उद्भटः - काव्यालङ्कार-सार-सङ्ग्रहः

विस्तारः (द्रष्टुं नोद्यम्)

Udbhata: Kavyalamkarasarasamgraha,
Karikas (extracted from the commented version)

Input by members of the Sansnet project

पुनरुक्तवदाभासं छेकानुप्रास एव च ।
अनुप्रासस्त्रिधा लाटानुप्रासो रूपकं चतुः ॥ उक्स्स्_१।१ ॥
उपमा दीपकं चैव प्रतिवस्तूपमा तथा ।
इत्येत एवालङ्कारा वाचां कैश्चिदुदाहृताः ॥ उक्स्स्_१।२ ॥
पुनरुक्ताभासमभिन्नवस्त्विवोद्भासि भिन्नरूपपदम् ।
छेकानुप्रासस्तु द्वयोर्द्वयोः सुसदृशोक्तिकृतौ ॥ उक्स्स्_१।३ ॥
शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता ।
परषा नाम वृत्तिः स्यात् ह्लह्वह्याद्यैश्च संयुता ॥ उक्स्स्_१।४ ॥
सरूपसंयोगयुतां मूर्ध्निवर्गान्त्ययोगिभिः ।
स्पर्शैर्युतां च मन्यन्ते उपनागरिकां बुधाः ॥ उक्स्स्_१।५ ॥
शेषैर्वणैर्यथायोगं कथितां कोमलाख्यया ।
ग्राम्यं वृर्त्ति प्रशंसन्ति काव्येष्वादृतबुद्धयः ॥ उक्स्स्_१।६ ॥
सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु ।
पृथक्पृथगनुप्रासमुशन्ति कवयः सदा ॥ उक्स्स्_१।७ ॥
स्वरूपार्थाविशेषे ऽपि पुनरुक्तिः फलान्तरात् ।
शब्दानां वा पदानां वा लाटानुप्रास इष्यते ॥ उक्स्स्_१।८ ॥
स पदद्वितयस्थित्या द्वयोरेकस्य पूर्ववत् ।
तदन्यस्य स्वतन्त्रत्वाद् द्वयोर्वैकपदाश्रयात् ॥ उक्स्स्_१।९ ॥
स्वतन्त्रपदरूपेण द्वयोर्वापि प्रयोगतः ।
भिद्यते ऽनेकधा भेदैः पादाभ्यासक्रमेण च ॥ उक्स्स्_१।१० ॥
श्रुत्या सम्बन्धविरहाद्यत्पदेन पदान्तरम् ।
गुणवृत्ति प्रधानेन युज्यते रूपकं तु तत् ॥ उक्स्स्_१।११ ॥
बन्धस्तस्य यतः श्रुत्या श्रुत्यर्थाभ्यां च तेन तत् ।
समस्तवस्तुविषयमेकदेशविवर्ति च ॥ उक्स्स्_१।१२ ॥
समस्तवस्तुविषयं मालारूपकमुच्यते ।
यद्वैकदेशवृत्ति स्यात्पररूपेण रूपणात् ॥ उक्स्स्_१।१३ ॥
आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः ।
अन्तर्गतोपमाधर्मा यत्र तद्दीपकं विदुः ॥ उक्स्स्_१।१४ ॥
यच्चेतोहारिसाधर्म्यमुपमानोपमेययोः ।
मिथो विभिन्नकालादिशब्दयोरुपमा तु तत् ॥ उक्स्स्_१।१५ ॥
यथेवशब्दयोगेन सा श्रुत्यान्वयमर्हति ।
सदृशादिपदाश्लेषादन्यथेत्युदिता द्विधा ॥ उक्स्स्_१।१६ ॥
सङ्क्षेपाभिहिताप्येषा साम्यवाचकविचुयतैः ।
साम्योपमेयतद्वाचिवियोगाच्च निबध्यते ॥ उक्स्स्_१।१७ ॥
उपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात् ।
क्वचित्समासे तद्वाचिविरहेण क्वचिच्च सा ॥ उक्स्स्_१।१८ ॥
तथोपमानादाचारक्यच्प्रत्ययबलोक्तितः ।
क्वचित्सा कर्तुराचारे क्यङा सा च क्विपा क्वचित् ॥ उक्स्स्_१।१९ ॥
उपमाने कर्मणि वा कर्तरि वा यो णमुल्कषादगतः ।
तद्वाच्या सा वतिना च कर्म सामान्यवचनेन ॥ उक्स्स्_१।२० ॥
षष्ठीसप्तम्यन्ताच्च यो वतिर्नामतस्तदभिधये ।
कल्पत्प्रभृतिभिरन्यैश्च तद्धितैः सा निबध्यते कविभिः ॥ उक्स्स्_१।२१ ॥
उपमानसन्निधाने साम्यवाच्युच्यते बुधैर्यत्र ।
उपमेयस्य च कविभिः सा प्रतिवस्तूपमा गदिता ॥ उक्स्स्_१।२२ ॥
प्राकरणिकेतरत्वस्थित्यैकश्चोपमेयतां लभते ।
उपमानत्वं चापर इत्युपमावाचिशून्यत्वम् ॥ उक्स्स्_१।२३ ॥

आक्षेपोर्ऽथान्तरन्यासो व्यतिरेको विभावना ।
समासातिशयोक्ती चेत्यलङ्कारान्परे विदुः ॥ उक्स्स्_२।१ ॥
प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
आक्षेप इति तं सन्तः शंसन्ति कवयः सदा ॥ उक्स्स्_२।२ ॥
वक्ष्यमाणोक्तविषयः स च द्विविध इष्यते ।
निषेधेनेव तद्बन्धो विधेयस्य च कीर्तितः ॥ उक्स्स्_२।३ ॥
समर्थकस्य पूर्वं यद्वचो ऽन्यस्य च पृष्ठतः ।
विपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वा ॥ उक्स्स्_२।४ ॥
ज्ञेयः सोर्ऽथान्तरनयासः प्रकृतार्थसमर्थनात् ।
अप्रस्तुतपरशंसाया दृष्टान्ताच्च पृथक्स्थितः ॥ उक्स्स्_२।५ ॥
विशेषोपादानं यत्स्यादुपमानोपमेययोः ।
निमित्तादृष्टिदृष्टिभ्यां व्यतिरेको द्विधी तु सः ॥ उक्स्स्_२।६ ॥
यो वैधर्म्येण दृष्टान्तो यथेवादिसमन्वितः ।
व्यतिरेको ऽत्र सो ऽपीष्टो विशेषापादनान्वयात् ॥ उक्स्स्_२।७ ॥
श्लिष्टोक्तियोग्यशब्दस्य पृथक्पृथगुदाहृतौ ।
विशेषापादनं यत्स्याद्य्वतरेकः स च स्मृतः ॥ उक्स्स्_२।८ ॥
क्रियायाः प्रतिषेधे या तत्फलस्य विभावना ।
ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥ उक्स्स्_२।९ ॥
प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः ।
अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता ॥ उक्स्स्_२।१० ॥
निमित्ततो यत्तु वयो लोकातिक्रान्तगोचरम् ।
मन्यन्ते ऽतशयोक्तिं तामलङ्कारतया बुधाः ॥ उक्स्स्_२।११ ॥
भेदे ऽनन्यत्वमन्यत्र नानात्वं यत्र बध्यते ।
तथा सम्भाव्यमानार्थनिबन्धे ऽतिशयोक्तिगीः ॥ उक्स्स्_२।१२ ॥
कार्यकारणयोर्यत्र पौर्वापर्यविपर्ययात् ।
आशुभावं समालम्ब्य बध्यते सो ऽपि पूर्ववत् ॥ उक्स्स्_२।१३ ॥

यथासङ्ख्यमथोत्प्रेक्षां स्वभावोक्तिं तथैव च ।
अपरे त्रीनलङ्कारान् गिरामाहुरलङ्कृतौ ॥ उक्स्स्_३।१ ॥
भूयसामुपदिष्टानामर्थानामसधर्मणाम् ।
क्रमशो यो ऽनुनिर्देशो यथासङ्ख्यं तदुच्यते ॥ उक्स्स्_३।२ ॥
साम्यरूपाविवक्षायां वाच्येवाद्यात्मभिः पदैः ।
अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥ उक्स्स्_३।३ ॥
लोकातिक्रान्तविषया भावाभावाभिमानतः ।
सम्भावनेयमुत्प्रेक्षा वाच्येवादिभिरुच्यते ॥ उक्स्स्_३।४ ॥
क्रियायां सम्प्रवृत्तस्य हेवाकानां निबन्धनम् ।
कस्यचिन्मृगडिम्भादेः स्वभावोक्तिरुदाहृता ॥ उक्स्स्_३।५ ॥

प्रेयोरसवदूर्जसव पर्यायोक्तं समाहितम् ।
द्विधोदात्तं तथा श्लिष्टमलङ्कारान्परे विदुः ॥ उक्स्स्_४।१ ॥
रत्यादिकानां भावानामनुभावादिसूचनैः ।
यत्काव्यं बध्यते सद्भिस्तत्प्रेयस्वदुदाहृतम् ॥ उक्स्स्_४।२ ॥
रसवद्दर्शितस्पष्टशृङ्गारादिरसादयम् ।
स्वशब्दस्थायिसञ्चारिविभावाभिनयास्पदम् ॥ उक्स्स्_४।३ ॥
शृङ्गारहास्यकरणरौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ उक्स्स्_४।४ ॥
अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् ।
भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते ॥ उक्स्स्_४।५ ॥
पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते ।
वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना ॥ उक्स्स्_४।६ ॥
रसभावतदाभासवृत्तेः प्रशमबन्धनम् ।
अन्यानुभावनिःशून्यरूपं यत्तत्समाहितम् ॥ उक्स्स्_४।७ ॥
उदात्तमृद्धिमद्वस्तु चरितं च महात्मनाम् ।
उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम् ॥ उक्स्स्_४।८ ॥
एकप्रयत्नोच्चार्याणां तच्छायां चैव बिभ्रताम् ।
स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिहोच्यते ॥ उक्स्स्_४।९ ॥
अलङ्कारान्तरगतां प्रतिभां जनयत्पदैः ।
द्विविधैरर्थशब्दोक्तिविशिष्टं तत्प्रतीयताम् ॥ उक्स्स्_४।१० ॥

अपह्नुतिं विशेषोक्तिं विरोधं तुल्ययोगिताम् ।
अप्रस्तुतप्रशंसा च व्याजस्तुतिविदर्शने ॥ उक्स्स्_५।१ ॥
उपमेयोपमां चैव सहोक्तिं सङ्करं तथा ।
परिवृत्तिं च जगदुरलङ्कारान्परे गिराम् ॥ उक्स्स्_५।२ ॥
अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा ।
भूतार्थापह्नवेनास्या निबन्धः क्रियते बुधैः ॥ उक्स्स्_५।३ ॥
यत्सामग्र्ये ऽपि शक्तीनां फलानुत्पत्तिबन्धनम् ।
विशेषस्याभिधित्सातस्तद्वशेषोक्तिरुच्यते ॥ उक्स्स्_५।४ ॥
दर्शितेन निमित्तेन निमित्तादर्शनेन च ।
तस्या बन्धो द्विधा लक्ष्ये दृश्यते ललितात्मकः ॥ उक्स्स्_५।५ ॥
गुणस्य वा क्रियाया वा विरुद्धान्यक्रियावचः ।
यद्विशेषाभिधानाय विरोधं तं प्रचक्षते ॥ उक्स्स्_५।६ ॥
उपमानोपमेयोक्तिशून्यैरप्रस्तुतैर्वचः ।
साम्याभिधायि प्रस्तावभाग्भिर्वा तुल्ययोगिता ॥ उक्स्स्_५।७ ॥
अधिकारादपेतस्य वस्तुनो ऽन्यस्य या स्तुतिः ।
अप्रस्तुतप्रशंसेयं प्रस्तुतार्थनुबन्धिनी ॥ उक्स्स्_५।८ ॥
शब्दशक्तिस्वभावेन यत्र निन्देव गम्यते ।
वस्तुतस्तु स्तुतिश्चेष्टा व्याजस्तुतिरसौ मता ॥ उक्स्स्_५।९ ॥
अभवन्वस्तुसम्बन्धो भवन्वा यत्र कल्पयेत् ।
उपमानोपमेयत्वं कथ्यते सा विदर्शना ॥ उक्स्स्_५।१० ॥
अनेकालङ्क्रियोल्लेखे समं तद्वृत्त्यसम्भवे ।
एकस्य च ग्रहे न्यायदोषाभावे च सङ्करः ॥ उक्स्स्_५।११ ॥
शब्दार्थवर्त्यलङ्कारा वाक्य एकत्र भासिनः ।
सङ्करो वा एकवाक्यांशप्रवेशाद्वाभिधीयते ॥ उक्स्स्_५।१२ ॥
परस्परोपकारेण यत्रालङ्कृतयः स्थिताः ।
स्वातन्त्र्येणात्मलाभं नो लभन्ते सो ऽपि सङ्करः ॥ उक्स्स्_५।१३ ॥
अन्योन्यमेव यत्र स्यादुपमानोपमेयता ।
उपमेयोपमामाहुस्तां पक्षान्तरहानिगाम् ॥ उक्स्स्_५।१४ ॥
तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रिते ।
पदेनैकेन कथ्येते सा सहोक्तिर्मता सताम् ॥ उक्स्स्_५।१५ ॥
समन्यूनविशेष्टैस्तु कस्यचित्परिवर्तनम् ।
अर्थानर्थस्वभावं यत्परिवृत्तिरभाणि सा ॥ उक्स्स्_५।१६ ॥

अनन्वयं ससन्देहं संसृष्टिं भाविकं तथा ।
काव्यदृष्टान्तहेतू चेत्यलङ्कारान्परे विदुः ॥ उक्स्स्_६।१ ॥
उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससन्देहं वचः स्तुत्यै ससन्देहं वदुर्बुधाः ॥ उक्स्स्_६।२ ॥
अलङ्कारान्तरच्छायां यत्कृत्वा धीषु बन्धनम् ।
असन्देहे ऽपि सन्देहरूपं सन्देहनाम तत् ॥ उक्स्स्_६।३ ॥
यत्र तनैव तस्य स्यादुपमानोपमेयता ।
असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥ उक्स्स्_६।४ ॥
अलङ्कृतीनां बह्वीनां द्वयोर्वापि समाश्रयः ।
एकत्र निरपेक्षाणां मिथः संसृष्टिरुच्यते ॥ उक्स्स्_६।५ ॥
प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः ।
अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ॥ उक्स्स्_६।६ ॥
श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा ।
हेतुतां प्रतिपद्ये काव्यलिङ्गं तदुच्यते ॥ उक्स्स्_६।७ ॥
इष्टस्यार्थस्य विस्पष्टप्रतिबिम्बनिदर्शनम् ।
यथेवादिपदैः सून्यं बुधैर्दृष्टान्त उच्यते ॥ उक्स्स्_६।८ ॥