[[उद्भटालङ्कार-सारसंग्रहलघुवृत्तिः Source: EB]]
[
प्रस्तावना ।
अस्मिन्भरतखण्डे खल्वद्यावधि बहवः संस्कृतग्रन्थाः संशोध्य मुद्रणद्वारा प्राकाश्यं नीतास्तत्र तत्र पण्डितप्रकाण्डैः ।
तथापि कतिचन प्राजीनाः प्रबन्धाः प्रकाशनार्हा अपि पुस्तककोशेष्वेव निलीना वर्तन्ते ।
तेषामन्यतमोऽयं काव्यालङ्कारसंग्रहाख्यः प्रबन्धो योऽद्य महता प्रयत्नेन सहृदयहृदयवनोदाय प्रकाश्यते ।
अस्य काव्यालङ्कारसङ्ग्रहग्रन्थस्य प्रणेता उद्भटभट्टः ।
उद्भटभट्टस्य भट्टोद्भटौद्भटाचार्यः
इत्यापि नामोल्लेखो ग्रन्थान्तरेषु दृश्यते ।
उद्भटभट्ट कश्मीरेषु जयापीडः भूपस्य सभापतिरासीदिति कल्हणवरचतराजतरङ्गिणीग्रन्थादवगम्यते ।
जयापीडनृपतिराज्यकालस्तु ख्रिस्त ७७९ वर्षमारभ्य ८१३ वर्षपर्यन्तमासीदिति ज्ञायते ।
अतस्तत्सभापतेरुद्भटभट्टस्यापि जीवितसमयः स एवेति विदुषां निर्णयः ।
उद्भटाचार्येण कुमारसंभवाख्यं काव्यं तथा भामहकृतालङ्कारग्रन्थस्य विवरणं च विरचितमासीदिति ज्ञायते ।
अत्र प्रमाणं तु अस्यां लघुवृत्तौ “अनेन ग्रन्थकृता खोपरचितकुमारसंभवैकदेशोऽत्र उदाहरणत्वेनोपन्यस्तः"पृ० १५ इति “विशेषोक्तलक्षणे च भामहविवरणे भट्टोद्भटेन एकदेशश्बद एवं व्याख्यातः"पृ० १३ इति च प्रतीहारेन्दुराजस्योक्तिः ।
काव्यालङ्कारसारलघुवृत्तेः प्रणेता श्रीप्रतहारेन्दुराजस्तु कोङ्कणदेशवास्तव्यः कश्मीरेषु मीमांसाख्याकरणतर्कसाहित्यशास्त्रपारंगतभट्टश्रीमुकुलादधीतशास्त्रश्चेति अस्या लघुवृत्तेः प्रारम्भोपसंहारयोः स्थिताभ्यां निम्नलिखितपद्याभ्यां स्फुटं भवति ।
“विद्वदग्र्यान्मुकुलकादधिगम्य विविच्यते ।
प्रतीहारेन्दुराजेन काव्यालङ्कारसंग्रहः ॥
"
“मीमांसासारमेघात्पदजलधिविधोस्तर्कमाणिक्यकोशात्
साहित्यश्रीमुरारेर्बुधकुसुममधोः शौरिपादब्जभृङ्गात् ।
श्रुत्वा सौजन्यसिन्धोर्द्वजवरमुकुलात्कीर्तिवल्ल्यालवालात्
काव्यालङ्कारसारे लघुववृतिमधात्कौङ्कणः श्रीन्दुराजः ॥
“इति
प्रतीहारेन्दुराजस्य जीवितकालस्तु निश्चित्य वक्तुं न शक्यते ।
तथाप्ययं भट्टोद्भस्य पश्चाद्बभूवेति व्यक्तमेव ।
अनेन लघुवृत्तौ भामहवामनौद्भटैत्यादि प्राचीनालङ्कारिकाणामेवोल्लेखः कृतः नतु महिमभट्टआनन्दवर्धनकाव्यप्रकाशकाराद्यभिनवालङ्कारिकाणाम् ।
अतोऽयं खिस्तवर्षस्य नवमदशमशतकयोर्मध्ये बभूवेति तर्क्यते ।
अस्य ग्रन्थस्यादर्शपुस्तकमेकमेव पुण्यपत्तनस्थाराजकीयपुस्तकालयाधिकारिभिः प्रोफेसर विनायक सखाराम घाटे इत्येतै संस्करणार्थे दत्वनृगृहीतोऽस्मीति कृतज्ञतया स्मरामि तेषामुपकृतिम् ।
कारवारपुरे विद्वदनुचरः
श्रावण शु १२ शके १८३७ मङ्गेशशर्मा.
_______________________________________________________________________________
अथ द्वितीयो वर्गः ।
आक्षेपोर्ऽथान्तरन्यासो व्यतिरेको विभावना ।
समासातिशयोक्ती चेत्यलङ्कारान्परे विदुः ॥ २.१ ॥
ऽसमासातिशयोक्ती चेऽत्यत्र समासातिशययशब्दयोरुक्तिशब्दः प्रत्येकमभिसंबध्यते ।
आक्षेपः ।
प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
आक्षेप इति तं सन्तः शंसन्ति कवयः सदा ॥ २.२ ॥
इह काचिद्वक्रभणितिस्तथाविधा संभवति यस्यां विधित्सितोर्ऽथो निषेधव्याजेन संस्क्रियते, न तु निषिध्यते ।
तत्र विधित्सितस्यार्थस्य यः प्रतिषेधः क्रियते स प्रतिषेध इव भवति, न तु प्रतिषेध एव ।
अवान्तरवाक्यार्थत्वेन तत्र वाक्यस्यापर्यवसानात् ।
अवान्तरवाक्यार्थता च तत्र निषेधस्य विधित्सितार्थविरोधाद्भवति ।
तत्र हि विधित्सितोर्ऽथः पूर्वोपक्रान्तत्वेन स्थेम्नावतिष्ठमानः स्वविरूद्धत्वेन निषेधं निषेधतात्पर्यात्प्रच्याव्यस्वगतविसेषाभिधानायावान्तरवाक्यार्थीकरोति ।
अतोऽनन्तरोक्तेन प्रकारेणेष्टस्यार्थस्य विशेषमभिधातुं यत्र निषेध इव न तु निषेध एव, असाविष्टार्थनिराकरणस्य लेशेन संभवदाक्षेपसंज्ञकोऽलङ्कारः सत्कविभिरभिधीयते ।
सन्तः कवय इति संबन्धः ।
तस्य भेदद्वितयोपदर्शनायाह
वक्ष्यमाणोक्तविषयः स च द्विविध इष्यते ।
वक्ष्यमाणमुक्तं चेष्टमाश्रित्य निषेधाभिधानादाक्षेपो द्विविध इत्यर्थः ।
ननुऽप्रतिषेध इवेष्टस्यऽइत्याक्षेपलक्षणमुक्तम् ।
इष्टत्वं चेच्छाकर्मता ।
यस्य च वस्तुन इच्छाकर्मता तस्य नावश्यमुक्तिक्रियां प्रति कर्मत्वं भवति ।
इष्यमाणं हि कदाचिदुच्यते कदाचिन्न ।
अतश्चेष्टस्योक्तिकर्मतामाश्रित्य यदेतदाक्षेपस्य वक्ष्यमाणोक्तविषयतया द्वैविध्यमुक्तं तन्न संगच्छते इत्याशङ्क्याह
निषेधेनेव तद्बन्धो विधेयस्य च कीर्तितः ॥ २.३ ॥
विधेयस्य विधातुं ज्ञापयितुमभिमतस्य यो निषेध इव तेनायं वक्ष्यमाणोक्तविषय आक्षेपो निबध्यते ।
एतदुक्तं भवतिविधानकर्मताद्वारेणैवात्र इष्टत्वमवसीयते ।
निबन्धनान्तराभावात् ।
विधानकर्मता च विधानात्मिकाया उक्तेः कर्मता ।
साच द्विविधा, आर्थी
शाब्दी च ।
यत्र स्वशब्दव्यापारमन्तरेणापि शब्दान्तरव्यापारसहायनिषेधमुखेनैव विधित्सितोर्ऽथोऽवगम्यते तत्रार्थी ।
तत्र च वक्ष्यमाणविषय आक्षेपः ।
यत्र तु विधिमुखेनैव वक्तुमिष्टस्यार्थस्योपादानं क्रियते तत्र शाब्दी ।
तत्र चोक्तविषयता आक्षेपस्य ।
एवं चानन्तरोदितय नीत्या शाब्देनार्थेन च विधिना यदंवसितमिष्टं तस्योक्तिक्रियाकर्मत्वसंभवादुक्तिक्रियायाः कर्मभूतो योर्ऽथस्तदाश्रयं
वक्ष्यमाणविषयत्वमुक्तविषयत्वं चाक्षेपस्य निबध्यते ।
तत्र वक्ष्यमाणविषयस्याक्षेपस्योदाहरणम्
अहो स्मरस्य माहात्म्यं यद्रुद्रेऽपि दशेदृशी ।
इयदास्तां समुद्राम्भः कुम्भैर्माने तु के वयम् ॥ २.*१ ॥
अहो इति विस्मये ।
अत्र मन्मथमाहात्म्यं तदवस्थाविशेषसंस्पर्शेन प्रतिपादयितुमिष्टम् ।
तच्च तस्य तथाप्रतिपादनमियदास्तामित्यादिना निषिद्धम् ।
निषेधश्चात्राभिधेयत्वविरोधात् ।
अभिधेयत्वेन च विरोधं वक्ति ।
आनन्त्येन तस्य तथाविधस्य वक्तुमशक्यत्वात् ।
रुद्रेऽपि नाम ईदृशी दशेति हि सामान्यरूपत्वेन मन्मथमाहात्म्यं प्रतिपादितं न तु विशेषरूपतया ।
अतो वक्तुमिष्टानां स्मरमाहात्म्यावस्थाविशेषाणामयमानन्त्येनाभिधाननिषेध इव नतु निषेध एव ।
विवक्षितार्थविरोधेनावान्तरवाक्यार्थत्वात् ।
तथाहि, अत्र समुद्राम्भसः कुम्भैर्मातुमशक्यत्वं यदस्मदर्थकर्तृकमभिहितं तत्सादृश्येनानन्त्यविशिष्टत्वेनोत्कर्षयितुमिष्टानां मन्मथमाहात्म्यावस्थाविशेषाणां पूर्वं प्रतिपिपादयिषितत्वेन लब्धप्रतिष्ठानां वाक्यार्थत्वम् ।
अतश्च तदभिधाननिषेधस्य तद्विरोधादत्रावान्तरवाक्यार्थता ।
न चावान्तरवाक्यार्थो वाक्यविश्रान्तिस्थानतया वक्तुं शक्यः ।
न खलु रक्तः पटो भवतीत्यत्र रक्तत्वावच्छिन्नपटभवनपरत्वाद्वाक्यस्य पटभवनपर्यवसानमात्रत्वं सुभणम् ।
अतोऽत्रापि निषेधस्यावान्तरवाक्यार्थत्वेन वाक्यविश्रान्तिस्थानत्वाभावान्निषेधरूपत्वमिव न तु निषेधरूपता ।
स च निषेधोऽत्रावान्तरवाक्यत्वात्प्रधानवाक्यार्थानुगुण्येन प्रवर्तमानः खकण्ठेनाभिधानं मन्मथमाहात्म्यावस्थविशेषाणां निषेधति, न पुनरर्थसामर्थ्यावसेयमपि ।
अतश्च समुद्राम्भसः कुम्भैर्प्तातुमशक्यत्वमस्मदर्थकर्तृकं स्वकण्ठेनाभिहितं यत्तत्सादृश्येनावसिते संविज्ञानपदशून्ये स्मरमाहात्म्यावस्थाविशेषाणामानन्त्यलक्षणे विशेषे वाक्यस्य पर्यवसानं तेनायमिष्टमर्थं प्रतिषेधव्याजेन विशेषेऽवस्थापयति तस्मादाक्षेपः ।
अत्र चऽअहो स्मरस्य माहात्म्यं यद्रुद्रेऽपि दशेदृशीऽइत्येतच्छब्दव्यापारसहायेनऽइयदास्ताम्ऽइति निषेधेनैव स्वकण्ठेनानुपात्तानामपि मन्मथमाहात्म्यावस्थाविशेषाणां वक्ष्यमाणतया सूचनम् ।
तेषां च तथा सूचितानां निषेधव्याजेन संविज्ञानपदशून्यानन्त्यभेदप्रतिपादनम् ।
अतो वक्ष्यमाणविषयता आक्षेपस्य ।
उक्तविषयस्य तु तस्योदाहरणम्
इति चिन्तयतस्तस्य चित्रं चिन्तावधिर्न यत् ।
क्व वा कामविकल्पानामन्तः कालस्य चेक्षितः ॥ २.*२ ॥
अत्र चित्रत्वस्योक्तस्योक्तिः क्व वेति प्रसिद्धत्वादाक्षिप्यते ।
पूर्वत्र खलु विरुद्धत्वमाक्षेपनिबन्धनमुक्तम्, इह तु प्रसिद्धत्वम् ।
द्वाभ्यामेव च प्रकाराभ्यामाक्षेपो भवति विरुद्धत्वेन प्रसिद्धत्वेन च ।
उक्तंच"वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य ।
अन्यत्तथात्वसिद्य्धै यत्र ब्रूयात्स आक्षेपः"इति ।
प्रसिद्धत्वं चात्र समर्थयितुं कालसादृश्यसमुक्तम् ।
यथा कालस्यान्तो नेक्ष्यते तद्वत्कामविकल्पानाम् ।
अतो नैवात्र चत्रत्वम् ।
अन्यत्राप्यस्य रूपस्य परिदृष्टत्वादिति ।
कालतुल्यतया चात्र कामविकल्पानामानन्त्यात्मको विसेषः संविज्ञानपदशून्योऽभिधित्सितः ।
तस्य च चित्रतया सामान्येन पूर्वमुपक्रान्तस्याधुना निषेधवशेन संविज्ञानपदशून्येन विवक्षितेन रूपेण वाक्यार्थींभूतत्वान्निषेधस्य पूर्ववदवान्तरवाक्यार्थता ।
तेन क्ववेत्ययं निषेध इव नतु निषेध एव ।
तेनात्रोक्त विषयता आक्षेपस्य ।
तदाहुः
शब्दस्पृष्टेऽथवाप्यार्थे वक्तुमिष्टे निषिद्धता ।
तदङ्गं तद्विरोधेन यत्राक्षेपो भवेदसौ ॥
इति ।
शब्देन स्पृश्यते (स्पृष्टे?) वक्तुमिष्टे उक्तविषये आक्षेपे ।
वक्ष्यमाणविषये तु विवक्षितस्य आर्थता ।
शब्दान्तरव्यापारसहायनिषेधमुखेन
तस्योपस्थाप्यमानत्वात् ।
यश्चात्रोभयत्रापि निषेधः क्रियते स विवक्षितार्थविरोधात्स्वतात्पर्यं त्यक्त्वा विवक्षितमेवार्थं संकुर्वंस्तदङ्गतां प्रतिपद्यते ।
अतोऽत्र द्विविध आक्षेपो भवतीत्यर्थः ।
अर्थान्तरन्यासः ।
समर्थकस्य पूर्वं यद्वचोऽन्यस्य च पृष्ठतः ।
विपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वा ॥ २.४ ॥
ज्ञेयः सोर्ऽथान्तरनयासः
यत्र समर्थ्यसमर्थकभावः सोर्ऽथान्तरन्यासः ।
तत्र हि समर्थकस्य समर्थकतावगतिहेतुं व्याप्तिं पक्षधर्मत्वं चानुपन्यस्यार्थान्तरस्येवोपन्यासः क्रियते ।
व्याप्तिपक्षधर्मत्वयोः स्वशब्देनानुपात्तयोरपि गर्भीकृतत्वात् ।
अतोऽसावर्थान्तरन्यासः ।
स च चतुर्विधः ।
तत्र समर्थके पूर्वमभिहिते समर्थ्यस्य यत्र पश्चादभिधानं तत्र द्वौ प्रकारौ भवतः ।
हिशब्दाभिव्यक्तत्वं समर्थ्यसमर्थकभावस्यैवकः प्रकारः ।
तदुक्तं “समर्थकस्य पूर्वं यद्वचोऽन्यस्य च पृष्ठतः” ।
इति, “हिशब्दोक्त्ये"ति च ।
तस्योदाहरणम्
तन्नास्ति यन्न कुरुते लोको ह्युत्पन्नकार्यिकः ।
एष शर्वोऽपि भगवान् बटूभूय स्म वर्तते ॥ २.*३ ॥
बटूभूय अचिरकृतोपनयनत्वमापद्य ।
अत्र शर्वस्य सर्वलोकातिशायिनो बटूभावेन वृत्तिमनुपपद्यमानतयाशङ्क्य तत्समर्थनाय समर्थकं पूर्वमेवोपन्यस्तं “तन्नास्ति यन्न कुरुते"इति ।
अत्यन्तकार्यिकत्वादनुचितमपि रूपमनुभूतवान् ।
शर्वस्तदन्यैवंविधपुरुषवदिति ।
अत्र च हिशब्देनाभिव्यक्तः समर्थ्यसमर्थकभावः ।
यत्र पूर्वेणैव क्रमेण समर्थ्यसमर्थकयोरुपन्यासे हिशब्दश्चार्थसामर्थ्यवसेयार्थत्वान्न प्रयुज्यते तत्र द्वितीयोर्ऽथान्तरन्यासभेदो भवति ।
तदुक्तं “अन्यथापि च"इति ।
हिशब्दोक्तिमन्तरेणापीत्यर्थः ।
तस्योदाहरण्
प्रच्छन्ना शस्यते वृत्तिः स्त्रीणां भावपरीक्षणे ।
प्रतस्थे धूर्जटिरतस्तनुं स्वीकृत्य बाटवीम् ॥ २.*४ ॥
भावः आशयः ।
बाटवीं ब्रह्मचारिसंबन्धिनीम् ।
अत्र धूर्जटेर्बटुवेषालम्बनेन प्रच्छन्ना शस्यते वृत्तिः"इत्यादिना ।
योषिदाशयपरीक्षणप्रवृत्तत्वाद्धूर्जटिः प्रच्छन्नां वृत्तिमाश्रितवानिति ।
हिशब्दश्चात्रातःशब्दसामर्थ्येन यस्मादित्यस्यार्थस्यावगतत्वान्नोपात्तः ।
एवमेतौ समर्थकपूर्वोपन्यासावर्थान्तरन्यासौ द्वावेवोक्तौ ।
यत्रापि चैतद्विपर्ययेण सामर्थ्यस्य पूर्वमुपन्यासः पश्चात्समर्थकस्य, तत्रापि समर्थ्यसमर्थकभावे हिशब्दावगतेर्ऽथाक्षिप्ते च सति द्वैविध्यम् ।
तदुक्तंऽविपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वाऽइति ।
पूर्वस्योदाहरणम्
हरोऽथ ध्यानमातस्थौ संस्थाप्यात्मानमात्मना ।
विसंवदेद्धि प्रत्यक्षं निर्ध्यातं ध्यानतो न तु ॥ २.*५ ॥
अत्र हरस्य व्यवहिताद्यर्थविषयत्वेनाप्रतिहतबाह्येन्द्रियवृत्तित्वात्सति बाह्येन्द्रियजन्यप्रत्यक्षसंभवे ध्यानाश्रयणमयुक्तत्वेन संभाव्यं तत्समर्थनायोक्तंऽविसंवदेद्धि प्रत्यक्षम्ऽइत्यादि ।
अत्यन्ताविसंवादकोपलब्ध्युपायार्थित्वाद्य्धानमास्थितवान् हर इति ।
हिशब्दानभिव्यक्ते तु समर्थ्यसमर्थकभावे यत्र समर्थ्यस्य पूर्वमुपन्यासस्तत्रोदाहरणम्
अपश्यच्चातिकष्टानि तप्यमानां तपांस्युमाम् ।
असंभाव्यपतीच्छानां कन्यानां का परा गतिः ॥ २.*६ ॥
बहूनामभिमतवरप्राप्त्युपायानां प्रार्थनादीनां संभवे कस्माद्भगवती तपसा शरीरमायासितवतीत्याशङ्क्य तत्समर्थनायाभिहितंऽअसंभाव्यपतीच्छनाम्ऽइति ।
दुःप्रापभर्त्रभिलाषित्वात्तपः समाश्रितवती ।
तपांसि भगवतीं खेदयन्ति ।
तानि पुनः सा तथाविधान्युपार्जयति ।
अतस्तपस्तप्यते तपस्तपःकर्मकस्यैवेति कर्तुः कर्मवद्भावः ।
एवमेव चतुर्विधोर्ऽथान्तरन्यासोऽभिहितः ।
ननु यदि समर्थ्यसमर्थकभावे सत्यर्थान्तरन्यासो भवति ।
एवंसत्यप्रस्तुतप्रशंसादृष्टान्तयोरपि समर्थ्यसमर्थकभावसद्भावादर्थान्तरन्यासताप्रसङ्गः ।
तथाहि ।
“प्रीणितप्रणयि स्वादु काले परिणतं( च यत्) विना पुरुषकारेम फलं पश्यत शाखिनाम्"इत्यास्यामप्रस्तुतप्रंशसायां विशेषात्सामान्यस्य प्रतिपत्तिर्यथा सेचनादिकं पुरुषव्यापारमन्तरेण वनशाखिनां विविधगुणोपेतस्य फलस्य प्रसूतिर्दैवप्रधाना एवमेतत्सर्वं जगति दैवप्रधानमिति ।
अत्र च समर्थ्यसमर्थकभावो विद्यते ।
सर्वं जगच्चेष्टितं दैवप्रधानं पुरुषकारान्वयव्यतिरेकाननुविधायित्वाद्वनशाखिफलवदिति ।
ततश्च
तत्राप्यर्थान्तरन्यासत्वप्रसङ्गादलक्ष्यव्याप्तिर्लक्षणदोषः ।
दृष्टान्तेऽपि च (समर्थ्य) समर्थकभावो विद्यते ।
तथाहि “त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् ।
आलोके हि सितांशोर्विकसति कुमुदं कुमुद्वत्याः” ॥
इत्यत्र यथा चन्द्रगुणपक्षपातित्वेन कुमुदिन्याश्चन्द्रालोके कुमुदं विकसति, तद्वद्गुणपक्षपातित्वात्त्स्यास्त्वद्दर्शने मनो मन्मथाग्निप्रज्वलितमुपशाम्यतीति समर्थ्यसमर्थकभावोऽवगम्यते ।
तेन दृष्टान्तेऽप्यर्थान्तरन्यासताप्रसङ्ग इत्याशङ्क्याह
प्रकृतार्थसमर्थनात् ।
अप्रस्तुतपरशंसाया दृष्टान्ताच्च पृथक्स्थितः ॥ २.५ ॥
सत्यमप्रस्तुतप्रशंसायां दृष्टान्ते च समर्थ्यसमर्थकभावोऽवगाम्यते ।
न तु तत्रार्थान्तरन्यासवत्समर्थ्यसमर्थकभावस्य संभवः ।
अर्थान्तरन्यासे हि सर्थ्यस्य यथायोगं पूर्वोत्तरकालभावित्वेन स्वकण्ठेनोपात्त्सय समर्थनम्, अप्रस्तुतप्रशंसायां त्पप्रकृतसामर्थ्येन प्रकृतमाक्षिप्यते, न तु स्वकण्ठेनोपादीयते, यथा पूर्वोपवर्णिते उदाहरणे ।
तत्र हि वनशाखिनां फलदर्शनेनाप्रकृतेन दैवप्रधानेन समग्रजगद्गोचरं दैवप्राधान्यं प्रकृतमाक्षिप्यते, न तु तस्यार्थान्तरन्यासवत्स्वकण्ठेनोपादानम् ।
अतश्च तत्र सत्यपि समर्थ्यसमर्थकभावे शब्दोपक्रान्तप्रकृतार्थनिष्ठत्वाभावान्नार्थान्तरन्यासत्वम् ।
दृष्टान्तेऽपिच द्वयोरपि समर्थ्यसमर्थकयोः स्वकण्ठेनोपात्तत्वात्सत्यपि स्वकण्ठोपात्तप्रकृतार्थनिष्ठत्वे दृष्टान्तस्य समर्थ्यसमर्थकभावपुरःसरीकारेण प्रवर्तमानत्वान्न भवत्यर्यान्तरन्यासत्वम् ।
न खलु तस्य समर्थ्यसमर्थकभावपुरःसरकारेण प्रवृत्तिः ।
बिम्बप्रतिबिम्बभावमात्रस्य शब्दस्पृष्टत्वात् ।
अर्थाद्धि तत्र समर्थ्यसमर्थकभावावसायः ।
अर्थान्तरन्यासे तु समर्थ्यसमर्थकभावेनैवोपक्रमः ।
तेन यत्र समर्थ्यसमर्थकभावोपक्रममर्थान्तरोपादानं तत्रार्थान्तरन्यासत्वाद्दृष्टान्तस्यार्थान्तरन्यासताप्रसङ्गो न भवति ।
तदिदमुक्तंऽप्रकृतार्थसमर्थनादिऽति ।
अत्र प्रकृतशब्दः स्वकण्ठोपात्तप्रकृतार्थनिष्ठो द्रष्टव्यः ।
समर्थनं चात्रोपक्रमावस्थावर्त्त्युपात्तम् ॥
व्यतिरेकः
विशेषोपादानं यत्स्यादुपमानोपमेययोः ।
निमित्तादृष्टिदृष्टिभ्यां व्यतिरेको द्विधी तु सः ॥ २.६ ॥
उपमानोपमेययोः परस्परं यत्र विशेषः ख्याप्यते स व्यतिरेकः ।
तत्र ह्युपमानादुपमेयस्योपमेयादुपमानस्य वा केनचिद्विशेषेणातिरेक आधिक्यं तस्माद्य्वतिरेकः ।
स च द्विविधः ।
तत्र विशेषख्यापननिमित्तस्यार्थसामर्थ्यादाक्षेपादेकः प्रकारः ।
अपरस्तु तस्य स्वशब्देन प्रतिपादनात् ।
तदुक्तंऽनिमित्तादृष्टिदृष्टिभ्यां द्विधाऽइति ।
एतावपि च भेदौ प्रत्येकं द्विविधौ ।
क्वचिद्धि अर्थसामार्थ्यात्प्रतीयमाने उपमानोपमेयभावे पूर्वोक्तेन प्रकारद्वयेन व्यतिरेकः ख्याप्यते, क्वचित्तु इवादिभिरुपातैः ।
तत्रार्थसामर्थ्येन यत्रोपमानोपमेयभावोऽवगम्यते तत्र पूर्वस्मिन्प्रकारद्वये पूर्वभेदस्योदाहरणम्
सा गौरीशिखरं गत्वा ददर्शोमां तपःकृशाम् ।
राहुपीतप्रभस्येन्दोर्जयन्तीं दूरतस्तनुम् ॥ २.*७ ॥
राहुणा पीता द्रवद्रव्यस्योदकादेः स्वगलबिलान्तर्भावनं यत्तद्वदात्माभ्यन्तरीकृता प्रभा यस्य स तथोक्तः ।
अत्र
राहुणा पीता द्रवद्रव्यस्योदकादेः स्वगलबिलान्तर्भावनं यत्तद्वदात्माभ्यन्तरीकृता प्रभा यस्य त तथोक्तः ।
अत्र राहुपीतप्रभत्वविशिष्टस्येन्दोस्तनुरुपमानं, तपःकृशा पार्वत्युपमेया, अनयोः साधारणो धर्मः स्वभावतः सौन्दर्ये सति निमित्तवशाद्विच्छायत्वम् ।
तच्च स्वकण्ठेनानुपात्तमपि पदार्थस्वरूपपर्यालोचनया लभ्यते ।
एवमिवाद्यभावेऽप्युपमानोपमेयभावस्यात्र सामर्थ्यात्प्रतिपत्तिर्जयन्तीमिति च उपमानादुपमेयस्य विशेषः ख्यापितः ।
तस्य च विशेषस्य ख्याप्यमानस्य निमित्तमत्र न स्वकण्ठेनोपात्तं, अर्थसामर्थ्यात्तु तदवगम्यते ।
राहुरिन्दुप्रभापाने तथा न समर्थः यथा तपःसातिशयत्वात्पार्वत्याः क्षामत्वे इति राहुतोऽपि तपःसातिशयत्वमुपमानादुपमेयस्य विशेषनिमित्तमत्रावगम्यते ।
एवमयमनुपात्तनिमित्तो व्यतिरेकः ।
उपात्तनिमित्तस्तु
पद्मं च निशि निःश्रीकं दिवाचन्द्रं च निष्प्रभम् ।
स्फुरच्छायेन सततं मुखेनाधः प्रकुर्वतीम् ॥ २.*८ ॥
मुखमुपमेयम् ।
पद्ममिन्दुश्चोपमानम् ।
तच्चात्र द्वयं स्वकण्ठस्पृष्टम् ।
तयोस्तु साधारणो धर्मः कान्तिमत्तादिरुपमानोपमेयभावश्चेत्यतदुभयं सामर्थ्यादवगम्यते ।
न खल्वत्र वक्ष्यमाणव्यतिरेकवदुपमानोपमेयभावस्य द्योतका इवादय उपात्ताः ।
अधःप्रकुर्वतीमिति चोपमानादुपमेयस्य विशेषः ख्यापितः ।
तत्र च निमित्तमुपात्तमुपमानोपमेयोभयाधारत्वेन ।
उपमानयोस्तावत्पद्मचन्द्रयोर्निशि दिवा च यथाक्रमं निःश्रीकत्वनिष्प्रभत्वे, उपमेये तु रात्रिन्दिवं स्फुरच्छायता ।
अतो विशेषे निमित्तदर्शनेनायं व्यतिरेकः ।
तदेवं यत्रेवादिनोपमानोपमेयभावो नावद्योतितस्तत्र द्विविधो व्यतिरेको दर्शितः ।
इवाद्युपाते तूपमानोपमेयभावे यो व्यतिरेकस्तमाह
यो वैधर्म्येण दृष्टान्तो यथेवादिसमन्वितः ।
व्यतिरेकोऽत्र सोऽपीष्टो विशेषापादनान्वयात् ॥ २.७ ॥
ऽयो वैधर्म्येण दृष्टान्तऽइतिऽविशेषापादनान्वयादऽति च व्यतिरेकलक्षणं योजितम् ।
वैधर्म्यं ह्युपमेयधर्मस्योपमाने विगमः ।
यथेवादिसमन्वित इत्यनेन यथेवाद्यवद्योतितत्वमुपमानोपमेयभावस्याह ।
तस्योदाहरणम्
शीर्णपर्णाम्बुवाताशकष्टेऽपि तपसि स्थिताम् ।
समुद्वहन्तीं नापूर्वं गर्वमन्यतपस्विवत् ॥ २.*९ ॥
शीर्णपर्णाम्बुवातानामाशो भक्षणम् ।
अत्रान्यतपस्विन उपमानं, भगवत्युपमेया, साधारणश्च धर्मः कष्टे तपस्यवस्थितत्वाच्चेतसः सोल्लासता ।
वतिश्चात्र गर्वोद्वहननिबन्धनं यत्तच्चेतसः सोल्लासत्वं तन्निबन्धनमुपमानोपमेयभावमवगमयति ।
गर्वं न समुद्वहन्तीमित्युपमानादुपमेयस्य विशेषः पिरतिपादितः ।
अन्ये किल तपस्विनः सातिशयतपोवशात्समुल्लसितचित्ताः सन्तो गर्वं समुद्वहन्ति, भगवती त्वत्यन्तमुपशान्तचित्तत्वान्न तथा ।
एवं चात्र गर्वोपक्रमावस्थापेक्षमुपमानोपमेययोः सादृश्यं, तदनिर्वाहात्तूपमानादुपमेयस्य व्यतिरेकः ।
अनिर्वाहे च निमित्तमत्र स्वकण्ठेनानुपात्तमप्यर्थसामर्थ्यादवगम्यते अत्यन्तोपशान्तचित्तत्वं नाम ।
एवमयं निमित्तादर्शने बत्युपात्तोपमानोपमेयभावो व्यतिरेक उदाहृतः ।
निमित्तोपादाने तु तस्योदाहरणमुन्नेयम् ।
एवमेते चत्वारो व्यतिरेकाः प्रतिपादिताः ।
निमित्तदर्शनादर्शनाभ्यां यौ व्यतरेकौ तयोः
प्रत्येकमुपमानोपमेयभावस्य इवाद्युपादानानुपादानाभ्यां द्विभेदत्वात् ।
एषामपि चतुर्णां व्यतिरेकाणां श्लिष्टोक्तियोग्यशब्दोपादाने सति पुनरपरे पूर्वोपक्रान्तेनैव रूपेण चत्वारो भेदा भवन्ति ।
तदाह
श्लिष्टोक्तियोग्यशब्दस्य पृथक्पृथगुदाहृतौ ।
विशेषापादनं यत्स्याद्य्वतरेकः स च स्मृतः ॥ २.८ ॥
ऽएकप्रयत्नोच्चार्याणामिऽत्यादिवक्ष्यमाणलक्षणं श्लिष्टम् ।
श्लिष्टालङ्कारसमुचितं यदुच्चारणं तत्समुचितस्य शब्दस्य यदा तन्त्रेण सदृशशब्दान्तरोपादानहेतुतया वा प्रयोगो न क्रियते अपि तु पृथक्पृथगुच्चारणं, तदा विशेषापादने सति व्यतरेको भवति ।
तस्योदाहरणम्
या शैशिरी श्रीस्तपसा मासेनैकेन विश्रुता ।
तपसा तां सुदीर्घेण दूराद्विदधतीमधः ॥ २.*१० ॥
अत्र शिशिरशोभा उपमानं, भगवती उपमेया, तयोश्च साधारणो धर्मस्तपोयुक्तत्वं नाम ।
एकत्र तपा
माघो मासः, अपरत्र त्वभ्युदयहेतुः कृच्छ्राचरणम् ।
इवादयश्चात्रानुपात्ता अपि सामर्थ्यादवगम्यन्ते ।
व्यतिरेकस्तु दूराद्विदधतीमध इति ।
तस्य च निमित्तं मासैक्यं दीर्धत्वं च तपसोः ।
तच्च यथाक्रममुपमानोपमेयगतत्वेनोपात्तम् ।
तत्र च वत्यादिना अनुपात्ते उपमानोपमेयभावे निमित्तदर्शनेन व्यतिरेक उदाहृतः ।
एवमनया दिशाअन्यदपि श्लिष्टोक्तियोग्यशब्दनिबन्धे सति व्यतरेकस्य पूर्वोक्तनयेन भेदत्रयमुदाहार्यम् ॥
विभावना
क्रियायाः प्रतिषेधे या तत्फलस्य विभावना ।
ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥ २.९ ॥
इह यत्किंचिज्ज्ञायते तत्सर्वं क्रियाफलम् ।
क्रियामुखेन कारणेभ्यः कार्योत्पत्तेः प्रातीतिकेन रूपेण परिदृश्यमानत्वात्सर्वेषां फलभूतानां क्रियैवाव्यवहतं कारणं यत्र च क्रिया प्रतिषिध्यते अथ च क्रियाफलस्योत्पत्तिरुपदिश्यते तत्र विभावनाख्योऽलंकारः ।
कारणविगमे किलकार्यस्य तत्रोत्पत्तिरुपवर्ण्यते ।
अतो विरुद्धाभासा भावना उत्पादना, तेन विभावना ।
नन्वेवं सति व्यर्थदोषत्वप्रसङ्गःऽविरुद्धार्थं मतं व्यर्थम्ऽइति अत आहसमाधौ सुलभे सतीति ।
समाधिः परिहारः ।
यत्र विरोधस्य सुलभः परहार इत्यर्थः ।
तस्या उदाहरणम्
अङ्गलेखामकाश्मीरसमालम्भनपिञ्चराम् ।
अनलक्तकताम्राभामोष्ठमुद्रां च बिभ्रतीम् ॥ २.*११ ॥
अङ्गलेखा शरीरयष्टिः ।
कारमीरं कुङ्कुमम् ।
येयं पीतच्छायता शरीरस्य सा नायिकानां कुङ्कुमसमालम्भनलक्षणक्रियाकार्या प्रार्यण परिदृश्यते, भगवत्यास्तु शरीरे पीतच्छायत्वं न कुङ्कुमसमालम्भनेनोत्पादितम् ।
अतः कुङ्कुमसमालम्भनलक्षणायाः क्रियाया विगमे फलस्य पीतच्छायत्वस्यात्रोपदेशः ।
परिहारश्चात्र स्वाभाविकतया तच्छायत्वमिति ।
तेनेयं विभावना ।
अनलक्तकताम्राक्षामित्यत्रालक्तककारणिकाया रागक्रियाया निषेधे तत्फलस्य लौहित्यस्य उत्पत्तिः स्वाभाविकी निर्दिष्टा ।
अतो विभावना ।
अत्र च कुङ्कुमादिसंपाद्येन पिञ्चरत्वादिना उपमानभूतेन स्वाभाविकस्य पिञ्जरत्वादेरुपमेयभूतस्याभेदाध्यवसायोऽतिशयोक्त्या द्रष्टव्यः ॥
समासोक्तिः
प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः ।
अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता ॥ २.१० ॥
यत्र प्रस्तुतार्थनिष्ठं वाक्यं तत्समानैर्विशेषणैस्तेनाप्रकृतेनार्थेन तुल्यानि यानि विशेषणानि तद्द्वारेण सादृश्यवशादप्रस्तुतमर्थमुपमानभूतं कथयति, सा संक्षेपेणोपमानोपमेयलक्षणार्थद्वतयाभिधानात्समासोक्तिः ।
तस्या उदाहरणम्
दन्तप्रभासुमनसं पाणिपल्लवशोभिनीम् ।
तन्वीं वनगतां लीनजटाषट्चरणावलिम् ॥ २.*१२ ॥
अत्र दन्तप्रभापाणिजटा भगवतीविशेषणभूता यथाक्रमं लतागतसुमनःपल्लवषट्चरणरूपेण आरोपेण व्या(प्ताः) (?) तद्भावमापद्यन्ते ।
तनुत्वं तु भगवतीलतयोः साधारणो धर्मः ।
वनशब्देन च रूपकप्रतिभोत्पत्तिहेतुना श्लेषेण भगवतीतपश्चर्याधारभूतमुदकं लताधारेण काननेन रूप्यते ।
अत एतान्यत्र प्रकृताया भगवत्या अप्रकृतया लतया समानानि विशेषणानि ।
तत्सामर्थ्येन च प्रकृतया भगवत्या उपमेयभूतया लता उपमानत्वेनाक्षिप्यते ।
तेनेयं समासोक्तिः ।
अतिशयोक्तिः
निमित्ततो यत्तु वयो लोकातिक्रान्तगोचरम् ।
मन्यन्तेऽतशयोक्तिं तामलंकारतया बुधाः ॥ २.११ ॥
भेदेऽनन्यत्वमन्यत्र नानात्वं यत्र बध्यते ।
तथा संभाव्यमानार्थनिबन्धेऽतिशयोक्तिगीः ॥ २.१२ ॥
कार्यकारणयोर्यत्र पौर्वापर्यविपर्ययात् ।
आशुभावं समालम्ब्य बध्यते सोऽपि पूर्ववत् ॥ २.१३ ॥
यद्वचनं किंचित्कारणमाश्रित्य लोकातिक्रान्तगोचरमुपनिबध्यते सातिशयोक्तिः ।
तस्याश्च चत्वारो भेदाः यत्र भेदे अन्यत्वे अनन्यत्वमैक्यं स एकः ।
अन्यत्राभेदे ऐक्ये नानात्वं भेदो यत्र स द्वितीयः ।
तथा बहिरविद्यमानस्यार्थस्य संभावनामात्रेणोपनिबन्धे तृतयः ।
कार्यकारणयोस्तु कार्यस्य शीघ्रमेवोत्पादात्पौर्वापर्यविपर्ययेण चतुर्थो भेदः ।
तत्राद्यसय भेदस्योदाहरणम्
तपस्तेजःस्फुरितया निजलावण्यसंपदा ।
कृशामप्यकृशामेव दृश्यमानामसंशयम् ॥ २.*१३ ॥
अत्र यासावकार्श्यावस्था भगवत्याः पूर्वमभूत्ततो भिन्नमपि तपोजनितं कार्श्यं तदभेदेनोपनिबद्धमकृशामेवेति ।
तत्र च निमित्तं तपस्तेजसा सविशेषत्वमापादितः सौन्दर्यसंभारः ।
अतो निमित्तवशेन लोकातिक्रान्तो गोचरोऽस्य वाक्यस्य ।
तेनेयमतशयोक्तिः ।
द्वितीयस्य तु भेदस्योदाहरणम्
अचिन्तयच्च भगवानहो नु रमणीयता ।
तपसास्याः कृतान्यत्वं कौमाराद्येन लक्ष्यते ॥ २.*१४ ॥
अत्र भगवती कुमारीभावेऽपि वर्तमाना तदुत्तरकालभाविनी यासौयौवनावस्था तद्युक्तत्वेनोपनिबद्धा कौमारादन्यत्वमिति ।
निमित्तं चात्र तपोजनिता रमणीयता ।
तेनायमभेदे भेदोपनिबन्धः ।
तृतीयस्य पुनर्भेदस्योदाहरणम्
पतेद्यदि शशिद्योतच्छटा पद्मे विकाशिनि ।
मुक्ताफलाक्षमालायाः करेऽस्याः स्यात्तदोपमा ॥ २.*१५ ॥
शशिद्योतच्छटा चन्द्रप्रकाशप्रकारः ।
अस्याः करे मुक्ताफलाक्षमालायास्तदा उपमा स्यादिति संबन्धः ।
अत्र रजनिकरकरसंपर्के सति कमलस्य संकोचावलोकनाद्विकाशित्वं बहिरसंभवदपि कविप्रजापतिना प्रतिभोपजनितेन स्वव्यापारेण संभवद्रूपतया प्रदर्शितम् ।
अतोऽत्र संभाव्यमानार्थनिबन्धः ।
तस्य च लोकातिक्रान्तगोचरस्यार्थस्य संभावनाया निमित्तं भगवतीकराधारतया मुक्ताफलाक्षमालावलोकनम् ।
तथाहिअयं तावल्लोकातिक्रान्तोऽपरिदृष्टपूर्वोऽस्माभिः गौरीकरमुक्ताफलाक्षमालयोराधाराधेयभावोऽवलोकितः ।
तत्सजातीयस्य पद्मस्य विकाशिनश्चन्द्रकराणां च यद्याधाराधेयभावः स्यात्तदात्रोपमानोपमेयभावो भवेदिति संभावना प्रवृत्ता ।
अतोऽत्र सजातीयपदार्थदर्शनाद्बहरसंभवदपि वस्तु संभवद्रूपतयोपवर्ण्यते ।
एकस्मिन् खलु पदार्थे परिदृष्टे अन्यस्मिन्ननवलोकितेऽपि तत्सजातीयसंभावना प्रवर्तते ।
यथा दाक्षिणात्यस्यैकस्मिन्नुष्ट्रे परिदृष्टे सत्यपरिदृष्टोष्ट्रान्तरसंभावना ।
अतोऽत्र संभावना सनिमित्ता ।
अनेन च प्रकारेणात्रोपमानाभावः प्रकृतस्य वस्तुनः प्रदर्श्यते नास्त्यन्यत्किंचिदस्योपमानमिति ।
अत एव संभाव्यमानतयार्थस्योपनिबद्धस्य निराचिकीर्षया यदिशब्दः प्रयुक्तः ।
यदिशब्देन ह्यत्राशङ्का द्योत्यते ।
आशङ्का चानिश्चितसद्भावे वस्तुनि भवति ।
यच्चानिश्चितसद्भावं कविवेधसा संभवद्रूपतयोपदर्शितं वस्तु तस्य पुराणप्रजापतिनिर्मितपदार्थविषयाया तद्विरुद्धया लोकप्रतीत्या यान्निराक्रियमाणत्वं तावन्निरुपमत्वं प्रतीयते ।
एवमयं तृतीयो भेदः ।
चतुर्थस्तु
मन्ये च निपतन्त्यस्याः कटाक्षा दिक्षु पृष्ठतः ।
प्रायेणाग्रे तु गच्छन्ति स्मरबाणपरम्पराः ॥ २.*१६ ॥
अत्र दिक्षु कटाक्षपातः कारणम् ।
स्मरबाणपरम्परागमनं तु कार्यम् ।
कार्यकारणयोस्तु कारणस्य नैसर्गिकं प्राग्भावित्वं कार्यस्य तु पश्चाद्भावित्वम् ।
इह तु विपर्ययः ।
कार्यस्य प्राग्भावेनोपनिबन्धनात् ।
पश्चाद्भावितत्वेन च कारणस्य कटाक्षा दिक्षु पृष्ठतः पश्चात्पतन्ति अग्रे स्मरबाणपरम्परा गच्छन्तीति अत्र निमित्तं (अनु) कार्यस्य शीघ्रमेवोत्पादः ।
तेनेदं निमित्ततो लोकातिक्रान्तगोचरं वचनम् ।
अतोऽतशयोक्तिः ॥
इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ द्वितीयो वर्गः ॥
*****
अथ तृतीयो वर्गः ।
यथासंख्यमथोत्प्रेक्षां स्वभावोक्तिं तथैव च ।
अपरे त्रीनलङ्कारान् गिरामाहुरलङ्कृतौ ॥ ३.१ ॥
यथासंख्यम्
भूयसामुपदिष्टानामर्थानामसधर्मणाम् ।
क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते ॥ ३.२ ॥
पूर्वमुद्दिष्टानामर्थानां यदा क्रमेणार्थान्तराण्यनुनिर्दिश्यन्ते तदा यथासंख्याख्योऽलङ्कारः ।
तत्र हि संख्योपलक्षितक्रमानतिक्रमेण शब्देनानुपात्तोऽपि पदार्थानामन्वयः समाश्रीयते ।
अतो यथाक्रमं पदार्थानामन्वयध्वननादेतस्यालङ्कारस्य यथासंख्यता ।
स चालङ्कारो बहूनामल्पशोऽप्युपनिबध्यमानो यतः शोभाबद्धो भवति अतो भूयसामित्युक्तम् ।
द्वयोर्हि तस्योपनिबध्यमानस्य यावच्चतुर्गुणत्वादिरूपतयोपनिबन्धो न कृतः तावच्छोभोपेतत्वं न भवति ।
भूयसां पुनरर्थानां तद्यथासंख्यमल्पेनैव प्रयासेनरम्यं भवति ।
तत्र हि तस्य द्विगुणस्य त्रिगुणस्य वोपनिबन्धे शोभातिशयो जायते ।
तदुक्तम्
तद्द्विगुणं त्रिगुणं वा बहुषूद्दिष्टेषु जायते रम्यम् ।
यत्तेषु पथैव ततो द्वयोस्तु बहूशो निबध्नीयात् ॥
इति ।
ननु “मृणालहंसे"त्यादावुपवर्णयिष्यमाणे उदाहरणे मृणालादिभ्य उपमानेभ्यो बाह्वादीनामुपमेयानां विशेषख्यापनाद्य्वतिरेकालङ्कारेण सहृदयहृदयाण्यावर्ज्यन्ते, न तु यथासंख्येन ।
तत्कथं यथासंख्यमलङ्कार इत्याशङ्क्योक्तम्"असधर्मणामिति” ।
यत्रापि हि साधर्म्यभावादुपमानोपमेयभावाभावेन व्यतिरेकादेरुपनिबन्धाभावस्तत्राप्ययं शोभातिशयमावहतीत्यर्थः ।
यथा
कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं नः ।
जलनिधिगिरिपद्मस्था हरिहरचतुरानना ददतु ॥
इति ।
अत्र हि हरिप्रभृतीनां त्रयाणामुद्दिष्टानां कज्जलरुक्त्वसुपर्णवाहनत्वजलनिधिस्थत्वादयो धर्माः क्रमेणानुनिर्दिष्टाः ।
न च तत्र परस्परसाधर्म्यं विद्यते ।
अथ च क्रमपर्यालोचनया अर्थानामानुरूप्येण समन्वयप्रतीतेः शोभातिशयो विद्यते ।
तेनास्य साधर्म्याद्यभावेऽपि पृथगलङ्कारताप्रतिलम्भाद्यत्र साधर्म्यादि विद्यते तत्राप्यलङ्कारत्वं दुर्निवारम् ।
अतो “मृणालहंसे"त्यादिके उदाहरणे यथासंख्यमङ्गभूतं व्यतिरेकालङ्कारस्य द्रष्टव्यम् ।
तेनायमङ्गाङ्गिभावे सङ्करः ।
यद्वक्ष्यति “परस्परोपकारेण यत्रालङ्कृतयः स्थिताः ।
स्वातन्त्र्येणात्मलाभं नो लभन्ते सोऽप सङ्करः” ॥
इति ।
अतो यथासंख्यं पृथगलङ्कारत्वेनोपदेष्टव्यम् ।
तस्योदाहरणम्
मृणालहंसपद्मानि बाहुचङ्क्रमणाननैः ।
निर्जयन्त्यानया व्यक्तं नलिन्यः सकला जिताः ॥ ३.*१ ॥
अत्र बाहुचङ्क्रमणाननानामुद्दिष्टानां यथाक्रमं मृणालहंसपद्मान्यनुनिर्दिष्टानि ।
तद्वशेन च शब्दानुपात्तस्यापि तदन्वयस्य गर्भीकृतत्वेन वक्रभणितिसद्भावाद्यथासंख्यमलङ्कारः ॥
उत्प्रेक्षा
साम्यरूपाविवक्षायां वाच्येवाद्यात्मभिः पदैः ।
अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥ ३.३ ॥
यत्रेवादिपदनिबन्धः साम्यस्य च रूपं न विवक्ष्यते तत्रोत्प्रेक्षाख्योऽलङ्कारः ।
नन्वेवं सत्यसंभवो नाम लक्षणदोषः प्राप्तः ।
द्योत्यस्योपमानोपमेयभावस्याभावे सति इवादीनामप्रयोगप्रसङ्गादित्याशङ्क्योक्तं “अतद्गुणक्रियायोगादि"ति ।
द्रव्यधर्मः सिद्धो गुणः ।
साध्यस्वभावस्तु क्रिया ।
इदं खलु विश्वं
स्वतन्त्रपरतन्त्रपदार्थात्मकत्वाद्द्वविधम् ।
यश्च स्वतन्त्रः पदार्थः स धर्मीत्यभिधीयते ।
तच्च इदं तदिति सर्वनामप्रत्यवमर्शयोग्यत्वाद्द्रव्यम् ।
परतन्त्रस्य पदार्थस्य धर्मरूपता ।
तस्य च द्वैविध्यम् ।
सिद्धसाध्यताभेदात् ।
तत्र यः सिद्धो धर्मः स गुणः ।
यस्तु साध्यः सा क्रिया ।
एतावन्तश्च लौकिकाः पदार्थाः ।
सामान्यादीनामत्रैव प्रतीतिकेन रूपेणान्तर्भूतत्वात् ।
अत्र असौप्रकृतो योर्ऽथस्तस्य ये क्रियागुणा अनन्तरोक्तलक्षणास्तद्योगात्साम्यरूपाविवक्षायामपि इवादिशब्दप्रवृत्तिरवरद्धा ।
यत्र किलोपमानोपमेयभावेन साम्यं तत्रोपमानसादृश्यादुपमानवर्तिनां क्रियागुणानां उपमेयप्रतीतिर्भवति ।
उत्प्रेक्षायामपि च योऽसावसः अप्रकृतस्तस्य ये क्रियागुणास्ते तस्मिन्नप्रकृते वस्तुन्युपमानतयानुल्लिङ्गितेऽपि प्रकृते वस्तुन्यासज्यन्ते ।
तेनातद्गुणक्रयायोगादस्या इवादिवाच्यत्वम् ।
अत एवान्यधर्माणां स्वधर्मिभूताद्वस्तुन उत्कलितानां रसभावद्यभिव्यक्तयनुगुणतयावस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणादियमुत्प्रेक्षा ।
नन्वेवमपि सुतरामसंभवः ।
न हि वस्त्वन्तरधर्मा वस्त्वन्तरे समासक्तुं शक्या इत्याशङ्क्योक्तमतिशयान्वितेति ।
पुराणप्रजापतिवहितरूपवपर्यासेन कविवेधसा पदार्थस्य गुणातिशयविवक्षया रूपान्तरमप्यासक्तुं शक्यत इत्यर्थः ।
इयं चोत्प्रेक्षा बहिरसंभवतः पदार्थस्य संभवद्रूपतयोपवर्णनाल्लोकातिक्रान्तविषया संभावना ।
तस्याश्च द्वैविध्यम्, भावस्याभावस्य च बहिरसंभवत उपवर्ण्यमानत्वात् ।
तदाह
लोकातिक्रान्तविषया भावाभावाभिमानतः ।
संभावनेयमुत्प्रेक्षा
येयं लोकातिक्रान्तविषया संभावना उत्प्रेक्षा सा भावस्याभावस्य चाभिमानात्द्वैविध्यं भजत इत्यर्थः ।
नन्विवाद्युपनिबन्धे सति यद्युत्प्रेक्षा भवतत्युच्यते ।
एवं सति “चन्दनासक्तभुजगनिश्वासानिलमूर्च्छितः ।
मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः” ॥
इत्येवमादाविवादेरप्रयोगादुतप्रेक्षात्वाभावप्रसङ्ग इत्याशङ्क्याह
वाच्येवादिभिरुच्यते ॥ ३.४ ॥
द्विविधा खलूत्प्रेक्षा ।
काचिदिवादिप्रयोगे सति भवति, काचित्त्वप्रयुज्यमानेष्वपीवादीष्वर्थसामर्थ्यादगम्यमानेषु ।
तत्र या वाच्या स्वकण्ठेनेवादिभिर्वक्तव्या सा इवादीभिरुच्यते ।
या त्वर्थसामर्थ्यक्षिप्तैरिवादिभिरवगम्ते तत्रेवादीनामप्रयोगः ।
ऽचन्दनासक्तभुजगऽइत्यादौ च मलयमारुतस्य यदेतन्मन्मथाविर्भावनिबन्धनत्वात्पथिकमूर्च्छाहेतुत्वं तत्र भुजगनिश्वासमूर्च्छितत्वे कारणत्वेनोत्प्रेक्ष्यमाणे इवाद्यर्थोर्ऽथसामर्थ्यादवगम्यते ।
तेनेवादीनामप्रयोगः ।
इवादिशब्दसामर्थ्यावसेयायामेवोत्प्रेक्षायामिवादीनां प्रयोगात् ।
तत्र भावाभिमानेनोत्प्रेक्षायां तस्या गुणयोगाध्यासेन प्रवृत्ताया उदाहरणम्
अस्याः सदार्कबिम्बस्थदृष्टिपीतातपैर्जपैः ।
श्यामिकाङ्केन पतितं मुखे चन्द्रभ्रमादिव ॥ ३.*२ ॥
अस्या मुखे जपैर्हेतुभूतैः श्यामिकाङ्केन पतितमिति संबन्धः ।
अत्र जपासक्ता भगवती अर्कमवलोकयतीति तस्याः शशाङ्कसदृसे मुखे श्यामिका संजाता ।
तच्चात्र तस्याः श्यमिकाया जन्म अतिशयोक्त्या पातरूपतया प्रतिपादितं पतितमिति ।
सा चात्र श्यामिक शशिलाञ्छनेन शशेन तुल्या ।
अतस्तस्याः शशिलाञ्छनशशतुल्यत्वादुपसर्जनोपमेयंरूपकं श्यामिकैवाङ्क इत्युपनिबद्धम् ।
तस्य चाङ्कस्य श्यामिकोपरक्तस्य भगवतीवदननिपाते कारणत्वेनेन्दुभ्रान्तिरुत्प्रेक्षिता ।
यदेतच्छशिनो लाञ्छनं श्यामिकारूपं तद्भगवतीवदन इन्दुभ्रान्त्येव निपतितमिति ।
इन्दुभ्रान्तिश्च गुणः ।
सिद्धरूपत्वे सति द्रव्यधर्मत्वात् ।
एवं चात्र शशसदृशी श्यामिका चैतन्यशून्यत्वेन भगवतीवदनमिन्दुभ्रान्त्या न गोचरीकरोति ।
अथ च तस्याः शशभावमापादिताया इन्दुभ्रमलक्षणेन चेतनधर्मेण संबन्धो निबद्धः ।
तेनात्र तस्य वस्त्वन्तरस्य चेतनस्य योऽसौ गुणो भ्रमलक्षणस्तद्योगादिवादेः प्रवृत्तिः ।
इन्दुभ्रमश्च भावरूपो गुणः शशीकृतश्यमिकाकर्तृकतया कविनिबद्धेन वक्त्रा भगवताभिमानेनाध्यवसितः ।
तेनेयमतद्गुणयोगेन भावाभिमानेन उत्प्रेक्षा ।
एवं क्रियायोगाध्यासाद्भावाभिमानेन योत्प्रेक्षा तस्यामुदाहार्यम् ।
अभावविषयायाः पुनः क्रियाध्यासेन प्रवृत्तायास्तस्या उदाहरणम्
कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥ ३.*३ ॥
अत्र कपोलफलकयोस्तपोवशात्क्षामत्वमापन्नयोः परस्परादर्शनमभावरूपं साध्यत्वात्क्रियारूपक्षामतायां कारणतयोत्प्रेक्षितम् ।
तेनेयमतक्त्रियायोगादभावाभिमानेनोत्प्रेक्षा ।
एवमतद्गुणयोगादभावाभिमानेन या उत्प्रेक्षा तस्यामुदाहार्यम् ।
स्वभावोक्तिः
क्रियायां संप्रवृत्तस्य हेवाकानां निबन्धनम् ।
कस्यचिन्मृगडिम्भादेः स्वभावोक्तिरुदाहृता ॥ ३.५ ॥
भृगबालादेः स्वसमुचिते व्यापारे प्रवृत्तस्य ये हेवाकाः स्वजात्यानुरूप्येणाभिनिवेशविशेषास्तदुपनिबन्धः स्वभावोक्तिः ।
तस्याश्चालङ्कारत्वमसाधारणपदार्थस्वरूपध्वननात् ।
तस्या उदाहरणम्
क्षणं नंष्ट्वार्धवलितः शृङ्गेणाग्रे क्षणं नुदन् ।
लोलीकरोति प्रणयादिमामेष मृगार्भकः ॥ ३.*४ ॥
नंष्ट्वंति ।
ऽजान्तनशां विभाषाऽइत्यनुनासिकलोपस्य विकल्पितत्वादप्रवृत्तिः ।
अत्र मृगपोतकस्य मातरमिव वत्सलां भगवतीं प्रणयनिर्भरेण चेरसा व्याकुलीकुर्वतः स्वभावो निबद्धः क्षणमपरिदृश्यमानत्वमर्धकायेन परिवृत्तिः शृङ्गेण च नोदनमित्येवमात्मा ॥
इति श्रीमहाप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुविवृत्तौ तृतीयो वर्गः ॥
*****
अथ चतुर्थो वर्गः ।
प्रेयोरसवदूर्जसव पर्यायोक्तं समाहितम् ।
द्विधोदात्तं तथा श्लिष्टमलङ्कारान्परे विदुः ॥ ४.१ ॥
प्रेयोरसवदिति समुदायान्मतुप् ।
श्लिष्टमिति ।
तथा उदात्तवद्द्वविधं श्लिष्टमित्यर्थः ।
विप्रतिपत्तिनिरासार्थं चात्र श्लिष्टस्य द्वैविध्यमुक्तम् ।
भामहो हि “तत्सहोक्त्युपमाहेतुनिर्देशात्र्रिविधं यथा"इति श्लिष्टस्य त्रैविध्यमाह ।
अतो विप्रतिपत्तिनिरासाय तथेत्युक्तम् ।
उदात्ते तु द्विधेत्ययमनुवादो दृष्टान्तत्वार्थः ।
यथा उदात्तस्य द्वैविध्यं प्रमाणोपपन्नत्वादङ्गीकृतं तथा श्लिष्टस्यापि तदङ्गीकर्तव्यमित्यर्थः ॥
प्रेयस्वत्तावत्
रत्यादिकानां भावानामनुभावादिसूचनैः ।
यत्काव्यं बध्यते सद्भिस्तत्प्रेयस्वदुदाहृतम् ॥ ४.२ ॥
रत्यादयो भावास्त्रिविधाः स्थायिनो व्यभिचारिणः सात्विकाश्च ।
तत्र"रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयसमाः स्थायिभावाः प्रकीर्तिताः ॥
निर्वेदगलानिशङ्काख्यास्तथासूयामदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥
व्रीडा चपलत हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥
सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव ।
च ॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावाः ॥
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः” ॥
एतेषां पञ्चाशत्संख्यानां भावानां सूचकाश्चत्वारोऽनुभावादयः ।
ते चानुभावो विभावो व्यभिचारी स्वशब्दश्च ।
तत्रानुभावश्चतुर्विधः ।
आङ्गिको वाचिकः सात्त्विक आहार्यश्च ।
आङ्गिको हस्ताभिनयादिः ।
वाचिकः काक्वादिप्रयोगः ।
सात्विकः स्तम्भादिः ।
आहार्यस्तु प्रतिशीर्षकञ्चुकादिः ।
एवमयमनुभावश्चतुःसंख्यः कार्यत्वात्कारणभूतान्मभावान् गमयति ॥
विभावस्तु द्विविधः ।
आलम्बनोद्दीपनरूपत्वात् ।
तत्रालम्वनविभावो यदाश्रयेण रत्यादीनामुदयः, यथा रामादेः सीतादिः ।
उद्दीपनविभावस्तु यद्वशेन रत्यादीनां भावानामतिशयेन दीप्तता भवति, यथा ऋतुमाल्यानुलेपनादिः ।
एवमेष द्विविधो विभावो रत्यादीनां कारणभूतः ।
स च कारणत्वात्कार्यभूतान् रत्यादीन्
गमयति यथातिबहलनीलजलदोदयो वृष्टिम् ।
यथा हि कार्यस्य सुविवेचितस्य कारणं प्रत्यव्यभिचारिता एवं कारणस्यापि सुविवेचितस्य कार्यं प्रत्यव्यभिचारिता व्यवहारे बाहुल्येन दृश्यते ।
अतो विभावः कारणत्वात्रत्यादीन्कार्यभूतान् गमयति ।
व्यभिचारी तु रत्यादिकानां स्थायिनां भावानामवस्थाविशेषरूपो निर्वेदादिः ।
स च सहचारित्वात्स्थायिनां भावानामवस्थाविशेषरूपो निर्वेदादिः ।
स च सहचारित्वात्स्थायिनो भावान्प्रतपादयति रथस्यैकमिव चक्रं चक्रान्तरम् ।
स्वशब्दस्तु रत्यादिः ।
स च वाचकत्वाद्भावान् गमयति ।
रत्यादीनां च शब्दानां यद्यप्यनुभावैकगोचरस्वलक्षणस्वभावरत्याद्यवगतिनिबन्धनत्वं नोपलभ्यते, तथाप्यंशेन रत्याद्यवगतिनिबन्धनत्वमनुभावादिवद्विद्यत एव ।
यथा खल्वनुभावादयो न स्वलक्षणतया भावानवगमयन्ति अपितु सामान्यरूपतया तद्वत्स्वशब्दा अपीत्यास्ताम् ।
एवमेते भावानामवगतिहेतवश्चात्वारः ।
यदुक्तं भट्टोद्भटेन “चतूरूपा भावा"इति ।
तदेषां रत्यादिकानां भावानां पञ्चाशत्संख्यानां यान्यनुभावादिभिश्चतुःसंख्यैः समस्तत्वेन व्यस्तत्वेन च यथायोगं सूचनानि स्वलक्षणस्वरूपाणां सामान्यावस्थापादितानां प्रतिपादनानि तैः काव्यमुपनिबध्यमानं प्रेयस्वत् ।
प्रेयःशब्दवाच्येन प्रियतरेण रत्यालम्बनेन विभावनेन रतिरुपलक्ष्यते ।
तया च साहचर्याद्रत्यादयो भावाः पञ्चाशदवगम्यन्ते ।
एवं च भावकाव्यस्य प्रेयस्वदिति लक्षणया व्यपदेशः ।
अत्र च भावानामलङ्कारता, काव्यमलङ्कार्यम् ।
तस्योदाहरणम्
इयं च सुतवात्सल्यान्निर्विशेषा स्पृहावती ।
उल्लापयितुमारब्धा कृत्वेमं क्रोड आत्मनः ॥ ४.*१ ॥
आत्मनः क्रोडे कृत्वेति संबन्धः ।
अत्रात्मनो वक्षसि निधानमाङ्गीकोऽभिनयः, उल्लापनं सान्त्वनं वाचिकः ।
इममिति इदंशब्देन परामृष्टो यो मृगार्भकः स आलम्बनविभावः ।
वात्सल्योन्मीलितश्चौत्सुक्यात्मा व्यभिचारीभावः ।
सुतवाल्लभ्यनिर्विशेषत्वेन हि स्पृहाया
रतेरौत्सुक्यभेदाभिसंबन्धः प्रतीयते ।
स्वशब्दस्तु स्पृहेति ।
एवमयं रत्यात्मको भावो वात्सल्यस्वभावश्चतुर्भिरनुभावादिभिरत्रावगमितः ।
अन्येष्वपि भावेष्वेवमुदाहार्यम् ।
रसवत्
रसवद्दर्शितस्पष्टशृङ्गारादिरसादयम् ।
स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम् ॥ ४.३ ॥
शृङ्गारहास्यकरणरौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ ४.४ ॥
एते च शृङ्गारादयो नव यथायोगं चतुर्वर्गप्राप्त्युपायतया तदितरपरिहारनिबन्धनतय च रत्यादीनां स्थायिनां नवानां भावानां यः परिपोषस्तदात्मकाः ।
अतस्तथाविधेन रूपेणास्वाद्यत्वादास्वादभेदनिबन्धनेन तान्त्रिकेण रसशब्देनाभिधीयन्ते ।
निर्वेदादौ तु तथाविधस्यास्वाद्यस्याभावात्प्रवृत्तिनिमित्तभेदनिबन्धनस्य तान्त्रिकस्य रसशब्दस्याप्रवृत्तिः ।
आस्वाद्यत्वमात्रविवक्षया तु तत्रापि मधुराम्लादिवद्रसशब्दप्रवृत्तिरविरुद्धा ।
यदुक्तं शृङ्गारादीन् रसाननुक्रम्य"रसनाद्रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः ।
निर्वेदादिष्वपि तत्प्रकाममस्तीति तेऽपि रसाः"इति ॥
तदाहुः
चतुर्वर्गेतरौ प्राप्य परिहार्यौ क्रमाद्यतः ।
चैतन्यभेदादस्वाद्यात्स रसस्तादृशो मतः ॥
इति
स इति ।
चैतन्यभेद इत्यर्थः ।
तादृश इत्यनेन आस्वादविशेषनिबन्धनत्वं शृङ्गरादिषु तान्त्रिकस्य रसशब्दस्योक्तम् ।
एषां च शृङ्गारादीनां नवानां रसानां स्वशब्दादिभिः पञ्चभिरवगतिर्भवति ।
यदुक्तं भट्टोद्भटेन"पञ्चरूपा रसा"इति ।
तत्र स्वशब्दाः शृङ्गारादेर्वाचकाः शृङ्गारादयः शब्दाः ।
स्थायिनो रसानामुपादानकारणप्रख्या रत्यादयो नव भावाः ।
संचारिणस्तु निर्वेदादयो रसानामवस्थाविशेषरूपाः ।
विभावास्तु तेषां निमित्तकारणभूता योषिदादयः ऋतुमाल्यानुलेपनादयश्च ।
आङ्गिकादयस्तु चत्वारो रसानां कार्यभूता अभिनयाः ।
एतेषां च स्वशब्दादीनां पञ्चानां समस्तव्यस्ततया आस्पदत्वाद्येन काव्येन स्फुटरूपतया शृङ्गारादिरसाविर्भावो दर्श्यते तत्काव्यं रसवत् ।
रसाः खलु तस्यालङ्काराः ।
तस्योदाहरणम्
इति भावयतस्तस्य समस्तान्पार्वतीगुणान् ।
संभृतानल्पसंकल्पः कन्दर्पः प्रबलोऽभवत् ॥ ४.*२ ॥
स्विद्यतापि स गात्रेण बभार पुलकोत्करम् ।
कदम्बकलिकाकोशकेसरप्रकरोपमम् ॥ ४.*३ ॥
क्षणमौत्सुक्यगर्भिण्या चिन्तानिश्चलया क्षणम् ।
क्षणं प्रमोदालसया दृशास्यास्यमभूष्यत ॥ ४.*४ ॥
कदम्बकलिकाकोशः कदम्बकलिकाभ्यन्तरम् ।
अत्र भगवत आभिलाषिकविप्रलम्भशृङ्गारो निबद्धः ।
तस्य स्वशब्दःऽकन्दर्पः प्रबलऽइति ।
स्थायी तत्रैव स्वशब्देनोन्मीलितः कन्दर्प इति ।
रतिपरिपोषात्मको हि शृङ्गारो रसः ।
रतिश्च यूनां मन्मथात्मिका ।
अतो रतिविशेषस्य वाचकत्वात्कन्दर्पशब्दः स्थायिनोऽत्र स्वशब्दः ।
संचारिणश्चौत्सुक्यचिन्ताहर्षाः स्वशब्देनोन्मीलिताः. स्वेदरोमाञ्चौ च सात्विकौ स्वशब्दोपात्तौ ।
तयोरपि च संचारित्वम् ।
सात्विकानां स्थायिभावावस्थाविशेषत्वेन निर्वेदादिवत्संचारित्वात् ।
विभावस्तुऽइति भावयतस्तस्यऽइति निर्दिष्टः ।
भगवती हि तत्तद्गुणोपेतत्वेन विभाव्यमाना विभावः ।
अभिनयस्त्वत्रापाङ्गाभिनयो निर्दिष्टोऽदृशाऽइति ।
अतोऽत्राभिलाषिकः शृङ्गाररसः स्वशब्दादिभिः पञ्चभिरभिव्यज्यते ।
एवमन्येऽपि रसा उदाहार्याः ।
रसानां भावानां च काव्यशोभातिशयहेतुत्वात्किं काव्यालङ्कारत्वमुत काव्यजीवितत्वमिति न
तावद्विचार्यते ग्रन्थगौरवभयात् ।
रसभावस्वरूपं चात्र न विवेचितमप्रकृतत्वाद्बहुवक्तव्यत्वाच्च ॥
ऊर्जस्वि
अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् ।
भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते ॥ ४.५ ॥
क्वचित्खलु रसभावानां शास्त्रसंविदविरुद्धेन रूपेणोपनिबन्धः क्रियते, क्वचित्तु तद्विरुद्धेन ।
तत्र यत्र शास्त्रसंविदविरुद्धेन रूपेण तेषामुपनिबन्धस्तत्र प्रेयोऽलङ्कारो रसवदलङ्कारश्चाभिहितः ।
यत्र तु तद्विरुद्धत्वं तन्मूलकलोकव्यवहारविरुद्धत्वं च तद्विषयाणां रसभावनामुपनिबन्धे सत्यूर्जस्विकाव्यं भवति ।
तत्र हि रागद्वेषमोहकारणका अनौचित्येन रसभावा उपनिबध्यन्ते ।
अत एव तत्र स्वकल्पनापरिकल्पितत्वेन ऊर्जसो बलस्य विद्यामानत्वादूर्जखिव्यपदेशः ।
ऽज्योत्स्नातमिस्रेऽत्यत्र उर्जस्विशब्दः (पा. अ. ५ । २ । ११४) ॥
तस्योदाहरणम् ।
तथा कामोऽस्य ववृधे यथा हिमगिरेः सुताम् ।
संग्रहीतुं प्रववृते हठेनोपास्य सत्यथम् ॥ ४.*५ ॥
अत्र सकललोकातिशायिनो भगवतोऽकृतविवाहकमारीविषयतया हठसंग्रहः शास्त्रसंविद्विरुद्धः प्रवृद्धरागकारणकु उपनिबद्धः ।
तेन ऊर्जस्तिता ।
तत्र कामो ववृधे इत्ययं शृङ्गारस्य स्वशब्दः ।
तस्य रतिपरिपोषात्मकत्वेन कामवृद्धिस्वभावत्वात्कामशब्दस्त्वेतदन्तर्गतः ।
शृङ्गारस्य यासौ स्थायिभूता रतिस्तस्याः स्वशब्दः हिमगिरेः सुतामित्यालम्बनविभावः ।
हठेनेत्यनेनावेगलक्षणो व्यभिचारीभावः प्रतिपादितः ।
अपास्य सत्पथमिति तु मोगः, संग्रहीतुं प्रवृत्त इति आङ्गकोऽनुभावः ।
एवमयमत्र पञ्चभिः स्वशब्दादिभिरुर्जस्विलक्षणः शृङ्गारः सूचितः ।
एवमन्येष्वपि रसभावेषूर्जस्वि उदाहार्यम् ।
पर्यायोक्तम्
पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते ।
वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना ॥ ४.६ ॥
वाचकस्याभिधायकस्य स्वशब्दस्य वृत्तिर्व्यापारो वाच्यार्थप्रत्यायनम् ।
वाच्यस्य त्वभिधेयस्य व्यापारो वाच्यान्तरेण सहाकाङ्क्षासंनिधियोग्यतामाहात्म्यात्संसर्गगमनम् ।
एवंविधश्च यो वाच्यवाचकयोर्व्यापारस्तमन्तरेणापि प्रकारान्तरेणार्थसामर्थ्यात्मनावगमस्वभावेन यदवगम्यते तत्पर्यायेण स्वकण्ठानभिहितमपि सान्तरेण शब्दव्यापारेणावगम्यमानत्वात्पर्यायोक्तं वस्तु ।
तेन च स्वसंश्लेषवशेन काव्यार्थोऽलङ्कियते ।
तस्योदाहरणम्
येन लम्बालकः सास्रः करघातारुणस्तनः ।
अकारि भग्नवलयो गजासुरवधूजनः ॥ ४.*६ ॥
सोऽप येन कृतः प्लुष्टदेहेनाप्येवमाकुलः ।
नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥ ४.*७ ॥
अत्र लम्बालकत्वादयः कार्यरूपत्वात्कारणभूतं गजासुरवधं वाच्यवाचकव्यापारास्पृष्टमपि गमयन्ति ।
तेन च तथाविधया विच्छित्त्या अवगम्यमानेनार्थेन ते लम्बालकत्वादयोर्ऽथा अलङ्कियन्ते ।
तस्मात्पर्यायोक्तमलङ्कारः ॥
समाहितम्
रसभावतदाभासवृत्तेः प्रशमबन्धनम् ।
अन्यानुभावनिःशून्यरूपं यत्तत्समाहितम् ॥ ४.७ ॥
इह रसभावानां शास्त्रसमयाविरुद्धेन तद्विरुद्धेन च रूपेण द्वैविध्यमुक्तम् ।
तत्र ये शास्त्रसमयाविरुद्धा रसभावाः ते रसभावशब्देनात्र
विवक्षिताः ।
तद्विरुद्धास्तु तदाभासाः ।
तेषां रसभावानां तदाभासानां च या वृत्तिः स्वाश्रयसंबन्धात्मिका तस्याः प्रशमे निबध्यमाने समाहितालङ्कारो भवति ।
तत्र हि तेषां रसभावानां समाधानं समाधिः परिहारो भवति ।
समाहितमिति भावे क्तः ।
ननु यदि तस्मिन्काव्ये रसादीनां वृत्तिः परिह्नियते, एवं सति पूर्वरसादिनिवृत्त्या रसाद्यन्तरोपनिबन्धाद्रसवदाद्यलङ्कारानुप्रवेशः प्रसक्त इत्याशङ्क्योक्तंन्यानुभावनिःशून्यरूपमिति ।
अन्यस्य रसाद्यन्तरस्य येऽनुभावादयः तैर्निःशेषेण शून्यं रूपं यस्य तत्तथोक्तम् ।
यत्र पूर्वेषां रसादीनां वासनाया दार्ढ्येन तेषूपशान्तेष्वपि रसाद्यन्तराणां न स्वरूपमाविर्भवति, आविर्भवदपि वा कार्यवशेन केनचित्तिरोधीयते, तत्र समाहितालङ्कारो भवति ।
तस्योदाहरणम्
अथ कान्तां दृशं दृष्ट्वा विभ्रमाच्च भ्रमं भ्रूवोः ।
प्रसन्नं मुखरागं च रोमाञ्चस्वेदसंकुलम् ॥ ४.*८ ॥
स्मरज्वरप्रदीप्तानि सर्वाङ्गानि समादधत् ।
उपासर्पद्गिरिसुतां गिरिशः स्वस्तिपूर्वकम् ॥ ४.*९ ॥
समादधन्निजे रूपेऽवस्थापयन् ।
समादधदित्यभ्यस्तत्वान्नुमोऽप्रवृत्तिः ।
अत्र भगवता शृङ्गारस्य येऽनुभावाः कान्तदृष्ट्यादयस्तेषामवहित्थेन आकारप्रच्छादनात्मकेन भावेन तिरोधानं विहितम् ।
यदुक्तंस्वस्तिपूर्वकमिति ।
अनेन ह्याकारतिरोधानमुपदर्शितम् ।
उदात्तम्
उदात्तमृद्धिमद्वस्तु चरितं च महात्मनाम् ।
उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम् ॥ ४.८ ॥
ऋद्धिः सुवर्णादिधनसंपत्तिः ।
तद्युक्तं वस्तूदात्तम् ।
तेन च काव्यार्थोऽलंक्रियते ।
तस्योदाहरणम्
उवाच च यतः क्रोडे वेणुकुञ्जरजन्मभिः ।
मुक्ताफलैरलङ्कारः शबरीणामपीच्छया ॥ ४.*१० ॥
पृष्ट्येन्द्रनीलवैडूर्यपद्मरागमयैर्वियत् ।
शिरोभिरुल्लिस्वद्यत्र शिखरं गन्धमादनम् ॥ ४.*११ ॥
उत्तरोपत्यका यस्य प्रधानस्वर्णभूमयः ।
महान्मरकतोर्विन्ध्रः पादोपान्तं च संश्रितः ॥ ४.*१२ ॥
बभूव यस्य पातालपातिन्यां संक्षये क्षितौ ।
पतनं न तया सार्धमायामस्तु प्रकट्यभूत् ॥ ४.*१३ ॥
यस्य एवंविधरूपता हिमार्द्रेर्भवती सुतेति संबन्धः ।
क्रोडः सूकरः ।
पुष्ट्यो मणिविशेषः ।
गन्धमादनं पर्वतविशेषः ।
उपत्यकाः पर्वताधारवर्तिनो भूमिभागाः ।
प्रधानं स्वर्णं कार्तस्वरादि ।
अर्विन्ध्रः पर्वतः ।
संक्षयः
कल्पान्तः ।
भूमेरधोगमनाद्भूम्याश्लिष्टस्य प्रदेशस्य भूमिविविक्तत्वाद्धिमवतः कल्पान्ते आयामः प्रकटीभूतः ।
अत्र रत्नादिसंभारो निबद्धः ।
तेनेदमुदात्तम् ।
तस्य चालङ्कारत्वं लोकातिशायिरत्नादिकार्यध्वननात् ।
एवमेतदृद्धिमद्वस्तुनिबन्धनेनैकमुदात्तमुक्तम् ।
न केवलमृद्धिमद्वस्तूदात्तं यावदर्थप्राप्तावनर्थपरिहारे चोद्यतानां विपुलाशयानां चेष्टितमपि, तदुक्तम्
चरितं च महात्मनामिति ।
न च विपुलाशयचेष्टिते उपनिबध्यमाने तस्य शृङ्गारादिरसप्रतिपत्तिहेतुत्वाद्रसवदलङ्कारानुप्रवेशोऽत्र सुभणः ।
विपुलाशयचेष्टतस्यात्र वस्त्वन्तरोपलक्षणत्वेनावान्तरवाक्यार्थीभूतत्वात् ।
न खल्पत्र महापुरुषचेष्टितं वाक्यतात्पर्यगोचरतामनुभवति ।
अरथान्तरोपलक्षणपरत्वात् ।
यत्र च रसास्तात्प्रयेणाव गम्यन्ते तत्र तेषां वाक्यविश्रान्तिस्थानत्वेन चतुर्वर्गतदितरप्राप्तिपरिहारोपायभूतस्थायिभावपरिपोषात्मनास्वाद्यमानत्वाद्रसवदलङ्कारो
भवति ।
तेन कुतोऽत्र रसवदलङ्कारगन्धोऽपि ।
तदुक्तमुपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतमिति ।
तस्योदाहरणम्
तस्यादिक्रोडपीनांसनिघर्षेऽपि पुनः पुनः ।
निष्कम्पसय स्थितवतो हिमार्द्रर्भवती सुता ॥ ४.*१४ ॥
अत्र हिमवतः स्थैर्ये वाक्यार्थीभूते भगवतो वराहवपुषस्त्रैलोक्योद्धरणोद्युक्तस्य चेष्टितं वीररसप्रतिपत्तिहेतुभूतमवान्तरवाक्यार्थत्वादुपलक्षणीभूतम् ।
आदिक्रोड आदिवराहः ।
एवं रसान्तरेष्वप्युपलक्षणीभूतेषूदाहार्यम् ॥
श्लिष्टम्
एकप्रयत्नोच्चार्याणां तच्छायां चैव बिभ्रताम् ।
स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिहोच्यते ॥ ४.९ ॥
अलङ्कारान्तरगतां प्रतिभां जनयत्पदैः ।
द्विविधैरर्थशब्दोक्तिविशिष्टं तत्प्रतीयताम् ॥ ४.१० ॥
इह खलु शब्दानामनेकार्थानां युगपदनेकार्थविवक्षायां द्वयी गतिः अर्थभेदेन तावच्छब्दा भिद्यन्ते इति भट्टोद्भटस्य सिद्धान्तः ।
तत्रार्थभेदेन भिद्यमानाः शब्दाः केचित्तन्त्रेण प्रयोक्तुं शक्याः केचिन्न ।
येषां हलस्वरस्थानप्रयत्नादीनां साम्यं ते तन्त्रेण प्रयोक्तुं शक्यन्ते ।
यत्र तु हलामेकत्वानेकत्वरूपत्वात्स्वराणां चोदात्तत्वानुदात्तत्वादिना स्थानानां चौष्ठ्यदन्त्यौष्ठत्वादिना प्रयत्नानां च लघुत्वालघुत्वादिना भेदस्तेषां तन्त्रेण प्रयोगः कर्तुमशक्यः ।
साधारणरूपत्वात्तन्त्रस्य ।
तदुक्तम्
ऽसाधारणं भवेत्तन्त्रम्ऽइति ।
एवं चावस्थिते ये तन्त्रेणोच्चारयितुं शक्यन्ते ते एकप्रयत्नोच्चार्याः ।
तद्बन्दे सत्यर्थश्लेषो भवति ।
तदुक्तम्
एकप्रयत्नोच्चार्याणामिति ।
तथा ये तेषामेवैकप्रयत्नोच्चार्याणां शब्दानां छायां सादृश्यं बिभ्रति तदुपनिबन्धे च शब्दश्लिष्टम् ।
शब्दान्तरे उच्चार्यमाणे सादृश्यवशेनानुच्चारितस्यापि शब्दान्तरस्य श्लिष्टत्वात् ।
तदुक्तम्तच्छायां चैव बिभ्रताम् ।
स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिति ।
तथाशब्दोक्तिविशिष्टं तत्प्रतीयतामिति ।
एतच्च श्लिष्टं द्विविधमप्युपमाद्यलङ्कारप्रतिभोत्पादनद्वारेणालङ्कारतां प्रतिपद्यते ।
अतोऽनेनानवकाशत्वात्स्वविषयेऽलङ्कारान्तराण्यपोद्यन्ते, तेषां विषयान्तरे सावकाशत्वात् ।
तदुक्तम्
अलङ्कारान्तरगतां प्रतिभां जनयत्पदैः ।
द्विविधैरिति ।
अलङ्कारान्तराणामत्र प्रतिभामात्रं न तु पदबन्ध इत्यर्थः ।
तदेवं शब्दश्लिष्टमर्थश्लिष्टं च लक्षितम् ।
तस्योदाहरणम्
स्वयं च पल्लवाताम्रभास्वत्करविराजिनी ।
प्रभातसन्ध्येवास्वापफललुब्धेहितप्रदा ॥ ४.*१५ ॥
इन्दुकान्तमुखी स्निग्धमहानीलशिरोरुहा ।
मुक्ताश्रीस्त्रीजगद्रत्नं पद्मरागाङ्घ्रिपल्लवा ॥ ४.*१६ ॥
अपारिजातवार्तापि नन्दनश्रीर्भुवि स्थिता ।
अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका ॥ ४.*१७ ॥
न केवलं त्वं हिमाद्रेरेवंविधस्य सुता यावत्स्वयं चैवंप्रकारेति च शब्दः ।
अत्र भगवती किसलयवदाताम्रौ
भास्वन्तौ दीप्तिमन्तौ यौ करौ हस्तौ ताभ्यां विराजते ।
प्रभातसन्ध्या तु पल्लववदाताम्रैर्भास्वत आदित्यस्य करैर्मयूखैर्विराजते ।
अत्र चोभयत्रापि हलादनां साम्यम् ।
अतस्तन्त्रेणोच्चारणसंभवादयमर्थश्लेषः ।
अस्वापफललुब्धे हितप्रदेत्यत्र तु भगवतीपक्षे अस्वापं सुखेनाप्तुं यन्न शक्यते फलं तत्र ये लुब्धास्तेभ्य ईहितमीप्सितं प्रददातीत्यर्थः ।
प्रभातसन्ध्यापक्षे तु स्वापस्य निद्रानुभवस्य यत्फलं श्रमनिवृत्तिलक्षणं तत्र यो न लुब्धः सन्ध्योपासनप्रवृत्तत्वात्तद्विषयं हितमदृष्टं समर्पयतीत्येवंविधेत्यर्थः ।
अत्र च पूर्वस्मिन्पक्षे ऐकपद्यात्(पा. अ. ६ । २ । १४४) थाथादिस्वरेणान्तोदात्तत्वम् ।
उत्तरत्र पुनरस्वापफललुब्धे इति हितप्रदेति च अनयोर्भिन्नपदत्वान्नानास्वरत्वम् ।
अस्वापफललुब्ध इत्यस्य “तत्पुरुषे तुल्यार्थेति”(पा. अ. ६ । २ । २)
पूर्वपदप्रकृतिस्वरेणाद्युतात्तत्वात् ।
हितप्रदेत्यस्य तु (पा. अ. ६ । २ । १४४) यथादिस्वरेणान्तोदात्तत्वात् ।
तेनात्र स्वरभेदः ।
अस्वापेति अकारस्य फललुब्धे इति च एकारस्य उभयोः पक्षयोर्यथायोगं लाघवालाघवाभ्यां प्रयत्नभेदोऽपि ।
अतस्तन्त्रेणोच्चारयितुमशक्यता ।
एकस्मिंस्त्वत्र शब्दे समुच्चरिते शब्दान्तरस्य तत्सादृश्यात्प्रतिपत्तिः ।
अतोऽयं शब्दश्लेषः ।
एतयोश्च द्वयोरप्यर्थश्लेषशब्दश्लेषयोरुपमाप्रतिभोत्पत्तिहेतुत्वम् ।
प्रभातसन्ध्या ह्यत्रोपमानम् ।
भगवती उपमेया ।
इवशब्दश्चोपमानोपमेयभावं द्योतयति ।
शब्दव्यतिरेकेण तु साधारणो धर्मोर्ऽथाधिकरणोऽत्र न विद्यते ।
तेन नेयमुपमा अपितु श्लेष उपमाप्रतिभोत्पत्तिहेतुः ।
इन्दुकान्तमुखीत्यत्र भगवती चन्द्रवत्सुन्दरं मुखं यस्याः सा तथाविधा ।
तथा स्निग्धदीर्घकृष्णकेशी ।
मुक्ता परित्यक्ता अश्रीरशोभा यया सा तथाविधा ।
त्रैलोक्योत्कृष्टा च ।
तथा पद्मवत्कमलवत्रागो लौहित्यं ययोस्तथाविधौ पादपल्लवौ यस्यासतद्रूपा ।
यदा त्वसौ भगवती रूपकप्रतिभोत्पत्तिनिबन्धनेन श्लेषेण त्रैलोक्योदरवर्तिमाणिक्यसंभाररूपतया रूप्यते तदा प्रकृतोर्ऽथश्चन्द्रकान्तेन्द्रनीलमौक्तिकशोभापद्मरागैरवच्छादितरूपतया प्रतीयते, साक्षादेवंविधरत्नमयावयवयोगित्वात्त्रिभुवनोदरान्तर्गतरत्नसमृद्धिरूपेति ।
अत्र च मुक्ताश्रीरित्यत्र स्वरभेदो विद्यते ।
बहुव्रीहिपक्षे"बहुव्रीहौ प्रकृत्येति"पूर्वपदप्रकृतिस्वरत्वात् ।
तत्पुरुषे तु समासान्तोदात्तत्वात् ।
शिष्टानां तु शब्दानां स्वरभेदो नास्ति ।
प्रयत्नगुरुत्वागुरुत्वे तु त्रिजगद्रत्नशब्दव्यतिरिक्तेषु तत्तद्वर्णविषयतया विद्येते ।
तेन तत्र शब्दश्लेषता ।
त्रिजगद्रत्नशब्दस्य तूभयत्रापि कस्यचिद्विशेषस्याविद्यमानत्वादर्थश्लेषत्वम् ।
अपारिजातवार्तापीत्यत्र भगवत्यजातशत्रुत्वादपगतशत्रुसमूहवार्ता तदीया च शोभा सर्वस्य चित्तमावर्जयतीत्यतो नन्दना श्रीर्यस्यास्तथाविधा ।
उदकमध्यवर्तितया च योऽसौ अप्सु उदके प्रतबिम्बित इन्दुस्तद्वत्सुन्दरी ।
नित्यं च गलल्लावण्यप्रवाहा ।
यदा त्वसौ भगवती नन्दनश्रीशब्दस्य देवोद्यानशोभालक्षणार्थान्तराभिधायत्वाद्रूपकप्रितिभोत्पत्तिनिबन्धनेन श्लेषेणैतद्भावमापद्यते तदा तत्समाश्रयत्वेन अपारिजातवार्तापीत्यादिपदपर्यालोचनया विरोधप्रतिभाहेतोरपरस्यापि श्लेषस्याविर्भावो भवति ।
न खलु देवोद्यानशोभा अविद्यमानपारिजाताख्यवृक्षविशेषवृत्तान्ता भवति ।
न चासौ भूमौ तिष्ठति ।
अबिन्दुसुन्दरीत्यत्र तु बिन्दुभिर्यस्याः सौन्दर्यं नास्ति तस्याः कथं लावण्यबिन्दवः प्रसरेयुरिति विरोधप्रतपत्तिहेतुः श्लेषः ।
अपारिजातवार्तापीत्यत्राप्यपगता अरिजातवार्तेति बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरत्वम् ।
तत्पुरुषपक्षेत्वन्तोदात्तत्वम् ।
अबिन्दुसुन्दरीत्यत्र अबिन्दुवत्सन्दरीत्युपमानत्वा “तत्पुरुषे तुल्यार्थो"त्यबिन्दुशब्दस्य प्रकृतिस्वरः ।
तस्य च सप्तम्यन्तपूर्वपदत्वादनेनैव सूत्रेण प्रकृतिस्वरेणाद्युदात्तत्वम् ।
अबिन्दुसुन्दरीत्यत्र त्वव्ययत्वान्नञः पूर्वपदप्रकृतिस्वरत्वेन तदेव ।
तेनात्र स्वरभेदस्याभावः ।
प्रयत्नभेदकृतात्तु चकारवैचित्र्याच्छब्दश्लेषता ॥
इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ चतुर्थो वर्गः ॥
*****
अथ पञ्चमो वर्गः ।
अपह्नुतिं विशेषोक्तिं विरोधं तुल्ययोगिताम् ।
अप्रस्तुतप्रशंसा च व्याजस्तुतिविदर्शने ॥ ५.१ ॥
उपमेयोपमां चैव सहोक्तिं संकरं तथा ।
परिवृत्तिं च जगदुरलङ्कारान्परे गिराम् ॥ ५.२ ॥
अपह्नुतिः
अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा ।
भूतार्थापह्नवेनास्या निबन्धः क्रियते बुधैः ॥ ५.३ ॥
यत्र भूतं विद्यमानमुपमेयलक्षणमर्थमपह्नुत्योपमानरूपारोपेणोपमानोपमेयभावो…………………….. तिरलङ्कारः ।
अत्र च प्राकरणिकस्य
विद्यमानस्यार्थस्य ………………………….यद्विद्यमानोऽस्फुटेन रूपेणोपमानोपमेयभावश्चकास्तीत्युक्तम्
किञ्चिदन्तर्गतोपमेति ।
तस्या उदहरणम्
एतद्धि न तपः सत्यमिदं हालाहलं विषम् ।
विशेषतः शशिकलाकोमलानां भवादृशाम् ॥ ५.*१ ॥
अत्र प्राकरणिकस्य तपसः स्वरूपमपह्नुत्य हालाहलविषविशेषरूपताध्यारोपेण तत्सादृश्यमवगमितम् ।
तच्चात्र हालाहलविषसादृश्यमुपमेयस्यापह्नुतत्वान्न स्फुटरूपम् ।
हालाहलाख्यो विषभेदो यः शीघ्रं व्यापादयति ।
विशेषोक्तिः
यत्सामग्र्येऽपि शक्तीनां फलानुत्पत्तिबन्धनम् ।
विशेषस्याभिधित्सातस्तद्वशेषोक्तिरुच्यते ॥ ५.४ ॥
शक्तीनां कारकाणां सामग्र्येऽपि अविकलत्वे यः क्रियाफलस्य किञ्चिद्विशेषमवगमयितुमनुत्पत्तेरुपनिबन्धः सा विशेषोक्तिः ।
तस्याश्च द्वौभेदौ ।
क्वचित्खलु कारणसामग्र्येऽपि यत्कार्यं नोत्पद्यते तस्यानुत्पत्तौ स्वकण्ठेन निमित्तमुपादीयते, क्वचित्त्वर्थसामर्थ्यादवगम्यते तदाह
दर्शितेन निमित्तेन निमित्तादर्शनेन च ।
तस्या बन्धो द्विधा लक्ष्ये दृश्यते ललितात्मकः ॥ ५.५ ॥
अदर्शनमनुपादानम् ।
तत्र द्वितीयस्य भेदस्योदाहरणम्
महर्द्धिनि गृहे जन्म रूपं स्मरसुहृद्वयः ।
तथापि न सुखप्राप्तिः कस्य चित्रीयते न धीः ॥ ५.*२ ॥
अत्र धनसंभारयोगः सुरूपत्वं यौवनं चेति यान्येतानि सुखप्राप्तौ कारणान्यविकलानि तत्सद्भावेऽपि क्रियाफलभूतायाः सुखप्राप्तेरनुत्पत्तिरुपनिबद्धा ।
पूर्वोक्तानां सुखहेतूनां विस्मयविभावनात्मकविशेषख्यापनाय ।
अत्र च निमित्तं खकण्ठेनानुपात्तमप्यर्थसामर्थ्यादवगम्यते ।
विधिवैधुर्यादिरूपशब्दोऽत्र शरीरस्य रूपमात्राव्यभिचारित्वाद्रूपप्रकर्षतात्पर्येणोपात्तः ।
स्मरसुहृद्वयो यौवनम् ।
यौवने हि मन्मथाभिमुखीभवति ।
आद्यभेदोदाहरणं तु
इत्थं विसंष्ठुलं दृष्ट्वा तावकीनं विचेष्टितम् ।
नोदेति किमपि प्रष्टु सत्वरस्यापि मे वचः ॥ ५.*३ ॥
अत्र प्रश्नत्वरालक्षणकारणसद्भावेऽपि प्रश्नवचसोऽनुत्पत्तिरुपनिबद्धा ।
तया च प्रश्नवचनकारणस्य विस्मयविभावनाख्यो विशेषोऽवगम्यते ।
अत्र च निमित्तं भगवतीगतिविसंष्ठुलचेष्टितदर्शनं स्वकण्ठेनोपात्तम् ॥
विरोधः
गुणस्य वा क्रियाया वा विरुद्धान्यक्रियावचः ।
यद्विशेषाभिधानाय विरोधं तं प्रचक्षते ॥ ५.६ ॥
यत्र कविना गुणस्य वा क्रियाया वा अथवा द्विर्वाशब्दस्योपात्तत्वात्द्रव्यस्य विरुद्धोऽन्यः पदार्थः सजातीयो विजातीयो वा वचसा स्वप्रतिभाप्रसूतेन वर्णनिकात्मना क्रियते कञ्चिद्विशेषमवगमयितुं स विरोधाख्योऽलङ्कारः ।
गुणक्रियाद्रव्याणामुत्प्रेक्षालङ्कारलक्षणव्याख्यानसमये स्वूरूपमुक्तम् ।
क्रिया कारणमुत्पादनं, त्त्प्रधानं वचः क्रियावचः ।
कविप्रतिभया खलु पुराणप्रजापतिनिर्मितशुष्कपरुषपदार्थविलक्षणाः सरसाः पदार्थाः अभिनवा एव निर्मीयन्ते ।
अतः क्रियावच इत्युक्तम् ।
तस्योदाहरणम्
यद्वा मां किं करोम्येष वाचालयति विस्मयः ।
भवत्याः क्वायमाकारः क्वेदं तपसि पाटवम् ॥ ५.*४ ॥
अत्र यदेतत्पूर्वमुपक्रान्तं वचो मे नोदेतीति तस्याक्षेपो यद्वेतिकृतः ।
किंवा करोमि विस्मयवाचालितः सन् ब्रवीमि भवत्याः क्वते ।
एष विस्मयो मां वाचालयतीति संबन्धः ।
अत्राकृतेः सुकुमारायाः पाटवस्य च कठिनकायसाध्यस्य विरोधो भगवतीनिष्ठत्वेनोपनिबद्धः ।
तेन च विस्मयविभावनाख्यो विशेषोऽत्र ख्याप्यते ।
अयं चासिद्धस्वभावधर्मनिष्ठत्वाद्गुणविरोधः ।
एवं साध्यस्वभावधर्मनिष्ठेऽपि क्रियाविरोधे उदाहार्यम् ।
तथा द्रव्यविरोधे गुणक्रियाविरोधे गुणद्रव्यविरोधे क्रियाद्रव्यविरोधे च ॥
तुल्ययोगिता
उपमानोपमेयोक्तिशून्यैरप्रस्तुतैर्वचः ।
साम्याभिधायि प्रस्तावभाग्भिर्वा तुल्ययोगिता ॥ ५.७ ॥
अप्रस्तुतानामेव वा यत्र साम्यमभिधीयते सा तुल्ययोगिता ।
अत एव प्राकरणिकाप्राकरणिकोभयार्थनिष्ठत्वाभावात्तत्रोपमानोपमेयोक्तिशून्यत्वं प्रस्तावभाग्भिः प्रस्तुतैः साम्याभिधायि वच इति संबन्धः ।
तस्याः पूर्वभेदस्योदाहरणम्
त्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरता ॥ ५.*५ ॥
त्वच्छरीरसौकुमार्यदर्शिनः कस्येव चेतसि मालत्यादीनां काठिन्यं न भासत इत्यर्थः ।
अत्र मालत्यादीनामप्राकरणिकानामेवार्थानां कठोरत्वलक्षणं साम्यमुपनिबद्धम् ।
द्रष्टुरिति तृन् ।
तद्योगे च त्वदङ्गमार्दवमिति “न लोकाव्ययनिष्ठेऽति षष्ठीनिषेधः ।
द्वितीयभेदस्योदाहरणम्
योगपट्टो जटाजालं तारवीत्वङ्मृगाजिनम् ।
उचितानि तवाङ्गस्य यद्यमूनि तदुच्यताम् ॥ ५.*६ ॥
अत्र प्राकरणिकानमपि योगपट्टादीनां भगवतीशरीरे संस्पर्शनौचित्यलक्षणः समानो धर्मो निबद्धः ।
तारवीत्वक्वल्कलम् ।
अङ्गस्य शरीरस्य ।
अप्रस्तुतप्रशंसा
अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ।
अप्रस्तुतप्रशंसेयं प्रस्तुतार्थनुबन्धिनी ॥ ५.८ ॥
अधिकारादुपवर्णनावसरादपगतस्य प्राकरणिकादपरस्य वस्तुनो यत्रोपनिबन्धः सा अप्रस्तुतप्रशंसा ।
न चैवमपि तस्या उन्मत्तप्रलापप्रख्यता, यतः सा केनचित्स्वाजन्येन प्रस्तुतमर्थमनुबध्नति ।
तदुक्तम्प्रस्तुतार्थानुबन्धिनीति ।
तस्या उदाहरणम्
यान्ति स्वदेहेषु जरामसंप्राप्तोपभोक्तृकाः ।
फलपुष्पर्द्धिभाजोऽपि दुर्गदेशवनश्रियः ॥ ५.*७ ॥
अत्र कृच्छ्रेण गन्तुं शक्यते यस्मिन्देशे तद्गतकाननानां शोभा अप्राकरणिक्य एव स्वदेहजर्जरतयोपवर्णिताः ।
ताभिश्च सादृश्यं स्वाजन्येन भगवतीचेष्टितमुपमेयभूतं एवंविधरूपतयावगम्यते ।
दुर्गेति “सुदुरोरधिकरण"इति डप्रत्ययः ॥
व्याजस्तुतिः
शब्दशक्तिस्वभावेन यत्र निन्देव गम्यते ।
वस्तुतस्तु स्तुतिश्चेष्टा व्याजस्तुतिरसौ मता ॥ ५.९ ॥
यत्र शब्दानामभिधायकानां या शक्तिरर्थप्रत्यायनौत्सुक्यं तस्या यः स्वभावो नियतार्थनिष्ठत्वात्मकस्तेन निन्दा गम्यते इव नत्वसौ निन्दैव ।
पदार्थपर्यालोचनसामर्थ्योत्थायां स्तुतौ वाक्यार्थीभूतायामवान्तरवाक्यार्थत्वात् ।
अत एवाह
वस्तुतस्तु स्तुतिश्चेष्टेति ।
वस्तुत इत्यर्थसामर्थ्यादित्यर्थः ।
तत्र व्याजस्तुतिर्नामालङ्कारो भवति ।
निन्दाव्याजेन हि सा स्तुतिः ।
अतो व्याजस्तुतिः ।
तस्या उदाहरणम्
धिगनन्योपमामेतां तावकीं रूपसंपदम् ।
त्रैलोक्येऽप्यनुरूपो यद्वरस्तव न लभ्यते ॥ ५.*८ ॥
अत्र यदेतद्धिग्वादोपहतत्वं रूपसंपदः साक्षाच्छब्दव्यापारेण स्पृष्टं न तत्स्वात्मपर्यवसितं, अर्थसामर्थ्योत्थलोकोत्तरभगवतीरूपोत्कर्षप्रतिपादनपर्यवसितत्वात् ।
अतस्तस्यावान्तरवाक्यार्थता ।
तेनेयं व्याजस्तुतिः ।
निन्दाव्याजेन रूपोत्कर्षस्य स्तूयमानत्वात् ।
धिगनन्योपमामि “त्युभसर्वतसोः कार्ये"ति द्वितीया ॥
विदर्शना
अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत् ।
उपमानोपमेयत्वं कथ्यते सा विदर्शना ॥ ५.१० ॥
यत्र पदार्थानां संबन्धः स्वयमनुपपद्यमानः सन्नुपमानोपमेयभावे पर्यवस्यति अथवा उपमानोपमेयभावकल्पनया स्वात्मानमुपपादयति तत्र विदर्शना, विशिष्टस्यार्थस्य उपमानोपमेयभावात्मकस्योपदर्शनात् ।
तस्या उदाहरणम्
विनोचितेन पत्या च रूपवत्यपि कामिनी ।
विधुवन्ध्यविभावर्याः प्रबिभर्ति विशोभताम् ॥ ५.*९ ॥
विधुश्चन्द्रः ।
विभावरी रात्रिः ।
अत्र रजनिकररहितविभावरीविशोभत्वस्य यदेतत्कर्मत्वं तत्कामिनीकर्तृकायां भरणक्रियायां न समन्वयं गच्छति ।
न ह्यन्यस्य संबन्धिनीं विशोभामन्यो बिभर्ति ।
अतः पदार्थसमन्वयस्यात्रानुपपत्तिः ।
उपमानोपमेयभावस्त्वत्र वाक्यार्थविश्रान्तिस्थानं कृष्णरात्रिवद्विशोभतां बिभर्तिति ।
एवमेतद्भवति वस्त्वसंबन्धे उपमानोपमेयभावकल्पनायामुदाहरणम् ।
यत्र तु पदार्थसमन्क्य उपमानोपमेयभावकल्पनया स्वात्मानमुपपादयति तस्य विदर्शनाभेदस्योदाहरणमुद्भटपुस्तके न दृश्यते ।
तस्य तु भामहोदतमिदमुदाहरणम्
अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।
उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥
इति
तत्र प्रथमोदयसमयविजृम्भमाणस्वकान्तिरहितसय भास्वतो यदेतदस्तमयौन्मुख्यं तदुपेतस्य श्रीमतः प्रयोज्यकर्तॄन् प्रति पातावसानोदयकर्मकेऽवबोधे तत्समर्थाचरणलक्षणं हेतुकर्तृत्वमुपनिबद्धम् ।
तथाविधं खलु भास्वन्तं पश्यन्तः श्रीमन्तो बुध्यन्ते भास्वत इव सर्वस्योदयः पातावसान इति ।
तांश्चासौ तथावबुध्यमानान् स्वावस्थोपदर्शनेन प्रयुङ्क्ते यथा ममायमुदयः पातावसानस्तथा भवतामपीति ।
अत्र च प्रेषणाध्येषणयोरभावात्तत्समर्थाचरणलक्षण एव प्रयोजकव्यापारः कारीषोऽध्यापयति भिक्षा वासयतीति यथा ।
तेन च प्रयोज्यप्रयोजकभावेन स्वात्मानमुपपादयितुमुपमानोपमेयभाव आक्षिप्तः हे श्रीमन्तो यथा ममायमुदयः पतनाय तद्वद्भवतामपीति यूयं बुध्यध्वमिति ।
तेनात्र प्रयोज्यप्रयोजकभावलक्षणेन पदार्थसमन्वयेन स्वात्मोपपादनायोपमानोपमेयभावस्याक्षेपात्द्वितीयो विदर्शनाया भेदः ॥
संकरः
स च चतुर्विधः संदेहशब्दार्थवर्त्यलङ्कारैकशब्दाभिधानानुग्राह्यानुग्राहकभेदेन ।
तत्र संदेहसंकरस्तावत्
अनेकालङ्क्रियोल्लेखे समं तद्वृत्त्यसंभवे ।
एकस्य च ग्रहे न्यायदोषाभावे च संकरः ॥ ५.११ ॥
अनेकस्यालङ्कारस्योल्लेखे चेतस्युपारोहे संदेहसंकरो भवति, न त्वेकशब्दाभिधानसंकरादावपि अनेकालङ्कारोल्लेखः संभवति ।
यथा
मुरारिनिर्गता नूनं नरकप्रतिपन्थिनी ।
तवापि मूर्घ्नि गङ्गेव चक्रधारा पतिष्यति ॥
अत्र ह्युपमानोपमेयभावस्तत्प्रतिभाहेतुश्च श्लेषोऽनेकालङ्कार उल्लिख्यते ।
उपमानोपमेयभावे तावत्
गङ्गोपमानम् ।
चक्रधारा उपमेया ।
मुरारिनिर्गतत्वं साधारणो धर्मः ।
श्लेषस्त्वत्र नरकप्रतिपन्थिशब्दादात्मानं लभते ।
एकत्र हि नरको दानवः ।
अपरत्र त्ववीच्यादिः ।
एतौ च द्वावलङ्कारावेकस्मिन्निवशब्देऽनुप्रविशतः ।
न ह्युपमानोपमेयभावस्तत्प्रतिभाहेतुर्वा श्लेषः समासाद्यभावे इवशब्दादिमन्तरेण स्वरूपं प्रतिलभते ।
तेनात्र द्वावलङ्कारा वेकस्मिन्वाचके इव शब्देऽनुप्रविषौ ।
यदि चानेकालङ्कारोल्लेखे सति संदेहसंकरस्तत एवमादावप्यनेकालङ्कारोल्लेखस्य संभवात्संदेहसंकरप्रसङ्ग इत्याशङ्क्योक्तम्समं तद्वृत्त्यसंभव इति ।
तस्यानेकस्यालङ्कारस्य समं युगपद्यदि वृत्तिर्व्यापारोऽलङ्कार्यालङ्करणात्मको न संभवतीत्यर्थः ।
पूर्वोक्ते तूदाहरणे मुरारिनिर्गतेति साधारणधर्मोपादानान्नरकप्रतिपन्थिनीति च श्लेषपदोपदर्शनान्नानेकस्यालङ्कारस्य युगपद्वृत्तेरसंभवः ।
तेन तत्र न संदेहसंकरता ।
ननु यद्यनेकालङ्कारोल्लेके युगपद्वृत्त्यसंभवे च संदेहसंकरत्वम् ।
एव सति यत्र प्रतिभामात्रेणानेकस्मिन्नलङ्कारे उल्लिख्यमाने यस्य साधकं प्रमाणमस्ति स उपादीयते ।
यस्य तु बाधकं प्रमाणं विद्यते स त्यज्यते ।
तत्राष्यनेकालङ्कारोल्लेखस्य समं तद्वृत्त्यसंभवस्य च संभवात्संदेहसंकरत्वं प्रसज्जतीत्याशङ्क्योक्तमेकस्य च ग्रहे न्यायदोषाभावे चेति ।
न्यायः साधकं प्रमाणम् ।
दोषो बाधकं प्रमाणम् ।
यत्रानेकालङ्कारोल्लेखे युगपद्वृत्त्यसंभवे च एकतरस्य ग्रहणे साधकबाधके प्रमाणे समस्तव्यस्ततया न विद्येते तत्र संदेहसंकरः ।
तेन नानिष्टप्रसङ्गः ।
तथाहियत्र साधकबाधके प्रमाणे सामस्त्येन विद्यते तत्र यस्य साधकं प्रमाणमस्ति तस्योपादानाद्बाधकस्य प्रमाणोपेतस्य च त्यागादेकस्य ग्रहणं भवति ।
यत्रापि साधकबाधकप्रमाणयोर्वैयस्त्येनान्यतरस्य विद्यमानता तत्रापि प्रतिभोल्लिख्यमानानेकालङ्कारमध्यात्साधकप्रमाणोपेतस्योपादानात्प्रमाणशून्यस्य चोपेक्ष्यत्वात्, तथा बाधकप्रमाणोपेतस्य परित्यागात्त्दितरस्य च पूर्वोल्लिखितस्य पारिशेष्येणोपादानादेकस्य ग्रहो भवति ।
यत्र तु साधकबाधकप्रमाणाभावस्तत्र संदेह एव ।
एवमयं संदेहसंकरो लक्षितः ।
तस्योदाहरणम्
यद्यप्यत्यन्तमुचितो वरेन्दुस्ते न लभ्यते ।
तथापि वच्मि कुत्रापि क्रियतामादरो नरे ॥ ५.*१० ॥
अत्र वरेन्दुरिति वर एव इन्दुः, वर इन्दुरिवेति रूपकसमासोपमयोर्द्वयोरलङ्कारयोरुल्लेखः ।
न च तस्यानेकस्यालङ्कारस्य युगपद्वृत्तिः संभवति ।
एकालङ्कारसंश्रयेणैवालङ्कारस्य कृतकृत्यात्वात् ।
न चात्र द्वयोर्मध्यादेकतरस्य ग्रहणाय साधकबाधकप्रमाणयोगः. साधकं हि प्रमाणं विद्यमानं विधिमुखेनालङ्कारं ज्ञापयेत् ।
तथा बाधकमपि प्रहातव्यालङ्कारनिषेधमुखेनोपादेयमलङ्कारं पूर्वोल्लिखितं पारिशेष्यादुपादेयतया प्रतिपादयति ।
अत्र तु द्वयोः साधकबाधकप्रमाणयोरभावात्संदेहः ।
तेन संकरोऽलङ्कारः ।
शब्दार्थवर्त्यलङ्कारस्तु
शब्दार्थवर्त्यलङ्कारा वाक्य एकत्र भासिनः ।
संकरो वा
यत्रैकस्मिन्वाक्ये शब्दवर्तिनोर्ऽथवर्तिनश्चालङ्काराः संसर्गमुपयान्ति स शब्दार्थालङ्कारः ।
तस्योदाहरणम्
इत्थं स्थितिर्वरार्था चेन्मा कृथा व्यर्थमर्थिताम् ।
रूपेण ते युवा सर्वः पादबद्धो हि किङ्करः ॥ ५.*११ ॥
वरार्था भर्त्रर्था ।
किङ्करो दासः ।
अत्र थकारोपनिबद्धोऽनुप्रासात्मकः शब्दालङ्कारः ।
अर्थालङ्कारश्चार्थान्तरन्यासो विद्यते ।
तथाहिअत्र माकृथा व्यर्थमर्थितामित्युपादित्सितेर्ऽथेऽर्थित्वस्याकरणं यदुपनिबद्धं तदनुपपद्यमानतया संभाव्य तत्समर्थनायोक्तंऽरूपेण ते युवा सर्वः पादबद्धो हि किङ्करऽइति ।
यो गुणोत्कर्षशाली स नार्थयते, अपित्वर्थ्यते यथा रत्नादि ।
त्वं च रूपवत्त्वाद्गुणोत्कर्षशालिनी ।
तस्मादुपादित्सितेर्ऽथे
तवार्थित्वमयुक्तमिति ।
तेनायं शब्दार्थवर्त्यलङ्कारसंकरः ॥
एकशब्दाभिधानसंकरस्तु ।
एकवाक्यांशप्रवेशाद्वाभिधीयते ॥ ५.१२ ॥
एकस्मिन्वाक्यांशे वाक्यैकदेशे यत्रानेकस्यालङ्कारस्यानुप्रवेशः स एकशब्दाभिधानसंकरः ।
तस्योदाहरणम्
मैवमेवास्स्व सच्छायवर्णिका चारुकर्णिका ।
अम्भोजिनी चित्रस्था दृष्टिमात्रसुखप्रदा ॥ ५.*१२ ॥
अत्रोपमालङ्कार उपमाप्रतिभोत्पत्तिहेतुभूतश्च श्लेष इत्येतौ द्वावलङ्कारावेकस्मिन्वाक्यांशे इवशब्देऽनुप्रविष्टौ ।
तथाहिअम्भोजिनी उपमानम्, गौरी उपमेया, दृष्टिमात्रसुखप्रदत्वं साधारणो धर्मः इत्युपमा ।
सच्छायवर्णिका चारुकर्णिकेति श्लेषः ।
अम्भोजिन्यां हि वर्णा राजवर्तादयः गौर्यां तु गौरत्वम् ।
अम्भोजिन्यां कर्णिका कमलमध्वर्त्तिबीजकोशः ।
गौर्यां तु चारू कर्णौ ।
कपूचात्र समासान्तः ।
तेनायं श्लेषः ।
एतौ च द्वावलङ्कारा वेकस्मिन्वाक्यांशे इवशब्देऽनुप्रविष्टौ ।
तेनायमेकशब्दाभिधानसंकरः ॥
अनुग्राह्यानुग्राहकसंकरस्तु
परस्परोपकारेण यत्रालङ्कृतयः स्थिताः ।
स्वातन्त्र्येणात्मलाभं नो लभन्ते सोऽपि संकरः ॥ ५.१३ ॥
यत्रोभयोरुपमानोपमेययोः परस्परमुपमानोपमेयभावस्तत्रोपमेयोपमा ।
उपमेयेनोपमानस्योपमानात् ।
ननु च प्राकरणिकं साम्याभिधानसंबन्धि उपमेयम् ।
अप्राकरणिकं उपमानम् ।
यदि चात्रोपमेयस्योपमानत्वमभिधीयते, एवं
सति तस्य प्राकरणिकत्वं व्याहन्यते इत्याशङ्क्योक्तम्पक्षान्तरहानिगामिति ।
नात्रोपमानोपमेयभावे तात्पर्यं किन्तु एतदेव द्वयमेवंविधं विद्यते, न त्वन्यदेतयोः सदृशं वस्त्वन्तरं विद्यते इति ।
अतश्च एतत्पक्षद्वितयव्यतिरिक्तस्य पक्षान्तरस्यात्र हानेर्विवक्षितत्वात्परस्परमुपमानोपमेयभावो न दुष्यतीति तस्य पक्षान्तरहानौ प्रतपाद्यायामवान्तरवाक्यार्थत्वेनावस्थानात्, वरं विषं भक्षय मा चारस्य गृहे भुङ्क्थाः इतिवत् ।
अत्र हि विषभक्षणं न विधीयते ।
दुर्जनगृहे भोजनपरिवर्जनतात्पर्यात् ।
एवमिहाप्युपमानोपमेयभावस्याविवक्षापक्षान्तरहानौ तात्पर्यात् ।
तस्या उदाहरणम्
हरेणेव स्मरव्याधस्त्वयानङ्गीकृतोऽपि सन् ।
त्वद्वपुः क्षणमप्येष धार्ष्ट्यादिव न मुञ्चति ॥ ५.*१३ ॥
अत्र धार्ष्ट्यादि न मुञ्चतीति यासावुत्प्रेक्षा सा हरेणेव स्मरव्याधस्त्वयानङ्गीकृतोऽपि सन्नित्युपमाप्रतिभोत्पत्तिहेतुश्लेषवशेन स्वरूपं प्रतिलभते ।
अनङ्गीकृतो हि अनङ्गत्वमशरीरत्वमापादितः अनूरीकृतश्च ।
यश्चानूरीकृतः क्षणमपि न मुञ्चति तत्र धार्ष्ट्यं हेतुतयोत्प्रेक्षितुं शक्यते ।
तेन श्लेषवशेनात्रोत्प्रेक्सा आसादितस्वभावा ।
अतोयमनुग्राह्यानुग्राहकसंकरः ।
एवमयं चतुर्विधः संकरो नानालंकारगतविकल्पव्यवस्थासमुच्चयाङ्गाङ्गिभावसमाश्रयणेनाभिहितः ।
तत्रानेकालंकारविकल्पात्संदेहसंकरः ।
निभिन्नाधारत्वेन शब्दार्थवर्तिनोलंकारयोरवस्थानाद्व्यवस्थासमाश्रयः शब्दार्थवर्त्यलंकारसंकरः ।
एकशब्दाभिधानसंकरे तु समुच्चयेनानेकोलंकार एकस्मिन्वाक्यांशे इवादावनुप्रविशति ।
अनुग्राह्यानुग्राहकसंकरे त्वनकस्यालंकारस्याङ्गाङ्गिभावः ।
अतो विकल्पव्यवस्थासमुच्चयाङ्गाङ्गिभावसंश्रया एते चत्वारः संकरभेदाः ।
उपमेयोपमा
अन्योन्यमेव यत्र स्यादुपमानोपमेयता ।
उपमेयोपमामाहुस्तां पक्षान्तरहानिगाम् ॥ ५.१४ ॥
यत्रोभयोरुपमानोपमेययोः परस्परमुपमानोपमेयभावस्तत्रोपमेयोपमा ।
उपमेयेनोपमानस्योपमानात् ।
ननु च प्राकरणिकं साम्याभिधानसंबन्धि उपमेयमप्रकरणिकमुपमानम् ।
यदि चात्रोपमेयस्योपमानत्वमभिधीयते एवं सति तस्य प्राकरणिकत्वं व्याहन्यते इत्याशङ्क्योक्तम् पक्षान्तरहानिगामिति ।
नात्रोपमानोपमेयभावे तात्पर्यं किंतु एतदेव द्वयमेवंविधं विद्यते न त्वन्यदेतयोः सदृशं वस्त्वन्तरं विद्यत इति ।
अतश्च एतत्पक्षद्वितयव्यतिरिक्तस्य पक्षान्तरस्यात्र हानेर्विवक्षितत्वात्परस्परमुपमानोपमेयभावो न दुष्यतीति ।
तस्य पक्षान्तरहानौ प्रतिपाद्यायामवान्तरवाक्यार्थत्वेनावस्थानात् वरं विषं भक्षय मा चास्य गृहे भुक्त्वा इतिवत् ।
अत्र हि विषभक्षणं न विधीयते दुर्जनगृहे भोजनपरिवर्जनतात्पर्यात् ।
एवमिहाप्युपमानोपमेयभावस्याविवक्षा पक्षान्तरहानौ तात्पर्यात् ।
शिरांसि पङ्कजानीव वेगोत्पातयतो द्विषाम् ।
आजौ करोपमं चक्रं यस्य चक्रोपमः करः ॥ ५.*१४ ॥
अत्र यस्येत्युपात्त्स्य त्वत्कृते सोऽपि वैकुण्ठ इत्यत्र तच्छब्दसमन्वयेना काङ्क्षाविच्छेदो भविष्यते ।
उत्तरेष्वपि च श्लेकेषु तेनैव यच्छब्दार्थो निराकाङ्क्षी कार्यः ।
अत्र करचक्रयोः परस्परमुपमानोपमेयभावः ।
साधारणश्चात्र धर्मः अतित्वरितत्वेन शत्रुशिरोऽवकर्तनम् ।
एष चात्रोपमानोपमेयभावः उपमानान्तराभावे पर्यवसितः ।
यदि परमेतयोरेव परस्परमुपमानोपमेयभावः स्यादन्यत्वे तयोरुपमानं नास्तीति ॥
सहोक्तिः
तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रिते ।
पदेनैकेन कथ्येते सा सहोक्तिर्मता सताम् ॥ ५.१५ ॥
यत्र वस्तुद्वयसमवेते द्वे क्रिये पदेनैकेन तन्त्रवृत्त्या कथ्येते तत्र सहोक्तिर्नामालङ्कारो भवति ।
ननुऽसंजहार शरत्कालःऽइत्यादावपि दीपके पदेनैकेन वस्तुद्वयसमवेते द्वे क्रिये कथ्येते ।
अतश्च तत्रापि सहोक्तित्वं प्राप्नोतीति आसङ्क्योक्तम्तुल्यकाले इति ।
यत्र सहादिना पदेन तुल्यकालतामवगम्य वस्तुद्वितयसमाश्रिते द्वे क्रिये कथ्येते तत्र सहोक्तित्वम् ।
न चैवं दीपक इति नातिव्याप्तिः ।
सहादिना च शब्देन युगपत्कालतायामवद्योत्यमानायां द्वय गतिः ।
कदाचित्खलु ययोः क्रिययोस्तुल्यकालता ते क्रिये तुल्यकक्षतया स्वाश्रयविश्रान्तत्वेनाभिधीयेते, यता देवदत्त्यज्ञदत्तौ सह भुञ्जाते इति कदाचित्त्वेकाश्रयविश्रान्तायां क्रियायामभिहितायां सहाद्यर्थपर्यालोचनासामर्थ्यादपरस्याश्रयस्य क्रियासंबन्धोऽवगम्यते, यथा देवदत्तो यज्ञदत्तेन सह भूङ्क्त इति ।
तत्रेह द्वितीया गतिराश्रीयते ।
शाब्देन रूपेणैकत्र क्रियासंबन्धस्य प्रतीतस्यापरत्रार्थेन रूपेणोन्नीयमानत्वेन वक्रभणिते सद्भावात् ।
एवंविधस्य यत्रैव शोभातिशयविधायित्वं तत्रैव सहोक्तेरलङ्कारता न सर्वत्रेति द्रष्टव्यम् ।
तस्या उदाहरणम्
द्युजनो मृत्युना सार्धं यस्याजौ तारकामये ।
चक्रे चक्राभिधानेन प्रैष्येणाप्तमनोरथः ॥ ५.*१५ ॥
यस्य प्रैष्येण इति संबन्धः ।
अत्र मृत्योर्द्युजनस्य च मनोरथावाप्तिकरणलक्षणे द्वे क्रिये पदेनैकेनोक्ते चक्रेऽवाप्तमनोरथ इति ।
यद्यप्यवाप्तमनोरथ इति चक्र इति च सुप्तिडन्तत्वभेदेन पदद्वित्वं तथापि क्रियापदद्वितयोपादानव्यावृत्तेर्ववक्षितत्वात्पदेनैकेनेति न विरुध्यते ।
अथवा चक्रे इति करोति क्रिया सामान्यभूता विशेषमन्तरेणापर्यवस्यन्ती मनोरथावाप्तिलक्षणं विशेषं गर्भीकरोति ।
अतश्चात्र सत्यप्यनेकपदत्वे एकपदीभाव इव प्रकाशते ।
तेन एकेन पदेनेत्युक्तम् ।
सार्धं शब्दश्चात्र तुल्यकालतामवद्योतयति ।
यस्य प्रैष्येणाज्ञाकारिणा चक्रसंज्ञकेन कर्तृभूतेन मृत्युना सार्धमपृथक्कालतया द्युजन आप्तमनोरथः कृत इति ।
अनेकलोककवलीकरणान्मृत्योर्मनोरथावाप्तिः, द्युजनस्य च शत्रुविनाशात् ॥
परिवृत्तिः
समन्यूनविशेष्टैस्तु कस्यचित्परिवर्तनम् ।
अर्थानर्थस्वभावं यत्परिवृत्तिरभाणि सा ॥ ५.१६ ॥
कस्यचिद्वस्तुनो वस्त्वन्तरेण परिवर्तनं परिवृत्तिः ।
सा च त्रिविधा ।
परिवर्तनकारकाणां परिवर्तनीयेन सह समत्वान्न्यूनत्वादधिकत्वाच्च ।
तदिदमुक्तम्समन्यूनविशिष्टैरिति ।
तत्र यस्याः समोर्ऽथः परिवर्त्यते तस्या अनर्थस्वभावता ।
अर्थशब्देन हि उपादेयोऽप्थोऽभिधीयतेर्,ऽथ्यतेऽसाविति कृत्वा ।
यत्र च साम्यं तभार्थनीयत्वं नास्ति ।
तेनार्थ्यत्वाभावानुगमात्तत्रानर्थत्वमभिधीयते ।
अतस्तत्रानर्थस्वभावं परिवर्तनम् ।
यत्राप च निकृष्टपरिग्रहेणोत्कृष्टपरित्यागः क्रियते, तत्राप्यनर्थस्वभावता ।
उपादेयविपरीतस्योपादानात् ।
अर्थप्रतिपक्षो ह्यत्रानर्थः ।
अधर्मानृतवत् ।
यता ह्यधर्मानृतशब्दाभ्यां नोत्तरपदार्थ्राभावमात्रमभिधीयते, नाप्युत्तरपदार्थतुल्योर्ऽथः, किं तर्हि एतत्प्रतिपक्षस्यैवाभिधानं, एवमिहाप्यनर्थशब्देन अर्थप्रतिपक्षस्यैवाभिधनम् ।
यथा अनर्थो वैरिणामापतित इत्येवमादौ ।
तेन यत्रोत्कृष्टेन निकृष्टः परिगृह्यते तत्र दुःखहेतुत्वादरह्थप्रतिपक्षत्वेनानर्थखभावता ।
यत्र तु निकृष्टेनोत्कृष्टः परिगृह्यते तत्रोत्कृष्टस्य सुखहेतुत्वेनोपादेयत्वादर्थस्वभावता ।
तदिदमुक्तमर्थानर्थस्वभावमिति ।
तत्र समपरिवृत्तेरुदाहरणम्
उरो दत्वामरारीणां येन युद्धेष्वगृह्यत ।
हिरण्याक्षवधाद्येषु यशः साकं जयश्रिया ॥ ५.*१६ ॥
अत्र उरोदानेन उत्साहो लक्ष्यते यश्चात्र लक्ष्यमाणास्यार्थस्योत्साहस्योपायतया प्रतीयते ।
अभिधेयोर्ऽथो वक्षसो दानं नाम यो हि यत्र वक्ष उद्यमयति स तत्रोत्सहत इति तत्प्रतिभावच्छादितस्योतसाहस्य प्रतितिः तदपेक्षया समेन समस्य परिवर्तनम् ।
उरोयशसोः समत्वात् ।
न्यूनपरिवृत्तेस्तूदाहरणम्
नेत्रोरगबलभ्राम्यन्मन्दराद्रिशिरश्च्युतैः ।
रत्नैरापूर्य दुग्धार्ब्धि यः समादत्त कौस्तुभम् ॥ ५.*१७ ॥
नेत्रभूत उरगो वासुकिः ।
अत्रकौस्तुभस्योत्कृष्टस्य निकृष्टरत्नपरत्यागेन ग्रहणान्निकृष्टेनोत्कृष्टस्य परिवर्तनम् ।
विशेष्टपरिवृत्तेस्तूदाहरणम्
यो बलौ व्याप्तभूसीम्न मखेन द्यां जिगीषति ।
अभयं स्वर्गसद्मभ्यो दत्वा जग्राह खर्वतम् ॥ ५.*१८ ॥
भूसीमा पृथिव्या अवधिः ।
मखो यज्ञः ।
अत्र अभयेनोत्कृष्टेन निकृष्टस्य खर्वत्वस्य ह्रस्वत्वस्य परिवर्तनं अभिधेयापेक्षया
पूर्वतरोदाहरणवत्प्रतिभाति ।
तात्पर्यार्थापेक्षया तु नेयं परिवृत्तिः ।
चत्तद्देवेभ्यः अभयं प्रतिज्ञातं तदुपायभूताया वामनवेषेण स्वर्वतायाः परिगृहीतत्वात् ।
इति माहश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलधुवृत्तौ पञ्चमो वर्गः ॥
*****
अथ षष्ठो वर्गः ।
अनन्वयं ससंदेहं संसृष्टिं भाविकं तथा ।
काव्यदृष्टान्तहेतू चेत्यलङ्कारान्परे विदुः ॥ ६.१ ॥
अत्र इतिशब्दस्य वक्ष्यमाणं यदनन्वयादिलक्षणं तदुपक्षेपार्थत्वेन प्रयोगान्नानन्वयादिस्वरूपपरामर्शार्थत्वम् ।
इत्येवं वक्ष्यमाणलक्षणकत्वेनानन्वयादीनलङ्कारान्विदुरित्यर्थः ।
इत्येवं वक्ष्यमाणलक्षणकत्वेनानन्वयादीनलङ्कारान्विदुरित्यर्थः ।
अतो वेदनक्रियाकर्मत्वादनन्वयमित्यादौ द्वितीया ।
काव्यदृष्टान्तहेतू चेत्यत्र दृष्टान्तहेतुशब्दाभ्यां काव्यशब्दः प्रत्येकमभिसंबध्यते ।
दृष्टान्तशब्दस्य चात्र पूर्वनिपातोऽभ्यर्हितत्वात् ।
अभ्यर्हितत्वं दृष्टान्तस्य दृष्टान्तप्रतिबिम्बितव्याप्तिमुखेन हेतोः प्रायेण गमकता संप्रत्ययात् ।
ससंदेहः
उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससंदेहं वचः स्तुत्यै ससंदेहं वदुर्बुधाः ॥ ६.२ ॥
उपमानभेदपूर्वं भेदमभिदधतः कवेः कविनिबद्धस्य वा वक्तुर्वच इति संबन्धः ।
संदेहोपेतवचनव्याजेन उपमानेन तत्त्वं तद्भावमभेदमुपमेयस्याभिधायोत्तरकालं यदा तस्मादुपमानात्तस्योपमेयस्य भेदोऽभिधीयते तदा ससंदेहोऽलङ्कारः ।
ननु उपमानेन सह पूर्वमभेदेऽभिहिते सति पुनर्यदि तस्माद्धेदस्याभिधानं क्रियते ।
एवं सति गजस्नानं प्राप्नोतीत्याशङ्क्योक्तम्स्तुत्यै इति ।
स्तुत्यर्थत्वेन एवंविधा अभिधा समाश्रीयत इत्यर्थः ।
तस्योदाहरणम्
हस्ते किमस्य निःशेषदेत्यहृद्दलनोद्भवम् ।
यशःसंचय एष स्यात्पिण्डीभावोऽस्य किंकृतः ॥ ६.*१ ॥
नाभिपद्मस्पृहायातः किं हंसो नैष चञ्चलः ।
इति यस्याभितः शङ्खमशङ्किष्टार्जवो जनः ॥ ६.*२ ॥
आर्जवो मूर्खः ।
ऋजुत्वयोगात् ।
अत्र शङ्ख उपमेयः ।
यशःसंचयो हंसश्चोपमानम् ।
तयोश्च पूर्वमभेदसंदेहव्याजेनाभिहितः किमेष यशःसंचयः स्यादिति, तथा किं हंस इति पुनश्चात्रोपमानादुपमेयस्य भेदो वर्णितः ।
यशःसंचयात्तावद्भेदोपवर्णनं पिण्डीभावोऽस्य किंकृत इत ।
यशःसंचयः खलु प्रसरणशीलः ।
अस्य तु तद्विरुद्धः पिण्डीभावो दृश्यते ।
तेन नायं यशःसंचय इति ।
हंसात्तु भेदाभिधानं नैव चञ्चल इति ।
हंसस्य ह चञ्चलत्वं नाम धर्मः ।
इहच तन्नोपलभ्यते, तस्मान्नैव हंस इति ।
एवं विधस्य चात्राभिधानस्य फलं स्तुतिः, यशःसंचयो भगवता स्वहस्तवर्ती कृत इति, तथासंभाव्यमानहंसागमनं त्रिभुवनोत्पत्तिनिबन्धनं यत्तन्नाभिनलिनं तद्वान् भगवानिति ॥
ससंदेहस्य भेदान्तरमाह
अलङ्कारान्तरच्छायां यत्कृत्वा धीषु बन्धनम् ।
असंदेहेऽपि संदेहरूपं संदेहनाम तत् ॥ ६.३ ॥
छाया शोभा ।
यत्र संदेहाभावेऽपि संदेहस्योपनिबन्धे सति न पूर्ववदुपमानादुपमेयस्य भेद उपनिबध्यते किंतर्ह्यभेद एव संशयच्छायया ।
तथाविधस्य चोपनिबन्धस्य फलमलङ्कारान्तरोपजनिता सौन्दर्यप्रतिपत्तिः ।
यदाहधीष्वलङ्कारान्तरच्छायां कृत्वा इति ।
तत्रापि संदेहालङ्कारः ।
तस्योदाहरणम्
नीलाब्दः किमयं मेरौ धूमोऽथ प्रलयानले ।
इति यः शङ्क्यते श्यामः पक्षीन्द्रेर्कत्विषि स्थितः ॥ ६.*३ ॥
अत्र मेरोरुपरिवर्ती नीलो बलाहकः कल्पान्तवह्न्याश्चयश्च धूमः इत्येतदुभयमुपमानम् ।
गरुडारूढस्तु भगवान् कृष्णवपुरुपमेयः ।
तेन च उपमानद्वयेन संदेहव्याजेन भगवानापादिताभेद उपनिबद्धः किमयमेवंविधः अथैवंविधः इति ।
ताभ्यां चोपमानाभ्यामुपमेयस्य पूर्ववद्भेदनिबन्धनं नात्र किंचिदभिहितम् ।
फलं चैवमभिधानस्योपमालङ्कारध्वननम् ।
एवंविधोपमानद्वितयसदृशो भगवान्वैनतेयारूढ इति ।
अनन्वयः
यत्र तनैव तस्य स्यादुपमानोपमेयता ।
असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥ ६.४ ॥
यत्र तेनैव न तु वस्त्वन्तरेण तस्यैव वस्त्वन्तरस्योपमानोपमेयभावो भवेत्तत्र वस्त्वन्तरानुगमाभावादनन्वयाख्योऽलङ्कारः ।
ननु च सादृश्यसंबन्धे सति प्राकरणिकमुपमेयमप्राकरणिकं तूपमानमित्युपमानोपमेययोर्लक्षितत्वात्कथमेकस्यैवोपमितिक्रियायां कर्मत्वं करणत्वं च संभवतीत्याशङ्क्योक्तमसादृश्यविवक्षात इति ।
नात्रोमपानोपमेयभावे तात्पर्यं किन्तूपमेयोपमावदुपमानान्तरव्यावृत्तावित्यर्थः ।
इतिशब्देऽत्र वक्ष्यमाणोदाहरणोपक्षेपार्थत्वादनन्वयशब्देन नाभिसंबध्यते ।
तेन अनन्वयमिति द्वितीया ।
तस्योदाहरणम्
यस्य वाणी स्ववाणीव स्वक्रियेव क्रियामला ।
रूपं स्वमिव रूपं च लोकलोचनलोभनम् ॥ ६.*४ ॥
अत्र वाणीक्रियारूपाणां त्रयाणामनुपमतया लोकोत्तरत्वं प्रतिपादयितुमात्मनैवोपमानोपमेयभावो निबद्धः ।
संसृष्टिः
अलङ्कृतीनां बह्वीनां द्वयोर्वापि समाश्रयः ।
एकत्र निरपेक्षाणां मिथः संसृष्टिरुच्यते ॥ ६.५ ॥
बहूनामलङ्काराणां परस्परनिरपेक्षाणां द्वयोर्वा तथाविधयोरेकत्र शब्द एव अर्थ एव वा उपनिबन्धे सति संसृष्टिरलङ्कारः ।
यत्र तु परस्परसापेक्षत्वं तत्र सन्देहैकशब्दाभिधानानुग्राह्यानुग्राहकसङ्करास्त्रयः पूर्वमभिहिताः ।
यत्र च शब्दार्थलक्षणाश्रयद्वितयनिष्ठतया अनेकालङ्कारोपनिबन्धस्तत्रापि शब्दार्थवर्त्यनेकालङ्कारसंकर उक्तः ।
एतद्वैलक्षण्येन तु संसृष्टिः ।
तस्या उदाहरणम्
त्वत्कृते सोऽप वैकुण्ठः शशीवोषसि चन्द्रकाम् ।
अप्यधारां सुधावृर्ष्टि मन्ये त्यजति तां श्रियम् ॥ ६.*५ ॥
तदुत्तिष्ठातिधन्येन केनापि कमलेक्षणे ।
वरेण सह तारुण्यं निर्विशन्ती गृहे वस ॥ ६.*६ ॥
निर्विशन्ती उपभुञ्जाना ।
अत्र शशी उषसि चन्द्रिकामिव वैकुण्ठः त्वत्कृते श्रियं त्यजति इत्युपमा ।
अधारां सुधावृष्टिमिति रूपकम् ।
तथा ह्यत्र लक्ष्म्याः सर्वे पीयूषवृष्टेः संबन्धिनो धर्मा विद्यन्ते केवलं धारासंबन्धो नास्तीत्युपमानगतैकगुणनिवृत्तिद्वारिका शिष्टोपमानगतसकलगुणाभ्यनुज्ञारूपारोपणावगम्यते, यथा अयं पुरुषः अकरो हस्तीति ।
तदेतस्मिन् श्लोके उपमाया रूपकस्य च द्वयोरलङ्कारयोः संसृष्टिः ।
तयोः केवलाभिधेयाश्रयत्वात्परस्परनिरपेक्षत्वाच्च ।
ऽतदुत्तिष्ठऽइत्येतच्छ्लोकापेक्षया तुऽकमलेक्षणेऽइति समासोपमात्मकमुपमाभेदमाश्रित्य पूर्वोक्तालङ्कारद्वयसंकलनया बहूना मलङ्काराणां संसृष्ट्युदाहरणदिक्प्रदर्शनं द्रष्टव्यम् ॥
भाविकम्
प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः ।
अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ॥ ६.६ ॥
सांप्रतिकेन प्रध्वंसाभावेनोपलक्ष्यमाणाः पदार्थाः भूताः, यथा इदानीं युधिष्ठिरादयः ।
ये तु साप्रतिकेन प्रागभावेन उपलक्ष्यन्ते ते भाविनः, यथा इदानीं भगवदवतारः कल्की भविष्णुयशाः ।
एवमनन्तरोपलक्षिताः भूता भाविनश्च येर्ऽथास्ते सांप्रतिकप्रध्वंसाभावप्रागभावविविक्ततया वर्तमानायमानाः प्रत्यक्षा इव यत्र दृश्यन्ते तद्भाविकं नामालङ्कारो भवेत् ।
अत्र हेतुर्वाचामनाकुलता अर्थानां चात्यद्भुतत्वम् ।
तदुक्तम्वाचामनाकुल्येनेति ।
अत्यद्भुता इति च ।
तत्र वाचामनाकुलता व्यस्तसंबन्धरहितलोकप्रसिद्धशब्दोपनिबन्धाज्झगित्यर्थप्रतीतिकारिता ।
तस्यां हि सत्यां कवेः संबन्धी यो भावः
आश्रयः शृङ्गारादिरससंवलितचतुर्वर्गोपायभूतविशिष्टार्थोल्लेखी स कविनैव सहृदयैः श्रोतृभिः स्वाभिप्रायेऽभेदेन तत्तत्काव्यप्रतिबिम्बितरूपतया साक्षात्क्रियते ।
श्रोतृणामपि हि तथाविधस्वच्छशब्दानुभवद्रावितान्तरात्मनां सहृदयानां स्वाभिप्रायप्रतिमुद्रा तत्र संक्रामति ।
अतः कवेर्योऽसावभिप्रायस्तद्गोचरीकृता भूता भाविनोऽपि पदार्थस्तत्र सहृदयैः श्रोतृभिः स्वाभिप्रायाभेदेन प्रत्यक्षा इव दृश्यन्ते ।
यथा चात्र शब्दगतमनाकुलत्वमनन्तरोक्तेन प्रकारेण हेतुस्तथार्थगतमपि चित्रोदात्तार्थोपनिबन्धहेतुकमत्यद्भुतत्वं द्रष्टव्यम् ।
तदुक्तं भाविकमुपक्रम्य भामहेन"चित्रोदात्ताद्भुतार्थत्वं कथायां स्वभिनीतता ।
शब्दानाकुलता चेति तस्य हेतून् प्रचक्षते"इति ॥
स्वभिनीततेत्यभिनयादिद्वारेण शृङ्गारादिरससंवलितत्वं चतुर्वर्गोपायस्योक्तम् ।
तदेवमेवंविधहेतुनिबन्धनं कविश्रोतृभावद्वितयसंमीलनात्मकं भाविकं द्रष्टव्यम् ।
अत एव चात्र कविसंबन्धिनो भावस्य श्रोतृभावाभेदाध्यवसितस्य पुरःस्फुरद्रूपस्य विद्यमानत्वाद्भाविकव्यपदेशः भावोऽस्मिन् विद्यते इति भाविकम् ।
तदाहुः"रसोल्लासी कवेरात्मा स्वच्छे शब्दार्थदर्पणो ।
माधुर्यौजोयुतप्रौढे प्रतिविन्द्य प्रकाशते ।
संपीतस्वच्छशब्दार्थद्राविताभ्यन्तरस्ततः ।
श्रोता तत्साम्यतः पुष्टिं चतुर्वर्गे परां व्रजेत्"इति ।
स्वच्छ इति प्रसादगुणोऽभिहितः ।
प्रौढ चतुर्वर्गे परां व्रजेत्"इति ।
स्वच्छ इति प्रसादगुणोऽभिहितः ।
प्रौढ इति तु सालङ्कारता ।
संपीतौ सम्यगास्वादितौ ।
तत्साम्यत इति स्वभिप्रायाभेदेन कविगतस्याभिप्रायस्याध्यवसानादित्यर्थः ।
तस्योदाहरणम्
करोषि पीडां प्रीतिं च निरञ्जनविलोचना ।
मूर्त्यानया समुद्वीक्ष्य नानाभरणशोभया ॥ ६.*७ ॥
अत्राभरणोचितमूर्तित्वेऽपि निरञ्जनविलोचनत्वोपलक्षितादाभरणत्यागात्पीडा ।
सहजसौन्दर्यनिर्भरत्वेन तु आभरणसंपाद्यायाः शोभायाः परिदृश्यमानत्वात्प्रीतिः ।
तेनात्र सांप्रतिकप्रध्वंसाभावोपलक्षितत्वाद्भूषणसंबन्धो व्यतितोऽप्यद्भुतो योऽसौ वपुःप्रकर्षस्तद्वशेन प्रत्यत्र इव कविनोपनिबद्धः ।
तथैव चासौ सहृदयानां चमत्कारमावहति ।
संततमुत्कृष्टतया वैचित्र्येण ईक्षणीया आभरणशोभा यस्यामिति बहुव्रीहिः ।
काव्येहेतुः
श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा ।
हेतुतां प्रतिपद्ये काव्यलिङ्गं तदुच्यते ॥ ६.७ ॥
यत्र एकं वस्तु श्रुतं सद्वस्त्वन्तरं स्मारयति अनुभावयति वा तत्र काव्यलिङ्गं नामालङ्कारः ।
पक्षधर्मत्वान्वयव्यतिरेकानुसरणगर्भतया यथा तार्किकप्रसिद्धा हेतवो लोकप्रसिद्धवस्तुविषयत्वेनोपनिबध्यमाना वैरस्यमावहन्ति न तथा काव्येहेतुः अतिशयेन सर्वेषां जनानां योसौ हृदयसंवादीसरसः पदार्थस्तन्निष्ठतया उपनिबध्यमानत्वात् ।
अतः काव्यलिङ्गमिति काव्यग्रहणमुपात्तम् ।
न खलु तच्छास्त्रलिङ्गं किं तर्हि काव्यलिङ्गमिति काव्यग्रहणेन प्रतिपाद्यते ।
ननु काव्यग्रहणेन कथं काव्यस्य सरसपदार्थनिष्ठतोपदर्श्यते ।
काव्यस्य सरसत्वात् ।
काव्यं खलु गुणसंस्कृतशब्दार्थशरीरत्वात्सरसमेव भवति, न तु नीरसम् ।
तथाहिगुणाः काव्यस्य माधुर्यौजःप्रसादलक्षणाः ।
तत्र माधुर्यमाह्लादकत्वम्, ओजो गाढता, प्रसादस्त्वव्यवधानेन
रसाभिव्यक्त्यनुगुणता ।
तदेतेषां त्रयाणां गुणानां मध्यात्प्रसादस्य प्राधान्यम् ।
माधुर्यौजसोस्तु तत्तद्रसाभिव्यक्त्यानुगुण्येन तारतम्येनावस्थितयोः प्रसाद एव सोपयोगता ।
एवं च तत्र तद्रसानुगुण्येन माधुर्यौजोभ्यां तारतम्येनावस्थिताभ्यां उपकृतो योऽसौ प्रसादात्मा रसानामव्यवधानेन प्रतीतिहेतुर्गुणस्तदुपेतशब्दार्थशरीरत्वेन काव्यस्यावस्थानात्सरसतैव भवति, न तु नीरसता ।
यद्येवमिदानीं गुणैरेव कृतकृत्यत्वात्काव्यस्यालङ्काराणां तत्र निरुपयोगता प्राप्नोति ।
नैवं गुणाहितशोभे काव्ये अलङ्काराणां शोभातशयविधायित्वाल्लौकिकालङ्कारवत् ।
यथाहि लौकिकानामलङ्काराणां गुणसंस्कृते युवतिवपुषि निबध्यमानानामलङ्कारता एवं काव्यालङ्काराणामपि द्रष्टव्यम् ।
ननु निर्गुणेऽपि काव्ये अलङ्काराणां गुणवच्छोभाविधायित्वं कस्मान्नेष्यते ।
अपरदृष्टत्वात् ।
न खलु निर्गुणे काव्ये निबध्यमानानामलङ्काराणां जरद्योषिदलङ्कारवच्छोभाविधायित्वं दृश्यते ।
तथाहि
जरद्योषित्यलङ्कारां निबध्यमाना न तस्याः शोभां हीयते ।
तथाहिजरद्योषित्यलङ्कारा निबध्यमाना न तस्याः शोभां कुर्वन्ति, प्रत्युत तस्यां निबध्यमानानां तेषामात्मीयमेव सौभाग्यं हीयते ।
तथा काव्यालङ्काराणामपि निर्गुणे काव्ये निबध्यमानानां काव्यशोभाहेतुत्वाभावः स्वशोभाहानिश्च भवति ।
यदवोचद्भट्टवामनः"युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणं तदप्यतीव ।
विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः ॥
यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः ।
अपि जनदयतानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥
“इति ।
अङ्गशब्द इष्टामन्त्रणे ।
शुद्धगुणत्वात्स्वदमानं सदलङ्कारविकल्पकल्पनाभिर्विहितपरिचयमतिशयेन स्वदते इति संबन्धः ।
अत एवालङ्काराणआमनित्यता ।
गुणरहितं हि काव्यमकाव्यमेव भवति, न त्वलङ्काररहितम् ।
अलङ्काराणां गुणोरहितं हि काव्यमकाव्यमेव भवति, न तवलङ्काररहितम् ।
अलङ्काराणां गुणोपजनितशोभे काव्ये शोभातिशयविधायित्वात् ।
तदुक्तम्
“काव्यशोभायाः कर्तारो धर्मा गुणाः ।
तदतिशयहेतवस्त्वलङ्काराः ।
पूर्वे नित्याः ।
“इति ।
पूर्वे इति गुणा इत्यर्थः ।
लक्ष्ये च अलङ्काररहितमपि केवलगुणसंस्क्रियमाणशब्दार्थशरीरं काव्यं दृश्यते, यथा अमरुकस्य कवेरनिबद्धशृङ्गाररसस्यन्दी श्लोकः"कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजप्रकल्पतमश्रुतम् ।
असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः ॥
“इति ।
न खल्वत्रार्थलङ्कारः कश्चित्परिदृश्यते ।
अथ माधुर्यौजोभ्यां परिबृंहतस्य प्रसादस्य विद्यमानत्वात्काव्यरूपता ।
ननु चात्रापि ईर्ष्याविप्रलम्भविरहविप्रलम्भशृङ्गाराभ्यां स्वतिरोधानेनोपकृतः संभोगशृङ्गारो नायिकानिष्ठो निबद्धस्तद्योगाच्च रसवत्त्वमलं भविष्यति ।
तथाहिऽकथमपि कृतप्रत्यापत्तौ प्रियेऽइत्यत्र भागे विरहविप्रलम्भपूर्वकः प्रियतमचित्तसांमुख्यात्मा संभोगशृङ्गारः सूचितः ।
स्स्वलितोत्तर इति तु संजातगोत्रस्खलितत्वात्प्रेयसो नायिकाया ईर्ष्याविप्रलम्भशृंगारो निबद्धः ।
पुनश्च विरहकृशयेत्यादिभिस्त्रिभिः पादैरवहित्थेन भावेन नायिकाधारमीर्ष्या विप्रलम्भशृङ्गारं प्रच्छाद्य संभोगशृङ्गारेण चित्तोल्लाससूचितेन वाक्यार्थसमाप्तिः कृता ।
तथा हिविरहकृशेत्यादिना पादेन नायिकागतो मन्युरवच्छाद्योपदर्शितः ।
असहनसखीत्यादिना तु गोत्रस्खलितस्य सखीश्रोत्रप्राप्तिं विरहविप्रलम्भकारणत्वेनाशङ्क्य दृष्टिपरावृत्त्या सखीजनशून्ये गृहे परिदृष्टे यत्तन्नयकया समुल्लसितं तदुपनिबन्धात्संभोगशृङ्गारेण वाक्यार्थो निर्वाहितः ।
तदेवमत्र संभोगस्य वप्रलम्भवाधेन लब्धपदबन्धस्योपनिबन्धाद्रसवत्त्वमलङ्कारः ।
तत्कथमत्र निरलङ्कारतोक्ता ।
उच्यते ।
न खलु काव्यस्य रसानां वालङ्कार्यालङ्कारभावः, किन्तु आत्मशरीरभावः ।
रसा हि कावयस्यात्मत्वेन अवस्थिताः, शब्दार्थौ च शरीररूपतया ।
यथा ह्यात्माधिष्ठितं शरीरं जीवतीति व्यपदिश्यते तथा रसाधिष्ठितस्य काव्यस्य जीवद्रूपतया व्यपदेशः क्रियते ।
तस्माद्रसानां काव्यशरीरभूतशब्दार्थविषयतयात्मत्वेनावस्थानं, नत्वलङ्कारतया ।
रसाभिव्यक्तिश्च यथायोगं माधुर्यौजोभ्यां तारतम्येनावस्थिताभ्यामुपबृंहितो योऽसौ प्रसादात्मा गुणस्तेन क्रियते ।
अतोऽत्र विप्रलम्भशृङ्गारोपकृतस्य संभोगशृङ्गारस्य सगुणकाव्यात्मत्वेनावस्थानं, न तु काव्यं प्रति अलङ्कारतयेति युक्तमिदमुक्तं निरलङ्कारमपि काव्यं सगुणं दृश्यते इति ।
एवं रसान्तरेषु भावेषु रसभावाभासेषु तत्प्रशमेषु च वाच्यम् ।
तदाहुः"रसाद्यधिष्ठितं काव्यं जीवद्रूपतया यतः ।
कथ्यते तद्रसादीनां काव्यात्मत्वं व्यवस्थितम् ॥
“इति ।
यत्तु रसादीनां पूर्वमलङ्कारत्वमुक्तं तदेवंविधभेदाविवक्षया ।
तदेवं गुणसंस्कृतशब्दार्थशरीरत्वात्सरसमेव काव्यम् ।
यद्येवं गुणशून्यत्वान्नीरसे
व्याकरणादौ भरतादौ च काव्यव्यपदेशो न प्राप्तः ।
ततश्च “वृत्तदेवादिचरितशंसि चोत्पीद्यवस्तु च ।
कलाशास्त्राश्रयं चेति चतुर्धा भिद्यते पुनः ॥
“इति भामहोदितं विरुध्यते, अत्र हि कलाश्रयशब्देन भरताद्यभिहितम् ।
शास्त्राश्रयशब्देन च व्याकरणादि ।
अतो वक्तव्यमेतत्कथं तत्र काव्यव्यपदेशः इति ।
उच्यते ।
मुख्यया तावद्वृत्त्या गुणसंस्कृतशब्दार्थशरीरमेव काव्यम् ।
गुणरहितशब्दार्थशरीरे तु क्वायमात्रे काव्यशब्दस्य काव्यसादृश्यादुपचारात्प्रयोगो भविष्यति ।
उक्तं च"काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्ते, भक्त्या तु शब्दार्थमात्रवचनोऽत्र गृह्ते"इति ।
भक्त्येति उपचारेणेत्यर्थः ।
तदेवं गुणसंस्कृतशब्दार्थशरीरत्वात्काव्यस्य सरसत्वमिति ।
तद्विशिष्टं काव्यलिङ्गं
सरसपदार्थनिष्ठमेव भवतिष न तु नीरसवस्तुमात्रनिष्ठं शास्त्रलिङ्गवदित्युपपन्नम् ।
तार्किकाणां च हेतुव्यापारे द्वैविध्यम् ।
केचित्खलु तार्कका व्याप्तिग्रहणकाले यदनुभूतं व्यापकं वह्न्यादिवस्तु धूमादेर्व्याप्यस्य तत्स्मरणमात्रे धूमादिहेतुदर्शनप्रबुद्धसंस्काराणां पुरुषाणां हेतुव्यापारं मन्यन्ते ।
अपरे तु वह्न्यादीनां पर्वतादिधर्मविशेषसंबन्धस्य पूर्वमगृहीतस्य धूमादिहेतुव्यापारसामर्थ्येन इदानीमेव अवसेयत्वाल्लिङ्गसामर्थ्याल्लिङ्ग्यनुभवस्यैव उत्पत्तिमाहुः ।
तदिदमुक्तं स्मृतेरनुभवस्य वेति ।
तस्योदाहरणम्
छायेयं तव शोषाङ्गकान्तेः किञ्चिदनुज्ज्वला ।
विभूषाघटनोद्देशान्दर्शयन्ती दुनोति माम् ॥ ६.*८ ॥
अत्र विभूषणविन्यासास्पदभूता ये कण्ठादयस्तदवशिष्टानामङ्गानां यासौ कान्तिः दीप्तिः तस्या अनुज्ज्वला मलिना यासौ छाया शोभा सा लिङ्गं, तत्सामर्थ्याच्च भूषाविन्यासप्रदेशानां भूषणसंबन्धोऽतीतोऽनुमीयते ।
तेन तत्काव्यलिङ्गम् ॥
काव्यदृष्टान्तः
इष्टस्यार्थस्य विस्पष्टप्रतिबिम्बनिदर्शनम् ।
यथेवादिपदैः सून्यं बुधैर्दृष्टान्त उच्यते ॥ ६.८ ॥
इष्टस्य प्राकरणिकतया प्रतिपादयितुमभिमतस्यार्थस्य यत्र विस्पष्टतया प्रतिबिम्बं सदृश वस्तु निदर्श्यते तत्र काव्यदृष्टान्तो नामालङ्कारः ।
ननु “कोपादेकतराघातनिपतन्मत्तदन्तिनः ।
हरेर्हरिणयुद्धेषु कियान्व्याक्षेपविस्तरः"इत्येवमादावपि अप्रस्तुतप्रशंसायामिष्टार्थप्रतिबिम्बनिदर्शनं विद्यते ।
तथाहिअत्र रामदेवस्य मारीचवधे व्यापारो निरायासो हरिणहननोद्योगिकसरिकिशोरप्रतिबिम्बितत्वेन निदर्शितः ।
अतोऽत्रापि दृष्टान्तताप्रसङ्गः ।
नैतत् ।
यत एतदर्थमेव विस्पष्टग्रहणमुपात्तम् ।
अत्र हि प्रतिबम्बादेव बिम्बस्योन्नयनाद्विस्पष्टरूपतया इष्टस्यार्थस्य प्रतिबिम्बनिदर्शनं नास्ति ।
यत्र तु इष्टमर्थं स्वकण्ठेनोपादाय तस्य प्रतिबिम्बमुपदर्श्यते तत्र दृष्टान्तत्वम् ।
अतो नातव्याप्तिः ।
उपमादावप्येत्वंविधस्य रूपस्य संभव इति तन्निराकरणार्थमुक्तम्यथेवादिपदैः शून्यमिति ।
आदिग्रहणेनात्र साधारणधर्मस्यापि परिग्रहः ।
तस्योदाहरणम्
किञ्चात्र बहुनोक्तेन व्रज भर्तारमाप्नुहि ।
उदन्वन्तमनासाद्य महानद्यः किमासते ॥ ६.*९ ॥
अत्र भगवतीकर्तृकाया वरप्राप्तेर्महानदीकर्तृका उदन्वत्प्रार्विस्पष्टतया प्रतिबिम्बत्वेनोपनिबद्धा ।
अतो दृष्टान्तः ।
एवमेतेऽष्टकषट्कत्रिकसप्तकैकादशकषट्कैः षङ्भिर्वर्गैरेकचत्वारिंशदलङ्काराः प्रतिपादिताः ।
ननु यत्र काव्ये सहृदयहृदयाह्लादिनः प्रधानभूतस्य स्वशब्व्यापारास्पृष्टत्वेन प्रतीयमानैकरूपस्यार्थस्य सद्भवस्तत्र तथाविधार्थाभिव्यक्तिहेतुः काव्यजीवतभूतः कैश्चत्सहृदयैर्ध्वनिर्नाम व्यञ्जकत्वभेदात्मा काव्यधर्मोऽभिहितः ।
स कस्मादिह नोपदिष्टः ।
उच्यते ।
एष्वेवालङ्कारेष्वन्तर्भावात् ।
तथाहिप्रतीयमानैकरूपस्य वस्तुत्रैविध्यं तैरुक्तं वस्तुमात्रालङ्काररसादिभेदेन ।
तत्र वस्तुमात्रं तावत्प्रतीयते यथा
चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥
इति ।
अत्र हि राहुवधूरतोत्सवस्य या चुम्बनमात्रेशेषता तत्कर्मका चक्राभिघातप्रसभाज्ञाकरणिका चकारेति करणलक्षणा क्रियाभिधीयते ।
सा
चैवंविधा कार्यभूतत्वात्कारणमन्तरेणानुपपद्यमाना तथाविधवैरस्यकारि राहुशिरश्छेदलक्षणं कारणं नालङ्काररूपं, नापि रसादिरूपं, अपि तु वस्तुमात्ररूपं कल्पयति ।
अतोऽत्र वस्तुमात्रस्यैवंविधस्य शब्दव्यापारास्पृष्टस्य प्रतीयमानता, तद्विषयस्य च काव्यधर्मस्य ध्वननाभिधानस्य वाच्यवाचकव्यापारशून्यावगमनस्वभावत्वात्पर्यायोक्तालङ्कारस्पर्शित्वं, तदुक्तम्
“पर्यायोक्तं यदन्येन"इत्यादि ।
ननु पर्यायोक्तशब्देन प्रकारान्तरेण उच्यमान्त्वात्प्रतीयमानं वस्तु अभिधीयते ।
तच्चेह प्रतीयमानं
प्रधानत्वादलङ्कार्यतया वक्तुं युक्तम्, न त्वलङ्कृतिकारणतया ।
अतः कथं तस्यालङ्कारव्यपदेशः ।
उच्यते ।
प्रधानमपि गुणानां सौन्दर्यहेतुत्वादलङ्कृतौ साधनत्वं भजति ।
दृश्यते हि लोके व्यपदेशः स्वाम्यलङ्करणका भृत्या इति ।
अतोऽत्रापि प्रतीयमानस्य सत्यपि प्रधानत्वे स्वगुणभूतवाच्यसौन्दर्यसाधकतमत्वादलङ्कारव्यपदेशो न विरुध्यते ।
यदि वा भगवद्वासुदेववर्तितया योऽसौ वीररसोऽवगम्यते तदपेक्षया तस्य मुख्ययैव वृत्त्या गुणभूतत्वादलङ्कारता ।
एवमुत्तरत्रापि यथासंभवं योज्यम् ।
“स्निग्धस्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव” ॥
इत्येवमादावपि रामादीनां शब्दानामसाधारणरूपतया राज्यभ्रंशवनवाससीताहरणपितृमरणादयो दुःखैकहेतवः स्वार्थसहचारिणो वस्तुमात्ररूपा व्यङ्ग्यधर्मास्तत्परिणतरूपतया स्वार्थस्य प्रतीतिस्तद्वेतुभूतत्वात्पर्यायोक्तालङ्कारसंस्पर्शितैव ।
न खलु पदे पर्यायोक्तेन भवितव्यमितीयं राज्ञामाज्ञा सूत्रकारवचनं वा ।
लक्षणयोगाद्वि विभक्तरूपतावस्थाप्यते ।
अत्र च पर्यायोक्तलक्षणं विद्यते ।
वाच्यवाचकव्यापारशून्यस्यावगमनात्मनः प्रकारस्य सद्भावात् ।
तेन कथं पर्यायोक्तता न स्यात् ।
एवमन्यत्रापि वस्तुमात्रे प्रतीयमाने पर्यायोक्तता वाच्या ।
तस्मान्न वस्तुमात्रे प्रतीयमाने तदभिव्यक्तिहेतुः काव्यधर्मो ध्वनिर्नामार्थान्तरम् ॥
अलङ्काराणां तु यद्यपि
“लावण्यकान्तिपरिपूरितदिङ्भुखेऽस्मिन्
स्मेरेऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये
सुव्यक्तमेव जलराशिरयं पयोधिः” ॥
इत्यादौ प्रतीयमानैकरूपता, तथाप्यनन्तरोक्तलक्षणेष्वलङ्कारेषु अनुप्रवेशो भविष्यति पर्यायोक्ते वा ।
तथा ह्यत्र श्लोके मुख्यस्य लावण्यकान्तिपरिपूरितदिङ्भुखस्य विकसितहासज्योत्स्नस्य संबोधनसामर्थ्यावसिततरलायताक्षित्वस्य च संनिधानाज्जलनिधेः क्षोभमुपपत्तिमत्त्वेन संभाव्य तद्भावो जाड्यसमूहावच्छादितस्वभावत्वादभिहितः ।
तथाविधार्थपर्यालोचनया चात्र मुखस्य चन्द्रेण रूपणा प्रतीयते ।
चन्द्रसंनिधानाज्जलनिधेः क्षोभस्योत्पाददर्शनात् ।
न च यस्यालङ्कारस्य प्रतीयमानरूपता तस्येहालङ्कारत्वं केनचिन्निवारितमिति प्रतीयमानरूपतया रूपकाख्योऽलङ्कारो भविष्यति ।
अथवा पर्यायोक्त्या रूपकस्यात्रावसतत्वात्पर्ययोक्तमलङ्कारः ।
“सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्” ॥
इत्यादौ तु शूरादिभिः सह सुवर्णपुष्पपृथिवीकर्मकस्य चयनस्यानुपपद्यमानान्वयत्वात्सादृश्यस्यान्वयेनोपमेयभूतस्य बहुलाभत्वस्य तत्सदृशस्य या लक्षणा तद्द्वारेण गर्भीकृतोपमानोपमेयभावा असंभवद्वाच्यार्था निदर्शना द्रष्टव्या ।
यदुक्तम्"अभवन्वस्तुसंबन्ध"इत्यादि ।
भट्टवामनेन चात्र वक्तोक्तिव्यवहारः प्रवर्तितः ।
यदवोचत्"सादृश्याल्लक्षणा वक्तोक्तिरि"ति ।
“सर्वैकशरणमक्षयमधीशमीशं धियां हरिं कृष्णम् ।
चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम्” ॥
इत्यादावपि श्लेषः ।
तथा ह्यत्र सर्वैकशरणमक्षयमित्यादीनां शब्दानामर्थभेदेन भिन्नत्वे सति यथायोगमेकप्रयत्नोच्चार्याणामेकप्रतयत्नोच्चार्यशब्दसदृशानां वोच्चारणम् ।
अतो विरोधालङ्कारप्रतिभोत्पत्तिहेतुरत्र श्लेषः ।
यदुक्तम्"एकप्रयत्नोच्चार्याणाम्"इत्यादि ।
एवमलङ्कारान्तरेष्वपि प्रतीयमानेषु वाच्यम् ।
तेनालङ्कारनिष्ठस्यापि अभिव्यञ्जकत्वस्योक्तेष्वलङ्कारेष्वन्तर्भावादव्याप्त्यभावः ।
रसभावतदाभासतत्प्रशमानां तु
प्रतीयमानतायामुदाहरणम्
“याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया
निर्ध्यातं परिवर्तनं पुनरपि प्रारब्धुमङ्गीकृतम् ।
भूयस्ततप्रकृतं कृतं च शिथिलक्षिप्तैकदोर्लेखया
तन्वङ्ग्या न तु पारितः स्तनभरः ऋष्टुं प्रियस्योरसः” ॥
इति ।
तथा हिअत्र गोत्रस्खलितस्य श्रुतिपथप्राप्तेरीर्ष्याविप्रलम्भशृङ्गारो नायिकायाः संमुखीभूतोऽपि संभोगशृङ्गारेण स्वहेतुसामग्र्यप्रतिलब्धप्रकर्षेण तिरोधाय प्रदर्शितः ।
निर्ध्यातं परिवर्तनमित्यादिना हि यथाक्रममीर्ष्याविप्रलम्भशृङ्गारानुभावस्य परिवर्तनस्य दर्शनप्रार्थनाध्यवसायानुष्ठानात्मिकाश्चतस्रोऽवस्थाः संभोगशृङ्गारमन्थरीकृतस्वस्वभावत्वेनोपवर्णिताः ।
पुनश्च संभोगशृङ्गारेण वाक्यार्थो निर्वाहितोऽन तु पारितःऽइत्यादिना ।
अतोऽत्र संभोगशृङ्गारस्येर्ष्याविप्रलम्भशृङ्गारतिरोधानहेतोः प्रतीयमानता ।
तत्र च पूर्वं रसवत्त्वलक्षणोऽलङ्कारः प्रतिपादितोऽरसवद्दर्शितऽइत्यादिना ।
एवं रसान्तरेष्वपि वाच्यम् ।
यत्रापि भावस्तथा रसभावाभासा रसभावतदाभासप्रशमाश्च प्रतीयमानास्तत्रापि यथाक्रमं प्रेयस्वदूर्जस्वित्समाहितलक्षणालङ्कारयोगो वाच्यः ।
एवमेतत्प्रधानभूतेषु रसादिषूक्तम् ।
गुणभूतेष्वपि च रसेषूदात्तालङ्कारः प्रतिपादितःऽचरितं च महात्मनाम्ऽइत्यादिना ।
अतश्च रसादिष्वभिव्यञ्जकत्वस्य नार्थान्तरता ।
एवं च त्रिविधेऽपि प्रतीयमानेर्ऽथे यच्छष्ठानां व्यञ्जकत्वमनन्तरोपवर्णितेषूदाहरणेषु षटूप्रकारतयोपदर्शितं तस्योक्तेष्वेवालङ्कारेष्वन्तर्भावाद्य्वाप्तिः ।
षट्प्रकारता चात्र त्रिविधप्रतीयमानार्थनिष्ठस्यापि व्यञ्जकत्वस्य वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यामुक्त ।
तथा हिद्विविधं व्यञ्जकत्वं, वाचकशक्त्याश्रयं वाच्यशक्त्याश्रयं च ।
तत्र वाचकशक्त्याश्रयमलङ्काराणामेव व्यङ्ग्यत्वादेकप्रकारम् ।
तत्र ह्यलङ्कारा एव व्यज्यन्ते, न तु वस्तुमात्रं नापरसादयः, यदुक्तम्
“आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते ।
यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः” ॥
इति ।
वाच्यशक्त्याश्रयं तु रसादिवस्तुमात्रालङ्काराभिव्यक्तिहेतुत्वात्र्रिविधम् ।
तत्र यत्तावद्वाचकशक्त्या श्रयं व्यङ्ग्यभूतालङ्कारैकनियतं शब्दशक्तिमूलानुरणनरूपव्यङ्गयतया सहृदयैर्व्यञ्जकत्वामुक्तं “सर्वैकशरणमक्षयम्"इत्यादौ, तत्र शब्दशक्त्या ये प्रतीयन्ते विरोधादयोऽलङ्कारास्तत्संस्कृतस्वभावं वाच्यमवगम्येते ।
अतश्चत्र वाच्यस्य विवक्षैव ।
यत्तु वाच्यशक्त्याश्रयं “याते गोत्रविपर्यये श्रुतिपथम्"इत्यादावसंलक्ष्यक्रमरसादिव्यङ्ग्यनिष्ठं व्यञ्जकत्वमुक्तं तत्रापि वाच्यस्य विवक्षितत्वमेव ।
वाच्यभूतानुभावादिविवक्षयैव व्यङ्ग्यरसादिप्रतीतेरुत्पादात् ।
तदेवं वाचकशक्त्याश्रयव्यङ्ग्यभूतालङकारैकनियते वाच्यशक्त्याश्रये चासंलक्ष्यक्रमरसादिव्यङ्ग्यनिष्ठे व्यञ्जकत्वे वाच्यस्य विवक्षितत्वमेव ।
वस्तुमात्रालङ्कारविषयस्य तु वाच्यशक्त्याश्रयस्य व्यञ्जकत्वस्य प्रत्येकं वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यां द्वैविध्यम् ।
तथाहिऽचक्राभिघातप्रसभाज्ञयेऽत्यादौ वस्तुविषये व्यञ्जकत्वे वाच्यस्य विवक्षितत्वं कार्यविवक्षापूर्वकत्वेन कारणप्रतीतिप्रसवात् ।
ऽस्निग्धश्यामलकान्तीऽत्यादौ तु रामादिशब्दानामर्थान्तरसंक्रमितवाच्यानां वाच्यमविवक्षितम् ।
व्यङ्ग्यधर्मान्तरपरिणतत्वात् ।
एव वस्तुमात्रविषये व्यञ्जकत्वे वाच्यस्य विवक्षाविवक्षे,ऽलङ्कारविषयेऽपि वाच्यशक्त्याश्रये व्यञ्जकत्वे ।
ऽलावण्यकान्तीऽत्यादौ एकस्मिन्मन्ये इत्येतस्मिन्शब्दे यो विशेषोक्त्युत्प्रेक्षयोरनुप्रवेशस्तद्वशेन समासादितस्वभावो योऽसावेकशब्दाभिधानसंकरस्तत्प्रतभोत्पत्तिहेतुश्लेषप्रौढीकृतं वाच्यं विवक्षितम् ।
तन्मूलकत्वेन रूपकप्रतीतेरुत्पादात् ।
“सुवर्णपुष्पां पृथिवीऽमित्यादौ तु वाच्यस्याविवक्षा ।
उपमेयस्य बहुलाभत्वस्य तत्सदृशस्य या लक्षणा तस्या अत्यन्ततिरस्कृतवाच्यमूलत्वात् ।
यदि त्वत्र न तिडन्तेनोपमानमस्तीति दृष्ट्यात तद्भावाध्यवसानात्सुवर्णपुष्पपृथिवीचयनलक्षणोपमानावच्छादितरूपत्वेन शूरादिविषयस्य बहूलाभत्वस्योपमेयस्य प्रौढोक्त्या प्रतिपत्तिः, ततोऽत्र प्रौढोक्तिमात्रनिष्पन्नशरीरस्य वाच्यस्यार्थस्य प्राधान्या “द्भेदेऽनन्यत्वमि"त्येवमात्मकतयोपवर्णितमतिशयोक्तिभेदत्वं वाच्यम् ।
व्यङ्ग्या ह्युपमा तदानीमत्र गुणीभवति ।
एवमलङ्कारनिष्ठस्यापि व्यञ्जकत्वस्य वाच्यविवक्षितत्वाविवक्षितत्वाभ्यां द्वैविध्यम् ।
यत्र चाविवक्षा वाच्यस्य वस्तुनिष्ठेऽलङ्कारनिष्ठे वा व्यञ्जकत्वे तत्र व्यङ्ग्यरसादेर्झगित्यवगम्यमानत्वादसंलक्ष्यक्रमता द्रष्टव्या ।
यदुक्तं भट्टवामनेन"लक्षणायां हि झगित्यर्थप्रतिपत्तक्षमत्वं रहस्यमाचक्षते"इति ।
अत एव च सहृदयैर्यत्र वाच्यस्य विवक्षितत्वं तत्रैव वस्त्वलङ्कारयोः प्रतीयमानयोर्वाच्येन सह क्रमव्यवहारः प्रवर्तितोर्ऽथशक्तिमूलानुरणनरूपव्यङ्ग्यो ध्वनिरित्युक्तं, न तु वाच्यविवक्षायामपि ।
यत्र च वाच्यस्याववक्षा पूर्वमुक्ता “रामोऽस्मीऽतिऽसुवर्णपुष्पाऽमिति च तत्र वयमधिकारोपेतप्रस्तुतार्थानुबन्धिवस्तूपनिबन्धादप्रस्तुतप्रशंसाभेदत्वमेव न्याय्यं मन्यामहे ।
यदुक्तंऽअधिकारादपेतस्येऽत्यादि ।
यत्तु पूर्वपर्यायोक्तभेदत्वंऽस्निग्धश्यामलकान्तीऽत्यादौ रामादीनां शब्दानामभिहितं तदुपक्रममात्ररूपतया द्रष्टव्यम् ।
विवक्षितवाच्यस्य पर्यायोक्तभेदत्वात् ।
यत्र खलु वाच्यविवक्षापूर्वकत्वेन अर्थान्तरं प्रतीयतेऽचक्राभिघातेऽत्यादावुदाहरणचतुष्टये तत्र पर्यायोक्तभेदता ।
पर्यायोक्तलक्षणस्याप्रस्तुतप्रशंसालक्षणविचारवशेन तद्य्वतिरिक्तविषयावगाहित्वात् ।
यत्र त्वविवक्षिते वाच्येर्ऽथान्तरसय प्रतीतिस्तत्राप्रस्तुतप्रशंसा ।
अतश्च पर्यायोक्ताप्रस्तुतप्रशंसयोरेव यथाक्रमं विवक्षिताविवक्षितवाच्ययोः सर्वध्वनिभेदसामान्यभूतयोर्ध्वनिभेदयोरन्तर्गतिर्वाच्या ।
ऽसुवर्णपुष्पां पृथिवीम्ऽइत्यादौ तु विदर्शनाभेदत्वं यत्पूर्वमुक्तं तदधिकारोपेतप्रस्तुतार्थानुबन्धिवस्तूपनिबन्धात्मत्वेनासंभवद्वाच्याया विदर्शनाया अप्रस्तुतप्रशंसाभेदत्वादुपपद्यत एव ।
एतच्च विद्वद्भिर्विचार्य गृहीतव्यं न त्ववमृश्यैवासूयितव्यमित्यलमतिवचालतया ।
तदेवं वाचकशक्तमूलेऽलङ्कारैकनियते वाच्यशक्तिमूले च रसादिविषये व्यञ्जकत्वे वाच्यस्य विवक्षितत्वैकरूपत्वम् ।
वस्त्वलङ्कारविषये तु वाच्यशक्तिमूले व्यञ्जकत्वे प्रत्येकं वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यां द्विभेदता ।
अतस्तत्समाश्रयणेन त्रिविधप्रतीयमानार्थनिष्ठस्यापि व्यञ्जकत्वस्य षट्प्रकारता भवति ।
एतेषां च षण्णां भेदानां मध्याद्द्वयोर्भेदयोर्वाच्यस्याविवक्षोक्ता ।
चतुर्षु विवक्षितत्वम् ।
यत्र च विवक्षितत्वं तत्र वाच्यस्य स्वतःसंभवित्वात्प्रौढोक्तिमात्रनिष्पादितशरीरत्वाच्च द्वैविध्यम् ।
अतस्तत्र तस्याष्टौ भेदा भवन्ति ।
एते चाष्टौ भेदा वाच्यस्य यत्राविवक्षा तद्विषयाभ्यां पूर्वोदिताभ्यां द्वाभ्यां भे दाभ्यां संकलिताः सन्तो दश संपद्यन्ते ।
एत एव तु पदवाक्यप्रकाश्यतया द्वैगुण्यं भजमाना विंशतिर्भव्ति ।
वर्णसंघटनाप्रबन्धाधारस्य व्यञ्जकत्वस्य कृत्तद्धितादिगतसय च पदवाक्यानुप्रवेशेनैवाविर्भावात् ।
पदप्रकाश्यत्वे यथाऽरामोऽस्मीतिऽ ।
ऽचक्राभिधातेऽत्यादौ तु वाक्यप्रकाश्यता ।
यथा च प्रधानभूते व्यङ्ग्ये एषा व्यञ्जकता र्विशतिविधा भवति, तथा गुणीभूतेऽपि यथासंभवं योज्येति ।
तदाहुः
विवक्ष्यमविवक्ष्यं च वस्त्वलङ्कारगोचरे ।
वाच्यं ध्वनौ विवक्ष्यं तु शब्दशक्तिरसास्यदे ॥
भेदषट्के चतुर्धा यद्वाच्यमुक्तं विवक्षितम् ।
स्वतःसंभवि वा तत्स्यादथ वा प्रौढिनिर्मितम् ॥
दश भेदा ध्वनेरेते विंशतिः पदवाक्यतः ।
प्रधानबद्भुणीभूते व्यङ्ग्ये प्रायेण ते तथा ॥
इति ।
वस्त्वलङ्कारवाच्ये ध्वनौ प्रत्येकं वाच्यं विवक्ष्यमविवक्ष्यं चेति संबन्धः ।
विवक्ष्यमिति विवक्षार्हमित्यर्थः ।
शब्दशक्तिरसास्पद इति वाच्यकशक्तसमाश्रयं रसादिव्यङ्ग्यनिष्ठं च व्यञ्जकत्वमुक्तम् ।
तद्विशिष्टशक्तिं व्यञ्जकभूतां रसादींश्च व्यङ्ग्यभूतानास्पदीकरोति ।
एवमेतद्य्वञ्जकत्वं
पर्यायोक्तादिष्वन्तर्भावितम् ।
एतच्चेह बहुवक्तव्यत्वान्न वैतत्येन प्रपञ्चितम् ।
कुशाग्रीयबुद्धीनां हि दिङ्भात्र एवोपदर्शिते सति बुद्धिवल्ली प्रतानशतैर्नानादिग्वयापित्वेन विस्तारमासादयतीति ॥
मीमांसासारमेघात्पदजलधिविधोस्तर्कमाणिक्यकोशात्
साहित्यश्रीमुरारेर्बुधकुसुममधोः शौरिपादाब्जभृङ्गात् ।
श्रुत्वा सौजन्यसिन्धोर्द्विजवरमुकुलत्कीर्तिवल्ल्यालवालात्
काव्यालङ्कारसारे लघुविवृतिमधात्कौङ्कणः श्रीन्दुराजः ॥
इति महाश्रीप्रतीहारेन्दुराजविरचितयामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ षष्टो वर्गः ॥
*****
]