनामुपसङ्ग्रह इति ।
मुखं चन्द्र इवेत्युपमासमासः ।
“अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्य"इति नीत्या ।
मयूरव्यंसकादीनामाकृतिगणत्वात् ।
मुखमेव चन्द्र इति रूपकसमासश्च साधकबाधक प्रमाणविरहादनयोःसन्देहः ।
साधकबाधकान्ततरसद्भावे तु नियतपरिग्रह इत्याहयत्र त्विति ।
साधकबाधकस्वरूपं विवेचयतितत्रानुकूलमिति ।
प्रसरद्विन्द्विति ।
बिन्दुः शुद्धाध्वोपादानमहामाया नादोऽनाहतः तौ प्रसरतोयस्मात्सिसृक्षोस्तस्मै ।
शुद्धममृतम्, निष्कृष्टं चैतन्यं तन्मयात्मने ।
अनन्तो देशकालाद्यनवच्छिन्नः प्रकाशो यश्च तस्मै ।
अन्यदा तु बिन्दवः शीकराः ।
नादो लहरीघोषः ।
अमृतं सुधा ।
अनन्तः शेषो मथनादौ शेषीभूतः , तेन प्रकाशः प्रथितः ।
इह शङ्कर एव क्षीरसिन्धुरिति रूपके साधकम् ।
दर्शयतिअत्र शङ्कर एवेत्यादि ।
अमृतशब्दो हि सुधायां प्रचुरप्रसिद्धिकः क्षीरसिन्धावनुकूलतरर इति रूपकसमास एवायम् ।
अमृतमयत्वं च नोपमां प्रति बाधकमित्याहौपमायास्त्विति ।
न बाघकं किन्तु तटस्थमिति भावः ।
तत्र हेतुःशङ्करेऽप्युपचरितस्येति ।
शङ्करत्वेनोपचरितस्य हि सिद्धो रूपकत्वसिद्धिः ।
अत उपमोत्थापिते रूपके विश्रान्तिरिति यावत् ।
उदाहरणान्तरेणापि न्यायमिमं द्रढयितुमाहयथा वेति ।
एतान्यवन्तीति ।
अवन्तीश्चररूपात्पारिजातात्जातानि यशोरूपाणि प्रसूनानि दिग्रूपाणां वधूनामवतंसयामि, पश्यत ।
अत्राप्युपमाबाधवैमुख्येन रूपकसाधकं दर्शयतिअत्रावतंसनमिति ।
बाधकार्थमुदाहरतिशरदीवेति ।
हरिः सिंहो विष्णुश्च ।
उपमाबाधकं दर्शयतिअत्र विन्ध्य इत्यादि ।
विनिद्रजृम्भितहरित्वं हि साधारणमुपमासमासं बाधते ।
उपमितं व्याघ्रादिभिः सामान्याप्रयेगे इति वाचनात् ।
ननु रूपकसिद्धिसाधकाभावे कथमित्तयत आहअतश्च पारिशेष्यादिति ।
ननु शरदीवेति समभिव्याहृतेयमुपमा कथं नोपमासाधिकेत्यत आह नतु शरदीवेति ।
न्यायतो वाक्यार्थीभूतं रूपकमाभासत एकदेशविर्तिन्युपमा न हि बाधितुर्मिष्टे ।
यावता स्वयमप्याभासीभवतीति भावः ।
अत्रोपहासायाहन हि चाषेणेति ।
चाषथाणां समूहः चाषमिति स्थितौ पञ्चाशब्ध्रब्दः(दे?)शषयोरभेदाश्रयणा(णो?)प्यव्युत्पन्नप्रतीतेयं चाषश्रुतिः ।
न खलु तन्निबन्धना पञ्चाशद्रूपसमूहसिद्धिः ।
नन्वतरथा अलङ्कारप्रक्रमभेदः स्यादित्यत आहन ह्येकेनेति ।
प्रकान्तेनैकेनैव निर्वहणीयमिति नैषा राजाज्ञा येन दृष्टबाध आशङ्क्यते ।
यल्लङ्घनेनदृष्टबादृष्टयोर्द्वयोरपि बाधःस्यात्यतो न्यायोऽयमित्यतत आहनाप्येष इति ।
प्रक्रान्तेन निर्वहणीयमिति न सार्वत्रिको न्यायः ।
किन्तु विशेषा विवक्षायामेव ।
इह तु उत्तरोत्तरं प्रकर्षविवक्षेति उपमापेक्षया रूपके साम्यप्रकर्षः ।
अतोऽवयवगतोपमापरित्यागेन वाक्यार्थी भूतरूपक परिग्रह एवोचितः ।
विपर्ययस्तु साम्यनिकर्षाद्दुष्ट एव ।
तदेतत्प्रत्युदाहरणेन द्रढयतियेनेन्दुरिति ।
अत्रेन्दुमलयजयोः दहनविषयत्वरूपणात्साम्यप्रकर्षः प्रक्रान्तः ।
हारः कुठारायत इति तूपमया प्रकर्ष नीतः ।
चर्चां निगमयतितस्मात्प्रकृत इति ।
सामान्यप्रयोगे उपमाबाधक इति न्यायोपन्नो रूपकप्रक्रम एव निर्वहीणीय इति यावत् ।
न्यायोऽयमत्रापि ज्ञेय इत्याहभाष्याब्धैरिति ।
गाम्भीर्यसाधारण्यादुपमाबाधे रूपकमेव द्रष्टव्यम् ।
साधकबाधकाभावे तु सन्देह इत्युक्तमनुस्मारयतिसाधकबाधकेति ।
इत्थमङ्गाङ्गिभावसन्देह रूपं प्रकारद्वयं विविच्य तृतीयं प्रकारं विवेचयतितृतीयस्त्विति ।
तं विशदयतियत्रैकस्मिन्निति ।
मुरारि निर्गतेति ।
नरकोऽसुरो निरयश्च ।
(गङ्गेवेति)सद्गतिप्रात्पिहेतुत्वम् ।
योजयतिअत्र मुरारीति ।
गङ्गेवेत्युपमा मुरारिनिर्गतेत्यर्थभेदाभावात्साधारणविशेषणेन समुत्थापिता ।
नरकेति श्लिष्टविशेषणोत्थोर्ऽथः श्लेषश्चापमाप्रतिपत्तिहेतुः ।
एकत्रैव नरकशब्देऽनुप्रविष्टौ श्लिष्टशब्देनोभयोपकारात्शब्दश्लेषेणाप्युपमा सङ्करार्थमाहअत्र च यथेत्यादि ।
सत्पुष्करेति ।
पुष्कारं वाद्यभाण्डमुखं पद्मं च ।
द्योतिनस्तरङ्गा द्योतितो रङ्गश्च ।
रज्यन्तेऽस्मिन् सामाजिकमनांसि इति रङ्गो नाट्यारम्भक्रिया ।
मृदङ्गसदृशं जलास्फालनवाद्यं मृदङ्गवाद्यं च ।
योजयतिअत्र पयसीवेत्यादिना ।
रमन्त इति साधारणे धर्मः ।
अतः सामग्रीयोगात्सम्पन्ना द्योतितरङ्गशोभिनीत्येकस्मिन्नेव शब्दे सभङ्गपदत्वात्शब्दश्लेषेण संकीर्णम् ।
शब्दालङ्कारयोरेकवाचकानुप्रवेशमुदाहृतचरमनुस्मारयतिशब्दालङ्कारयोः पुनरित्यादि ।
विजातीययोरेवैकवाचककानुप्रेशं(श?)व्यवस्थेति यदन्यैरुक्तं तदप्रयोजकमित्याह एकवाचकेत्यादि ।
अत्रऽराजति तटीयमिऽत्यादौ ।
एवकारेणाङ्गाङ्गिभावसन्देहसङ्करावपोहति ।
शब्दालङ्कारत्वं तुल्यजातीयता ।
उद्भाटप्रकाशितस्तु प्रकारान्तरगोचरशब्दार्थालङ्कारसंकरः संसृष्टौ अन्तर्भावित इति तस्य संकरत्वमङ्गाङ्गिभाव एवोक्तमित्याहशब्दार्थालङ्कारेत्यादि ।
अङ्गाङ्गिभावात्सन्देहात्प्रवेशादेकवाचके ।
त्रिधा तु संकरः शब्दालङ्कृत्योरेकवाचके ॥
प्रकरणामुपसञ्जिहीर्षुराहैदानीमिति ।
तत्र सूत्रम्
एवमेते शब्दार्थोभयालङ्काराः संक्षेपतःसूत्रिताः ॥ ८६ ॥
व्याचष्टे एवमितीति ।
तत्र पुनरुक्तवदाभासोर्ऽथस्य पौनरुक्त्ये ।
छेकवृत्त्यनुप्रासौ व्यञ्जनमात्रस्य ।
यमकं स्वरव्यञ्जनसमुदायस्य ।
लाटानुप्रासः शब्दार्थयोरिति पौनरुक्त्ये पञ्चकम् ।
स्थानविशेषश्लिष्टवर्णापौनरुक्त्ये चित्रम् ।
अथ सादृश्यविच्छित्तौ भेदाभेदतुल्यातायां उपमानान्वयोपमेयोपमा स्मरणानि ।
अभेदप्राधान्य आरोपाश्रयतया रूपकपरिणामसन्देहभ्रान्तिमदुल्लेखापह्नुतयः ।
अध्यवसायाश्रयेणात्प्रेक्षातिशयोक्ती ।
गम्यमानौपम्याश्रयेण तुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तनिदर्शनाव्यतिरेकसहोक्तिविनोक्तयः ।
विशेषण विच्छित्त्या समासोक्तिपरिकरौ ।
विशेषण विशेष्यविच्छित्त्या श्लेषः ।
अप्रस्तुतात्प्रस्तुतावगतावप्रस्तुतप्रशंसा ।
सामान्यविशेष भावादिना निर्दिष्टप्रकृतसमर्थनेर्ऽथान्तरन्यासः ।
गम्यस्य भङ्ग्यन्तरेणोक्तौ पर्यायोक्तम् ।
स्तुत्या निन्दायाः निन्दाया वा स्तुतेर्गम्यत्वे व्याजस्तुतिः ।
प्राकरणिकयोः विशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः ।
विरोधगर्भतया विरोधविभावनाविशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः ।

विरोधगर्भतया विरोधविभावनाविशेषोक्त्यतिशयोक्ती अन्तरा सङ्गतिविषमसमविचित्राधिकान्योन्यविशेषव्याघातद्वयानि ।
शृङ्खलावैचित्र्येण कारणामालैकावलीमालादीपकसाराः ।
तर्कन्यायेन काव्यलिङ्गानुमाने ।
वाक्यन्यायेन यथासङ्ख्यपर्यायपरिवृत्तिपरिसङ्ख्यार्थापत्तिविकल्पसमुच्चयदुयसमाधयः ।
लोकन्यायेन प्रत्यनीक प्रतीपनिमीलितसामान्यतद्द्गुणातद्गुणोत्तराणि ।
गूढार्थपरत्वे सूक्ष्मव्याजोक्तिवक्रोक्तिस्वभावोक्तयः ।
स्फुटार्थत्वे भाविकम् ।
औदात्त्येन उदात्तद्वयम् ।
चित्तवृत्त्यालम्बेन रसवत्प्रेयऊर्जस्वित्समाहितभावोदयसन्धिशबलत्वानीति शुद्धाः ।
मिश्रतया तु सङ्कुरसंसृष्टी ।
तदिदमभिसन्धायाहएवमिति ।
पूर्वोक्तप्रकारपरामर्शःेत इति ।
प्रक्रान्तस्वरूपनिर्देश इति ।
शब्दार्थोभयालङ्कारान् वर्गशो विविनक्तितत्र शब्दालङ्कारा इत्यादि ।
लाटानुप्रासादय इत्यादि ।
शेषानुद्घाटयतिसंसृष्टिसङ्करेति ।
ननु चान्वयव्यतिरेकाभ्यामुक्ति(क्त)व्यवस्थाभाङ्ग इत्यत आहलोकवदाश्रया श्रयीति ।
तदलङ्कार्येति ।
तच्छब्देन शब्दार्थोभयपरामर्शः ।
चर्चितं चैतत्श्लेषप्रस्तावे ।
तर्हि अन्वयव्यतिरेकौ कुत्र निबन्धनमित्यत आहअन्वयव्यतिरेककौत्वति ।
अलङ्काराणां शब्दादिकार्यत्वे शब्दाशब्दाद्यन्वयव्यतिरेकौ तत्र निबन्धनम् ।
ननु शब्दाद्यलङ्कारत्वे को दोष इत्यत आहतदलङ्कारत्वप्रयोजकत्व इति ।
श्रौतोपमादौ शब्दान्वयव्यतिरेकानुविधानात्शब्दालङ्कारत्वं प्रसजेत् ।
निगमयतितस्मादाश्रयाश्रयीति ।
चिरन्तरमतेत्युक्तार्थे संवादसमुद्घाटनम् ।
शब्दन्यासो विषयमिषयो दुर्घटार्थव्यवस्था व्यात्पव्यात्पिप्रकटनपरन्यास(य?)चर्चो गभीरः ।
इत्थं भूम्रा रुचकवचसां विस्तरः कर्कशोऽयं टीकास्माभिः समुपरचितानेन सञ्जीवनीयम् ॥
सूक्ष्मामव्याकुलामत्र शास्त्रयुक्त्युपंबृहिताम् ।
मीमांसामुपजीवन्तु कृतिनः काव्यतान्त्रिकाः ॥
काव्यप्रकाशेऽलङ्कारसर्वस्वे च विपश्चिताम् ।
अत्यादरो जगत्यस्मिन् व्याख्यातमुभयं ततः ॥
इत्यालङ्कारिकचक्रवर्तिध्वनिप्रस्थानपरमाचार्यकाव्यमीमांसाप्रभाकरसहजसर्वज्ञमहाकविश्रीविद्याचक्रवर्तिविरचितायां सञ्जीवन्यामलङ्कारसर्वस्वटीकायामर्थालङ्कारप्रकरणं समात्पम् ॥
\\Z

यद्वक्ष्यति"स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः” इति ।
यथा हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे! नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥
अत्र मरोरुपकारं करोषीति स्तुतिर्निन्दामवगमयति ।
उपमानोपमेययोः पर्यायेण तथात्वं चेदुपमेयोपमा ।
यद्वक्ष्यति “द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा” इति ।
यथाऽखमिव जलं जलमिव खं हंसश्वन्द्र इव हंस इव चन्द्रःऽ ।
अत्रोपमानोपमेयभावविनिमयः तृतीय सब्रह्मचारिणां निवर्तयति ।
एकस्यैवोपमानोपमेय भावकत्वेऽनन्वयः ।
यद्वक्ष्यति"एकस्यैवोपमानोपमेयत्वेऽनन्वय” इति ।

***********************************************
]