अलङ्कारविमर्शिनी-(अलङ्कारसर्वस्वटीका)

[[अलङ्कारविमर्शिनी-(अलङ्कारसर्वस्वटीका) Source: EB]]

[

अलङ्कारसर्वस्वम्

श्रीजयरथकृतालङ्कारविमर्शिनी

| | श्रीः | |

अलङ्कारसर्वस्वं

नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहां ।

गुर्वलङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते । । अ.स. ० । ।

विमर्शिनी ० ।१ः

श्रीजयरथकृतालङ्कारविमर्शिनी

मङ्गलकामनया ग्रन्थकृन्निजेष्टदेवताप्रणामपुरःसरमभिधेयं तात्पर्वं चैकेनैव वाक्येन परामृशति-नमस्कृत्येति ।

परां वाङ्मयाधिदेवतां पराख्यां शब्दब्रह्मणोऽपृथग्भूतां शक्तिं परां वाचं देवीं त्रिविधविग्रहां बहिरुल्लिलासयिषया पश्यन्तीमध्यमावैखरीरूपेण प्रकारत्रयेणाधिष्टितशरीरां नमस्कृत्य निर्विघ्नचिकीर्षितग्रन्थसमात्पये तां प्रति कायवाङ्मनोभिः प्रह्वीभूय निजालङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति मङ्गलान्वययोजना ।

तथा चात्रोक्तलक्षणार्तविस्तरः-

ऽयूयं विमर्शरूपैव परमार्थचमत्कृतिः ।

सैव सारं पदार्थानां परा वागभिधीयते । ।

नादाख्या सर्वभूतेषु जीवरूपेण संस्थिता ।

अनादिनिधना सैव सूक्ष्मा वागनपायिनी । ।

अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं ।

विवर्ततेर्ऽथभावेन प्रक्रिया जगतो यतः । ।

वैखरी शब्दनिष्पत्तिर्मध्यमा स्मृतिगोचरा ।

द्योतिकार्थस्य पश्यन्ती सूक्ष्मा ब्रह्मैव केवलम्ऽ । ।

इत्यादिशास्त्रोक्तिक्रमेण सर्वत्र सदोदितायाः सूक्ष्मायाः परायाः शब्दब्रह्मणः शक्तेर्बहिरुन्मिषन्त्याः प्रथमो विवर्तः पश्यन्ती नाम ।

तथा चोक्तम्-

ऽअविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।

स्वरूपज्योतिरेवान्तःसूक्ष्मा वागनपायिनीऽ । ।

इति ।

अस्यार्थः-अविभागा स्थानकारणप्रयन्तप्रकारेण वर्णानां विभागहीना अत एव संहृतक्रमा तथैवान्तःस्वरूपज्योतिः स्वयंप्रकाशा स्वस्यात्मनो रूपं ज्योतिश्च सर्वत्र हि सर्वविधायिनी शक्तिरेवेति वान्तःसूक्ष्मबीजादङ्कुरमिव बहिरुन्मिषन्ती किञ्चिदुच्छूना पराया मध्यमायाश्चावस्थां तटस्था पश्यतीति पश्यन्तीत्युच्यते ।

ततः परं तु-

ऽअन्तःसंकल्परूपा या क्रमरूपानुपातिनी ।

प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्ततेऽ । ।

एतत्कथयामीति विमर्शरूपा अन्तःसंकल्परूपा प्राणवृत्तिमतिक्रम्य श्रोत्रग्राह्यवर्णा भिव्यक्तिरहिता क्रमरूपानुपातिनी भाननसिकवर्णोच्चारणक्रमेण द्वितीयो विवर्तो मध्यमारूपोजाते ।

मध्यमा किल द्वयोर्वाग्विवर्तयोः पश्यन्तीवैखरीसंज्ञयोर्मध्ये वर्तनान्मध्यमेत्युच्यते ।

तदनन्तरं च-

ऽस्थानेषु विवृत्ते वायौ कृतवर्णपरिग्रहा ।

वैखरी वाक्प्रयोक्तृणां प्राणवृत्तिनिबन्धनाऽ । ।

इति लक्षणात्स्थानकरणप्रयत्नक्रमव्यज्यमानः श्रोत्रग्राह्यदुन्दुभिवीणादिनादपरिचयो गद्गदाव्यक्तगकारादिविलाससमुञ्चयपदवाक्यात्मकस्तृतीयो विवर्तो वैखरीत्युच्यते ।

विशिष्टं खमाकाशं मुखरूपं राति गृह्णातीति विखरः प्राणवायुसंचारविशिष्टो वर्णोच्चारस्तेनाभिव्यक्ता वैखरीति ।

विखरे शरीरे भवा वैखरीति वा किचित् ।

सिद्धो मङ्गलार्थः ।

तथा चात्र पूर्वार्ध एव पुनरावृत्त्याभिधेयपदार्थान्वययोजना-यथा परां वाचमुत्तमकाव्यरूपतया काव्यात्मध्वनिसंज्ञां अभिधातात्पर्यलक्षणोत्तीर्णामुत्कृष्टां ।

देवीम्ऽदिवु क्रीटाविजिगीषाद्युतिस्तुतिव्यवहारमोदमदकान्तिस्वप्नगतिषुऽ इति यथायथं धाव्तर्थानामनुस्मरणात्शक्तिमतां कवीनां श्रोतृणां च स्वभावात्स्वेच्छया समुच्छलन्तीं क्रीडन्तीं ।

तथा देवीं द्योतमानां द्योतनध्वननयोः शब्दं तत्संकीर्तितं चार्थमुपसर्जनीकृत्य वर्नामानां ।

तथा देवीं द्योतमानां द्योतनघ्वननयोः पर्यायत्वाद्ध्वनिसंज्ञां ।

तथा देवीं स्तुत्यां सर्वैः काव्यात्मत्वादभिवन्द्यां ।

तथा देवीं व्यवहरन्ती सर्वत्र प्रचरितितां न तु क्वापि स्खलितां ।

तथा देवीं द्योतमानां श्रुतिमात्रेणैव परमानन्ददायिनीं ।

तथा देवीं माद्यन्तीं कवेः सहृदयस्य च यथायथं करणावबोधघाभ्यां कमप्यहङ्कारं जनयन्तीं ।

तथा देवीं कमनीयां सर्वैरभिलषणीयां ।

त्पिविधविग्रहां त्रिविधस्त्रिप्रकारो विग्रहो व्यतिरेकेण ग्राहो व्यतिरेकमूलः प्रमाकरणप्रकारो यस्यास्तां ।

तथा हिऽगङ्गायां घोषःऽ इत्यादिवाक्येषु घोषस्य यच्छैत्यपावनत्वादिकं प्रतीयते तत्र नाभिधा ।

गङ्गादिशब्दानां शैत्याद्यर्थस्यावाचकत्वात् ।

न तात्पर्यात्मा ।

तात्पर्यशक्त्या ह्याधाराधेयभघावावगमार्थं परस्परमन्वयमात्र एव क्षीणत्वात् ।

न लक्षणा ।

मुख्यार्थबाधादिहेतुत्रितयाभावात् ।

तस्मादभिधातात्पर्यलक्षणाव्यतिरिक्तचतुर्थकक्ष्यानिक्षित्पो व्यञ्जनव्यापिर इत्यादि सोऽयमेवाग्रे विमृष्यति ।

अथ चव्यङ्गयस्य शब्दार्थोभयमूलत्वेन प्रसिद्धस्त्रिविधो विशेषणानां विग्राहो विशेषणानां भेदानां ग्रहो यस्या इति वा ।

एतादृशीं तां नमस्कृत्य मङ्गलाचरणरूपत्वेन मनागुद्दिश्य न तु सूत्रवृत्तिभ्यां तात्पर्यकथनादिलक्षणपरीक्षाविस्तारेण निर्णीय निजालङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति ।

अस्याभिप्रायः-तथा च ध्वनेर्मनागुद्देशमात्रमेव करोतिऽइह हि तावद्भामह-ऽइत्यादिना ।

तदेवत्तावदास्तां ।

निजेति ।

परकीयाणां सूत्राणां सूत्रणां तात्पर्यकथनानवबोधोऽपि स्यादिति भावः ।

तथा न कैश्चिदपि परैरीद्दंशि सूत्राणि कृतानीत्यपि ध्वनितं ।

तात्पर्यमिति ।

संक्षित्पार्थप्रकाशनमित्यर्थः ।

अन्यथा हि कथनापि ग्रन्थेन पारं न यायात् ।

ननु -

ऽआदिवाक्ये प्रयोक्तव्यमभिधेयप्रयोजने ।

प्रतिपादयितुं श्रोतृप्रवाहोत्साहसिद्धयेऽ । ।

इति नीत्या श्रोतृप्रवृत्त्यर्थ सर्वत्रैवादिवाक्येऽभिधेयप्रयोजनाद्यभिधीयत्ते ।

तच्चेह नोक्तमिति कथमत्र श्रोतॄणां प्रवृत्तिः स्यात् ।

मैवं ।

अलङ्कारा ह्यत्राभिधेयाः ।

तेषामत्र साक्षादेवाभिधानात् ।

तदभिधायकं चेदमलङ्कारसर्वस्वाख्यं प्रकरणमित्यभिधानाभिधेययोर्नियमगर्भीकारेणार्थाक्षित्पो वाच्यवाचकभावलक्षणः संबन्धः ।

नह्येवंविधमेतभिधायकं प्रकरणान्तरमस्ति ।

तस्यान्विष्यमाणस्याप्युपलम्भयोग्यस्यानुपलम्भात् ।

अत एवात्रान्यालङ्कारग्रन्थवैलक्षण्योद्धोषणायऽतात्पर्यमुच्यतेऽइत्याद्युक्तं ।

अभिधेयाश्चात्रालङ्काराः काव्यालङ्कारा न लौकिका इत्येतेषां काव्योपस्कृतिद्वारेण पारम्पर्येण-

ऽकाव्यं यशसेर्ऽथकृते व्यवहारविदे शिवेतरक्षतये ।

सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजेऽ । ।

इत्याद्युक्तनीत्या तदविनाभावस्वभावत्वादर्थाक्षित्पसर्वपुरुषार्थसिद्धिरूपा चतुर्वर्गावात्पिः प्रयोजनं ।

तयोश्च साध्यसाधनभावलक्षणः संबन्धः ।

इति स्थितमेवादिवाक्यस्य श्रोतृश्रवणश्रद्धाविर्भावनिबन्धनत्वं ।


विमर्शिनी

० ।२ः

ननु यदीहालङ्कारा अभिधेयास्तर्हि तदलङ्कर्योऽप्य-भिधेयः ।

ऽअलङ्कारा अलङ्कार्यापेक्षाःऽ इति नीत्या स एवैषां को नाम यदुपस्कारकत्वेनैतत्स्वरूपमभिधीयत इत्याशङ्क्य तदवतरणिकामेव वक्तुमुपक्रमते-

इहेत्यादिना ।

____________________________________________________________

भूमिका

#<

इह हि तावद्भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः प्रतीयमानमर्थे वाच्योपस्कारकतयालङ्कारपक्षनिक्षित्पं मन्यन्ते ।

तथाहि-पर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेनऽस्वसिद्धये पराक्षेपःपरार्थे स्वसमर्पणम्ऽ इति यथायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः ।

रुद्रटेनापि भावालङ्कारो द्विधोक्तः ।

रूपकदीपकापह्नुतितुल्ययोगितादावुपमाद्यलङ्कारो वाच्योपस्कारकत्वेनोक्तः ।

उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता ।

रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः ।

तदित्थं त्रिविधमपि प्रतीयमानमलङ्कारतया ख्यापितमेव । [अ.स. भू.१]

>#


विमर्शिनी

[भू.१]ः

प्रभृतिना दण्ड्यादयः ।

तावच्छब्दो विप्रतिपत्त्यभावद्योतकः ।

चिरन्तनेत्यादि ।

ध्वनिकारमतमेभिर्न दृष्टमिति भावः ।

प्रतीयमानमिति ।

वाच्यव्यतिरिक्तत्वेन स्वसंवेदनसिद्धमपीकत्यर्थः ।

अर्थमिति ।

विश्रान्तिस्थानतया परमोपादेयतालक्षणं ।

वाच्योपस्कारकतयेतिष ।

वाच्योपस्कारकत्वं ह्यलङ्काराणामात्मभूतं ।

अलङ्कारपक्षनिक्षित्पमिति ।

समग्रालकारान्तर्भूतं न पुनस्तद्व्यतिरिक्तमित्यर्थः ।

मन्यन्त इति ।

तथात्वेन मन्यन्ते न पुनस्तथा संभवतीत्यर्थः ।

नह्यभिमननमात्रेणैव भावानामन्यथाभावो भवतीति भावः ।

एतदेव दर्शयति-तथाहीत्यादिना ।

तैर्वस्तुमात्रं गभ्यमानं वाच्योपस्कारकत्वेन प्रतिपादितमिति संबन्धः ।

वस्तुमात्रं न पुनरलङ्कारा रसश्च ।

स्वसिद्धय इति ।

ऽकुन्ताः प्रविशन्तिऽ इत्यादौ कुन्तैरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते ।

तैर्विना तेषां प्रवेशासिध्देः ।

ऽगङ्गायां घोषःऽ इत्यादौ तु गङ्गाशब्दः परत्रतटे घोषाधिकरणतासिद्धये स्वात्मानमर्पयति ।

स्वयं तस्य घोषाधिकरणत्वासंभवात् ।

यथायोगमिति ।

क्वचिद्धि वाच्योर्ऽथः स्वसिद्धये परं प्रतीयमानमर्थमाक्षिपति ।

क्वचिच्च स्वयमनुपपद्यमानः सन्प्रतीयमान एवार्थे स्वं समर्पयति ।

तेन यत्र यादृत्कत्र तादृगेव योज्यमित्यर्थः ।


विमर्शिनी

[भू.१अ]

तत्र पर्यायोक्तं यथा-

ऽअधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतरद्विशल्यां सौमित्रेरयमुपनिनायौषधिवनात् ।

इति स्मारं स्मारं त्वदरिवलभीचित्रलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः । ।

ऽअत्र राक्षसगणवृत्तान्तो वाच्यः सन्स्वसिद्धये परं कारणरूपमरिपलायनाद्याक्षिपति ।

तत्पलायनाद्यन्तरेण राक्षसवृत्तान्तस्यासंगतेः ।

अप्रस्तुतप्रशंसा यथा-

ऽप्राणा येन समर्पितास्तव वलाद्येन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि ।

तस्यास्य स्मितमात्रकेण जनयन्प्राणापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसेऽ । ।

अत्र वेतालचरितमप्रस्तुतं प्रकरणादिवशेन स्वयमनुपपद्यमानं सत्प्रस्तुते कृतघ्नवृत्तान्ते स्वं समर्पयति ।

समासोक्तिर्यथा-

ऽदन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे ।

दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानिऽ । ।

अत्र बोधिसत्त्वे नायकव्यवहारे न संभवतीति स्वसिद्ध्यर्थं नायकत्वमाक्षिपति ।

आक्षेपो यथा-

ऽकिं भणिमो भण्णै कित्ति अध किं वा इमेण भणिएण ।

भण्णिहिसि तहवि अहवा भणामि किं वा ण भणिओसिऽ । ।

(

ऽकिं भणमो भण्यते कियदिवाथ किं वानेन भणितेन ।

भणिष्यते तथाप्यथवा भणामि किंवा न भणितोऽसिऽ) । ।

अत्र वक्ष्यमाणविषयो भणननिषेधो वाच्यः सन्वक्तुमेवोपक्रान्तस्य निषेधानुपपत्तेः स्वयमविश्राम्यन्स्वात्मसमर्पणेन त्वां प्रति मरिष्यामि अथवा म्रिये यद्वा मृता यावदहमिति विधित्रयमर्थानतरमाक्षिपति ।

यत्त्वत्रान्यैःऽवाच्योर्ऽथः स्वसिद्धयेर्ऽथान्तरमाक्षिपतिऽइत्युक्तं तदयुक्तमेव ।

तथात्वे हि निषेध एव पर्यवसितः स्यान्न निषेधाभास इत्याक्षेपालङ्कार एव न स्यात् ।

ऽआमुखावभासमानो हि निषेधऽ आक्षेपलक्षणं ।

न च विधिनिषेधयोर्विरोधात्साध्यसाधनभावो युक्तः ।

व्याजस्तुतिर्यथा-

ऽइहिणं पदुणोपहुणो पहुत्तणं किं चिरन्तनपहूण ।

गुणदोसा दोसगुणा एहिं कऽ णहु कऽ तेहिंऽ । ।

(

ऽअधुना प्रभवः प्रभवः प्रभुत्वं किं चिरन्तनप्रभूणां ।

गुणदोषा दोषगुणा एभिः कृता न खलुः कृतास्तैःऽ) । ।

अत्र चिरन्तनानां निन्दा वाच्या सती स्वयमनुपपद्यमाना स्तुतावात्मानमर्पयति ।

तद्गतत्वेन वस्तुदर्शिताया निन्दाया असंभवात् ।

एवमद्यतनानामपि स्तुतिर्निन्दायामात्मानमर्पयति ।

तस्या अपि विपरीततया तद्गतत्वेनासंभवात् ।

यत्पुनरत्रान्यैः स्वसिद्धये पराक्षेपो व्याख्यातस्तदुपेक्ष्यमेव ।

यतोऽत्र चिरन्तनानां स्युत्याक्षेपेण एव पर्यवसितः स्यादिति नैतद्युक्तं ।

किं च लक्षणायामपि स्वसिद्धये पराक्षेपो न युक्तः ।

तथात्वे हिलक्षणायाः स्वरूपहानिः स्यात् ।

वाच्यलक्षणस्यैव स्वस्य सिद्धत्वान्मुख्यार्थबाधाभावात् ।

न चैकदा एकस्य बाधः सिद्धिश्चेति वक्तुं युक्तं ।

विप्रतिषिद्धं ह्येतत् ।

वाच्यस्यैव यद्यत्रसिद्धिस्तदभिधैव स्यान्न लक्षणा ।

तस्या हि मुख्यार्थबाध एव जीवितं ।

ऽकुन्ताः प्रविशन्तिऽ इत्यादौ च कुन्तानां स्वयं प्रवेष्टुमसंभवान्मुख्यार्थबाध एवेति परस्य कुन्तवद्रूपस्य लक्ष्यस्यैवार्थस्य प्राधान्यं ।

अतश्च लक्षणायां बाधितः सन्मुख्योऽर्थः परत्र लक्ष्य एव स्वं समर्पयतीत्येव युक्तं ।

ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिध्यर्थं परस्य लक्ष्यस्याक्षेपः प्रतीयत यतीत्येव युक्तं ।

ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिध्यर्थः परत्र लक्ष्य एव स्वं समर्पयतीत्येव युक्तं ।

ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिध्यर्थं परस्य लक्ष्यस्याक्षेपः प्रतीयत इति तत्र किं प्रतिपत्तव्यं ।

इदं प्रतिपत्तव्यम्-अत्र हि लक्षणाया एव नावकाशः ।

तत्र हि कथमहं स्यामिति वाच्यं सत्कार्यं तदविनाभावात्परं कारणमाक्षिपतीत्याक्षेपेणैव सिद्धेस्तस्या अनुपयोगः ।

ऽगौरनुबन्ध्यःऽइत्यत्र यथा कथं मे श्रुतिचोदितमनुबन्धनं स्यादिति जात्या व्यक्त्यविनाभावाद्व्यक्तिराक्षिप्यते नतु लक्ष्यते तथैवात्रापि कार्चकारणयोर्ज्ञेयं ।

एवं समासोक्तावपि नायकव्यवहारस्तदविनाभावित्वादेव नायकत्वमाक्षिपतीत्चत्रापि लक्षणामूलत्वं नाशाङ्कनीयं ।

अन्थकृता पुनरेतञ्चिरन्तनमतानुवादपरतयोक्तं ।

अस्माभिस्तु प्रसङ्गाद्वस्तु पर्यालोचितमित्यलं बहुना ।


विमर्शिनी

[भू.१ब्]

उपमेयोपमा यथा-

ऽरजोभिः स्यन्दनोद्धतैर्गजैश्च घनसंनिभैः ।

भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्ऽ । ।

अत्र द्वयोः परस्परमुपमानोपमेयत्वं वाच्यं सत्स्वयमनुपपद्यमानमुपमानान्तरविहलक्षणे परत्र वस्त्वन्तरे स्व समर्पयति ।

अनन्वयो यथा -

ऽभवानिव भवानेव भवेद्यदि परं भच ।

स्वशक्तिव्यूहसंव्यूढत्रैलोक्यारम्भसंहृतिःऽ । ।

अत्रैकस्यैवोपमानोपमेयभावो वाच्यः सन्द्वितीयमब्रह्मचजार्यभावे परत्र वस्त्वन्तरे स्वं समर्पयति ।

आदिशब्दः प्रकारे ।

तेनानिष्टविध्याभासाक्षेपादेर्ग्रहणं ।

यथा-

ऽभवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विविस्तु पराङ्मुखः ।

तव यदि तथा रुढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नो व्रीडा गते हतजीवितेऽ । ।

अत्र कान्तप्रस्थानविधिर्वाच्यः सन्निषेद्धमेवोपक्रान्तत्य विधानानुपपत्तेः स्वयमविश्रान्तः स्वसमर्पणेन निषेधमाक्षिपति ।

एवं द्विविधया भङ्ग्या गम्यमानं वस्तुमात्रं वाच्योपरस्कारकमेवोत्युक्तं ।

एवमपि प्रतीयमानस्यार्थस्य विविक्तविषयान्तरोपालम्भादलङ्कारान्तर्भावो न सिध्यतीत्याशङ्क्याह-रुद्रटेनेत्यादि ।

द्विधेति ।

गुणीभूतागुणीभूतवस्तुविषयत्वेनेत्यर्थः ।

यदाह-

ऽयस्य विकारः प्रभवन्नप्रतिबद्धेन हेतुना येन ।

गमयति तदभिप्रायं तत्प्रतिबन्धं च भावोऽसौ । ।

ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरं ।

पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया । ।

अभिधेपमभिदधानं तदेव तदसदृशगुणदोषं ।

अर्थान्तरमवगमयति यद्वाक्यं सोऽपरो भावः । ।

एकाकिनी यदबला तरुणी तथाहमस्मद्गृहे गृहपतिः स गते विदेशं ।

कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थऽ । ।

इति । ।

यद्वा द्विधेति पूर्ववदेव लक्षणाद्वयाश्रयेण व्याख्येयं ।

तेनाद्ये स्वसिद्धये पराक्षेपः

,

परत्र तु अपरार्थं स्वसमर्पणं ।

यत्त्वत्रान्यैर्भावैर्निर्वेदादिभिरुपलक्षितो वाच्यप्रतीयमानत्वेन द्विविधा भावालङ्कारो व्यख्यातस्तुदुत्सूत्रमेव ।

रुद्रटेन तथात्वेन तस्याप्रतिपादनात् ।

तत्रापि च वस्तुमात्रस्य वाच्योपस्कारकत्वाभिधानसमये वक्तुमुचितत्वात् ।

तदेवं गुणीभूतागुणीभूतत्वेन द्विप्रकारं वस्तु तावद्वाच्योपस्कारकत्वेन प्रतिपादितं ।


विमर्शिनी

[भू.१च्]

इदानीमलङ्कारस्यापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रतिपादयति-रूपकेत्यादिना ।

तत्र रूपक यथा -

ऽभूमभ्रुकुटिपन्नगीफणमणिः कायस्य चण्डं चिता- कुण्डं कुण्डलितेन्दुनालवलयप्रभुंशि रक्तोत्पलं ।

घ्राणस्फाटिकमल्लिकापरिचिते भालाग्रशालाजिरे- दीप्रा दीपशिखा शिवस्य नयनं कार्शानवं पातु नःऽ । ।

अत्र नयनादीनां मणिप्रभृतीनां चोपमा वाच्योपस्कारायावगम्यते ।

तां विना सादृश्याप्रतिपत्तेः ।


विमर्शिनी

[भू.१द्]

दीपकं यथा-

ऽपाउअबन्धं पढिउंवन्धेउं तहा कुज्जकुसुमाइ ।

पोढमहिलं अ रमिउं विरलच्चिअ के वि जाणन्तिऽ । ।

अत्रक प्राकृतबन्धपाठादेरुपमा वाच्योपस्कारायावगम्यते ।

प्रकृतस्य प्रौढमहिलारमणादेः सादृश्योपादानायैवोभयोरुपनिबन्धनात् ।

अपह्नुतिर्यथा-

ऽद्वगुणितादुपधानभुजाच्छिरः पुलकितादुरसः स्तनमण्डलं ।

अधरमर्धसमर्पितमाननाद्व्यघटयन्त कथञ्चन योषितःऽ । ।

अत्र भुजादीनां सादृश्यावगमादुपमा वाच्योपस्कारायावगम्यते ।

तुल्ययोदितादावित्यादिशब्दान्निदर्शनादेर्ग्रहणं ।

उपमादीत्यादिशब्दादुपमेयोपमादीनां ।

तत्तु यथा -

ऽप्रवातनीलेत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।

तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिःऽ । ।

अत्र वाच्याया निदर्शनाया उपस्कारत्वेनोपमेयोपना गम्यते ।

तामन्तरेणासंभवद्वस्तुसंबन्धत्वेन वाच्यस्याविश्रान्तेः ।

अतश्चात्रालङ्कारो गम्यमानः स्थितो न वस्तुमात्रं ।

तेन पूर्वत्र यदादिग्रहणं सफलयितुमन्यैरेतदुदाहृतं तदयुक्तमेव ।

तत्र वस्तुमात्रस्य वाच्योपस्कारकत्वेन प्रतिपिपादयिषितत्वात् ।

वाच्योपस्कारकत्वेनोत्प्रेक्षा कथितेतिसमन्वयः ।

सा तु -

ऽमहिलासहस्सभरिए तुय हिअए सुहा सा अमायन्ती ।

दिअहं अणण्णाम्मा अङ्गं तणुअं पि तणुएइऽ । ।

इति ।

(

ऽमहिलासहस्त्रभरिते तव हृदये सुभग! सा अन्तीमा ।

दिवसमनन्यकर्मा अङ्गं तनुकमपि तनूकरोतिऽ) । ।

तदित्थमलङ्कारोऽपि प्रतीयमानो वाच्यशोभाहेतुत्वेनोक्तः ।


विमर्शिनी

[भू.१ए]

अधुना रसस्यापि वाच्योपस्कारकत्वं दर्शयितुमाह-रसवदित्यादि ।

प्रभृतिशब्दादूर्जस्व्यादयः ।

आदिशब्दाच्च तदाभासादयः ।

तत्र रसवदलङ्कारो यथा-

ऽकृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता ।

मद्दृश्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचनेऽ । ।

अत्र वत्सराजस्य परस्परास्थाबन्धरूपो रत्याख्यः स्थायिभावो विभावानुभावव्यभिचारिसंयोगाद्रसीभूतः सन्वाच्योपस्कारकः ।

तत्संवलितत्वेन वाच्यस्य सचमत्कार प्रतिपत्तेः ।


विमर्शिनी

[भू.१फ़्]

प्रेयोलङ्कारो यथा-

ऽतिष्ठोत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।

तां हर्तुं विवुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिःऽ । ।

अत्र वितर्काख्यो व्यभिचारिभावो वाच्यशोभाधायक एव ।


विमर्शिनी

[भू.१ग्]

ऊर्जस्व्यलङ्कारो यथा-

ऽहग्लीलासु सकौतुकं यदि मनस्तन्मे दृशां विंशति- र्निःसंधौ परिरम्भणे रतिरथो दोर्मण्डली दृश्यतां ।

प्रीतिश्चेत्परिचुम्बने दशमुखी वैदेहि!सज्जा पुरः पौलस्त्यस्य च राघवस्य च महत्पश्योपचारान्तरम्ऽ । ।

अत्र सीतां प्रति रावणस्य रतिरनोचित्येन प्रवृत्तेति रसाभासो वाच्योपस्कारकः ।

अन्यत्तु स्वयमभ्यूह्यं ।


विमर्शिनी

[भू.१ह्]

एतदेवोपसंहरति-तदित्थमित्यादिना ।

त्रिविधमिति ।

पर्यायोक्तादौ वस्तु

,

रूपकादावलङ्कारः

,

रसवदादौ रसः ।

तदेवं चिरन्तनैः प्रतीयमानस्यालङ्कारान्तर्भाव एव तावदुक्तः ।

तदुपस्कार्यः पुनरात्मा कैश्चिदपि नाभ्युपगतः ।

#<

वामनेन तु सादृश्यनिबन्धनाया लक्षणाय वक्रोक्त्यलङ्कारत्वं ब्रुवता कश्चिद्ध्वनिभेदोऽलङ्कारतयैवोक्तः ।

केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता ।

उद्भटादिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितं ।

विषयमात्रेण भेदप्रतिपादनात् ।

संघटनाधर्मत्वेन चेष्टेः ।

तदेवमलङ्कारा एव काव्ये प्रधानमिति प्राच्यानां मतं । [अ.स. भू.२]

>#


विमर्शिनी

[भू.२]ः

वामनेन प्रतीयमानस्यालङ्कारान्तर्भावमभिदधतापि तदुपस्कार्यं आत्मा कश्चिदुक्त इत्याह-वामनेनेत्यादि ।

तुशब्दः पूर्वेभ्यो व्यतिरेकद्योतकः ।

आत्मनोऽपि प्रतिपादकत्वात् ।

ब्रुवतेति ।

यदाह-ऽसादृश्याल्लक्षणा वक्रोक्तिःऽ इति ।

एतदेवोदाजहार चऽउन्मीमीलकमलं सरसीनां कैरवं च निमिमील मुगुर्तम्ऽ इति ।

कश्चिद्ध्वनिभेद इति ।

ऽअविवक्षितवाच्यादिःऽ ।

केवलमिति ।

यदि परमित्यर्थः ।

गुमेति ।

यदाह-ऽविशिष्टा पदरचना रीतिःऽ इति ।

काव्यात्मकत्वेनेति ।

यदाह-ऽरीतिरात्मा काव्यस्येऽति काव्यत्वेभ्युपगताया रीतेःऽतदतिशयहेतवस्त्वलङ्काराःऽ इत्याद्युक्त्यान्तर्भावितध्वनयोऽलंङ्कारा उपस्कारका इत्येतन्मतं ।


विमर्शिनी

[भू.२अ]ः

अन्यैः पुनरेतदपि प्रत्युक्तमित्याह-उद्भटादिभिरित्यादिना ।

प्रायश इति ।

बाहुल्येनेत्यर्थः ।

विषयमात्रेणेति ।

भिन्नकक्ष्याणां ह्युपस्कार्योपस्कारकत्वस्यानुपपत्तेः ।

तथात्वे चालङ्कारामपि गुणोपस्कार्यत्वं प्रसज्यते ।

समानन्यायत्वात् ।

तद्गुणालङ्काराणां तुल्यत्ववादिन एवौद्भटाः ।

इत्थमनेन वाच्याश्रयाणामलङ्काराणां मध्य एव ध्वनेरन्तर्भावादिभिधाव्यापारगोचर एव ध्वनिः

,

न पुनस्तद्व्यतिरिक्तः कश्चिद्ध्वनिर्नामेतिचिरन्तनानां मतमित्युक्तं ।

इदानीं यदप्यन्यैरस्य भक्त्यन्तर्भूतत्वमुक्तं तदपि दर्शयितुमाह-वक्रोक्तीत्यादि ।

#<

वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रोक्तिमेवप्राधान्यात्काव्यजीवितमुक्तवान् ।

व्यापारस्य प्राधान्यं च [काव्यस्य] प्रतिपेदे ।

अभिधानप्रकारविशेषा एव चालङ्काराः ।

सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः ।

उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः ।

केवलमुक्तिवैचित्र्यजीवितं काव्यं

,

न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितं । [अ.स. भू.३]

>#


विमर्शिनी

[भू.३]ः

वैदग्ध्येत्यनेन वक्रोक्तेः स्वरूपमुक्तं ।

यदाह-ऽवक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यत्ऽ इति ।

एवकारोऽन्यस्य काव्यजीवितत्वव्यवच्छेदकः ।

काव्यजीवितमिति काव्यस्यानुप्राणकं ।

तां विना काव्यमेव न स्यादित्यर्थः ।

यदाह-विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायतेऽइति ।

व्यापारस्येति कविप्रतिभोल्लिखितस्य कर्मणः ।

कविप्रतिभानिर्वर्तितत्वमन्तरेण हि वक्रोक्तिरेव न स्यादिति कस्य जीवितत्वं घटत इति तदनुषक्तमेवान्वास्यात्र प्राधान्यं विवक्षितं ।

अतश्च द्वयोः प्राधान्यस्य दुर्योजत्वमत्र नाशङ्कनीयं ।


विमर्शिनी

[भू.३अ]ः

अलङ्कारा इति ।

तेनोक्त इति शेषः ।

एवकारश्चिरन्तनोक्तध्वनिप्रकारविशेषन्यवच्छेदकः ।

सत्यपीति ।

सदपि प्रतीयमानमनादृत्येत्यर्थः ।

व्यापाररूपेति वक्रस्वभावेत्यर्थः ।

भणितिरित्युक्तिः कवीति ।

तत्रैव कविः संरब्ध इत्यर्थः ।

तत्संरम्भमन्तरेण हि वक्रोक्तिरेव न चारेत्यादि ।

उपचारवक्रतादीनामेव मध्ये ध्वनिरन्तर्भूत इति तात्पर्यार्थः ।

यदाह-

ऽयत्र दूरान्तरेऽन्यस्मात्सामान्यमुपचर्यते ।

लेशेनापि भवेत्कर्तुं किञ्चिदुद्रिक्तवृत्तिताम्ऽ । ।

यन्मूला सरसोल्लेखा रूपकादिरलङ्कृतिः ।

उपचारप्रधानासौ वक्रता काचिदिष्यतेऽ । ।

इति ।

एतामेवोदाजहार च-

ऽगाणं च मत्तमेहं धारालुलिअज्जुणाइं अ वणाइं ।

निरहङ्कारमिअङ्को हरन्ति नीलॉं अ णिसॉऽ । ।

(

ऽगगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि ।

निरहङ्कारमृगाङ्का हरन्ति नीलाश्च निशाःऽ) । ।

अत्र मदनिरहङ्कारत्वे औपचारिके इत्युपचारवक्रता ।

आदिपदेन क्रियावक्रतादीनामपि ग्रहणं ।

एवं सर्वोऽपि ध्वनिप्रपञ्चो वक्रोक्तिभिरेव स्वीकृतः सन्स्थित एव ।

यदि परं तस्य प्राधान्यमेव नास्तीत्याह-कवेलमित्यादि ।

तदीयमिति ।

वक्रोक्तिजीवितकारसंबन्धीत्यर्थः ।

तदित्थं लक्षणामूलवक्रोक्तिमध्यान्तर्भावाद्ध्वनेरेव तत्त्वं प्रतिपादितं ।


विमर्शिनी

[भू.३ब्]ः

कैश्चिदप्यस्य वागविषयत्वादलक्षणीयत्वमुक्तमित्याह- भट्टनायकेत्यादि ।

#<

भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यंशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तं ।

तत्राप्यभिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायोव्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः । [अ.स. भू.४]

>#


विमर्शिनी

[भू.४]ः

प्रौढोक्त्येति ।

न पुनर्लक्षणकरणेन ।

अत एवोक्तेः प्रौढत्वं यल्लक्षयितुमशक्यैस्तस्याप्यभ्युपगमः ।

काव्यांशत्वमिति न पुनः काव्यात्मत्वं ।

यदाह-

ऽध्वनिर्नामापरो योऽपि व्यापारो व्यञ्जनात्मकः ।

तस्य सिद्धेऽपि भेदे स्यात्काव्यांशत्वं न रूपिताऽ । ।

इति ।

व्यापारस्येति ।

कविकर्मणः ।

अन्यथा शब्दप्रधानेभ्यो वेदादिभ्योर्ऽथप्रधानेभ्यश्चेतिहासादिभ्यः काव्यस्य वैलक्षण्यं न स्यात् ।

तदुक्तम्-

ऽशब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः ।

अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः । ।

द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यधीर्भवेत्ऽ । ।

इति ।

तत्रापीति ।

कविकर्मरूपस्य व्यापारस्य प्राधान्ये सत्यपीत्यर्थः ।

ऽअभिधा भावना चान्या दद्भोगीकृतिरेव चऽ इति काव्यं तावत्त्र्यंशं तेनोक्तं ।

तत्रापि-

ऽतात्पर्याशक्तिरभिधा लक्षणानुमिती

,

द्विधा ।

अर्थापत्तिः क्वचित्तन्त्रं समासोक्त्याद्यलङ्कृतिःऽ । ।

ऽरसस्य कार्यता भोदो व्यापारान्तरबाधनं ।

द्वादशेत्थं ध्वनेरस्य स्थैता विप्रतिपत्तयःऽ । ।

इति ।

नीत्या बहवो विप्रतिपत्तिप्रकाराः संभवन्ति

,

तथापि

ऽकाव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्व- स्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये ।

केचिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयम्ऽ- इत्युक्तनीत्यैव ध्वनेर्विप्रतिपत्तिप्रकारन्नयमिह प्राधान्येनोक्तं ।


विमर्शिनी

[भू.४अ]ः

एवमिदानीमेतद्विप्रतिपत्तिप्रकारत्रयं निराकुर्वन्ध्वनेरेव काव्यात्मत्वं साधयति- ध्वनिकार इत्यादिना ।

#<

ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाद्व्यापारस्य च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्याङ्ग्यरूपस्य गुणालङ्कारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिध्दान्तितवान् ।

व्यापारस्य विषयमुखेन स्वरुण्प्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विचार्यत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वं ।

तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः

,

यस्य गुणालङ्कारकृतचारुत्वपरिग्रहसाभ्राज्यं ।

रसादयस्तु जीवितभूता नालङ्कारत्वेनवाच्याः ।

अलङ्काराणामुपस्कारकत्वाद्

,

रसादीनां च प्राधान्येनोपस्कार्यत्वात् ।

तस्माद्व्यङ्ग्य एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः ।

व्यञ्जनव्यापारस्य सर्वैरनपह्नुतत्वात्तदाश्रयेण च पक्षान्तरस्याप्रतिष्टानात् । [अ.स. भू.५]

>#


विमर्शिनी

[भू.५]ः

समयापेक्षार्थावगमशक्तिरभिधा ।

सामान्यानां परस्परान्वितत्वेन विशेषार्थावबोधनशक्तिस्तात्पर्यं ।

मुख्यार्थबाधादिसहकार्यपेक्षार्थंप्रतिभासनशक्तिर्लक्षणा ।

एतद्व्यापारत्रयादुत्तूर्णस्य तदतिरिक्तस्येत्यर्थः ।

तथा चऽगङ्गायां घोषःऽ इत्यत्र गङ्गाशब्दो घोषशब्दश्च सामान्यात्मके जलप्रवाहे गृहनिकुरम्बे च संकेतितौ ।

सामान्य एवोद्योगात् ।

विशेषस्य हि संकेतकरणे आनन्त्यं व्यभिचारश्च स्यात् ।

ततश्चाभिधया जलप्रवाहमात्रं गृहनिकुरम्बमात्रं च प्रतीतिमित्येका कक्ष्या ।

एतत्प्रतिपाद्यान्यप्रतिपादनायाप्यभिधा न समर्था ।

ऽविशेष्यं नाभिधा गच्छेत्क्षीणशत्किर्विशेषं गमयन्ति हिऽ इति न्यायात्तात्प्रर्यशक्त्या सामान्यान्याधाराधेयभावेनावस्थितं विशिष्टं गङ्गाघोषाद्यागूरयन्तीति तात्पर्येण परस्परान्वितत्वमात्रमेव प्रतीयत इति द्वितीया ।

जलप्रवाहस्य च घोषाधिकरणत्वमयुक्तमिति प्रमाणान्तरबाधितः सन्गङ्गाशब्दस्तदधिकरणयोग्यं तटं लक्षयतीति तृतीया ।

तत्र तावत्ऽमुख्यार्थबाधे तद्योगे रुढितोऽथ प्रयोजनात् ।

अन्योर्ऽथो लक्ष्यते यत्सा लक्षणाऽरोपिता क्रियाऽ । ।

इति । ।

नीत्या लक्षणा त्रितयसंनिधावेव भवति ।

तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमाणान्तरमूला ।

यश्च सामीप्यादिसंबन्धः स च प्रमाणान्तरावगम्य एव ।

यत्पुनरिदं घोषस्य शेत्तयपावनत्वादिलक्षणं प्रयोजनं प्रतीयते तच्छब्दान्तरानुक्तं प्रमाणान्तराप्रतिपन्नं च कुत आगतं ।

न तावत्प्रत्यक्षादेव तत्प्रतीतिः

,

अस्मादेव शब्दादवगमासिद्धेः ।

शब्दार्थे च तस्याप्रवृत्तेः ।

नाप्यनुमानात् ।

सामीप्येऽपि शैत्यपावनत्वादेरसंभवादनैकान्तिकत्वात् ।

न स्मृतिः ।

तदनुभवाभावात् ।

सत्यमपि वा तस्यां नियमस्मरणं न स्यात् ।

अस्मादेव च शब्दादेतदेव बुध्यत इति को हेतुः ।

तस्मादस्यैव शब्दस्यैष व्यापारोऽभ्युपगन्तव्यः ।

निर्व्यापारस्यार्थप्रतीतिकारित्वाभावात् ।

स तावन्नाभित्मा ।

समयाभावात् ।

न तात्पर्यात्मा ।

तस्यान्वयप्रतीतावेव परिक्षयात् ।

न लक्षणात्मा ।

मुख्यार्थबाधाद्यभावात् ।

तस्मादभिधातात्पर्यलक्षणाव्यक्तिरिक्तश्चतुर्थकक्ष्यानिक्षित्पो व्यङ्ग्यनिष्टोव्यञ्जनाव्यपारोऽभिहितान्वयवादिनावश्याभ्युपगन्तव्यः ।

अन्विताभिधानवादिनापि यत्परः शब्दः स शब्दार्थ इति शरवदभिधाव्यापारमेव दीर्घदीर्घमिच्छतापि नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इति निमित्तपरिकल्पनेऽपि समग्रैवेयं प्रक्रियानुसारणीयेवेत्युभयथापि सिद्ध एव व्यञ्जनव्यापारः ।

एवच्च गहनगहनमिति मनगेव सिद्धरसन्यायेनेहोक्तं ।


विमर्शिनी

[भू.५अ]ः

आदिशब्दात्प्रत्यायनावगमनादीनामपि ग्रहणं ।

अवश्येति ।

तेन विना व्यङ्ग्यस्यार्थत्त्यासंग्रहणात् ।

व्यापारस्येति ।

व्यञ्जनात्मिकायाः क्रियाया इत्यर्थः ।

सा खलु साध्यमानत्वेन पूर्वापरीभूतावयवत्वान्न स्वरूपेणोपलभ्यत इति विचारपदविमेव स्वयमुपारोढुं नोत्सहत इति कथं नाम तस्या वाक्यार्थत्वं स्यादिति भावः ।

यद्वक्ष्यति-ऽव्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विचार्यत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम्ऽ इति ।

उपस्कर्तव्यत्वेनेति ।

तत्परतयावस्यानेनेत्वथः ।

यदुक्तम्-

ऽवाच्यवाचकचारुत्वहेतूनां विवधात्मनां ।

रसादिपरता यत्र स ध्वनेर्विषयो मतःऽ । ।

इति । ।

अत एव विश्रान्तिधामत्वादित्युक्तुं ।

आत्मत्वमिति ।

सारभूतत्वमित्यर्थः ।

आतश्च तेन विना काव्यं काव्यमेव न स्यादिति तात्पर्यं ।

नहि निर्जीवं शरीरं क्वाप्युपयुक्तं ।

ननु यद्येवं दर्हिऽगङ्गायां घोषःऽ इत्यत्रापि व्यङ्ग्यस्य सद्भावात्काव्यत्वं प्रसज्यते ।

नैतत् ।

इह यद्वदात्मनो व्यापकत्वाच्छरीरे घटादौ वर्तमानत्वेऽपि करणादिविशिष्टे शरीरे एव जीवव्यवहारो न घटादौ

,

तद्वदस्यापि विवधगुणालङ्कारौचित्यचारुशब्दार्थशरीरगतत्वेनैवात्मत्वव्यवहारो नान्यत्रेति न कश्चिद्दोषः ।

ननु च सर्वत्र क्रियाया एव प्राधान्यं प्रसिद्धम्

,

इह पुनर्विषयस्योक्तमिति किमेतदित्याशङ्कक्याह-व्यापारस्येत्यादि ।

विषयमुखेनेति ।

यथा द्योदनादेर्विक्लित्त्यामिति किमेवदित्याशङ्कायाह-व्यपारस्येत्यादि ।

विषयमुखेनेति ।

यथा ह्योदनादेर्विक्लित्त्यययादिमुखेन पाकादेः क्रियायाः स्वरूपोपल्लम्भः ।

तत्प्राधान्येनेति ।

विषयप्रधानत्वेनेत्यर्थः ।

तेन व्यापारस्य प्राधान्यमुपचरितमिति भावः ।

स्वरूपेणोति ।

स्वरूपं हि तस्य साध्यमानत्वादि विचारवितुमशक्यं ।

सिध्दस्य हि विचारा भवतीति भावः ।

एवकारो व्यञ्जनव्यापारव्यवच्छेदकः ।

समग्रेति ।

समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः ।

एतदेवोपसंहरति-तत्सादित्यादिना ।

यस्येति ।

व्यङ्ग्यनाम्नो रसाच्चामनो विषयस्य ।

गुणालङ्कार कृत-रुत्वेति ।

गुणानां-

ऽवाच्यवाचकचारुत्वहेतूनां विविधात्मनां ।

रसादिपरता यत्र स ध्वनेर्विषयो मतःऽ । ।

इति । ।

अत एव विश्रान्तिधामत्वादित्युक्तं ।

आत्मत्वमिति ।

सारभूतत्वमित्यर्थः ।

अतश्च तेन विना काव्यं काव्यमेव न स्यादिते तात्पर्यं ।

नहि निर्जूवं शरीरं काप्युपयुक्तं ।

ननु यद्येवं तर्हिऽगङ्गायां घोषःऽ इत्यत्रापि व्यङ्यस्य सद्भावात्काव्यत्वं प्रसज्यते ।

नैतत् ।

इहयदूदात्मनो व्यापकत्वाच्छ्ररीरे घटादौ वर्त्तमानत्वेऽपि करणादिविशिष्टे शरीर एव जीवव्यवहारो न घटादौ

,

तद्वदस्यापि विविधगुणालङ्कारौचित्यचारुशब्दार्थशरीरगतत्वेनैवात्मत्वव्यवहारो नान्यत्रेति न कश्चिद्दोषः ।

ननु च सर्वत्र क्रियाया एव प्राधान्यं प्रसिद्धम्

,

इह पुनर्विषयस्योक्तमिति किमेतदित्याशङ्क्याह-व्यापारस्येत्यादि ।

विषयमुखेनेति ।

यथा ह्योदनादेर्विक्लित्त्यादिमुखेन पाकादेः क्रियायाः स्वरूपोपलभ्भः ।

तत्प्राधान्येनेति ।

विषयप्रधानत्वेनेत्यर्थः ।

तेन व्यापारस्य प्राधान्यमुपचरितमिति भावः ।

स्वरूपेणेति ।

स्वरूपं हि तस्यसाध्यमानत्वाद्विचारयितुमशक्यं ।

सिद्धस्य हि विचारा भवतीति भावः ।

एवकारो व्यञ्जनव्यापारव्यवच्छेदकः ।

समग्रेति ।

समग्रस्य हि विचारा भवतीति भाव ।

एवकारो व्यञ्जनव्यापारव्यवच्छेदकः ।

समग्रेति ।

समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः ।

एतदेवीपसंहरति-तत्स्मादित्यादिना ।

यस्येति ।

व्यङ्ग्यनाम्नो रसाद्यत्मनो विषयस्य ।

गुणालङ्कारकृत- एत्वेति ।

गुणानां-

ऽये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।

उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाःऽ । ।

[

का. प्र. ८] इत्यादिनीत्या साक्षादेव तद्धर्मत्त्वात् ।

अलङ्कारणामपि-

ऽउपकुर्वन्तु तं सन्तं येऽङ्गद्वारेण जातुचित् ।

हारादिवदलङ्कारास्तेऽनुप्रासोपमादयःऽ । ।

[

का. प्र. ८] इत्यादिनीत्या शब्दार्थलक्षणाङ्गातिशयद्वारेण तदुपस्कारकत्वात् ।

अलङ्काराणां च रसादिरूपं ध्वञ्ज्यमर्थमलङ्कुर्वतां मुख्यया वृत्त्यालङ्काकरत्वम्

,

अलङ्कार्यसद्भावनिबन्धनत्वात्तस्य

,

रसाद्यात्मन एव च व्यङ्ग्यस्यालङ्कार्यत्वेन प्रतिष्ठानात् ।

अत एव च यत्रस्फुटव्यङ्ग्यार्थरहितत्वं तत्रऽगुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मताऽ[का.प्र.८] इत्यादिनीत्या शब्दार्थमात्रनिबन्धनत्वेनोक्तिवैचित्र्यमात्रपर्यवसितत्वादेषां गौणमलङ्कारत्वं ।

यदभिप्रायेणैव च चित्राख्यकाव्यभेदप्रकारत्वमलङ्काराणां निरूपयिष्यते ।

अत एवानुप्रासादयोऽलङ्काराश्चित्रभित्याद्यन्यैरुक्तं ।

स च प्रतीयमानोर्ऽथो यद्यपि वस्त्वलङ्काररसत्वेन त्रिविधः

,

तथापि [तेन विना काव्यात्मत्वाभावात्] मुख्यत्वेन रसत्यैवात्मत्वं युक्तं ।

अतश्च वस्त्वलङ्कारयोक्यदलङ्कारपक्षनिक्षित्पत्वमन्यैरुक्तं तत्तावदास्ताम्

,

काव्यात्मनो रसस्य पुनरलङ्कारत्वमत्यन्तमेवावाच्यमित्याह-रसादय इत्यादि ।

आदिग्रहणाद्भावतदाभासादीनां ग्रहणं ।

न वाच्या इति ।

वस्तुमयुक्ता एवेत्यर्थः ।

अलङ्कार्यंस्यालङ्कारत्वानुपपत्तेः ।

तस्य चालङ्कारत्वकथनेऽलङ्कार्यान्तरं प्रसज्यते ।

तेन विनालङ्काराणामनुपपत्तेः ।

एतदेवोपसंहरति-तस्मादित्यादिना ।

व्यङ्ग्य इति रसादिरूपः ।

तस्यैवोपक्रान्तत्वात् ।

वाक्यार्थीभूत इति ।

अवाक्यार्थीभूतस्तु रसादिरलङ्कारोऽपि स्यात् ।

यदुक्तं -

ऽप्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।

काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिःऽ । ।

इति । ।

एतच्च रसवदाद्यलङ्कारप्रस्ताव एव निर्णेष्यामः ।

इतिशब्दः प्रमेयपरिसमात्पौ ।

एतदेव युक्तमित्याह-एष एवेत्यादि ।

सर्वैरिति ।

अवाक्यार्थविद्भिरसहृदयप्रायैरित्यर्थः ।

पक्ष्यान्तरस्येति ।

तत्र तावद्वाच्यवाचकमात्राश्रयिणामलङ्काराणां मध्ये व्यङ्ग्यव्यञ्जकभावसमाश्रयेण व्यवस्थितत्वादस्यान्तर्भावो न युक्तः ।

यदुक्तम्-

ऽवङ्ग्यव्यञ्जकसंबन्धनिबन्धनतया ध्वनेः ।

वाच्यवाचकचारुत्वहेत्वन्तः पतिता कुतःऽ । ।

इति । ।

लक्षणायामप्यस्यान्तर्भावो न युक्तः ।

तदसद्भावेऽस्य सद्भावात्तत्सद्भावे चास्यामद्भावात् ।

यदुक्तम्-ऽअतिव्यात्पेरथाव्यात्पेर्न चासौ लक्ष्यते तयाऽ इति ।

नाप्यस्यालक्षणीयत्वं युक्तं -

ऽयत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।

व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितःऽ । ।

इति । ।

तदित्थमेतद्विप्रतिपत्तित्रयस्याप्रतिष्टानमुपपादितं ।


विमर्शिनी

[भू.५ब्]ः

इदानीमन्येऽपि यः कश्चिद्विप्रतिपत्तिप्रकारः कैश्चिदुक्तः सोऽपि नोपपद्यते इत्याहुयत्त्वित्यादि ।

#<

यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गतया व्यञ्जनस्यानुमानान्तर्भावमाख्यत्तद्वाच्यस्य प्रतीयमानेन सह तादाप्म्यतदुत्पत्त्यभावादविचारिताभिधानं ।

तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनमिति नेह प्रतन्यते । [अ.स. भू.६]

>#


विमर्शिनी

[भू.६]ः

ध्वनिकारानन्तरभावी व्यक्तिविवेककार इति तन्मतमिह पश्चान्निर्दिष्टं यद्यपि वक्रोक्तिजीवितहृदयदर्पणकारावपि ध्वनिकारान्तरभानावेव

,

तथापि तौ चिरन्तरमतानुयायिनावेति तन्मतं पूर्वमेवोद्दिष्टं ।

अनेन पुनरेतत्स्वोपज्ञमेवोक्तं ।

अनुमानन्तर्भावमिति ।

अनुमानरूपत्वमेवेत्यर्थः ।

आख्यदिति ।

यदाह-

ऽवाच्यस्तदनुमतो वा यत्रार्थोर्ऽथान्तरं प्रकाशयति ।

संबन्धतः कुतश्चित्सा काव्यानुमितिरित्युक्ताऽ । ।

इति । ।

अविचारिताभिधानमिति ।

इह लिङ्गलिङ्गिनोस्तादात्म्यतदुत्पत्तिभ्यामेव तावत्प्रतिबन्धो निश्चीयते ।

तन्निश्चयेनैव च साध्यसिद्धिः ।

अन्यथा हि साध्यसिद्धिर्नस्याद्व्यभिचारात् ।

तत्र तादात्म्यं यथा कृतकत्वानित्यत्वयोः ।

तदुत्पत्तिर्यथा वह्निधूमयोः ।

वाच्यप्रतीयमानयोःपुनस्तादात्म्यतदुत्पत्ती न स्तः ।

तथाहि-

ऽनिःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।

मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपूडागमे वापूं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्ऽ । ।

इत्यत्र विधिना निषेधो निषेधेन वा विधिः प्रतीयते ।

न तस्य वाच्येन सह तादात्म्यं ।

विरुद्धत्वात् ।

नह्यभावो भावात्मा भावोऽप्यभावात्मा ।

नापि तदुत्पत्तिः ।

अभावस्य जन्यजनकत्वानुपपत्तेः ।

नापि निःशेषच्युतचन्दनादीनां विशेषणानां तदन्तिकगमनानुमापकत्वं युक्तम्

,

तेषां स्नानादावपि सद्भावादनैकान्तिकत्वात् ।

एतच्च ध्वनिकारेणादूषितत्वाद्ग्रन्थकृता स्वकण्ठेन दूषितं ।

अत एवानेनान्या विप्रतिपत्तये न दूषिताः ।

एतदिति ।

वाच्यस्य प्रतीयमानेन तादात्म्यतदुत्पत्त्यभावादि नेह प्रतन्यत इति व्यक्तिविवेकविचारे हि मयैवैतद्वितत्य निर्णीतमिति भावः ।


विमर्शिनी

[भू.६अ]ः

तदित्थं परपरिकल्पितसमारोपापसारप्रत्याख्यानेन प्रात्पप्रतिष्ठानो ध्वनिरित्याह-अस्तीप्यादि ।

#<

अस्तिं तावद्व्यङ्ग्यनिष्टो व्यञ्जनव्यापारः ।

तत्र व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ काव्यभेदौ ।

व्यङ्ग्यस्यास्फुटत्वेऽलङ्कारत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः ।

तत्रोत्तमो ध्वनिः ।

तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ ।

आद्योऽप्यर्थान्तरसंक्रमसंसलक्ष्यक्रमितवाच्यात्यान्ततिरस्कृतवाच्यत्वेन द्विविधः ।

द्वितीयोऽप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्ग्यतया द्विविधः ।

लक्षणामूलः शब्दशक्तिमूलो वस्तुध्वनिः

,

असंलक्ष्यक्रमव्यङ्ग्यः अर्थशक्तिमूलो रसादिध्वनिः ।

संलक्ष्यक्रमव्यङ्ग्यः शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलङ्कारध्वनिश्चेति ।

तत्र रसादिध्वनिरलङ्कारमञ्जर्यां दर्शितः

,

काव्यस्य शृङ्गारप्रधानत्वात् ।

शिष्टस्तु यथावसरं तत्रैव विभक्तः ।

गुणीभूतव्यङ्ग्यो वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादौ दर्शितः । [अ.स. भू.७]

>#


विमर्शिनी

[भू.७]ः

तावच्छब्दो विप्रतिपत्त्यभावद्योतकः ।

अस्यैव भेदनिर्देशं कर्तुमाह-तत्रेत्यादि ।

व्यङ्ग्यनिष्ठे व्यञ्जनव्यापारे सत्यपीत्यर्थः ।

प्राधान्याप्राधान्येति ।

यदुक्तम्-

ऽतत्परावेव शब्दार्थौ तत्र व्यङ्ग्यं प्रति स्थितौ ।

ध्वनेः स एव विषयो मन्तव्यः संकरोज्झितःऽ । ।

इति । ।

यथा-

ऽप्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते ।

तत्र व्यङ्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत्ऽ । ।

इति । ।

अस्फुटत्व इति ।

व्यङ्ग्यस्याविवक्षितत्वे सतीत्यर्थः ।

यदुक्तम्-

ऽरसभावादिविषयविवक्षाविरहे सति ।

अलङ्कारनिबन्धो यः स चित्रविषयो मतःऽ । ।

इति ।

तत्रेति ।

त्रयनिर्धारणे ।

तस्येति

,

उत्तमस्य ध्वनेः ।

आद्य इति अविवक्षितवाच्यः ।

न केवलं ध्वनिर्द्विविधः यावत्तत्प्रभोदोऽप्ययं द्विविध इत्यपिशब्दार्थः ।

यदुक्तम्-

ऽअर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतं ।

अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम्ऽ । ।

इति । ।


विमर्शिनी

[भू.७अ]ः

द्वितीय इति विवक्षितान्यपरवाच्यः ।

यदुक्तम्-

ऽअसंलक्ष्यक्रमोद्द्योतः क्रमेण द्योतितः परः ।

विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतःऽ । ।

इति ।

अत्रैव वस्तुरसालङ्काराणां ध्वन्यमानत्वं दर्शयितुमाह-लक्षणेत्यादि ।

लक्षणामूल इत्यविवक्षितवाच्यः ।

शब्दशक्तिमूल इति न पुनरर्थशक्तिमूलः ।

यद्यपि शब्दशक्तिमूलेर्ऽथशक्तिरप्यस्ति तथापि तत्र तस्याः सहकारितया व्यवस्थानमिति प्राधान्याच्छब्दशक्तिमूलत्वमुक्तं ।

एवमर्थशक्तिमूलत्वेऽपि ज्ञेयं ।

वस्तुध्वनिरिति ।

रसालङ्कारव्यतिरिक्तस्य वस्तुमात्रस्य ध्वन्यमानत्वात् ।

तत्रार्थान्तरसंक्रमितवाच्यो वस्तुध्वनिर्यथा-

ऽस्निग्धश्यामलकान्तिलित्पवियतो वेल्लद्बलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।

कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवी धीरा भवऽ । ।


विमर्शिनी

[भू.७ब्]ः

अत्र रामशब्दो राज्यनिर्वासनाद्यसंख्येयदुःखभाजनत्वस्वरूपं वस्तु ध्वनति ।

अत्यन्ततिरस्कृतवाच्योऽपि यथा-

ऽरविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः ।

निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशतेऽ । ।

अत्रान्धशब्दः स्वार्थं निमित्तीकृत्यादर्शनसाधारणविच्छायात्वादिधर्मजातं वस्तुरूपंव्यनक्ति ।

रसादीति ।

आदिशब्दाद्भावतदाभासादयः ।

तत्र रसध्वनिर्यथा -

ऽत्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुं ।

अस्त्रैस्तावन्मुहुरुपचितैर्द्दष्टिरालिप्यते मे क्रूरस्त- स्मिन्नपि न सहते संगमं नौ कृतान्तःऽ । ।

अत्र विभावानुभावव्यभिचारिभिरभिव्यक्त एव रसः ।


विमर्शिनी

[भू.७च्]ः

भावध्वनिर्यथा-

ऽजाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः ।

नो यावत्परिरभ्य चाटुकशतौराश्रासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतःऽ । ।

अत्र विधिं प्रत्यसूयाख्यो व्यभिचारिभावः ।

रसाभासध्वनिर्यथा-

ऽस्तुमः कं वामाक्षि क्षणमपि विना य न रमसे विलेभे कः प्राणान्पणमखमुखे यं मृगयसे ।

सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात्तपःश्रीः पस्यैषा मदननगरि ध्यायसि तु यम्ऽ । ।

अत्रानेककामुकविषयोऽभिलाष इति रसाभासः ।


विमर्शिनी

[भू.७द्]ः

भावाभासध्वनिर्यथा-

ऽराकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी ।

तत्किं करोमि विदधे कथमत्र मैत्त्रीं तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः । ।

ऽअत्रानौचित्यप्रवृत्ता चिन्तेति भावाभासः ।

भावप्रशमो यथा-

ऽएकस्मिच्छयने पराङ्मुखतया वीतोत्तरं ताम्य- तोरन्योन्यं हृदयस्थितेऽप्यनुनये संपक्षतोर्गौरवं ।

दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषीर्- भग्नो मानकलिः सहासरभसव्यावृत्तकण्डग्रहःऽ । ।

अत्रासूयायाः प्रशम इति भावप्रशमध्वनिः ।

वस्तुध्वनिरलङ्कारध्वनिश्चेति ।

तत्रशब्दशक्तिमूलो वस्तुध्वनिर्यथा-

ऽनिर्वाणवैरदहना प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन ।

रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याःऽ । ।

अत्र कौरवाणां क्षतशरीरादिकत्वं वस्तुरूपं शब्दशक्त्यैव प्रतीयते ।

स एवार्थशक्तिमूलो यथा-

ऽअलससिरोमणि धुत्ताणं अग्गिमो पुत्ति धणसमिद्धिमओ ।

इह भणिएण णाङ्गी पप्फुल्लविलोअणा जाआऽ । ।

(

ऽअलसशिरोमणिर्धूर्तानामग्रणीर्धनसमृद्धिमयः ।

इति भणितेन नताङ्गी प्रफुल्लविलोचना जाताऽ) । ।

अथार्थशक्त्या ममैवोपभोग्योऽप्यमिति वस्तु व्यज्यते ।

स एवोभयशक्तिमूलो यथा-

ऽपन्थिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले ग्गामे ।

उग्गापओहरं पेक्खिऊण जै वससि ता वससुऽ । ।

(

ऽपथिक नात्र स्त्रस्तरमस्ति मनाक्प्रस्तरस्थले ग्रामे ।

उद्गतिपयोधरं प्रेक्ष्य यदि वससि तद्वसऽ) । ।

अत्र यद्युपभोगक्षमोऽसि तदा आस्स्वेति वस्तु वक्रौचित्यमाश्रित्य शब्दार्थशक्त्याभिव्यज्यत इत्युभयशक्तिमूलत्वं ।


विमर्शिनी

[भू.७ए]ः

शब्दशक्तिमूलोऽलङ्कारध्वनिर्यथा-

ऽउन्नतः प्रोल्लसद्धारः कालागुरुमलीयसः ।

पयोधरभरस्तच्व्याः कं न चक्रेऽभिलाषिणम्ऽ । ।

अत्र शब्दशक्त्या मेघलक्षणमर्थान्तरं प्रतीयते ।

प्रकृताप्रकृतयोश्चार्थयोरसंबद्धाभिधायित्वं मा प्रसाङ्क्षीदिति तयोरौपम्यं कल्प्यत इत्यलङ्कारध्वनिः ।

स एवार्थशक्तिमूलो यथा-

ऽतं ताण सिरिसहोअरराणाहरणम्मि हिआमेक्करसं ।

बिंबाहरे पिआणं णिवेसिअं कुसुमबाणेनऽ । ।

(

ऽतत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसं ।

बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेनऽ) । ।

अत्र कौस्तुभबिम्बाधरयोः केवलयैर्वाथशक्त्यौपम्यं गम्यत इत्यर्थशक्तिमलोऽलङ्कारध्वनिः ।

उभयशक्तिमूलो यथा-

ऽजणहिआविदारणए धारासलिलल्लुलिए ण रमै तहा ।

तव दिट्वी चिउरभरे विआण जह वैरिखग्गाम्मिऽ । ।

(

ऽजनहृदयविदारणके धारासलिललुलिते न रमते तथा ।

तव दृष्टिश्चुकुरभरे प्रियाणां

,

यथा वैरिखङ्गेऽ) । ।

अत्रोभयशक्त्या चिकुरभरखङ्गयोरौपभ्यं गम्यते ।

इति शब्दः प्रमेयपरिमसात्पौ ।

एवं ध्वनेः प्रभेदजातं प्रदर्श्य क्रमप्रात्पं गुणीभूतव्यङ्यस्याप्यन्यतो योजयति-गुणीभूतेत्यादिना ।

दर्शित इति ध्वनिकारेण ।

यदाह-

ऽव्यङ्गस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः ।

समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाःऽ । ।

इति । ।

एवं गुणीभूतव्यङ्ग्यस्याप्यन्यतो भेदजातं योजयित्वा चित्रस्यापि प्रभेदजातं दर्शयितुमाह-चित्रमित्यादि ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र १ः

#<

चित्रं तु शब्दार्थांलकारस्वभावतया बहुतरप्रभेदं ।

तथा हि-

इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः । । अ.स. १ । ।

आदौ पौनरुक्त्यप्रकाररवचनं वक्ष्यमाणालङ्काराणां कक्षाविभागघटनार्थं ।

अर्थापेक्षया शब्दस्य प्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थतधर्मनिर्देशश्चिरन्तनप्रसिद्ध्या पुनरुक्तकवदाभासस्य पूर्वं लक्षणार्थः ।

इहशब्दः प्रत्थाने ।

इतिशब्दः प्रकारे

,

त्रिशब्दादेव संख्यापरिसमात्पिसिद्धेः ।

>#


विमर्शिनी

१ः

तुशब्दः काव्यप्रकारद्वयादस्य वैलक्षण्यद्योतकः ।

अत एव बहुतरप्रभेदमित्युक्तं ।

शब्दार्थेत्येक शेषः ।

तेनोभयालङ्काराणामपि ग्रहणं ।

तदेव दर्शयितुमाह-तथाहीत्यादि ।

चित्राख्यकाव्यभेदनिरूपणावसरे किं पौनरुक्त्यप्रकारवचनेनेत्याशङ्क्याह-आदावित्यादि ।

वक्ष्यमाणालङ्काराः पुनरुक्तवदाभासादयः पञ्च ।

शब्दप्रतीतिपुरःसरीकारेणार्थप्रतीतिरिति प्रथमं शब्दगत एव धर्मनिर्देशो न्याय्यो नार्थगत इत्याशङ्क्याह-अर्थेत्यादि ।

चिग्तंन प्रसिद्धेति ।

न पुनर्युज्यमानतयेति भावः ।

ऽपुनरुक्तवदाभासं छेकानुप्रास एव चऽ इति चिरन्तनप्रसिद्धिः ।

अर्थालङ्कारत्वादर्थालङ्कारप्रकरणे पुनरस्य युज्यमानत्वं ।

नन्वादौ शब्दगतो

,

धर्मनिर्देशः कार्यः पश्चादर्थगत इति क्रमस्य न किञ्चित्प्रयोजनमुत्पश्याम इति किं तेनेति यदन्यैरुक्तं तदयुक्तं ।

शब्दार्थयोः क्रमेणैव प्रतीताववभासनात्तथात्वेनैव धर्मनिर्देशस्योपपत्तेः किं चऽवर्धमानोत्कर्षाणि शास्त्राणि प्रथन्तेऽ इति नीत्या परिमितचमत्काराणामर्थालङ्काराणां पश्चान्निर्देशः कार्य इति सप्रयोजन एव क्रमः ।

चिरन्तनमतानुल्लङ्घनेन च वयं प्रवृत्ता इत्ययुक्तमपि ग्रन्थकृता तन्मतमाश्रितं ।

अग्रेऽप्यनेनाशयेन तन्मताश्रयणं करिप्यत्येव ।

तेन वयंयच्चिरन्तनमताश्रयणं व्याख्यास्यामस्तद्युक्तमेव ।


विमर्शिनी

१अः

एतदेव यथोद्देशं निर्णेतुमाह-तत्रेत्यादि ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र २ः

#<

तत्रार्थपौनरुक्त्यं प्ररूढं दोषः । । अ.स. २ । ।

प्ररुढाप्ररुढत्वेन द्वैविध्यं ।

प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थं ।

तत्रेति त्रयनिर्धारणे ।

यथावभासनविश्रान्तिः प्ररोहः ।

>#


विमर्शिनी

२ः

किमलङ्कारप्रस्तावे दोषकथनेनेत्याशङ्क्याह-प्रथममित्यादि ।

उपादेय इत्यलङ्कारस्वरूपे ।

यथेति ।

यथैव दृष्टस्तथैव पर्यवसित इत्यर्थः ।

यथा-

ऽहरिणनयनां सारङ्गाक्षीं कुरङ्गविलोचनां कमलवदनां राजीवास्यां सरोजसमाननां ।

विलुलितकचां चञ्चत्केशीं चलच्चिकुरोत्करां सुरतविरतौ संभोगान्ते विलोकय कामिनीम्ऽ । ।

अत्र सारङागाक्षीमित्यादिषु पुनर्वचनं प्ररुढं ।

अप्ररुढं पुनरलङ्कारः ।

न चैतावतैव दोषाभावमात्रेणालङ्कारत्वमस्याशङ्क्यम्

,

वक्ष्यमाणनीत्यालङ्कारत्वोचितस्य विच्छित्तिविशेषस्यापि भावात् ।

तदेवाह-आमुग्वेत्यादि ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ३ः

#<

आमुखावभासनं पुनः पुनरुक्तवदाभासं । । अ.स. ३ । ।

आमुखग्रहणं पर्यवसानेऽन्यथात्वप्रतिपत्त्यर्थं ।

लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालङ्कारवैधर्येण काव्यालङ्कारणामलङ्कार्यंपारतन्त्र्यध्वननार्थः ।

अर्थपौनरुक्त्यादेवार्थीश्रितत्वादर्थालङ्कारत्वं ज्ञेयं ।

प्रभेदास्तु विस्तरभयान्नोच्यन्ते ।

उदाहरणं मदीये श्रीकण्ठस्तवे यथा-

"

अहीनभुजगाधीशवपुर्वलयकङ्कुणं ।

शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकं । ।

वृषपुङ्गवलक्ष्माणं शिखिपावकलोचनं ।

ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम्" । ।

ऽदीरुणः काष्ठतो जातो भस्मभूतिकरः परः ।

रक्तशोणार्चिरुच्चण्डः पातु वः पावकः शिखीऽ । ।

भुजङ्गकुण्डली व्यक्तशाशिशुभ्रांशुशीतगुः ।

जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः" । ।

>#


विमर्शिनी

३ः

अन्यथात्वेति ।

यथावभातस्यार्थस्य पर्यवसाने तथात्वेनैवाविश्रान्तिरित्यर्थः ।

अन्यथा ह्यक्तनीत्या दोषः स्यात् ।

ननु पुनरुक्तवदाभासशब्दस्यालङ्कारशब्दसामानाधिकरण्यादुपमादिवदजहल्लिङ्गत्वयोगाच्च पुंल्लिङ्गत्वे किमितीह नापुंसकः संस्कारः कृत इत्याशङ्क्याह-लक्ष्येत्यादि ।

लक्ष्यस्य लक्षणीयस्य पुनरुक्तवदाभासस्य पुनःशब्दापेक्षया निर्देशो वचनमित्यर्थः ।

अलङ्कार्यपारतन्त्रेति ।

काव्यसामानाधिकरण्येन निर्देशात् ।

लौकिका हारादयः ।

एषां ह्यलङ्कार्येण सह संयोगः संबन्धः ।

अत एवैषां तत्परतन्त्रतापि न स्यात् ।

काव्यालङ्काराणां पुनरलङ्कार्येण सह समवायः संबन्धः ।

अत एवैषामयुतसिद्धत्वादलङ्कार्यपारतन्त्र्यमेवेति लैकिकालङ्कारवैधर्म्यमेव न्याय्यं ।

आश्रयाश्रयिभावेनालङ्कार्यालङ्करणभावोपपत्तेः किमाश्रयमस्यालङ्कारत्वमित्याशङ्कायाह-अर्थेत्यादि ।

एवकारः शब्दपौनरुक्त्यावच्छेदद्योतकः ।


विमर्शिनी

३अः

तेन शब्दस्यापौनरुक्त्यान्न शब्दालङ्कारो नाप्युभयालङ्कारोऽयमित्यर्थः ।

पर्यवसाने वस्तुतोर्ऽथस्यासत्त्वात्धर्म्यंभावे च धर्मंस्य निर्विषयत्वात्पौनरुक्त्यं कस्य धर्मः स्यादिति न वाच्यं ।

आमुखेर्ऽथस्यावभासमानत्वेन सत्त्वाद्धर्मिधर्मभावस्य नैवानिष्टेरर्थगतयोः सत्त्वासत्त्वयोरनुपयोगात् ।

आमुखावगतैव च प्रतीतिरलङ्कारबीजं न पार्यवसानिकी ।

तथात्वे ह्युपमारूपकादीनामप्यविशेषः स्यात् ।

पर्यवसानेऽप्यर्थस्यऽदारुणः काष्टतो जातःऽइत्यादाविन्धनार्थस्य सत्त्वादनैकान्तिकत्वाभावाच्छ्रशशृवदभावो न वाच्यः ।

पर्यवसानेऽप्यत्रन्धनार्थः सन्नपि नालङ्कारत्वप्रयोजक इतिऽअरिवधदेहशरीरःऽ [काव्य प्रकाश ९१३८९]इत्यादाप्यसता कायार्थेनाविशेषात्समानः ।

किं व इतो न पर्यवसानेर्ऽथस्यासत्त्वं ।

इह हि प्रतीतिमात्रसारत्वात्कव्यस्य यद्यथैव प्रतीयते तत्तथैव भवतीत्याविवादः ।

तद्वाधोत्पत्तावपि तैमिरिकद्विचन्द्रप्रतीतिवत्पुनरुक्ततयावभातस्यार्थस्यावभासमानत्वात्सत्त्वमेव ।

नहि शतशीपि क्रूराद्यर्थोपलम्भे काष्ठादेरर्थस्यापुनरुक्ततया भानमस्ति ।

बाधोत्पत्तेः पुनर्द्विचन्द्रप्रतीतिवत्पौनरुक्त्यप्रतीतेरनुपपद्यमानत्वं भवति

,

नतु शुक्तिकायामिव रजतप्रत्ययस्य स्वरूपत एवाभावः ।

अत एवाभातपौनरुक्त्यापि प्रतीतिरपौनरुक्त्यपर्यवसायिन्यस्य स्वरूपं ।

एवमपि वस्तुतः कायाद्यर्थाभावस्तदवस्थ इति चेत्

,

सत्यं ।

किं तु तथा वस्तुतो बहिरसंभवन्नपि द्वितीयश्चन्द्रः प्रतीतौ कञ्चन विशेषमाधातुं नोत्सहते तथेहापि वस्तुवृत्तेन कायादेर्थस्यासंभवेऽपि प्रतीतौ न कश्चिद्विशेष इति दिण्डिकाराग एव वास्तवत्वान्वेषणं ।

तस्मादत्रावभासमानत्वमेवार्थस्य सत्त्वप्रतीष्ठापकं प्रमाणं ।


विमर्शिनी

३बः

ननु अवभासमानत्वं प्रमातृधर्म इति कथं तदाश्रयो धर्मः काव्यालङ्कार इति चेत्

,

असदेतत् ।

अवभासमानत्वस्यावभास्यनिष्टतया प्रतीतेरर्थधर्मत्वात् ।

तथा हि केषाञ्चन प्रतीतिवादिनां-

ऽतथाहि वेद्यता नाम भावस्यैव निजं वपुः ।

चैत्रेण वेद्यं वेद्मीति किं ह्यत्र प्रतिभासतेऽ । ।

इत्याद्युक्तयुक्त्या कौमारिलवन्नीलतया इव वेद्यताया अप्यर्थधर्मत्वभेवेष्टं ।

इह च तदुपक्रम एवेति न वस्तुवादसंस्पर्शो न्याय्यः ।

आमुखतुल्यार्थत्वस्य च शब्दधर्मत्वेन शब्दाश्रयत्वात्शब्दालङ्कारत्वं यद्यस्योच्यते तथापि पर्यवसाने वस्तुतस्तुल्यार्थत्वस्यासंभवात्शशशृङ्गवद्धर्मधर्मिभावो दुष्टः स्यात् ।

सत्त्वेऽपि दोष एवेत्यस्मत्पक्षोक्तसमग्रचोद्यवकाशः ।

अत्रापि यद्यामुख एवैकार्थत्वेनावभासनं समाधिस्तदास्मत्पक्षेण किमपराद्धं ।

एवं च विरोधेऽपि वस्तुतो विरुद्धस्यासंभवाद्विरुद्धार्थत्वस्य च शब्दधर्मत्वात्शब्दालङ्कारत्वं प्रसज्यते ।

अत्र विरुद्धस्यार्थस्यासंभवेपि कर्त्रादिभिर्वाच्यतयाध्यवसायः

,

इह तु पौनरुक्त्याश्रयस्यानन्वितत्वेन न वाच्यतेति चेत्

,

नैतत्

,

यतःऽदारुणः काष्टतो जातःऽ इत्यादौ तावत्पौनरुक्त्याश्रयस्य काष्टादेरर्थस्य जातत्वादिना सहानवितत्वावगमादस्त्येव मुख्यया वृत्त्या वाच्यत्वं ।

ऽअरिवधदेहशरीरःऽ इत्यादौ तु वस्तुतः कायादेरवाच्येऽप्यवभातपौनरुक्त्याश्रयत्वादकृत्रिमार्थशोभापर्यावसायि त्वेन वाच्यतयास्त्येव विवक्षितत्वं ।

अत्र झकृत्रिमोर्ऽथोऽलङ्कृतकृत्रिमार्थोपस्कृतो यथा चमत्कारकृत्न तथा तदुपस्कृतयोच्यमानः स्यात् ।

ऽस्त्रीणां हि कण्ठाभरणानि हाराः पयोधरानप्यभिभूषयन्तिऽ इत्यादिदृशा च हारस्य कण्ठालङ्कारत्वेऽपि सामीप्यात्तावतिशोभातिशयाधायकत्वाद्यथा पयोधरादावप्यलङ्कारत्वं तथैव कृत्रिमार्थाश्रयत्वेऽप्यवभासमानस्य पौनरुक्तस्याकृत्रिमार्थोपस्कारकत्वमपि प्रतीयत एवेति नानुभघवापह्नवः कार्यः ।

एवं च पौनरुक्त्याश्रयस्यार्थस्य यत्रैव वात्त्यत्वेन विवक्षितत्वं तत्रैवास्यालङ्कारत्वं नान्यत्र ।

ऽअकृष्णपक्षेन्दुमुखी बन्धुजीवाधरद्युतिः ।

इयं विलासिनी कस्य न नेत्रोत्सवकारिणीऽ । ।

ऽअत्राकृष्णत्यर्थपौनरुक्त्यस्य संभवेऽपि वाच्यत्वेनाविवक्षितत्वान्नायमलङ्कारः ।

एवं वक्ष्यमाणानामप्यलङ्काराणां कविविवक्षैव स्वरूपप्रतिष्ठापकं प्रमाणं ज्ञेयं ।

किं बहुना

,

सर्वेषामप्यलङ्काराणामुपमितार्थत्वादेः शब्दधर्मत्वाच्छब्दालङ्कारत्वं स्यात् ।

तदर्थालङ्कारत्वमस्य ज्यायः

,

यावता ह्यर्थस्यामुख एव पुनरुक्ततयावभासोऽस्य जीवितं ।

अत एव पुनरुक्तवदाभासमित्यन्वर्थसंघज्ञा ।

अर्थस्य च पौनरुक्त्यप्रतीतौ न कस्यचिद्विवादः

,

तामेवाश्रित्तय शब्दालङ्कारस्य भवद्भिरुक्तत्वात् ।

एवं च प्रत्यासत्तेस्तदाश्रयत्वमेवास्यालङ्कारत्वंयुक्तं ।

अन्यथा तुल्यार्थशब्दतापि वाक्यधर्मं इति तदाश्रयोऽपि स्यादित्यनवस्थाप्रसङ्गः ।


विमर्शिनी

३चः

अथात्र शब्दस्वरूपवैशिष्ट्यनिबन्धनं चमत्कारकारित्वमिति तदलङ्कारत्वमिति चेत्

,

किं नाम शब्दस्य स्वरूपे वैशिष्टं ।

किं पौनरुक्त्यम्

,

उत पुनरुक्तार्थंवाचित्वम्

,

उतसभङ्गाभङ्गपदेन श्लिष्टत्वं ।

तत्र न तावदाद्यः पक्षः ।

शब्दस्य द्विरुच्चारणाभावात्तथात्वाप्रतिभासनात् ।

नापि द्वितीयः ।

वाच्यवाचकभावेनालङ्करणभावात्तस्याश्रयाश्रयिभावे

,

नोपपत्तेः ।

अत एव सर्वेषामेवार्थालङ्काराणामुपमितार्थादिवाचित्वाच्छब्दस्य तदलङ्कारत्वं स्यादित्युक्तं ।

नापि तृतीयः ।

पुनरुक्तवदाभासमित्यन्वर्थसंज्ञाश्रयणात् ।

पौनरुक्त्याख्यधर्मप्रयोजकीकारेणालङ्कारस्योपक्रान्तत्वात्श्लिष्टत्वस्येहानौपयितकत्वात् ।

तत्पुनरत्रार्थेपौनरुक्त्यावगमे निमित्तमात्रां ।

निमित्तनिमित्तभावश्च नालङ्कारत्वप्रयोजक इत्यविवादः ।

तस्मादर्थाश्रयत्वात्पौनरुक्त्यस्य तदलङ्कारत्वमेति युक्तं ।

एवं वक्त्रलङ्कारतापि निरस्ता ।

सर्वेषामपि नक्त्रतिशयरूपत्वात्तथात्वोपपत्तेः ।


विमर्शिनी

३दः

विस्तरभयादिति ।

न तु चित्रत्वाभावात् ।

नोच्यन्त इति ।

वस्तुतस्तु संभवन्त्येवेत्यर्थः ।

अतश्चायं प्रायो वाक्यार्थपदार्थाश्रयत्वात्प्रथमं द्विधाभवन्समस्तासमस्तपदत्वेन चतुर्विधः ।

क्रमेण यथा-

ऽतुहिनक्षितिभृद्युष्मान्पातात्सर्वत्र[-]ख्यातः ।

हिमवानवतु सदा वो विश्वत्र समागतः ख्यातिम्ऽ । ।

ऽनदीप्रकरमुल्लिङ्गितवन्तं मनोहरहस्तमत्यजन्तं च

,

सपर्याणां रुचिं वहन्तं रसर्वत्र पूजनीयं च

,

सकुभ्भं सकलशञ्चरन्तं च

,

सदानदन्तं मदपर्याविलदशनं च

,

करटं कमपि बिभ्रतं कवाटविभ्रममुञ्चन्तं च

,

कुञ्जराजिवर्धितरुचि वारणरणरणरणिकाकुलितं च

,

राजमानविसंधायिनं विराजमानं च

,

शारीभूतं मदसलिलेन शबलीभूतं च

,

इति पुनरुक्ताश्रयम्ऽ इत्यनङ्गलेखायां हस्तिवर्णने ।

ऽबतहन्तासितः कालो गोविभावसुदीधितीः ।

क्षिपास्य पक्षावसितश्चेतराजयशोभयऽ । ।

असमस्तपदं तु ग्रन्थकृतौवोदाहृतं ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ४ः

#<

शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च | | अ.स. ४ | |

अलंकारप्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते इति द्वैविध्यमेव ।

>#


विमर्शिनी

४ः

केवलस्वरूपौनरुक्त्यं किं न गणितमित्याशङ्क्याह-अलङ्कारेत्यादि ।

यथा-

ऽइन्दीवरम्मि इन्दम्मि इन्दऽलम्मि इन्दिअगणम्मि ।

इन्दिदिरम्मि इन्दमि जोइण्णो सरिससंकप्पोऽ । ।

(

ऽइन्दावरम्मि———ऽ) अत्र स्वरपौनरुक्त्यस्य चारुत्वाभावान्नालङ्कारत्वं ।

तत्र केवलव्यञ्जनस्वरव्यञ्जनसमुदाश्रितमलङ्कारद्वयं लक्ष्ययति-संख्यादिना ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ५ः

#<

संख्यानियमे पूर्वं छेकानुप्रासः । । अ.स. ५ । ।

द्वयोर्व्यञ्जनसमुदाययोः परस्परमनैकधा सादृश्यं संख्यानियमः ।

पूर्वं व्यञ्जमसमुदायाश्रितं यथा-

ऽकिं नाम दर्दुर दुरध्यवसाय सायं कायं निपीड्य निनदं कुरुषे रुषेव ।

एतानि केलिरसितानि सितच्छदानामाकर्ण्य कार्णमधुराणि न लज्जितोऽसिऽ । ।

अत्र सायंशब्देनास्यालङ्कारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहैकाभिधानलक्षणः संकरः ।

छेका विदग्धाः ।

>#


विमर्शिनी

५ः

एकवचनस्य जात्या बहुत्वप्रसङ्गाद्वहुवचनस्य च त्र्यादीनां स्वयमेव बहुत्वात्संख्यानियमो द्वित्व एव संभवतीति द्वयोरित्युक्तं ।

द्वयोरप्येकधा सादृश्यं वृत्त्यनुप्रास एवेत्याशङ्क्याह-अनेकधेति ।

यकारमात्रेत्यनेन द्वयोरेव सादृश्यमस्य जीवितमिति ध्वनितं ।

यद्यपि चायं व्यञ्जनमात्रपौनरुक्त्याख्यस्य सामान्यलक्षणस्य संभवादनुप्रास एवान्यैरन्तर्भावितः तथाप्यस्य ग्रन्थकृता उद्भटमतानुरोधादिह लक्षणं कृतं -अन्यथेत्यादि ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ६ः

#<

अन्यथा तु वृत्त्यतनुप्रासः । । अ.स. ६ । ।

केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं त्र्यादीनां च परस्परसादृश्यमान्यथाभावः ।

वृत्तिस्तु रसविषयो व्यापारः ।

तद्वती पुनर्वर्णरचनेहवृत्तिः ।

स च परुषकोमलमध्यमवर्णारब्धत्वात्त्रिधा ।

तदुपलक्षितोऽयमनुप्रासः ।

यथा-

ऽआटोपेन पटीययसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथमे तथापि कुरुते नो सन्मनोरञ्जनं ।

न स्याद्यावदमन्दसुन्दरगुणालङ्कारझङ्कारितः सप्रस्यन्दिलसायनरसासारानुसारी रसःऽ । ।

यथा वा-

ऽसह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्योऽपि वा राकेन्दोः किरणा विषद्रवमुचो वर्षासु वा वायवः ।

न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः साकूताः समदाः कुरङ्गकदृशां मानानुविध्दा दृशःऽ । ।

>#


विमर्शिनी

६ः

एतदेव भेदनिर्देशं कुर्वन्व्याचष्टे केवलेत्यादि ।

समुदायः पारिशेष्याद्व्यञ्जनद्वयरूपः ।

एकधेति चात्रैव संबद्धव्यं ।

केवलस्य त्र्यादीनां चानेकधापि सादृश्यस्यानेन व्यात्पत्वात् ।

एवञ्च समस्तासमस्ताक्षरत्वेन संभवतीत्यस्य प्रायः षट्प्रकाराः ।

क्रमेण यथा-

ऽयया ययाय्यया यूयं यो यो यं येययायया ।

ययुयायि ययेयाय ययेयायाय याययुक्ऽ । ।

असमस्ताक्षरं तु ग्रन्थकृतैवोदाहृतं ।

ऽदीनादीनां ददौ दानं निननाद दिने दिने ।

निदिन्द नन्दनानन्दानदुनोदिननन्दनम्ऽ । ।

ऽरुच्याभिः प्रचुराभिस्तरुशिखरापाचिताभिरुचिताभिः ।

अचिररुचिरुचिररुचिभिश्चिराच्चिराभिश्चमत्कृतं चेतःऽ । ।

ऽततः सोमसिते मासि सततं संमतं सतां ।

अतामसोत्तममतिः सती सुतमसूत साऽ । ।

ऽकमलदृशः कमलामलकोमलकमनीयकान्तिवपुरमलं ।

कमलङ्कुरुते तावत्कमलापतितोऽपि यो विमलःऽ । ।

आदिशब्दाच्चतुरक्षरादेर्ग्रहणं ।

यथा -

ऽस ददातु वासवादिदेवतासंस्तवस्तुतः ।

सदा सद्वसतिं देवः सविता विततां सताम्ऽ । ।

वर्णरचनेह वृत्तिरिति ।

उपचारादिति भावः ।

त्रिधेति ।

यदुक्तं -

ऽशषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता ।

परुषा नाम वृत्तिः स्याध्लह्वह्याद्यैश्च संयुताऽ । ।

ऽसरूपसंयोगयुतां मूर्धवर्गतान्त्ययोगिभिः ।

स्पर्शैर्युतां च मन्यन्ते उपनागरिकां बुधाःऽ । ।

ऽशेषवर्णैर्यथायोगं रचितां कोपलाख्यया ।

ग्राम्यां वृत्तिं प्रशंसन्ति काव्येष्वादृतबुद्धयःऽ । ।

[

उद्भट काव्या. सं. ९१४-६] यथा-

ऽनिरर्गलविनिर्गलद्गलगुलाकरालैर्गलैरमी तडिति ताडितोड्डमरिडिण्डिमोडुमराः ।

मदाचमनचञ्चुरप्रचुरचञ्चरीकोच्चयाः पणः परिणतिक्षणक्षततटान्तरा दन्तिनःऽ । ।

अत्र लकाराद्यावृत्त्या मध्यमत्वमिति वृत्तित्रैविध्यं ।


विमर्शिनी

६अः

एवं व्यञ्जनमात्राश्रयमलङ्कारद्वयं लक्षयित्वा स्वरव्यञ्जनाश्रयं यमकं लक्षयति-स्वरेत्यादि ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ७ः

#<

स्वरव्यञ्जमसमुदायपौनरुक्त्यं यमकं । । अ.स. ७ । ।

अत्र क्वचिद्भिन्नार्थत्वं क्विचिदभिन्नार्थत्वं कचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयं ।

यथा-

ऽयो यः पश्यति तन्नेत्रे रुचिरे वनजायते ।

तस्य तस्यान्यनेत्रेषु रुचिरेव न जायतेऽ । ।

इदं सार्थकत्वे ।

एवमन्यज्झेयं ।

>#


विमर्शिनी

७ः

एकस्येत्याद्युपलक्षणपरं ।

अतो बहुनां यमकानां क्वचित्सार्थकत्वं निरर्थकत्वं च स्थितं संगृहीतमेव ।

ऽक्वचित्सार्थकत्वं क्वचिन्निरर्थकत्वम्ऽइति तु पाठे प्रथममेव भेदद्वयमुक्तं स्यान्न तृतीयः प्रकारः ।

अतश्च भेदनिर्देशग्रन्थो यथास्थित एव ज्यायान् ।

संक्षेपत इति ।

एवञ्च काव्यात्मभूतरसचर्वणाप्रत्यूहकारित्वात्प्रपञ्चयितुं योग्यमिति चिरन्तनालङ्कारवन्न विभज्य लक्षितमिति भावः ।

एवं चित्रेऽपि ज्ञेयं ।

अन्यदिति ।

प्रकारद्वयं ।

तत्रानर्थकं यथा-

ऽसरसमन्थरतामरसादरभ्रमरसज्जलया नलिनीं मधौ ।

जलधिदेवतया सदृशीं श्रियं स्फुटतरागतरागरुचिर्दधौऽ । ।

अत्र तरागेत्यनर्थकं ।

अनर्थकत्वसार्थकत्वयोर्यथा -

ऽसाहारं साहारं साहारं मुणै सज्जसाहारं ।

सं ताणं संताणं संताणं मोहसंताणम्ऽ । ।

अत्र सज्जसाहारमित्यनर्थकं ।

अन्यानि तु सार्थकानीति न कश्चिद्दोषः । ।

इदं च स्थाननियममन्तरेण न भवति ।

यदुक्तम्-ऽपदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम्ऽ इति ।

अत एव स्थाननियमाद्यमकमित्यस्यान्वर्थमभिधानं ।

स च स्थाननियमो वैवक्षिको न वास्तवः ।

यथा-

ऽमधुपराजिपराजितमानिनीजनमनःसुमनः सुरभि श्रियं ।

अभृत वारितवारिजविप्लवां स्फुटितताम्रतताम्रवणं जगम्ऽ । ।

अत्राक्षरद्वये यमकविन्यासात्स्थानस्य नियतत्वं ।

यथा वा-

ऽछिन्द्याद्भयार्तिं तव कार्तिकेयः शशी जितो येन स कार्तिके यः ।

उत्खातदन्तो गणनायकस्य स्वामी यदन्यो गणनाय कस्यऽ । ।

अत्र चार्थद्वये यमकद्वयमिति स्थाननियमो द्विधैवेति नास्यालङ्कारस्य क्षतिः काचित् ।

अतश्च -

ऽश्रु तरसिकलरुकतरसिकलितरुजालहरि जालहरिणतमः ।

हरिणतमश्च ततस्तव ततस्तवः स्याद्यशोराशिःऽ । ।

इत्यत्र सत्त्वेऽपि स्वरव्यञ्जनसमुदायपौनरुक्त्यास्य स्थाननियमाभावाद्यमकाभासोऽयं वृत्त्यनुप्रासः ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ८ः

#<

"

शब्दार्थपौनरुक्त्यां प्ररुढं दोषः" । । अ.स. ८ । ।

प्ररुढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थं ।

यदाहुः-ऽशब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्ऽ ।

इति ।

>#


विमर्शिनी

८ः

प्ररुढमिति ।

तथाभासनं विश्रान्तेः ।

यथा-

ऽतदन्वये शुद्धमति प्रसूतः शुद्धिमत्तमः ।

दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविवऽ । ।

अत्रेन्दुरिति ।

अत्रिनेत्रक्षीरोदजन्मत्वादिन्दोर्द्वित्वान्नैतत्प्ररुढमिति न कार्यम्

,

कविसमये तथात्वस्याप्रतीतेः ।

आहुरित्याक्षपादाः ।

अन्तत्रानुवादिति ।

अनुवादे हि शब्दार्थयोः पुनर्वचनं क्रियमाणं न दोषाय ।

अक्रियमाणं पुनर्देषाय भवतीति भावः ।

यथा -

ऽउदेति रक्तः सविता रक्त एवास्तमेति च ।

संपत्तौ च विपत्तौ च महातामेकरूपताऽ । ।

अत्र रक्त इति ।

ऽशिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्रापि जलधिं ।

अधोधो गङ्गावदूयमुपगता नूनमथवा विवेकभ्रष्टानां भवति विनिपातः शतमुखःऽ । ।

अत्रार्थपौनरुक्त्येऽपि शब्दस्यापुनर्वचनं प्रतीत्यन्तरजनकत्वाद्दोषः ।

तदेवाप्ररुढमलङ्कार इत्याह-तात्पर्येत्यादि ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ९-१०ः

#<

ऽतात्पर्यभेदवत्तु लाटानुप्रासःऽ । । अ.स. ९ । ।

तात्पर्यमन्यपरत्वं ।

तदेव भिद्यते

,

न शब्दार्थ-स्वरूपं ।

यथा-

ऽताला जान्ति गुणा जाला दे सहिअएहिं घेप्पन्ति ।

रैकिरणाणुगाहिआइं हाएन्ति कमलाइं कमलाइंऽ । ।

[

ऽतदा जायन्ते गुणाः यदा ते सहृदयैर्गृयैर्गृह्यन्ते ।

रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानिऽ] । ।

ऽब्रूमः कियन्नय कथञ्चन कालमल्पं अत्राब्जपत्रनयने नयने निमील्य ।

हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषोऽयमहमागत इत्यवेहिऽ । ।

इत्यादौ विभक्त्तयादेरपौनरुक्त्येऽपि बहुतरशब्दार्थपौनरुक्त्याल्लाटानुप्रासत्वमेव ।

ऽकाशाः काशा इवाभान्ति सरांसीव सरांसि च ।

चेतांस्याचिक्षिपुर्यूनां निम्रगा निम्रगा इवऽ । ।

इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः ।

अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थिकेर्भिन्नविषयत्वात् ।

ऽअनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकं ।

अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम्ऽ । ।


तदेवं पौनरुक्त्ये पञ्चालङ्काराः । । अ.स. १० । ।

निगदव्याख्यातमेतत् ।

>#


विमर्शिनी

९-१०ः

अन्यपरत्वमिति ।

एकस्य वाच्यविश्रान्तत्वेऽन्यस्य लक्ष्ये व्यङ्ग्ये वार्थेवाच्यविश्रान्तिरित्यर्थः ।

भिद्यत इति पर्यवसाने ।

आमुखे हि शब्दवदर्थस्याप्येकत्वेनैवावभासः ।

अत एवाह-न शब्दार्थस्वरूपमिति ।

एवं च नायं द्वयोर्वाच्यविश्रान्तत्वेऽनुवादमात्रमलङ्कारः ।

नहि दोषाभावमात्रमलङ्कारस्वरूपं ।

एवं हि सत्प्रपशब्दाद्यभावस्याप्यलङ्कारत्वप्रसङ्गः ।

यत्परमादावुक्तं तत्परमेव पुनर्नोच्यते इत्येव सामान्येन यद्यन्यपरत्वमुच्यते तद्विरोधादिवत्ऽउदेति रक्तिः सविता-ऽ इत्यादौ दोषाभावमात्रत्वेप्यलङ्कारत्वोचितस्यान्यपरत्वाख्यस्यातिशयस्यापि भावालङ्कारत्वप्रसङ्गः ।

न चैतावतैव कश्चिदतिशयप्रतीयते इति यथोक्तमेव युक्तं ।

एकः कमलशब्दो वाच्यपर्यवसितः अन्यश्च सौरभबन्धुरत्वाद्यनेकधर्मनिष्ठ इति तात्पर्यभेदः ।


विमर्शिनी

९-१०अः

ब्रुमः कियदिति ।

अत्र अब्जशब्दस्याप्यपौनरुक्त्यात्लाटानुप्रासत्वमेवेति चिन्त्यं ।

अत्र हि द्वयोरपि नयनशब्दयोर्वाच्यविश्रन्तत्वादन्यपरत्वाभावान्नास्ति तात्पर्यभेदः ।

स एव ह्यस्य जीवितं ।

अन्यथा ह्यनुप्रासमात्रत्वं स्यान्नालङ्कारत्वं ।

अथापि केवलनयनशब्दस्यस्वार्थविश्रान्तिः संसर्गपदान्तर्गतस्तय पुनः स्वार्थमुपसर्जनीकृत्य संज्ञिनमभिगधमश्च स्वार्थत्यागात्परार्थेच वृत्तिरस्त्येव लक्ष्यनिष्टत्वमिति चेत्

,

नैतत् ।

लक्षणासामग्रधभावात् ।

अत्र ह्यन्यपदार्थप्रधानत्वान्नयनशब्दस्य गुणीभावः

,

न मुख्यार्थबाधः ।

स्वार्थ एव विश्रान्तेः ।

न च गुणीभावमुख्यार्थबाधयोर्कत्वं ।

सतो हि मुख्यार्थस्य कञ्चिदपेक्ष्य गुणीभावः ।

बाधः पुनः स्वस्मिन्नेवाविश्रान्तिरित्यनयार्महान्भेदः ।

नाप्यत्र किञ्चित्प्रयोजनं न वा रुढिरियमित्येतत्पौनरुक्त्यमात्रं ।

एवम्-

ऽसितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः ।

पौनषकमला कमला सापि तवैवास्ति नान्यस्यऽ । ।

इत्यादावपि घज्ञेयं ।

चमत्कारस्त्वत्रानुप्रासकृतोऽवसेयः ।

नन्वनन्वयेऽपि शब्दपौनरुक्त्यं दृश्यत इति तत्रापि किमयमेवालङ्कारः किमु स एवेत्याशङ्क्यह-अनन्वय इत्यादि ।

आनुषङ्गिकमिति ।

न पुनः साक्षात्प्रयोजकमित्यर्थः ।

शब्दैक्यं विनाप्यनन्वयस्य प्रतिपादनात् ।

अत्र हि शब्दैक्यं क्वचिदक्रियमाणमनौचित्यमावहति क्वचिन्नेति भावः ।

तत्त यथा-

ऽयच्चक्षुर्जगतां सहस्त्रकरवद्धाम्नां च धामार्कव- न्मोन्नद्वारमपावृत्तं च रविवद्ध्वान्तान्तकृत्सूर्यवत् ।

आत्मा सर्वशरीरिणां सवितृवत्तिग्मांशुवत्कालकृत्साध्वीं नः स गिरः ददातु दिनकृद्योन्यैरतुल्योपमःऽ । ।

अत्र सहस्त्रकरादयोऽन्य इवाभासमाना अनन्वयप्रतीतिं विघ्नयन्तीति शब्दैक्याभावोऽनौचित्यमावहति

,

न पुनरनन्वयस्याभावं ।

ऽस्थैर्याद्भूर्व्यापकत्वाद्वियदखिलजगत्प्राणभावान्नभस्वान्भास्वान्विश्वप्रकाशाद्युगपदपि सुधासूतिराह्लादनाच्च ।

वह्निः संहारकत्वाज्जलमखिलजनाप्यायनाच्चोपमानं सत्यात्मत्वेऽपि यस्य प्रभवतु भवतां सोऽष्टमूर्तिः शिवायऽ । ।

अत्र निर्विघ्नमेवानन्वयस्य प्रतीतेः शब्दैक्यभावो नानैचित्यावहः ।

तुशब्दो व्यतिरेके ।

शाक्षादिति ।

शब्दैक्यं विनास्यानुत्थानात् ।

एतदेवोपसंहरति-तदेवमित्यादि ।

पुन रुक्तवदाभासमर्थपौनरुक्त्याश्रितं

,

छेकानुप्रासादयस्त्रयः शब्दपौनरुक्त्याश्रयाः ।

लाटानुप्रासस्तूभयाश्रितं इति पञ्च पौनरुक्त्याश्रिता अलङ्काराः ।

यद्यप्युक्तेः शब्दार्थगतत्वेनोच्चरणाभिधानतया भेदात्सामान्याभावात्कस्य पञ्चप्रकारत्वं तथापि तस्या द्वयोरप्यनुगमादेकत्वेन प्रतीतेरुक्तिसामान्यनिबन्धनमेव प्रकारिप्रकारभाववचनं ।

यच्चार्थभेदेन शब्दस्यापि भिन्नत्वं तदवास्तवं ।

प्रतीतावेकतयैवावभासात् ।

अत एवानेकार्थवर्गादिष्वपि तथात्वेनैव व्यवहारः ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ११ः

#<

वर्णानां खङ्गाद्यकृतिहेतुत्वे चित्रं । । अ.स. ११ । ।

पौनरुक्तक्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनं ।

यद्यपि लिप्यक्षराणां खङ्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालङ्कारोऽयं ।

आदिप्रहणाद्यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः ।

यथा-

ऽभासते प्रतिभासार रसाभाता हताविभा ।

भावितात्माशुभावादे देवाभा बत सभाऽ । ।

एषोऽष्टदलपद्मबनधः ।

अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टाक्षरत्वं ।

विविग्दलेषु त्वन्यथा ।

कर्णिकाक्षरं तु श्लिष्टमेव ।

>#


विमर्शिनी

११ः

वर्णानामित्यादि ।

उच्चारणकाले स्थानविशेषश्लिष्टवर्णात्मकखङ्गदिसंनिवेशस्या भावात्पोनरुक्त्यप्रतीतिर्नात्रेति किमाश्रयोऽयमलङ्कार इत्याशङ्क्याह-यद्यपीत्यादि ।

लिप्यक्षराणां मषीबिन्दुरूपाणां श्रूयमाणतासतत्त्ववर्णशब्दाभेदप्रतिपत्त्या औपचारिकोऽयं शब्दालङ्कार इति तात्पर्यार्थः ।

आदिग्रहणं सफलयितुं पद्मबन्धेनोदाहरति-भासतेत्यादि ।

खङ्गबन्धः पुनर्यथा-

ऽस पात्रीभविता मोक्ष्क्षणलक्ष्म्या भवारसः ।

समस्तजनतायाससमुद्राभिन्नताभिदःऽ । ।

श्लिष्टमेवेति ।

अष्टदिक्कमपि निर्गमप्रवेक्षयोः ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र १२ः

#<

उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा । । अ.स. १२ । ।

अर्थालङ्कारप्रकरणमिदं ।

उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थं ।

साध्र्म्ये त्रयः प्रकाराः ।

भेदप्राधान्यं व्यतिरेकादिवत् ।

अभेदप्राधान्यं रूपकादिवत् ।

द्वयोस्तुल्यत्वं यथास्यां ।

यदाहुः-ऽयत्र किञ्चित्सामान्यं कश्चिञ्च विशेषः स विषयः सदृशतायाःऽ इति ।

उपमैवनेकप्रकारवैचित्र्येणानेकालङ्कारबूजभूतेति प्रथमं निर्दिष्टा ।

अस्याश्च पूर्णालुत्पात्वभेदाञ्चिरन्तनैर्बहुविधन्वमुक्तं ।

तत्रापि साधारणधर्म्स्य क्वचिदनुरागामितयैकरूप्येण निर्देशः

,

क्वचिद्वस्तुप्रतिवस्तुभावेन पृथङ्निर्देशः ।

पृथङ्निर्देशे च संबन्धिभेदमात्रं प्रतिवस्तूपमावत्

,

बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् ।

क्रमेणोदाहरणं -

ऽप्रङामहत्या शिखयेव दीपस्त्रिमार्गेव त्रिविदस्य मार्गः ।

संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्चऽ । ।

ऽयान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या ।

दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षःऽ । ।

अत्र वलुतत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने ।

धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव ।

ऽपाण्ड्योऽयमंसार्पितलम्बहारः क्ल्त्पाङ्गरागो हरिचिन्दनेन ।

आभाति बालातपरक्तसानुः सनिर्झरोद्गर इवाद्रिराजःऽ । ।

अत्र हाराङ्करागयोर्निर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ ।

>#


विमर्शिनी

१२ः

उपमानेत्यादि ।

अर्थेति ।

शब्दालङ्कारनिर्णयानन्तरमवसरप्रात्पमित्यर्थः ।

ननूपमानोपमेययोरेव साधर्म्यं संभवति न कार्यकारणादिकयोरिति किं तदुपादानेनेत्याशङ्क्याह-उपमानेत्यादि ।

तत्रोपमानस्याप्रतीतत्वं लिङ्गभेदादिना प्राच्यैरुक्तं ।

यथा-

ऽकटु कणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव ।

मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इवऽ । ।

अत्र कणनादेर्धर्मस्योपमानेऽन्यतां करोतीति लिङ्गभेदो दुष्टः ।

यद्यपि साधारणधर्मस्योभयसंबन्धसंभवेऽपि सिद्धत्वादुपमाने तत्संबन्धस्य स्वयमेवावगमात्तस्य न शाब्दता युक्तेत्युपमानपारतन्त्र्येण लिङ्गादिविपरिणामो न कार्यं इति न लिङ्गभेदादेर्दुष्यत्वम्

,

तथाप्युपमानवाक्यस्य साकाङ्क्षत्वात्प्रतीतिविश्रान्तेः शाब्दस्तत्संबन्ध उपयुक्त एव ।

नहि प्रभामहत्यादावुपमानवाक्ये पूतत्वादिसंबन्धं विना समन्वयविश्रान्तिः स्यात् ।

केवलं समानधर्मस्योपमेये विधीयमानत्वमुपमाने चानूद्यमानत्वमितीयानेव विशेषः ।

तदुभयत्रापि तत्संबन्धस्यावश्योपयोगादुपपद्यत एव समानधर्मस्यानुगामित्वं ।

तल्लिङ्गभेदादेरपि दुष्टत्वं युक्तं ।

उपमेयस्याप्रतीतत्वमवर्णनीयस्यापि वर्णनीयत्वं ।

यथा-

ऽगौरः सुपीवराभोगो रण्डाया मुण्डितो भगः ।

मेरोरर्कहयोल्लीढ-शष्प-हेम-तटायतेऽ । ।

अत्र तन्वङ्ग्या रूपवर्णने भगवर्णनमनौचित्यावहमित्युपमेयस्याप्रतीतत्वं ।


विमर्शिनी

१२अः

भेदाभेदतुल्यत्वं व्याख्यातुं साधर्म्यस्य विषयविभागेण व्यवस्थितिं दर्शयति-साधर्म्य इत्यादिना ।

एतैनेव च त्रिभिः प्रकारैः साधर्म्याश्रयः समग्र एवालङ्कारवर्गः संगृहीतः ।

तेन व्यतिरेकवदित्यनेन सहोक्त्यादयः संगृहीताः रूपकवदित्यनेन परिणामोत्प्रेक्षादयः ।

किन्तु रूपकोत्प्रेक्षयोरभेदप्राधान्यसद्भावेऽप्यारोपाध्यवसायकृत एव विशेषः ।

यद्वक्ष्यति-ऽआरोपादभेदेऽध्ववसायः प्रकृष्यतेऽ इति ।

अतश्चाध्यवसायगर्भेष्वलङ्कारेषु शुद्धाभेदरूपश्चतुर्थः प्रकारो न कश्चिदाशङ्कनीयः ।

तत्राप्यभेदाप्राधान्यस्यैव भावात् ।

अनयाप्युपमेयोपमादयः संगृहीताः सामान्यमित्यभेदहेतुकं ।

विशेष इति भेदहेतुकः ।

एवं च भेदाभेदतुल्यत्वविषये यः सादृश्यप्रत्ययो जायते तस्योपमाविषयत्वमुक्तं ।

ननु च सत्स्वप्यनेकेष्वर्थालङ्कारेषु प्रथममियमेव किं निर्दिष्टेत्याशङ्क्याह-उपमैवेत्यादि ।

अनेकेऽलङ्काराः साधर्म्याश्रयाः तत्रैवास्य बीजत्वात् ।

उक्तमिति ।

ऽसाधर्म्यमुपमा भेदे पूर्णा लुत्पा च साग्रिमा ।

श्रौत्यार्थीं च भवेद्वाक्ये समासे तद्विते तथाऽ । ।

इत्यादिना । ।

अतश्च किमस्माकं तदाविष्कारणेनेति भावः ।

एवं च तेषां गणने तथा न वैचित्र्यं किञ्चिदिति सूचितं ।


विमर्शिनी

१२बः

तत्रापीति ।

चिरन्तनोक्ते पूर्णत्वादिभेदनिर्देशे सत्यपीत्यर्थः ।

साधारणधर्मस्येति ।

धर्मः पराश्रितः

,

तस्य च तदतद्गामित्वात्साधारणत्वं ।

तदेव चोपमाद्यत्थाने निमित्तं ।

स च चतुष्टयी शब्दानां प्रवृत्तिःऽ इति महाभाष्यप्रक्रियया जातिगुणक्रियाद्रव्यात्मकेषु धर्मिष्वेवंरूप एव भवति ।

न चैतद्विरुध्यते ।

धर्मिधर्मभावस्य न वास्तवत्वं ।

जात्याद्यात्मनो धर्मिणोऽपि कदाचिदन्याश्रितत्वे धर्मत्वात् ।

एवं च तदतिरिक्तं धर्ममात्रमपि साधारणं न किञ्चिद्वाच्यं ।

चतुष्टय्या एव शब्दानां प्रवृत्तेरुक्ततत्वात् ।

ऽसदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।

अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिवऽ । ।

इत्यादावुपमानादौ क्रियारूपत्वादेर्योजयितुं शक्यत्वात्तस्य एव च समग्रविषयावगाहनसहिष्णुत्वात् ।

ननु जातेः साधारणधर्मत्वे तज्जातीयत्वात्तत्त्वं न स्यात्

,

न सदृशत्वमिति कथमुपमाङ्गत्वमस्याः स्यादिति चेत्

,

न ।

बिम्बप्रतिबिम्बभावाश्रयेण तथात्वाभावात् ।

तत्र ह्यसकृन्निर्देशाद्द्वयोर्हारादिकयोर्जात्योः श्वैत्याद्यभेदनिमित्तावलम्बनेनैकत्वमाश्रित्य सादृश्यनिमित्तं साधारण्यं स्यात् ।

एतच्च सविस्तरमुपरिष्टाद्वक्ष्यामः ।


विमर्शिनी

१२चः

तत्र धर्मिणो जात्यादिरूपता यथा-

ऽघनोद्यानच्छायामिव मरुपथाद्

,

दावदहनात्तुषाराभ्भोवापीमेव विषविपाकादिव सुधां ।

प्रवृद्धादुन्मादात्प्रकृतिमिव निस्तार्यविरहा- ल्लभेय त्वद्भक्ति निरूपमरसां शङ्कर कदाऽ । ।

अत्र च्छायावापीसुधाप्रकृतीनामुपमानानां जातिगुणद्रव्यक्रियात्वं ।

छायायस्तु जातिरूपत्वाद्गुणत्वं नाशङ्कनीयं ।

उपमेयस्य पुनरेतत्स्वयमेवाभ्यूह्यं ।


विमर्शिनी

१२दः

धर्माणां तु यथा-

ऽवैदेहि पश्या मलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिं ।

छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम्ऽ । ।

अत्र विभक्तमित्यस्य क्रियात्वं रामसेतुच्छायापथयोर्द्रव्यत्वं फेनतारकाणां जातित्वं प्रसादस्य च गुणत्वं द्रव्यात्मकाकाशाम्बुराशिगत्तत्वेनोपनिबद्धं ।

एवं प्रकृतामेव महाभाष्यप्रक्रियामपहाय निनिमित्तमेव प्रक्रियान्तरमाश्रित्य यदन्यैरुक्तं तदयुक्तमेवेत्यलं बहुना ।

एवंविधस्य चास्य भावाभावरूपतया द्वैविध्यं ।

एतच्च न तथावैचित्र्यावहमिति ग्रन्थकृता नोक्तं ।


विमर्शिनी

१२एः

ऐकरूप्येणोति ।

सकृत् ।

यद्वक्ष्यति-ऽतत्र सामान्यधर्मस्येवाद्युपादाने सकृन्तिर्देश उपमाऽ इति ।

पृथङ्निर्देश इति ।

असकृदित्यर्थः ।

यद्वक्ष्यति-

ऽवस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैवऽ इति ।

साधारणधर्मस्येत्यत्रापि संबन्धनीयं ।

वस्तुप्रतिवस्तुभावेऽपि द्वैविध्यमित्याह-पृथङ्निर्देशे इत्यादि ।

सम्बन्धिभेदमात्रमिति ।

न पुनः स्वरूपभेदः कश्चिदित्यर्थः ।

यद्वक्ष्यति-असकृन्निर्देशे शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभाव ए वाऽ इति ।

एतच्च भेदत्रयं प्रायः सर्वेषामेव सादृश्याश्रयाणामलङ्काराणां जीवितभूतत्वेन संभवतीत्यग्रत एव तत्र तत्रोदाहरिष्यामः ।

क्रमेणेति यथोद्देशं ।

सम्बन्धिभेदादिति ।

संबन्धिनोः कन्धरावृन्तयोर्भेदात् ।

न तु हारनिर्झरादिवत्स्वरूपतो भेदः ।

वस्तुत एकत्वाद्वलितत्वावृत्तत्वयोरभेदः ।

ननु यदि वलितत्वावृत्तत्वाख्यो धर्म आननशतपत्त्रयोः शुद्धसामान्यरूपतयोपात्तस्तद्धर्मी कन्धरावृन्तरूपः पुनः किंरूपतयेत्याशङ्क्याह-धर्म्यभिप्रायेणेत्यादि ।

एवकारः शुद्धसामान्यरूपत्वव्यवच्छेदकः ।

कन्धरावृन्तयोश्च यथोक्ते धर्मित्वेऽप्याननशतपत्र्तापेक्षया धर्मत्वमेव युक्तं ।

आश्रयाश्रयिभावेन धर्मिधर्मभावस्य भावात् ।

अत एवास्यावास्तवत्वं पूर्वमुक्तं ।

अतश्चाननशतपत्र्तापेक्षया इति न व्याख्येयं ।

तयोरुपमानोपमेयभाववाचोयुक्तेरेव युक्तत्वात् ।

एवं च सति कन्धरावृन्तयोः स्वरूपमनभिमतं स्यात् ।

अनेनैव च बिम्बप्रतिबिम्बभावस्य स्वरूपे दर्शितेऽप्यसंकीर्णप्रकटनाशयेन पुनःऽपाण्ड्योऽयम्ऽ इत्याद्युदाहृतं ।


विमर्शिनी

१२फ़ः

हाराङ्गरागयोरिति ।

स्वरूपयोरिति शेषः ।

न चात्र बिम्बप्रतिबिम्बभावस्य विषयान्तरं प्रदर्श्य वाक्यार्थङ्गतामुपमाशङ्क्य गुणसाम्यनामा चतुर्थः प्रकारो वाच्यः ।

यावता हि साधारणधर्मनिबन्धनमुपमास्वरूपम्

,

स चात्र धर्मो निर्दिष्टानिर्दिष्टत्वेन द्विविधः ।

निर्देशपक्षे चास्य त्रैविध्यमुक्तं ।

अनिर्देशपक्षे चास्य न वैचित्र्यं किञ्चिदिति न तदाश्रयं भेदजातमुक्तं ।

अतश्चात्र निर्दिष्टः साधारणधर्मो व्यवस्थित इति का नाम चतुर्थप्रकारकल्पना ।

वाक्यार्थोपमागन्धोऽप्यत्र नास्ति ।

स ह्यनेकेषां धर्मिणां परस्परावच्छिन्नानां तादृशेरेव धर्मिभिः साम्ये भवति ।

यथा-

ऽजनयिच्याः कुलाल्याश्च रक्षित्र्या विदितोऽभयं ।

रत्नसूतेर्भुजङ्ग्याश्च प्रच्छन्न इव शेवधिःऽ । ।

अत्र जनयित्र्यादीनां रत्नसूत्यादीन्युपमानान्युपात्तानि ।

एतेषां धर्मित्वं च स्फुटमेव ।

बिम्बप्रतिबिम्बभावः पुनर्धर्मिविशेषप्रतिपादनोन्मुखानां धर्माणां भवति ।

परस्परावच्छिन्नत्वं यथात्रेव ।

अत्र हि हाराङ्गरागयोः पाण्ड्यस्य विशिष्टतापादनायैवोपादानं ।

इन्दुमतीं प्रति तस्य विशिष्टालम्बनविभावत्वेन विवक्षितत्वात् ।

अतश्च तयोः परस्परोन्मुखत्वात्स्वात्मन्येवाविश्रान्तिरिति का कथोपमेयतायाः ।

एवं पाण्ड्यस्याद्गिराजेन हारनिर्झरादिधर्मनिमित्तैवोपमा

,

तावन्मात्रेणैव सादृश्यपर्यवसानात् ।

तच्च हारादेः साधारणधर्मस्य बिम्बप्रतिबिम्बत्वाद्दृष्टान्तन्यायस्यैतत्सूदाहरणमेव ।


विमर्शिनी

१२गः

ननु हारनिर्झरयोस्तदतद्गामित्वाभावात्कथं साधारणधर्मतेति चेत्

,

उच्यते- अस्यास्तावद्धर्मस्य साधारण्यं जीवितं ।

तच्च धर्मस्यैकत्वे भवति ।

न च वस्तुतोऽत्र धर्मस्यैकत्वं ।

नहि य एव मुखगतो लावण्यादिर्धर्मः स एव चन्द्रादौ

,

तस्यान्वयासंभवात् ।

अपि तु तज्जातीयोऽत्रान्योऽस्ति धर्मः ।

एवं धर्मयोर्भेदात्साधारणत्वाभावादुपमायाः स्वरूपनिष्पत्तिरेव न स्यात् ।

अथ धर्मयोरपि सादृश्यमभ्युपगम्यते तत्तत्रापि सादृश्यनिमित्तमन्यदन्वेष्यं ।

तत्राप्यन्यदित्यनवस्था स्यात् ।

ततश्च धर्मयोर्वस्तुतो भेदेऽपि प्रतीतावेकतावसायाद्भेदेऽप्यभेद इत्येतन्निमित्तमेकत्वमाश्रयणीयं ।

अन्यथा ह्यपमाया उत्थानमेव न स्यात् ।

एवमिहापि हारनिर्झरादीनां वस्तुप्रतिवस्तुतयोपात्तानां वस्तुतो भेदेऽप्यभेदविवक्षेत्येकत्वं ग्राह्यं ।

अन्यथा ह्येषां पाण्ड्याद्रिराजयोरौपभ्यसमुत्थाने निमित्तत्वमेव न स्यात् ।

न चैषामौपम्यं युक्तमिति समनन्तरमेवोक्तं ।

अत एवात्र बिम्बप्रतिबिम्बभावव्यपदेशः ।

लोको हि दर्पणादौ बिम्बात्प्रतिबिम्बस्य भेदेऽपि मदीयमेवात्र वदनं संक्रान्तमित्यभेदेनाभिमन्यते ।

अन्यथा हि प्रतिबिम्बगदर्शने कृशोऽह स्थूलोऽहमित्याद्यभिमानो नोदियात्भूषणविन्यासादौ च नायिका नाद्रियेरन् ।

प्रच्यैरपि-

ऽस मुनिर्लाच्छितो मौव्ज्या कृष्णाजिनपटं वहन् ।

व्यराजन्नीलजीमूतभागश्लिष्ट इवांशुमान्ऽ । ।

इति । ।

तथा -

ऽस पीतवासाः प्रगृहीतशार्ङ्गो मनोघज्ञभीमं वपुराप कृष्णः ।

शतह्लदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघःऽ । ।

इत्यत्र मौञ्जीतडितोः शङ्खशशिनोश्च वस्तुतो भेदेऽप्यभेदविवक्षामेवाश्रित्यसाधारणधर्मस्य हीनत्वमाधिक्यं चोक्तं ।

अत एव चात्र पूर्वं ग्रन्थकृता वस्तुप्रतिवस्तुभाववद्वस्तुद्वयस्य प्राच्योक्तमेव व्यवहारं दर्शयितुं प्रतिवस्तूपमावद्दृष्टान्तवच्चेति तदुक्तमेवदृष्टान्तद्वयं दत्तं ।

एवं चात्राभेदविवक्षैव जीवितं ।


विमर्शिनी

१२हः

एषा च लक्ष्ये सुप्रचुरैव ।

यथा -

ऽविद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषं ।

अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैःऽ । ।

अत्र विद्युद्वनितादीनां मेघप्रासादविषिष्टताधायकतया धर्मत्वेनैवोपादानं ।

अत एव तैस्तैर्विशेषैरित्युक्तं ।

तेषां सकृन्निर्देशाभावान्नानुगामिता ।

एकार्थत्वाभावान्न शुध्दसामान्यरूपत्वमिति पारिशेष्याद्विम्बप्रतिबिम्बभाव एव ।

एतेषां चाभेदेनैव प्रतीतेः साधारणत्वं ।

एवं हारादेरपि ज्ञेयं ।

अभेदप्रतीतिश्चात्र सादृश्यनिमित्ता ।

न चैतावतैवैपामुपमानोपमेयत्वं वाच्यं ।

तथात्वाविवक्षणात् ।

सादृश्यस्य च सितत्वादिगुणयोगित्वं नाम निमित्तं ।

एवमभेदप्रतीतिमुखेनात्र हारादेः समानधर्मत्वं ।

क्वचिन्निमित्तान्तरेणाप्यभेदप्रतीतिर्भवति ।

यथा-

ऽद्वेप्योऽपि संमतः शिष्टस्तस्यार्तस्य यथैषधं ।

त्याज्यो दुष्टः प्रियोऽप्यासीद्दष्टोऽद्दगुष्ट इवाहिनाऽ । ।

अत्रोत्ररार्धे दष्टदुष्टयोर्देषकारित्वादिना एककार्यकारित्वमभेदकारणमित्यलं बहुना ।


विमर्शिनी

१२इः

इयं च द्वयोपरि प्रकृतयोरप्रकृतयोश्चौपम्ये समुच्चिता भवति ।

क्रमेण यथा-

ऽस्वरेण तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि ।

अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमानाऽ । ।

अत्र भगवत्यपेक्षयान्यपुष्टावितन्त्र्योरप्रकृतयोः प्रतिकूलशब्दत्वे समुच्चितत्वं ।

इयमेकदेशविवर्तिन्यपि ।

यथा -

ऽकमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते ।

अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यःऽ । ।

अत्र नलिनीनां नायिका उपमानत्वेन नोपात्ता इत्येकदेशविवर्तित्वं ।

इयं च सादृश्यदाढर्यार्थं कविप्रतिभाकल्पिते साधर्म्ये कल्पिता भवति ।

तच्च क्वचिदुपमेयगतत्वेन क्वचिदुपमानेनापि कल्पितमिति द्विधात्वमस्याः ।

यदुक्तम्-

ऽउपमेयस्य वैशिष्ट्यमुपमानस्य वा क्वचित्ऽ इति ।

वैधर्म्येणापि साधर्म्यमिति तृतीयः प्रकारः पुनरस्या न वाच्यः ।

अस्योपमायामेव संभवाद्दाढर्यप्रतिपादनप्रतीतेश्च ।


विमर्शिनी

१२जः

क्रमेण यथा-

ऽतं णमह णाहिणलिनं हरिणो गाणङ्कणाहिरामस्स ।

छप्पाछम्पिअगत्तो मलो व्व चन्दम्मि जत्थ विहीऽ । ।

(

ऽतन्नमत नाभिनलिनं हरोर्गगनाङ्गनाभिरामस्य ।

षट्पदाच्छादितगात्रो मल इव चन्द्रे यत्र विधिःऽ) । ।

अत्रोपमेयस्य षट्पदाच्छादितत्वं कल्पितं ।

"

आवर्जिता किञ्चिदिव स्तनाभ्यां वासो वसानातरुणार्ककागं ।

संजातपुष्पस्तबकाभिनम्रा संचारिणी पल्लविनी लतेव । ।

"

अत्रोपमानगतत्वेन संचारिणीत्वं कल्पितं ।

न चास्याः पृथग्लक्षणं वाच्यम्

,

द्वयोरौपम्यप्रतीतेः ।

सामान्यलक्षणस्यात्राप्यनुगमात् ।

अथात्र कल्पनास्तीति चेत्

,

न ।

एवं हि प्रतिभेदं लक्षणकरणप्रसङ्गः ।

समुच्चितत्वादेर्विशेषान्तरस्यापि भावात् ।

अथोपमानगुणविशिष्टोपमेयावगमफलत्वेनोपमायाः प्रतिभटभूतवस्त्वन्तराभावप्रयोजनत्वेन चास्याः पृथगलङ्कारत्वमिति चेत्

,

न ।

अत्रोपमेयस्योपमानोपमानगुणविशिष्टतयैव प्रतीतेः फलभेदाभावात् ।

तथा हिऽआवर्जिताऽ इत्यादौ भगवत्या लतायाः सादृश्यस्य संचारिणीत्वेनाभावो मा प्रसाङ्क्षीदिति तयोः साधर्म्यंमेव द्रुडयितुं कविना लतायाः संचारिणीत्वं कल्पितं ।

नन्वत्र भगवत्या अन्यदुपमानं नास्तीति प्रतीयते ।

अनन्वयादिवदुपमानान्तरनिषेधस्य वाक्यार्थत्वात् ।

मैवं ।

एवमुपमेयस्यापि वैशिष्ट्यकल्पने उपमेयान्तरनिषेधफलत्वं वाच्यं ।

समानन्यायत्वात् ।

तद्यथा दृढरोपे रूपके विषयविषयिणोरभेदमेव द्रढयितुं कस्यचिद्धर्मस्य हानिराधिक्यं वा कल्प्यते

,

तथेहापि सामान्यदार्ढ्ययैव कल्पितत्वं ज्ञेयं ।

अत्राप्यभेदालङ्काराख्यालङ्कारान्तरत्वं न वाच्यं ।

रूपकेणैवास्या विच्छ्रित्तेः संगृहीतत्वात् ।

विषयविषयिणोरभेदो हि रूपकसतत्त्वं ।

स एव चात्र दार्ढ्येन प्रतीयत इति को नामास्य रूपकात्पृथग्भावः ।

अभेदमात्रप्रतीतौ रूपकम्

,

नियतधर्महानावन्यतः सर्वतोऽप्यभेदप्रतीतावभेद इति प्रतीतिभेदोऽप्यस्तीति चेत्

,

न ।

एवं ह्यस्ति तावदभेदप्रतीतिरत्रानुगता ।

यस्तु वशेषः स पृथग्भेदत्वे व्यवस्थापकोऽस्तु न पृथगलङ्कारत्वे ।

नहिशाबलेयतामात्रेण गोत्वमश्चत्वव्यपदेश्यं भवति ।

एवं च-

ऽगृहीतविग्रहः कामो वसन्तः सार्वकालिकः ।

जहार हृदयं कामी नित्यपूर्णः सुधाकरःऽ । ।

इत्यादौ गृहीतविग्रहत्त्वादेर्नियतस्य धर्मस्याधिक्येऽप्यलङ्कारान्तरप्रसङ्गः ।

इयं च मालात्वादिनानन्तभेदेति तद्ग्रन्थविस्तरभयान्न प्रपञ्चितं ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र १३ः

#<

एकस्यैवोपमानोपमेयत्वेऽनन्वयः । । अ.स. १३ । ।

वाच्याभिप्रायेण पूर्वंरूपानुगमः ।

एकस्य तु विरुद्धधर्मसंसर्गो द्वितीयसव्रह्यचारिनिवृत्त्यर्थः ।

अत एवानन्वय इति योगोऽप्यत्र संभ्रवति ।

यथा-

ऽयुद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो भीमोऽपि भीम इव वैरिषु भीमकर्मा ।

न्यग्रोधवर्तिनमयाधिपतिं कुरुणामुत्प्रासनार्थमिव जग्मतुरादरेणऽ । ।

>#


विमर्शिनी

१३ः

एकस्यैवेत्यादि ।

ननु सादृश्याश्रयाणामलङ्काराणां लक्षयुतुं प्रस्तुतत्वात्सादृश्यस्योभयनिष्ठत्वेनैव संभवादेकस्य च तदभावात्कथमिहातदाश्रयस्याप्यस्य वचनमित्याशङ्क्याह-वाच्याभिप्रायेणेत्यादि ।


विमर्शिनी

१३अः

पूर्वरूपेति ।

सादृश्याश्रयत्वस्येत्यर्थः ।

अस्त्वेव ह्यत्र शाब्दी सादृश्यप्रतीतिः ।

मुखं चन्द्र इवेत्यादिवदेवात्रोपमानोपमेयत्वस्य वाच्यतयोपनिबन्धनात् ।

अत एवाह-वाच्याभिप्रायेणेति ।

न पुनर्वस्त्वभिप्रायेणेत्यर्थः ।

वस्तुतो ह्येकस्यैव साध्यसिद्धधर्मरूपत्वासंभवादुपमानोपमेयत्वेऽपि विरोधः स्यात् ।

इत्थं शाब्दमेव सादृश्यानुगममाश्रित्येहास्य लक्षणं ।

ननु यद्येवमेकस्योपमानोपमेयत्वं विरुध्यते तत्किं वस्तुविरुद्धेन निष्फलेन चैतेनेत्याशङ्क्याह-एकस्येत्यादि ।


विमर्शिनी

१३बः

एवं चास्य द्वितीयसब्रह्मचारिनिवृत्तिरेवालङ्कारत्वप्रतिष्ठापकं प्रमाणं ।

अन्यथा पुनर्नास्यालङ्कारत्वं ।

यथा-

ऽतस्याज्ञयैव परिपालयतः प्रजा मे कर्णोपकण्ठपलितङ्करिणी जरेयं ।

यद्गर्भरूपमिव मामनुशास्त सोऽयमद्यापि तन्मयि गुरोर्गुरूपक्षपातःऽ । ।

अत्र यथैव गर्भरूपं मां गुरुरन्वशात्तथैवाद्याप्यनुशास्तीति सत्यप्येकस्योपमानोपमेयत्वे द्वितीयसब्रह्मचारि निवृत्तिप्रतिपत्त्यभावान्नायमलङ्कारः ।

एकस्यैवास्थाभेदेन च सिद्धसाध्यधर्मसंभवान्नोपमानोपमेयत्वरूपविरुद्धधर्मसंसर्गः ।

अत एवेति ।

विरुद्धधर्मंसंयोगात् ।

एकस्यैव सिद्धसाध्यरूपेणोपमानोपमेयत्वेनाविद्यभानोऽन्वयः संबन्धो यत्र स तथोक्तः ।

अर्जुनादन्यो युद्धे प्रथितप्रतापो नास्तीति द्वितायसब्रह्मचारिनिवृत्तिरत्र जीवितभूता प्रतीयत एव ।

अत एव कार्तवीर्यहिंस्त्रमत्त्वयोरुपमानरूपयोरप्रतीतेः शुद्धमेवैतदुदाहरणं ।

ऽइत्तिअमेतुम्मि जए सुन्दरमहिलासहस्सभरिअम्मि ।

अणुहरै णवरं तिस्सा

,

वामाद्धं दाहिणद्धस्सऽ । ।

(

ऽएतावन्मात्रे जगति सुन्दरमहिलासहस्त्रभरितेऽपि ।

अनुहरति केवलं तस्या वामार्धं दक्षिणार्धस्यऽ) । ।

इत्यादौ चानन्वयोदाहरणत्वं न वाच्यं ।

अत्रान्याधनान्यार्धस्योपमीयमानत्वेनोपमाया अभिधीयमानत्वात् ।

अस्य ह्युपमानान्तरनिषेधपर्यवसाय्यभिधीयमानमेकस्यैवोपमानोपमेयत्वं स्वरूपं ।

न च तदत्र शब्देनाभिधीयतेऽपि तु व्यज्यत इति प्रतीयमानतैव युक्तेति न वाच्यत्वमस्येतिवाच्यं ।

एवं ह्यलङ्कादध्वनेर्विषयापहारः स्यात् ।

एवम्-

ऽगन्धेन सिन्धुरधुरन्धर वक्त्कमैत्त्रीमैरावणप्रभृतयोऽपि न शिक्षितास्ते ।

तत्त्वं कचत्र्तिनयनाचलरत्नभित्तिस्वीयप्रतिच्छ्रविषु यूथपतित्वमेषऽ । ।

इत्यत्राप्यनन्वयो न वाच्यः ।

स्वीयप्रतिबिम्बैरेव सादृश्यप्रतीतेस्तद्गन्धस्याप्यभावात् ।

यदि नाम चैतत्प्रतीयेत तदप्यस्य प्रतीयमानत्वं स्यान्न वाच्यत्वं ।

यथोक्तन्यायात् ।

एवं च तदेकदेशेनावसितभेदेन वेत्यपास्य उपमानतया कल्पितेन तेनैव सादृश्यमनन्वय इत्येव त्वया सूत्रणीयं ।

ऽग्रसमानमिवौजांसि सदस्यैर्गौरवेरितं ।

नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान्ऽ । ।

इत्यत्र पुंसः पुंस्त्वारोपादनन्वयरूपकमिति यदन्यैरुक्तं तदयुक्तं ।

एकस्यैव विध्यनुवादभावेनावस्थानादारोपाभावात् ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र १४ः

#<

द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा । । अ.स. १४ । ।

तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्शः ।

पर्यायो यौगपद्याभावः ।

अत एवात्र वाक्यभेदः ।

इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिर्देशे च द्विधा ।

आद्ये यथा-

ऽखमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः ।

कुमुदाकारास्तारास्ताराकाराणि कुमुदानिऽ । ।

द्वितीये यथा-

ऽसच्छायाभ्भोजवदनाः सच्छायवदनाम्बुजा ।

वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाःऽ । ।

>#


विमर्शिनी

१४ः

द्वयोरित्यादि ।

द्वयीरित्युपमानोपमेययोः

,

न पुनर्द्धिसंख्याकयोः ।

तेन

,

ऽकान्ताननस्य कमलस्य सुधाकरस्य पूर्वं परस्परमभूदुपमानभावः ।

सद्यो जरातुहिनराहुपराहतानामन्यः परस्परमसावरसः प्रसूतःऽ । ।

इत्यत्र त्रयाणामप्युपमानोपमेयत्वं स्थितमस्या एवाङ्गं ।

तच्छब्देनेति तस्मिन्नित्यनेन ।

यौगपद्याभाव इति क्रमरूपत्वात् ।

अत इति यौगपद्याभावात् ।

स च वाक्यभेदः शाब्द आर्थश्च ।

तत्र शाब्दो यथा -

ऽरजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः ।

भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्ऽ । ।

अत्र भुवस्तलं व्योमेव कुवंन्निति वाक्यपरिनिष्पत्तेः स्फुट एव शाब्दो वाक्यभेदः ।

ओआर्थो यथा -

ऽभवत्पादाश्रयादेव गङ्गा भक्तिश्च शाश्वती ।

इतरेतरसादृश्यसुभगामेति वान्द्यताम्ऽ । ।

अत्र स्फुटेऽपि शाब्दे एकवाक्यत्वे गङ्गाभक्तिवद्भक्तिश्च गङ्गावद्वन्द्येत्यस्त्येवार्थो वाक्यभेदः ।

अस्याश्चो पमानान्तरतिरस्कार एव फलं ।

अत एवोपमेयेनोपमा इत्यस्या अन्वर्थाभिधानं ।

यत्र पुनरुपमानान्तरतिरस्कारो न प्रतीयते तत्र नायमलङ्कारः ।

यथा-

ऽसविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः ।

यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसिऽ । ।

न ह्यत्र विधुसवित्रादीनामुपमानान्तरतिरस्करणं विवक्षितं किं तु सुखदुःखवशीकृतमनसामेवं विपरीतं भवतीति ।


विमर्शिनी

१४अः

साधारण्य इति ।

एतच्च धर्मस्य निर्देशानिर्देशरूपपक्षद्वययागूरकत्वेनोक्तं ।

तत्र निर्देशपक्षेसाधारण्यमस्ति तथाप्यत्र सकृन्तिर्देशेनैवानुगतत्वात्तदुपलम्भः स्फुट इत्यत्र भावः ।

अनिर्देशपक्षे तु वास्तवमेव साधारण्यं ।

यदनुसारं खमिव जलमित्याद्यदाहृतं ।

धर्मस्यानुगामित्वे तु यथा-

ऽकमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः ।

धरणीव धृतिर्धृतिरिव धरणी सततं विभाति बत यस्यऽ । ।

अत्र विभातीति सकृन्निर्दिष्टं ।

वस्तुप्रतिवस्तुनिर्देशश्च पूर्ववदिहापि शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां द्विधा ।

तत्र बिम्बप्रतिबिम्बभावो ग्रन्थकृतैवोदाहृतः ।

तत्र ह्यभ्भोजवदनयोर्बिम्बप्रतिबिम्बभावः ।

शुद्धसामान्यरूपत्वं यथा-

ऽतद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलापधिरोहतां द्वे ।

प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रलचितभ्रमरं च पद्मम्ऽ । ।

(

अत्र) प्रत्पन्दमानप्रचलितत्वेन शुद्धसामान्यरूपत्वं ।

तारकभ्रमरयोस्तु बिम्बप्रतिबिम्बभावः ।

उन्मेषाभिप्रायेण चानुगामितेति भेदत्रयस्याप्येतदुदाहरणं ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र १५ः

#<

सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणं । । अ.स. १५ । ।

वस्त्वन्तरं सदृशमेव ।

अविनाभावाभावान्नानुमानं ।

यथा-

ऽअतिशयितसुरासुरप्राभावं शिशुमवलोक्य तथैव तुल्यरूपं ।

कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामिऽ । ।

सादृश्यं विना तु स्मृतिर्नायमलङ्कारः ।

यछा-

ऽअत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।

रहस्त्वदुत्सङ्गनिषण्णामूर्धा स्मरामि वानीरगृहेषु सुत्पःऽ । ।

अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मतृदशाभावित्वमसमीचीनं ।

>#


विमर्शिनी

#<

१५ । ।

>#

सदृशेति ।

वस्त्वन्तरमिति स्मर्यमाणं ।

सदृशमेवेति ।

सादृश्यस्योभयनिष्ठत्वात् ।

अतश्च स्मर्यमाणेनानुभूयमानस्य

,

अनुभूयमानेन वा स्मर्यमाणस्य सादृश्यपरिकल्पनमयमलङ्कारः ।

यदुक्तं -

ऽयथा दृश्येन जनिता साम्यधीः स्मर्यमाणगा ।

स्मर्यमाणकृताप्यस्ति तथेयं दृश्यगामिनीऽ । ।

इति । ।

तत्राद्यः प्रकारो ग्रन्थकृदुदाहरणे ।

तत्र हि शिशोरेव रघुनन्दनेन सादृश्यं विवक्षितं ।

द्वितायस्तु यथा -

ऽतस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।

मङ्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामिऽ । ।

अत्रानुभूयमानेन मेघेन स्मर्यमाणस्य क्रीडाशैलस्य सादृश्यपरिकल्पनं ।

एवं चात्र सादृश्यस्योभयसंबन्धेऽप्यनुभूयमानेनैव पुनः स्मर्यमाणप्रतीतिर्भवतीत्यवसेयं ।

ननु यद्येवं तत्परस्मात्परप्रतिपत्तेः किं नेदमनुमानमित्याशङ्क्याह-अविनाभावित्यादि ।

अविनीभावस्तादात्म्यान्नित्यसाहचर्याहुः ।

अनुभूयमानस्मर्यमाणयोश्च तदभावः ।

शिशुरघुनन्दनयोः सादृश्यपरिकल्पने चातिशचितसुरात्पुरभावत्वादिधर्मोऽनुगामितया निर्दिष्टः ।

वस्तुप्रतिवस्तुभावेनापि धर्मस्यायं भवति ।

तत्र शुद्धसामान्यरूपत्वेन यथा-

ऽसान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः ।

ऽकुर्वन्नाजस्त्रं यमुनाप्रवाहसलीलराधास्मरणं मुरारेःऽ । ।

अत्र सोल्लाससलीलत्वयोरेकत्वं ।

बिम्बप्रतिबिम्बभावेनापि यथा -

ऽपूर्णेन्दुना मघलवाङ्कितेन द्यां मुद्रितां सुन्दरि वीक्षमाणः ।

विवाहहोमानलधूमलेखामिलत्कपोलां भवतीं स्मरामिऽ । ।

अत्र मेघलवधूमलेखादीनां बिम्बप्रतिबिम्बभावः ।

एतदेव सादृश्यनिमित्तत्वं द्रढयितुं प्रत्युदाहरति-सादृश्यमित्यादिना ।

सदृशानुभवाभावात्तत्स्मृतेर्न सादृश्यहेतुकत्वं ।

स्मर्तव्यदशाभावित्व इति ।

स्मर्तव्यदशाभावित्वं वाच्यं सदनादृश्येत्यर्थः ।

अत एव वाच्यस्यावचनं ।

स्मर्तृदशाभावित्वमित्यत्यवाच्यस्य वचनं ।

यद्यपि स्मर्तृदशायामतीतत्वात्कर्तृविशेषणानां मृगयानिवृत्तित्वादीनामप्यतीतकालावच्छिन्नानां तद्भावित्वं तथापि वर्तमानकालावच्छिन्नस्य स्मर्तुर्विशेषणभावेनोपनिबन्धात्तेषां तदवच्छिन्नतैव प्रतीयत इति यथोक्तमेव दूषणद्वयं युक्तमिति सहृदया एव प्रमाणं ।

__________

अ.स. १५ ।१ः

#<

प्रेयोलङ्कारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः ।

यथा

ऽअहो कोपेऽपि कान्तं मुखम्ऽ इति ।

तत्रापि विभावाद्यागूरितत्वेन स्वशब्दमात्रप्रतिपाद्यात्वे यथा-

ऽअत्रानुगादम्ऽ इत्यादि ।

ऽयैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्त्रुतिपाटलीकृतपुरोभागः परान्पातयन् ।

तेषां दुःसहकामदेहदहनप्रोद्भतनेत्रानल- ज्वालालीभरभास्वरे स्मरिपावस्तं गतं कौतुकम्ऽ । ।

इत्यादौ सदृशवस्त्वन्तरानुभवेऽशक्यवस्त्वन्तरकरणात्मा विशेषालङ्कारः

,

कारणस्य क्रियासामान्यात्मनो दर्शिनेऽपि संभवात् ।

मतान्तरे काव्यलिङ्गमेतत् ।

तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालङ्कारा निर्णीताः" ।

>#


विमर्शिनी

१५ ।१ः

प्रत्युदाहरणान्तरमपि दर्शयति-प्रेयोलङ्कारस्येत्यादिना ।

तुशब्दश्चार्थे ।

सादृश्यव्यतिरिक्तं संस्कारादिनिमित्तं ।

तत्रापीति ।

एवं स्थितेऽपि सतीत्यर्थः ।

विभावाद्यागूरितत्वे प्रेयोलङ्कारस्य सादृश्यव्यतिरिक्तनिमित्ततोत्थापिता स्मृतिर्विषय इति संबन्धः ।

तत्र विभावाद्यागूरितत्वे स्मृतिर्यथा-ऽअहो कोपेऽपि कान्तं मुखम्ऽ इति ।

स्वशब्दमात्रप्रतिपाद्यत्वे यथोदाहृतम्ऽअत्रानुगोदम्ऽ- इत्यादौ ।

अत्र च यथा प्रेयोलङ्कारो भावध्वनेश्चास्य यथा भिन्नविषयत्वं तथाग्र एव वक्ष्यामः ।

एवं च प्रत्युदाहरणद्वयस्यापि प्रयोजनं भिन्नविषयत्वात् ।

क्वचिच्च सादृश्यनिमित्तापि स्मृतिरवाक्यार्थत्वान्नास्मिन्पर्यवस्यतीत्याह-ऽयैर्दृष्टोऽसि-ऽ इत्यादि ।

वस्त्वत्र जयापीडदर्शनं ।

वस्त्वन्तरं तु भगवल्लक्षणं ।

अत्र त्वद्दर्शनमभिलषतां जनानां न त्वद्दर्शनावात्पिरेवाभूद्यावत्तेषामसंभाव्यं भगवद्र्शनमपि जातमित्यशक्यवस्त्वन्तरकरणं ।

विशेषालङ्कारस्य ह्यशक्यवस्त्वन्तरकरणं रूपम्

,

इह पुनरशक्यवस्त्वन्तरदर्शनं स्थितमिति कथमत्र विशेषालङ्कार इत्याशङ्क्याह-करणस्येत्यादि ।

एतच्च गम्यगमकभावमाश्रित्यान्यैः काव्यलिङ्गत्वेनाभ्युपगतमिति दर्शयितुमाह-मतान्तर इत्यादि ।

एतदिति स्मरणं ।

मतान्तर इत्यौद्भटे ।

यदुक्तम्-

ऽश्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा ।

हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यतेऽ । ।

इति । ।

इह पुनर्गम्यगमकभावादनुभूयमानस्मर्यमाणव्यवहारोऽपि विशिष्यत इति पृथगलङ्कारतयैतदुक्तं ।

एतदुसंहरन्नन्यदवतारयति-तदेत इत्यादि ।

एत इत्युपमाद्याश्चत्वारोऽलङ्काराः ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र १६ः

#<

अभेदप्राधान्ये आरोपे आरोपविषयानपह्नवे रूपकं । । अ.स. १६ । ।

अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः ।

अन्यत्रान्यावाप आरोपः ।

तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्नवेऽपह्नुतिः ।

अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकं ।

साधर्म्ये त्वनुगतमेव ।

यदाहुः-

ऽउपमैव तुरोभूतभेदा रूपकमिष्यतेऽ इति आरोपादभेदेऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालङ्कारविभागः ।

>#


विमर्शिनी

१६ः

संप्रतीति ।

भेदाभेदतुल्यत्वाश्रयालङ्कारानन्तरमभेदप्रधानं लक्षयितुमुचितत्वादवसरप्रात्पावित्यर्थः ।

तत्र तावत्प्रथमं रूपकं लक्ष्यति-अभेदप्राधान्य इत्यादि ।

वस्तुत इति ।

न तु प्रतीतितः ।

सद्भाव इति ।

प्रधानाप्राधानयोः संबन्धिशब्दत्वात् ।

अन्यत्रान्यावाप आरोप इति ।

अन्यत्रेति प्रकृते मुखादौ ।

अन्यस्येत्यप्रकृतस्य चन्द्रादेः ।

स च सामानाधिकरण्येन वैयाधिकरण्येन च निर्देशे भवति ।

न तु सामानाधिकरण्येन निर्देश एव सः ।

एवं हि-ऽयाताः कणादतां केचित्ऽ इत्यादावारोपसद्भावेऽपि न सामानाधिकरण्यमस्तीत्यव्यात्पिः स्यात् ।

आर्यं सामानाधिकरण्यमस्तीति नाव्यात्पिरित चेत्

,

न ।

भिन्नयोः सामानाधिकरण्येन निर्देशो[अ. र. सू.२६]ह्यारोपलक्षणं ।

न च तदत्र निर्दिष्टं ।

वैयधिकरण्येन निर्देशात्तस्यार्तावसेयत्वात् ।

अर्थावसायो निर्देशश्च नैकं रूपं ।

विप्रतिषेधात् ।

नीलरोपः प्रसज्यत इत्यतिव्यात्पिः स्यात् ।

न चारोपे भिन्नयोः सामानाधिकरण्येन निर्देश उच्यत इत्यसंभवोऽपि ।

इति न निरवद्यमेतदापरोपलक्षं ।

यद्येवं तत्किं शब्दे शब्दान्तरमर्थे वार्थान्तरमारोप्यत इति चेद्ब्रुमः ।

तत्र न शब्दे शब्दान्तरारोपः ।

मुखशब्दादेश्चन्द्रशब्दादिरूपत्वेनाप्रतीतेरन्योन्यविविक्तस्वान्तरूपोलम्भादिति भवद्भिरेवोक्तत्वात् ।

किं त्वर्थेर्ऽथान्तरारोपः ।

स च प्रयोजनपरतया तथा निर्देश्यते न भ्रान्त्या ।

अत एव ह्युक्तिकायामिव रजतारोपो न मुखे चन्द्रारोपः ।

तस्य स्वरसत एवोत्थानेन भ्रमरूपत्वात् ।

अत एव तत्रारोपविषयस्यारोप्यमाणेनाच्छ्रादितत्वेन प्रतीतिः ।

इह पुनर्जानान एव कश्चिचन्द्रविविक्तंमुखं तत्र प्रयोजनपरतया चन्द्रार्थमारोपयति ।

अत एवोक्तमारोपविषयानपह्नव इति ।

भवद्भिरप्यनेनैवाशयेनऽप्रतिपादनभ्रामोऽयं न भ्रान्ता प्रतिपत्तिरित्याद्युक्तं ।

तस्येत्यारोपस्य विषयः प्रकृतः विषयी चाप्रकृतः ।

ताभ्यामवष्टब्धत्वं युक्तत्वं ।

यदुक्तम्-ऽसारोपान्या तु यत्रोक्तौ विषयी विषयस्तथाऽ इति ।


विमर्शिनी

१६अः

अन्यथेति ।

अनपह्नवे ।

एवमनेनापह्नुतिरूपकयोर्भेदोऽप्युक्तः ।

आहुरिति दण्ड्यादयः ।

अतश्च साधर्म्यसद्भावात्तदनुयायुभेदत्रयानुप्राणितत्वमप्यस्य ज्ञेयं ।

यथा-

ऽकन्दर्पद्विपकर्णकम्बुमसितैर्दानाम्बुभिर्लाञ्छितं संलग्नाञ्जनपुञ्जकालिकलं गण्डोपधानं रतेः ।

व्योमानोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं पश्यैतच्छ्रशिनः सुधासहचरं बिम्बं कलङ्काङ्कितम्ऽ । ।

अत्र कलङ्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनं ।

लाच्छ्रितत्वाङ्कितत्वयोः शुद्धसामान्यरूपत्वं ।

सुधारहचरत्वस्यानुगतत्वादनुगामितेति भेदत्रयानुप्राणितत्वं ।

अनेन च सादृश्यनिमित्त एवारोपो रूपकमित्युक्तं भवति ।

केषाञ्चिदपि संबन्धान्तरहेतुरप्यारोपो रूपकाङ्गमेवेति मतं ।

यदाहालङ्कारभाष्यकारः-ऽलक्षणापरमार्थं यावता रूपकस्वरूपम्ऽ इत्युपक्रम्यऽसारोपान्या च सादृश्याद्वा संबन्धान्तराद्वाऽ इत्यादि ।

स तु यथा-

ऽअमृतकवलः शोभाराशिः प्रमोदरसप्रपा सितिमशकटं ज्योत्स्नावापी तुषारधरट्टिका ।

मनसिजवृसी शृङ्गारश्रीविमानमहो नु भो निरवधिसुखश्रद्धा दृष्टेः कृती मृगकेतनःऽ । ।

अत्रेन्दुरूपे कारणे कार्यपुपायाः श्रद्धाया आरोपः ।

ग्रन्थकृताप्यलङ्कारानुसारिण्या-अत्रऽश्रद्धाहेतुत्वाच्छ्रद्धेऽ त्यभिधायऽविशेषणैकस्मिन्ननेकवस्त्वारोपान्मालारूपकमित्यभिदधतायमेव पक्षः कटाक्षितः ।

ननु चाध्यवसायगर्भाणामप्यलङ्काराणामभेदप्राधान्ये सति प्रथमारोपगर्भा अलङ्काराः किमिति लक्षिता इत्याशङ्क्याह-आरोपादित्यादि ।

__________

अ.स. १६ ।१ः

#<

इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधं ।

आद्यं केवलं मावारूपकञ्चते द्विधा ।

द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव ।

तृतीयं श्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमालारूपकत्वाच्चतुर्विधं ।

तदेवमष्टौ रूपकभेदाः ।

अन्ये तू प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः ।

>#


विमर्शिनी

१६ ।१ः

चशब्दोऽन्यालङ्कारापेक्षया भेदसमुच्चार्थः ।

विषयद्योतकस्तुशब्दः ।

अवयवेभ्यो निष्क्रान्त आरोप्यमाणो यत्र तत्तथोक्तं ।

सहावयवैरारोप्यमाणो वर्तते यत्र तत्तथोक्तं ।

परम्परयैकस्य माहात्म्यादपरस्यारूपणात्वमायातं यत्र तत्तथोक्तं ।

आद्यमिति निरवयवं ।

माला चैकस्यानेकस्य वानेकारोपाद्भवति ।

एवं परम्परितत्वेन मालारूपकं ज्ञेयं ।

द्वितीयमिति सावयवं ।

समस्तमारोप्यमाणात्मकं वस्त्वभिधाया विषयो यत्र तत्तथोक्तं ।

एकदेश आरोपविषयाणाम्

;

अर्थस्तदात्मक एवारोप्यमाणप्रयोजनप्रतिपादनाय तद्रूपतया विवर्तते परिणमति यत्र तत्तथोक्तं ।

तृतीयमिति परम्परितं ।

यद्यपि श्लेषनिबन्धनेऽस्मिन्गुणक्रियात्मकधर्मनिबन्धनस्य सादृश्यस्यासंभव एव तथापि शब्दमात्रकृतमेवाभेदाध्यवसायतः सादृश्यं ग्राह्यं ।

अन्य इति एतद्भेदाष्टकव्यतिरिक्ताः ।

संभवन्तीति चिरन्तनालङ्कारग्रन्थेष्वेव ।

न पुनर्लक्ष्यन्त इति भावः ।

तत्र हि तेषां तत्त्वेऽप्येतद्भेदाष्टककृतमेव वैचित्र्यं प्रतीयते ।

यथा च-

ऽपादः कूर्मोऽत्र यष्टिर्भुजगपतिरयं भाजनं भूतधात्री तैलापूराः समुद्राः कनकगिरिरयं वृत्तवर्तिप्ररोहः ।

अर्चिश्चण्डांशुरुच्चैर्गगनमलिनिमा कज्जलं दह्यमाना वैरिश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्रतापप्रदीपःऽ । ।

इत्यत्र सत्वपि वाक्यार्थोक्तत्वे समस्तवस्तुविषयकृतमेव वैचित्र्यं ।

__________

अ.स. १६ ।२ः

#<

क्रमेण यथा-

ऽदासे कृतागासि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये ।

उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्- यत्खिद्यते तव पदं ननु सा व्यथा मेऽ । ।

ऽपीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये स्वर्गङ्गाविमनस्ककोकवदनस्त्रस्ता मृणालीलते ।

द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा- माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुःऽ । ।

ऽविस्तारशालिनि नभस्तलपत्त्रपात्रे कुन्दोज्ज्वलप्रभ-भ संचयभूरिभक्तं ।

गङ्गातरङ्गघनमाहिषदुग्धदिग्धं जग्धं मया नरपते कलिकालकर्णऽ । ।

ऽआभाति ते क्षितिभृतः क्षणदाप्रभेयं निस्त्रिंशमांसलतमालवनान्तलेखा ।

इन्दुत्विषो युधि हठेन तवारिकीर्ती- रानीय यत्र रमते तरुणः प्रतापःऽ । ।

क्षितिभृत इत्यत्र श्लिष्टं पदं ।

परम्परितम्-

ऽकिं पद्मम्य रुचिं न हन्ति नयनानन्दं विधत्ते न वा वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किं ।

वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो दर्पः स्यादमृतेन चिदिह तदप्यस्त्येव बिम्बाधरेऽ । ।

अत्र वक्त्रेन्दुरूपणहेतुकमधरामृतस्य पीयूषेण श्लिष्टशब्दं रूपणं ।

ऽविद्वन्मानसहंस वैरिकमसासंकोचदीत्पद्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर ।

सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाःऽ । ।

अत्र त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्दं मालापरम्परितं ।

ऽयामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाखथं ।

जन्मजरामरणार्णवतरणतरण्डं हराङ्घ्रियुगम्ऽ । ।

ऽपर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो भ्रग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यामदानाम्बुपट्टः ।

सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्यऽ । ।

अत्र क्ष्मासौविदल्ल इति परम्परितमप्येकदेशविवर्ति ।

एवमादयोऽन्येऽपि भेदा लेशतः सूचिता एव ।

>#


विमर्शिनी

१६ ।२ः

क्रमेणेति यथोद्देशं ।

द्विर्भावः स्मरकार्मुकस्येत्यत्र च वाक्यार्थपर्यालाचनयेन्दोः स्मरकार्मुत्वारोपप्रतीतेः कुटिलत्वाद्यनेकधर्मनिमित्तं सादृश्यमेव संबन्धः ।

इन्दोश्चैकस्य बहव आरोपा इति मालारूपकं ।

अनेकस्य तु यथा-

ऽबाहू बालमृणालिके कुचितटी माणिक्यहर्म्यं रतेर्- मुक्ताशैलशिला नितम्बफलकं हासः सुधानिर्झरः ।

वाचः कोकिलकूचितानि चिकुराश्चेतोभवश्चामरं तस्यास्त्रस्तकुरङ्गशावकदृशः किं किं न लोकोत्तरम्ऽ । ।

अत्रानेकेषामनेकारोपाद्रूपकमाला ।

इयं च श्लेषनिबन्धनापि दृश्यते ।

यथा -

ऽनेत्रे पुष्करसोदरे मधुमती वाणी विपाशा मति- श्चेतो याति नदीनतां कलयते शोणत्वमस्याधरः ।

चारित्रं ननु पापसूदनमहो मामेष तीर्थाश्रयः स्नातुं वाच्छति भूपतिः परमितीवोष्णोदकं वस्त्रगतिऽ । ।

अत्रानेकेषां श्लिष्टा अनेक आरोपिती इति श्लिष्टार्थरूपकमाला ।

आभातीत्यत्र समासोक्तिमन्ये मन्यन्त इत्युदाहरणान्तरेणोहाहियते । ।

यथा -

ऽभवत्संवित्पुष्पश्रियमनुपमामोदमधुरां समुच्चिन्वन्नाविषयवनराजीविकसितां ।

भवोद्याने भक्त्या तव सह विशेषोल्लसितया विहर्त्तु व्यग्रः स्यामनुसृकतविवे कप्रियसखःऽ । ।

भक्तेर्नायिकारोपस्याशाब्दत्वादेशविवर्तित्वं ।

ऽपूयूषस्याधरामृतेन श्लिष्टशब्दनिरूपणम्ऽ इति लेखककल्पितोऽयमपपाठो ज्ञेयः | |

अधरामृतस्य हि पूयूषेण निरूपणमत्र स्थितं ।

अतश्च

ऽअधरामृतस्य पीयूषेण श्लिष्टशब्दनिरूपम्ऽ इति पाठो ग्राह्यः ।

अत्र च पीयूषवदमृतशब्दस्याधररसावाचकत्वमन्ये मन्यन्त इत्युदारहणान्तरमुदाह्रियते ।

यथा-

ऽअलौकिकमहालोकप्रकाशितजगत्त्रय ।

स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान्ऽ । ।

अत्र मुक्तारत्नमित्तयरोपपूर्वको वंश एव वंश इत्यारोप इति श्लिष्टशब्दं केवलपरम्परितं ।

विद्वदित्यादो हंसरूपणामहात्म्यान्मानसरूपेणेति परम्परितं ।

एवमर्णवरूपणा तरण्डारोपस्य हेतुरिति परम्परितं ।

पर्यङ्क इत्यत्रैकस्य बहव आरोपा इति मालापरम्परितं ।

अनेकस्य तु यथा-

ऽश्रीः श्रीः धरोरःस्थलखेन्दुलेखा श्रीकण्ठकण्ठाभ्रतिडिच्च गौरी ।

शक्राक्षिपश्वाकरराजहंसी शची च वो यच्छ्रतु मङ्गलानिऽ । ।

अत्र बहूनामनेकारोपात्परम्परितमाला ।

एवमादय इति ।

परम्परितमप्येकदेशविवर्तीत्त्येवंप्रकारः ।

सूचिता इति ।

एतत्प्रदर्शनादेव ।

ततश्च सावयवं द्विविधमपि श्लिष्टं दृश्यते ।

तत्र समस्तवस्तुविषयं यथा-

ऽविहढन्तोठ्ठदलौडं फुरन्ताकारबहलकेसरपारं ।

पहरिसचन्दालोए हसिअं कुमुएण सुरहिगन्धोग्गारम्ऽ । ।

[

सेतुबन्धे ४१६] (ऽविघटमानौष्ठदलपुटं स्फुरद्दन्ताकारबहलकेसरप्रकरं ।

प्रहर्षचन्द्रालोके हसितं कुमुदेन सुरभिगन्धोद्गारम्ऽ) । ।

अत्र कुमुदस्य श्लिष्टत्वं ।

एकदेशविवर्ति यथा-

ऽयत्तारामौक्तिकार्धप्रकरपुलकितं चन्द्रिकाचन्दनाम्भो- दिग्धं सत्पर्षिहस्तस्थितकरकपयोधौतमाकाशलिङ्गं ।

तोयाधारे प्रतीचि च्युतवति दिनकृद्विम्बनिर्माल्यपद्मे तस्यार्चाण्डरीकं व्यधित हिमकरं सत्वरं मूर्ध्नि कालःऽ । ।

अत्र कालविषये पूजकादिरारोप्यमाणो न शाब्द इत्येकदेशविवर्तित्वं ।

तोयाधारस्य समुद्रनिर्माल्योदकभाण्डवाचकत्वाकत्वाच्छ्रिलष्टत्वं ।


विमर्शिनी

१६ ।२अः

क्वचिच्चाभेदमेव द्रढयितुं विर्षायणो निषेधपूर्वमारोप्यमाणत्वेन तदीयस्य वा भेदहेतोर्धर्मस्य हानिकल्पनेनाधिक्येन वा दृढारोपत्वेनापीदं दृश्यते ।

क्रमेण यथा -

ऽकलिप्रिया शश्चदपालितावज्ञां गुरुज्ञातिषु दर्शयन्ती ।

जाया निजा या ननु सैव कृत्या कृत्या न कृत्या सरलस्य धार्मेःऽ । ।

अत्र कृत्या निषेधपूर्वं जायायामारोपिता ।

तन्निषेधेन हि जायाया कृत्यया दाढर्येन साम्यं प्रतीयते ।

कृत्या तथा न स्वकर्मणि व्याप्रियते यथेयं तत्कर्मणीति ह्यत्र वाक्यार्थः ।

अत्र च यदन्ये विशेषालङ्कारमाहुस्तदभेदालङ्कारनिराकणादेव निराकृतमिति न पुनरायस्यते ।

हान्यायथा -

ऽवनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।

भवन्ति यत्रैषधयो रजन्यामतैलपूराः सुरतप्रदीपःऽ । ।

अत्रातैलपूरेण हानकल्पनं ।

आधिक्येन यथा-

ऽतुरीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽपि वा ।

अपि वा जङ्गमं तीर्थं धर्मो वा मूर्तिसंचरःऽ । ।

अत्र तुरीयत्वादेर्धर्मस्याधिक्यं ।

ऽदृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य ।

कृपणस्य कृपाणस्य च केवलमाकारतो भेदःऽ । ।

इत्यत्रापि दृढरोपमेव रूपकं ज्ञेयं ।

अत्र हि कृपाणस्येति समुच्चीयमानत्वेननिर्देशाच्छ्राब्दस्यारोपस्याप्रतीतेरप्याकारमात्रेण भेदस्योक्तेर्वाक्यार्थपर्यालोचनमाहात्म्यात्वरिशिष्टसमस्तधर्मान्तरसद्भावाभ्यनुज्ञानाप्यर्यवसाने दाढर्येन विषयविषयिणोरभेदप्रतिपत्तिः ।

सैव च रूपकसतत्त्वमिति पूर्वमेवोक्तं ।

अन्येऽपि भेदाः स्वयमेवाभ्यह्योदाहार्याः ।

__________

अ.स. १६ ।३ः

#<

इदं वैधर्म्येणापि दृश्यते ।

यथा-

ऽसौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण- ज्योत्स्नाकृष्णचतुर्दशी सरलतयोगश्वपुच्छच्छटा ।

यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्ऽ । ।

अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गसंख्यात्वेऽपि क्वचित्स्वतोऽसंभवत्संख्यायोगस्यापि विषयसंख्यात्वं प्रत्येकमारोपात् ।

यथा -ऽक्वचिज्जटावल्कलावलम्बिनः कपोला दावाग्रयःऽ इत्यादौ ।

न हि कपिलमुनेर्बहुत्वं ।

ऽभ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छे तमः शरीरसादं ।

मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्ऽ । ।

इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव ।

जलदभुजगजमिति रूपकसाधकमिति पूर्वे सिद्धत्वाभावान्न तन्निचन्वनं विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः ।

>#


विमर्शिनी

१६ ।३ः

वैधर्म्येणापीति ।

न केवलं साधर्म्येणेत्यर्थः ।

अस्य च विच्छित्तिविशेषान्तरं दर्शयितुमाह-अत्रेत्यादि ।

आविष्टलिङ्गत्वेऽपीत्यनेन धर्मिणः स्वरूपमात्रपर्यवसितत्वेऽपि धर्म्यन्तरसंबन्धिनः संख्यात्मनो धर्मान्तरस्यापि स्वीकार इत्यावेदितं ।

असंभवत्संख्यायोगत्येति ।

यद्यप्येकादिव्यवहारहेतुः संख्येति नीत्या एकस्मिन्नपि द्रव्ये तद्योगः संभवति तथाप्यनेकद्रव्यवर्तित्वाद्यभिप्रायेणैतदुक्तं ।

प्रत्येकमारोपादिति अयमग्निः कपिलोऽयमग्निः कपिल इत्येवंरूपात् ।

अतश्चारोप्यमाणस्य कृपिलमुनेर्बहुत्वायोगाद्विषयसंख्यत्वं ।

श्लिष्टतानिबन्धनस्य परम्परितस्य श्लेषाद्वैलक्षण्यं द्योतयितुमाह-भ्रमिमिति ।

प्रभावित इति ।

प्रथममेव प्रतीतिगाचरीकृत इत्यर्थः ।


विमर्शिनी

१६ ।३अः

पूर्वं सिद्धत्वाभावादिति ।

रूपकस्य श्लेषहेतुत्वात् ।

तन्निबन्धनिमिति रूपकनिबन्धनं ।

इति शब्दो हेतौ ।

अतश्च श्लेष एवात्रालङ्कारो न परम्परितं रूपकमित्यत्र तात्पर्यं ।

चिन्त्यं चैतत् ।

यतः श्लेषस्तावद्वाच्चयोर्द्वयोः प्रकृतयोरप्रकृतयोः प्रकृताप्रकृतयोश्च भवति ।

अत्र च न द्वयोः प्रकृतत्वं नाप्यप्रकृतत्वं ।

वर्षासमये जलदस्येव जलस्य वर्णनीयत्वात् ।

प्रकृताप्रकृतयोश्च विशेषणसाम्य एव श्लेषो भवति इह तु विशेष्यस्यापि साम्यमिति शब्दशक्त्युत्थितस्य ध्वनेरयं विषयो न श्लेषस्य ।

अतश्च नात्र श्लेषालङ्कारः ।

नापि ध्वनिः ।

जलदभुजगजमिति रूपकमाहात्म्याच्छब्दशक्या गरलार्थस्याभिधानात् ।

एवमत्र श्लिष्टशब्दनिबन्धनं [रूपकमेवालङ्कारः] जलदभुजगजमिति रूपकान्तरेणापि गरलार्थो यदि प्रतीयते तत्स ध्वनेर्वषयः स्यादित्युक्तंं ।

स्थिते तु जलदभुजगजमिति रूपके तन्माहात्म्यादेव विषशब्दे श्लिष्टशब्दनिबन्धनं रूपकं ।

अन्यथा हि जलदभुजगजमिति रूपकं व्यर्थं स्यात् ।

तेन विना हि गरलार्थः प्रतीयतत इत्यलं बहुना ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र १७ः

#<

आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः । । अ.स. १७ । ।

आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमिति ।

आगमानुगमविगमख्यात्यभावात्सांख्यीयपरिणामवैसक्षण्यं ।

तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद्द्वैविध्यं ।

आद्यो यथा-

ऽतीर्वा भूतेशमौलिस्त्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय ।

व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छ्रादन्वीयमानस्त्वरितमय गिरिं चित्रकूटं प्रतस्थेऽ । ।

अत्र सौमित्त्रिमैत्त्री प्रकृता आरोप्यमाणसमानाधिकरणातररूपत्वेन परिणता ।

आतरस्य मैत्त्रीरूपतया प्रकृते उपयोगात् ।

तदत्र यथा समासोक्तावारोन्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थितम्

,

अत एव तत्र तद्व्यवहारसमारोपः एवमिहापि ज्ञेयम्

,

केवलं तत्र विषयस्यैव प्रयोगः

,

विषयिणो गम्यमानत्वात् ।

इह तु द्वयोरप्यभिधानम्

,

तादात्म्यात्तु तयोः परिणामित्वं ।

द्वितीयो यथा-

ऽअथ पक्त्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः ।

क्षितिभर्तुरुपायानं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैःऽ । ।

राजसंघटने तूपायनमुचितं ।

तच्चात्र वचोरूपमिति वचसां व्यधिकरणोपायनरूपत्वेन परिणामः ।

>#


विमर्शिनी

१७ः

आरोप्यमाणस्येत्यादि ।

आरोप्यारोपविषयभावसाम्येऽपि रूपकाद्वैलक्षण्यं दर्शयन्नेतदेव व्याचष्टे-आरोप्यमाणमित्यादिना ।

प्रकृतोपरञ्जकत्वेनेति ।

यदुक्तम्-विषयिणा विषयस्य रूपवतः कारणाद्रूपकमिति ।

प्रकृतात्मतयेति ।

प्रकृताङ्गतयेत्यर्थः ।

उपयोग इति ।

तेन विना प्रकृतार्थस्यानिष्पत्तेः ।

परिणमतीति ।

प्रकृतमप्रकृतव्यवहारविशिष्टतयावतिष्टते ।

प्रकृतस्वरूपमात्रावस्थाने प्रकरणार्थानिष्पत्तेः ।

एवमत्र प्रकरणोपयोगित्वाभावादित्यारोप्यमाणस्योपयोग इति चान्वयव्यतिरेकाभ्यां प्रकृतोपयोगित्वस्यासाधारणत्वं दर्शितं ।

असाधारणत्वस्य हि धर्मस्य तत्तव्यवस्थापकत्वाल्लक्षणत्वं ।

अतश्च नास्त्येवालङ्कारान्तरेषु प्रकृतयोगित्वं ।

एवम्-

ऽआशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।

पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेवऽ । ।

इत्यत्रोपमायां ।

ऽअत्रान्तरे सरस्वत्यवतरणवार्तामिव कथयितुमवततार मध्यमं लोकमंशुमालीऽ इत्यादावुत्प्रेक्षायां ।

ऽमन्दरमेहक्खोहिअससिकलहंसपरिअ(मु) क्वसलिलोच्छ्रङ्गं ।

मरगासेवालोवरिणिगण्णतु हिक्कमीणचक्काअजुअमऽ । ।

इत्यत्र च रूपके तथान्यालङ्कारेष्वौचित्यमेव नोपयोगः ।

ओचित्यं हि सिद्धस्य सतः प्रकृतार्थोपलम्भकं भवति ।

उपयोगः पुनः सिद्धावेव प्रकृतार्थहेतुतां भजते इत्यनयोर्महान्भेदः ।

तथा हि-

ऽअनन्वये च शब्दैक्मौचित्यादानुषङ्गिकं ।

अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम्ऽ । ।

इत्यत्रैकस्यैव शब्दैक्यस्यौचित्योपयोगाभ्यां भेद उक्तः ।

अतश्चौचित्योपयोगयोर्भेदभजानुद्भिः सर्वत्रैव प्रकृतोपयोगित्वमन्यैर्यदुक्तं तदयुक्तं ।

तस्माद्रूपकादन्य एव परिणामः ।

इह पुनः अप्रकृतार्थस्य प्रकृतार्थारोपमन्तरेण सिद्धिरेव न भवतीति प्रकृतोपयोगितैव जीवितं ।

ऽदाहोऽम्भः प्रसृतिपचः प्रचयवान्बाष्पः प्रणालेचितः श्वासाः प्रेङ्खितदीप्रदीपलतिकाः पाण्डिम्नि मग्नं वपुः ।

किं वान्यत्कथयामि रात्रिमखिलां त्वन्भार्गवातायने हस्तच्छ्रत्त्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्ततेऽ । ।

अत्र हि च्छ्रत्र्तारोपमन्तरेण चन्द्रातपरोध एव न भवतीति तस्य प्रकृतोपयोगित्वं ।

अतश्च प्रकृतमप्रकृततया परिणमतीति परिणामः ।

यद्येवं तर्हि सांख्यीयपरिणामादस्य को विशेष इत्याशङ्क्यह-आगमेत्यादि ।

ऽजहद्धरम्रान्तरं पूर्वमुपादत्ते यदा ह्ययं ।

तत्त्वादप्रच्युतो धर्मी परिणामः स उच्यतेऽ । ।

इति सांख्यीयपरिणामलक्षणं ।

मैत्र्तीरूपतयेति ।

मैत्र्यात्मतयेत्यर्थः ।

उपयोगादिति ।

आतरमन्तरेण तरणायोगात् ।

अतश्च प्रकृते यत आतरस्योपयोगस्ततश्च प्रकृताया एव मैत्र्यास्तत्कार्यकारित्वात्तद्व्यवहारारोपः ।

एतदेव दृष्टान्तमुखेनापि प्रतिपादयति-तदत्रेत्यादिना ।

अत्रेति परिणामे ।

समासोक्तौ चारोप्यमाणस्य प्रकृतोपयुक्तत्वं ।

प्रकृतसिद्ध्यर्थमेवाप्रकृतस्याक्षेपात् ।

आरोप्यमाणमपि तत्र प्रकृतावच्छेदकत्वेन स्थितं न पुनराच्छादकत्वेनेत्याह-तच्चेत्यादि ।

अत एवेति ।

आरोपविषयात्मकत्वादेव ।

तत्रेति समासोक्तौ ।

एतदेव प्रकृते योजयति-एवमित्यादि ।

यद्येवं तर्हि समासोक्तिपरिणामयोः को विशेष इत्याशङ्क्याह-केवलमित्यादि ।

तयोरित्यांभधीयमानयोर्द्वयोः ।

उचितमिति ।

उपयुक्ततयेति शेषः ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र १८ः

#<

विषयस्य संदिह्यमानत्वे संदेहः । । अ.स. १८ । ।

ऽअभेदप्राधान्ये आरोप इत्येव ।

विषयः प्रकृतोऽर्तः

,

यद्भित्तित्वेनाप्रकृतः संदिह्यते ।

अप्रकृते संदेहे विषयोऽपि संदिह्यत एव ।

तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालङ्कारःऽ ।

>#


विमर्शिनी

१८ः

विषयस्येत्यादि ।

विषयविषयिणोः संबन्धिशब्दत्वाद्विषयस्योक्तेर्विषयिणोऽप्याक्षेपादत्र ग्रहणं ।

तेन विषयस्य विषयिणश्च संदेहप्रतीतिविषयत्व सूत्रार्थः ।

ननु विषयशब्देन विषयिशब्दस्य संबन्धिशब्दत्वादाक्षेपेऽपि विना वचनमाक्षेपमात्राद्विषयिणः कथं संदिह्यमानता लभ्यत इति चेत्

,

न ।

अनियतोभयांशावलम्बिविमर्शरूपत्वाद्विपयमात्रगतत्वेनासंभवात्संदेहस्यान्यथानुपपत्त्या विषयिणस्तत्संबन्धित्वं लभ्यत एवेति यथासूत्रितमेव ज्यायः ।

एतदेव विभज्य व्याचष्टे-विषय इत्यादिना ।

यद्भित्तित्वेनेति ।

अन्यथा ह्यप्रकृतस्य निर्विषयत्वमप्रन्तुताभिधानलक्षणो वा दोषः स्यादिति भावः ।

तेन विषयभित्तितया विपयिणामेव तथामावो भवतीत्याशङ्क्याह-अप्रकृतेत्यादि ।

विषयोऽपीति ।

न केवलं विषयिण एव संदिह्यमानत्वं यावद्विषयस्यापात्यपिशब्दाथः ।

तेन क्वचिद्विषयिणामेव संदिह्यमानत्वे क्वचिच्च विषयविषयिणोरप्यलङ्कारो भवेत् ।

उभयत्रापि सामान्यलक्षणानुगमात् ।

अनियतोभयांशावलम्बी हि विमर्शः संशयः ।

स च विषयिणामेव भवति ।

विषयविपयिणोरेव संदिह्यमानत्वात् ।

अत एव च प्रकृताप्रकृतगतत्वेनेति यथासंभवं योज्यं ।

प्रतिभोत्यापित इति ।

न पुनः स्वरसोत्यापितः

,

स्थाणुर्वा पुरुषो वेत्येवमादिरूप इत्यर्थः ।

__________

अ.स. १८ ।१ः

#<

स च त्रिविधः ।

शुद्धो निश्चयगर्भो निश्चयान्तश्च ।

शुद्धो यत्र संशय एव पर्यवसानं ।

यथा-

ऽकिं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः ।

उद्गाढोत्कलिकावतां स्वसमयोपन्यासविस्त्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणःऽ । ।

निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च ।

स यथा–

ऽअयं मार्तण्डः किं स खलु तुरगैः सत्पभिरितः कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतं ।

कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरात्समलोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाःऽ । ।

निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानं ।

यथा–

ऽइन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतं ।

ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतःऽ । ।

कचितारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते ।

यथा–

ऽरञ्जिता नु विविधास्तरुशैला नामितं तु गगनं म्थगितं नु ।

पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेणऽ । ।

अत्रारोपविषये तिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितं ।

केचित्त्वध्यवसायाश्रयत्वेन संदेहप्रकारमाहुः ।

अन्ये तु नुशब्दस्य संभावनाद्योतत्वादुत्प्रेक्षाप्रकारमिममाचक्षते ।

>#


विमर्शिनी

१८ ।१ः

एतदेव भेदत्रयं विवृण्वन्नुदाहरति-शुद्ध इत्यादि ।

अत्र प्रकृतायास्तन्व्याः संदेहप्रतीतिविषयत्वाभावाद्विषयिणां मञ्जर्यादीनामेव संदेहः ।

विषयविषयिणोर्यथा -

ऽकिं पङ्कजं किमु सुधाकरबिम्बमेतक्तं वा मुखं क्लमहरं मदिरेक्षणायाः ।

यद्द्दश्यते मधुकराभकुरङ्गकान्तिनेत्रद्वयानुकृति कार्ष्ण्यममुष्य मध्येऽ | |

अत्र क्लमहरत्वादिः समानो धर्मोऽनुगामित्वेनोपात्तः ।

क्वचिद्वस्तुप्रतिवस्तुभावेनापि भवति यथा-

ऽकिमिदमसितालिकलितं कमलं किं वा मुखं सुनीलकचं ।

इति संशेते लोकस्त्वयि सुतनु सरोचतीर्णायाम्ऽ । ।

अत्रासितत्वसुनीलत्वयोः शुद्धसामान्यरूपत्वं ।

अलिकचानां च बिम्बप्रतिबिम्बभावः ।

एवं चास्य सादृश्यनिमित्तत्वात्समानधर्मानेकधर्मनिमित्तत्वेन द्विभेदत्त्वं न व्याकार्यं ।

सादृश्यनिमित्तत्वेनैवास्य संग्रहसिद्धेः ।

विप्रतपत्त्यादिनिमित्तान्तरवच्चारुत्वाभावाच्च ।

भिन्नाश्रयत्वेनेति वैयधिकरण्येन ।


विमर्शिनी

१८ ।१अः

अवौत्रपक्षन्तरमाह-केचित्यादि ।

अनेन च संदेहस्याध्यवसायमूलत्वमपि ग्रन्थकृतैवोक्तं ।

तेनाध्यवसायाश्रयोऽप्ययं स्वरूपहेतुफलानां संदिह्यमानत्वेन त्रिधा भवति ।

तत्र स्वरूपसंदेहो यथा-ऽरञ्जिताऽ इत्याद्येव ।

यथा व -

ऽएतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषापरत्विषि ।

कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदै- रक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुःऽ । ।

अत्र कौमुदीधवलिम्नः कर्पूरपूरणादिनाध्यवसितत्वादध्यवसायमूलत्वं ।

हेतुसंदेहो यथा -

ऽदिवि त्वक्षरणाम्बुजस्मृतिविधौ गाढावधानस्पृशां धन्यानां प्रसरन्ति संतततया ये बाष्पधाराभराः ।

किं ते स्युश्चिरकालभावितभवाप्रश्नक्रियावेगतः किं वासादितमुक्तिचन्द्रवदनासंदर्शनानन्दतःऽ । ।

अत्राश्रुहेतोरानन्दस्य संसारवियोगो मुक्तिसांमुख्यं चेति हेतुद्वयमध्यवसितं ।

फलसंदेहो यथा -

ऽनृत्तान्ते पारिजातं किमु विघटयितुं स्प्रष्टुमाकाशगङ्गां किंस्विद्वा चन्द्रसूर्यौ किमु विदलयितुं श्चेतरक्ताब्जबुद्धथा ।

लब्धुं नक्षत्रमालाभरणभरमुत स्वर्गजं वाभियोद्धुं दूरोदस्तः समस्तस्तव गणपतिना स्वस्तये सोऽस्तु हस्तःऽ । ।

अत्र करिणो निष्पादनस्य विघटनादिफलमध्यवसितं ।

अत्रैवादिशब्दवन्नुशब्दस्य संभावनाद्योतकत्वात्पक्षान्तरमपि दर्शयितुमाह-अन्य इत्यादि ।

अतश्च रञ्जिता इवेत्यर्थः ।

पूर्वत्रार्थे तु नुशब्दो वितकंमात्र एवम्याख्येयः ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र १९ः

#<

सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् । । अ.स. १९ । ।

असम्यग्ज्ञानत्वसाधर्म्यात्संदेहानन्तरमस्य लक्षणं ।

भ्रान्तिश्चित्तधर्मः ।

स विद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान् ।

सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः ।

यथा-

ऽओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया कर्णोलङ्कृतिभाजि दाडिमफलभ्रान्त्या च शोणे भणौ ।

निष्पत्त्या सकृदुत्पलच्छददृशामात्तक्लमानां मरौ राजन्गृर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्च्छितम्ऽ । ।

गाढमर्मप्रहारादिना तु भ्रान्तिर्नास्यालङ्कारस्य विषयः ।

यथा–

ऽदामोदराघातचूर्णिताशेषवक्षसा ।

दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम्ऽ । ।

सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थे कविप्रतिभोत्थापितैव गृह्यते

,

यथोदाहृतम्

,

न स्वरसोत्थापिता शुक्तिकारजतवत् ।

एवं स्थाणुर्वा स्यात्पुरुषो वा स्यादिति संशयेऽपि बोद्धव्यं ।

>#


विमर्शिनी

१९ः

असम्यग्ज्ञानत्वसाधर्म्यादिति न पुनरारोपगर्भत्वसाजात्याल्लक्षितमिति भावः ।

आरोपो हि विषयविषियिणोर्युगपदेकप्रमातृविषयीकृतत्वे भवतीति नारोपगर्भो भ्रमः क्वचिदपि संभवति

,

शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानाभावात् ।

ननु भ्रान्तिश्चित्तधर्मः स यस्यास्ति स भ्रान्तिमानिति वक्तुं न्याय्यं तत्कथमलङ्कारस्यैतदभिधानमित्याशङ्क्याह - भ्रान्तिरित्यादि ।

स इति भणितिप्रकारः अतशाचालङ्कारे भ्रान्तिमच्छ्रब्द उपचरित इति भावः ।

सादृश्यप्रयुक्तेति ।

न तु-

ऽप्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा दिशि दिशि च सा तद्वियोगातुरस्य ।

हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादःऽ । ।

इत्यत्रैकस्या एव परिमिताया अपि योषितो गाढानुरागहेतुकं तन्मयतानुसंधानं प्रासादादावनेकत्र युगपत्प्रतीतौ निमित्तमिति भ्रान्तिमदलङ्कारः ।

स हि प्रासादादेर्वल्लभारूपत्वेन प्रतीतौ स्यात् ।

अन्यस्यान्यर्वल्लभात्वेन प्रतीयत इति स्फुट एवायं विशेषालङ्कारस्य विषयः ।

अथप्रासादादावभूताया अपि वल्लभाया दर्शनाद्भ्रान्तिरिति चेत्

,

नैतत् ।

एवं ह्यत्र भ्रान्तिमात्रं स्यान्नालङ्कारः ।

गाढानुरागात्मकनिमित्तसामर्थ्यात्स्वरसत एव प्रासादादावसत्या अपि युवत्याः प्रतीतिसमुल्लासाः ।

कविप्रतिभानिर्वर्तित्वाभावात् ।

ऽदेवमपि हर्षं पितृशोकविह्नलीकृतं श्रियं शाप इति महीं महापातकमिति राज्यं रोग इति भोगान्भुजगा इति निलयं निरय इत्यादि मन्यमानम्ऽ इत्यादावपि न भ्रान्तिमदलङ्कारः ।

तत्र शुक्तिकादिरूपतयावगमे रजताद्यभिमानानुदयादिति समनन्तरमेवोक्तत्वात् ।

इह पुनर्विषयरूपां श्रियमवगम्यापि श्रीहर्षेण पितृशोकविह्वलीकृतत्वाच्छापत्वेन भाम्यत इति विषमालङ्कारो ञ्यायान् ।

ऽदुतुं वाच्छति दक्षिणेऽपि नयने वामः करः कज्जलं भौजङ्गं च भुजोऽङ्गदं घटयितुं वामेऽपि वामेतरः ।

इत्थं स्वं स्वमशिक्षितं भगवतोरर्धं वपुः पश्यतोः साधारस्मितलाच्छितं दिशतु नो वक्त्रं मनोवाच्छितम्ऽ । ।

इत्यत्रापि संस्कार एवालङ्कारो न भ्रान्तिमान् ।

अत्र हि भगवत्या नेत्रद्वयाञ्जनदानसतताभ्यासाद्वामनेत्राञ्जनदानानन्तरं दक्षिणनेत्राञ्जनदानवासनानुरोधो जायत इति संस्कारस्यैव वाक्यार्थत्वं ।

अथात्र संस्कारप्रबोधं विना तदभावादञ्जनदाननैतत् ।

प्रत्युतात्र हि भगवदर्धस्य तथात्वेनैवावगमादञ्जनसंस्कारो न प्ररोहमुपागत इति कारस्यैव स्खलद्गतित्वात्तत्कार्थस्य भ्रमस्योत्पाद एव न संभवतीति न भ्रान्तिमतोऽवकाशः ।

प्ररुढ एव हि संस्कारो भ्रमः ।

स्वात्ममात्रावस्थितस्तु संस्कारालङ्कारः ।

अत एव दातुं वाच्छ्रतीत्युक्तं ।

एवं चात्र नेत्रद्वयाब्जनदानसतताभ्यासहेतुकः संस्कार एव प्रतीयते न तु तन्निमित्तकोऽपि भ्रमः परमः ।

परमेश्वरार्धस्य तथात्वेनैवावगमात्तद्गन्धस्याप्यभावात् ।

अत एवाशिक्षितं स्मितलाच्छितं चेत्युक्तं ।

अवान्तर एवानयोर्विशेषोऽलङ्कारभाष्य एवोक्त इति तत एवानुसर्तव्य इति ।

एवं चसादृश्यनिमित्तैवभ्रान्तिरलङ्कारविषयो न निमित्तान्तरोत्थापितेति न लक्षणस्याव्यापकत्वं वाच्यं ।

एवं सादृश्यनिमित्तकत्वादस्य साधारणधर्मस्यापि त्रयी गतिः ।

तत्रानुगामिता यथा-

ऽनीलोत्पलमिति भ्रान्त्या विकासितविलोचनं ।

अनुधावति मुग्धाक्षि पश्य मुग्धो मधुव्रतःऽ । ।

अत्र विकासित्यनुगामित्वेन निर्दिष्टो धर्मः ।

शुद्धसामान्यरूपत्वं तु यथा -

ऽअयमहिमरुचिर्भजन्प्रतीचीं कुपितवल्लीमुखतुण्डाम्रबिम्बः ।

जलनिधिमकरै रुदीक्ष्यते द्राङ्नवरुधिरारुणमांसपिण्डलोभात्ऽ । ।

अत्र ताम्रत्वारुणत्वयोः शुद्धसामान्यरूपत्वं ।

बिम्बप्रतिबिम्बभावो यथा -

ऽपुसिआ कण्णाहरणेन्दणीलकिरणाहऽ ससिमऊहा ।

माणिणिवाणम्मि सकज्जलं सुसङ्काए दैएणऽ । ।

(

ऽप्रोच्छिताः कर्णाभरणेन्द्रनीलकिरणाहृताः शशिमयूखा- ।

मानिनीवदने सकज्जलाश्रुशङ्कया दयितेनऽ) । ।

अत्र सकज्जलत्वेन्द्रलकिरणाहतत्वयोर्बिम्बभावः ।

सादृश्यनिमित्तकत्वमेव चास्य द्रढयितुं प्रत्युदाहरति-गाढेत्यादिना ।

सादृश्यनिमित्तकत्वेऽपि कविप्रतिभोत्थापितैव भ्रान्तिरस्यैव विषयो न पुनर्वास्तवीत्याह-सादृश्येत्यादि ।

उदाहृतमिति ।

ओष्ठेबिम्बफलाशयेत्यादि ।

एतदेव संदेहेऽपि योजयति-एवमित्यादि ।

संशय इति ।

अर्थादारोपगर्भ एव ।

तत्रैव ह्यस्य सादृश्यं निमित्तं ।

अध्यवसायमूले हि संदेहे सादृश्यात्सम्बन्धान्तराद्वा विषयविषयिणोः संदिह्यमानत्वं स्यात्यथोदाहृतं प्राक् ।

एवमारोपगर्भत्व एव सादृश्यं विना नायमलङ्कार इत्यवगन्तव्यं ।

तस्मादविशेषेणैव साधर्म्यं विहायापि निमित्तान्तरमवसम्ब्य नास्यालङ्कारत्वं वाच्यं ।

सादृश्येऽपि कविप्रतिभोत्थापितस्यैवालङ्कारत्वं न पुनः स्वारसिकस्येति ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र २०ः

#<

एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः । । अ.स. २० । ।

यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः ।

न चेदं निर्निमित्तमुल्लेखमात्रम्

,

अपि तु नानाविधधर्मयोगित्वाख्यनिमित्तवशादेतत्क्रियते ।

तत्र रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रयोजिकाः ।

तदुक्तम्-

ऽयथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।

आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधितेऽ । ।

इति । ।

यथा-

ऽयस्तपोवनमित्.इ मुनिभिः कामायतनमिति वेश्याभिः संगीतशालेति लासकैःऽ इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने ।

अत्र ह्येक एव श्रीकण्ठाख्योजनपदस्तत्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः ।

रुच्चर्थित्वव्युत्पत्तयश्च प्रायशः समस्तव्यस्ता योजयितुं शक्यन्ते ।

नन्वेतन्मध्येऽवज्रवञ्जरमिति शरणागतैरसुरविवरमिति वातिकैःऽ इत्यादौ रूपकालङ्कारयोग इति कथमयमुल्लेखालङ्कारविषयः ।

सत्यं ।

अस्ति तावत्ऽतपोवनम्ऽ इत्यादौ रूपकविविक्तोऽस्य विषयः ।

यत्र वस्तुतस्तद्रूपतायाः संभवः ।

यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभाविनी तत्संकरोऽस्तु ।

न त्वेतावतास्याभावः शक्यते वक्तुं ।

ततश्च न दोषः कश्चित् ।

एवं हि तत्र विषये भ्रान्तिमदलङ्कारोऽस्तु अतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनत्वात् ।

नैतत् ।

अनैकधाग्रहणाख्यस्यापूर्वस्यातिशयस्याभावात्

,

तद्धेतुकत्वाच्चास्यालङ्कारस्य ।

संकरप्रतीतिस्त्वङ्गीकृतैव यद्येवम्

,

अभेदे भेद इत्येवंरूपातिशयोक्तिरत्रास्तु ।

नैषा दोषः ।

ग्रहीतृभेदाख्येन विषयविभागेनानेकधात्वोट्टङ्कनात्तस्य च विच्छित्त्यन्तररूपत्वात्सर्वथा नास्यान्तर्भावः शक्यक्रिय इति निश्चयः ।

यथा वा-ऽणाराअणोत्ति परिणावऽहिं सिरिवल्लहोत्ति तरुणीहिं ।

बालाहिं उण कोदूहलेण एमे अ सच्चविओऽ । ।

(

ऽनारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः ।

बालाभिः पनः कौतूहलेन एवमेव सत्यापितःऽ । ।) । ।

एवं

ऽगरुर्वचसि पृथुरुरसि अर्जुनो यशसिऽ इत्यादाववसेयं ।

इयांस्तु विशेषः-पूर्वत्र ग्रहीतृभेदेनानेकधात्वोल्लेखः

,

इह तु विषयभेदेन ।

नन्वनेकधात्वोल्लेखने गुर्वादिरूपतया श्लेष इति कथमलङ्कारान्तरमत्र स्थाप्यते ।

सत्यं ।

अनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते इति तत्प्रतिभोत्पत्तिहेतुः श्लेषोऽत्र स्यात् ।

न तु सर्वथा तदभावः ।

अतश्चालङ्कारान्तरं यदेवंविधे विषये श्लेषाभावेऽपि विच्छित्तिसद्भावः ।

तस्मादेवमादावुल्लेख एव श्रेयान् ।

एवमलङ्कारान्तरविच्छित्त्याश्रयेणाप्ययमलङ्कारो निदर्शनीयः ।

>#


विमर्शिनी

२०ः

एकस्यापीति ।

अनेकधा ग्रहणमिति ।

न पुनरनेकधा कल्पनं ।

ग्रहणं हि स्वारसिक्यामुत्पादितायां च प्रतीपत्तौ संभवति न तु स्वारसिक्यामेव ।

यदाहुः -

ऽअतः शब्दानुसंधानवन्ध्यं तदनुबन्धि वा ।

जात्यादिविषयग्राहि सर्वं प्रत्यत्तमिष्यतेऽ । ।

इति । ।

कल्पनं पुनरुक्ताद्यं प्रतिपत्त्येकगामिति स्वारसिक्यां प्रतिपत्तौ न संभवतीत्युभयत्रापि व्यापकत्वाद्यथासूत्रितमेव युक्तं ।

रूपबाहुल्येति ।

अत एवामुखे वस्त्वन्तरप्रतीतिरस्त्येव ।

अन्यथा ह्येकस्यानेकधाग्रहणमेव न स्यात् ।

अत एव चास्य भ्रान्तिमदनन्तरमेव लक्षणं ।

एकस्य च न स्वातन्त्र्येणानेकधाग्रहणम्

,

अपि तु ततत्त्त्प्रयोजनवशादित्याह-न चेदमित्यादि ।

एतदिति ।

अनेकधा ग्रहणं एकस्यैव नानाविधधर्मयोगिन आखण्ड्येन प्रतीतिगोचरीभावात्कथमेकैकधर्मविषयमनेकधाग्रहणं युक्तमित्याशङ्क्याहतत्रेत्यादि ।

तत्रेत्यनेकधाग्रहणे ।

स्वातन्त्र्येण विकल्पनं रुचिः ।

अर्थक्रियाभिलाषपरत्वमर्थित्वं ।

वृद्धव्यवहारशरणता व्युत्पत्तिः ।

उक्तमिति श्रीप्रत्यभिज्ञायां ।

तत्तद्गुणयोगादिति विविक्तत्वादिनानाविधधर्मसंबन्धात् ।

मनीनां तपोवनविषयमर्थित्वं ।

वेश्यानां च कामायतनविषयमर्थित्वं ।

एवं लासकानां तु संगीतशालविषया व्युत्पत्तिरर्थित्वञ्च ।

प्रायश इति अनेन रुचिरत्र नास्तीति सूचितं ।

ननु योऽयं श्रीकण्ठाख्यजनपदवर्णनग्रन्थखण्ड उदाहरणात्वेनानीतस्तत्रालङ्कारान्तरसंबन्धोऽप्यस्तीति कथमेतद्विषय एवोत्याह-नन्वित्यादिना ।

एतदेवाभ्युपगम्य प्रतिविधत्ते-सत्यभित्यादिना ।

तावच्छ्रब्दो रूपकाभावविप्रतिपत्तिद्योतनार्थं ।

तद्रूपताया इति तपोवनादिरूपतायाः ।

अत्रापि यदन्यैरवयविभावसंबन्धात्सारोपाया लक्षणायाः सत्त्वाद्रपकालङ्कारमाशङ्क्य विविक्तत्वस्य चिन्त्यत्वमुक्तं तदयुक्तं ।

अवयवावयत्रिभावसंबन्धाभावाल्लक्षणाया एवासत्त्वात् ।

नहि श्रीकण्ठाख्ये जनपदे तपोवनमवयवन्यायेन कुत्राप्येकदेशेऽस्ति यत्तत्रावयविनि मुनिभिरारोपितं ।

किं तु तत्तद्गुणयोगिनः श्रीकण्ठस्य विविक्तत्वादितपोवनादिगुणमुखेन निजनिजवासनानुसारेणार्थित्वादिना मुनिप्रभृतीनामीदृगाभासः ।

अथापि यद्यस्त्वत्रयवावयविभावविवक्षा तल्लक्षणमात्रं न रूपकं ।

तस्य लक्षणापरमार्थत्वेऽपि विषयस्य रूपवतः करणादलङ्कारत्वं ।

अन्यथा तु लक्षणामात्रमेव ।

नहि लक्षणापि रूपकपरमार्था ।

इह च तपोवनाद्यारोपेणारोपविषयस्य नातिशयः कश्चित् ।

वस्तुत एव तद्रूपतायाः संभवात् ।

अतश्च स्थित एवात्र रूपकविविक्तोऽस्य विषयः

,

न केवलमन्यालङ्कारविविक्तोऽयमेवास्यविषयो यावदे यत्रापि रूपकालङ्कारयोगोऽस्ति तत्राप्ययं संभवत्येवेति दर्शयितुमाह-यत्रेत्यादि ।

इयमपिभङ्गिरिति एकस्यानेकधाग्रहणरूपा ।

एतावतेति रूपकप्रयोगमात्रेण ।

ततश्चेति रूपकोल्लेखयोः संकरात् ।

ननु यत्र रूपकयोगो नास्तितदलङ्कारान्तरयोगः संभवतीत्याह-एवं हीत्यादि ।

अतद्रूपस्येति ।

अतपोवनरूपस्यापि तपोवनरूपत्वोपनिबन्धनात् ।

अतस्मिंस्तद्ग्रहे भ्रमैत्येतदेव हि भ्रमसतत्त्वं ।

अपूर्वस्येति भ्रान्तिमदसंभविनः ।

तद्धेतुकत्वादिति अनेकधाग्रहणाख्यातिशयनिमित्तकत्वात् ।

यदि चात्र भ्रान्तिमानप्यस्ति तत्तेन सहाश्य संकर एवास्त्वित्याह-संकरेत्यादि ।

यद्येवमिति ।

भ्रान्तिमानप्यस्ति तत्तेन सहास्य संकर एवास्त्वित्याह-संकरेत्यादि ।

यद्येवमिति ।

भ्रान्तिमतोऽस्य विशेषस्तेन सहास्य संकरो वेत्यर्थः ।

एष इति अतिशयोक्तिसद्भावः ।

तस्तैति ग्रहीतृभेदाल्यत्य विभागस्य ।

विच्छित्त्यन्तरत्वमेव हि सर्वेषामलङ्काराणां भेदहेतुः ।

तदेवं तत्तच्छ्रक्कानिरासपूर्वममुमेव सिद्धान्तीकृत्य पुनरप्युदाहरति-णापाअणो त्तीति ।

अत्र च नारायणत्वाद्युल्लेखनेवृद्धाप्रभृतीनां यथाक्रम व्युप्तत्त्यर्थवाचित्वात् ।

तत्प्रतिभोत्त्पत्तिहेतुरिति ।

श्लेषमन्तरेणात्राल्लेखानिष्पत्तेः ।

तदभाव इति

,

उल्लेखाभावः ।

अतश्तेति

,

श्लेषाबावेऽप्येतद्दिच्छित्तिसंभवात् ।

एवंविध इति विषयभेदरूपे ।

तत्तु यथा-

ऽसव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि ।

सेर्ष्या जह्वसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वःऽ । ।

अत्रैकस्या एव दृष्टेस्तत्तद्विषयभेदेन नानात्वोल्लेखनं ।


विमर्शिनी

२०अः

तदयं ।

द्विप्रकारोऽपि रूपकाद्याश्रयवदन्यालङ्काराश्रयोऽपि संभवतीत्याह-एवमलङ्कारान्तरेत्यादि ।

तत्राद्यः प्रकारः संदेहाश्रयो यथा-

ऽकिं भानुः किमु चित्रभानुरिति यं निश्चिन्वते वैरिणः किं चिन्तामणिरेष कल्पविटपी किं वेति चाशागताः ।

किं पुष्पाकर एष पुष्पविशिखः किं वेति रामाजनः किं रामः किमु जामदग्न्य इति वा यं धन्विनो मन्वतेऽ । ।

अत्राकस्यैव संदिह्यमानानेकधात्वोल्लेखनं ।

अतिशयोक्त्याश्रयश्चायमेव यथा-

ऽवज्रं सौराज्यसाक्षी परिकलितमहाः शक्तिमार्द्रापराधो दण्डं खड्गं रिपुस्त्रीप्रसभहरणवित्कूपवाप्यादिदृश्वा ।

पाशां पाणावपश्यन्ध्वजमपि बलवित्कोषवेदी गदां च स्वाच्छ्रन्द्यज्ञस्त्रिशूलं लिखति करतले देव चित्राकृतेस्तेऽ । ।

अत्र त्वमेदेन्द्र इत्याद्यतिशयोक्त्या लोकपालाभेदो राज्ञ उपलभ्यते इत्येकस्यानेकधात्वोल्लेखनं ।

विषयभेदेन च रूपकाश्रयो यथा-

ऽमूर्घ्न्यद्रेधर्तुरागस्तरुषु किसलयं विद्रुमौधः समुद्रे दिङ्मातङ्गोत्तमाङ्गेष्वभिनवनिहितः सान्द्रसिन्दूररेणुः ।

सीम्नि व्योग्नश्च हेन्मः सुरशिखरिभुवो जायते यः प्रकाशः शोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म रश्मिप्रतानःऽ । ।

अत्रैकस्यैव विषयभेदेन रूपकाश्रयं नानात्वं ।

ऽकारकान्तरऽ इत्यपपाठः ।

प्रकृतेकारकविच्छ्रित्त्याश्रयस्यैवानुक्तत्वात् ।

अयं स्वरूपहेतुफलोल्लेखनरूपत्वात्त्रिधा ।

तत्र स्वरूपोल्लेखः समनन्तरमेवोदाहृतः ।

हेतूल्लेकस्तु यथा -

ऽसर्गहेतोः सदा धर्मः स्थितिहन्तोरपि प्रजाः ।

द्विषः संहारहेतोश्च विदुस्त्वां जातमात्मनःऽ । ।

अत्रैकस्यैव जन्मनो हेतूनामनेकधात्वोल्लेखनं ।

फलोल्लोखस्तु यथा -

ऽधर्मायैव विदन्ति पार्थिव यथाशास्त्रं प्रजाः पालिता अर्थायैव च जानतेऽन्तरविदः कोषैकदेशत्य ये ।

कामायैव कृतार्थतामुपगता नार्थश्च निश्चिन्वते मोक्षायैव च वेद जन्म भवतः कश्चिद्विपश्चिज्जनःऽ । ।

अत्रैकस्यैव जन्मनः फलानामनेकधात्वोल्लेखनम्ऽ ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र २१ः

#<

विषयस्यापह्नवेऽपह्नुतिः । । अ.स. २१ । ।

वस्त्वन्तरप्रतीतिरित्येव प्रक्रान्तापह्नववैधर्म्येणेदमुच्यते ।

आरोपप्रस्तावादारोपविषयापह्नुतावारोप्यमाणप्रतीतावपह्नुत्याख्योऽलंङ्कारः ।

तस्य च त्रयी बन्धच्छाया

,

अपह्नवपूर्वक आरोपः

,

आरोपपूर्वकोऽपह्नवः ।

छलादिशब्दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः ।

पूर्वोक्तभेदद्वये वाक्यभेदः ।

तृतीयभेदे त्वेकवाक्यत्वं ।

आद्यो यथा–

ऽयदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।

अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्ऽ । ।

अत्रैन्दवस्य शशस्यापह्नवे उपक्षित्पे शशकप्रतिवस्तुकिणवत इन्दोरारोपो नान्वयघटनां पुष्यतीति न निरवद्यं ।

तत्तु यथाऽपूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभास्वरं नेदं मण्डलमभ्ययुदेनि गगनाभोगे जिगीषोर्जगत् ।

भारस्योच्छ्रितमातपत्रमधुना पाण्डुप्रदेषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनःऽ । ।

द्वितीयो यथा-

ऽविलसदमरनारीनेत्रनीलाब्जषण्डा- न्यधिवसति सदा यः संयमाधःकृतानि ।

न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वःऽ । ।

तृतीयो यथा–

ऽउद्भ्रान्तोज्झितगेहगूर्जरवधूकम्पाकुलोच्चैः कुच- प्रेङ्खोलामलहारवल्लिविलन्मुक्ताफलच्छझना ।

सार्धं त्वद्रिपुभिस्त्वदीयशसां शून्ये मरौ धावतां भ्रष्टं राजमृगाङ्कं! कुन्दमुकुलस्थूलैः श्रमाम्भःकणैःऽ । ।

अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्नवोत्प्रेक्षा इत्तयपि स्थापयिष्यते

,

ऽ अहं त्विन्दुं मन्येऽ इति तु वाक्यभेदे मन्येशब्दप्रयोगेनोत्प्रेक्षेति च वक्ष्यते ।

एतस्मिन्नपि भेदोऽपह्नवारोपयोः पौर्वापर्यप्रयोगविपर्यये भेदद्वयं सदपि न पूर्ववच्चित्रतावहमिति न भेदत्वेन गणितं ।

तत्रापह्नुवपूर्वके आरोपे निरन्तरमुदाहृतं ।

आरोपपूर्वके त्वपह्नवे यथा–

ऽज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी न्यन्तर्धानव्यसनरसिका कात्रिकापालिकीयं ।

द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुदाकापाने न्यस्तं सिद्धाञ्जनपरिमलं लाञ्चनस्य च्छलेनऽ । ।

कचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायि-वपुः-शब्दादिनिबन्धनं यथा-

ऽअमुष्मिंल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः ।

यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे खिखा धूमस्येयं परिणमति रोमावलिवपुःऽ । ।

इति ।

>#


विमर्शिनी

२१ः

विषयस्येत्यादि ।

वस्त्वन्तरेति ।

भ्रान्तिमतांऽनुवर्तत इति शेषः ।

अत एव केचन मण्डूकप्लुतिन्यायेनानुवर्तनस्यानुचितत्वाद्भ्रान्तिमदनन्तरमपह्नुतिर्ग्रन्थकृता लक्षिता उल्लेखश्चतिशयोक्त्यनन्तरमिति ग्रन्थं विपर्यासितवन्तः ।

न चैतत् ।

यत उल्लेखस्तावदतिशयोक्त्यनन्तरं ग्रन्थकृता न लक्षितः ।

यद्वक्ष्यति-ऽएवमध्यवसायाश्रयेणालङ्कारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलङ्कारा इदानीमुच्यन्ते ।

तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्यैऽपि पदार्थगतमलङ्कारद्वयं क्रमेणोच्यतेऽ इति ।

तस्माद्वस्त्वन्तरप्रतीतेर्भावाद्भ्रान्तिमदनन्तरमेवास्य ग्रन्थकृता लक्षणं कृतं ।

अत एव चोल्लेखेऽपि तत्संभवाद्वस्त्वन्तरप्रतीतेर्निरन्तरमेवानुवर्तनादिहैवास्या लक्षणमुचितमिति यथास्थित एव ग्रन्थः साधुः ।

यद्येवं तर्धुल्लेखापह्लत्योरिहैव विपर्ययेण किं न लक्षणं कृतमित्याशङ्क्याह-प्रक्रान्तेत्यादि ।

इदमित्यपह्नुतिलक्षणं ।

तदेवव्याचष्टे - आरिपेत्यादिना ।

विषयस्यापह्नवेविषयिणोऽन्यस्य विधिरित्यर्थः ।

तेन-

ऽन विषं विषमित्याहुर्ब्रह्यस्त्वं विषमुच्यते ।

विषमेकाकिनं हन्ति ब्रह्मस्वं तु ससंततिम्ऽ । ।

इत्यत्र विषयस्य निषेधपूर्वं ब्रह्मस्वविषय आरोप्यमाणत्वाद्दृढारोपं रूपकमेव नापह्नुतिः ।

अपह्नुतेर्हि निषेध्यविषयभित्तितयैवान्यस्य विषयिणो विधानं लक्षणं ।

अत्र तु निषेध्यस्यैव विषस्य ब्रह्मस्वविषये आरोप्यमाणत्वाद्विधानं ।

अथ

ऽअत्र मुख्यस्य विषस्य निषेधेआरोप्यमाणत्वात्ब्रह्मस्वविषस्य गौणस्य विधानम्ऽ - [अलङ्काररत्नाकरे पृ.४२] इति चेत्

,

तत्र ब्रह्यस्वविषस्य गौणस्य विधानमिति भणितेः कोर्ऽथः ।

किं ब्रह्मस्येति ।

तत्र नाद्यः पक्षः ।

विषादिन्यायेन ब्रह्मस्वविषात्मनः कस्यचिद्वस्तुनो बहिरसंभवात् ।

तत्राप्यस्य ब्रह्मस्वं विषं चेति न भेदेनोक्तिः स्यात् ।

नापि गौणता स्वार्थ एव प्रवृत्तेः ।

अन्यदन्यत्र वर्तमानां गौणमित्युच्यते ।

न चात्र ब्रह्मस्वविषमन्यत्र कुत्रचिद्वर्तते येनास्य गौणता स्यात् ।

एवं द्वितीयेऽपि पक्षे न गौणत्वं युक्तं ।

नाप्यत्रोभयविधिः ।

ब्रह्मस्ववृत्त्यभावान्मुख्यार्थबाधाद्गुणेषु वर्तनात् ।

तृतीयेऽपि न गौणस्य सतो विषस्य विधानं ।

ब्रह्मस्ववृत्त्यभावान्मुखायार्थबाधाधाद्गुणेषु वर्तनात्विहितस्य तस्तय गौणत्वात् ।

एवं ब्रह्मस्वत्य दाढर्येन विषसाभ्यप्रतीतिप्रतिपिपादयिषया तत्र निषेधपूर्वं विषमारोपितमिति दृढारोपमेव रूपकं युक्तं ।

न ब्रह्मस्वं विषमिदमिति पुनरुच्यमानेऽपह्नुतिः स्यात् ।

तस्मात्ऽमुख्यस्य वेऽ त्यपास्त विषयस्यापह्नुवेऽन्यविधिरपह्नुतिरित्येव लक्षणं कार्यं ।


विमर्शिनी

२१अः

तस्येत्यपह्नुत्याख्यस्यालङ्कारस्य ।

वाक्यभेद इति एकवाक्यमिति चानेन यथासंभवं भेदत्रयस्य स्वरूपनिर्देशः कृतः ।

न निरवद्यमिति ।

यथोक्तक्रमनिर्वाहाभावात् ।

अत एवोदाहरणान्तरमाह-पूर्णेन्दोरित्यादि ।

मन्येशब्दस्य प्रयोग इति संभावनाद्योतकत्वात् ।

नोत्प्रेक्षेति ।

साध्यवसायाद्युत्प्रेक्षासामग्रयभावात् ।

वक्ष्यत इति ।

उत्प्रेक्षायां ।

तया चास्या इवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः ।

किन्तूत्प्रेक्षासामग्रयभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयतीति ।

अतश्चात्रऽअवात्पः प्रागल्भ्यम्-इत्यादावपह्नत्यतुदाहरणत्वमभिदधतःसमानेऽपि न्यायेऽनो मां प्रति तथाऽ इत्यनेन शशकपक्षस्य निराकृतत्वादन्यस्यान्यरूपतया संभावनाया अभावान्मन्य-इत्यनेन किणपक्षस्यैव निश्चितत्वादतिशयोक्तित्वमेवेति मन्यन्ते (अलङ्काररत्नकरकारादयः) ।

तेषां पूर्वापरविचारकुशलानां किमभिदध्मः ।

एवमन्यैरत्रान्यत्र चोदाहरणादौ बहुप्रकारं स्खलितं तत्पुनर्ग्रुन्थविस्तररभयाद्

,

अस्मद्दर्शनदत्त्दूषणोद्भरणस्यैव प्रतिघज्ञातत्वात्

,

अस्माभिः प्रतिपद्येन न दूषितं ।


विमर्शिनी

२१बः

एतस्मिन्निति छलादिशब्दप्रतिपाद्ये ।

संभावमात्रं पुनर्दर्शयितुमेतदुदाहृतं ।

वस्त्वन्तररूपताभिधायीति ।

वपुःशब्दस्य शरीरार्थाभिधायित्वात् ।

अत्र पुनरुपमानस्योपमेयरूपतापरिणतौ परिणाम इति परिणमालङ्कारत्वं स्यात् ।

इह पुनः शर्वप्लुष्टमदननिपतनानुमापकत्वेन रोमावल्यपह्नवे धूमशिखाया एवं प्राधान्यं विवक्षितमिति न परिणामः नापि रूपकं ।

व्याजार्थपर्यवसायिवपुः शब्दबलादारोपविषयापह्नुतावारोप्यमाणस्य प्रतीतेः ।

आरोपविषयानपह्नवे हि रूपकमिति पूर्वमेवोक्तं ।

अथात्रापि भिन्नयोः सामानाधिखरण्यायोगादेकतरस्य निषेधप्रात्पवारोप्यमाणस्य च निषेधानुपपत्तेरारोपविषयस्यैव पर्यवसाने निषेधः प्रतीयत इति चेत्

,

नैतत् ।

अत्र हि मुखादौ चन्द्रादेर्वृत्यभावाद्बाधितः संश्चन्द्रार्थः स्वात्मसहचारिणो गुणांल्लक्षयति न तु मुखादेर्विषयस्य निषेधः प्रतीयते ।

मुखशब्दादेः स्वार्थ एव प्रवृत्तेः ।

पर्यवसाने ह्यत्र मुखादि चन्द्रदिगुणविषिष्टं प्रतीयते ।

न तु मुखादेर्बाधः ।

न मुखमित्येवमादेः प्रत्यवमर्शाभावात् ।

नापि निदर्शना ।

संबन्धविघटनाद्यभावात् ।


विमर्शिनी

२१चः

आदिशब्दाच्च तृतीययापि क्वचिदसत्यत्वं प्रतिपाद्यते ।

यथा-

ऽमद्धाह्वोर्व्यवहारमुज्झतु लता कण्ठस्थले तावके मा कार्षीरतिसाहसं प्रियतमे दासस्तव प्राणिति ।

नीता वृद्धिममी त्वयैव कुसुमैर्बाष्पायमाणा द्रुमा गृह्णन्ति क्षुरिकामिवालिपटलव्याजेन पाशच्छिदेऽ । ।

अत्र कुसुमैरिति तृतीययापह्णवनिबन्धनं ।

आरोपगर्भत्वाच्चेयं सादृश्याद्वा भवति संबन्धान्तराद्वा ।

सादृश्येऽप्यस्याः साधारणधर्मस्य त्रयी गतिः ।

तत्रानुगामिता यथा-

ऽतरुणतमालकोमलकोमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते ।

ऽ तदनृतमेव निर्दयविधुन्तुददन्तपदव्रणविवरोपदर्शितमिदं हि विभाति नभः । ।

अत्र तमालमलीमसत्वमनुगामित्वेनोपात्तं ।

शुद्धसामान्य रूपत्वं यथा-

ऽअय सुरेन्द्रोपवनाद्धरित्रीं स पारिजातो हरिणोपनीतः ।

न प्रातितोऽयं सुमनः प्रवर्हः कश्मीरदेशोद्भवताभिमानम्ऽ । ।

अत्रापनयनप्रापणयोः शुध्दसामान्यरूपत्वं ।

बिम्बप्रतिबिम्बभावो यथा -

ऽन स्योत्स्माभरणं नभो न मिलितच्छायापथो वाम्बुदो नो ताराप्रकारो न चेदममृतज्योतिष्मतो मण्डलं ।

क्षीरक्षोभमयोऽप्यपांनिधिरसौ नेत्राहिना मन्दरः पृक्तोऽयं मणिपूग एष कलशश्चायं सुधानिर्झरःऽ । ।

अत्र ज्योत्स्नाभरणत्वस्य क्षीरक्षोभमयत्वं प्रतिबिम्बत्वेन निर्दिष्टं ।

संबन्धान्तराद्यथा-

ऽहेलोदञ्चन्मलयपवनाडम्बरेणाकुलासु प्रेङ्खाकेलिं कमपि भजतां चृतशाखालतासु ।

वाचालत्वं ननु यदभवत्कानने कोकिलानां मौनित्वं तत्पथिकहरिणीलोचनानां वबल्गऽ । ।

अत्र कोकिलवाचालत्वस्य कारणस्य निषेधे पथिकस्त्रामौनित्वस्य कार्यस्य विधिः ।

एवमारोपगर्भेयं सप्रपञ्चं दर्शिता ।

अध्यवसायगर्भा पुनर्दर्श्यते यथा-

ऽन लक्ष्मीसौदर्यान्न च सुरशरण्यीकृतसुरा- सुधादिज्येष्ठत्वान्न मुकुटमणित्वाद्भगवतः ।

यदेवं बालेन्दोर्दिशि विदिशि वन्द्यत्वमुदितं स्फुटं त्वेतत्कान्तामुखकमलदास्यादुपनतम्ऽ । ।

अत्र वन्द्यत्वस्य प्रभावादिहेतुकत्वे निगीर्य हेत्वन्तरमध्यवसितं ।

यथा वा-

ऽकलाभिस्तृप्त्यर्थं सुरपितृनृणां पञ्चदशभिः सुधासूतिर्देवः प्रतिदिनमुदेतीत्यतसदिदं ।

परिभ्राम्यत्येष प्रतिफलनमासाद्य भवती- कपोलान्तर्युक्त्या त्वदधरसुधासंग्रहपरःऽ । ।

अत्रोदयादौ तत्तद्राश्युपभोगलक्षणं निमित्तं निगीर्य तत्फलभूतं निमित्तान्तरमध्यवसितं ।


विमर्शिनी

२१दः

एतदुपसंहरन्नन्यदवतारयति ।

एवमित्यादि ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र २२ः

#<

एवमभेदप्राधान्ये आरोपगर्भानलङ्कारांल्लक्षयित्वा अध्यवसायगर्भांल्लुक्षयति- तत्र

अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा । । अ.स. २२ । ।

विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः ।

>#


विमर्शिनी

२२ः

आरोपगर्भानिति ।

अत्राध्यवसायगर्भत्वस्यापि विद्यमानत्वान्मल्लग्राम इत्यादिवदारोपगर्भस्य प्राधान्यादेवं व्यपदेशः ।

तत्र तावदुत्प्रेक्षां लक्षयति-अध्यवसाय इत्यादि ।


विमर्शिनी

२२अः

अध्यवसाय इति न पुनः संदेह इति ।

इह हि निश्चयानिश्ययरूपत्वेन प्रत्ययानां द्वैविध्यं ।

निश्चयश्चार्थाव्यभिचारी सम्यक्

,

अम्यक्

,

अन्यथा त्वसम्यगिति भेदो न ग्राह्यः ।

प्रतीतिवृत्तिमात्रस्यैवेह विचारयितुमुपक्रान्तत्वात् ।

तस्य च प्रामाण्यविचारे उपयोगात् ।

अनिश्चयश्च संशयतर्करूपत्वेन द्विविधः ।

अतश्चानिश्चितं च संदग्धमेवेति न वाच्यं ।

तर्कात्मनः संभावनाप्रत्ययस्याप्यनिश्चयात्मकत्वे सदिग्धत्वाभावात् ।

उत्प्रेक्षा संभावनादिशब्दाभिधेयतर्कंप्रतीतिमूलेति नास्याः संदेहमूलत्वं ।

तस्य भिन्नलक्षणत्वात् ।

अथानवधारणघज्ञानं संशयैत्यनवधारणज्ञानत्वाविशेषात्संशयान्नार्थान्तराभावस्तर्कस्येत्यस्याः संशयमूलत्वमिति चेत्

,

नौतत् ।

अनवधारणज्ञानत्वाविशेषेऽरि संशतर्कयोभिंन्नरूपत्वात् ।

तथाहि-स्थाणुर्वा पुरुषो वेति सामान्येन पक्षद्वयोल्लेखः संशयः ।

पुरुषेणानेन भवितव्यमित्येकतरपक्षानुकूलकारणदर्शनेन पक्षान्तरबाधनमिव तर्कः ।

पुरुष एवायमिति पक्षान्तरासंस्पर्शेनैकतरपक्षनिर्णयो निश्चय इत्यस्ति सहृदयसाक्षिकं प्रत्ययानां त्रैविध्यं ।

बाढमस्त्येव प्रत्ययानां त्रैविध्यम्

,

किं त्वनवधारणज्ञानत्वाविशेषात्सशयप्रकारस्तर्कं इति चेत्

,

नौतत् ।

एवं ह्यसम्यग्ज्ञानत्वाविशेषाद्भ्रमोऽपि संशयप्रकारः स्यात् ।

अर्थनिश्चयानिश्चयस्वभावत्वादिना अस्त्यनयोर्विशेष इति चेत्

,

इह पुनर्नास्त्यत्र किं प्रमाणं ।

संशयो ह्यनियतोभयांशावलम्बित्वेनोदेति

,

तर्कः पुनरंशान्तरबाधनेनेत्र वाहकेलिदर्शनाद्यनुकूलकारणौचित्यादंशान्तरावलम्बनेन चेत्यस्त्यनयोर्विशेषः ।

देशान्तरे हि यथा स्पर्धमान एव स्थाणुपक्ष आस्ते न तथा वाहकेलिभूमौ

,

अपि तु शिथिलीभवति

,

संभवत्प्रमादत्वाच्च सर्वात्मना न निवर्तत इति अत एव निश्चयः साधकप्रमाणाभावेऽप्यस्योपपत्तः ।

नहि सर्वात्मना न निवर्तत इति अत एव निश्चयः साधकप्रमाणाभावेऽप्यस्योपपत्तः ।

नहि प्रतिपक्षबाधादेव निश्चयो भवति ।

साधाकबाधकप्रमाणसद्भावेन तदुत्पादात् ।

तेनानियतोभयपक्षावलम्बी किंस्विदिति विमर्शः सदेहः ।

एकतरपक्षावलम्बी तु तर्क इति ।

अथ कास्यऽफलस्योपायविशेषःऽ इत्येकतरपक्षावलम्बेनापि संदेहः संभवतीति चेत्

,

नैतत् ।

किमथनानियतपक्षान्तरस्वीकारादेकतरपक्षावलम्बनस्याप्रतिष्ठानात् ।

बाह्यालीदर्शनाच्च यथा पुरुषविशेषाः स्मरणपथं समवतरन्ति न तथा स्थाणुविशेषा इत्युभयविशेषस्मरणजन्मनः संदेहादेकतरविशेषस्मरणजन्मा विशिष्यते तर्क इत्याद्यवान्तरमतिगहनमनयोरन्तिभेदसाधनं तत्पुनः प्रकृतानुपयोगादिह नोक्तं ।

तेन संदेहनिश्चयान्तरालवतीं तान्द्वलक्षणः संभावनाप्रत्ययस्त्रिशङ्कुरिव लम्बमानोऽवश्याभ्युपगन्तव्यः ।


विमर्शिनी

२२बः

एवमप्यनिश्चयात्मकसंभावनाप्रत्ययमूलत्वादुत्प्रेक्षायाः कथमध्यवसायमूलत्वं ।

तस्य हि विषयनिगरणं विषयिनिश्चयश्च स्वरूपं ।

न चात्रैकमपि संभवति ।

विषयोपादानान्निश्चयाभावाच्चेति ।

अत्रोच्यते - इह द्विधास्त्यध्यवसायः-स्वारसिक उत्पादितश्च ।

तत्र स्वारसिके विषयानवगत एव निमित्तं तत्सामर्थ्यात्स्वरसत एव विषयिप्रतीतेरुल्लासात् ।

न ह्यवगतशुक्तिकास्वरूपन्य प्रमातुः कदाचिदपि रजतमिदमिति प्रत्ययोत्पादः स्यात् ।

इतरत्र तु विषयमवगम्यपि तदन्तःकारेण प्रतिपत्तौ स्वात्मपरतन्त्रविकल्पबलाद्विषयप्रतिपत्तिमुत्पादयेत् ।

जानान एव हि विषयिविविक्तं विषयं तत्र प्रयोजनपरगता स्वारसिक्येव तथाविधा प्रतिपत्तिर्वक्त्रानूद्यते न तूत्पाद्यते ।

यदाहुः-

ऽप्रमात्रन्तरधीर्भान्तिरूपा यस्मिन्ननूद्यते ।

स भ्रान्तिमान्ऽ इति ।

स्वारसिकत्वं पुनरत्र कविप्रतिभानिर्वतितमेवेष्टं ।

अन्यथा हि भ्रान्तिमात्रं स्यादिति पूर्वमेवोक्तं ।

इतरस्तूत्प्रेक्षाविषयः ।

स च द्विविधः-सिद्धः साध्यश्च ।

सिद्धो यत्र विषयस्यानुपात्ततया निगीर्णत्वादध्यवसितप्राधान्यं ।

सिध्यो यत्रेवाद्युपादानात्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्णत्वादध्यवसितप्राधान्यं ।

साध्यो यत्रेवाद्युपादानात्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्यत्वादध्यवसितप्राधान्यं ।

साध्यो यत्रेवाद्युपादानान्त्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्यमाणत्वादध्यवसायक्रियाया एव प्राधान्यं ।

अत एवाह-ऽव्यापारप्राधान्यऽ इति ।

अत एव चात्र क्विचिद्विषयानुपादानं ।

वाच्योपयोग्यध्यवसायस्य साध्यमान वेनोपक्रान्तत्वात् ।

क्विचिच्च विषयस्यानुपादानेऽपि न सिद्धत्वं ।

इवाद्यलपादानान्निगीर्यमाणत्वादारोपगर्भत्वं न वाच्यं ।

तत्र विषयस्य विषयितया प्रतीतिः ।

इह पुनर्वषयस्य निगीर्यमाणत्वेन विषयिण एव प्रतीतिः ।

ननु विषयनिगरणमध्यवसायस्य लक्षणं ।

इह पुनर्विषयस्य निगीर्यमाणतेति कथमत्राध्यवसायतेति चेत्

,

नैतत् ।

विषय्यन्तःकृतेऽन्यस्मिन्सा स्यात्साध्यवसानिकाऽ इत्याद्यक्त्याध्यवसायस्य विषयिणा विषयस्यान्तःकरणं लक्षणं ।

तच्च विषयस्य निगरणेन निगीर्यमेणत्वेन वा भवतीति न कश्चिद्विशेषः ।

निगीर्यमाणत्वमपि पूर्वोक्तनीत्या विषयस्योपात्तस्यानुपात्तस्य वा भवतीतिन कश्चिद्विशशेषः ।

एवं सिध्देऽध्यवसायेऽध्यवसितप्राधान्य साध्ये च स्वरूपप्राधान्यमितिसिद्धं ।

एवच्च ग्रन्थकृदेव विभज्याग्रे वक्ष्यतीति तत एवावधायंं ।

यदेव साध्यवसायस्य साध्यत्वं तदेव संभावनात्मकत्वं ।

संभावना ह्येकतरपक्षशिथिलीकारेण पक्षान्तरदार्ढ्येन च प्रादुर्भवतीत्यस्याः साध्याध्यवसायतुल्पकक्षत्वं ।

तस्यापि विषयशिथिलीकारेण विषयिदार्ढ्येन चोत्पत्तेः ।

अत एव विषयिणोऽपि शब्देन वृत्तेन सत्यन्त्वं ।

विषयिदार्ढ्येनैव साध्याध्यवसायत्वरूपप्रादुर्भावात् ।

यदुक्तं भवद्भिरेवऽसंभावनायां च संभाव्यमानस्य दार्ढ्यादपरस्य न शौथिल्यात्ऽ इति ।

इह संभाव्यमानस्य विषयिणो दार्ढ्यादत्र संशयाद्वैलक्षण्यं ।

तस्य ह्यनियतोभयांशावलम्बी किंस्विदिति विमर्शो लक्षणं संभावनाविषयस्य च शौथिल्यान्निश्चयादपि भेदः ।

विषये हि बाधकसद्भावादेकस्य शैथिल्येन वा साधकसद्भावाच्च पक्षान्तरस्य सिद्धिः स्यात् ।

अतिशयोक्तिश्च निश्चयात्मिकेति ततोऽस्या भेदः ।

यत्तुऽसाध्यो यत्र विषयिणोऽसत्यतया प्रतीतिःऽ इत्यादि ग्रन्थकृद्वक्ष्यति तद्वस्तुवृत्ताभिप्रायेणावगन्तव्यं ।

तदेवं विषयस्य निगीर्यमाणत्वाद्विषयिणश्च निश्चयात्सिद्धमध्यवसायमूलत्वमस्या इति यथोक्तमेव लक्षणं पर्यालोचिताभिधानं ।

तस्मात्-

ऽइवादौ निश्चयाभावाद्विषयस्य परिग्रहात् ।

क्वचिदध्यवसायेन नोत्प्रेक्षापि तु संशयात्ऽ । ।

इत्याद्युक्तमयुक्तमेवेत्यलं बहुना ।

__________

अ.स. २२ ।१ः

#<

स च द्विविधः - साध्यः सिद्धश्च ।

साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः ।

असत्यत्वं च विषयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसंभावित्वेन विषयासंभावित्वेन च प्रतीतेः ।

धर्मो

,

गुणक्रियारूपः तस्य संभवासंभवप्रतीतौ संभवाश्रयस्य तत्रापरमार्थतया असत्यत्वं प्रतीयते

,

इतरस्य तु परमार्थतया सत्यत्वं ।

यस्यासत्यत्वं

,

तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः ।

अतश्च व्यापारप्राधान्यं ।

सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यताप्रतीतिः ।

सत्वत्वं च पूर्वकस्यासत्यत्वनिमित्तस्यभावात् ।

अतश्चाध्यवसितप्राधान्यं ।

तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्येऽध्यवसायः संभावनमभिमानस्तर्क ऊहृ उत्प्रेक्षेत्यादिशब्दैरुच्यते ।

तदेवमप्रकृतगतगुणक्रियाभिसंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा ।

सा च वाच्या इवादिभिः प्रदर्श्यते ।

प्रतीयमानायां पुनरिवाद्यप्रयोगः ।

सा च जातिक्रियागुणद्रव्यताणामप्रकृतानामध्यवसेयत्वेन चतुर्था ।

प्रकृतस्यैतद्भेदयोगेऽपि न वैचित्र्यमिति न ते गणिताः ।

प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्येऽष्टविवत्वं ।

भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणाक्रियारूपत्वे षोडश भेदाः ।

तेषां च प्रत्येकं निमित्तस्योपादानानुपादनाभ्यां द्वात्रिंशत्प्रभेदाः

,

तेषु च प्रत्येकं हेतुस्वरूपफलोत्प्रेक्षणरूपत्वेन षण्णवतिर्भेदाः ।

एषा गतिर्वाच्योत्प्रेक्षाया ।

तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः ।

प्रतीयमानायास्तु यद्यप्युद्देशत एतावन्तोभेदाः

,

तथापि निमित्तस्यानुपादानं तस्यां न संभवतीति तैर्भेदैर्यूनोऽयं प्रकारः ।

इवाद्यनुपादाने निमित्तस्यत चाकीर्तने उत्प्रेक्षणस्य निष्पमाणत्वात् ।

प्रायश्च स्वरूपोत्प्रक्षाया यथासंभवं भेदनिर्देश ।

एषा चार्थाश्रयति धर्मविषये श्लिष्टशब्दहेतुका क्वचित्पदार्थान्वयवेलायां सादृश्याभिवानादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्य्थाभिमन्तृव्यापारोपारोहक्रमेणोत्प्रेक्षायां पर्यवस्यति ।

क्वचिच्छलादिशब्दप्रयोगे सापह्नवात्प्रेक्षा भवति ।

अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः ।

>#


विमर्शिनी

२२ ।१ः

एतदेव व्याचष्टे - विषयेत्यादिना ।

अभेदप्रतिपत्तिरिति विषयान्तःकरणात् ।

संभावनाप्रत्ययात्मकत्वेऽपि साध्याध्यवसायस्य वस्त्वभिप्रायेण तद्वैलक्षण्यं प्रदर्शयितुमाह-साध्य इत्यादि ।

विषयपरिशोधनद्वारेण प्रमाणानुग्राहकत्वात्संभावनाप्रत्ययस्य पुरुषेणनेन भवितव्यमित्यत्र वस्तुवृत्तेन पुरुषस्य सत्यत्वं ।

इह पुनस्तत्र तस्य प्रयोजनपरतयाध्यवसीयमानत्वात्संवनाविषये संभाव्यमानस्य वस्तुतो न सत्यत्वमित्याह-असत्यतया प्रतीतिरिति ।

अत्रैव निमित्तमाह-असत्यत्वं चेत्यादिष ।

विषय उपनिबन्ध इति ।

तद्गतधर्माभेदेनाध्यवसित इत्यर्थः ।

अनेनसप्रयोजनत्वमेवोपोद्वलितं ।

धर्म इति विषयिगतः ।

स एव चोत्प्रेक्षणे निमित्तं ।

तस्येति धर्मस्य ।

संभावनाश्रयस्येति विषयिणः ।

तत्रेति संभावनाश्रये विषये ।

इतरस्येति असंभवाश्रयस्य विषयस्य ।

यस्येति विषयिणः ।

अतंश्चेति ।

अध्यवसायस्य साध्यमानत्वात् ।

असत्यस्यापीति ।

वस्तुतो विषयिणस्तत्रासंभवात् ।

सत्यताप्रतीतिरिति ।

निश्चयस्वभावत्वादतिशयोक्तेः ।

असत्यत्वनिमित्तस्यन्ति धर्मसंचारादेः ।

अतश्चेति धर्मसंचारात्रिगीयमाणतायाः प्राधान्याभावात् ।

अध्यवसितप्राधान्यमिति विषयस्य निगीर्णत्वाद्विषयिण एव प्राधान्यमित्यर्थः ।

साध्यत्वसिद्धत्वयोश्च समनन्तरमेवस्वरूपमुपपादितमितीह न पुनरायस्तं ।

तत्रेति द्वयनिर्धारणे ।

अध्यवसाय इत्यादिशब्दैरुच्चत इति संबन्धः ।

एतदेवोपसंहरति-तदेवमित्यादि ।

यदाहुः-ऽविवयित्वेन संभावनमुप्रेक्षाऽ इति ।

प्रतीयमानायामिति ।

इवाद्यप्रयोगाच्छब्दानुक्तत्वादूह्यायां न व्यङ्गयायाम्

,

अलङ्कारप्रभेदानां प्रतिपिपादयिषितत्वाद्व्यङ्ग्यभेदाभिधानस्याप्रस्तुतत्वात् ।

एवं वाच्या प्रतीयमाना चोत्प्रेक्षा भवतीत्यनुवादद्वारेण विधिः ।

सा चेति ।

वैचित्र्यमिति ।

तस्य निगीर्थमाणत्वेनाप्राधान्यात् ।

प्रत्येकमिति जात्यादीनां ।

निमित्तस्येति धर्मस्य ।

तद्वशादेव हि प्रकृतगतत्वेनाप्रकृतोपनिबन्धः ।

हेतुस्वरूपफललक्षणमेवास्या भेदत्रयं जीवितभूतमिति तदेव विश्रान्तिधामतया पश्चादुद्दिष्टं ।

जात्यादिभेदगणनं पुनरवैचित्र्यावहमपि चिरन्तनानुरोधात्कृतं ।

अत एव ग्रन्थकृता प्रातिपद्येन नोदाहृतं ।

अस्माभिश्च नोदाहरिष्यते ।

एषेति ।

समनन्तरोक्ता ।

तत्रापीति ।

सत्यामपि समनन्तरोद्दष्टायां भेदगणमायां ।

प्रायःशब्देन च हेतुफलयोः कुत्रापि संभवोऽस्तीति दर्शितं ।

अत एवालङ्कारानुसारिण्यां ग्रन्थकृतानयोरपि संभवो दर्शितः ।

तदेवं द्रव्यस्य हेतुफलयोः संभवे प्रागुक्तैव संख्या ज्यायसी ।

अन्यथा त्वेतद्भेदषोडशकत्याभावादशीतिर्भेदाः ।

अस्याश्च वक्ष्यमाणनीत्या हेतुफलयोर्निमित्तानुपादानासंभवाच्चतुःषष्टिरेव भेदाः संभवन्ति ।

एतावन्त इति षण्णवतिः ।

अयं प्रकार इति ।

प्रतीयमानोत्प्रेक्षालक्षणः ।

प्राय इति ।

वाच्या यथा स्वरूपोत्प्रेक्षा लक्षयेषु प्रचुरा तथेयं न भवतीत्यर्थः ।

न पुनरत्यन्तमेवास्या अभावो श्चाष्टचत्वार्रिशद्भेदाः संभवन्ति ।

तदुक्तमलङ्कारानुसारिण्याम्-ऽप्रतीयमानोत्प्रेक्षाभेदा अष्चत्वारिंशत्ऽ इति ।

अर्थाश्रयापीति ।

अर्थाश्रयस्य यद्यपि शब्दहेतुकत्वं न क्वाप्युपयुक्तं तथापि श्लिष्टशब्दहेतुकत्वमस्याः क्वचिद्वैचित्र्यमावहतीत्यर्थः ।

उपमा उत्प्रेक्षायां पर्यवस्यतीति संबन्धः ।

आनन्त्यमिति बहु प्रकारत्वं ।

__________

अ.स. २२ ।२ः

#<

साप्रतं त्वियं दिड्व्रात्रेणोदाह्नियते ।

तत्र जात्युत्प्रेक्षा यथा-

ऽस वः पायादिन्दुर्नवबिसलताकोटिकुटिलः- स्मारारेर्यो मूर्ध्नि ज्वलनकपिशो भाति निहितः ।

स्त्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इवऽ । ।

अत्राङ्कुरशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते ।

क्रियोत्प्रेक्षा यथा–

ऽलिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभःऽ ।

अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येते ।

उत्तरार्धे तुऽअसत्पुरुषसेवेव दृष्टिर्निष्फलतां गताऽ । ।

इत्यत्रोपमैव नोत्प्रेक्षा ।

गुणोत्प्रेक्षा यथा-

ऽसैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्यां ।

अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्ऽ । ।

अत्र दुखं गुणः ।

द्रव्योत्प्रेक्षा यथा-

ऽपातालमेतन्नयनोत्सवेन विलोक्य शून्यं मृगलाञ्छनेन ।

इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिःऽ । ।

अत्र चन्द्रस्यैकत्वाद्द्रव्यत्वं ।

एतानि भावाभिमाने उदाहरणानि ।

>#


विमर्शिनी

२२ ।२ः

सांप्रतमिति प्रात्पावसरं ।

दिङ्मात्रेणेति ।

अनेन जात्यादिभेदानामनवक्लत्पिर्ध्वनिता ।

तमोगतत्वेनेति ।

तमोगतव्यापनादिधर्मनिगरणेनेत्यर्थः ।

अत्र हि तमसो धर्मिणोऽन्यधर्मधर्मित्वं निगीर्यान्यधर्मधर्मित्वमवस्थापितमित्यग्र एव वक्ष्यामः ।

द्रव्योत्प्रेक्षेति ।

द्रव्यस्य स्वरूपेणोत्प्रेक्षणं ।

तस्यैव हि हेतूत्प्रेक्षा यथा -

ऽजयति शिशिरतायाः कारणं सा हिमाद्रे- स्त्रिपुरहरकिरीटादापतन्ती द्युसिन्धुः ।

सततसहनिवासी क्षीरसिन्धोः प्रसूतो- हिमकर इव हेतुः श्वैत्यशैत्यस्य यस्याःऽ । ।

अत्रेन्दोर्द्रष्यस्य हेतुत्वेनोत्प्रेक्षणं ।

फलोत्प्रेक्षा यथा -

ऽमध्येसलिलमादित्यसंमुखं धूलिधूसराः ।

कुमुदिन्यस्तपस्यन्ति चन्द्रायेव दिने-दिनेऽ । ।

अत्र चान्द्रस्य द्रव्यत्वं ।

एषामेव भावाभिमानोदाहरणत्वमतिदिशति-एतानीत्यादिना ।

__________

अ.स. २२ ।३ः

#<

अभावाभिमाने यथा-

ऽकपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।

अपश्यन्ताविवान्योन्यमीदृक्षां क्षमतां गतौऽ । ।

अत्रापश्यन्ताविति क्रियाया अभावाभिमानः ।

एवं जात्यादावप्यूद्यं ।

गुणस्य निमित्तत्वं यथा-

ऽनवबिसलताकोटिकुटिलःऽ इत्यत्रोदाहृते कुटिलत्वस्य ।

क्रियाया यथा- र्ऽइदृक्षां क्षामतां गतौऽ इत्यत्र क्षामतागमनस्य ।

निमित्तोपादानस्यैते उदाहरणे ।

अनुपादानेऽलिम्पतीव तमोऽङ्गानिऽ इत्याद्युदाहरणं ।

हेतूत्प्रेक्षा यथा -ऽविश्लेषदुःखादिव बद्धमौनम्ऽ इत्यादौ ।

स्वारूपोत्प्रेक्षा यथा -ऽकुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।

दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिः श्वासमिवोत्ससर्जऽ । ।

फलोत्प्रेक्षा यथा -ऽचोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः ।

अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणिऽ । ।

एवं वाच्योत्प्रेक्षाया उदाहरणदिग्दत्ता ।

प्रतीयमानोत्प्रेक्षा यथा -

ऽमहिलासहःसभरिए तुह हिअए सुहा सा असाअन्ती ।

अणुदिणमणण्णाम्भा अङ्गं तणुअंपि तणुएइऽ । ।

(

ऽमहिलासहस्रभरिते तव हृदये सुभग सा अमान्ती ।

अनुदिनमनन्यकर्मा अङ्गं तनकमपि तनयतिऽ । ।) । ।

अत्र-

अमाअन्तीत्यवर्तमानेवेति तनूकरणहेतुत्वेनोत्प्रेक्षितं ।

एवं भेदान्तरेष्वपि ज्ञेयं ।

>#


विमर्शिनी

२२ ।३ः

अभ्यूह्यमिति अभावाभिमानोदाहरणं ।

निमित्तोपादानस्येति ।

कुटिलत्वस्य क्षामतागमनस्य च साक्षान्निर्देशात् ।

अनुपादान इति ।

तिरोधायकत्वादेर्निमित्तस्य गम्यमानत्वात् ।

भेदान्तरेष्विति स्वरूपफलादिकेषु ।

ज्ञेयमिति प्रतीयमानत्वात् ।

तत्र स्वरूपोत्प्रेक्षा यथा -

ऽमलासमीरसमागमसंतोसपणिच्चाराभिसव्वत्तो ।

विध्याइह चलकिसलजकराहि साहाहि महुलच्छ्रीऽ । ।

(

ऽमलयसमीर - समागम -संतोष -पाटच्चराभिः सर्वत्र ।

विव्याहरति चलकिसलकराभिः शाखामिर्मधुलक्ष्मीःऽ) । ।

अत्र मधुलक्ष्मीगतत्वेन चलकिसलयकरत्वादि निगीर्य व्याहरणक्रिया स्वरूपेनोत्प्रेक्षिता ।

तदौन्मुख्योत्पादकत्वादि च निमित्तमनुपात्तं ।

यत्पुनरुद्देशे प्रतीयमानोत्प्रेक्षायां निमित्तानुपादानं न संभवतीत्युक्तं तत्र प्रायस्तस्याः स्वरूपोत्प्रेक्षणस्यासंभवो निमित्तं ।

ग्रन्थकृतो हि प्रतीयमानोप्रेक्षा हेतुफलरूपैव भवतीत्यभिप्रायः ।

हेतुफलोत्प्रेक्षणयोश्चवक्ष्यमाणनीत्या निमित्तानुपादानं न संभवतीत्याशयेनैतदुक्तं ।

तेन प्रतीयमानापि स्वरूपोत्प्रेक्षा निमित्तोपादानानुपादानाभ्यामेव भवति ।

तत्र निमित्तानुपादाने उदाहृता ।

उपादाने तु यथा -

ऽप्रसारि सर्वतो विश्वं तिरोदधदिदं तमः ।

सर्वाङ्गं लिम्पति जनं सान्द्रैरमृतकूर्चकैःऽ । ।

अत्र प्रसारित्वादि निगीर्य तमागतत्वेन लेपनक्रिया स्वरूपेणेत्प्रेक्षिता तिरोधायकत्वादि च निमित्तं ।

ऽतुरीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽपि वा ।

अपि वा जङ्गमं तीर्धं धर्मो वा मूर्तिसंचरःऽ । ।

इत्यादौ तु वामनतमते विशेषोक्तिः-ऽभूतलकार्तिकेयःऽइतिवत् ।

ग्रन्थकृन्मते तु दृढारोपं रूपकं ।

यद्वक्षति-या त्वेकहानिकल्पनायां साम्यदाढर्थं विशेषोक्तिरिति विशेषोक्तिर्लक्षिता सास्मद्दर्शने रूपकभेद एवेति ।

अत एवात्र तत्सामग्रबभावादुत्प्रेक्षोदाहरणत्वं न वाच्यं ।

एवम्ऽअपरः पाकशासनो राजाऽ इत्यत्रापि दृढारोपमेव रूपकं ।

एतच्चालङ्कारानुसारिण्यामुत्प्रेक्षाविचारे ग्रन्थकृतैव दर्शितं ।

फलोत्प्रेक्षा यथा-

ऽगिज्जन्ते मङ्गलगाहिआहि वरगोत्तकरण्णए ।

सोत्तं विणिग्गओ उऐ हाएन्तबहुआहि रोमङ्क्षोऽ । ।

(

ऽगृह्यन्ते मङ्गलग्राहिकाभिर्वरगोत्रदत्तकर्णायाः ।

श्रोतुं विनिर्गतः पश्यत भविष्यद्वध्वा हि रोमाञ्चःऽ) । ।

अत्र श्रोतुमिवेति फलमुत्प्रेक्षितं ।

__________

अ.स. २२ ।४ः

#<

श्लिष्टशब्दहेतुर्यथा -ऽअनन्यसामान्यतया प्रसिद्धस्त्तयागीति गीतो जगतीतले यः ।

अभूदहंपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम्ऽ । ।

अत्र धर्मविषये मार्गणशब्दः श्लिष्टः ।

>#


विमर्शिनी

२२ ।४ः

श्लिष्ट इत्यथिशरवाचकत्वात् ।

__________

अ.स. २२ ।५ः

#<

उपमोपक्रमोत्प्रेक्षा यथा -ऽकस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि ।

याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु- स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विशषःऽ । ।

अत्र यद्यपिऽसर्वप्रातिपदिकेभ्यः क्किप्ऽ इत्युपमानात्क्किब्विधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभावनोत्थने उत्प्रेक्षायां पर्यवसानं ।

यथा वा विरहवणंनेऽकेयूरायितमङ्गदैःऽ इत्यादौ ।

एषापि समस्तोपमाप्रतीपादकविषयेऽपि हर्षचरितवार्तिते साहित्यमीमांसायां च तेषु तेषु प्रदेशेषुदाहृता

,

इह तु ग्रन्थविस्तरभयान्न प्रपञ्चिता ।

>#


विमर्शिनी

२२ ।५ः

आमुख इति न पुनः पर्यवसाने ।

उपमाप्रतीतिरिति ।

तदर्थमेव क्विपः प्रवृत्तेः ।

अत एवात्र वाचकाभावान्नोत्प्रेक्षात्वमिति न वाच्यं ।

नहि वाचकसंभवासंभवासंभवमात्रमेवालङ्काराणां भावाभावप्रयोजकं ।

एवं हि व्याजस्तुतौ निन्दादेर्वाच्यत्वेऽप्यवाच्यस्य स्तुत्यादेः प्रतीतिरलङ्कारत्वपर्यवसायिनी न स्यात् ।

तस्माद्वाक्यार्थ एव प्ररुढोऽलङ्काराणां स्वरूपप्रतिष्टापकं प्रमाणं ।

वाक्यार्थस्य च पदार्थान्वयवेलातोऽन्यैव प्रतिपत्तिः ।

संभवौचित्यादिति ।

कस्तूरीतिलकादेर्विषयिणो भालफलकादौ संभवे यथौचित्यं न तथाकण्ठत्विडादेर्विषयस्येत्यर्थः ।

अत एवात्रोपमायाः प्रकृतस्याप्रकृतकस्तूरीलिलकादिरूपतया परिणामात्परिणामगर्भत्वं यदन्यैरुक्तं तत्तेषां परिणामस्वरूपानभिज्ञात्वं ।

न औचित्यमेव तस्य स्वरूपं किं तु यथोक्तं प्रकृतोपयोगित्वं ।

औचित्यं च नोत्प्रेक्षायां विरुद्धं ।

तस्य सर्वत्रैव भावात् ।

उत्प्रेक्षायां पर्यवसानमिति ।

कण्ठत्विषामेव कस्तूरीतिलकत्वादिप्रतीतेर्विषयिणो विषयनिगरणेनाभेदप्रतिपत्तेः सादृश्यावगमाभावात् ।

सादृश्यं झुभयनिष्टं ।

न चात्र प्रकृताप्रकृतयोः संल्पधितया प्रतीतिः ।

यथा वेत्यनेनास्या लक्ष्ये प्राचुर्यं दर्शितं ।

समस्तोपमाप्रतिपादकविषये दृश्यमाना ।

सा तु यथा-

ऽस दण्डपादो भवदण्डपादमुत्खण्डयन्रक्षतु चण्डीकायाः ।

यस्येन्दुलेखा पुरतः स्फुरन्ती त्रुट्यत्तुलकोटितुलामुपैतिऽ । ।

अत्र सत्यपि तुलाशब्दे चन्द्रलेखाया एव तुलाकोटित्वप्रतीतेरुत्प्रेक्षात्वं ।

__________

अ.स. २२ ।६ः

#<

सापह्नवोत्प्रेक्षा यथा-

ऽगतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु ।

यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्राऽ । ।

अत्रेवशब्दमाहात्म्यात्संभावनं छलशब्दप्रयोगाच्चापह्नवो गम्यते ।

एवं छद्मादिशब्दप्रयोगेऽपि ज्ञेयं ।

ऽअपर इव पाकशासनःऽ इत्यादावपरशब्दाप्रयोगे उपमैवेयं ।

तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावध्यवसायसंभावादिवशब्देन च तस्य साध्यत्वप्रतीतेरुत्प्रेक्षैवेयं ।

इवशबादाप्रयोगे सिद्धत्वादध्यवसायस्यातिशयोक्तिः ।

इवापरशब्दयोरप्रयोगे तु रूपकं ।

तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्षते स धर्मोऽध्यवसायवशादभिन्न उत्प्रेक्षायां निमित्तत्वेनाश्रीयते ।

स च वाच्य एव नियमेन भवति ।

अन्यथा कं प्रति हेतुः स्यात् ।

यथा-ऽअपश्यन्ताविवान्योन्यम्ऽ इत्यादौ ।

अत्र कपोलयोः प्रकृतयोः संबन्धित्वेनोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितं ।

हेतुफलं च क्षामतागमनं तत्र निमित्तं ।

एवम्ऽअदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्ऽइत्यत्र नूपुरगतस्य मौनित्वस्य हेतुर्दुःखित्वं ।

तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयं ।

एवं सर्वत्र ।

>#


विमर्शिनी

२२ ।६ः

छद्मशब्दप्रयोगेण यथा -

ऽस्वेदोदबिन्दुसंदोहच्छ्रदमना तव राजते ।

स्मरेणावैम्यनर्घापि दत्तार्घेव कुचस्थलीऽ । ।

अस्याश्च तत्तच्छ्रब्दप्रयोगाप्रयोगाभ्यां प्रतीतिभेदादलङ्कारैः सह विभागं दर्शियितुमाह-अपर इत्यादि ।

तत्प्रयोग इत्यपरशब्दप्रयोगे ।

इवशब्दस्य संभावनाद्योतकस्याप्रयोगात्सिद्धत्वं ।

अत एव चात्र विषयस्यानुपादानमेव ।

तदुपादाने हि दृढारोपं रूपकमिति समनन्तरमेवोक्तं ।

अन्यत्र पुनः सर्वत्र विषयोपादानमेव न्याय्यं ।

तदित्थं भेदवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतुस्वरूपफलानां यथासंभवंस्वरूपं दर्शयति-तदेवमित्यादिना ।

स धर्म इति यं प्रत्येव हेतुरुत्प्रेक्ष्यते ।

अध्यवसायवशादिति भेदेऽप्यभेदाश्रयणात् ।

अभिन्न इत्यप्रकृतसंबन्धिना धर्मेण ।

स इति निमित्तत्वेनाश्रितो धर्मः ।

नियमेनेति ।

अवाच्यः पुनर्न कदाचिद्भवतीत्यर्थः ।

अन्यथेति अवाच्यत्वे ।

कं प्रतिहेतुरिति ।

तस्यैव फलरूपत्वात् ।

नहि य प्रत्येव हेतुरुत्प्रेक्ष्यते तस्यैवावाच्यत्वं युक्तं ।

साध्यमन्तरेण साधनस्य निर्विषयत्वापत्तेः ।

यदि चास्य निमित्तमात्रत्वमेव स्यातद्वाच्यत्वमवाच्यत्व स्यात् ।

एवमेक एव धर्मो हेतोरुत्प्रेक्ष्यमाणस्य निमित्तं फलञ्चेति सिद्धं ।

एतदेव दर्शयति-अपश्यन्तावित्यादिना ।

तत्रेतिहेतूत्प्रेक्षणे ।

निमित्तमिति तद्विनोत्प्रेक्षणस्यानिष्पत्तेः ।

द्विविधमत्र क्षामतागमन तपोजनितमदर्शनजनितं च ।

तयोरध्यवसायवशादभिन्नत्वेनाश्रयणं ।

अतश्च हेतोरेक एव धर्मो निमित्तं फलं च ।

वस्तुतस्तु तपोजनितस्य निमित्तत्वमन्यस्य तु हेतुफलरूपत्वं ।

अत एव नेतरेतराश्रयदोषः ।

द्वयोरपि भिन्नत्वात् ।

मौनित्वमेवेति ।

न पुनरन्यत्किञ्चिदित्यर्थः ।

अतश्च निश्चलत्वादिजनितस्य दुःखजनितस्य च मौनित्वस्याभेदेनाश्रयणं ।

सर्वत्रेत्यनेन समस्तलक्ष्याविरुद्धत्व हेतूत्प्रेक्षास्वरूपकथनस्योक्तं ।

एवं हेतूत्प्रेक्षाया यथासंभवं स्वरूपं प्रदर्श्य स्वरूपोत्प्रेक्षाया अपि दर्शियति-स्वरूपोत्प्रेक्षायाभिमित्यादिना ।

__________

अ.स. २२ ।७ः

#<

स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्पेक्ष्यते तत्रापि निमित्तभूतो धर्मः क्कचिन्निर्दिश्यते ।

यथा-ऽस वः पायादुन्दुःऽ इत्यादौ ।

अत्र कुटुलत्वादि निर्दिष्टमेव ।

ऽवेलेव रागसागरस्यऽ इत्यादौ संक्षोभकारित्वादि गम्यमानं ।

यत्र च धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तस्योपादानानुपादानाभ्यं ।

उपादाने यथा-

ऽप्राप्याभिषेकमेतस्मिन्प्रतिष्ठासति द्विषां ।

चकम्पे लोप्यमानज्ञा भयविह्ववलितेव भूःऽ । ।

अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित्तमुपात्तम ।

अनुपादाने यथा-ऽलिप्मतीव तमोऽङ्गानिऽ इत्यादौ ।

अत्र तमोततत्वेन लेपनक्रियाकर्तृत्वोपेक्षायां व्यापनादि निमित्तं गम्यमानं ।

व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात् ।

न च विषयस्य गम्यमानत्वं युक्तं ।

तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात् ।

तस्माद्यथोक्तमेव साधु ।

>#


विमर्शिनी

२२ ।७ः

यद्यप्युद्देशत एवैतत्स्वरूपोत्प्रेक्षायां निमित्तोपादानत्वानुपादानत्वमवगम्यते तथापि हेतूत्प्रेक्षायां यथा निमित्तोपादानमेव संभवति तथात्रापि न संभाष्यमित्याशयेन पुनरिहैतदुक्तं ।

यदा चात्र धर्मो धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते तदा तत्र निमित्तस्य कीदृग्रपत्वं भवतीत्याशङ्क्याह-यत्रेत्यादि ।

धर्म एवेति ।

न पुनर्धर्मी धर्मिगतत्वेनेति ।

धर्मिभित्तितयेत्यर्थः ।

अत्र हि धर्मिणोऽन्यधर्मधर्मित्वं निगीर्यान्तधर्मधर्मित्वमवस्थाप्यते ।

अत एवात्र धर्मीभित्तिभूततया विषयः ।

धर्मिणं विना केवलस्यैव धर्मस्यव्यवस्थापयितुमशक्यत्वाद्वथवस्याप्यमानत्वे वा धर्मित्वमेव स्यात् ।

वस्तुतस्तु धर्मं एवोत्प्रेक्षाविषयः ।

यन्निगरणेनाभेदप्रतिपत्तिर्विषयिणोऽवसीयते ।

स च निगीर्यमाणोधर्मः क्वचिदुपात्तो भवति क्वचिच्चानुपात्तः ।

ऽप्राप्याभिषेकम्ऽ इत्यादावन्ये हेतूत्प्रेक्षात्वं-मन्यन्ते इत्युदाहरणान्तरेणोदाह्रियते -

ऽनवरोसदलिअ-घणनिरवलंब-संघडिअ-तडिकडप्यव्व ।

नरहरिणो जाइ कडारकेसरे कन्धराबन्धोऽ । ।

(

ऽनररोषदलित-घननिरवलब्म-संघटित-तडित्कटप्रः ।

नरहरेर्जयति कडारकेसरः कन्धराबन्धःऽ) । ।

अत्र कन्धराबन्धधर्मिणि सकेसरत्वं निगीर्य सतडित्कटप्रत्वमुत्प्रेक्षितं ।

कडारत्वं च निमित्तमुपात्तं ।

निगीर्यमाणश्च धर्मो धर्मिगतत्वेनोपात्तः ।

लेपनक्रियाकर्तृत्वोत्प्रेक्षायामिति

,

अर्थादाशङ्कितायां ।

एवं हि तमोलेपनमिवेति प्रतीतिः स्यात् ।

न चात्र तथेत्याशङ्क्याह-व्यापनादावित्यादि ।

निमित्तमन्यदिति तिरोधायकत्वादि ।

तेन तमसि धर्मिणिव्यापनाद्विधर्मं निगीर्य लेपनक्रियाकर्तृत्वरूपो धर्मं उत्प्रेक्षित इत्यर्थः ।

यदाह श्रीमम्मटः-

ऽव्यापनादि लेपनादिरूपतया संभावितम्ऽ इति ।

यत्र च धर्मान्तरनिगरणेन धर्म एव धर्मिभित्तितयोत्प्रेक्ष्यते तत्र भित्तिभूतत्वाद्विषयरूपस्य धर्मिणः समनन्तरोक्तनीत्त्या गम्यमानत्त्वं न युज्यं इत्याह-न चेत्यादि ।

विषयस्येति ।

निगीर्यमाणोत्प्रेक्ष्यमाणयोर्धर्मयोभित्तिभूतस्य धर्मिण इत्यर्थः ।

न तु निगीर्यमाणस्येति व्याख्येयं ।

तस्य ह्युपादानानुपादानाभ्यां द्वैविध्यं भवतीति समनन्तरमेवोक्तं ।

तच्चोदाहृतं ।

यथा वा -

ऽयत्पुण्डरीक इव पावण एव वेन्दाविन्दीवरद्वयमिवोदितमेकनालं ।

तत्पह्मरागनिधिमूलमिवाधिगम्य सम्यग्जितं नयनयोर्मम भाग्यशक्त्याऽ । ।

अत्र मुखादीनामुत्प्रेक्षाविषयाणामनुपादानाद्गम्यमानत्वं ।

तस्येति धर्मिरूपस्य विषयस्य ।

उत्प्रेक्षिताधारत्वेनेति ।

उत्प्रेक्षिताधारत्वेनेति ।

उत्प्रेक्षितस्य लेपनार्धर्मस्य व्यापनादिधर्मनिगरणेनोत्प्रेक्षाविषयीकृतस्याधारत्वेन भित्तिभूतयेत्यर्थः ।

धर्मिणमन्तरेण धर्मस्याविश्रान्तेः ।

प्रस्तुतस्येति ।

अवश्याभिधेयस्येत्यर्थः ।

एवं हेतुफलोत्प्रेक्षयोरपि धर्मिगतत्वेनैवान्यधर्महेतुकत्वं निगीर्यान्यधर्महेतुत्वमन्यधर्मफलत्वं चाध्यवसीयते ।

अतश्च स धर्मी वाच्य एव भवति ।

यथोक्तोपपत्तेः ।

निगीर्यमाणः पुनर्धर्म एवोपादानानुपादानाभ्यां द्विधा ।

तत्तु यथा- एषा स्थलीत्यादि ।

अत्र नूपुरस्य धर्मिणो बद्धमौनत्वे निश्चलत्वादि धर्महेतुकत्वं निगीर्यमाणश्चानुपात्तो धर्मः ।

उपात्तस्तु यथा -

ऽमृणालसूत्रं निजवल्लभायाः समुत्सुकश्चाटुषु चक्रवाकः ।

अन्योन्यविश्लेषणयन्त्रसूत्रभ्रान्त्येव चञाचुस्थितमाचकर्षऽ । ।

अत्र चक्रवाकस्यावर्षणे चाटुसमुत्सुकहेतुत्वं निगीर्यं भ्रान्तिहेतुत्वमध्यवसितं ।

निगीर्यमाणश्च धर्म उपात्तः ।

अनुपात्तस्तु यथा -

ऽकुमुदिन्यः प्रमोदिन्यस्तदानीमुदमीमिलन् ।

नलिन्या भर्तृविरहान्म्लानिमानमिवेक्षितुम्ऽ । ।

अत्र कुमुदिनीनामुन्मीलने चन्द्रोदयहेतुकत्वं निगीर्य दर्शनं फलत्वेनोत्प्रेक्षितं ।

निगीर्यमाणश्च धर्मोऽनुपात्तः ।

तदेवं हेतुस्वरूपयोर्यथासंभवं स्वरूपं दर्शयित्वा फलोत्प्रेक्षाया अपि दर्शयतिफलोत्प्रेक्षायामित्यादिना ।

__________

अ.स. २२ ।८ः

#<

फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तं ।

तस्यानुपादाने कस्य तत्फलत्वेनोक्तं स्यात् ।

तस्मात्तत्र तस्य निमित्तस्योपादानमेव न प्रकारान्तरं ।

यथा–

ऽरथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्ऽ ।

उत्पत्तिभूमौ तुरगात्तमानां दिशि प्रतस्थे रविरुत्तरस्याम्ऽ । ।

अत्राश्वपरिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तं ।

>#


विमर्शिनी

२२ ।८ः

तस्येति फलस्य ।

एवच्च हेतूत्प्रेक्षघाविचारग्रन्थविवृतेरवगतार्थमिति ग्रन्थविस्तरभयान्न पुनरायस्यते ।

तदेवं ग्रन्थकृदात्मनः श्लाघां कटाक्षयन्नेतदुपसंहरति ।

__________

अ.स. २२ ।९ः

#<

तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितोऽपि लक्ष्ये दुरवधारत्वादिह न प्रपञ्चितः ।

तस्याश्चेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः ।

किं तूत्प्रेक्षासामग्रथभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति ।

यथोदाहृतं प्राक्ऽअहं त्विन्दुं मन्ये त्वदरिविरहऽ इत्यादि ।

>#


विमर्शिनी

२२ ।९ः

तदसावित्यादि ।

अस्याश्च वाचकव्यवस्थां दर्शयति-तस्याश्चेत्यादि ।

उत्प्रेक्षायामग्रथभाव इति संभावनाप्रत्ययात्मकत्वाभावात् ।

प्रागिति

,

अपह्णुतौ ।

एवनिवशब्दोऽपि क्वचिद्वितर्कमेव प्रतिपादयति ।

यथा -

ऽवृत्तानुपूर्वे च न चातिदीर्घे जड्घे शुमे सृष्टवतस्तदीये ।

शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नःऽ । ।

इयं च भेदेऽभेद इत्याद्यतिशयोक्तिभेदमय्यपि दृश्यते ।

तत्र भेदेऽभेदो यथा- पृथ्वीराजविजये –

ऽगृह्णद्भिः परया भक्त्या बाणलिङ्गपरम्पराः ।

अनर्मदेव यत्सैन्यैर्निरमीयत नर्मदाऽ । ।

अत्र नर्मदाया अभेदेऽपि भेदः ।

संबन्धेऽसंबन्धो यथा –

ऽअद्वैतं तद्भवतु भवतां संविदद्वैतपुष्ट्यै माभृत्पुत्रीपरिवृढरमाकान्तदेहद्वयस्य ।

यत्राकार्ष्ण्यं निज इव विदन्दक्षिणार्धप्रभाभिर्देहेऽन्येषामपि पुररिपुः कार्ष्ण्यमन्तः प्रमार्ष्टिऽ । ।

अत्र कार्ष्ण्यसंबन्धेऽप्यसंबन्धः ।

असंबन्धे संबन्धो यथा -

ऽक्षीरक्षालितचन्द्रेव नीलिधौताम्बरेव च ।

टङ्कोल्लिखितसूर्येव वसन्तक्षीरजृम्भतऽ । ।

अत्र क्षीरघक्षालितत्वाद्यसंबन्धेऽपि संबन्धः ।

कार्यकारणयोस्तुल्यकालत्वे यथा-

ऽयशसेव सहोद्भूतः श्रियेन सह वर्धितः ।

तेजसेव सहोद्भूतस्त्यागेनेव सहोत्थितःऽ । ।

पौर्वापर्यविपर्यये यथा -

ऽशराः पुरस्तादिव निष्पतन्ति कोदण्डमारोपयतीव पश्चात् ।

अन्वक्प्रहारा इव संघटन्ते प्राणान्द्विषः पूर्वमिव त्यजन्तिऽ । ।

कार्यकारणयोर्विपर्ययेऽपीयं दृश्यते यथा -

ऽसेयं संततवर्वमानभगवद्वाणार्यनैकाग्रताव्यग्रोपान्तलताविमुक्तकुसुमा चन्द्रप्रसूतिर्नदी ।

यस्याः पाण्डुरपुण्डरोकपटलव्याजेन तीरद्वये शश्चत्पार्वणचन्द्रमण्डलशतानीव प्रसूते जलम्ऽ । ।

अत्र नर्मदातश्चन्द्रस्योत्पत्तितेः कार्यकारणविपर्ययः ।

क्रमिकविपर्ययेणापीयं दृश्यते यथा -

ऽअखर्वगर्वस्मितदन्तुरेण विराजमानोऽधरपल्लवेन ।

समुत्थितः क्षीरविपाण्डुराणि पीत्वेव सद्यो द्विषतां यशांसिऽ । ।

अत्र समुत्थानानन्तरभाविनो यशः पानस्य पूर्वनिर्द्देशात्क्रमिकविपर्ययः ।

अत्रैवऽपिबन्निवोच्चैःऽ इति पाठे तु क्रमिकयोः समकालभावित्वं ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र २३ः

#<

एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्तिं लक्षयति-

अध्यवसितप्राधान्ये त्वतिशयोक्तिः । । अ.स. २३ । ।

अध्यवसाने त्रयं संभवति- स्वरूपं विषयो विषयी च ।

विषयस्य हि विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य स्वरूपोत्थानं ।

तत्र साध्यत्वे स्वरूपप्राधान्यं ।

सिद्धत्वे त्वध्यवमितप्राधान्यं ।

विषयप्राधान्यमध्यवसाये नैव संभवति ।

अध्यवसितप्राधान्ये चातिशयोक्तिः ।

अन्याश्च पञ्चप्रकाराः ।

भेदेऽभेदः ।

अभेदे भेदः ।

संबन्धेऽसंबन्धः ।

असंबन्धे संबन्धः ।

कार्यकारणपौर्वापर्यविध्वंसश्च ।

>#


विमर्शिनी

२३ः

एतदुपसंहरन्नन्यदवतारयति - एवमित्यादि ।

तामेव लक्षयुतुमाह-अध्यवसितेत्यादि ।

एतदेव व्याख्यातुमध्यवसायस्य तावद्यथासंभवं स्वरूपं दर्शयति-अध्यवसान इति ।

परस्परनिष्ठत्वानुपपत्तेरध्यवसायस्य किं विषयविषयिभ्यामित्याशङ्क्याह-विषयस्य हीत्यादि ।

विषयविषयिभ्यामन्तरेणाध्यवसाय एव न भवतीत्यर्थः ।

एषामेव विषयविभागं दर्शयति-तत्रेत्यादिना ।

तत्रेति त्रयनिर्धारणे ।

स्वरूपप्राधान्यमिति अध्यवसायप्राधान्यं ।

अध्यवसितप्राधान्यमिति विषयिप्राधान्यं ।

साध्यत्वं चोप्रेक्षायामेव निर्णीतं ।

नैव संभवतीति-अध्यवसायस्वरूपानुदयात् ।

तदेवं विषयिणः प्राधान्यविवक्षायामलङ्कारे भवतीत्याह-अध्यवसितेत्यादि ।

उक्तं चान्यत्र-

ऽअध्यवसायसाध्यत्वप्रतीतावियमिष्यते ।

तत्सिद्धताप्रतीतौ तु भवेदतिशयोक्तिधीःऽ । ।

इति । ।

पञ्चेति न्यूनाधिकसंख्यानिरासार्थं ।

अत एव कार्यकारणपौर्वापर्यविध्वंसत्य चतुर्थभेदान्तर्भावो न वाच्यः ।

एवं हि भेदान्तराणामपि तदन्तर्भाव एव स्यात् ।

अभेदाद्यसंबन्धेऽपि संबन्धोपनिबन्धनात् ।

अथ भवत्वेतदिति चेत् ।

न ।

ऽअत्र च यद्यपि सर्वत्रभेदेऽभेदादौ वस्तुतो ।

आसबन्धे संबन्ध एव वर्णयितुं शक्यते तथाप्यवान्तरभेदविवक्षयान्यैर्लक्षितत्वाद्विविक्तस्यासंबन्धे संबन्धस्य दर्शितत्वाच्च विभागेननिर्देशः कृतःऽ इति भवद्भिरेवोक्तत्वात् ।

तत्समानन्यायत्वात्कथमस्यापि चतुर्थभेदान्तर्भावो न्याय्यः ।

अथऽयदि कार्यकारणयोः पौर्वापर्यविध्वंसात्समानकालताद्यभावेऽपि तथोपनिबन्धे पञ्चमोऽत्र प्रकार इष्यते तद्देशकालयोः पदार्थसंबन्धे विशेषाभावाद्भिन्नदेशत्वाभावेऽपि तथोपनिबन्धे षष्टोऽपि भेदः परिगणनीय इति निर्विषयत्वादसंगतेरभावः प्रसज्यतऽ इति चेत् ।

नौतत् ।

यस्मादतिशयोक्तावतिशयाख्यप्रयोजनप्रतिपिपादयिषया विषयनिगरणेन विषयिप्राधान्यं विवक्षितम्

,

असगतौ तु विरुद्धत्वप्रत्यायनाय कार्यकारणयोभिन्नदेशत्वमित्युभव्राप्यस्ति तावन्निर्विवादो लक्षणभेदः ।

कार्यकारणपौर्वापर्यविध्वंसे च वल्लभकर्तृकस्य हृदयाधिष्टानस्य कारणस्य स्मरकर्तृकस्य च कार्यस्य पूर्वापरीभावं निगीर्यऽत्वद्दर्शनेनैव विषयान्तरवैमुख्येन त्वनभिलाषपरैव जातेत्यतिशयप्रयोजनप्रतिपादनार्थमन्यथात्वमध्यवसितमित्यति शयोक्तिभेदत्वमेवास्य न्याय्यं न त्वसंगतिभेदत्वं ।

ऽ तत्र हि -

ऽबबन्ध धम्मिल्लमधीरदृश्टेः चमानायकश्चम्पकमालिकाभिः ।

चित्तेषु मन्युः स्थिरतां जगाम विपक्षसारङ्गविलोचनानाम्ऽ । ।

इत्यादौ धम्मिल्ले बन्धश्चित्तेषु च मन्युस्थैर्यमिति कार्यकारणयोर्भिन्नदेशत्वं ।

यत्रैव बन्धस्तत्रैव तत्कार्यस्य स्थैर्यस्योपपत्तेर्विरुद्धत्वप्रत्यायकं ।

विरोधस्य चात्राभासमानत्वं ।

धम्मिल्लबन्धमन्युस्थैर्ययोर्वस्तुतोऽपि कायकारणभावसद्भावाख्यस्य बाधकप्रत्ययस्योल्लासात् ।

न च बाधोदयेऽपि विरोधाप्रतीतिः ।

द्विचन्द्रप्रतीतिवदनुपपद्यमानतया स्खलद्गतित्वेन तत्प्रतीतेरवस्थानात् ।

न चातिशयोक्तौ स्खलद्गतित्वं ।

निश्चयस्वभावत्वादस्या अनुपपद्यमानत्वशङ्काया अप्यभावात् ।

नहि कार्यकारणयोः पौर्वापर्यविध्वंस उपपद्यत इत्यत्र विवक्षितं किन्त्वेवं फलमेतदिति ।

अत एवासंगतेरतिशयाक्तेश्च स्वरूपभेदोऽपीति कार्यकारणयोः पौर्वापर्यविध्वंसेनासंगतिर्भिन्नदेशत्वं चातिशयोक्तिरिति यथोक्तमेव युक्तं ।

अत एव चऽपौर्वापर्यविपर्याससमकालसमुद्भवौ ।

कार्यकारणयोर्यौ तौ विरोधाभासपल्लवौऽ । ।

इत्याद्यपि यदन्यैरुक्तं तदयुक्तमेवेति न न्यूनप्रकारत्वं ।

केचिच्च सर्वालङ्कारणामप्यतिशयोक्तेरेव प्रभेदत्वादस्या बहुप्रकारतामाचक्षते ।

तथा ह्युपमायामप्यस्त्येतद्भेदत्वं ।

न्यूनगुणस्य मुखादेरधिकगुणेन चन्द्रादिना साभ्येऽतिशयानतिपातात्

,

अतिशयं विना च गौरिव गवय इत्यादावनलङ्कारत्वात् ।

अतश्चातिशयस्यैव सर्वालङ्कारबीजभूतत्वात्ऽएकैवातिशयोक्तिश्च काव्यस्यालङ्कृतिर्मताऽ इत्युक्तं ।

नैतत् ।

इह ह्यतिशयस्य द्वयी गतिः यदयं कविप्रतिभानिवर्तितः सामान्यात्मा भवति

,

भेदेऽप्यभेद इत्येवमादिरूपो विशेषात्मा वा ।

तत्राद्यः सर्वैरेवालङ्कारबीजतयाभ्युपगतः ।

अन्यथा हि गौरिव गवय इत्यादावलङ्कारत्वं स्यात् ।

तावता पुनरेतत्प्रभेदत्वं सर्वालङ्काराणां न युक्तं ।

तत्त्वे हि विशेषोक्युल्लेखादीनामपि तत्प्रसङ्गः ।

सर्वालङ्काराणमपि विशेषोक्त्युल्लेखरूपत्वात् ।

अथ द्वितीयपक्षाश्रयेणैतदुच्यते तदप्युक्तं ।

अस्या ह्यध्यवसितप्राधान्यं लक्षणं ।

तच्चालङ्काराणां न संभवति ।

तथात्वानवगमात् ।

अतश्चैषामसंभवत्तत्सामान्यत्वात्कथं तद्विशेषत्वमिति बहुप्रकारत्वमस्या निरस्तं ।

__________

अ.स. २३ ।१ः

#<

तत्र भेदेऽभेदो यथा–

ऽकमलमनभ्भसि कमले च कुवलये तानि कनकलतिकायां ।

सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्ऽ । ।

अत्र मुखादीनां कमलाद्यैर्भेदेऽभेदः । ।

>#


विमर्शिनी

२३ ।१ः

मुखादीनामिति ।

न तु वास्तवस्य सौन्दर्यस्य कमलाद्यैरिति ।

न तु कविसमर्पितेनसौन्दर्येण ।

अत एव च

,

ऽअत्रातिशयाख्यमित्यादिःऽ तदभिप्रायेणैवाध्यवसितप्राधान्यम्- इत्यन्तश्चोत्तरकालिको ग्रन्थः स्वमतिजाह्याल्लेखकैरन्यथा लिखित इति निश्चिनुमः ।

अयं हि ग्रन्थकृतः पश्चात्कैश्चिद्विपश्चिद्भिः पत्रिकाभिर्लिखित इत्यवगीता प्रसिद्धिः ।

ततश्च तैरनवधानेन ग्रन्थान्तरप्रसङ्गत्वादनुपयुक्तत्वाद्वा पत्रिकान्तरादयमसमञ्जसप्रायो ग्रन्थखण्डो लिखित इति ।

न पुनरेकत्रैव तदैव मुखादीनां कमलाद्यैर्भेदेऽप्यभेद इत्युक्त्वापिऽन तु वदनादीनाङ्कमलादिभिरभेदाध्यवसायो योजनीयऽ इत्यादि वचनं पूर्वापरपराहतमस्य वैदुष्यशालिनोग्रन्थकारस्य संभाव्यं ।

__________

अ.स. २३ ।२ः

#<

अभेदे भेदो यथा-

ऽअण्णं लडहत्तणां अण्णाविअ कावि वत्तणच्छाआ ।

सामा सामण्णापऽवैणो रेहञ्चिअ ण ह्वोइऽ । ।

(

ऽअन्यत्सौन्दर्येमन्यापि च कापि वर्त्तनच्छाया ।

श्यामा सामान्यप्रजापते रेखैव न संभवतिऽ । ।) । ।

अत्र लडहत्वादीनामभेदेऽप्यन्यत्वेन भेदः ।

यथा वा–ऽमग्गिअलद्धंमि वलामोडिअचुंबिएं अप्यणा अ उवणमिए ।

एक्कंमि पिआहरए अण्णोण्णा हाएन्ति रसभेआऽ । ।

(

ऽमार्गिकतलब्धे बलात्कारचुम्बुते आत्मना चोपनीते ।

एकस्मिन्नपि प्रियाधरेऽन्येऽन्ये भवन्ति रसभेदाःऽ । ।) । ।

अत्राभिन्नस्यापि प्रियाधररसस्य विषयविभागेन भेदेनोपनिबगन्धः ।

संबन्धेऽसंबन्धो यथा-

ऽलावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः ।

एषापि स्वगुणानुरूपरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वताऽ । ।

अत्र लावण्यद्रविणस्य व्ययसंबन्धेऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्रतिपादनार्थे निबद्धः ।

यथा वा–ऽअस्याः सर्गविधौ प्रजापतिपभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्काकरः ।

वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिःऽ । ।

अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्वसंबन्ध उक्तः ।

असंबन्धे संबन्धो यथा-

ऽपुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थं ।

ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्यऽ । ।

अत्र संभावनया संबन्धः यथा वा-ऽदाहोऽम्भःप्रसृतिंपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेङ्खिकतदीप्रदीपकलिकाः पाण्टिम्नि मग्नं वपुः ।

किं ताम्यत्कथग्रामि रात्रिमखिलां त्वन्मार्गवाताग्रने हस्तच्छत्त्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्ततेऽ । ।

अत्र दाहादीपामभ्भः प्रसृत्याद्यैरसंबन्धेऽपि संबन्धः सिद्धत्वेनोक्तः ।

>#


विमर्शिनी

२३ ।२ः

लडहत्वादीनामिति

,

आदिशब्दाद्वर्तनच्छायाया एव ग्रहणं ।

तत्रैवाभेदेऽपि भेदविवक्षणात् ।

उत्तरार्धे हि संबन्धेऽप्यसंबन्धः ।

ऽलावण्यद्रविणव्ययो न गणितःऽ इत्यस्य पादत्रयी तन्वीलावण्यप्रकर्षप्रतिपादनार्थमित्येतत्प्रयोजनदर्शनं सर्वोदाहरणोपलतणपरं ।

संभावनयेति ।

नतु वस्तुतः ।

अत एव संबन्धस्यावास्तवत्वादुदाहरणान्तरमाह-दाहोऽम्भ इत्यादि ।

वाशब्दः समुच्चयार्थः ।

__________

अ.स. २३ ।३ः

#<

कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा ।

विपर्ययो यथा-

ऽहृदयमधिष्टितमादौ मालत्याः कुसुमचापबाणेन ।

चरमं रमणीवल्लभ! लोचनविषयं त्वया भजताऽ । ।

तुल्यकालत्वं यथा–

ऽअविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः ।

अयमायातः कालो हन्त हृताः पथिकगेहिन्यःऽ । ।

>#


विमर्शिनी

२३ ।३ः

अत्र च कार्यकारणपौर्वापर्यविध्वंस इत्यनेन प्रसिद्धयोः कार्यकारणयोर्विध्वंसो विपर्ययस्तथा पौर्वापर्यस्यादिपश्चात्कालभावित्वेन प्रसिद्धस्य क्रमत्य विध्वंसो व्यत्ययः सहभावो वेत्यपि भेदत्रयं तन्त्रेणोक्तं ।

एवं च कार्यकारणविध्वंसस्यापि पञ्च प्रकाराः ।

अवान्तरप्रकारत्वात्पुनरेषां पञ्चप्रकारत्वं नियमगर्भीकारेण पूर्वं व्याख्यातं ।

तत्र कार्यकारणयोर्विपर्ययो यथा -

ऽएअत्तं अवात्तं सकोआरं मिअङ्ककान्तीइं ।

सहस्सपं अरैन्दस्स कारणं भणै सरस्सऽ । ।

(

ऽएतावदवदातं संकोचकरं मृगाङ्ककान्तीनां ।

सहस्त्रपत्रकमरविन्दस्य कारणं भवति सरसःऽ) । ।

अत्रेन्दुकान्तेः संकोचे विपर्ययेण शतपत्रस्य कारणत्वमध्यवसितं ।

अत्र भेदेऽभेद इत्येवंरूपातिशयोक्तिर्हेतुत्वेन स्थिता ।

उत्तरे त्वर्धे सैव श्लिष्टशब्दनिबन्धना हेतुः ।

तथाभावोपनिबन्धश्चात्र वक्त्रस्य लावण्यप्रकर्षप्रतिपादनार्थं ।

क्रमविपर्ययो यथा-

ऽकुपितस्यप्रथममन्धकारी भवति विद्या ततो भ्रुकुटिः

,

आदाविन्द्रियाणि रागः समास्कन्दति

,

चरमं चक्षुः

,

आकम्भे तपो गलति पश्चात्स्वेदसलिलम्

,

पूर्वमयशः स्फुरत्यनन्तरमधरऽ इति ।

अत्र कोपकार्ये विद्याभ्रुकुट्यादीनामन्धकारीभवनादौ क्रमं निगीर्य तद्विपर्ययोऽध्यवसितः ।

तस्यैव सहभावे यथा -

ऽरैभवणाहि परिअणो मसणं मणिमेहला णिअंबाहिं ।

लज्जा हिऽहि समोसरन्ति समं ससिमुहीणम्ऽ । ।

(

ऽरतिभवनेभ्यः परिजनो मसृणं मणिमेखला नितम्बेभ्यः ।

लज्जा हृदयेभ्यः सममपसरन्ति समं शिशिमुखीनाम्ऽ) । ।

अत्र परिजनादीनामपसरणे क्रमिकत्वेऽपि समकालत्वमध्यवसितं ।

एवमेषां सर्वेषामेव भेदानां लोकासभवद्विषयत्वं दर्शयितुमाह ।

__________

अ.स. २३ ।४ः

#<

एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरं ।

अतश्चात्रातिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः ।

तथा हिऽकमलमनम्भसिऽ इत्यादौ वदनादीनां कमलाद्यैर्भेदेऽपि वास्तवं सौन्दर्यं कविसमर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तं ।

तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यं ।

न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः

,

अभेदे भेद इत्यादिषु प्रकारेष्वष्याप्तेः ।

तत्र हिऽअण्णं लडहृत्तणांऽ इत्यादौ सातिशयं लडहत्वं निमित्तभूतभेदेनाध्यवसितं ।

एवमन्यत्रापि ज्ञेयं ।

तदभिप्रायेणैवाध्यवसितप्राधान्यं ।

प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालङ्कारप्रस्तावे प्रपञ्चार्थं लक्षियिष्यते ।

>#


विमर्शिनी

२३ ।४ः

एष्वित्यादि ।

एष्विति विषयसत्पमी ।

एष चावयवनिर्देशः ।

लोकातिक्रान्तेति ।

कविप्रतिभानिर्मितमेव सातिशयं वस्त्वेषां विषय इत्यर्थः ।

अत्रेति भेदपञ्चके ।

चशब्दः प्रमेयान्तरसमुच्चयार्थः ।

फलमिति ।

तस्यैव प्रतिपिपादयिषितत्वात् ।

तत्रेति ।

वान्तवस्य स्गैन्दर्यस्य कविसमर्पितेन सौन्दर्येणाभेदवचने ।

ननु चात्र वदनादीनां कमलाद्यध्यवसायः प्रतीयत इति कथमेतदुक्तमित्याशङ्क्याह-न त्वित्यादि ।

कुतश्च तेष्वव्यात्पिरित्याशङ्कयाह-तत्र हीत्यादि ।

कमलमनम्भसीत्यत्र हि यदि वदनादीनां धर्मिणामभेदाध्यवसाययोजनं क्रियते तत्तस्य धमिगतत्वेनैवेष्टेरिह धर्माणां न स्यादव्यात्पिः ।

अतश्च पूर्वत्र धर्माणाभेवाध्यवसायो योजनीयो येन सर्वत्रैक एव पक्षः स्यादिति तात्पर्यार्थः ।

उपलक्ष्यं चैतत् ।

यावता ह्यध्यवसितप्राधान्यमस्या लक्षणं ।

तच्च धर्मिणामस्तु धर्माणां वेति को विशेषो येनाव्यात्पिः स्यात् ।

प्रत्युतधर्मयोरभेदाध्यवसायाभ्युपगमे उपमादीनामप्यतिशयोक्तिप्रसङ्गः स्यात् ।

तत्रापि धर्माणामेव भेदेऽभेदविवक्षणात् ।

एवं चविजातीयत्वेन भेदे धर्मयोरप्यभ्यात्पिः प्रसज्यत इत्यलमसङ्गतग्रन्थार्थोदीरणेन ।

प्रपञ्चार्थमिति ।

न तु निर्णयार्थं ।

इहैव तस्य विश्चितत्वात् ।

प्रपञ्चश्च तत्रैव दर्शियिष्यते ।


विमर्शिनी

२३ ।४अः

एतदुपसंहरन्नन्यदवतारयति ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र २४ः

#<

एवमध्यवसायाश्रयमलङ्कारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलङ्कारा इदानीमुच्यन्ते ।

तत्रापि पदार्थवाक्यार्तगतत्वेन तेषां द्वैविध्ये पदार्थगतमलङ्कारद्वयं क्रमेणोच्यते-

औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसंबन्धे तुल्ययोगिता । । अ.स. २४ । ।

इवाद्यप्रयोगे ह्यौपन्यस्य गम्यत्वं ।

तत्र प्राकरणिकानामप्ररणिकानां वार्थानां समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता ।

यथा-

ऽसज्जातपत्रप्रकाराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वं ।

विकस्वराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुःऽ । ।

अत्र ऋतुवर्णनस्य प्रकान्तत्वाद्दिनानां पद्मानां च प्रकृतत्वाद्वृद्धिगमनं क्रिया ।

एवं गुणेऽपि ।

यथा-

ऽयोगपट्टो जटाजालं तारवी त्वङ्मृगाजिनं ।

उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम्ऽ । ।

उचितत्वं गुणः ।

अप्राकरणिकानां यथा-

ऽधावत्त्वदश्वपृतनापतितं मुखेऽस्य निनिन्द्रनीलनलिनच्छदकोमलाङ्ग्या ।

भग्नस्य गूर्जरनृपस्य रजः कयापि तन्व्या तवासिलतया च यशः प्रभृष्टम्ऽ । ।

अत्र गूर्जरं प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया ।

गुणो यथा-

ऽत्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।

मालतीशशभृल्लेखाकदलीनां कठोरताऽ । ।

कठोरत्वं गुणः ।

एवमेषा चतुर्विधा व्याख्याता ।

>#


विमर्शिनी

२४ः

[

सू]ऽसादृश्य यदि गम्य [शब्दतः अकथित] हो ओर [केवल] प्रस्तुर्तो अथवा [केवल] अप्रस्तुतों का पदार्थस्तर पर समानधर्म-सम्बन्ध हो तो तुल्ययोगिता [होती है]ऽ । ।२४ । ।


विमर्शिनी

२४अः

एवमित्यादिना ।

गम्यमानौपभ्याश्रया इति इवाद्यप्रयोगात् ।

पदार्थमिति ।

वाक्यार्थापिक्षया पदार्थप्रतीतेरन्तरङ्गत्वात् ।

तत्र प्रथमं तुल्ययोगितामाह - औपम्येत्यादि ।

एतदेव व्याचष्टे - इवेत्यादिना ।

तत्रेत्यौपम्यस्य गम्यत्वे सति ।

प्राकरणिकानामिति द्वयोः समानधर्मसंबन्धस्य संभवादेव ग्रहणसिद्धेर्बहुवचननिर्देशो बहूनां ग्रहणार्थं ।

अत एव च बहूनामौपम्यग्रहणायेति न वाच्यं ।

वक्ष्यमाणोदाहरणेषु द्वयोरौपम्यस्योद्भासमानत्वात् ।

एवं दीपकेऽपि ज्ञेयं ।

अन्वितार्थेति ।

समानधर्मसंबन्धिनामत्र भावात् ।

अनेनैव चास्याः प्रकृतानामप्रकृतानां च गुणक्रियात्ममकधर्मयोगाद्द्वैविध्येन चतुष्प्रकारत्वमत्युक्तं ।

न चास्यातिशयोक्तिरनुप्राणकतया वाच्या ।

तां विनापि वक्ष्यमाणोदाहरणेष्वस्याः संभवात् ।

औपम्याभावेऽपि गुणसाम्योदाहरणद्वयं प्राच्योदाहृतत्वाद्ग्रन्थकृतोदाहृतं ।

यत्र पुनरौपम्यं प्रतीयते तदुदाह्रियते यथार्-

ऽइर्ष्याविकारावसरे तवोचितमिदं प्रिये ।

स्खलद्गतित्वं वचसां लीलाचङ्क्रमणस्य चऽ । ।

अत्रोचितत्वं गुणः ।

अप्रकृतवोस्तु यथा -

ऽभूभारोद्दहमव्यग्रे सुचिरं त्वयि तिष्टति ।

देवाद्य फणिनामग्रथः कूर्मश्च सुखिनौ परम्ऽ । ।

अत्र सुखित्वं गुणः ।

केचिच्च नायिकामिलितग्रोः प्राकरणिकत्वं मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते यथा -

ऽशंभोर्यन्नखरश्मिभिः प्रणमतश्चूडामणित्वे स्थिता गङ्गा चन्द्रकला च सर्वजगतां वन्द्यत्वमापादिता ।

युक्तायाः परतापदावविपदः कन्यापितॄणामसौ दूरीकार्यहिमालया कथमुमापादद्वयी प्राप्यतेऽ । ।

अत्र भगवतीपादद्वयस्यैव वर्णनीयत्वाद्गङ्गाचन्द्रकलयोरप्रकृतत्वं ।

आपादनं च क्रिया ।

ऽबिम्बप्रतिबिम्बभावेनापीयं भवति ।

यथा -

ऽक्षिपन्त्यचिन्त्यानि पदानि हेलया स्वराजहंसानधिरुह्य च स्थिता ।

कवीन्द्रवक्त्रेषु च यत्र शारदा सहस्त्रपत्रेषु रमा च रज्यतिऽ । ।

अत्र वक्त्रपद्मयोर्बिम्बप्रतिबिम्बभावः ।

अनेनैव चाशयेनात्रालङ्कारवार्तिके ग्रन्थकृता वैशिष्ट्यमस्याः दर्शितं ।

शुद्धसामान्यरूपत्वेन यथा -

ऽआस्तां तालस्य संनिद्धे द्वे धात्र्यी तस्य वृद्धये ।

एका पयःप्रस्त्रविणी सर्वसंपत्प्रसूः पराऽ । ।

अत्र प्रस्त्रवणस्य शुद्धसामान्यरूपत्वं ।

एवं इत्यादिना ।


विमर्शिनी

२४बः

एतदुपसंहरन्नन्यदवतारयति ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र २५ः

#<

प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमुच्यते -

प्रस्तुताप्रस्तुतानां तु दीपकं । । अ.स. २५ । ।

औपम्यस्य गम्यत्व इत्याद्यनुवर्तते ।

प्राकरणिकाप्राकरणिकयोर्मध्यादेकत्र निर्दिष्टः समानो धर्मः प्रसङ्गनान्यत्रोपकाराद्दीपनाद्दीपसादृश्येन दीपकाख्यालङ्कारोत्थापकः ।

तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः ।

स च वास्तव एव ।

पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकणिकत्वै वा वैवक्षिकः

,

प्राकरणिकत्वनिर्वर्तितत्वादुपमानोपमेयभावस्य ।

अनेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वोक्तिः ।

वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिभमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः ।

>#


विमर्शिनी

२५ः

प्रस्तुताप्रस्तुतानामिति ।

एकत्रेति प्राकरणिकेऽप्राकरणिके वा ।

अन्यत्रेति प्राकरणिकादौ दीपकेतिऽसंज्ञायाम्ऽ इत्यनेन कन् ।

सादृश्येन समुदायगम्यायाः संज्ञाया अभावात् ।

तत्रेति दीपके ।

वास्तव इति ।

प्रकृताप्रकृतयोरुपमानोपमेयरूपत्वात् ।

पूर्वत्रेति तुल्ययोगितायां ।

इयानेव च दीपकतुल्ययोगितयोर्विशेषोऽस्तीत्यप्यनेन दर्शितं ।

न चैतावतैवानयोः पृथग्लक्षणं युक्तं ।

औपम्यगर्भत्वाख्यस्य सामान्यस्य द्वयोरप्यनुगमात् ।

एवं च समुचितोपमादेरपि पृथग्लक्षणं स्यात् ।

ग्रन्थकृता पुनश्चिरन्तनानुरोधात्कृतं ।

वैवक्षिक इति ।

यत्रैव वक्तुरुपमानत्वमुपमेयत्वं वा वक्तुमिष्टं तत्रैव प्रकरणादिबलादाश्रयणीयमित्यर्थः ।

अतश्चऽप्रस्तुतस्य तु नान्येन व्यभिचारस्य दर्शनात्ऽ इति नीत्याप्रस्तुताप्रस्तुतत्वमात्रनिबन्धन एवोपमानोपमेयभावो न भवतीति भावः ।

एवंऽप्रसिद्धेनाप्रसिद्धस्य सादृश्यमुपमा मताऽइत्यादिदृशा प्रसिद्धाप्रसिद्धत्वमात्रनिबन्धनोऽप्युपमानोपमेयभावो न वाच्यः ।

ऽखमिव जलं जलमिव खम्ऽ इत्यादौ द्वयोरपि तुल्यत्वात्प्रसिद्धगुणत्वाद्यभावेऽप्युपमानोपमेयभावस्येष्टेर्व्यभिचारस्य दर्शसनात् ।

ननु चात्र साधर्म्य वाक्यार्थगतत्वेनैव प्रतीयत इति कथं तस्य पदार्थगतत्वमुक्तमित्याशङ्क्याह-अनेकस्येत्यादि ।

एवं पूर्वत्रापि ज्ञेयं ।

__________

अ.स. २५ ।१ः

#<

क्रमेणोदाहरणं -ऽरेहै मिहिरेण णहं रसेण कव्वं सरेण जोव्वणां ।

अमएण धुणीधवओ तुमए णरणाह भुवणमिणंऽ । ।

(

ऽरेयते मिहिरेण नभो रसेन काव्यं सरेण [स्मरेण] यौवनं अमृतेन धुनीधवःस्वया नरमाथ! भुवनमिदम्ऽ । ।) । ।

ऽसंचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुं ।

प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनश्च धेनुःऽ । ।

ऽकिवणाण धणं णाआणं फणमणी केसराइं सीहाणं ।

कुलवालिआण थणऽ कुत्तो छेप्पन्ति अमुआणंऽ । ।

(

ऽकृपणानां धनं नागानां फणमणिः केसराः सिंहानां ।

कुलबालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम्ऽ) । ।

एवमेकक्रियं दीपकत्रयं निर्णीतं ।

अत्र च यथानेककारकगतत्वेन्नैकक्रिया दीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकं ।

यथा-

ऽसाधूनामुपकर्तुं लक्ष्मीं धर्त्तुं विहायसा गन्तुं ।

न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम्ऽ । ।

अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टं मनो निर्दिष्टं ।

छायान्ररेण तु मालादीपकं प्रस्तावान्तरे लक्ष्ययिष्यते ।

>#


विमर्शिनी

२५ ।१ः

धेनुसंध्ययोः प्रकृतत्वादत्रान्ये तुल्ययोगितां मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते-

ऽधम्मज्जणेणम काण वि काणवि अत्थज्जणेण बोलेरि ।

कामज्जणेण काण वि काण वि एमेअ संसारोऽ । ।

(

ऽधर्म्मार्जनेन केषामपि केषामप्यर्थार्जनेन व्यत्येति ।

कामार्जनेन केषामपि केषामप्येवमेव संसारःऽ) । ।

एकक्रियमित्यनेनैवकगुणमपि दीपकं स्वयमेवोदाहार्यमिति सूचितं ।

तत्तु यथा-

ऽफणासहस्त्रभृदधो दिवि नेत्रसहस्त्रभृत् ।

अद्वितीयः पृथिव्यां च भवान्नामसहस्त्रभृत्ऽ । ।

अद्वितीयत्वङ्गुणः ।

एवमेकां क्रियां गुणं वानेककारकगतत्वेनाभिधाय तदेव च दृष्टान्तीकृत्यैककारकमप्यनेकक्रियागतत्वेन दीपकं भवतीत्याह-अत्रेत्यादि ।

अत्र चोच्छ्रवासवर्णनीयं भैरवाचार्यादिसक्तमुपकारकारणादिविशेषरूपं प्रस्तुतं श्रोतॄनवबोधयितुं कविकर्तृकमिदं साधूपकारकरणादीनां सामान्यानामप्रस्तुतानां प्रशंसनं ।

तेषां च सामान्यानां परस्परमौपम्यप्रतीतेरेककारकगतत्वेनेयं कारकतुल्ययोगिता ।

अतश्च नेदं कारकदीपकस्योदाहरणं ।

तत्त यथा -

ऽआलिङ्गितुं शशिमुखीं च सुधां च पातुं कीर्ति च साधयितुमर्जयितुं च लक्ष्मीं ।

त्वद्भक्तिमद्भतरसां हृदये च कर्तुं मन्दादरं जनमहं पशुमेव जानेऽ । ।

अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्टः ।

प्रस्तुताप्रस्तुतं स्फुटमेव ।


विमर्शिनी

२५ ।१अः

स्विद्यति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक् ।

अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणीता वधूः शयने । ।

इत्यत्र तु स्वैदनादिक्रियाणां प्रस्तुतानामेकाधारगतत्वेन समुच्चीयमानत्वाच्च समुच्चयालङ्कारो न तु कारकदीपकं ।

तद्धि प्रस्तुताप्रस्तुतानां क्रियाणामौपम्यसद्भावे भवति ।

एवं सर्धक्रियाणां प्रस्तुतत्वेऽपि समुच्ययस्योपम्याभावादेव तुल्ययोगितातोऽपि भेदः ।

औपम्यसद्भावेऽपि तुल्ययोगितैव ।

यथा -

ऽचकार दुर्बलानां यः क्षमामागरिबनामपि ।

जह्रे निरपराधानामपि यश्च बलीयसाम्ऽ । ।

अत्र करणहरणयोः प्रकृतत्वं ।

द्वयोरपि राजगतत्वेन वर्णनीयत्वात् ।


विमर्शिनी

२५ ।१बः

इदं बिम्बप्रतिबिम्बभावेनापि भवति ।

यथा -

ऽमणिः शाणेल्लीढः समरविजयी हेतिनिहतः कलशेषश्चन्द्रः सुरतमृदिता बालल्लना ।

मदक्षीणो नागः शरदि सरिदाश्यानपुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाःऽ । ।

अत्र शाणोल्लीढत्वादीनां बिम्बप्रतिबिम्बभावः ।

शुद्धसामान्यरूपत्वं यथा -

ऽफणराणराइअङ्गो भुअङ्गणाहो धरं समुव्वहै ।

णहदप्यणोवसोहिअसिहो अ तुह णाह भुअदण्डोऽ । ।

अत्र राजितत्वशोभितत्वयोः शुद्धसामान्यरूपत्वं ।

नन्वेतदनन्तरमेव मालादीपकमन्यैर्लक्षघितं तदिहापि किं न लक्ष्यत इत्याशङ्क्याह-छायेत्यादि ।

छायान्तरेणेति शृङ्कलारूपेण ।

प्रस्तावान्तर इति ।

शृङ्कलाबन्धोपचितरूपत्वात् ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र २६ः

#<

वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमा । । अ.स. २६ । ।

पदार्थारब्धो वाक्यार्थ इति पदार्थगतालङ्कारानन्तरं वाक्यार्थगतालङ्कारप्रस्तावः ।

तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा ।

वस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव ।

इवाद्यनुपादाने सकृन्निर्देशे उपमा ।

वस्तुप्रतिवस्तुभावेनासकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा ।

आद्यः प्रकारः प्रतिवस्तूपमा ।

वस्तु-शब्दस्य वाक्यार्थवाचित्वे प्रतिवावाक्यार्थमुपमा साम्यमित्यन्वर्थाश्रयणात् ।

केवलं काव्यसमयात्पर्यायान्तरेण पृथङ्निर्देशः ।

द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते ।

तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा ।

यथा -

ऽचकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि ।

आवन्त्य एव निपुणाः सुदृशो रतनर्मणिऽ । ।

अत्र चतुरत्वं साधारणे धर्मं उपमानवाक्ये

,

उपमेयवाक्ये तु निपुणपदेन निर्दिष्टः ।

न केवसमियं साधर्म्येण यावद्वैधर्म्येणापि ।

यथात्रैवोत्तरस्थानेऽविनावन्तीर्न निपुणाः सुदृशो रतनर्मणिऽ इति पाठे ।

>#


विमर्शिनी

२६ः

वाक्यार्थेत्यादि ।

एतदेव व्याख्यातुमलङ्कारान्तरैः सहास्या विभागं दर्शयति-तत्रेत्यादिना ।

ऽतया स पूतश्च विभूषितश्चऽ इत्यत्रोपमायां सकृन्निर्देशः ।

ऽपाण्ड्योऽयमंसार्पितलम्बहारःऽ इत्यादावपि चासकृन्निर्देशः ।

तदेवभिवाद्युपादाने साधारणधर्मस्य यथासंभवं स्वरूपं निरूप्येवाद्यनुपादानेऽपि निरूपयति-इवादीत्यादिना ।

यद्यपि दीपकतुल्ययोगितयोः सामान्यस्यासकृन्निर्देशोऽपि संभवति

,

तथापि सकृन्निर्देशं विना तयोरनुत्थानात्तदेवेह प्राधान्येनोक्तं ।

असकृन्निर्देशश्च द्विधा भवतीत्याह-असकृदित्यादि ।

आद्यः प्रकार इति शुद्धसामान्यरूपत्वं ।

यदि चात्र सामान्यस्यैकरूपत्वमेवास्ति तर्त्कि पर्यायान्तरेण पृथङ्निर्देशः क्रियत इत्याशङ्क्याह-केवलमित्यादि ।

यदुक्तम्-ऽनैकं पदं द्विः प्रयोज्यं प्रायेणऽ इति ।

बिम्बप्रतिबिम्बभावो द्वितीयः प्रकारः ।

एवमेतदुपसंहरन्प्रकृतमेव सिद्धान्तयति-तदेवमित्यादिना ।

औपम्याश्रयेणेति ।

एतदभिदधता ग्रन्थकृता प्रतिवस्तूपमाया दृष्टान्ताभेदो दर्शितः ।

यतोऽस्याः प्रकृतार्थस्य विशेषाभिधित्सया सादृश्यार्थमप्रकृतमर्थान्तरमुपादीयते

,

अत एव चात्र प्रकृताप्रकृतयोरुपमानोपमेयभावः ।

दृष्टन्ते पुररेतादृशो वृत्तान्तोऽन्यत्रापि स्थित इति प्रकृतस्यार्थस्याविस्पष्टा प्रतीतिर्भा भूदिति प्रतीतिविशदीकरणार्थमर्थान्तरमुपादीयते ।

अत एवात्रार्थान्तरोपादानं प्रकृतस्य न क्वाप्युपयुक्तमपि तु प्रतिपत्तः प्रकृतार्थप्रतीतेरविस्पष्टतानिरासात् ।

केचिच्च दृष्टान्ते द्वयोः समर्थ्यसमर्थकभावेनानयोर्भावेनानर्भेदमाहुः ।

तदसत् ।

यतः स्वरूपयोर्वशेषयोः समर्थ्यसमर्थकभावो न भवति ।

वस्त्वन्तरेण वस्त्वन्तरसिद्ध्यनुपपत्तेः ।

स हि सामान्यविशेषयोरेव भवति ।

सामान्यस्य नियमेन विशेषनिष्टत्वाद्विशेषस्य च नियमेन सामान्याश्रयत्वात् ।

यदि चात्र समर्थ्यसमर्थकभावः स्यादर्थान्तरन्यासादस्य पृथगलङ्कारता न स्यात् ।

समर्थ्यसमर्थकभावात्मनः सामान्यस्योभयत्राप्यनुगमात् ।

अन्ये पुनरुभयत्राप्यार्थमौपम्यमाश्रित्य सामान्यस्य शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां व्यवस्थितेरनयोर्भेदमाहुः ।

तदप्यसत् ।

एतावतैवौपम्याख्यस्य सामान्यलक्षणस्यानुगतत्वादुपमाभेदवदनयोः पृथगलङ्कारत्वानुपपत्तेः ।

तदेवं वाक्यनैरपूक्ष्येऽपि वक्तृप्रतिपत्त्रोरेव विशेषादयोर्भेदः सिद्धः ।

वैधर्म्येणापीति ।

भवतीति शेषः ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र २७ः

#<

तस्यापि बिम्बप्रतिबिम्बभावतया निर्देश दृष्टान्तः । । अ.स. २७ । ।

तष्णापीति न केवलमुपमानोपमेययोः ।

तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः ।

अयमपि साधर्म्यवैधर्म्याभ्यां द्विविधः ।

आद्यो यथा-

ऽअब्धिर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरता-

,

मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ।

देवीं वाचमुपासते हि बह्यवः सारं तु सारस्त्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविःऽ । ।

अत्र यद्यपि ञ्चानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमौपभ्यं विवक्षितं ।

यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनं ।

द्वितीयो यथा-

ऽकृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः ।

तमांसि तिष्टन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम्ऽ । ।

अत्र निहतत्वादेः स्थानादिना वैधर्म्येण प्रतिबिम्बनं ।

>#


विमर्शिनी

२७ः

तस्यापीति [सामान्यधर्मस्यापीत्यर्थः] उपमानोपमेययोरिति ।

प्रकृताप्रकृतयोर्धर्मिणोरित्यर्थः ।

अतश्च धर्माणां धर्मिणां च बिम्बप्रतिबिम्बभावेन निर्देशोऽयमलङ्कारः ।

यदुक्तमन्यत्रापि-ऽदृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्ऽ इति ।

उपमानोपमेययोरिति तु स्वार्थएव न व्याख्येयम्

,

अर्थान्तरस्य प्रकृतदार्ढ्यायोपादानात्सादृश्याविवक्षणात् ।

आद्य इति साधर्म्येण ।

यथा वा–

ऽस्थानेषु शिष्यनिवहैः प्रतिपाद्यमाना विद्या गुरुं हि गुणवत्तरमातनोति ।

आदाय शुक्तिषु बलाहकविप्रकीर्णै रत्नाकरो भवति वारिभिरम्बुराशिःऽ । ।

अत्र स्थानादीनां शुक्त्यादिभिः प्रतिबिम्बनं ।

यन्निबन्धनं चेति ।

अर्थालङ्कारत्वं न पुनरौपम्यं ।

तस्य च समनन्तरोक्तयुर्क्त्यासंभवात् ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र २८ः

#<

संभावतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना । । अ.स. २८ । ।

प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणं ।

तत्र क्कचित्संभवन्नेव वस्तुसंबन्धः स्वसामर्थ्याद्धिम्बप्रतिबिम्बभावं कल्पयति ।

क्वचित्पुनरन्वयबाधादसंभावता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते ।

तत्र संभवद्वस्तुसंबन्धा यथा-

ऽचूडामणिपदे धत्ते यो देवं रविमागतं ।

सतां कार्यातिथेयीति बोधयन्गृहमेधिनःऽ । ।

अत्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति वस्तुसंबन्धः ।

असंभवद्वस्तुसंबन्धा यथा-

ऽअब्यात्स वो यम्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलां ।

जटापिनद्धोरगराजरत्नमरीचिलीढोभयकोटिरिन्दुःऽ । ।

अत्र स्मरचापसंबन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसंभवल्लीलासदृशीं लीलामवगमयतीत्पदूरविप्रकर्षात्प्रतिबिम्बकल्पनमुक्तं ।

>#


विमर्शिनी

२८ः

संभवतेत्यादि ।

बिम्बप्रतिबिम्बभावमिति उपमानोपमेयत्वमित्यर्थः ।

धर्मधर्मिणोरभेदोपक्षारात् ।

एवं चात्र निदर्शतायां सादृश्याविनाभावः ।

तेन -

ऽप्रभाते पृच्छ्रन्तीरनुरहसवृत्तं सहचरीर्नवोढा न व्रीडामुकुलितमुखीयं कथयति ।

लिखन्तीनां पत्त्राङ्कुरमनिशमस्यास्तु कुचयोश्चमत्कारो गूढं करजपदमासां प्रथयतिऽ । ।

इत्यादौ संभवत्यपि वस्तुसंबन्धे प्रथनस्यौपम्याभावान्न निदर्शनालङ्कारत्वम्ष ।

अनेनैव वस्तुसंबन्धस्य संभवासंभवाभ्यामस्या भेदद्वयमप्युक्तं ।

तदेवोदाहरति-चूडामणीत्वादिना ।

तत्समर्थाचरणे प्रयोगादितिऽकारीषोऽध्यापयतिऽ इत्यादिवत् ।

अभ्यागतस्य रवेर्गिरिणा शिरसा धारणं तत्समर्थाचरणं ।

अत एवात्र बोधयन्निति णिचस्तत्समर्था चरणे प्रयोगान्मयेव भवद्विभरप्यतिथिसपर्या कार्येति संभवत्संबन्धमूलमत्रार्थमौपम्यं ।

एवं च पर्वतस्य बोधनक्रियाकर्तृत्वासंभवादेवादेवाभिमन्तृव्यापारोपारोहाभावान्नात्र प्रतीयमानोत्प्रेक्षा ।

नापि स्मृत्यलङ्कारः ।

गृहमेधिनां पर्वतकर्तृकस्य सद्विषयातिथ्यबोधकत्वस्यवाक्ष्यार्थत्वात् ।

तत्र हि सदृशदर्शनाद्वस्त्वन्तरस्य स्मृतिर्भवति ।

नचात्र गृहमेधिनां रविदर्शनादतिथिस्मृतौ कर्तृत्वं ।

तेषां सदातिथ्यकर्तव्यताया बोध्यत्वात् ।

नाप्यत्र रविणातिथेरतिथिना वा रवेः साम्यंविवक्षितं ।

अपि तु मयेव गृहमेधिभिरपि सतामातिथ्यङ्कार्यमिति ।

अत एव नात्र वस्त्वन्तरकरणात्मापि विशेषालङ्कारः ।

तपानावगमेऽतिथ्यादेरसंभाव्यस्यावगमो जात इत्येवमात्मिकायाः प्रतिपत्तेरभावात् ।

अतश्च सत्यसति वा संबन्धे निदृशंनेति वाच्यं ।

तेन यथोक्तमेव भेदद्वयं स्यात् ।

असंभवदिति ।

धर्म्यन्तरसंबन्धिनो धर्मस्य धम्यन्तरेऽन्यदायोगात् ।

अद्रविप्रकर्षादिति ।

धर्ममुखेनसादृश्यस्य किञ्चित्प्रत्यासच्चत्वात् ।

यथा वा -

ऽअङ्गे पुलां अहरं सवेपिअं जंपिअं ससिक्कारं ।

सव्वं सिसिरेण कां जं काअव्वं पिआमेणऽ । ।

अत्र वल्लभकार्यस्य पुलकादेर्धर्मस्य वस्त्वन्तरभूतेन शिशिरेण कारणमसंभवत्तस्य साम्यमवगमयतीति शिशिरस्य बल्लभतुल्यताप्रतीतेरौपम्यं ।

अतश्चात्र धर्माणामसंबन्धात्निदर्शनेत्युक्त्वा प्रतिमालङ्कारत्वं न वाच्यं ।

प्रतिभायाश्चान्योदाहरणेष्वलङ्कारान्तरावियोगः स्फुट एवेति न पृथगलङ्कारत्वं वाच्यं ।

एवमन्येषामपि समग्राणामभिनवालङ्काराणां चान्यैरन्यालङ्कारयोगो योजयितुं शक्य एवेति ग्रन्थविस्तरभयादस्मदर्शने तद्दूक्षणोद्धारस्यैव च प्रतिज्ञातत्वादस्माभिः प्रातिपद्येन न दूषितं ।

न पुनरेतावतैव परमतमप्रतिषिद्धमनुमतमेवेति दृशा एषामपि पृथगलङ्कारत्वं युक्तं मन्तव्यं ।

__________

अ.स. २८ ।१ः

#<

एषापि पदार्थवाक्यार्थवृत्तिभेदाद्द्विविधा पदार्थवृत्तिः समनन्तरमुदाहृता ।

वाक्यार्थवृत्तिर्यथा-

ऽत्वत्पादनखरत्नानां यदलक्तकमार्जनं ।

इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोःऽ । ।

केचित्तु दृष्टान्तालङ्कारोऽयमित्याहुस्तदसत् ।

निरपेक्षयोर्वाक्यार्थयोर्हि बिम्बप्रतिबिम्बभावो दृष्टान्तः ।

यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्शनैव युक्ता

,

न दृष्टान्तः ।

एवं च -

ऽशुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।

दूरीकृताः खलु गुणैरुद्यानलता बनलताभिःऽ । ।

इत्यत्र दृष्टान्तबुद्धिर्न कार्या ।

उक्तन्यायेन निदर्शनाप्रात्पेः ।

>#


विमर्शिनी

२८ ।१ः

एषेत्यसंभवद्वस्तुसंबन्धनिबन्धना ।

न केवलं निदर्शना यावत्तद्भेदोऽप्ययं द्विविध इत्यपिशब्दार्थः ।

उदाहृतेतिऽअव्यात्स वःऽ इत्यादिना ।

केचिदिति श्रीमम्मटादयः । १८ अ. स. तदिति दृष्टान्तालङ्कारवचनं ।

एतदन्यत्रापि योजयति-एवमित्यादिना ।

उक्तन्यायेनेति

,

प्रकृतवाक्यार्थे वाक्यार्थान्तरस्य सामानाधिकरण्येनाध्यारोप्यमाणत्वात् ।

अतश्चान्यैर्वाक्यार्थयोः सामानाधिकरण्यनिदशाच्छ्रौतारोपसद्भावेन वाक्यार्थरूपकं यदुक्तं तत्तावदास्ताम्

,

यत्पुत्रः प्रतिवस्तूपमोदाहरणत्वमुक्तं तदयुक्तमेव ।

निरपेक्षयोर्वाक्यार्थयोर्धर्मस्य शुद्धसामान्यरूपत्वे प्रतिवस्तूपमा ।

न चात्रैकमपि संभवति ।

वाक्यार्थयोः सापेक्षत्वाच्छुद्धसामान्यरूपत्वाभावाच्च अर्थापत्त्युदाहरणत्वमप्यत्रायुक्तं ।

ऽजाग्रतः कमलाल्लक्ष्मीं यज्जग्राह तदद्भुतं ।

पादद्वन्द्वस्य मत्तेभगतिस्तेये तु का स्तुतिःऽ । ।

इत्यत्र तु प्रतिवस्तूपमोदाहरणत्वं पापात्पापीयः ।

अत्र हि वाक्यार्थयोः परस्परं सादृश्यमात्रमपि नास्तीति का कथा प्रतिवस्तूपमायाः ।

एवंविधमेव चान्यत्र सर्वालङ्कारोदाहरणेष्वासमञ्जस्यं संभवदपि समनन्तरोक्तहेतुद्वयाश्च दर्शितं ।

तथा च -

ऽआज्ञाधरः पञ्चशरः पुरस्तात्सुधा पुनः कर्मकरी मुखस्य ।

स चापि सौन्दर्यविशेषबन्दी यत्रेन्दुरिन्दीवरलोचनानाम्ऽ । ।

इत्यत्र विषयविषयिणोर्द्वयोरप्युपादानात्स्फुटेऽपि रूपकत्वेऽतिशयोक्त्युदाहरणत्वमुक्तं तत्र चातिशयोक्तित्वमेव नास्तीति किं कार्यकारणभावपूर्वकत्वनिदर्शनेननेत्यलं बहुना ।

असंभवद्वस्तुसंबन्धनिबन्धनायाश्च यद्यपि वस्तुसंबन्धस्याविशेषेण संभव उक्तस्तथापि समनन्तरोक्तोदाहरणेषु यथोपमानसंबन्धी धर्म उपमेयगतत्वेनैव संभवति तथैवोपमेयसंबन्धी धर्मः क्वचिदुपमानेऽपीत्याह-इयमित्यादि ।

__________

अ.स. २८ ।२ः

#<

इयं चोपेमेय उपमानवृत्तस्यासंभवात्प्रतिपादिता पूर्वैः वस्तुतस्तूपमेयवृत्तस्योपमानेऽसंभवादपि भवति ।

उभयत्रापि संबन्धविघटनस्य विद्यमानत्वात् ।

तद्यथा -ऽवियोगे गौडनारीणां यो गण्डतलपाण्डिमा ।

अलक्ष्यत स खर्जूरीमञ्जरीगर्भरेणुषुऽ । ।

अत्र गण्डतलं प्रकृतं ।

तद्धर्मस्य पाण्डिम्नः खर्जूरीरेणुष्वसंभवादौपम्यप्रतीतिः ।

एष च प्रकारः शृङ्खलान्यायेनापि भवति ।

यथा-

ऽमुण्डसिरे बोरफलं बोरोवरि बोरां थिरं धरसि ।

विग्गुच्छाऐ अप्पा णालिअछेआ छलिज्जन्तिऽ ।

>#


विमर्शिनी

२८ ।२ः

उभयत्रेत्युपमेये उपमाने वा ।

वसन्तवर्णनस्य प्रक्रान्तत्वाद्द्वयोः प्रकृतत्वेऽपि गण्डतलस्योपमेयत्वं ।

तद्भतत्वेनैव पाण्डिम्नः सिसाधयिषितत्वात् ।

सिध्दसाध्यधर्मत्वमेव क्षोपमानोपमेयत्वम्ष ।

यथा वा -

ऽत्वद्वक्त्रलावण्यमिदं मृगाक्षि संलक्ष्यते पत्युरपि क्षपायाः ।

कथं त्वनेनाहृतमेतदद्य कलावतां वा किमसाध्यमस्तिऽ । ।

अत्र चाटुषु नायिकायाः प्रस्तुतत्वाद्वक्त्रमुपमेयं ।

तद्धर्मस्य च लावण्यस्योपमाने शशिन्यसंभवः ।

एष इति असंभवद्वस्तुसंबन्धनिबन्धनो वा वाच्यः ।

__________

अ.स. २८ ।३ः

#<

इयमपि क्वचिन्मालयापि भवन्ती दृश्यते ।

यथा-

ऽअरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितं ।

श्वपुच्छमवनामितं बधिरकर्णजापः कृतः धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितःऽ | |

क्वचित्पुनर्निषेधसामर्र्थ्यादाक्षित्पायाः प्रात्पेः संबन्धानुपपत्त्यापि भवति ।

यथा-

ऽउत्कोपे त्वयि किञ्चिदेव चलति द्राग्गूर्जरक्ष्माभृता मुक्ता भूर्न परं भयान्मरुजुषां यावत्तदेणीदृशां ।

पद्भ्यां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमःऽ । ।

अत्र मुक्तेन निषेधपदं तदन्यथानुपपत्त्या पादयोर्हसगतिप्रात्पिराक्षिप्यते ।

सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंबन्वनिबन्धना निदर्शना ।

>#


विमर्शिनी

२८ ।३ः

आक्षित्पाया इति ।

प्रात्पिपूर्वकत्वान्निषेधस्य ।

सेति प्रात्पिः सादृश्यमिति पादयोर्हसगतितुल्याया गतेः प्रतीतेः ।

इयं च सामान्यस्यानुगामितया ।

यथा- अव्यात्म व इत्यादि ।

अत्र निसर्गवक्रताक्ष्यधर्मस्यानुगामित्वं ।

शुद्धसामान्यरूपत्वेन यथा -

ऽहारेणामलकस्थूलमुक्तेनामुक्तकुन्तलः ।

फणीन्द्रबद्धजूटस्य श्रियमाप स धूर्जटेःऽ । ।

अत्रामुक्तबद्धयोः शुद्धसामान्यरूपत्वं ।

बिम्बप्रतिबिम्बभावेन यथा -

ऽउह सरसदन्तडलकपोलपडिमागओ माच्छ्रीइ ।

अन्ते सिंदूरिअसंखवत्तकराणं वहै चन्दोऽ । ।

(

ऽपश्य सरसदन्तमण्डलकपोलप्रतिमागतो मृगाक्ष्याः ।

अन्ते सिन्दूरितशङ्खावर्त्तकरणीं [क्रियाण्]वहति चन्द्रःऽ) । ।

अत्र दन्तमण्डलसिन्दूरितत्वयोर्बिम्बप्रतिबिम्बभावः ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र २९ः

#<

भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः । । अ.स. २९ | |

अधुना भेदप्राधान्येनालङ्कारकथनं ।

भेदो वैलक्षण्यं ।

स च द्विधा भवति

,

उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् ।

विपर्ययो न्यूनगुणत्वं ।

>#


विमर्शिनी

२९ः

भेदप्राधान्य इत्यादि ।

अधुनेति प्रात्पावसरं ।

भेदस्य चात्र प्राधान्यादभेदस्य वस्तुतः सद्भावः ।

सादृश्य एव पर्यवसानात् ।

अत एव सादृश्यव्यतिरेकेण संभवन्नपि भेदो नास्य विषयः ।

यथा -

ऽदिव्योत्तरीयभृति कौस्तुभरन्नभाजि देवे परे दधतु लुब्धधियोऽनुबन्धं ।

रूपं दिगम्बरमखण्टनृमुण्डचूडं भावत्कमेव तु बतेश मम स्पृहायैऽ । ।

अत्र वैष्णवेभ्यः स्वात्मनि विष्णोर्वा परमेश्वरे भेदमात्रं विवक्षितं न तु केनापि कस्यचिदौपम्यं ।

स इति भेदः ।

तस्याधिक्यविपर्ययाभ्यां वैविध्याद्वयतिरेकोऽपि द्विविधः ।

तदाश्रयत्वादस्य ।

__________

अ.स. २९ ।१ः

#<

क्रमेणोदाहरणं -ऽदिद्दक्षवः पक्ष्यलताविलासमक्ष्णां सहस्रस्य मनोहरं ते ।

वापीषु नीलोत्पलिनी-विकासरभ्यासु नन्दन्ति न षट्पदौधाःऽ । ।

ऽक्षीणः क्षोणोऽपि शशी भूयो भूयो विवर्धते सत्यं ।

विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तुऽ । ।

अत्र विकस्वरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पक्ष्मलतया अधिकगुणत्वं ।

चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वं ।

शशिवैलक्षण्येन तस्यापुनरागमात् ।

>#


विमर्शिनी

२९ ।१ः

चन्द्रापेक्षयेति ।

शशियौवनयोर्हि समानेऽपि गत्वरत्वे शशिनः पुनरागमनमपि संभवति न तु यौवनस्येति ततोऽस्य न्यूनगुणवत्त्वं ।

नन्वत्र विपर्ययमेवेति सूत्रितं भेदान्तरमयुक्तं ।

उपमानादुपमेयस्य न्यूनगुणत्वे वास्तवत्वात्

,

तत्त्वे चालङ्कारत्वानुपपत्तेः ।

यौवनस्य चात्रास्थिरत्वे प्रतिपाद्ये प्रतिपाद्ये चन्द्रापेक्षयाधिकगुणत्वमेव विवक्षितं ।

यदेतञ्चन्द्रवद्यातं सन्न पुनपायातीति ।

असदेतत् ।

यतोऽत्र चन्द्रवद्गतं सद्यौवनं यदि पुनरप्यागच्छ्रेत्तत्प्रियं प्रति चिरमीर्ष्यानुबन्धो युज्येत ।

कालान्तरेऽपि ह्यस्य तदवलोकनादुना सफलीकारः स्यात् ।

इदं पुनर्हतयौवनं यातं सत्प्रुनर्नागच्छ्रतीतीर्ष्याद्यन्तरायपरिहारेण निरन्तरतयैव प्रियेण सह सफलयितव्यमिति धिगीर्ष्याम्

,

त्यज प्रियं प्रति मन्युम्

,

कुरु प्रसादमित्यास्मिन्प्रियवयस्योपदेशे प्रियं प्रति कोपोपशमाय चन्द्रापेक्षया यौवनस्यापुनरागमनं न्यूनगुणत्वेनैव विवक्षितमिति वाक्यार्थविद एव प्रमाणं ।

न चैतद्वास्तवमुपमेयस्य न्यूनगुणत्वं ।

तस्यैव सातिशयत्वेनप्रतिपाद्यत्वात् ।

प्रकृतार्थोपरञ्जकत्वे हि सर्वथा कवेः संरम्भः ।

तच्चाधिकगुणमुखेन भवतु

,

इतरथा वा को विशेषः ।

तस्माद्युक्तमेव विपर्यये वेति सूत्रितं ।

प्रत्युत प्रतित्पत्वात् ।

वतःऽस्वरेण तस्या अभृतस्त्रुतेवऽ इत्यादावन्यष्टालापस्य प्रतिकूलत्वोक्तेः कर्णकटुकत्वादिना न्यूनत्वावगतेरुपमेयभूताया भगवत्याः संबन्धिनः स्वरस्यामृतस्त्रतेवेत्यभिधानादानन्दातिशयदातिशयदायित्वादेश्चाधिक्यमेवावगम्यत इत्यलं बहुना ।

अस्यापि सादृश्याश्रयत्वात्सामान्यस्य त्रयी गतिः ।

तत्रानुगामिता यथा - नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः ।

लब्ध्वापि लोके परिणाहि रूपं जातास्तद्वर्वोरुपमानबाह्याः । ।

अत्र परिणाहिरूपत्वस्यातुगामित्वं ।

वस्तुप्रतिवस्तुभावे पुनर्ग्रन्थकृतैवोदाहृतं - दिदृक्षव इत्यादि ।

अत्र मनोहरत्वरम्यत्वयोः शुद्धसामान्यरूपत्वं ।

पक्ष्यलताविलासविकस्वरयोश्च बिम्बप्रतिबिम्बभावः ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ३०ः

#<

उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसंबन्धे सहोक्तिः । । अ.स. ३० । ।

भेदप्राधान्य इत्येव ।

गुणप्राधानभावनिमित्तकमत्र भेदप्राधान्यं ।

सहार्थप्रयुक्तश्च गुणप्राधानभावः ।

उपमानोपमेयत्वं चात्र वैवक्षिकम्

,

द्वयोरपि प्राकरणिकत्वादप्राकरणिकरणिकत्वाद्वा ।

सहार्थसामर्थ्याद्धि तयोः तुल्यकक्षत्वं ।

तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वं ।

अर्थाच्च परिशिष्टस्य प्रधानत्वादुपमेयत्वं ।

शब्दश्चात्र गुणप्राधानभावः ।

वस्तुतस्तु विपर्ययोऽपि स्यात् ।

तत्र नियमेनातिशयोक्तिमूलत्वमस्याः ।

सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च ।

अभेदाध्यवसायश्च श्लेषभित्तिकोऽन्यथा वा ।

साहित्यं चात्र कत्रादिनानाभेदं ज्ञेयं ।

तत्र च -

ऽकार्यकारणप्रतिनियमविपर्ययरूपा यथा -

ऽभवदपराधैः सार्धं संतापो वर्धतेतरामस्याःऽ ।

अत्रापराधानां संतापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः ।

श्लेषभित्तिकाभेदाध्यवसायरूपा यथा -

ऽअस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्नियन्तां बलानिऽ ।

अत्रास्तं गमनं श्लिष्टं ।

अस्तमित्यस्योभयार्थत्वात् । ।

>#


विमर्शिनी

३०ः

उपमानेत्यादि ।

किंहेतुकं चात्र भेदप्राधान्यमित्याशङ्क्याह-गुणेत्यादि ।

गुणप्राधानभावोऽपि किंहेतुक इत्याह-सहार्थेत्यादि ।

एकस्य प्रधान्यभूतविभक्तिनिर्देशादन्यस्य च विधिविभक्तिनिर्देशात् ।

वैवक्षिकमिति न पुनर्वास्तवं ।

उपमानोपमेयत्वं हि द्वयोस्तुल्यकक्षत्वेभवति तच्चात्र किंनिमित्तकमित्थाशङ्क्याह-सहार्थेत्यादि ।

परिशिष्टस्येति प्रथमान्तस्य ।

शाब्द इति न पुनरार्थः

,

वस्तुतो विपर्ययस्यापि संभवात् ।

एवं गुणप्रधानभावनिमित्तकं भेदप्राधान्यमपि शाब्दमेवात्र ज्ञेयं ।

वस्तुतो हि सादृश्यैव पयवसानाद्भेदाभेदयोस्तुल्यत्वेनैव प्रतीतिः ।

तस्माच्छ्राब्दमेव भेदप्राधान्यमाश्रित्येहास्या वचनं ।

विपर्यय इति ।

प्रधानविभक्त्या निर्दिष्टस्याप्राधान्यं गुणविभक्त्या च निर्दिष्टस्य प्राधान्यं ।

नियमेनेति ।

अनेनातिशयोक्त्यानुप्राणनमन्तरेणालङ्कारत्वमेवास्या न भवतीति ध्वनितं ।

सेत्यतिशयोक्तिः ।

कार्यकारणयोः प्रतिनियमस्य क्रमस्य विपर्ययस्तुल्यकालत्वादिनोक्तेः ।

अन्यथेति अश्लेषरूपः ।

तदेवमस्या अतिशयोक्तिभेदचतुष्टयमनुप्राणकं ।

कत्रादीति आदिशब्दात्कर्मादयः ।

तत्रेति निर्धारणे ।

[

कार्यकारणप्रतिनियमविपर्ययरूपेति] ।

अस्यामनुप्राणकत्वेन स्थितेति शेषः ।

अत्रापराधानां शाब्दो गुणभावः ।

वस्तुतस्तु प्राधान्यं तेषामेव

,

प्रतिपाद्यत्वात् ।

एवमन्यत्र ज्ञेयं ।

ऽक्षयमेति सा वराकी स्नेहंन समं त्वदीयेनऽ इत्यस्यार्धं ।

ऽकुर्वन्त्वात्पा हतानां रणशिरसि जना वह्णिसाद्देहभारानश्रून्मिश्रं कथञ्चिद्वदतु जलममी बान्धवा बान्धवा बान्धवेभ्यः ।

मार्गन्तां ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कैःऽ इत्यस्याद्यं पादत्रयं ।

__________

अ.स. ३० ।१ः

#<

तदन्यथारूपा यथा -

ऽकुमुदवनैः सह संप्रति विघटन्ते चक्रवाकमिथुनानिऽ ।

अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टं ।

एतद्विशेषपरिहारेण सहोक्तिमात्रं नालङ्कारः ।

यथा-

ऽअनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषुऽ इत्यादौ ।

एतान्येव कर्तृसाहित्ये उदाहरणानि ।

कर्मसाहित्ये यथा -ऽद्युजनो मुत्युना सार्धं यस्याजौ तारकामये ।

चक्रे चक्राभिधानेन प्रेष्येणात्पमनोरथःऽ । ।

अत्र करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वं ।

एषा च मासयापि भवन्ती दृश्यते ।

यथा-

ऽउत्क्षित्पं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं भूपानां जनकस्य संशयधिया साकं समास्फालितं ।

वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गव- प्रौढाहङ्कृतिकन्दलेन च समं तद्भग्नमैशं धनुःऽ । ।

>#


विमर्शिनी

३० ।१ः

सह कमलैर्ललनानां मानः संकोचमायाति इत्यस्यार्धं ।

एतद्विशेषपरिहारेणेति अतिशयोक्त्यनुप्राणनमन्तरेण ।

ऽद्वीपान्तरानीतवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिःऽ इति द्वितीयमर्धं ।

एतानीति समनन्तरोक्तानि ।

यमापेक्षया द्युजनस्यानन्तरमात्पमनोरथत्वमिति आदिपश्चाद्भावेन क्रमिकयोस्तुल्यकालत्वेनोक्तिः ।

यथा वा -

ऽभाग्यैः समं समुत्पन्नं प्रजाभिः सह लालितं ।

वर्धितं सुकृतैः सार्धमर्णोराजमसूत साऽ । ।

अत्र समुत्पत्त्यनन्तरं तद्भाग्यानामुत्पत्तिरिति क्रमिकयोः समकालत्वं ।

अस्याश्च शुद्धसामान्यरूपत्वं यथा -

ऽमलऽणिलेण सह सोरहवासिएण दैआणं ।

वड्ढन्ति बहलसोमालपरिमला सासणिउरंबाऽ । ।

(

ऽमलयानिलेन सह सौरभवासितेन दयितानां ।

वर्धन्ते बैलसुकुंमारपरिमला श्वासनिकुरम्बाःऽ) । ।

अत्र सौरभपरिमलयोः शुद्धसामान्यरूपत्वं ।

बिम्बप्रतिबिम्बभावो यथा -

ऽदिनारारणिउरंबा कणऽअलकडारेणिविप्फुरिआ ।

विअशन्ति परिमलभरोब्भडेहिं कमलकिरहिं समंऽ । ।

(

ऽदिनकर-कर-निकुरम्बा कनकाचल-कटक-रेणु-विस्फुरिताः ।

विकसन्ति परिमलभरोद्भटैः कमलाकरैः सार्धम्ऽ) । ।

अत्र कनकाचलकटकरेणुविच्छुरितत्वस्य परिमलभरोद्भटत्वं बिम्बप्रतिबिम्बत्वेन निर्दिष्टं ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ३१ः

#<

सहोत्किप्रतिभटभूतां विनोक्तिं लक्षयति - ।

विना किञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः । । अ.स. ३१ । ।

सत्त्वस्य शोभनत्वस्याभावोऽशोभनत्वं ।

एवमसत्त्वस्याशोभनत्वस्याभावः शोभनत्वं ।

तेद्वे सत्त्वासत्त्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा विनोक्तिः ।

अत्र च शोभनत्वाशोभनत्वसत्तासत्तायामेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थं ।

एवं चान्यानिवृत्तौ विधिरेव प्रकाशितो भवति ।

आद्या यथा -

ऽविनयेन विना का श्रीः का निशा शशिना विना ।

रहिता सत्कवित्वेन कीदृशी वाग्विदग्धताऽ । ।

>#


विमर्शिनी

३१ः

प्रतिभटभूतामिति प्रतिपक्षभूतां ।

अत एवैतदनन्तरमेतल्लक्षणं ।

तदेवाह-विनाकिञ्चिद्त्यादि ।

एतदेव व्याचष्टे-सत्त्वस्येत्यादिना ।

कस्यचिदिति यत्र यादृशो विवक्षितस्तस्येति ।

ननु चात्र सत्त्वासत्त्वयोर्विधिमुखेनैव वाच्यत्वे किमिति प्रतीतिवैषम्यदायिना निषेधमुखेन निर्देशः कृत इत्याशद्वयाह-अत्र चेत्यादि ।

तच्छब्देन सत्त्वासत्त्वयोः प्रत्यवमर्शः ।

अन्यनिवृत्तिप्रयुक्तेन तन्निवृत्तिल्यापनेनापि किं भवतीत्याशङ्क्याह-एवं चेत्यादिना ।

अन्यस्य कस्यचिदनिवृत्तौ सत्तमसत्त्वमेव वा भवतीत्यर्थः ।

आद्येति असत्त्वनिबन्धनोक्तिः ।

का श्रीर्न काचिच्छ्रीरिति श्रियो विरहोऽसद्भावः ।

विनयासद्भावेऽपिश्रियोऽसद्भावोऽस्तीत्येतदभिधानं श्रियोऽसत्त्वे पर्यवस्यतीति विनयनिवृत्तिप्रयुक्तं श्रियोऽसत्त्वमुक्तं ।

एवं विनयस्यानिवृत्तौ श्रियः सत्त्व एव विधिः प्रकाशितो भवतीति विनय एवं भरबन्धः कार्यः ।

एवमन्यत्रापि ज्ञेयं ।

अन्ये चात्र वास्तवत्वंमन्यमानाः-

ऽतस्याः शैत्यं विना ज्योत्स्ना पुष्पर्द्धिः सौरभं विना ।

विनोष्णत्वं च हुतभुक्त्वां विना प्रतिभासतेऽ । ।

इत्यत्र विनोक्त्यलङ्कारत्वमाहुः ।

अत्र हि ज्योत्स्त्रादीनां शैत्यादिना नित्यमविभावेऽपि विनाभाव उपनिबद्धः ।

यदाहालङ्कारभाष्यकारः-“नित्यसंबद्धानामसंबन्धवचन विनोक्तिः” इति विनोक्तिरूपसंख्यास्यतेऽ इति ।

ग्रन्थकृता पुनरियं चिरन्तनलक्षितत्त्वाल्लक्षिता ।

__________

अ.स. ३१ ।१ः

#<

अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथञ्चिन्निमित्तीभवति यथा सहोक्तौ सहार्थविवक्षा ।

एवं च -

ऽनिरर्थकं जन्म गतं नलिन्या यथा न दृष्टं तुहिनांशुबिम्बं ।

उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धाऽ । ।

इत्यादौ विनोक्तिरेव ।

तुहिनांशुदर्शनं नलिनीजन्मनोऽशोभनत्वप्रतीतेः ।

इयं च परस्परविनोक्तिभङ्ग्या चमत्कारातिशयकृत् ।

यथोदाहृते विषये ।

>#


विमर्शिनी

३१ ।१ः

यथाकथञ्चिदिति ।

यद्यपि यथा सहशब्दं विनापि सहार्ये तृतीयास्ति तथा विनाशब्दंविनापि द्वितीयादीनां विनार्थे सद्भावोऽस्ति

,

तथापि वाक्यार्थपर्यालोचनसामर्थ्यात्तदर्थः पर्यवस्यतीत्यस्य भावः ।

सहशब्दं विनापि सहार्थविवक्षा यथा -

ऽविवृण्वता सौरभरोरदोषं बन्दिव्रतं वर्णगुणैः स्पृशन्त्या ।

विकस्वरे कस्य न कर्णिकारे घ्राणेन दृष्टेर्ववृधे विवादःऽ । ।

अत्र घ्राणेन सहेति तत्प्रयोगं विना तत्प्रतीतावेव विश्रान्ते ।

एवं चेति ।

यस्माद्विनाशब्दं विनापि तदर्थविवक्षा भवतीत्यर्थः ।

यथोदाहृत इति निरर्थकमित्यादौ ।

यथा वा -

ऽहंसण सरेहिं विणा सराण सोहाविणा ण हंसेहिं ।

अण्णोण्णं चिअ ई अप्पाणं णवरं गरुएन्तिऽ । ।

(

ऽहंसानां सरोभिर्वना सरसां शोभा विना च हंसैः ।

अन्योन्यं चैवेते आत्मानं केवलं गरयन्तिऽ) । ।

__________

अ.स. ३१ ।२ः

#<

द्वितीया यथा -

ऽमृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः ।

अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन नरेन्द्रसूनुःऽ । ।

अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्ग्योक्तः ।

शैषा द्विधा विनोक्तिः ।

>#


विमर्शिनी

३१ ।२ः

द्वितायेति शोभनत्वनिबन्धनोक्तिः ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ३२ः

#<

अधुना विशेषणविच्छित्त्याश्रयेणालङ्कारद्वयमुच्यते ।

तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाह- ।

विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः । । अ.स. ३२ । ।

इह प्रस्तुताप्रस्तुतानां क्वचिद्वाच्यत्वं क्वचिद्गम्यत्वमिति द्वैविध्यं ।

वाच्यत्वं च श्लेषनिर्देशभङ्ग्या पृथगुपादानेन वेत्यपि द्वैविध्यं ।

एतद्द्विभेदमपि श्लेषालङ्कारस्य विषयः ।

गुम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः अप्रस्तुतनिण्ठं तु समासोक्तिविषयः ।

तत्र च निमित्तं विशेषणसाम्यं ।

विशेष्यस्यापि साम्ये श्लेषप्रात्पेः ।

विशेषणसाम्याद्धि प्रतीयमानप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते ।

अवच्छेदकत्वं च व्यवहारसमारोपः ।

रूपसमारोपे त्ववच्छादितत्वेन प्रकृतस्य तद्रूपित्वाद्रूपकमेव ।

>#


विमर्शिनी

३२ः

तत्रेत्यलांरद्वयमध्यात् ।

आदाविति प्रधानतया ।

अस्या हि विशेषणमात्रावष्टभ्भात्परिकराद्विशेषणसाम्यावष्टम्भत्वेन विशिष्टत्वं ।

विशेषणेत्यादि ।

अत्त्याश्चालङ्कारान्तरेभ्यो विभागं दर्शयितुमुपक्रमते-इहेत्यादिना ।

वाच्यत्वं चात्र द्वयोः प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्च भवति ।

गम्यत्वं पुनः क्वचित्प्रस्तुतस्य क्वचिच्चाप्रस्तुतस्य ।

प्रस्तुताप्रस्तुतयोस्तु न भवति ।

ताद्रूप्येण वस्तुसद्भावाभावात् ।

श्लेषनिर्दिशभङ्ग्येति ।

प्रस्तुतयोरप्रस्तुतयोश्च ।

पृथगुपादानेनेति ।

प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्चैतदिति वाच्यं ।

अत्र चाप्रस्तुतस्य किंहेतुकं गम्यत्वमित्यङ्क्याह-तत्र चेत्यादि ।

तत्रेति अप्रस्तुतस्य गम्यत्वे ।

विशेषणानां चात्र बहुत्वमेव विवक्षितमिति न वाच्यं ।

ऽश्वसनविषमा रार्त्रिर्ज्योत्स्त्ना तरङ्गितविभ्रमा शशिमणिभुवो वाष्पायन्तेनिमीलति पद्मिनी ।

उपचिततमोनोहा भूमिर्व्यनक्ति विवर्णतां तदिति गहने दर्शं दर्शं कथं सखि जीव्यतेऽ । ।

इत्यत्र विशेषणबहुत्वाभावेऽपि समासोक्तेः सद्भावात् ।

अतश्च विशेषणानां साम्यादीति न सूत्रणीयम ।

अबहुत्वे तस्याव्याप्तेः ।

विशेषणसाम्यमपि कस्मादत्र हेतुत्वं भजत इत्याशङ्क्याह-विशेषेणेत्यादि ।

अप्रस्तुतमिति न पुनरप्रस्तुतधर्मा एव ।

नह्यन्यधर्मिसंबन्धिनो धर्माःस्वधर्मिणमन्तरेणान्यत्रावतिष्टन्ते ।

नह्यनायके नायकधर्माणामन्वयो युज्यते ।

अन्यधर्माणामन्वयत्रान्वयासंभवात् ।

अत एवान्यरोप्यमाणोऽन्यवहारोऽन्यत्र न संभवतीति तदविनाभावात्स्वव्यवहारिणमाक्षिपतीत्याक्षिप्यमाणेनाप्रस्तुतेन धर्मिणैव प्रस्तुतो धर्म्यवच्छ्रिद्यतेन पुनराच्छ्राद्यते ।

तथात्वे ह्यप्रस्तुतेन प्रस्तुतस्य रूपरूपितत्वाद्रूपसमारोपः स्यान्न व्यवहारसमारोपः ।

अत एवाह-प्रस्तुतस्य रूपरूपितत्वाद्रूपसमारोपः स्यान्न व्यवहारसमारोपः ।

अत एवाह-प्रस्तुतावच्छेदकत्वेनेति ।

अत एवाप्रस्तुतस्य गम्यत्वे इति सूत्रितं ।

एवं समासोक्तौ व्यवहारसमारोपादप्रस्तुतेन प्रस्तुतस्य वैशिष्टम्लक्षणमवच्छ्रेदकत्वं विधयते ।

रूपके तु रूपसमारोपाद्रूपितत्वाख्यमाच्छ्रादकत्वमित्यनिर्भेदः ।

तेनऽविशेषणानां साम्यादप्रस्तुतधर्मावच्छ्रेदऽ इत्यपास्यास्मल्लक्षणानुगुण्येनैव विशेषणसाम्यादप्रस्तुतावच्छेदः समासोक्तिरित्येव सूत्रणीयं ।

अतिशयोक्त्याशङ्का पुनरत्र निष्प्रमाणिकैव ।

विषयस्योपादानाद्विषयिणश्चानुपादानात् ।

__________

अ.स. ३२ ।१ः

#<

तच्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भवत्त्रिधा भवति तत्र श्लिष्टतया यथा -ऽउपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखं ष यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम्ऽ । ।

अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्ना नायकव्यवहारप्रतिपत्तिः ।

अपरित्यक्तस्वरूपयोर्निशाशशिनोर्नायकताख्यधर्मविशिष्टयोः प्रतीतेः ।

साधारण्येन यथा -ऽतन्वी मनोरमा बाला लोलाक्षी पुष्पहासिनी ।

विकासमेति सुभग भवद्दर्शनमात्रतःऽ । ।

अत्र तन्वीत्यादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः ।

तत्र च लतैकगामिविकासाख्यधर्मससारोपः कारणं ।

अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः ।

विकासश्च प्रकृते उपचरितो ज्ञेयः ।

एवं च कार्यसमारोपेऽपि ज्ञेया ।

इयं च समासोक्तिः पूर्वापेक्षयास्पष्टा ।

>#


विमर्शिनी

३२ ।१ः

तदिति अप्रस्तुतस्य गम्यत्वे निमित्तं ।

तत्रेति निर्धारणे ।

नायकेति सरूपयोरेकशेषः ।

अपरित्यक्तस्वरूपयोरिति ।

रूपरूपितत्वे हि परित्यक्तं स्वस्वरूपं स्यात् ।

तत्रेति ।

लताव्यवहारप्रतीतौ ।

ननु यदि लतैकगम्येव विकासाख्यो धर्मस्तत्कथं प्रकृते संगच्छत इत्याशङ्क्याह-विकास इत्यादि ।

एतदेवान्यत्रापि योजयति-एवमित्यादिना ।

तदेवं साधारण्येन समासोक्तेर्विशेषणसाम्ये सत्यप्यप्रकृतसंबन्धि धर्मकार्यंसमारोपमन्तरेण तद्वयवहारप्रतीतिर्न भवतीति सिद्धं ।

__________

अ.स. ३२ ।२ः

#<

औपम्यगर्भत्वेन यथा-

ऽदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।

केशपाशालिवृन्देन सुवेषा हरिणेक्षणाऽ । ।

अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन कृते समासे पश्चाद्दन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेषणमाहात्म्याल्लताव्यवहारप्रतीतिः ।

अत्रैवऽपरीता हरिणेक्षणाऽ इति पाठे उपमारूपसाधकबाघकाभावात्संकरसमाश्रयेण कृते योजने पश्चात्पूर्ववत्समासान्तरमहिम्ना लताप्रतीतिज्ञंया ।

रूपकगर्भत्वेन तु समासान्तराश्रयणात्समानविषेषणत्वं भवदपि न समासोक्तेः प्रयोजकं ।

एकदेशविवर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् ।

न च पूर्वदर्शितोपमासंकरविषये एष न्यायः ।

उपमासंकरयोरेकदेशविवर्तिनोरभावात् ।

तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधं ।

अश्लिष्टं यथा-

ऽनिरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः ।

धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्पार्ततरं ररासऽ । ।

अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्टृपुरुषनिरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते ।

श्लिष्टं यथा-

ऽमदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चयन्विचकिल-बृहत्पत्त्रन्यस्तद्विरेफमषीलवैः ।

कुटिललिपिभिः कं कायस्थं न नाम विसूत्रयन्व्यधित विरहिप्राणेष्वायव्ययावधिकं मधुःऽ [श्री. च. ६७०] । ।

अत्र हि पत्त्रलिपिकायस्थशब्देषु श्लेषगर्भे रूपकं द्विरेफमषीलवैरित्येतद्रूपकनिमित्तं ।

अस्य च प्रचुरः प्रयोगविषय इति न समासोक्तिबुद्धिः कार्या ।

>#


विमर्शिनी

३२ ।२ः

सुवेषत्वं प्रकृतार्थं एवानुगुणमित्युपमायाः साधकं अतश्च तत्समासाश्रयः ।

समासान्तराश्रयणेनेति ।

यद्यप्यत्रोपमासमास एव स्थितस्तथाप्युपमानोपमेययोर्व्यत्ययादेव समासान्तरत्वमुक्तं ।

पूर्वापेक्षवास्यान्ययात्वात् ।

अत्रैवेति दन्तप्रभेत्यादौ ।

उपमारूपकसाधकबाधकाभावादिति ।

पर्रीतत्वस्य हि प्रकृताप्रकृतयोस्तथा नानुगुण्यमिति साधकत्वाभावः ।

तथा च न विगुणत्वमिति बाधकत्वाभावः ।

अतश्चैकपक्षाश्रयाभावादुपमारूपकयोः संदेहसंकरः ।

तस्य समाश्रय उभयसमासग्रहणं ।

तच्चैकस्मिन्नेव वाक्ये न संभवतीति कामक्षारेण तयोर्ग्रहणं ।

संकरसमाश्रयेणाप्युपमासमासयोच्चने कृते यद्वदयमेवालङ्कारस्तद्वद्रूपकसमासयोजजनेऽपि किमथमेव किमुतालङ्कारान्तरमित्याशङ्क्याह-रूपकेत्यादि ।

एवच्च साक्षादपि रूपकगर्भे समासे योज्यम्

,

समानन्यायत्वात् ।

यद्येवं तर्झुपमासमाश्रयेऽप्येकदेशविवर्त्युपमामुखेनैवार्थान्तरप्रतीतेः किं नैतद्भवतीत्याशङ्क्याह-न चेत्यादि ।

एष इति रूपकोक्तः ।

अभावादिति उद्भटमतेन ।

यदाहुः -

ऽन च रुद्रटस्येवोद्भटस्यैकदेशविवर्तिरूपकवदुपमासंकरावेकदेशिनौ स्तःऽ अतश्चैतत्तन्मताभिप्रायेणोक्तं ।

ग्रन्थकृन्मते हि वक्ष्यमाणनीत्या तयोः संभवः ।

ननु यदि तयोर्ग्रन्थकृन्मते संभवस्तदौपम्यगर्भविशेषणोत्थापितः समासोक्तिप्रकारस्तर्हि न संभवति ।

तस्यैकदेशविवर्तिरूपकवदेकदेशविवर्तिभ्यामुपमासंकराभ्यामेवार्थान्तरप्रतीतिसिद्धेर्वैयर्थ्यात् ।

नैतत् ।

यतोऽस्त्येव तावदौपम्यगर्भविशेषणहेतुकत्वं समासोक्तेः ।

किन्त्वेतदन्यभेदसहचरितमेवास्या निमित्ततां भजते न पुनः केवलं ।

तथात्वे हि विशेषणानामौपम्यगर्भत्वे एकदेशविवर्तिन्या उपमायाः प्रात्पिः ।

तत्र श्लिष्टत्वसहचरितमेतद्यथा -

ऽपरिपिञ्जरितासिताम्बरैर्निबिडैः कं न हरन्ति हारिभिः ।

अयि सायमिमाः पयोधरैः स्फुटरागाश्चलतारका दिशःऽ । ।

अत्रऽस्फुटसंध्यातपकुङ्कुमैःऽ इति पाठे संध्यातपकुङ्कुमैरित्यौपम्यगर्भं विशेषणं ।

साधारण्यसहचरितं यथा -

ऽतन्वी मनोरमा बाला लोलाक्षी स्तबकस्तनी ।

विकासमेति सुभग भवद्दर्शनमात्रतःऽ । ।

अत्र स्तबकस्तनीत्यौपम्यगर्भं विशेषणं ।

शुद्धकार्यसमारोपसहचरितं यथा -

ऽसमारुरोहोपरिपादपानां लुलोठपुष्पोत्कररेणुपुञ्जे ।

लताप्रसूनांशुकमाचकर्षं क्रीडन्वने किं न चकार चैत्रःऽ । ।

अत्र प्रसूनांशुकमित्यौपभ्यगर्भविशेषणं ।

केवलत्वे पुनरेतेषामेकदेशविवर्तिन्युपमैव यथा -

ऽबभौ लोलाधरदलस्फुरद्दशनकेसरं ।

भ्रूविलासालिवलयं ललितं ललनामुखम्ऽ । ।

अत्र ललितत्वमुपमासाधकं ।

समासान्तराश्रयात्समानविशेषणत्वं भवदपि नात्र समासोक्तेः प्रयोजकं ।

एकदेशविवर्त्युपमामुखेनैवार्थान्तरप्रतीतेस्तस्या वैचथ्यात् ।

एवं दन्तप्रभेत्यादावपि ज्ञेयं ।

दन्तप्रभाः पुष्पाणीवेत्येव समासे कृते उपमानभूताया लतायाः प्रतीतिसिद्धेः समासान्तराश्रयेणागतायास्तत्प्रतीतेर्व्यर्थत्वात् ।

अप्रकृतागूरणे हि कवेः संरम्भः तच्चानयैव सिद्धमिति किं समासोक्त्या ।

चिरन्तनानुरोधात्पुनरत्र ग्रन्थकृतासमासोक्तिरुक्ता ।

यत्तुऽयत्र समासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरुक्ताऽ इति वक्ष्यति तदपि चिरन्तनानुरोधपरमेव ।

अन्यथा हि समानन्यायत्वादेकदेशविवर्तिनि रूपकेऽपि यत्र समानविशेषणत्वं योजयितुं शक्यं तत्रापि समासोक्तिरिति किं नोक्तं ।

यत्तु नोक्तं तद्युक्तं ।

रूपकमाहात्म्यात्प्रथममेव तत्प्रतीतिसिद्धेरन्तरं समासोक्तिमुखेनाप्रकृतीतेर्वैयर्थ्यात् ।

ऽआह्लादिचन्द्रवदना स्फुरत्तारकमौक्तिका ।

घनान्धकारधम्मिल्ला राजते गगनस्थलीऽ । ।

इत्यादौ पुनरुपमायाः साधकाभावादेकदेशविवर्ति रूपकमेवेति न समासोक्तिभ्रमः कार्यः ।

न चैवमादावुपमारूपकयोः संदेहसंकरो न्याय्यः ।

तस्यालङ्कारसारकारादिभिनिराकृतत्वात् ।

समासोक्तिलक्षणावलसरे किं रूपकनिरूपणेनेत्याशङ्क्याह-अस्या इत्यादि ।


विमर्शिनी

३२ ।२अः

अस्याश्च यथोपरादितान्भेदान्संकलयति-तदेवमित्यादिना ।

__________

अ.स. ३२ ।३ः

#<

तदेवं श्लिष्टविशेषणसमुत्थापितैका ।

साधारणविशेषणसमुत्थापिता तु धर्मकार्यसमारोपाभ्यां द्विभेदा ।

औपम्यगर्भविशेषणसमुत्थापितोपमासंकरसमासाभ्यां द्विभेदा ।

रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः ।

तदेवं पञ्चप्रकारा समासोक्तिः ।

इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्वेन प्रथमं त्रिधा समासोक्तिः ।

विशेषणसाम्यं च पञ्चप्रकारं निर्णीतं ।

सर्वत्र चात्र व्यवहारसमारोप एव जीवितं ।

स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः ।

शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः ।

लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः ।

शास्त्रीये वा लौकिकवस्तुव्यवहारमारोप इति चतुर्धा भवति ।

तदेवं बहुप्रकारा समासोक्तिः ।

>#


विमर्शिनी

३२ ।३ः

भेदद्वयमिति साक्षात्संदिह्यमानत्वेन वा ।

न विषय इति ।

यथोक्तोपपत्ते रूपक एव विश्रान्तेः ।

प्रथममिति ।

एतद्भेदत्रयमस्या मूलभूतमित्यर्थः ।

उक्तं पुनः प्रकारपञ्चकमस्या अवान्तरभेदरूपं ।

विशेषणसाम्यस्यैतद्भेदत्वात् ।

यद्यपि शुद्धकार्यसमारोपेऽपि विशेषणसाम्यभेवास्ति तथाप्यत्र शुद्ध एव कार्यसमारोप उद्भिक्ततया प्रतीयत इति तस्य पृथग्मेदत्वमुक्तं ।

सर्वत्रेति भेदसत्पके ।

बहुप्रकारेति ।

लौकिकादीनां व्यवहाराणामानन्त्यात् ।

__________

अ.स. ३२ ।४ः

#<

तत्र शुद्धकार्यसमारोपेण यथा-

ऽविलिखति कुचावुच्चैर्गाढं करोति कचग्रहं लिखति ललिते वक्त्रे पत्त्रावलीमसमञ्जसां ।

क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं मरुभुवि हठात्त्रस्यन्तीनां तवारिमृगीदृशाम्ऽ । ।

अत्र पत्त्रावलीविलेखनादिशुद्धकार्यसमारोपात्खदिरस्य हठकामुकत्वप्रतीतिः विशेषणसाम्येनोदाहृता ।

>#


विमर्शिनी

३२ ।४ः

उदाहृतमिति-उपोढरागेणेत्यादिना ।

__________

अ.स. ३२ ।५ः

#<

उभयमयत्वेन यथा -

ऽनिर्लूनान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः कर्णे रुग्जनिता कृतं च नयने नीलाब्जकान्ते क्षतं ।

यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरसैः किं किं कण्टकिभिः कृतं न तरुभिस्त्वद्वैरिवामभ्रुवाम्ऽ । ।

अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यं ।

निर्लूनान्यलकानीत्यादिषु कार्यसमारोपः ।

व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणं ।

यथा-

ऽद्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्धाम्बरां शशिकलामलिखत्कराग्रैः ।

अन्तर्निमग्रचरपुष्पशरोऽतितापात्किं किं चकार तरुणो न यदीक्षणाग्निःऽ । ।

लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यं ।

ऽयैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिख्ययमसंख्यतया प्रवृत्तं ।

लोपः कृतः किल परत्वजुषो विभक्ते- स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्येऽ । ।

अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः ।

ऽसीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं न स्पृष्टं वचसा कदाचिदपि यद्दृष्टोपमानं न यत् ।

अर्थादापतितं न यन्न च न यत्तत्किञ्चिदेणीदृशां लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकम्ऽ । ।

अत्र लावण्ये लौकिके वस्तुनि मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः ।

एवं तर्कायुर्वेदज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः ।

यथा-

ऽस्वपक्षलीलाललितैरुपोढहेतौ स्मरे दर्शयतो विशेषं ।

मानं निकारर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत्ऽ । ।

अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः ।

पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः ।

ऽमन्दमग्रिमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः ।

दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसंनिधौऽ । ।

अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः ।

ऽगण्डान्ते मददन्तिनां प्रहृरतः क्ष्मामण्डले वैधृते रक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवं ।

पूर्वामत्यजतः स्थितिं शुभकरीमासेव्यमानस्य ते वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम्ऽ । ।

अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः ।

ऽप्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै- रपि ज्ञेयो नो यः परिमितगतित्वं परिजहृत् ।

अपूर्वव्यापारो गुरुवर! बुधैरित्यवसितो न वाच्यो नो लक्ष्यस्तव सहृदयस्यो गुणगणःऽ । ।

अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः ।

तथा ह्यत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते ।

यतो रसो न तात्पर्यशक्तिज्ञेयः ।

नाप्यनुमानविषयः ।

न शब्दैरभिधाव्यापारेण वाच्यीकृतः ।

न लक्षणागोचरः ।

किं तु विगलितवेद्यानतरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्वव्यापारविषयीकृतोऽनुकार्यानुकर्तृगतत्वपरि हारेण सहृदयगत इति प्रसर्पत्तात्पर्यैरित्यादिपदै रस एव प्रतीयते ।

एव प्रतीयते ।

एवमन्यदपि ज्ञेयं ।

>#


विमर्शिनी

३२ ।५ः

क्रमेणेति यथोद्देशं ।

मीमांसेत्यत्रोत्तरमीमांसा विवक्षिता ।

तत्र कहि निखिलप्रमाणागोचरं परमात्मस्वरूपं दर्शितं ।

तद्व्यवहारसमारोपोऽत्र कृतः ।


विमर्शिनी

३२ ।५अः

न तात्पर्येति ।

यदुक्तम्-

ऽनाभिधैवं न तात्पर्यं लक्षणानुमितिर्नं वा ।

ध्वन्यन्तर्भावने शक्ता भेदेन विषयस्थितेःऽ । ।

इति । ।

अनुकार्यो रामादिः ।

अनुकर्ता नटादिः ।

तद्गचरश्च न रसः प्रतीयते ।

यदुक्तम्-ऽनानुकार्येऽपि रामादौ नटादौ नानुकर्तरि ।

रसः सचेतसां किं तुऽ इति ।

अन्यदिति ।

अन्यशास्त्रप्रसिद्धवस्तुसमारोपलक्षणं ।

__________

अ.स. ३२ ।६ः

#<

ऽपश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमाभ्यन्तरे यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिहासारसात् ।

चाटूच्चारणचापलं विदधतां वाक्तत्र बाह्या कथं देव्या ते परया प्रभो सह रहःक्रीडादृढालिङ्गनेऽ । ।

अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोप ।

लौकिकवस्तुव्यवहारश्च रसादिभेदाद्बहुभेद इत्युक्तं प्राक् ।

तत्र शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथञ्चिद्योज्यं ।

>#


विमर्शिनी

३२ ।६ः

तदित्थं सप्रपञ्चां समासोक्तिं प्रतिपाद्य पुनरपि सहृदयानां हृदयङ्गमीकर्तुं ग्रन्थकृदेतत्प्रतीर्ति विभागेन लक्ष्ये योजयति-इह त्वित्यादिना ।

__________

अ.स. ३२ ।७ः

#<

इह तु–

ऽऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभं ।

प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकारऽ । ।

इत्यत्रास्ति तावद्रविशशिनोर्नायकत्वप्रतीतिः ।

न चात्र विशेषणसाम्यमिति सा कुतस्त्या ।

प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदोनायिकात्वप्रतीतौ तदुनुगुण्यात्तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेतार्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्द्रिष्टं ।

न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात् ।

तत्कथमत्र ध्यवस्था ।

अत्रोच्यते-एकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता तत्सा केन प्रतिषिद्धा ।

सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि संभवात् ।

अथात्र नोपमानत्वेन नायकः स्वस्वरूपेण प्रतीयते अपितु रविशशिनोरेवनायकत्वप्रतीतिः ।

तयोरत्र नायकत्वात् ।

तदत्रार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम्

,

इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः

,

यथाऽदध्ना जुहोतिऽ इत्यादौ दध्नि संचर्यते विधिः ।

एवमियमुपमानुप्राणिता समासोक्तिरेव ।

इह पुनः इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या

,

विशेषणसाम्याभावात् ।

तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या

,

गत्यन्तरासंभवात् ।

यैस्तुनोक्ता तेषामप्युपसंख्येयैव ।

यत्र तुऽकेशपाशालिवृन्देनऽ इत्यादौ समासोक्तायामुपमायां समासन्तरिण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् ।

>#


विमर्शिनी

३२ ।७ः

अविप्रतिपत्तिद्योतनार्थस्तावच्छ्रब्दः ।

कुतस्त्येति ।

किमस्या निमित्तमितिभावः ।

तदानुगुण्यादिति ।

शरदो नायिकात्वप्रतीत्यनुगुणत्वात् ।

तयोरिति रविशशिनोः ।

कथमिति ।

अप्रकृतार्थाननुगुणत्वात्साम्यायोगात् ।

कथमत्र व्यवस्थेति ।

विशेषणसाम्यायोगात्समासोक्तेरप्रात्पेरेकदेशविवर्तिन्या उपमाया अनुक्तत्वात् ।

सामान्यलक्षणेति ।

उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमेति ।

एवमेकदेशविवर्त्युपमासामर्य्थादेवात्र नायककत्वप्रतीतिरिति भावः ।

अथेति पक्षान्तरे ।

यदि चात्र पूर्वोक्तयुक्त्यैवानुगुण्याद्रविशशिनोः समासोक्तिमुखेन नायकत्वप्रतीतिस्तदार्द्रनखक्षताभमिति विशेषणं कथं साम्येन योजयितुं शक्यमित्याशङ्क्याह-तदत्रेत्यादि ।

एतदेव शास्त्रान्तरप्रसिद्धदृष्टान्तमुखेन हृदयङ्गमीकरोति-यथेत्यादिना ।

अग्निहोत्रं जुहुयादित्यनेनोत्पत्तिविधिवाक्येन हि होमो विहितः ।

तस्य च पुनर्विधानमदग्धदहनन्यायेन यावदप्रात्पं तावद्विधेर्विषय इत्यभ्युपगमात्र युज्यत इति तत्राप्युक्तत्वादुपपदे दध्नि संचार्यत इत्यर्थः ।

उपमानुप्राणितेति ।

औपम्यगर्भविशेषणोत्थापितेत्यर्थः ।

समासोक्तिरेवेति ।

न पुनरेकदेशविवर्तिन्युपमा ।

गत्यन्तरमलङ्कारान्तरं ।

यैरित्युद्भटादिभिः ।

यत्रत्वित्यादेर्ग्रन्थस्य पूर्वमेवास्माभिरभिप्राय उक्तः ।

__________

अ.स. ३२ ।८ः

#<

सा च समारोक्तिरर्थान्तरन्यासे कचित्समर्थ्यगतत्वेन कचित्समर्थकगतत्वेन च भवति ।

क्रमेण यथा-

ऽअथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा ।

कासां न सौभाग्यगुणोऽङ्गनानां नष्टं पिरभ्रष्टपयोधराणाम्ऽ । ।

ऽअसमात्पजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।

अनाक्रम्य जगत्सर्वे नो संध्यां भजते रविःऽ । ।

अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोर्नायकव्यवहारप्रतीतौ समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते ।

सामान्यस्य चात्र श्लेषवशादुत्थानं ।

शान्ततडित्कटाक्षेत्यौपम्यगर्भे विशेषणं समासान्तराश्रयेणात्र समानं ।

असमात्पेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्यापनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते ।

ऽआकृष्टिवेगविगलद्भुजगेन्द्रभोगनिमोकपट्टपरिवेषतयाम्बुराशेः ।

मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरवेष्टत पादमूलेऽ । ।

अत्र निर्मोकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तच्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसीयते ।

तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति ।

सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्तिं गर्भीकरोति ।

एवं चोत्प्रेक्षासमासोक्त्योरेकः कालः ।

एवंऽनखक्षतानीव वनस्थलीनाम्ऽ इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव ।

एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा स्वयमुत्प्रेक्ष्या ।

>#


विमर्शिनी

३२ ।८ः

सेत्युक्तप्रपञ्चा ।

सामान्यस्येत्यङ्गनाशब्दस्य स्त्रीत्वमात्राभिधानात् ।

श्लेषदवशादिति

,

पयोधराणां हि श्लिष्टत्वं ।

लिङ्गविशेषेति

,

रविसंध्ययोः पुंस्त्रीरूपेण कार्यं भजनाख्यं ।

एवमन्यालङ्कारसंमिश्रत्वमप्यस्या दर्शियति-आकृष्टीत्यादिना ।

सेत्युत्प्रेक्षा ।

एकः काल इति ।

ज्ञत्पौ समासोक्तिगभीङ्कारेणैव्रोत्प्रेक्षाया उत्थानात् ।

एवमिति ।

यथोक्तगत्येत्यर्थः ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ३३ः

#<

विशेषणसाभिप्रायत्वं परिकरः । । अ.स. ३३ । ।

विशेषणवैचित्र्यप्रस्तावादस्येह निर्देशः ।

विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः ।

अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः ।

एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम ।

ऽराज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च ।

पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसःऽ । ।

अत्र राज्ञ इत्यादौ सोत्प्रासत्वपरं प्रसन्नगम्भीरपदत्वं ।

एवम्-

ऽअङ्गाज सेनापते राजवल्लभ द्रोणोपहासिन्कर्णं

,

सांप्रतं रक्षैनं भीमाद्दुःशासनम्ऽ इत्यादौ ज्ञेयं ।

>#


विमर्शिनी

३३ः

विशेषणेत्यादि ।

इहेति समासोक्त्यानन्तरं ।

विशेषणानां चात्र बहुत्वमेव विवक्षितं ।

अन्यथा ह्यपुष्टार्थस्य दोषत्वाभिधानात्तन्निराकरणेन स्वीकृतस्य पुष्टार्थस्यायं विषयः स्यात् ।

एवमेवंविधानेकविशेषणोपन्यासद्वारेण वैचित्र्यातिशयः संभवतीत्यालङ्कारत्वं ।

प्रतीयमानार्थस्य वाच्योन्मुखत्वेन प्राधान्याभावाद्गभीङ्कारस्तदन्तः कृतत्वं ।

अत एवेति प्रतीयमानार्थस्य प्राधान्याभावात् ।

प्रसच्चत्वं वाच्यस्यैव प्राधान्येन निर्देशात् ।

गम्भीरत्वं प्रतीयमानस्याप्यर्थस्य गुणीभावेन गर्भीकारात् ।

यत्र च प्रतीयमानं प्रति उपसर्जनीकृतस्वर्थयोः शब्दार्थयोरवस्थानां स ध्वनेः स एव विषयःऽ इति ।

अत्र च न तथात्वमित्युक्तं नायं ध्वनेर्विषय इति ।

अत एव नामाप्यस्य यौगिकमित्याह-एवं चेत्यादि ।

सोत्प्रासत्वपरमिति ।

तथा च राज्ञो जगद्रक्षितव्यमस्य पुनरनुजमात्ररक्षणासिद्धेरन्यदेव नाममात्रेण राजात्वमित्युपहासपरत्वं ।

एवमन्येषामपिस्वयमेवैतदवगन्तव्यं ।

आदिशब्देन-

ऽयस्यैकस्यैव दोष्णां जयति दशशती सान्वयो द्वारि रुद्रः कारागारे सुराणां पतरपि च शची चामरव्यग्रहस्ता ।

कन्या तस्येयमेका रजनिचरपतेरेष शुद्धान्तमेको बालो निःशङ्कमस्याः प्रविशति च नमस्तेऽसे वैष्णवायऽ । ।

इत्यादावपि विशेषणानां प्रसच्चगम्भीरत्वं ज्ञेयं ।

____________________________________________________________

S

ठाऱ्ठ्

S

ऊत्र ३४ः

#<

विशेष्यस्यापि साम्ये द्वपौर्वोपादाने श्लेषः । । अ.स. ३४ । ।

केवलविशेषसाम्यं समासोक्तावुक्तन् ।

विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते ।

तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्रकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः ।

तत्राद्यं प्रकारद्वयं विशेषणविशेष्यसाम्य एव तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति ।

विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्तरगतध्वनेर्विषयः स्यात् ।

आद्ये तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वं ।

अत एवात्र -ऽद्वयोर्वोपादानेऽ इति तृतीयप्रकारविषयत्वेनोक्तं ।

ऽविशेष्यस्यापि साम्येऽ इति तु शिष्टप्रकारद्वयविषयं ।

>#


विमर्शिनी

३४ः

विशेष्यस्यापीत्यादि ।

इदमिति श्लेषलक्षणं ।

आद्यमिति ।

प्राकरणिकगतत्वेनाप्राकरणिकगतत्वेन च ।

एवकारश्चात्र भिन्नक्रमो द्रष्टव्यः ।

तेन प्रकारद्वयमेवेति व्याख्येयं ।

अतश्च तृतीयः प्रकारो विशेषणसाम्य एव भवतीति व्यावच्छ्रेदफलं ।

अन्यथा हि प्रकारद्वयस्यास्य विशेष्यसाम्याभावेऽपि दर्शनादव्यात्पिः स्यात् ।

तद्यथाऽसंचारपूतानि निगन्तराणिऽ इत्यादि ।

अत्र प्रभाधेन्वोर्द्वयोः प्रकृतयोर्विशेष्ययोः साम्याभावः ।

ऽआबहूतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः ।

उत्सृत्ष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा योधा दैववधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनःऽ । ।

अत्र स्तनयोधयोरप्रकृतयोर्विशेष्ययोः साम्याभावः ।

विशेषणसाम्य एवेति न पुनर्विशेष्यसाम्ये ।

एतदपि विशेष्यसाम्ये किं न भवतीत्याशङ्क्याह-विशेष्यसाम्ये त्वित्यादि ।

यथा -

ऽलङ्कालऽणं पुत्ता वसंतमासम्मि लद्धपसराणं ।

आपीअलोहिआणं वीहेइ जणो पलासणम्ऽ । ।

(

ऽलङ्कालयानां पुत्रक! वसन्तमासे लब्धप्रसराणां ।

आपीतलोहितानां बिभेति जनः पलाशानाम्ऽ) । ।

अत्र पलाशानामिति विशेष्यस्यापि श्लिष्टत्वं ।

प्रकरणवशाच्च वृक्षविशेषणमेववाच्यत्वनियमात्प्रस्तुतत्वेन निशाचराणामप्रस्तुतानां व्यङ्ग्यत्वं ।

अत्र चोपमाया एव व्यङ्ग्यत्वं युक्तं नातिशयोक्तेरिति प्रकृतानुपयोगादिह नोक्तं ।

ननु च यथैवायं ध्वनिर्विषयस्तथैवाद्यमपि भेदद्वयं किं न भवतीत्याशङ्क्याह-आद्य इत्यादि ।

वाच्यत्वमिति

,

अत एव न ध्वनेर्विषयः ।

तस्य वाच्यातिरिक्तन्वरूपत्वात् ।

तृतीयप्रकारविषयत्वेनेति प्राधान्यादुक्तं ।

आद्यस्यापि प्रकारद्वयस्य द्वयोरुपादानसंभवात् ।

__________

अ.स. ३४ ।१ः

#<

क्रमेण यथा-

ऽयेन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गा च योऽधारयत् ।

यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवःऽ । ।

ऽनीतानामाकुलीभावं लुब्धैर्भुरिशिलीमुखैः ।

सदृशे वनवृद्धानां कमलानां तदीक्षणेऽ । ।

ऽस्वेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखं ।

मोहात्समाक्षिपति जीवितमप्यकाण्डे कष्टं मनोभव इवेश्वरदुर्विदग्धःऽ । ।

अत्र हरिहरयोर्द्धयोरपि प्राकरणिकत्वं ।

पद्मानां मृगाणां चोपमानत्वादप्राकरणिकत्वरं ।

इश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वं ।

एवं च शब्दार्थोभयगतत्वेन वर्तमानत्वात्त्रिविधः ।

तत्रोदात्तादिस्वरभेदात्प्रयन्तभेदाच्च शब्दान्यत्वे शब्दश्लेषः ।

यत्र प्रायेण पदभङ्गो भवति ।

अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति ।

अत एव न तत्र सभङ्गपदत्वं ।

संकलनया तूभयश्लेषः ।

यथा-

ऽरक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः ।

निरस्य पुष्पेषु रुचिं समग्रां पद्मा विरेजुः श्रमणा यथैवऽ । ।

अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः ।

नालमित्यादौ शब्दश्लेषः ।

उभयघटनायामुभयश्लेषः ।

ग्रन्थगौरवभयात्तु पृथङ्नोदाहृतं ।

>#

******************************

]