रुय्यकः - अलङ्कारसर्वस्वम्

विस्तारः (द्रष्टुं नोद्यम्)

Ruyyaka: Alamkarasarvasva
Sutras 1 - 34 (incomplete; remainder of 34 upto 87 not available).

[The text seems to be based on the ed. by R. P. Dvivedi:
Alamkara Sarvasva of Sri Rajanaka Ruyyaka & Mankha,
with the Vimarsini of Jayaratha and with the translation and explanation of both in Hindi,
Varanasi : Chowkhamba 1971 (Kashi Sanskrit Series, 206),
pp. 1 - 352]

॥ श्रीः ॥

अलङ्कारसर्वस्वम्

नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् ।
गुर्वलङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते ॥ रुअस्स्_० ॥


स्तर्त् भूमिका

इह हि तावद् भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः प्रतीयमानमर्थे वाच्योपस्कारकतयालङ्कारपक्षनिक्षित्पं मन्यन्ते ।
तथाहि-पर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन ऽस्वसिद्धये पराक्षेपःपरार्थे स्वसमर्पणम्ऽ इति यथायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः ।
रुद्रटेनापि भावालङ्कारो द्विधोक्तः ।
रूपकदीपकापह्नुतितुल्ययोगितादावुपमाद्यलङ्कारो वाच्योपस्कारकत्वेनोक्तः ।
उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता ।
रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः ।
तदित्थं त्रिविधमपि प्रतीयमानमलङ्कारतया ख्यापितमेव । [रुअस्स्_भू।१]

वामनेन तु सादृश्यनिबन्धनाया लक्षणाय वक्रोक्त्यलङ्कारत्वं ब्रुवता कश्चिद्ध्वनिभेदो ऽलङ्कारतयैवोक्तः ।
केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता ।
उद्भटादिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितम् ।
विषयमात्रेण भेदप्रतिपादनात् ।
सङ्घटनाधर्मत्वेन चेष्टेः ।
तदेवमलङ्कारा एव काव्ये प्रधानमिति प्राच्यानां मतम् । [रुअस्स्_भू।२]

वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रोक्तिमेवप्राधान्यात्काव्यजीवितमुक्तवान् ।
व्यापारस्य प्राधान्यं च [काव्यस्य] प्रतिपेदे ।
अभिधानप्रकारविशेषा एव चालङ्काराः ।
सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः ।
उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः ।
केवलमुक्तिवैचित्र्यजीवितं काव्यम्, न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् । [रुअस्स्_भू।३]

भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यंशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् ।
तत्राप्यभिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायोव्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः । [रुअस्स्_भू।४]

ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाद् व्यापारस्य च वाक्यार्थत्वाभावाद् वाक्यार्थस्यैव च व्याङ्ग्यरूपस्य गुणालङ्कारोपस्कर्तव्यत्वेन प्राधान्याद् विश्रान्तिधामत्वादात्मत्वं सिध्दान्तितवान् ।
व्यापारस्य विषयमुखेन स्वरुण्प्रतिलम्भात् तत्प्राधान्येन प्राधान्यात् स्वरूपेण विचार्यत्वाभावाद् विषयस्यैव समग्रभरसहिष्णुत्वम् ।
तस्माद् विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः,यस्य गुणालङ्कारकृतचारुत्वपरिग्रहसाभ्राज्यम् ।
रसादयस्तु जीवितभूता नालङ्कारत्वेनवाच्याः ।
अलङ्काराणामुपस्कारकत्वाद्,रसादीनां च प्राधान्येनोपस्कार्यत्वात् ।
तस्माद् व्यङ्ग्य एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः ।
व्यञ्जनव्यापारस्य सर्वैरनपह्नुतत्वात् तदाश्रयेण च पक्षान्तरस्याप्रतिष्टानात् । [रुअस्स्_भू।५]

यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गतया व्यञ्जनस्यानुमानान्तर्भावमाख्यत् तद् वाच्यस्य प्रतीयमानेन सह तादाप्म्यतदुत्पत्त्यभावादविचारिताभिधानम् ।
तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनमिति नेह प्रतन्यते । [रुअस्स्_भू।६]

अस्तिं तावद् व्यङ्ग्यनिष्टो व्यञ्जनव्यापारः ।
तत्र व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ काव्यभेदौ ।
व्यङ्ग्यस्यास्फुटत्वे ऽलङ्कारत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः ।
तत्रोत्तमो ध्वनिः ।
तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ ।
आद्यो ऽप्यर्थान्तरसङ्क्रमसंसलक्ष्यक्रमितवाच्यात्यान्ततिरस्कृतवाच्यत्वेन द्विविधः ।
द्वितीयो ऽप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्ग्यतया द्विविधः ।
लक्षणामूलः शब्दशक्तिमूलो वस्तुध्वनिः,असंलक्ष्यक्रमव्यङ्ग्यः अर्थशक्तिमूलो रसादिध्वनिः ।
संलक्ष्यक्रमव्यङ्ग्यः शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलङ्कारध्वनिश्चेति ।
तत्र रसादिध्वनिरलङ्कारमञ्जर्यां दर्शितः, काव्यस्य शृङ्गारप्रधानत्वात् ।
शिष्टस्तु यथावसरं तत्रैव विभक्तः ।
गुणीभूतव्यङ्ग्यो वाच्याङ्गत्वादिभेदैर्यथासम्भवं समासोक्त्यादौ दर्शितः । [रुअस्स्_भू।७]


स्तर्त् सूत्र १:

चित्रं तु शब्दार्थांलकारस्वभावतया बहुतरप्रभेदम् ।
तथा हि-

इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः ॥ रुअस्स्_१ ॥

आदौ पौनरुक्त्यप्रकाररवचनं वक्ष्यमाणालङ्काराणां कक्षाविभागघटनार्थम् ।
अर्थापेक्षया शब्दस्य प्रतीतावन्तरङ्गत्वे ऽपि प्रथममर्थतधर्मनिर्देशश्चिरन्तनप्रसिद्ध्या पुनरुक्तकवदाभासस्य पूर्वं लक्षणार्थः ।
इहशब्दः प्रत्थाने ।
इतिशब्दः प्रकारे, त्रिशब्दादेव सङ्ख्यापरिसमात्पिसिद्धेः ।


स्तर्त् सूत्र २:

तत्रार्थपौनरुक्त्यं प्ररुढं दोषः ॥ रुअस्स्_२ ॥

प्ररुढाप्ररुढत्वेन द्वैविध्यम् ।
प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् ।
तत्रेति त्रयनिर्धारणे ।
यथावभासनविश्रान्तिः प्ररोहः ।


स्तर्त् सूत्र ३:

आम्रुखावभासनं पुनः पुनरुक्तवदाभासम् ॥ रुअस्स्_३ ॥

आमुखग्रहणं पर्यवसाने ऽन्यथात्वप्रतिपत्त्यर्थम् ।
लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालङ्कारवैधर्येण काव्यालङ्कारणामलङ्कार्यम्पारतन्त्र्यध्वननार्थः ।
अर्थपौनरुक्त्यादेवार्थीश्रितत्वादर्थालङ्कारत्वं ज्ञेयम् ।
प्रभेदास्तु विस्तरभयान्नोच्यन्ते ।
उदाहरणं मदीये श्रीकण्ठस्तवे यथा-

“अहीनभुजगाधीशवपुर्वलयकङ्कुणम् ।
शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम् ॥
वृषपुङ्गवलक्ष्माणं शिखिपावकलोचनम् ।
ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम्” ॥
ऽदीरुणः काष्ठतो जातो भस्मभूतिकरः परः ।
रक्तशोणार्चिरुच्चण्डः पातु वः पावकः शिखीऽ ॥
भुजङ्गकुण्डली व्यक्तशाशिशुभ्रांशुशीतगुः ।
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः" ॥


स्तर्त् सूत्र ४:

शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च ॥ रुअस्स्_४ ॥

अलङ्कारप्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते इति द्वैविध्यमेव ।


स्तर्त् सूत्र ५:

सङ्ख्यानियमे पूर्वं छेकानुप्रासः ॥ रुअस्स्_५ ॥

द्वयोर्व्यञ्जनसमुदाययोः परस्परमनैकधा सादृश्यं सङ्ख्यानियमः ।
पूर्वं व्यञ्जमसमुदायाश्रितं यथा-

ऽकिं नाम दर्दुर दुरध्यवसाय सायं कायं निपीड्य निनदं कुरुषे रुषेव ।
एतानि केलिरसितानि सितच्छदानामाकर्ण्य कार्णमधुराणि न लज्जितो ऽसिऽ ॥

अत्र सायंशब्देनास्यालङ्कारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहैकाभिधानलक्षणः सङ्करः ।
छेका विदग्धाः ।


स्तर्त् सूत्र ६:

अन्यथा तु वृत्त्यतनुप्रासः ॥ रुअस्स्_६ ॥

केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं त्र्यादीनां च परस्परसादृश्यमान्यथाभावः ।
वृत्तिस्तु रसविषयो व्यापारः ।
तद्वती पुनर्वर्णरचनेहवृत्तिः ।
स च परुषकोमलमध्यमवर्णारब्धत्वात्त्रिधा ।
तदुपलक्षितो ऽयमनुप्रासः ।
यथा-

ऽआटोपेन पटीययसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथमे तथापि कुरुते नो सन्मनोरञ्जनम् ।
न स्याद्यावदमन्दसुन्दरगुणालङ्कारझङ्कारितः सप्रस्यन्दिलसायनरसासारानुसारी रसःऽ ॥

यथा वा-
ऽसह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्यो ऽपि वा राकेन्दोः किरणा विषद्रवमुचो वर्षासु वा वायवः ।
न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः साकूताः समदाः कुरङ्गकदृशां मानानुविध्दा दृशःऽ ॥


स्तर्त् सूत्र ७:

स्वरव्यञ्जमसमुदायपौनरुक्त्यं यमकम् ॥ रुअस्स्_७ ॥

अत्र क्वचिद्भिन्नार्थत्वं क्विचिदभिन्नार्थत्वं कचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति सङ्क्षेपतः प्रकारत्रयम् ।
यथा-

ऽयो यः पश्यति तन्नेत्रे रुचिरे वनजायते ।
तस्य तस्यान्यनेत्रेषु रुचिरेव न जायतेऽ ॥

इदं सार्थकत्वे ।
एवमन्यज्झेयम् ।


स्तर्त् सूत्र ८:

“शब्दार्थपौनरुक्त्यां प्ररुढं दोषः” ॥ रुअस्स्_८ ॥

प्ररुढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम् ।
यदाहुः-ऽशब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्ऽ ।
इति ।


स्तर्त् सूत्र ९:

ऽतात्पर्यभेदवत्तु लाटानुप्रासःऽ ॥ रुअस्स्_९ ॥

तात्पर्यमन्यपरत्वम् ।
तदेव भिद्यते, न शब्दार्थ-स्वरूपम् ।
यथा-
ऽताला जअन्ति गुणा जाला दे सहिअएहिं घेप्पन्ति ।
रैकिरणाणुगाहिआइं हाएन्ति कमलाइं कमलाइम्ऽ ॥
[ऽतदा जायन्ते गुणाः यदा ते सहृदयैर्गृयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानिऽ] ॥

ऽब्रूमः कियन्नय कथञ्चन कालमल्पम् अत्राब्जपत्रनयने नयने निमील्य ।
हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषो ऽयमहमागत इत्यवेहिऽ ॥

इत्यादौ विभक्त्तयादेरपौनरुक्त्ये ऽपि बहुतरशब्दार्थपौनरुक्त्याल्लाटानुप्रासत्वमेव ।
ऽकाशाः काशा इवाभान्ति सरांसीव सरांसि च ।
चेतांस्याचिक्षिपुर्यूनां निम्रगा निम्रगा इवऽ ॥
इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न सङ्करः ।
अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थिकेर्भिन्नविषयत्वात् ।
ऽअनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम्ऽ ॥


स्तर्त् सूत्र १०:

तदेवं पौनरुक्त्ये पञ्चालङ्काराः ॥ रुअस्स्_१० ॥

निगदव्याख्यातमेतत् ।


स्तर्त् सूत्र ११:

वर्णानां खङ्गाद्यकृतिहेतुत्वे चित्रम् ॥ रुअस्स्_११ ॥

पौनरुक्तक्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनम् ।
यद्यपि लिप्यक्षराणां खङ्गादिसन्निवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालङ्कारो ऽयम् ।
आदिप्रहणाद् यथाव्युत्पत्तिसम्भवं पद्मबन्धादिपरिग्रहः ।
यथा-
ऽभासते प्रतिभासार रसाभाता हताविभा ।
भावितात्माशुभावादे देवाभा बत सभाऽ ॥

एषो ऽष्टदलपद्मबनधः ।
अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टाक्षरत्वम् ।
विविग्दलेषु त्वन्यथा ।
कर्णिकाक्षरं तु श्लिष्टमेव ।


स्तर्त् सूत्र १२:

उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा ॥ रुअस्स्_१२ ॥

अर्थालङ्कारप्रकरणमिदम् ।
उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थम् ।
साध्र्म्ये त्रयः प्रकाराः ।
भेदप्राधान्यं व्यतिरेकादिवत् ।
अभेदप्राधान्यं रूपकादिवत् ।
द्वयोस्तुल्यत्वं यथास्याम् ।
यदाहुः-ऽयत्र किञ्चित्सामान्यं कश्चिञ्च विशेषः स विषयः सदृशतायाःऽ इति ।
उपमैवनेकप्रकारवैचित्र्येणानेकालङ्कारबूजभूतेति प्रथमं निर्दिष्टा ।
अस्याश्च पूर्णालुत्पात्वभेदाञ्चिरन्तनैर्बहुविधन्वमुक्तम् ।
तत्रापि साधारणधर्म्स्य क्वचिदनुरागामितयैकरूप्येण निर्देशः, क्वचिद्वस्तुप्रतिवस्तुभावेन पृथङ्निर्देशः ।
पृथङ्निर्देशे च सम्बन्धिभेदमात्रं प्रतिवस्तूपमावत्, बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् ।
क्रमेणोदाहरणम् -

ऽप्रङामहत्या शिखयेव दीपस्त्रिमार्गेव त्रिविदस्य मार्गः ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्चऽ ॥

ऽयान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षःऽ ॥

अत्र वलुतत्वावृत्तत्वे सम्बन्धिभेदाद्भिन्ने ।
धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव ।
ऽपाण्ड्यो ऽयमंसार्पितलम्बहारः कॢत्पाङ्गरागो हरिचिन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गर इवाद्रिराजःऽ ॥
अत्र हाराङ्करागयोर्निर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ ।


स्तर्त् सूत्र १३:

एकस्यैवोपमानोपमेयत्वे ऽनन्वयः ॥ रुअस्स्_१३ ॥

वाच्याभिप्रायेण पूर्वंरूपानुगमः ।
एकस्य तु विरुद्धधर्मसंसर्गो द्वितीयसव्रह्यचारिनिवृत्त्यर्थः ।
अत एवानन्वय इति योगो ऽप्यत्र सम्भ्रवति ।
यथा-
ऽयुद्धे ऽर्जुनो ऽर्जुन इव प्रथितप्रतापो भीमो ऽपि भीम इव वैरिषु भीमकर्मा ।
न्यग्रोधवर्तिनमयाधिपतिं कुरुणामुत्प्रासनार्थमिव जग्मतुरादरेणऽ ॥


स्तर्त् सूत्र १४:

द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ॥ रुअस्स्_१४ ॥

तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्शः ।
पर्यायो यौगपद्याभावः ।
अत एवात्र वाक्यभेदः ।
इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिर्देशे च द्विधा ।
आद्ये यथा-
ऽखमिव जलं जलमिव खं हंसश्चन्द्र इव हम्स इव चन्द्रः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानिऽ ॥
द्वितीये यथा-

ऽसच्छायाभ्भोजवदनाः सच्छायवदनाम्बुजा ।
वाप्यो ऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाःऽ ॥


स्तर्त् सूत्र १५:

सदृशानुभवाद् वस्त्वन्तरस्मृतिः स्मरणम् ॥ रुअस्स्_१५ ॥

वस्त्वन्तरं सदृशमेव ।
अविनाभावाभावान्नानुमानम् ।
यथा-

ऽअतिशयितसुरासुरप्राभावं शिशुमवलोक्य तथैव तुल्यरूपम् ।
कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामिऽ ॥

सादृश्यं विना तु स्मृतिर्नायमलङ्कारः ।
यछा-

ऽअत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णामूर्धा स्मरामि वानीरगृहेषु सुत्पःऽ ॥

अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मतृदशाभावित्वमसमीचीनम् ।


प्रेयोलङ्कारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः ।
यथा
ऽअहो कोपे ऽपि कान्तं मुखम्ऽ इति ।
तत्रापि विभावाद्यागूरितत्वेन स्वशब्दमात्रप्रतिपाद्यात्वे यथा-
ऽअत्रानुगादम्ऽ इत्यादि ।
ऽयैर्दृष्टो ऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्त्रुतिपाटलीकृतपुरोभागः परान् पातयन् ।
तेषां दुःसहकामदेहदहनप्रोद्भतनेत्रानल- ज्वालालीभरभास्वरे स्मरिपावस्तं गतं कौतुकम्ऽ ॥
इत्यादौ सदृशवस्त्वन्तरानुभवे ऽशक्यवस्त्वन्तरकरणात्मा विशेषालङ्कारः, कारणस्य क्रियासामान्यात्मनो दर्शिने ऽपि सम्भवात् ।
मतान्तरे काव्यलिङ्गमेतत् ।
तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालङ्कारा निर्णीताः" ।


स्तर्त् सूत्र १६:

अभेदप्राधान्ये आरोपे आरोपविषयानपह्नवे रूपकम् ॥ रुअस्स्_१६ ॥

अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः ।
अन्यत्रान्यावाप आरोपः ।
तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्नवे ऽपह्नुतिः ।
अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकम् ।
साधर्म्ये त्वनुगतमेव ।
यदाहुः-
ऽउपमैव तुरोभूतभेदा रूपकमिष्यतेऽ इति आरोपादभेदे ऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालङ्कारविभागः ।


इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम् ।
आद्यं केवलं मावारूपकञ्चते द्विधा ।
द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव ।
तृतीयं श्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमालारूपकत्वाच्चतुर्विधम् ।
तदेवमष्टौ रूपकभेदाः ।
अन्ये तू प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः सम्भवन्ति ते ऽन्यतो द्रष्टव्याः ।


क्रमेण यथा-
ऽदासे कृतागासि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्- यत्खिद्यते तव पदं ननु सा व्यथा मेऽ ॥
ऽपीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये स्वर्गङ्गाविमनस्ककोकवदनस्त्रस्ता मृणालीलते ।
द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा- माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुःऽ ॥
ऽविस्तारशालिनि नभस्तलपत्त्रपात्रे कुन्दोज्ज्वलप्रभ-भ सञ्चयभूरिभक्तम् ।
गङ्गातरङ्गघनमाहिषदुग्धदिग्धं जग्धं मया नरपते कलिकालकर्णऽ ॥
ऽआभाति ते क्षितिभृतः क्षणदाप्रभेयं निस्त्रिंशमांसलतमालवनान्तलेखा ।
इन्दुत्विषो युधि हठेन तवारिकीर्ती- रानीय यत्र रमते तरुणः प्रतापःऽ ॥
क्षितिभृत इत्यत्र श्लिष्टं पदम् ।
परम्परितम्-
ऽकिं पद्मम्य रुचिं न हन्ति नयनानन्दं विधत्ते न वा वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।
वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो दर्पः स्यादमृतेन चिदिह तदप्यस्त्येव बिम्बाधरेऽ ॥
अत्र वक्त्रेन्दुरूपणहेतुकमधरामृतस्य पीयूषेण श्लिष्टशब्दं रूपणम् ।
ऽविद्वन्मानसहम्स वैरिकमसासङ्कोचदीत्पद्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर ।
सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाःऽ ॥
अत्र त्वमेव हम्स इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्दं मालापरम्परितम् ।
ऽयामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाखथम् ।
जन्मजरामरणार्णवतरणतरण्डं हराङ्घ्रियुगम्ऽ ॥
ऽपर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो भ्रग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यामदानाम्बुपट्टः ।
सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्यऽ ॥
अत्र क्ष्मासौविदल्ल इति परम्परितमप्येकदेशविवर्ति ।
एवमादयो ऽन्ये ऽपि भेदा लेशतः सूचिता एव ।


इदं वैधर्म्येणापि दृश्यते ।
यथा-
ऽसौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण- ज्योत्स्नाकृष्णचतुर्दशी सरलतयोगश्वपुच्छच्छटा ।
यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्ऽ ॥
अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गसङ्ख्यात्वे ऽपि क्वचित्स्वतो ऽसम्भवत्सङ्ख्यायोगस्यापि विषयसङ्ख्यात्वम् प्रत्येकमारोपात् ।
यथा - ऽक्वचिज्जटावल्कलावलम्बिनः कपोला दावाग्रयःऽ इत्यादौ ।
न हि कपिलमुनेर्बहुत्वम् ।
ऽभ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छे तमः शरीरसादम् ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्ऽ ॥
इत्यत्र नियतसङ्ख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव ।
जलदभुजगजमिति रूपकसाधकमिति पूर्वे सिद्धत्वाभावान्न तन्निचन्वनं विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः ।


स्तर्त् सूत्र १७:

आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः ॥ रुअस्स्_१७ ॥

आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमिति ।
आगमानुगमविगमख्यात्यभावात्साङ्ख्यीयपरिणामवैसक्षण्यम् ।
तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद् द्वैविध्यम् ।
आद्यो यथा-
ऽतीर्वा भूतेशमौलिस्त्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय ।
व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छ्रादन्वीयमानस्त्वरितमय गिरिं चित्रकूटं प्रतस्थेऽ ॥
अत्र सौमित्त्रिमैत्त्री प्रकृता आरोप्यमाणसमानाधिकरणातररूपत्वेन परिणता ।
आतरस्य मैत्त्रीरूपतया प्रकृते उपयोगात् ।
तदत्र यथा समासोक्तावारोन्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थितम्, अत एव तत्र तद्व्यवहारसमारोपः एवमिहापि ज्ञेयम्, केवलं तत्र विषयस्यैव प्रयोगः, विषयिणो गम्यमानत्वात् ।
इह तु द्वयोरप्यभिधानम्, तादात्म्यात् तु तयोः परिणामित्वम् ।
द्वितीयो यथा-
ऽअथ पक्त्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः ।
क्षितिभर्तुरुपायानं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैःऽ ॥
राजसङ्घटने तूपायनमुचितम् ।
तच्चात्र वचोरूपमिति वचसां व्यधिकरणोपायनरूपत्वेन परिणामः ।


स्तर्त् सूत्र १८:

विषयस्य सन्दिह्यमानत्वे सन्देहः ॥ रुअस्स्_१८ ॥

ऽअभेदप्राधान्ये आरोप इत्येव ।
विषयः प्रकृतो ऽर्तः, यद्भित्तित्वेनाप्रकृतः सन्दिह्यते ।
अप्रकृते सन्देहे विषयो ऽपि सन्दिह्यत एव ।
तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते सन्देहे सन्देहालङ्कारःऽ ।


स च त्रिविधः ।
शुद्धो निश्चयगर्भो निश्चयान्तश्च ।
शुद्धो यत्र संशय एव पर्यवसानम् ।
यथा-
ऽकिं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारान्निधेः ।
उद्गाढोत्कलिकावतां स्वसमयोपन्यासविस्त्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणःऽ ॥
निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च ।
स यथा–
ऽअयं मार्तण्डः किं स खलु तुरगैः सत्पभिरितः कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनो ऽसाविति चिरात् समलोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाःऽ ॥
निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानम् ।
यथा–
ऽइन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् ।
ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतःऽ ॥
कचितारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते ।
यथा–
ऽरञ्जिता नु विविधास्तरुशैला नामितं तु गगनं न्थगितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेणऽ ॥
अत्रारोपविषये तिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् ।
केचित्त्वध्यवसायाश्रयत्वेन सन्देहप्रकारमाहुः ।
अन्ये तु नुशब्दस्य सम्भावनाद्योतत्वादुत्प्रेक्षाप्रकारमिममाचक्षते ।


स्तर्त् सूत्र १९:

सादृश्याद् वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् ॥ रुअस्स्_१९ ॥

असम्यग्ज्ञानत्वसाधर्म्यात्सन्देहानन्तरमस्य लक्षणम् ।
भ्रान्तिश्चित्तधर्मः ।
स विद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान् ।
सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः ।
यथा-
ऽओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया कर्णोलङ्कृतिभाजि दाडिमफलभ्रान्त्या च शोणे भणौ ।
निष्पत्त्या सकृदुत्पलच्छददृशामात्तक्लमानां मरौ राजन्गृर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्च्छितम्ऽ ॥
गाढमर्मप्रहारादिना तु भ्रान्तिर्नास्यालङ्कारस्य विषयः ।
यथा–
ऽदामोदराघातचूर्णिताशेषवक्षसा ।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम्ऽ ॥
सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थे कविप्रतिभोत्थापितैव गृह्यते,यथोदाहृतम्, न स्वरसोत्थापिता शुक्तिकारजतवत् ।
एवं स्थाणुर्वा स्यात्पुरुषो वा स्यादिति संशये ऽपि बोद्धव्यम् ।


स्तर्त् सूत्र २०:

एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः ॥ रुअस्स्_२० ॥

यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः ।
न चेदं निर्निमित्तमुल्लेखमात्रम्, अपि तु नानाविधधर्मयोगित्वाख्यनिमित्तवशादेतत्क्रियते ।
तत्र रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रयोजिकाः ।
तदुक्तम्-
ऽयथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासो ऽप्यर्थ एकस्मिन्ननुसन्धानसाधितेऽ ॥
इति ॥
यथा-
ऽयस्तपोवनमित्।इ मुनिभिः कामायतनमिति वेश्याभिः सङ्गीतशालेति लासकैःऽ इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने ।
अत्र ह्येक एव श्रीकण्ठाख्योजनपदस्तत्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः ।
रुच्चर्थित्वव्युत्पत्तयश्च प्रायशः समस्तव्यस्ता योजयितुं शक्यन्ते ।
नन्वेतन्मध्ये ऽवज्रवञ्जरमिति शरणागतैरसुरविवरमिति वातिकैःऽ इत्यादौ रूपकालङ्कारयोग इति कथमयमुल्लेखालङ्कारविषयः ।
सत्यम् ।
अस्ति तावत् ऽतपोवनम्ऽ इत्यादौ रूपकविविक्तो ऽस्य विषयः ।
यत्र वस्तुतस्तद्रूपतायाः सम्भवः ।
यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः सम्भाविनी तत्सङ्करो ऽस्तु ।
न त्वेतावतास्याभावः शक्यते वक्तुम् ।
ततश्च न दोषः कश्चित् ।
एवं हि तत्र विषये भ्रान्तिमदलङ्कारो ऽस्तु अतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनत्वात् ।
नैतत् ।
अनैकधाग्रहणाख्यस्यापूर्वस्यातिशयस्याभावात्, तद्धेतुकत्वाच्चास्यालङ्कारस्य ।
सङ्करप्रतीतिस्त्वङ्गीकृतैव यद्येवम्, अभेदे भेद इत्येवंरूपातिशयोक्तिरत्रास्तु ।
नैषा दोषः ।
ग्रहीतृभेदाख्येन विषयविभागेनानेकधात्वोट्टङ्कनात्तस्य च विच्छित्त्यन्तररूपत्वात् सर्वथा नास्यान्तर्भावः शक्यक्रिय इति निश्चयः ।
यथा वा- ऽणाराअणोत् ति परिणअवआहिं सिरिवल्लहोत् ति तरुणीहिं ।
बालाहिं उण कोदूहलेण एमे अ सच्चविओऽ ॥
(ऽनारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः ।
बालाभिः पनः कौतूहलेन एवमेव सत्यापितःऽ ॥)॥
एवम्
ऽगरुर्वचसि पृथुरुरसि अर्जुनो यशसिऽ इत्यादाववसेयम् ।
इयांस्तु विशेषः-पूर्वत्र ग्रहीतृभेदेनानेकधात्वोल्लेखः, इह तु विषयभेदेन ।
नन्वनेकधात्वोल्लेखने गुर्वादिरूपतया श्लेष इति कथमलङ्कारान्तरमत्र स्थाप्यते ।
सत्यम् ।
अनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते इति तत्प्रतिभोत्पत्तिहेतुः श्लेषो ऽत्र स्यात् ।
न तु सर्वथा तदभावः ।
अतश्चालङ्कारान्तरं यदेवंविधे विषये श्लेषाभावे ऽपि विच्छित्तिसद्भावः ।
तस्मादेवमादावुल्लेख एव श्रेयान् ।
एवमलङ्कारान्तरविच्छित्त्याश्रयेणाप्ययमलङ्कारो निदर्शनीयः ।


स्तर्त् सूत्र २१:

विषयस्यापह्नवे ऽपह्नुतिः ॥ रुअस्स्_२१ ॥

वस्त्वन्तरप्रतीतिरित्येव प्रक्रान्तापह्नववैधर्म्येणेदमुच्यते ।
आरोपप्रस्तावादारोपविषयापह्नुतावारोप्यमाणप्रतीतावपह्नुत्याख्यो ऽलङ्ङ्कारः ।
तस्य च त्रयी बन्धच्छाया, अपह्नवपूर्वक आरोपः, आरोपपूर्वको ऽपह्नवः ।
छलादिशब्दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः ।
पूर्वोक्तभेदद्वये वाक्यभेदः ।
तृतीयभेदे त्वेकवाक्यत्वम् ।
आद्यो यथा–
ऽयदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्ऽ ॥
अत्रैन्दवस्य शशस्यापह्नवे उपक्षित्पे शशकप्रतिवस्तुकिणवत इन्दोरारोपो नान्वयघटनां पुष्यतीति न निरवद्यम् ।
तत्तु यथा ऽपूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभास्वरं नेदं मण्डलमभ्ययुदेनि गगनाभोगे जिगीषोर्जगत् ।
भारस्योच्छ्रितमातपत्रमधुना पाण्डुप्रदेषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनःऽ ॥
द्वितीयो यथा-
ऽविलसदमरनारीनेत्रनीलाब्जषण्डा- न्यधिवसति सदा यः संयमाधःकृतानि ।
न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वःऽ ॥
तृतीयो यथा–
ऽउद् भ्रान्तोज्झितगेहगूर्जरवधूकम्पाकुलोच्चैः कुच- प्रेङ्खोलामलहारवल्लिविलन्मुक्ताफलच्छझना ।
सार्धं त्वद्रिपुभिस्त्वदीयशसां शून्ये मरौ धावतां भ्रष्टं राजमृगाङ्कम्! कुन्दमुकुलस्थूलैः श्रमाम्भःकणैःऽ ॥
अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्नवोत्प्रेक्षा इत्तयपि स्थापयिष्यते, ऽ अहं त्विन्दुं मन्ये ऽ इति तु वाक्यभेदे मन्येशब्दप्रयोगेनोत्प्रेक्षेति च वक्ष्यते ।
एतस्मिन्नपि भेदो ऽपह्नवारोपयोः पौर्वापर्यप्रयोगविपर्यये भेदद्वयं सदपि न पूर्ववच्चित्रतावहमिति न भेदत्वेन गणितम् ।
तत्रापह्नुवपूर्वके आरोपे निरन्तरमुदाहृतम् ।
आरोपपूर्वके त्वपह्नवे यथा–
ऽज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी न्यन्तर्धानव्यसनरसिका कात्रिकापालिकीयम् ।
द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुदाकापाने न्यस्तं सिद्धाञ्जनपरिमलं लाञ्चनस्य च्छलेनऽ ॥
कचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायि-वपुः-शब्दादिनिबन्धनं यथा-
ऽअमुष्मिंल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः ।
यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे खिखा धूमस्येयं परिणमति रोमावलिवपुःऽ ॥
इति ।


स्तर्त् सूत्र २२:

एवमभेदप्राधान्ये आरोपगर्भानलङ्कारांल्लक्षयित्वा अध्यवसायगर्भांल्लुक्षयति- तत्र

अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा ॥ रुअस्स्_२२ ॥

विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणो ऽध्यवसायः ।


स च द्विविधः - साध्यः सिद्धश्च ।
साध्यो यत्र विषयिणो ऽसत्यतया प्रतीतिः ।
असत्यत्वं च विषयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसम्भावित्वेन विषयासम्भावित्वेन च प्रतीतेः ।
धर्मो,गुणक्रियारूपः तस्य सम्भवासम्भवप्रतीतौ सम्भवाश्रयस्य तत्रापरमार्थतया असत्यत्वं प्रतीयते, इतरस्य तु परमार्थतया सत्यत्वम् ।
यस्यासत्यत्वम्, तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः ।
अतश्च व्यापारप्राधान्यम् ।
सिद्धो यत्र विषयिणो वस्तुतो ऽसत्यस्यापि सत्यताप्रतीतिः ।
सत्वत्वं च पूर्वकस्यासत्यत्वनिमित्तस्यभावात् ।
अतश्चाध्यवसितप्राधान्यम् ।
तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्ये ऽध्यवसायः सम्भावनमभिमानस्तर्क ऊहृ उत्प्रेक्षेत्यादिशब्दैरुच्यते ।
तदेवमप्रकृतगतगुणक्रियाभिसम्बन्धादप्रकृतत्वेन प्रकृतस्य सम्भावनमुत्प्रेक्षा ।
सा च वाच्या इवादिभिः प्रदर्श्यते ।
प्रतीयमानायां पुनरिवाद्यप्रयोगः ।
सा च जातिक्रियागुणद्रव्यताणामप्रकृतानामध्यवसेयत्वेन चतुर्था ।
प्रकृतस्यैतद्भेदयोगे ऽपि न वैचित्र्यमिति न ते गणिताः ।
प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्ये ऽष्टविवत्वम् ।
भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणाक्रियारूपत्वे षोडश भेदाः ।
तेषां च प्रत्येकं निमित्तस्योपादानानुपादनाभ्यां द्वात्रिंशत्प्रभेदाः, तेषु च प्रत्येकं हेतुस्वरूपफलोत्प्रेक्षणरूपत्वेन षण्णवतिर्भेदाः ।
एषा गतिर्वाच्योत्प्रेक्षाया ।
तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः ।
प्रतीयमानायास्तु यद्यप्युद्देशत एतावन्तोभेदाः, तथापि निमित्तस्यानुपादानं तस्यां न सम्भवतीति तैर्भेदैर् यूनो ऽयं प्रकारः ।
इवाद्यनुपादाने निमित्तस्यत चाकीर्तने उत्प्रेक्षणस्य निष्पमाणत्वात् ।
प्रायश्च स्वरूपोत्प्रक्षाया यथासम्भवं भेदनिर्देश ।
एषा चार्थाश्रयति धर्मविषये श्लिष्टशब्दहेतुका क्वचित्पदार्थान्वयवेलायां सादृश्याभिवानादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्य्थाभिमन्तृव्यापारोपारोहक्रमेणोत्प्रेक्षायां पर्यवस्यति ।
क्वचिच्छलादिशब्दप्रयोगे सापह्नवात्प्रेक्षा भवति ।
अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः ।


साप्रतं त्वियं दिड्व्रात्रेणोदाह्नियते ।
तत्र जात्युत्प्रेक्षा यथा-
ऽस वः पायादिन्दुर्नवबिसलताकोटिकुटिलः- स्मारारेर्यो मूर्ध्नि ज्वलनकपिशो भाति निहितः ।
स्त्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इवऽ ॥
अत्राङ्कुरशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते ।

क्रियोत्प्रेक्षा यथा–
ऽलिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभःऽ ।
अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येते ।
उत्तरार्धे तु ऽअसत्पुरुषसेवेव दृष्टिर्निष्फलतां गताऽ ॥
इत्यत्रोपमैव नोत्प्रेक्षा ।
गुणोत्प्रेक्षा यथा-
ऽसैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्ऽ ॥
अत्र दुखं गुणः ।
द्रव्योत्प्रेक्षा यथा-
ऽपातालमेतन्नयनोत्सवेन विलोक्य शून्यं मृगलाञ्छनेन ।
इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिःऽ ॥
अत्र चन्द्रस्यैकत्वाद् द्रव्यत्वम् ।
एतानि भावाभिमाने उदाहरणानि ।


अभावाभिमाने यथा-
ऽकपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षमतां गतौऽ ॥
अत्रापश्यन्ताविति क्रियाया अभावाभिमानः ।
एवं जात्यादावप्यूद्यम् ।
गुणस्य निमित्तत्वं यथा-
ऽनवबिसलताकोटिकुटिलःऽ इत्यत्रोदाहृते कुटिलत्वस्य ।
क्रियाया यथा- र्ऽइदृक्षां क्षामतां गतौऽ इत्यत्र क्षामतागमनस्य ।
निमित्तोपादानस्यैते उदाहरणे ।
अनुपादाने ऽलिम्पतीव तमो ऽङ्गानिऽ इत्याद्युदाहरणम् ।
हेतूत्प्रेक्षा यथा - ऽविश्लेषदुःखादिव बद्धमौनम्ऽ इत्यादौ ।
स्वारूपोत्प्रेक्षा यथा - ऽकुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।
दिग् दक्षिणा गन्धवहं मुखेन व्यलीकनिः श्वासमिवोत्ससर्जऽ ॥
फलोत्प्रेक्षा यथा - ऽचोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः ।
अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणिऽ ॥
एवं वाच्योत्प्रेक्षाया उदाहरणदिग् दत्ता ।
प्रतीयमानोत्प्रेक्षा यथा -
ऽमहिलासहःसभरिए तुह हिअए सुहअ सा असाअन्ती ।
अणुदिणमणण्णअम्भा अङ्गं तणुअम्पि तणुएइऽ ॥
(ऽमहिलासहस्रभरिते तव हृदये सुभग सा अमान्ती ।
अनुदिनमनन्यकर्मा अङ्गं तनकमपि तनयतिऽ ॥) ॥
अत्र-
अमाअन्तीत्यवर्तमानेवेति तनूकरणहेतुत्वेनोत्प्रेक्षितम् ।
एवं भेदान्तरेष्वपि ज्ञेयम् ।


श्लिष्टशब्दहेतुर्यथा - ऽअनन्यसामान्यतया प्रसिद्धस्त्तयागीति गीतो जगतीतले यः ।
अभूदहम्पूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम्ऽ ॥
अत्र धर्मविषये मार्गणशब्दः श्लिष्टः ।


उपमोपक्रमोत्प्रेक्षा यथा - ऽकस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि ।
याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु- स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विशषःऽ ॥
अत्र यद्यपि ऽसर्वप्रातिपदिकेभ्यः क्किप्ऽ इत्युपमानात्क्किब्विधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते सम्भवौचित्यात्सम्भावनोत्थने उत्प्रेक्षायां पर्यवसानम् ।
यथा वा विरहवणन्ने ऽकेयूरायितमङ्गदैःऽ इत्यादौ ।
एषापि समस्तोपमाप्रतीपादकविषये ऽपि हर्षचरितवार्तिते साहित्यमीमांसायां च तेषु तेषु प्रदेशेषुदाहृता, इह तु ग्रन्थविस्तरभयान्न प्रपञ्चिता ।


सापह्नवोत्प्रेक्षा यथा-
ऽगतासु तीरं तिमिघट्टनेन ससम्भ्रमं पौरविलासिनीषु ।
यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्राऽ ॥
अत्रेवशब्दमाहात्म्यात्सम्भावनं छलशब्दप्रयोगाच्चापह्नवो गम्यते ।
एवं छद्मादिशब्दप्रयोगे ऽपि ज्ञेयम् ।
ऽअपर इव पाकशासनःऽ इत्यादावपरशब्दाप्रयोगे उपमैवेयम् ।
तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावध्यवसायसम्भावादिवशब्देन च तस्य साध्यत्वप्रतीतेरुत्प्रेक्षैवेयम् ।
इवशबादाप्रयोगे सिद्धत्वादध्यवसायस्यातिशयोक्तिः ।
इवापरशब्दयोरप्रयोगे तु रूपकम् ।
तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसम्बन्धिनो धर्मस्य हेतुरुत्प्रेक्षते स धर्मो ऽध्यवसायवशादभिन्न उत्प्रेक्षायां निमित्तत्वेनाश्रीयते ।
स च वाच्य एव नियमेन भवति ।
अन्यथा कं प्रति हेतुः स्यात् ।
यथा-ऽअपश्यन्ताविवान्योन्यम्ऽ इत्यादौ ।
अत्र कपोलयोः प्रकृतयोः सम्बन्धित्वेनोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम् ।
हेतुफलं च क्षामतागमनं तत्र निमित्तम् ।
एवम् ऽअदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्ऽइत्यत्र नूपुरगतस्य मौनित्वस्य हेतुर्दुःखित्वम् ।
तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम् ।
एवं सर्वत्र ।


स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्पेक्ष्यते तत्रापि निमित्तभूतो धर्मः क्कचिन्निर्दिश्यते ।
यथा-ऽस वः पायादुन्दुःऽ इत्यादौ ।
अत्र कुटुलत्वादि निर्दिष्टमेव ।
ऽवेलेव रागसागरस्यऽ इत्यादौ सङ्क्षोभकारित्वादि गम्यमानम् ।
यत्र च धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तस्योपादानानुपादानाभ्यम् ।
उपादाने यथा-
ऽप्राप्याभिषेकमेतस्मिन्प्रतिष्ठासति द्विषाम् ।
चकम्पे लोप्यमानज्ञा भयविह्ववलितेव भूःऽ ॥
अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित्तमुपात्तम ।
अनुपादाने यथा-ऽलिप्मतीव तमो ऽङ्गानिऽ इत्यादौ ।
अत्र तमोततत्वेन लेपनक्रियाकर्तृत्वोपेक्षायां व्यापनादि निमित्तं गम्यमानम् ।
व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात् ।
न च विषयस्य गम्यमानत्वं युक्तम् ।
तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात् ।
तस्माद् यथोक्तमेव साधु ।


फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तम् ।
तस्यानुपादाने कस्य तत्फलत्वेनोक्तं स्यात् ।
तस्मात्तत्र तस्य निमित्तस्योपादानमेव न प्रकारान्तरम् ।
यथा–
ऽरथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्ऽ ।
उत्पत्तिभूमौ तुरगात्तमानां दिशि प्रतस्थे रविरुत्तरस्याम्ऽ ॥
अत्राश्वपरिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम् ।


तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितो ऽपि लक्ष्ये दुरवधारत्वादिह न प्रपञ्चितः ।
तस्याश्चेवादिशब्दवन्मन्येशब्दो ऽपि प्रतिपादकः ।
किं तूत्प्रेक्षासामग्रथभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति ।
यथोदाहृतं प्राक् ऽअहं त्विन्दुं मन्ये त्वदरिविरहऽ इत्यादि ।


स्तर्त् सूत्र २३:

एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वे ऽतिशयोक्तिं लक्षयति-

अध्यवसितप्राधान्ये त्वतिशयोक्तिः ॥ रुअस्स्_२३ ॥

अध्यवसाने त्रयं सम्भवति- स्वरूपं विषयो विषयी च ।
विषयस्य हि विषयिणान्तर्निगीर्णत्वे ऽध्यवसायस्य स्वरूपोत्थानम् ।
तत्र साध्यत्वे स्वरूपप्राधान्यम् ।
सिद्धत्वे त्वध्यवमितप्राधान्यम् ।
विषयप्राधान्यमध्यवसाये नैव सम्भवति ।
अध्यवसितप्राधान्ये चातिशयोक्तिः ।
अन्याश्च पञ्चप्रकाराः ।
भेदे ऽभेदः ।
अभेदे भेदः ।
सम्बन्धे ऽसम्बन्धः ।
असम्बन्धे सम्बन्धः ।
कार्यकारणपौर्वापर्यविध्वंसश्च ।


तत्र भेदे ऽभेदो यथा–
ऽकमलमनभ्भसि कमले च कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्ऽ ॥
अत्र मुखादीनां कमलाद्यैर्भेदे ऽभेदः ॥


अभेदे भेदो यथा-
ऽअण्णं लडहत्तणअं अण्णाविअ कावि वत्तणच्छाआ ।
सामा सामण्णापआवैणो रेहञ्चिअ ण ह्वोइऽ ॥
(ऽअन्यत् सौन्दर्येमन्यापि च कापि वर्त्तनच्छाया ।
श्यामा सामान्यप्रजापते रेखैव न सम्भवतिऽ ॥)॥
अत्र लडहत्वादीनामभेदे ऽप्यन्यत्वेन भेदः ।
यथा वा– ऽमग्गिअलद्धम्मि वलामोडिअचुम्बिएं अप्यणा अ उवणमिए ।
एक्कम्मि पिआहरए अण्णोण्णा हाएन्ति रसभेआऽ ॥
(ऽमार्गिकतलब्धे बलात्कारचुम्बुते आत्मना चोपनीते ।
एकस्मिन्नपि प्रियाधरे ऽन्ये ऽन्ये भवन्ति रसभेदाःऽ ॥)॥
अत्राभिन्नस्यापि प्रियाधररसस्य विषयविभागेन भेदेनोपनिबगन्धः ।
सम्बन्धे ऽसम्बन्धो यथा-
ऽलावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः ।
एषापि स्वगुणानुरूपरमणाभावाद् वराकी हता को ऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वताऽ ॥
अत्र लावण्यद्रविणस्य व्ययसम्बन्धे ऽप्यसम्बन्धस्तन्वीलावण्यप्रकर्षप्रतिपादनार्थे निबद्धः ।
यथा वा– ऽअस्याः सर्गविधौ प्रजापतिपभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्काकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिःऽ ॥
अत्र पुराणप्रजापतिनिर्माणसम्बन्धे ऽप्वसम्बन्ध उक्तः ।
असम्बन्धे सम्बन्धो यथा-
ऽपुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततो ऽनुकुर्याद् विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्यऽ ॥
अत्र सम्भावनया सम्बन्धः यथा वा- ऽदाहो ऽम्भःप्रसृतिम्पचः प्रचयवान् बाष्पः प्रणालोचितः श्वासाः प्रेङ्खिकतदीप्रदीपकलिकाः पाण्टिम्नि मग्नं वपुः ।
किं ताम्यत्कथग्रामि रात्रिमखिलां त्वन्मार्गवाताग्रने हस्तच्छत्त्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्ततेऽ ॥
अत्र दाहादीपामभ्भः प्रसृत्याद्यैरसम्बन्धे ऽपि सम्बन्धः सिद्धत्वेनोक्तः ।


कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा ।
विपर्ययो यथा-
ऽहृदयमधिष्टितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ! लोचनविषयं त्वया भजताऽ ॥
तुल्यकालत्वं यथा–
ऽअविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः ।
अयमायातः कालो हन्त हृताः पथिकगेहिन्यःऽ ॥


एषु पञ्चसु भेदेषु भेदे ऽभेदादिवचनं लोकातिक्रान्तगोचरम् ।
अतश्चात्रातिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः ।
तथा हि ऽकमलमनम्भसिऽ इत्यादौ वदनादीनां कमलाद्यैर्भेदे ऽपि वास्तवं सौन्दर्यं कविसमर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदे ऽभेदवचनस्य निमित्तम् ।
तत्र च सिद्धो ऽध्यवसाय इत्यध्यवसितप्राधान्यम् ।
न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः, अभेदे भेद इत्यादिषु प्रकारेष्वष्याप्तेः ।
तत्र हि ऽअण्णं लडहृत्तणअम्ऽ इत्यादौ सातिशयं लडहत्वं निमित्तभूतभेदेनाध्यवसितम् ।
एवमन्यत्रापि ज्ञेयम् ।
तदभिप्रायेणैवाध्यवसितप्राधान्यम् ।
प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालङ्कारप्रस्तावे प्रपञ्चार्थं लक्षियिष्यते ।


स्तर्त् सूत्र २४:

एवमध्यवसायाश्रयमलङ्कारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलङ्कारा इदानीमुच्यन्ते ।
तत्रापि पदार्थवाक्यार्तगतत्वेन तेषां द्वैविध्ये पदार्थगतमलङ्कारद्वयं क्रमेणोच्यते-

औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसम्बन्धे तुल्ययोगिता ॥ रुअस्स्_२४ ॥

इवाद्यप्रयोगे ह्यौपन्यस्य गम्यत्वम् ।
तत्र प्राकरणिकानामप्ररणिकानां वार्थानां समानगुणक्रियासम्बन्धे अन्वितार्था तुल्ययोगिता ।
यथा-
ऽसज्जातपत्रप्रकाराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् ।
विकस्वराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुःऽ ॥
अत्र ऋतुवर्णनस्य प्रकान्तत्वाद्दिनानां पद्मानां च प्रकृतत्वाद् वृद्धिगमनं क्रिया ।
एवं गुणे ऽपि ।
यथा-
ऽयोगपट्टो जटाजालं तारवी त्वङ्मृगाजिनम् ।
उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम्ऽ ॥
उचितत्वं गुणः ।
अप्राकरणिकानां यथा-
ऽधावत्त्वदश्वपृतनापतितं मुखे ऽस्य निनिन्द्रनीलनलिनच्छदकोमलाङ्ग्या ।
भग्नस्य गूर्जरनृपस्य रजः कयापि तन्व्या तवासिलतया च यशः प्रभृष्टम्ऽ ॥
अत्र गूर्जरं प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया ।
गुणो यथा-
ऽत्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरताऽ ॥
कठोरत्वं गुणः ।
एवमेषा चतुर्विधा व्याख्याता ।


स्तर्त् सूत्र २५:

प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमुच्यते -

प्रस्तुताप्रस्तुतानां तु दीपकम् ॥ रुअस्स्_२५ ॥

औपम्यस्य गम्यत्व इत्याद्यनुवर्तते ।
प्राकरणिकाप्राकरणिकयोर्मध्यादेकत्र निर्दिष्टः समानो धर्मः प्रसङ्गनान्यत्रोपकाराद्दीपनाद्दीपसादृश्येन दीपकाख्यालङ्कारोत्थापकः ।
तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः ।
स च वास्तव एव ।
पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकणिकत्वै वा वैवक्षिकः, प्राकरणिकत्वनिर्वर्तितत्वादुपमानोपमेयभावस्य ।
अनेकस्यैकक्रियाभिसम्बन्धादौचित्यात्पदार्थत्वोक्तिः ।
वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिभमध्यान्तदीपकाख्यास्त्रयो ऽस्य भेदाः ।


क्रमेणोदाहरणम् - ऽरेहै मिहिरेण णहं रसेण कव्वं सरेण जोव्वणअं ।
अमएण धुणीधवओ तुमए णरणाह भुवणमिणम्ऽ ॥
(ऽरेयते मिहिरेण नभो रसेन काव्यं सरेण [स्मरेण] यौवनम् अमृतेन धुनीधवःस्वया नरमाथ! भुवनमिदम्ऽ ॥)॥
ऽसञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनश्च धेनुःऽ ॥
ऽकिवणाण धणं णाआणं फणमणी केसराइं सीहाणं ।
कुलवालिआण थणआ कुत्तो छेप्पन्ति अमुआणम्ऽ ॥
(ऽकृपणानां धनं नागानां फणमणिः केसराः सिंहानाम् ।
कुलबालिकानां स्तनाः कुतः स्पृश्यन्ते ऽमृतानाम्ऽ) ॥
एवमेकक्रियं दीपकत्रयं निर्णीतम् ।
अत्र च यथानेककारकगतत्वेन्नैकक्रिया दीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम् ।
यथा-
ऽसाधूनामुपकर्तुं लक्ष्मीं धर्त्तुं विहायसा गन्तुम् ।
न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम्ऽ ॥
अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टं मनो निर्दिष्टम् ।
छायान्ररेण तु मालादीपकं प्रस्तावान्तरे लक्ष्ययिष्यते ।


स्तर्त् सूत्र २६:

वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमा ॥ रुअस्स्_२६ ॥

पदार्थारब्धो वाक्यार्थ इति पदार्थगतालङ्कारानन्तरं वाक्यार्थगतालङ्कारप्रस्तावः ।
तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा ।
वस्तुप्रतिवस्तुभावेनासकृन्निर्देशे ऽपि सैव ।
इवाद्यनुपादाने सकृन्निर्देशे उपमा ।
वस्तुप्रतिवस्तुभावेनासकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा ।
आद्यः प्रकारः प्रतिवस्तूपमा ।
वस्तु-शब्दस्य वाक्यार्थवाचित्वे प्रतिवावाक्यार्थमुपमा साम्यमित्यन्वर्थाश्रयणात् ।
केवलं काव्यसमयात्पर्यायान्तरेण पृथङ्निर्देशः ।
द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते ।
तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा ।
यथा -
ऽचकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि ।
आवन्त्य एव निपुणाः सुदृशो रतनर्मणिऽ ॥
अत्र चतुरत्वं साधारणे धर्मं उपमानवाक्ये, उपमेयवाक्ये तु निपुणपदेन निर्दिष्टः ।
न केवसमियं साधर्म्येण यावद् वैधर्म्येणापि ।
यथात्रैवोत्तरस्थाने ऽविनावन्तीर्न निपुणाः सुदृशो रतनर्मणिऽ इति पाठे ।


स्तर्त् सूत्र २७:
तस्यापि बिम्बप्रतिबिम्बभावतया निर्देश दृष्टान्तः ॥ रुअस्स्_२७ ॥

तष्णापीति न केवलमुपमानोपमेययोः ।
तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः ।
अयमपि साधर्म्यवैधर्म्याभ्यां द्विविधः ।
आद्यो यथा-
ऽअब्धिर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरता- , मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ।
देवीं वाचमुपासते हि बह्यवः सारं तु सारस्त्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविःऽ ॥
अत्र यद्यपि ञ्चानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमौपभ्यं विवक्षितम् ।
यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् ।
द्वितीयो यथा-
ऽकृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो ऽरयः ।
तमांसि तिष्टन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम्ऽ ॥
अत्र निहतत्वादेः स्थानादिना वैधर्म्येण प्रतिबिम्बनम् ।


स्तर्त् सूत्र २८:

सम्भावतासम्भवता वा वस्तुसम्बन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना ॥ रुअस्स्_२८ ॥

प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम् ।
तत्र क्कचित्सम्भवन्नेव वस्तुसम्बन्धः स्वसामर्थ्याद्धिम्बप्रतिबिम्बभावं कल्पयति ।
क्वचित्पुनरन्वयबाधादसम्भावता वस्तुसम्बन्धेन प्रतिबिम्बनमाक्षिप्यते ।
तत्र सम्भवद्वस्तुसम्बन्धा यथा-
ऽचूडामणिपदे धत्ते यो देवं रविमागतम् ।
सतां कार्यातिथेयीति बोधयन् गृहमेधिनःऽ ॥
अत्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्सम्भवति वस्तुसम्बन्धः ।
असम्भवद्वस्तुसम्बन्धा यथा-
ऽअब्यात्स वो यम्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् ।
जटापिनद्धोरगराजरत्नमरीचिलीढोभयकोटिरिन्दुःऽ ॥
अत्र स्मरचापसम्बन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसम्भवल्लीलासदृशीं लीलामवगमयतीत्पदूरविप्रकर्षात्प्रतिबिम्बकल्पनमुक्तम् ।


एषापि पदार्थवाक्यार्थवृत्तिभेदाद् द्विविधा पदार्थवृत्तिः समनन्तरमुदाहृता ।
वाक्यार्थवृत्तिर्यथा-
ऽत्वत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोःऽ ॥
केचित्तु दृष्टान्तालङ्कारो ऽयमित्याहुस्तदसत् ।
निरपेक्षयोर्वाक्यार्थयोर्हि बिम्बप्रतिबिम्बभावो दृष्टान्तः ।
यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र सम्बन्धानुपपत्तिमूला निदर्शनैव युक्ता, न दृष्टान्तः ।
एवं च -
ऽशुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता बनलताभिःऽ ॥
इत्यत्र दृष्टान्तबुद्धिर्न कार्या ।
उक्तन्यायेन निदर्शनाप्रात्पेः ।


इयं चोपेमेय उपमानवृत्तस्यासम्भवात्प्रतिपादिता पूर्वैः वस्तुतस्तूपमेयवृत्तस्योपमाने ऽसम्भवादपि भवति ।
उभयत्रापि सम्बन्धविघटनस्य विद्यमानत्वात् ।
तद्यथा - ऽवियोगे गौडनारीणां यो गण्डतलपाण्डिमा ।
अलक्ष्यत स खर्जूरीमञ्जरीगर्भरेणुषुऽ ॥
अत्र गण्डतलं प्रकृतम् ।
तद्धर्मस्य पाण्डिम्नः खर्जूरीरेणुष्वसम्भवादौपम्यप्रतीतिः ।
एष च प्रकारः शृङ्खलान्यायेनापि भवति ।
यथा-
ऽमुण्डसिरे बोरफलं बोरोवरि बोरअं थिरं धरसि ।
विग्गुच्छाऐ अप्पा णालिअछेआ छलिज्जन्तिऽ ।


इयमपि क्वचिन्मालयापि भवन्ती दृश्यते ।
यथा-
ऽअरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थले ऽब्जमवरोपितं सुचिरमूषरे वर्षितम् ।
श्वपुच्छमवनामितं बधिरकर्णजापः कृतः धृतो ऽन्धमुखदर्पणो यदबुधो जनः सेवितःऽ ॥
क्वचित्पुनर्निषेधसामर्र्थ्यादाक्षित्पायाः प्रात्पेः सम्बन्धानुपपत्त्यापि भवति ।
यथा-
ऽउत्कोपे त्वयि किञ्चिदेव चलति द्राग्गूर्जरक्ष्माभृता मुक्ता भूर्न परं भयान्मरुजुषां यावत्तदेणीदृशाम् ।
पद्भ्यां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमःऽ ॥
अत्र मुक्तेन निषेधपदं तदन्यथानुपपत्त्या पादयोर्हसगतिप्रात्पिराक्षिप्यते ।
सा च तयोरनुपपन्ना सादृश्यं गमयतीति असम्भवद्वस्तुसम्बन्वनिबन्धना निदर्शना ।


स्तर्त् सूत्र २९:

भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः ॥ रुअस्स्_२९ ॥

अधुना भेदप्राधान्येनालङ्कारकथनम् ।
भेदो वैलक्षण्यम् ।
स च द्विधा भवति, उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् ।
विपर्ययो न्यूनगुणत्वम् ।


क्रमेणोदाहरणम् - ऽदिद्दक्षवः पक्ष्यलताविलासमक्ष्णां सहस्रस्य मनोहरं ते ।
वापीषु नीलोत्पलिनी-विकासरभ्यासु नन्दन्ति न षट्पदौधाःऽ ॥
ऽक्षीणः क्षोणो ऽपि शशी भूयो भूयो विवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तुऽ ॥
अत्र विकस्वरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पक्ष्मलतया अधिकगुणत्वम् ।
चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वम् ।
शशिवैलक्षण्येन तस्यापुनरागमात् ।


स्तर्त् सूत्र ३०:

उपमानोपमेययोरेकस्य प्राधान्यनिर्देशे ऽपरस्य सहार्थसम्बन्धे सहोक्तिः ॥ रुअस्स्_३० ॥

भेदप्राधान्य इत्येव ।
गुणप्राधानभावनिमित्तकमत्र भेदप्राधान्यम् ।
सहार्थप्रयुक्तश्च गुणप्राधानभावः ।
उपमानोपमेयत्वं चात्र वैवक्षिकम्, द्वयोरपि प्राकरणिकत्वादप्राकरणिकरणिकत्वाद्वा ।
सहार्थसामर्थ्याद्धि तयोः तुल्यकक्षत्वम् ।
तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् ।
अर्थाच्च परिशिष्टस्य प्रधानत्वादुपमेयत्वम् ।
शब्दश्चात्र गुणप्राधानभावः ।
वस्तुतस्तु विपर्ययो ऽपि स्यात् ।
तत्र नियमेनातिशयोक्तिमूलत्वमस्याः ।
सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च ।
अभेदाध्यवसायश्च श्लेषभित्तिको ऽन्यथा वा ।
साहित्यं चात्र कत्रादिनानाभेदं ज्ञेयम् ।
तत्र च -
ऽकार्यकारणप्रतिनियमविपर्ययरूपा यथा -
ऽभवदपराधैः सार्धं सन्तापो वर्धतेतरामस्याःऽ ।
अत्रापराधानां सन्तापं प्रति हेतुत्वे ऽपि तुल्यकालत्वेनोपनिबन्धः ।
श्लेषभित्तिकाभेदाध्यवसायरूपा यथा -
ऽअस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्नियन्तां बलानिऽ ।
अत्रास्तं गमनं श्लिष्टम् ।
अस्तमित्यस्योभयार्थत्वात् ॥


तदन्यथारूपा यथा -
ऽकुमुदवनैः सह सम्प्रति विघटन्ते चक्रवाकमिथुनानिऽ ।
अत्र विघटनं सम्बन्धिभेदाद्भिन्नं न तु श्लिष्टम् ।
एतद्विशेषपरिहारेण सहोक्तिमात्रं नालङ्कारः ।
यथा-
ऽअनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषुऽ इत्यादौ ।
एतान्येव कर्तृसाहित्ये उदाहरणानि ।
कर्मसाहित्ये यथा - ऽद्युजनो मुत्युना सार्धं यस्याजौ तारकामये ।
चक्रे चक्राभिधानेन प्रेष्येणात्पमनोरथःऽ ॥
अत्र करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वम् ।
एषा च मासयापि भवन्ती दृश्यते ।
यथा-
ऽउत्क्षित्पं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं भूपानां जनकस्य संशयधिया साकं समास्फालितम् ।
वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गव- प्रौढाहङ्कृतिकन्दलेन च समं तद् भग्नमैशं धनुःऽ ॥


स्तर्त् सूत्र ३१:

सहोत्किप्रतिभटभूतां विनोक्तिं लक्षयति - ।

विना किञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः ॥ रुअस्स्_३१ ॥

सत्त्वस्य शोभनत्वस्याभावो ऽशोभनत्वम् ।
एवमसत्त्वस्याशोभनत्वस्याभावः शोभनत्वम् ।
तेद्वे सत्त्वासत्त्वे यत्र कस्यचिदसन्निधानान्निबध्येते सा द्विधा विनोक्तिः ।
अत्र च शोभनत्वाशोभनत्वसत्तासत्तायामेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् ।
एवं चान्यानिवृत्तौ विधिरेव प्रकाशितो भवति ।
आद्या यथा -
ऽविनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्कवित्वेन कीदृशी वाग्विदग्धताऽ ॥


अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथञ्चिन्निमित्तीभवति यथा सहोक्तौ सहार्थविवक्षा ।
एवं च -
ऽनिरर्थकं जन्म गतं नलिन्या यथा न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धाऽ ॥
इत्यादौ विनोक्तिरेव ।
तुहिनांशुदर्शनं नलिनीजन्मनो ऽशोभनत्वप्रतीतेः ।
इयं च परस्परविनोक्तिभङ्ग्या चमत्कारातिशयकृत् ।
यथोदाहृते विषये ।


द्वितीया यथा -
ऽमृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः ।
अमृतद्युतिसुन्दराशयो ऽयं सुहृदा तेन नरेन्द्रसूनुःऽ ॥
अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्ग्योक्तः ।
शैषा द्विधा विनोक्तिः ।


स्तर्त् सूत्र ३२:

अधुना विशेषणविच्छित्त्याश्रयेणालङ्कारद्वयमुच्यते ।
तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाह- ।

विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः ॥ रुअस्स्_३२ ॥

इह प्रस्तुताप्रस्तुतानां क्वचिद् वाच्यत्वं क्वचिद् गम्यत्वमिति द्वैविध्यम् ।
वाच्यत्वं च श्लेषनिर्देशभङ्ग्या पृथगुपादानेन वेत्यपि द्वैविध्यम् ।
एतद् द्विभेदमपि श्लेषालङ्कारस्य विषयः ।
गुम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः अप्रस्तुतनिण्ठं तु समासोक्तिविषयः ।
तत्र च निमित्तं विशेषणसाम्यम् ।
विशेष्यस्यापि साम्ये श्लेषप्रात्पेः ।
विशेषणसाम्याद्धि प्रतीयमानप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते ।
अवच्छेदकत्वं च व्यवहारसमारोपः ।
रूपसमारोपे त्ववच्छादितत्वेन प्रकृतस्य तद्रूपित्वाद् रूपकमेव ।


तच्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भवत् त्रिधा भवति तत्र श्लिष्टतया यथा - ऽउपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ष यथा समस्तं तिमिरांशुकं तया पुरो ऽपि रागाद्गलितं न लक्षितम्ऽ ॥
अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्ना नायकव्यवहारप्रतिपत्तिः ।
अपरित्यक्तस्वरूपयोर्निशाशशिनोर्नायकताख्यधर्मविशिष्टयोः प्रतीतेः ।
साधारण्येन यथा - ऽतन्वी मनोरमा बाला लोलाक्षी पुष्पहासिनी ।
विकासमेति सुभग भवद्दर्शनमात्रतःऽ ॥
अत्र तन्वीत्यादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः ।
तत्र च लतैकगामिविकासाख्यधर्मससारोपः कारणम् ।
अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः ।
विकासश्च प्रकृते उपचरितो ज्ञेयः ।
एवं च कार्यसमारोपे ऽपि ज्ञेया ।
इयं च समासोक्तिः पूर्वापेक्षयास्पष्टा ।


औपम्यगर्भत्वेन यथा-
ऽदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणाऽ ॥
अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन कृते समासे पश्चाद्दन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेषणमाहात्म्याल्लताव्यवहारप्रतीतिः ।
अत्रैव ऽपरीता हरिणेक्षणाऽ इति पाठे उपमारूपसाधकबाघकाभावात् सङ्करसमाश्रयेण कृते योजने पश्चात् पूर्ववत् समासान्तरमहिम्ना लताप्रतीतिज्ञंया ।
रूपकगर्भत्वेन तु समासान्तराश्रयणात् समानविषेषणत्वं भवदपि न समासोक्तेः प्रयोजकम् ।
एकदेशविवर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् ।
न च पूर्वदर्शितोपमासङ्करविषये एष न्यायः ।
उपमासङ्करयोरेकदेशविवर्तिनोरभावात् ।
तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम् ।
अश्लिष्टं यथा-
ऽनिरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः ।
धारानिपातैः सह किं नु वान्तश्चन्द्रो ऽयमित्पार्ततरं ररासऽ ॥
अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्टृपुरुषनिरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते ।
श्लिष्टं यथा-
ऽमदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चयन् विचकिल-बृहत्पत्त्रन्यस्तद्विरेफमषीलवैः ।
कुटिललिपिभिः कं कायस्थं न नाम विसूत्रयन् व्यधित विरहिप्राणेष्वायव्ययावधिकं मधुःऽ [श्री। च। ६७०] ॥
अत्र हि पत्त्रलिपिकायस्थशब्देषु श्लेषगर्भे रूपकं द्विरेफमषीलवैरित्येतद्रूपकनिमित्तम् ।
अस्य च प्रचुरः प्रयोगविषय इति न समासोक्तिबुद्धिः कार्या ।


तदेवं श्लिष्टविशेषणसमुत्थापितैका ।
साधारणविशेषणसमुत्थापिता तु धर्मकार्यसमारोपाभ्यां द्विभेदा ।
औपम्यगर्भविशेषणसमुत्थापितोपमासङ्करसमासाभ्यां द्विभेदा ।
रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः ।
तदेवं पञ्चप्रकारा समासोक्तिः ।
इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्वेन प्रथमं त्रिधा समासोक्तिः ।
विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम् ।
सर्वत्र चात्र व्यवहारसमारोप एव जीवितम् ।
स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः ।
शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः ।
लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः ।
शास्त्रीये वा लौकिकवस्तुव्यवहारमारोप इति चतुर्धा भवति ।
तदेवं बहुप्रकारा समासोक्तिः ।


तत्र शुद्धकार्यसमारोपेण यथा-
ऽविलिखति कुचावुच्चैर्गाढं करोति कचग्रहं लिखति ललिते वक्त्रे पत्त्रावलीमसमञ्जसाम् ।
क्षितिप खदिरः श्रोणीबिम्बाद् विकर्षति चांशुकं मरुभुवि हठात् त्रस्यन्तीनां तवारिमृगीदृशाम्ऽ ॥
अत्र पत्त्रावलीविलेखनादिशुद्धकार्यसमारोपात् खदिरस्य हठकामुकत्वप्रतीतिः विशेषणसाम्येनोदाहृता ।


उभयमयत्वेन यथा -
ऽनिर्लूनान्यलकानि पाटितमुरः कृत्स्नो ऽधरः खण्डितः कर्णे रुग्जनिता कृतं च नयने नीलाब्जकान्ते क्षतम् ।
यान्तीनामतिसम्भ्रमाकुलपदन्यासं मरौ नीरसैः किं किं कण्टकिभिः कृतं न तरुभिस्त्वद्वैरिवामभ्रुवाम्ऽ ॥
अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम् ।
निर्लूनान्यलकानीत्यादिषु कार्यसमारोपः ।
व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणम् ।
यथा-
ऽद्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्धाम्बरां शशिकलामलिखत्कराग्रैः ।
अन्तर्निमग्रचरपुष्पशरो ऽतितापात् किं किं चकार तरुणो न यदीक्षणाग्निःऽ ॥
लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यम् ।
ऽयैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिख्ययमसङ्ख्यतया प्रवृत्तम् ।
लोपः कृतः किल परत्वजुषो विभक्ते- स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्येऽ ॥
अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः ।
ऽसीमानं न जगाम यन्नयनयोर्नान्येन यत्सङ्गतं न स्पृष्टं वचसा कदाचिदपि यद् दृष्टोपमानं न यत् ।
अर्थादापतितं न यन्न च न यत्तत्किञ्चिदेणीदृशां लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकम्ऽ ॥
अत्र लावण्ये लौकिके वस्तुनि मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः ।
एवं तर्कायुर्वेदज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः ।
यथा-
ऽस्वपक्षलीलाललितैरुपोढहेतौ स्मरे दर्शयतो विशेषम् ।
मानं निकारर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत्ऽ ॥
अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः ।
पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः ।
ऽमन्दमग्रिमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः ।
दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसन्निधौऽ ॥
अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः ।
ऽगण्डान्ते मददन्तिनां प्रहृरतः क्ष्मामण्डले वैधृते रक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवम् ।
पूर्वामत्यजतः स्थितिं शुभकरीमासेव्यमानस्य ते वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम्ऽ ॥
अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः ।
ऽप्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै- रपि ज्ञेयो नो यः परिमितगतित्वं परिजहृत् ।
अपूर्वव्यापारो गुरुवर! बुधैरित्यवसितो न वाच्यो नो लक्ष्यस्तव सहृदयस्यो गुणगणःऽ ॥
अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः ।
तथा ह्यत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते ।
यतो रसो न तात्पर्यशक्तिज्ञेयः ।
नाप्यनुमानविषयः ।
न शब्दैरभिधाव्यापारेण वाच्यीकृतः ।
न लक्षणागोचरः ।
किं तु विगलितवेद्यानतरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्वव्यापारविषयीकृतो ऽनुकार्यानुकर्तृगतत्वपरि हारेण सहृदयगत इति प्रसर्पत्तात्पर्यैरित्यादिपदै रस एव प्रतीयते ।
एव प्रतीयते ।
एवमन्यदपि ज्ञेयम् ।


ऽपश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमाभ्यन्तरे यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिहासारसात् ।
चाटूच्चारणचापलं विदधतां वाक् तत्र बाह्या कथं देव्या ते परया प्रभो सह रहःक्रीडादृढालिङ्गनेऽ ॥
अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोप ।
लौकिकवस्तुव्यवहारश्च रसादिभेदाद् बहुभेद इत्युक्तं प्राक् ।
तत्र शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथञ्चिद् योज्यम् ।


इह तु–
ऽऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधानार्द्रनखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकारऽ ॥
इत्यत्रास्ति तावद् रविशशिनोर्नायकत्वप्रतीतिः ।
न चात्र विशेषणसाम्यमिति सा कुतस्त्या ।
प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदोनायिकात्वप्रतीतौ तदुनुगुण्यात् तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेत् आर्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्द्रिष्टम् ।
न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात् ।
तत्कथमत्र ध्यवस्था ।
अत्रोच्यते-एकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता तत् सा केन प्रतिषिद्धा ।
सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि सम्भवात् ।
अथात्र नोपमानत्वेन नायकः स्वस्वरूपेण प्रतीयते अपितु रविशशिनोरेवनायकत्वप्रतीतिः ।
तयोरत्र नायकत्वात् ।
तदत्रार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि सञ्चारणीयम्, इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः, यथा ऽदध्ना जुहोतिऽ इत्यादौ दध्नि सञ्चर्यते विधिः ।
एवमियमुपमानुप्राणिता समासोक्तिरेव ।
इह पुनः इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या, विशेषणसाम्याभावात् ।
तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या,गत्यन्तरासम्भवात् ।
यैस्तुनोक्ता तेषामप्युपसङ्ख्येयैव ।
यत्र तु ऽकेशपाशालिवृन्देनऽ इत्यादौ समासोक्तायामुपमायां समासन्तरिण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् ।


सा च समारोक्तिरर्थान्तरन्यासे कचित्समर्थ्यगतत्वेन कचित्समर्थकगतत्वेन च भवति ।
क्रमेण यथा-
ऽअथोपगूढे शरदा शशाङ्के प्रावृड् ययौ शान्ततडित्कटाक्षा ।
कासां न सौभाग्यगुणो ऽङ्गनानां नष्टं पिरभ्रष्टपयोधराणाम्ऽ ॥
ऽअसमात्पजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत् सर्वे नो सन्ध्यां भजते रविःऽ ॥
अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोर्नायकव्यवहारप्रतीतौ समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते ।
सामान्यस्य चात्र श्लेषवशादुत्थानम् ।
शान्ततडित्कटाक्षेत्यौपम्यगर्भे विशेषणं समासान्तराश्रयेणात्र समानम् ।
असमात्पेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात् सामान्यरूपो ऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्यापनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसन्ध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते ।
ऽआकृष्टिवेगविगलद्भुजगेन्द्रभोगनिमोकपट्टपरिवेषतयाम्बुराशेः ।
मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरवेष्टत पादमूलेऽ ॥
अत्र निर्मोकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तच्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसीयते ।
तत् तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति ।
सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्तिं गर्भीकरोति ।
एवं चोत्प्रेक्षासमासोक्त्योरेकः कालः ।
एवं ऽनखक्षतानीव वनस्थलीनाम्ऽ इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव ।
एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा स्वयमुत्प्रेक्ष्या ।


स्तर्त् सूत्र ३३:

विशेषणसाभिप्रायत्वं परिकरः ॥ रुअस्स्_३३ ॥

विशेषणवैचित्र्यप्रस्तावादस्येह निर्देशः ।
विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः ।
अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः ।
एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम ।
ऽराज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च ।
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसःऽ ॥
अत्र राज्ञ इत्यादौ सोत्प्रासत्वपरं प्रसन्नगम्भीरपदत्वम् ।
एवम्-
ऽअङ्गाज सेनापते राजवल्लभ द्रोणोपहासिन् कर्णम्, साम्प्रतं रक्षैनं भीमाद् दुःशासनम्ऽ इत्यादौ ज्ञेयम् ।


स्तर्त् सूत्र ३४:

विशेष्यस्यापि साम्ये द्वपौर्वोपादाने श्लेषः ॥ रुअस्स्_३४ ॥

केवलविशेषसाम्यं समासोक्तावुक्तन् ।
विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते ।
तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्रकरणिकयोर् वा श्लिष्टपदोपनिबन्धे श्लेषः ।
तत्राद्यं प्रकारद्वयं विशेषणविशेष्यसाम्य एव तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति ।
विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमे ऽर्थान्तरगतध्वनेर्विषयः स्यात् ।
आद्ये तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वम् ।
अत एवात्र - ऽद्वयोर्वोपादानेऽ इति तृतीयप्रकारविषयत्वेनोक्तम् ।
ऽविशेष्यस्यापि साम्येऽ इति तु शिष्टप्रकारद्वयविषयम् ।


क्रमेण यथा-
ऽयेन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गा च यो ऽधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवःऽ ॥
ऽनीतानामाकुलीभावं लुब्धैर्भुरिशिलीमुखैः ।
सदृशे वनवृद्धानां कमलानां तदीक्षणेऽ ॥
ऽस्वेच्छोपजातविषयो ऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखम् ।
मोहात्समाक्षिपति जीवितमप्यकाण्डे कष्टं मनोभव इवेश्वरदुर्विदग्धःऽ ॥
अत्र हरिहरयोर्द्धयोरपि प्राकरणिकत्वम् ।
पद्मानां मृगाणां चोपमानत्वादप्राकरणिकत्वर्म् ।
इश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वम् ।
एवं च शब्दार्थोभयगतत्वेन वर्तमानत्वात्त्रिविधः ।
तत्रोदात्तादिस्वरभेदात्प्रयन्तभेदाच्च शब्दान्यत्वे शब्दश्लेषः ।
यत्र प्रायेण पदभङ्गो भवति ।
अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति ।
अत एव न तत्र सभङ्गपदत्वम् ।
सङ्कलनया तूभयश्लेषः ।
यथा-
ऽरक्तच्छदत्वं विकचा वहन्तो नालं जलैः सङ्गतमादधानाः ।
निरस्य पुष्पेषु रुचिं समग्रां पद्मा विरेजुः श्रमणा यथैवऽ ॥
अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः ।
नालमित्यादौ शब्दश्लेषः ।
उभयघटनायामुभयश्लेषः ।
ग्रन्थगौरवभयात्तु पृथङ्नोदाहृतम् ।

॥।

(प्। ३५२)