विध्यन्तरम्
श्लेषः।
अपशब्दाभासः
यत्रापशब्दधीः साधु-
भावज्ञानान् निवर्तते ।
तत्रापशब्दाभासः स्याद्
यथेदं - पुरुषो महान् ॥
उदाहरणम्
शृणु ते पादुके चित्रं
चित्राभिर् मणिभिर् विभोः ।
युगक्रम-भुवो वर्णान्
युगपद् वहसे स्वयम् ॥
(श्रुणुते इति पठनेनापशब्दाभासः)