वर्ण-प्रासः
नियतता
- अनियतप्रासः - प्रासस्थानं न निश्चितम्। यथा ऽनुप्रासः।
- नियतप्रासो यथा - अन्त्यप्रासः, आदिप्रासः, मध्यप्रासः।
अनुप्रासः
- alliteration
- उदाहरणम्
- नमस्तुङ्गशिरश्चुम्बी चन्द्रचामरचारवे।
छेकः
- व्यञ्जनद्वयस्य विनावधिप्रयोगः
- यथा - सुरासुरान्
वृत्तिः
- व्यञ्जनस्य पुनःपुनः आवृत्तिः
- उदाहरणम् - समासदत्-सादित-दैत्यसंपदः।
यमकः
- न्यूनातिन्यूनम् अक्षरत्रयस्य पुनरुक्तिः
द्वितीयाक्षरे
- आदिप्रास इति प्रसिद्धः। कर्णाटकविभिर् बह्व् अपेक्षितः।
धरणिमण्डलमध्यवर्तिनि
सरसतरकर्णाटविषये
स्फुरति कालिङ्ग इति गोपो
हरति यस्य कथा जनम् ॥१॥
अन्त्यप्रासः
- rhyme
वाक्यप्रासः
- वाक्यस्य पुनर् उक्तिः।
- नैक-पद्येषु समान-पाद-श्रुत्या, छन्दो-भेदेन न माधुर्यं हीयते।
उदाहरणानि
- “कालाय तस्मै नमः” इति भर्तृहरिपद्येषु।
- “वद रामचन्द्र” इति नागराजरावः। महाभारते -
- यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेन | इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय ||१०३|| यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेन | अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय ||१०४||