अलङ्कारसर्वस्वम्

[[अलङ्कारसर्वस्वम् Source: EB]]

[

[TABLE]

[TABLE]

अलंकारसर्वस्वस्य सूचीपत्रम् ।

<MISSING_FIG href="../books_images/U-IMG-1707456923d.PNG"/>

[TABLE]

[TABLE]

काव्यमाला ।

<MISSING_FIG href="../books_images/U-IMG-1707456737c.PNG"/>

श्रीमद्राजानकरुय्य(च)कप्रणीतम्

अलंकारसर्वस्वम् ।

श्रीमद्राजानकजयरथप्रणीतयालंकारविमर्षिणीसमाख्यया व्याख्यया समेतम् ।

<MISSING_FIG href="../books_images/U-IMG-1707456804d.PNG"/>

नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् ।
निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यते॥

__________

मङ्गलकामनया ग्रन्थकृन्निजेष्टदेवताप्रणामपुरःसरमभिधेयं तात्पर्य चैकेनैव वाक्येन परामृशति—नमस्कृत्येति । परां वाङ्मयाधिदेवतां पराख्यां शब्दब्रह्मणोऽपृथग्भूतां शक्ति परां वाचं देवीं त्रिविधविग्रहां बहिरुल्लिलसियिषया पश्यन्तीमध्यमावैखरीरूपेण प्रकारत्रयेणाधिष्ठितशरीरां नमस्कृत्य निर्विघ्नचिकीर्षितग्रन्थसमाप्तये तां प्रति कायवाङ्मनोभिः प्रह्वीभूय निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति मङ्गलान्वययोजना । तथा चात्रोक्तलक्षणार्थविस्तरः— ‘येयं विमर्शरूपैव परमार्थचमत्कृतिः ।सैव सारं पदार्थानां परा वागभिधीयते ॥ नादाख्या सर्वभूतेषु जीवरूपेण संस्थिता । अनादिनिधना सैव सूक्ष्मा वागनपायिनी ॥ अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ वैखरी शब्दनिष्पत्तिर्मध्यमा स्मृतिगोचरा । द्योतिकार्थस्य पश्यन्ती सूक्ष्मा ब्रह्मैव केवलम् ॥ ‘इत्यादिशास्त्रोक्तिक्रमेण सर्वत्र सदोदितायाः सूक्ष्मायाः परायाः शब्दब्रह्मणः शक्तेर्बहिरुन्मिषन्त्याः प्रथमो विवर्तः पश्यन्ती नाम । तथा चोक्तम्— ‘अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥” इति । अस्यार्थः— अविभागा स्थानकरणप्रयत्नप्रकारेण वर्णानां विभागहीना अत एव संहृतक्रमा तथैवान्तःस्वरूपज्योतिः स्वयंप्रकाशा स्वस्यात्मनो रूपं ज्योतिश्च सर्वत्र हि सर्वविधायिनी शक्तिरेवेति वान्तः सूक्ष्मबीजादङ्कुरमिव बहिरुन्मिषन्ती किंचिदुच्छूना पराया मध्यमायाश्चावस्थां तटस्था पश्यतीति पश्यन्तीत्युच्यते । ततः परं तु— ‘अन्तः संकल्परूपा या क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते ॥ एतत्कथयामीति विमर्शरूपा अन्तःसंकल्परूपा प्राणवृत्तिमतिक्रम्य श्रोत्रग्राह्यवर्णाभिव्यक्तिरहिता क्रमरूपानुपातिनी मानसिकवर्णोच्चारणक्रमेण द्वितीयो विवर्तो मध्यमारूपो जायते । मध्यमा किल द्वयोर्वाग्विवर्तयोः पश्यन्तीवैखरीसंज्ञयोर्मध्ये

वर्तनान्मध्यमेत्युच्यते । तदनन्तरं च ‘स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक्प्रयोक्तृणां प्राणवृत्तिनिबन्धना ॥ इति लक्षणात्स्थानकरणप्रयत्नक्रमव्यज्यमानः श्रोत्रग्राह्यदुन्दुभिवीणादिनादपरिचयो गद्गदाव्यक्तगकारादिविलास- समुच्चयपदवाक्यात्मकतृतीयो विवर्तो वैखरीत्युच्यते । विशिष्टं खमाकाशं मुखरूपं राति गृह्णातीति विखरः प्राणवायुसंचारविशिष्टो वर्णोच्चारस्तेनाभिव्यक्ता वैखरीति । विखरे शरीरे भवा वैखरीति वा केचित् । सिद्धोमङ्गलार्थः। तथा चात्र पूर्वार्ध एव पुनरावृत्त्याभिधेयपदार्थान्वययोजना— यथा परां वाचमुत्तमकाव्यरूपतया काव्यात्मध्वनिसंज्ञां अभिधातात्पर्यलक्षणोत्तीर्णामुत्कृष्टाम् । देवीम् ‘दिनु क्रीडाविजिगीषाद्युतिस्तुतिव्यवहारमोदम-दकान्तिस्वप्नगतिषु’ इति यथायथं धात्वर्थानामनुस्मरणात् शक्तिमतां कवीनां श्रोतृणां च स्वभावात्स्वेच्छया समुच्छलन्तीं क्रीडन्तीम् । तथा देवीं विजिगीपुं शब्दं तत्संकीर्तितं चार्थमुपसर्जनीकृत्य वर्तमानाम् । तथा देवीं द्योतमानां द्योतनध्वननयोः पर्यायत्वाद्भ्ववासिंज्ञाम् । तथा देवीं स्तुत्यां सर्वैः काव्यात्मत्वादभिवन्द्याम् । तथा देवीं व्यवहरन्तीं सर्वत्र प्रचरितां न तु क्वापि स्खलिताम् । तथा देवीं मोदमानां श्रुतिमात्रेणैव परमानन्ददायिनीम् । तथा देवीं माद्यन्तीं कवेः सहृदयस्य च यथायथं करणावबोधाभ्यां कमप्यहंकारं जनयन्तीम् । तथा देवीं कमनीयां सर्वैरभिलषणीयाम् । त्रिविधविग्रहां त्रिविधस्त्रिप्रकारो विग्रहो व्यतिरेकेण ग्रहो व्यतिरेकमूलः प्रमाकरणप्रकारो यस्यास्ताम् । तथा हि ‘गङ्गायां घोषः’ इत्यादिवाक्येषु घोषस्य यच्छेत्यपावनत्वादिकं प्रतीयते तत्र नाभिधा । गङ्गादिशब्दानां शैत्याद्यर्थस्यावाचकत्वात् । न तात्पर्यात्मा । तात्पर्यशक्त्या ह्याधाराधेयभावागमार्थे परस्परमन्वयमात्र एव क्षीणत्वात् । न लक्षणा मुख्यार्थबाधादिहेतुत्रितयाभावात् । तस्मादभिधातात्पर्यलक्षणाव्यतिरिक्त-चतुर्थकक्ष्यानिक्षिप्तो व्यञ्जनव्यापार इत्यादि सोऽयमेवाग्रे विमृष्यति विमर्षिणीकारः । अथ च व्यङ्गयस्य शब्दार्थोभयमूलत्वेन प्रसिद्धस्त्रिविध विग्रहो विशेषणानां भेदानां ग्रहो यस्या इति वा । एतादृशीं तां नमस्कृत्य मङ्गलाचरणरूपत्वेन मनामुद्दिश्य न तु सूत्रवृत्तिभ्यां तात्पर्यकथनादिलक्षणपरीक्षाविस्तरेण निर्णीय निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति । अस्याभिप्रायः— तथा च ध्वनेर्मनागुद्देशमात्रमेव करोति ‘इह हि भामह—’ इत्यादिना ।

तदेतत्तावदास्ताम्1निजेति । परकीयाणां सूत्राणां तात्पर्यकथनानवबोधोऽपि स्यादिति भावः ।तथा न कैश्चिदपि परैरीदृशि सूत्राणि कृतानीत्यपि ध्वनितम् । तात्पर्यमिति । संक्षिप्तार्थप्रकाशनमित्यर्थः । अन्यथा हि कथनमेषां बहुनापि ग्रन्थेन पारं न यायात् । ननु ‘आदिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने । प्रतिपादयितुं श्रोतृप्रेवाहोत्साह2सिद्धये []2 ॥’ इति नीत्या श्रोतृप्रवृत्त्यर्थं सर्वत्रैवादिवाक्येऽभिधेयप्रयोजनाद्यभिधीयते । तच्चेह नोक्तमिति कथमत्र श्रोतॄणां3 प्रवृत्तिः स्यात् । मैवम् । अलंकारा ह्यत्राभि-

इह हि तावद्भामहोद्भटप्रभृतयश्चिरंतनालंकारकाराः प्रतीयमानमर्थ वाच्योपस्कारकतया-लंकारपक्षनिक्षिप्तं मन्यन्ते । तथाहि—पर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्यु-पमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन ‘स्वसिद्धये पराक्षेपः परार्थौ स्वसमर्पणम्’ इति यथायोगं द्विविधया भङ्गया प्रतिपादितं तैः ।

___________

धेयाः । तेषामत्र साक्षादेवाभिधानात् । तदभिधायकं चेदमलंकारसर्वस्वाख्यं प्रकरणमित्यभिधाना-भिधेययोर्नियमगर्भीकारेणार्थाक्षिप्तो वाच्यवाचकभावलक्षणःसंबन्धः । नह्येवं विधमेतदभिधायकं प्रकरणान्तरमस्ति । तस्यान्विष्यमाणस्याप्युपलम्भयोग्यस्यानुपलम्भात् । अत एवात्रान्यालंकारग्रन्थ-वैलक्षण्योद्घोषणाय ‘तात्पर्यमुच्यते’ इत्याद्युक्तम् । अभिधेयाश्चात्रालंकाराः काव्यालंकारा न लौकिका इत्येतेषां काव्योपस्कृतिद्वारेण पारम्पर्येण ‘काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे॥’ इत्याद्युक्त4नीत्या तदविनाभावस्वभावत्वादर्थाक्षिप्तसर्व-पुरुषार्थसिद्धिरूपा चतुर्वर्गावाप्तिः प्रयोजनम् । तयोश्च साध्यसाधनभावलक्षणःसंबन्धः । इति स्थितमेवादिवाक्यस्य श्रोतृश्रवणश्रद्धाविर्भावनिबन्धनत्वम् । ननु5 यदीहालंकारा अभिधेयास्तर्हि तदलंकार्योऽप्यभिधेयः । ‘अलंकारा अलंकार्यापेक्षाः’ इति नीत्या स एवैषां को नाम यदुपस्कारकत्वेनैत-त्स्वरूपमभिधीयत इत्याशङ्कय तदवतरणिकामेव6 वक्तुमुपक्रमते—इहेत्यादिना । प्रभृतिना दण्ड्यादयः । तावच्छब्दो विप्रतिपत्त्यभावद्योतकः । चिरंतनेत्यादि । ध्वनिकारमतमेभिर्न दृष्टमिति भावः । प्रतीयमानमिति । वाच्यव्यतिरिक्तत्वेन स्वसंवेदनसिद्धमपीत्यर्थः । अर्थमिति । विश्रान्ति-स्थानतया परमोपादेयतालक्षणम् । वाच्योपस्कारकतयेति । वाच्योपस्कारकत्वं ह्यलंकाराणा-मात्मभूतम् ।अलंकारपक्षनिक्षिप्तमिति । समग्रालंकारान्तर्भूतं न पुनस्तद्वयतिरिक्तमित्यर्थः मन्यन्त इति । तथात्वेन ते मन्यन्ते न पुनस्तथा संभवतीत्यर्थः । नह्यभिमननमात्रेणैव भावानामन्यथाभावो भवतीति भावः । एतदेव दर्शयति—तथाहीत्यादिना । तैर्वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन7 प्रतिपादितमिति संबन्धः । वस्तुमात्रं न पुनरलंकारा रसश्च ।स्वसिद्धय इति । ‘कुन्ताः प्रविशन्ति’ इत्यादौ कुन्तैरात्मनः प्रवेशसिद्धयर्थ स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तैर्विना तेषां प्रवेशासिद्धेः । ‘गङ्गायां घोषः’ इत्यादौ तु गङ्गाशब्दः परत्र तटे घोषाधिकरणतासिद्धये स्वात्मानमर्पयति । स्वयं तस्य घोषाधिकरणत्वासंभवात् । यथायोगमिति । क्वचिद्धि वाच्योऽर्थः स्वसिद्धये परं प्रतीयमानमर्थमाक्षिपति । क्वचिच्च स्वयमनुपपद्यमानः सन्प्रतीयमान एवार्थे स्वं समर्पयति । तेन यत्र यादृक्तत्र तादृगेव योज्यमित्यर्थः । तत्र पर्यायोक्तं यथा— ‘अधाक्षीन्नो लङ्कामयमयमुदन्व-

न्तमतरद्विशल्यां सौमित्रेरयमुपनिनायौषधिवनात् । इति स्मारं स्मारं त्वदरिवलभीचित्रलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥’ अत्र राक्षसगणवृत्तान्तो वाच्यः सन् स्वसिद्धये परं कारणरूपमरि-पलायनाद्याक्षिपति । तत्पलायनाद्यन्तरेण राक्षसवृत्तान्तस्यासंगतेः । अप्रस्तुतप्रशंसा यथा— ‘प्राणा येन समर्पितास्तव बलाद्येन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि । तस्यास्य स्मितमात्रकेण जनयन्प्राणापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायसे ॥’ अत्र वेतालचरितमप्रस्तुतं प्रकरणादिवशेन स्वयमनुपपद्यमानं सत्प्रस्तुते कृतघ्नवृत्तान्ते स्वं समर्पयति । समासोक्तिर्यथा— ‘दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥’ अत्र बोधिसत्त्वे नायकव्यवहारो न संभवतीति स्वसिद्ध्यर्थ नायकत्वमाक्षिपति । आक्षेपो यथा— ‘किं8 भणिमो भण्णइ कित्ति अध किं वा इमेण भणिएण । भण्णिहिसि तहवि अहवा भणामि किं वा ण भणिओसि ॥’ अत्र वक्ष्यमाणविषयो भणननिषेधो वाच्यः सन्वक्तुमेवोपक्रान्तस्य निषेधानुपपत्तेः स्वयमविश्राम्यन्स्वात्मसमर्पणेन त्वां प्रति मरिष्यामि अथवा म्रिये यद्वा मृता यावदहमिति विधित्रय9मर्थान्तरमाक्षिपति । यत्त्वत्रान्यैः ‘वाच्योऽर्थः स्वसिद्धयेऽर्थान्तरमाक्षिपति’ इत्युक्तं तदयुक्तमेव10 । तथात्वे हि निषेध एव पर्यवसितः स्यात्र निषेधाभास इत्याक्षेपालंकार एव न स्यात् । आमुखावभासमानो हि निषेध आक्षेपलक्षणम् । न च विधिनिषेधयोर्विरोधात्साध्यसाधनभावो युक्तः । व्याजस्तुतिर्यथा— ‘इहिणं11 पहुणो पहुणो पहुत्तणं किं चिरंतनपहूण । गुणदोसा दोसगुणा एहिँ कआ गहु कआ तेहिं ॥’ अत्र चिरंतनानां निन्दा वाच्या सती स्वयमनुपपद्यमाना स्तुतावात्मानमर्पयति । तद्गतत्वेन वस्तुदर्शिताया निन्दाया असंभवात् । एवमद्यतनानामपि स्तुतिर्निन्दायामात्मानमर्पयति । तस्या अपि विपरीततया तद्गतत्वेनासंभवात् । यत्पुनरत्रान्यैः स्वसिद्धये पराक्षेपो व्याख्यातस्तदुपेक्ष्यमेव । यतोऽत्र चिरंतनानां स्तुत्याक्षेपेण निषिद्धा निन्दैव प्रतीयेत अद्यतनानां च निन्दाक्षेपेण निषिद्धा स्तुतिरेवेति वाक्यार्थविप्रलोप एव पर्यवसितः स्यादिति नैतद्युक्तम् । किं च लक्षणायामपि स्वसिद्धये पराक्षेपो न युक्तः । तथात्वे हि लक्षणायाः स्वरूपहानिः स्यात् । वाच्यलक्षणस्यैव स्वस्य सिद्धत्वान्मुख्यार्थबाधाभावात् । न चैकदा एकस्य बाधः सिद्धिश्चेति वक्तुं युक्तम् । विप्रतिषिद्धं ह्येतत् । वाच्यस्यैव यद्यत्र सिद्धिस्तदभिधैव स्यान्न लक्षणा । तस्या हि मुख्यार्थबाध एव जीवितम् । ‘कुन्ताः प्रविशन्ति’ इत्यादौ च कुन्तानां स्वयं प्रवेष्टुमसंभवान्मुख्यार्थबाध ए-

रुद्रटेन तु भावालंकारो द्विधैवोक्तः । रूपकदीपकापडुतितुल्ययोगिता-

____________

वेति परस्य कुन्तवद्रूपस्य लक्ष्यस्यैवार्थस्य प्राधान्यम् । अतश्च लक्षणायां बाधितः सन्मुख्योऽर्थः परत्र लक्ष्य एव स्वं समर्पयतीत्येव युक्तम् । ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिद्धयर्थ परस्य लक्ष्यस्याक्षेपः प्रतीयत इति तत्र किं प्रतिपत्तव्यम् । इदं प्रतिपत्तव्यम्— अत्र हि लक्षणाया एव नावकाशः । तत्र हि कथमहं स्यामिति वाच्यं सत्कार्य तदविनाभावात्परं कारणमाक्षिपतीत्याक्षपेणेवै सिद्धेस्तस्या अनुपयोगः । ‘गौरनुवन्ध्यः’ इत्यत्र यथा कथं मे श्रुतिचोदितमनुबन्धनं स्यादिति जात्या व्यक्त्यविनाभावाद्वयक्ति-राक्षिप्यते न तु लक्ष्यते तथैवात्रापि कार्यकारणयोर्ज्ञेयम् । एवं समासोक्तावपि नायकव्यवहारस्तदविना-भावित्वादेव नायकत्वमाक्षिपतीत्यत्रापि लक्षणामूलत्वं नाशङ्कनीयम् । ग्रन्थकृता पुनरेतच्चिरंतनमतानु-वादपरतयोक्तम् । अस्माभिस्तु प्रसङ्गाद्वस्तु पर्यालोचितमित्यलं बहुना । उपमेयोपमा यथा—‘रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥’ अत्र द्वयोः परस्परमुपमानोपमेयत्वं वाच्यं सत्स्वयमनुपपद्यमानमुपमान्तरविरहलक्षणे परत्र वस्त्वन्तरे स्वं समर्पयति । अनन्वयो यथा— ‘भवानिव भवानेव भवेद्यदि परं भव । स्वशक्तिव्यूहसंव्यूढत्रैलोक्यारम्भसंहतिः ॥’ अत्रैकस्यैवोपमानोपमेयभावो वाच्यः सन्द्वितीयसब्रह्मचार्यभावे परत्रवस्त्वन्तरे स्वं समर्पयति । आदिशब्दः प्रकारे । तेनानिष्टविध्याभासाक्षेपादेर्ग्रहणम् । यथा— ‘भवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः। तव यदि तथा रूढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नो व्रीडा गते हतजीविते ॥’ अत्र कान्तप्रस्थानविधिर्वाच्यः सन्निषेद्धुमेवोपक्रान्तस्य विधानानुपपत्तेः स्वयमविश्रान्तः स्वमर्पणेन निषेधमाक्षिपति । एवं द्विविधया भङ्गया गम्यमानं वस्तुमात्रं वाच्योपस्कारकमेवेत्युक्तम् ।

एवमपि प्रतीयमानस्यार्थस्य विविक्तविषयान्तरोपालम्भादलंकारान्तर्भावो न सिध्यतीत्याशङ्क्याह—रुद्रटेनेत्यादिद्विधेति । गुणीभूतागुणीभूतवस्तुविषयत्वेनेत्यर्थः । यदाह— ‘यस्य विकारः प्रभवन्न प्रतिबद्धेन हेतुना येन । गमयति तदभिप्रायं तत्प्रतिबद्धं च भावोऽसौ ॥ ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ अभिधेयमभिदधानं तदेव तदसदृशगुणदोषम् । अर्थान्तरमवगमयति यद्वाक्यं सोऽपरो भावः ॥ एकाकिनी यदबला तरुणी तथाहमस्मद्गृहे गृहपतिः स गतो विदेशम् \। कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥’ इति । यद्वा द्विधेति पूर्ववदेव लक्षणाद्वयाश्रयेण व्याख्येयम् । तेनाद्येंस्वसिद्धये पराक्षेपः, परत्र तु अपरार्थ स्वसमर्पणम् । यत्त्वत्रान्यैर्भावैर्निर्वेदादिभिरुपलक्षितो वाच्यप्रतीयमानत्वेन द्विविधो भावालंकारो व्याख्यातस्तदुत्सूत्रमेव । रुद्रटेन तथात्वेन तस्याप्रतिपादनात् । तत्रापि च वस्तुमात्रस्य वाच्योपस्कारकत्वाभिधानसमये वक्तुमुचितत्वात् । तदेवं गुणीभूतागुणीभूतत्वेन द्विप्रकारं वस्तु तावद्वाच्योपस्कारकत्वेन

दावुपमाद्यलंकारो वाच्योपस्कारकत्वेनोक्तः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता । रसवत्प्रेयः प्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । तदित्थं त्रिविधमपि प्रतीयमानम-लंकारतया ख्यापितमेव ।

________________

प्रतिपादितम् । इदानीमलंकारस्यापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रतिपादयति—रूपकेत्यादिना । तत्र रूपकं यथा— ‘भीमभ्रूकुटिपन्नगीफणमणिः कामस्य चण्डं चिताकुण्डं कुण्डलितेन्दुनालवलयप्र-भ्रंशिरक्तोत्पलम् । घ्राणस्याटिकमल्लिका12परिचिते भालाग्रशालाजिरे दीप्रा दीपशिखा शिवस्य नयनं कार्षाणवं पातु नः ॥’ अत्र नयनादीनां मणिप्रभृतीनां चोपमा वाच्योपस्कारायावगम्यते । तां विना सादृश्याप्रतिपत्तेः । दीपकं यथा— ‘पाउअबन्धं13 पढिउं बन्धेउं तह अ कुज्जकुसुमाई । पोढमहिलं अ रमिडं विरलच्चिअ के वि जाणेन्ति ॥’ अत्र प्राकृतबन्धपाठादेरुपमावाच्योपस्कारायावगम्यते । प्रकृतस्य प्रौढमहिलारमणादेः सादृश्योपादानायैवोभयोरुपनिबन्धात् । अपह्नुतिर्यथा— ‘अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृत-स्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥” अत्र कलङ्कस्य रजनिसादृश्यप्रतीतेरुपमा वाच्योपस्कारायावगम्यत एव । तुल्ययोगिता यथा— ‘द्विगुणितादुपधानभुजाच्छिरः पुलकितादुरसः स्तनमण्डलम् । अधरमर्धसमर्पितमाननाद्वयघटयन्त कथंचन योषितः ॥’ अत्र भुजादीनां सादृश्यावगमादुपमावाच्योपस्कारायावगम्यते । तुल्ययोगितादावित्यादिशब्दान्निदर्शनादे ग्रहणम् । उपमादीत्यादिशब्दादुपमेयोपमादीनाम् । तत्तु यथा— ‘प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमाय-ताक्ष्याः । तथा गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ॥’ अत्र वाच्याया निदर्शनाया उपस्कारकत्वेनोपमेयोपमा गम्यते । तामन्तरेणासंभवद्वस्तुसंबन्धत्वेन वाच्यस्याविश्रान्तेः । अतश्चात्रा-लंकारो गम्यमानः स्थितो न वस्तुमात्रम् \। तेन पूर्वत्र यदादिग्रहणं सफलयितुमन्यैरेतदुदाहृतं तदयुक्तमेव । तत्र वस्तुमात्रस्य वाच्योपस्कारकत्वेन प्रतिपिपादयिषितत्वात् । वाच्योपस्कारकत्वेनेत्युत्तरत्रापि योजनीयम् । तेन वाच्योपस्कारकत्वेनोत्प्रेक्षा कथितेति समन्वयः । सा तु— ‘महिलासहस्सभरिए14 तुह हिअए सुहअ सा अमायन्ती । दिअहं अणण्णअम्मा अङ्गं तणुअं पि तणुएइ ॥’ इति । तदित्यमलंकारोऽपि प्रतीयमानो वाच्यशोभाहेतुत्वेनोक्तः । अधुना रसस्यापि वाच्योपस्कारकत्वं दर्शयितुमाह—रसवदित्यादि । प्रभृतिशब्दादूर्जस्व्यादयः । आदिशब्दाच्च तदाभासादयः । तत्र रसवदलंकारो यथा— ‘कृच्छ्रेणोरुयुगं व्यतीत्य सुचि-

वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता कश्चिद्धुनिभेदोऽलंकार-तयैवोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता ।


उद्भटादिभिस्तु गुणालंकाराणां प्रायशः साम्यमेव सूचितम् । विषयमात्रेण भेदप्रतिपादनात् । संघटनाधर्मत्वेन चेष्टेः । तदेवमलंकारा एव काव्ये प्रधानमिति प्राच्यानां मतम् ।

______________

रं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता । मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाङ्क्ष मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥’ अत्र वत्सराजस्य परस्परास्थाबन्धरूपो रत्याख्यः स्थायिभावो विभावानुभावव्यभिचारिसंयोगाद्रसीभूतः सन्वाच्योपस्का-रकः । तत्संवलितत्वेन15 वाच्यस्य सचमत्कारं प्रतिपत्तेः । प्रेयोलंकारो यथा— ‘तिष्ठेत्कोपवशात्प्रभाव-पिहिता दीर्घे न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥’ अत्र वितर्काख्यो व्यभिचारिभावो वाच्यशोभाधायक16 एव । ऊर्जस्व्यलंकारो यथा— ‘दृग्लीलासु सकौतुकं यदि मनस्तन्मे दृशां विंशतिर्निः संधौ परिरम्भणे रतिरथो दोर्मण्डली दृश्यताम् । प्रीतिश्चेत्परिचुम्बने दशमुखी वैदेहि सज्जा पुरः पौलस्त्यस्य च राघवस्य च महत्पश्योपचारान्तरम् ॥’ अत्र सीतां प्रति रावणस्य17 रतिरनौचित्येन प्रवृत्तेति रसाभासो वाच्योपस्कारकः । अन्यत्तु स्वयमभ्यूह्यम् । एतदेवोपसंहरति—तदित्थमित्यादिनात्रिविधमिति । पर्यायोक्तादौ वस्तु, रूपकादावलंकारः, रसवदादौ रसः । तदेवं चिरंतनैः प्रतीयमानस्यालंकारान्तर्भाव एव तावदुक्तः । तदुपस्कार्यःपुनरात्मा कैश्चिदपि नाभ्युपगतः । वामनेन प्रतीयमानस्यालंकारान्तर्भावमभिदधतापि तदुपस्कार्य आत्मा कश्चिदुक्त इत्याह—वासनेनेत्यादि । तुशब्दः पूर्वेभ्यो व्यतिरेकद्योतकः । आत्मनोऽपि प्रतिपादकत्वात् । व्रुवतेति । यदाह— ‘सादृश्याल्लक्षणा वक्रोक्तिः’ इति । एतदेवोदाजहार च—‘उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तम्’ इति । कश्चिद्धनिभेद इति । अविवक्षितवाच्यादिः । केवलमिति । यदि परमित्यर्थः । गुणेति । यदाह—‘विशिष्टा पदरचना रीतिः’ इति । काव्यात्मकत्वेनेति । यदाह— ‘रीतिरात्मा काव्यस्य’ इति । तदेवं विशिष्टपदरचनात्मिकायाः काव्यात्मत्वेनाभ्युपगताया रीतेः ‘तदतिशयहेतवस्त्व-लंकाराः’ इत्याद्युक्त्यान्तर्भावितध्वनयोऽलंकारा उपस्कारका इत्येतन्मतम् । अन्यैः पुनरेतदपि प्रत्युक्तमित्याह—उद्भटादिभिरित्यादिनाप्रायश इति । बाहुल्येनेत्यर्थः \। विषयमात्रेणेति

वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रोक्तिमेव प्राधान्यात्काव्य-जीवितमुक्तवान् । व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे । अभिधानप्रकारविशेषा एव चालंकाराः । सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः । उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः । केवलमुक्तिवैचित्र्यजीवितं काव्यं, न व्यङ्गयार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् ।

______________

भिन्नकक्ष्याणां ह्युपस्कार्योपस्कारकत्वस्यानुपपत्तेः । तथात्वे चालंकाराणामपि गुणोपस्कार्यत्वं प्रसज्यते । समानन्यायत्वात् । तद्गुणालंकाराणां तुल्यत्ववादिन एवौद्भटाः । इत्थमनेन वाच्याश्रयाणामलंकाराणां मध्य एव ध्वनेरन्तर्भावादभिधाव्यापारगोचर एव ध्वनिर्न पुनस्तव्यतिरिक्तः कश्चिद्धनिर्नामेति चिरंतनानां मतमित्युक्तम् । इदानीं यदप्यन्यैरस्य भक्त्यन्तर्भूतत्वमुक्तं तदपि दर्शयितुमाह—वक्रोक्तीत्यादि । वैदग्ध्येत्यनेन वक्रोक्तेः स्वरूपमुक्तम् । यदाह— ‘वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते’ इति । एवकारोऽन्यस्य काव्यजीवितत्वव्यवच्छेदकः । काव्यजीवितमिति काव्यस्यानुप्राणकम् । तां विना काव्यमेव न स्यादित्यर्थः । यदाह— ‘विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितयते’ इति । व्यापारस्येति कविप्रतिभोल्लिखितस्य कर्मणः। कविप्रतिभानिर्वर्तितत्वमन्तरेण हि वक्रोक्तिरेव न स्यादिति कस्य जीवितत्वं घटत इति तदनुषक्तमेवास्यात्र प्राधान्यं विवक्षितम् । अतश्च द्वयोः प्राधान्यस्य दुर्योजत्वमत्र नाशङ्कनीयम् । अलंकारा इति । तेनोक्ता इति शेषः । एवकारश्चिरंतनोक्तध्वनिप्रकार-विशेषव्यवच्छेदकः । सत्यपीति । सदपि प्रतीयमानमनादृत्येत्यर्थः । व्यापाररूपेति वक्रस्वभावेत्यर्थः । भणितिरित्युक्तिः । कवीति । तत्रैव कविः संरब्ध इत्यर्थः । तत्संरम्भमन्तरेण हि वक्रोक्तिरेव न स्यात् । ननु च प्रतीयमानस्यानादरः किमभावमुखेनान्यथा वा कृत इत्याशङ्क्याह—उपचारेत्यादि । उपचारक्रातादीनामेव मध्ये ध्वनिरन्तर्भूत इति तात्पर्यार्थः। यदाह— ‘यत्र दूरान्तरेऽन्यस्मात्सामान्य-मुपचर्यते । लेशेनापि भवेत्कर्तु किंचिदुद्रित्तवृत्तिता ॥ यन्मूला सरसोल्लेखा रूपकादिरलंकृतिः । उपचारप्रधानासौ वक्रता काचिदिष्यते ॥” इति । एतामेवोदाजहार च—‘गैअणं18 च मत्तमेहं धारालुलिअज्जुणाइंअ वणाइं । निरहंकारमिअङ्को हरन्ति नीलाओं अ णिसाओ ॥’ अत्र मदनिरहं-कारत्वे औपचारिके इत्युपचारवक्त्रतादीनामपि ग्रहणम् । एवं सर्वोऽपि ध्वनिप्रपञ्चो वक्रोक्तिभिरेव स्वीकृतः । सन्स्थित एव । यदि परं तस्य प्राधान्यमेव नास्तीत्याह—केवलमित्यादितदीयमिति । वक्रोक्तिजीवितकारसंबन्धीत्यर्थः । तदित्यं लक्षणामूलवक्रोक्तिमध्यान्तर्भावाद्भ्वनेरेव तत्त्वं प्रतिपादितम् । कैश्चिदप्यस्य
__________________________________________________________

१. ‘किंचित्कर्तु’ क.

भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यांशत्वं ब्रुवता न्यग्भावित-शब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्राप्यभिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः ।

ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वनन-

______________

वागविषयत्वादलक्षणीयत्वमुक्तमित्याह—भट्टनायकेत्यादिप्रौढोक्त्येति । न पुनर्लक्षणकरणेन । अत एवोक्तेः प्रौढत्वं यलक्षयितुमशक्यं तस्याप्यभ्युपगमःकाव्यांशत्वमिति न पुनः काव्यत्मत्वम् । यदाह— ‘ध्वनिर्नामापरो योऽपि व्यापारी व्यञ्जनात्मकः । तस्य सिद्धेऽपि भेदे स्यात्काव्यांशत्वं न रूपिता ॥’ इति । व्यापारस्येति कविकर्मणः। अन्यथा शब्दप्रधानेभ्यो वेदादिभ्योऽर्थप्रधानेभ्यश्चेतिहासादिभ्यः काव्यस्य वैलक्षण्यं न स्यात् । यदुक्तम्— ‘शब्दप्राधान्यमाश्रित्य19 तत्र शास्त्रं पृथग्विदुः । अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः । द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यधीर्भवेत् ।’ इति । तत्रापीति । कविकर्मरूपस्य व्यापारस्य प्राधान्ये सत्यपीत्यर्थः । ‘अभिधा भावना चान्या तद्भोगीकृतिरेव च ’ इति काव्यं तावत्र्यंशं तेनोक्तम् । तत्रापि ‘अभिधाधामतां याते शब्दार्थालंकृती ततः । भावनाभाव्य एषोऽपि शृङ्गारादिगणो मतः ॥ ’ इत्यंशद्वयस्य विषयं प्रतिपाद्य ‘तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः ’ इति तृतीयोंऽशः सहृदयगतस्तदंशद्वयचर्वणात्मा ‘दृश्यमानाथवा मोक्षे यात्यङ्गत्वमियं स्फुटम्’ इत्युक्त्या परब्रह्मास्वादसविधवर्ती विश्रान्तिधामतयाभ्युपगतः । तदेवं यद्यपि ‘तात्पर्यशक्तिरभिधालक्षणानुमिती द्विधा । अर्थापत्तिः क्वचित्तन्त्रं समासोक्त्याद्यलंकृतिः ॥ रसस्य कार्यता भोगो व्यापारान्तरबाधनम् । द्वादशेत्थं ध्वनेरस्य स्थिता विप्रतिपत्तयः ॥ इति नीत्या बहवो विप्रतिपत्तिप्रकाराः संभवन्ति, तथापि ‘काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वस्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये । केचिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयं20’ इत्युक्तनीत्यैव ध्वनेर्विप्रतिपत्तिप्रकारत्रयमिह प्राधान्येनोक्तम् । एवमिदानीमेतद्विप्रतिपत्तिप्रकारत्रयं निराकुर्वन्धवनेरेव काव्यात्मत्वं साधयति—ध्वनिकार इत्यादिना । समयापेक्षार्थावगन21शक्तिरभिधा । सामान्यानां परस्परान्वितत्वेन विशेषार्थावबोधनशक्ति22स्तात्पर्यम् । मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासन23शक्तिर्लक्षणा । एतद्व्यापारत्रयादुत्तीर्णस्य । तदतिरिक्तस्येत्यर्थः । तथा च ‘गङ्गायां घोषः’ इत्यत्र गङ्गाशब्दो घोषशब्दश्च सामान्यात्मके जलप्रवाहे गृहनिकुरुम्बे च संकेतितौ । सामान्य एवोद्यो-

  •                        *  
    

२. ‘इत्येतद्द्यस्य’ ख.

द्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाद्व्यापारस्य च वाक्यार्थत्वाभावाद्वा-क्यार्थस्यैव च व्यङ्ग्यरूपस्य गुणालंकारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्धान्तितवान् ।

________________

गात् । विशेषस्य हि संकेतकरणे आनन्त्यं व्यभिचारश्च स्यात् । ततश्चाभिघया जलप्रवाहमात्रं गृहनिकुरुम्बमात्रं च प्रतीतमित्येका24 कक्ष्या । एतत्प्रतिपाद्यान्यप्रतिपादनायाप्यभिधा न समर्था । ‘विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे’ इत्याद्युक्तयुक्त्या तस्या विरम्य व्यापारासंभवात् । ‘सामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि’ इति न्यायात्तात्पर्यशक्त्या सामान्यान्याधाराधेयभावेनावस्थितं विशिष्टं गङ्गाघोषाद्यागूरयन्तीति तात्पर्येण परस्परान्वितत्वमात्रमेव प्रतीयत इति द्वितीया । जलप्रवाहस्य च घोषाधिकरणत्वमयुक्तमिति प्रमाणान्तरबाधितः सन्गङ्गाशब्दस्तदधिकरण25योग्यतटं लक्षयतीति तृतीया । तत्र तावत्, ‘मुख्यार्थबाधेतद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणा रोपिता क्रिया ॥ इति नीत्या लक्षणा त्रितयसंनिधावेव भवति । तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमाणा-न्तरमूला।यश्च सामीप्यादिसंबन्धः स च प्रमाणान्तरावगम्य एव । यत्पुनरिदं घोषस्य शैत्यपावन-त्वादिलक्षणं प्रयोजनं प्रतीयते तच्छब्दान्तरानुक्तं प्रमाणान्तराप्रतिपन्नं च कुत आगतम् । न तावत्प्रत्यक्षादेतत्प्रतीतिः । अस्मादेव शब्दादवगमासिद्धेः । शब्दार्थे26 च तस्याप्रवृत्तेः । नाप्यनुमानात् । सामीप्येऽपि शैत्यपावनत्वादेरसंभवादनैकान्तिकत्वात् । न स्मृतिः । तदनुभवाभावात् । सत्यामपि वा तस्यां नियतस्मरणं न स्यात् । अस्मादेव च शब्दादेतदेव बुध्यत इति को हेतुः । तस्मादस्यैव शब्दस्यैष व्यापारोऽभ्युपगन्तव्यः । निर्व्यापारस्यार्थप्रतीतिकारित्वाभावात् । स तावन्नाभिधात्मा । समयाभावात् । न तात्पर्यात्मा । तस्यान्वयप्रतीतावेव परिक्षयात् । न लक्षणात्मा ।मुख्यार्थबाधाद्यभावात् । तस्मादभिधातात्पर्यलक्षणाव्यक्तिरिक्तश्चतुर्थकक्ष्यानिक्षिप्तो व्यङ्ग्यनिष्ठो व्यञ्जनाव्यापारोऽभिहितान्वय-वादिनावश्याभ्युपगन्तव्यः । अन्विताभिधानवादिनापि यत्परः शब्दः स शब्दार्थ इति शरवदभिधा-व्यापारमेव दीर्घदीर्घमिच्छतापि नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इति निमित्तपरिकल्पनेऽपि समग्रैवेयं प्रक्रियानुसरणीयैवेत्युभयथापि सिद्ध एव व्यञ्जनव्यापारः । एतच्च गहनगहनमिति मनागेव सिद्धरसन्यायेनेहोक्तम् । आदिशब्दात्प्रत्यायनावगमनादीनामपि ग्रहणम् । अवश्येति । तेन विना व्यङ्ग्यस्यार्थस्यासंग्रहणात् । व्यापारस्येति । व्यञ्जनात्मिकायाः क्रियाया इत्यर्थः । सा खलु साध्यमानत्वेन पूर्वापरीभूतावयवत्वान्न स्वरूपेणोपलभ्यत इति विचारपदवीमेव स्वयमुपारोढुं नोत्सहत इति कथं नाम तस्या वाक्यार्थत्वं स्यादिति भावः । यद्वक्ष्यति— ‘व्यापारस्य विषयमुखेण स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विचार्य(विदित) त्वाभावाद्विषयस्यैव

व्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विदितत्वाभावा-द्विषयस्यैव समग्रभरसहिष्णुत्वम् । तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः । यस्य गुणालंकारकृत27चारुत्वपरिग्रहसा-

_____________

समग्रभरसहिष्णुत्वम्’ इति । उपस्कर्तव्यत्वेनेति । तत्परतयावस्थानेनेत्यर्थः । यदुक्तम्— ‘वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् । रसादिपरता यत्र स ध्वनेर्विषयो मतः ॥’ इति । अत एव विश्रान्तिधामत्वादित्युक्तम् । आत्मत्वमिति । सारभूतत्वमित्यर्थः । अतश्च तेन विना काव्यमेव28 न स्यादिति तात्पर्यम् । नहि निर्जीवं शरीरं क्वाप्युपयुक्तम् । ननु यद्येवं तर्हि ‘गङ्गायां घोषः’ इत्यत्रापि व्यङ्गयस्य सद्भावात्काव्यत्वं प्रसज्यते । नैतत् । इह यद्वदात्मनो व्यापकत्वाच्छरीरे घटादौ (च) वर्तमानत्वेऽपि करणादिविशिष्टे शरीर एव जीवव्यवहारो न घटादौ तद्वदस्यापि विविधगुणालंकारौचित्यचारुशब्दार्थशरीरगतत्वेनैवात्मत्वव्यवहारो नान्यत्रेति न कश्चिद्दोषः । ननु च सर्वत्र क्रियाया एव प्राधान्यं प्रसिद्धमिह पुनर्विषयस्योक्तमिति किमेतदित्याशङ्क्याह—व्यापारस्येत्यादि । विषयमुखेनेति । यथा ह्योदनादेर्विक्लित्यादिमुखेन पाकादेः क्रियायाः स्वरूपोपलम्भः । तत्प्राधान्येनेति । विषयप्रधानत्वेनेत्यर्थः । तेन व्यापारस्य प्राधान्यमुपचरितमिति भावः । स्वरूपेणेति । स्वरूपं हि तस्य साध्यमानत्वाद्विचारयितुमशक्यम् । सिद्धस्य हि विचारोभवतीति भावः । एवकारो व्यञ्जनव्यापारव्यवच्छेदकः । समग्रेति । समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः । एतदेवोपसंहरति—तस्मादित्यादिना । यस्येति । व्यङ्गनाम्नो रसाद्यात्मनो विषयस्य ।गुणालंकारकृतचारुत्वेति । गुणानां ‘ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥’ इत्यादिनीत्या साक्षादेव तद्धर्मत्वात् । अलंकाराणामपि ‘उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण धर्मिणम् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥’ इत्यादिनीत्या शब्दार्थलक्षणाङ्गातिशयद्वारेण तदुपस्कारकत्वात् । अलंकाराणां च रसादिरूपं व्यङ्ग्यमर्थमलंकुर्वतां मुख्यया वृत्त्यालंकारत्वम् । अलंकार्यसद्भावनिबन्धनत्वात्तस्य रसाद्यात्मन एव च व्यङ्ग्यस्यालंकार्यत्वेन प्रतिष्ठानात् । अत एव च यत्र स्फुटव्यङ्गयार्थरहितत्वं तत्र ‘गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता’ इत्यादिनीत्या शब्दार्थमात्रनिबन्धनत्वेनोक्तिवैचित्र्यमात्रपर्यवसितत्वादेषां गौणमलंकारत्वम् । यदभिप्रायेणैव च चित्राख्यकाव्यभेदप्रकारत्वमलंकाराणां निरूपयिष्यते । अत एवानुप्रासादयोऽलंका-राश्चित्रमित्याद्यन्यैरुक्तम् । स च प्रतीयमानोऽर्थो यद्यपि वस्त्वलंकाररसत्वेन त्रिविधस्तथापि तेन विना काव्यात्मत्वाभावान्मुख्यत्वेन रसस्यैवात्मत्वं युक्तम् । अतश्च

म्राज्यम् । रसादयस्तु जीवितभूता नालंकारत्वेन वाच्याः । अलंकाराणामुपस्कारकत्वाद्रसादीनां च प्राधान्येनोपस्कार्यत्वात् । तस्माद्व्यङ्ग्य एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः । व्यञ्जनव्यापारस्य सर्वैरनपह्नुतत्वात्तदाश्रयेण च पक्षान्तरस्याप्रतिष्ठानात् ।

यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्यञ्जनस्थानुमानान्तर्भावमाख्यत् तद्वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्त्य-

______________

वस्त्वलंकारयोर्यदलंकारपक्षनिक्षिप्तत्वमन्यैरुक्तं तत्तावदास्ताम्, काव्यात्मनो रसस्य पुनरलंकारत्वमत्यन्तमेवावाच्यमित्याह—रसादय इत्यादि । आदिग्रहणाद्भावतदाभासादीनां ग्रहणम् । न वाच्या इति । वक्तुमयुक्ता एवेत्यर्थः । अलंकार्यस्यालंकारत्वानुपपत्तेः । तस्य चालंकारत्वकथने-ऽलंकार्यान्तरं प्रसज्यते । तेन विनालंकाराणामनुपपत्तेः । एतदेवोपसंहरति—तस्मादित्यादिना। व्यङ्गय इति रसादिरूपः । तस्यैवोपक्रान्तत्वात् । वाक्यार्थीभूत इति । अवाक्यार्थीभूतस्तु रसादिरलंकारोऽपि स्यात् । यदुक्तम्— ‘प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥’ इति । एतच्च रसवदायलंकारप्रस्ताव एव निर्णेष्यामः। इतिशब्दः प्रमेयपरिसमाप्तौ । एतदेव युक्तमित्याह—एष एवेत्यादि ।सर्वैरिति । अवाक्यार्थविद्भिर-सहृदयप्रायैरित्यर्थः । पक्षान्तरस्येति । तत्र तावद्वाच्यवाचकमात्राश्रयिणामलंकाराणां मध्ये व्यङ्ग्य-व्यञ्जकभावसमाश्रयेण व्यवस्थितत्वादस्यान्तर्भावो न युक्तः । यदुक्तम्— ‘व्यङ्ग्यव्यञ्जकसंबन्ध-निबन्धनतया ध्वनेः । वाच्यवाचकचारुत्वहेत्वन्तः पतिता कुतः ॥’ इति । लक्षणायामप्यस्यान्तर्भावो न युक्तः । तदसद्भावेऽस्य सद्भावात्तत्सद्भावे29 चास्यासद्भावात् । यदुक्तम्—‘अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया’ इति । नाप्यस्यालक्षणीयत्वं युक्तम् । ‘यत्रार्थ— शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थी । व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥’ इति । तदित्थमेतद्विप्रतिपत्तित्रयस्या-प्रतिष्ठानमुपपादितम् । इदानीमन्योऽपि यः कश्चिद्विप्रतिप्रत्तिप्रकारः कैश्चिदुक्तः सोऽपि नोपपद्यत इत्याह—यत्त्वित्यादि । ध्वनिकारानन्तरभावी व्यक्तिविवेककार इति । तन्मतमिह पश्चान्निर्दिष्टम् । यद्यपि वक्रोक्तिजीवितहृदयदर्पणकारावपि ध्वनिकारानन्तरभाविनावेव । तथापि तौ चिरन्तरमतानु-यायिनावेवेति तन्मतं पूर्वमेवोद्दिष्टम् । अनेन पुनरेतत्स्वोपज्ञमेवोक्तम् । अनुमानान्तर्भावमिति । अनुमानरूपत्वमेवेत्यर्थः ।आख्यदिति । यदाह— ‘वाच्यस्तदनुमितो वा यत्रार्थोऽर्थान्तरं प्रकाशयति । संव-

भावादविचारिताभिधानम् । तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनगहनमिति नेह प्रतन्यते ।

अस्ति तावद्व्यङ्ग्यनिष्ठो व्यञ्जनव्यापारः । तत्र व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणी-भूतव्यङ्गयाख्यौ द्वौ काव्यभेदौ । व्यङ्ग्यस्यास्फुटत्वे-

_______________

न्धतः कुतश्चित्सा काव्यानुमितिरित्युक्ता ॥’ इति । **अविचारिताभिधानमिति ।**इह लिङ्गलिङ्गिनोस्तादात्म्यतदुत्पत्तिभ्यामेव तावत्प्रतिबन्धो निश्चीयते । तन्निश्चयेनैव च साध्यसिद्धिः । अन्यथा हि साध्यसिद्धिर्न स्याद्व्यभिचारात् । तत्र तादात्म्यं यथा कृतकत्वानित्यत्वयोः । तदुत्पत्तिर्यथा वह्निधूमयोः । वाच्यप्रतीयमानयोः पुनस्तादात्म्यतदुत्पत्ती न स्तः । तथाहि— ‘निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागो-ऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तथेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापीं स्नातुमितो गतासि न पुनस्तस्याघमस्यान्तिकम् ॥’ इत्यत्र विधिना निषेधो निषेधेन30 वा विधिः प्रतीयते । न तस्य वाच्येन सह तादात्म्यम् । विरुद्धत्वात् । नह्यभावो भावात्मा भवति भावोऽप्यभावात्मा । नापि तदुत्पत्तिः । अभावस्य जन्यजनकत्वानुपपत्तेः । नापि निःशेषच्युतचन्दनादीनां विशेषणानां तदन्तिकगमनानुमापकत्वं युक्तम् । तेषां स्नानादावपि सद्भावादनैकान्तिकत्वात् । एतच्च ध्वनिकारेणादूषितत्वाद्ग्रन्थकृता स्वकण्ठेन दूषितम् । अत एवानेनान्या विप्रतिपत्तयो न दूषिताः । एतदिति । वाच्यस्य प्रतीयमानेन तादात्म्यतदुत्पत्त्यभावादि नेह प्रतन्यत इति व्यक्तिविवेकविचारे हि मयैवैतद्वितत्य निर्णीतमिति भावः । तदित्थं परपरिकल्पितसमारोपापसारप्रत्याख्यानेन प्राप्तप्रतिष्ठानो ध्वनिरित्याह— अस्तीत्यादि । तावच्छन्दो विप्रतिपत्त्यभावद्योतकः । अस्यैव भेदनिर्देशं कर्तुमाह—तत्रेत्यादि । व्यङ्ग्यनिष्ठे व्यञ्जनव्यापारे सत्यपीत्यर्थः । प्राधान्याप्राधान्येति । यदुक्तम्— ‘तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यं प्रति स्थितौ । ध्वनेः स एव विषयो मन्तव्यः संकरोज्झितः ॥’ इति । तथा— ‘प्रकारोऽन्यो गुणीभूतव्यङ्गयः काव्यस्य दृश्यते । तत्र व्यङ्गयान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ॥’ इति । अस्फुटत्व इति । व्यङ्गयस्याविवक्षितत्वे सतीत्यर्थः । यदुक्तम्— ‘रसभावादिविषयविवक्षाविरहे सति । अलंकारनिबन्धो यः स चित्रविषयो मतः ॥’ इति । तत्रेति त्रयनिर्धारणे । तस्येत्युत्तमस्य ध्वनेः । आद्य इत्यविवक्षितवाच्यः । न केवलं ध्वनिर्द्विविधः यावत्तत्प्रभेदोऽप्ययं द्विविध इत्यपिशब्दार्थः । यदुक्तम्— ‘अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् । अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥’ इति । द्वितीय इति विवक्षितान्यपरवाच्यः । यदुक्तम्—‘असंलक्ष्यक्रमाद्द्योतः क्रमेण द्योतितः परः । विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥’ इति । अत्रैव वस्तुरसालंकाराणां ध्वन्यमानत्वं दर्श-

ऽलंकारवत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः । तत्रोत्तमो ध्वनिः । तस्य लक्षणाभिधामूलत्वेना-विवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ । आद्योऽप्यर्थान्तरसंक्रमितवाच्यात्यन्ततिर-स्कृतवाच्यत्वेन द्विविधः । द्वितीयोऽप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्ग्यतयाद्विविधः लक्षणमूल-शब्दशक्तिमूलो वस्तुध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः । अर्थशक्तिमूलो वस्तु (रसादि )-

_____________

यितुमाह—लक्षणेत्यादि । लक्षणामूल इत्यविवक्षितवाच्यः । शब्दशक्तिमूल इति न पुनरर्थशक्तिमूलः । यद्यपि शब्दशक्तिमूलेऽर्थशक्तिरप्यस्ति तथापि तत्र तस्याः सहकारितया व्यवस्थानमिति प्राधान्याच्छन्दशक्तिमूलत्वमुक्तम् । एवमर्थशक्तिमूलत्वेऽपि ज्ञेयम् । वस्तुध्वनिरिति । रसालंकारव्यतिरिक्तस्य वस्तुमात्रस्य ध्वन्यमानत्वात् । तत्रार्थान्तरसंक्रमितवाच्यो वस्तुध्वनिर्यथा— ‘स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वे सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥’ अत्र रामशब्दो राज्यनिर्वासनाद्यसंख्येयदुःखभाजनत्वस्वरूपं वस्तु ध्वनति । अत्यन्ततिरस्कृतवाच्योऽपि यथा––‘रविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥’ अत्रान्धशब्दः स्वार्थे निमित्तीकृत्यादर्शनसाधारणविच्छायत्वादिधर्मजातं वस्तुरूपं व्यक्ति । रसादीति । आदिशब्दाद्भावतदाभासादयः । तत्र रसध्वनिर्यथा— ‘त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालिप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥’ अत्र विभावानुभावव्यभिचारिभिरभिव्यक्त एव रसः । भावध्वनिर्यथा— ‘जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः । नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥’ अत्र विधिं प्रत्यसूयाख्यो व्यभिचारिभावः । रसाभासध्वनिर्यथा—‘स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान्रणमखमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात्तपः श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥’ अत्रानेककामुकविषयोऽभिलाष इति रसाभासः । भावाभासध्वनिर्यथा— ‘राकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमास्या । तत्किं करोमि विदधे कथमत्र मैत्रीं तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥’ अत्रानौचित्यप्रवृत्ता चिन्तेति भावाभासः । भावप्रशमो यथा— ‘एकस्मिञ्शयने पराराङ्मुखतयावीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम् । दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥’ अत्रासूयायाः प्रशम इति भावप्रशम-

ध्वनिः संलक्ष्यक्रमव्यङ्ग्यः । शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलंकारध्वनिश्चेति । तत्र रसादिध्वनिरलंकारमञ्जर्यो दर्शितः । काव्यस्य शृङ्गारप्रधानत्वात् । शिष्टस्तु यथावसरं तत्रैव विभक्तः । गुणीभूतव्यङ्गयो वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादौ दर्शितः । चित्रं तु शब्दार्थालंकारस्वभावतया बहुतरप्रभेदम् । तथा हि—

                         *     
 *

ध्वनिः । वस्तुध्वनिरलंकारध्वनिश्चेति । तत्रशब्दशक्तिमूलो वस्तुध्वनिर्यथा— ‘निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥’ अत्र कौरवाणां क्षतशरीरादिकत्वं वस्तुरूपं शब्दशक्त्यैव प्रतीयते । स एवार्थशक्तिमूलो यथा—अरससिरोमणि31 धुत्ताणँ अग्गिमो पुत्ति घणसमिद्धिमओ । इइ भणिएण णअङ्गी परफुल्लविलोअणा जाआ ॥’ अत्रार्थशक्त्या ममैवोपभोग्योऽयमिति वस्तु व्यज्यते । स एवोभयशक्तिमूलो यथा— ‘पन्थिअ32 ण एत्थ सत्थरमत्थि मणं पत्थरत्थले ग्गामे । उग्गअपओहरं पेक्खिऊण जइ वससि ता वससु ॥’ अत्र यद्युपभोगक्षमोऽसि तदा आस्स्वेति वस्तु वक्रौचित्यमाश्रित्य शब्दार्थशक्त्याभिव्यज्यत इत्युभयशक्तिमूलत्वम् । शब्दशक्तिमूलोऽलंकारध्वनिर्यथा—‘उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥’ अत्र शब्दशक्त्या मेघलक्षणमर्थान्तरं प्रतीयते । प्रकृताप्रकृतयोश्चार्थयोरसंबद्धाभिधायित्वं मा प्रसाङ्क्षीदिति तयोरौपम्यं कल्प्यत इत्यलंकारध्वनिः । स एवार्थशक्तिमूलो यथा—‘ता33 ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसम् । बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेन ॥’ अत्र कौस्तुभबिम्बाधरयोः केवलयैवार्थशक्त्यौपम्यं गम्यत इत्यर्थशक्तिमूलोऽलंकारध्वनिः । उभयशक्तिमूलो यथा—जणहिअअविदारणए34 धारासलिललुलिए ण रमइ तहा । तव दिट्ठी चिउरभरे पिआण जह वैरिखग्गम्मि ॥’ अत्रोभयशक्त्या चिकुरभरखङ्गयोरौपम्यं गम्यते । इतिशब्दः प्रमेयपरिसमाप्तौ । एवं ध्वनेः प्रभेदजातं प्रदर्श्य क्रमप्राप्तं गुणीभूतव्यङ्गयस्यान्यतो योजयति—गुणीभूतेत्यादिना । दर्शित इति ध्वनिकारेण । यदाह—‘व्यङ्गस्य यत्र प्राधान्यं वाच्यमात्रानुयायिनः । समासोक्त्यादयस्तत्र वाच्यालंकृतयः स्फुटाः ॥ इति । एवं गुणी

इहार्थपौनरुक्यं शब्दपौनरुक्यं शब्दार्थपौनरुत्तयं चेति त्रयः पौनरुक्त्यप्रकाराः ॥

आदौ पौनरुक्त्यप्रकारवचनं वक्ष्यमाणा35लंकाराणां कक्षाविभागघटनार्थम् । अर्थापेक्षया शब्दस्याप्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थगतधर्मनिर्देशश्चिरंतनप्रसिद्या पुनरुक्तवदाभासस्य पूर्वे लक्षणार्थः । इहेति शाब्दप्रस्तावे ।इतिशब्दः प्रकारे । त्रिशब्दादेव संख्यापरिसमाप्तिसिद्धेः ।

तत्रार्थपौनरुक्त्यं प्ररूढं दोषः36

प्ररूढाप्ररूढत्वेन द्वैविध्यम् । प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् । तत्रेति त्रयनिर्धारणे । यथावभासनविश्रान्तिः प्ररोहः ।

                            *  
       *

भूतव्यङ्ग्यस्याप्यन्यतो भेदजातं योजयित्वा चित्रस्यापि प्रभेदजातं दर्शयितुमाह—चित्रमित्यादि । तुशब्दः काव्यप्रकारद्वयादस्य वैलक्षण्यद्योतकः । अत एव बहुतरप्रभेदमित्युक्तम् । शब्दार्थेत्येकशेषः । तेनोभयालंकाराणामपि ग्रहणम् । तदेव दर्शयितुमाह—तथाहीत्यादि । चित्राख्यकाव्यभेदनिरूप-णावसरे किं पौनरुक्त्यप्रकारवचनेनेत्याशङ्कयाह—आदावित्यादि । वक्ष्यमाणालंकाराः पुनरुक्तवदाभासादयः पञ्च । शब्दप्रतीतिपुरःसरीकारेणार्थप्रतीतिरिति प्रथमं शब्दगत एव धर्मनिर्देशो न्याय्यो नार्थगत इत्याशङ्क्याह—अथेत्यादि । चिरंतनप्रसिद्ध्येति । न पुनर्वुज्यमानतयेति भावः । ‘पुनरुक्तवदाभासं छेकानुप्रास एव च’ इति चिरंतनप्रसिद्धिः । अर्थालंकारत्वादर्थालंकारप्रकरणे पुनरस्य युज्यमानत्वम् । नन्वादौ शब्दगतो धर्मनिर्देशः कार्यः पश्चादर्थगत इति क्रमस्य न किंचित्प्रयोजनमुत्पश्याम37 इति किं तेनेति यदन्यैरुक्तं तदयुक्तम् । शब्दार्थयोः क्रमेणैव प्रतीताववभासनात्तथात्वेनैव धर्मनिर्देशस्योपपत्तेः । किं च ‘वर्धमानोत्कर्षाणि शास्त्राणि प्रथन्ते’ इति नीत्या परिमितचमत्काराणामर्थालंकाराणां पश्चानिर्देशः कार्य इति सप्रयोजन एव क्रमः । चिरंतनमतानुल्लङ्घनेन38 च वयं प्रवृत्ता इत्ययुक्तमपि ग्रन्थकृता तन्मतमाश्रितम् । अग्रेऽप्यनेनाशयेन तन्मताश्रयणं करिष्यत्येव । तेन वयं यच्चिरंतनमताश्रयणं व्याख्यास्यामस्तद्युक्तमेव । एतदेव यथोद्देशं निर्णेतुमाह—तत्रेत्यादि । किमलंकारप्रस्तावे दोषकथनेनेत्याशङ्क्याह—प्रथममित्यादि । उपादेय इत्यलंकारस्वरूपे । यथेति । यथैव दृष्टस्तथैव पर्यवसित इत्यर्थः । यथा—‘हरिणनयनां सारङ्गाक्षीं कुरङ्गविलोचनां कमलवदनां राजीवास्यां सरोजसमाननाम् । विलुलितकचां चञ्चत्केशीं चलच्चिकुरोत्करां सुरतविरतौ संभोगान्ते विलोकय कामिनीम् ॥’ अत्र सारङ्गाक्षीमि

आमुखावभासनं पुनरुक्तवदाभासम् ॥

आमुखग्रहणं पर्यवसानेऽन्यथात्व39प्रतिपत्त्यर्थम् । लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालंकारवैधर्म्येण काव्यालंकाराणामलंकार्यपारतत्र्यध्वननार्थः । अर्थ40पौनरुक्त्यादेवार्थाश्रितत्वदर्थालंकारत्वं ज्ञेयम् । प्रभेदास्तु

_____________

त्यादिषु पुनर्वचनं प्ररूढम् । अरुडं पुनरलंकारः । न चैतावतैव दोषाभावमात्रेणालंकारत्वमस्याशङ्कयम् । वक्ष्यमाणनीत्यालंकारत्वोचितस्य विच्छित्तिविशेषस्यापि भावात् । तदेवाह—आमुखेत्यादि । अन्यथात्वेति । यथावभातस्यार्थस्य पर्यवसाने तथात्वेनैवाविश्रान्तिरित्यर्थः । अन्यथा ह्युक्तनीत्या दोषः स्यात् । ननु पुनरुक्तवदाभासशब्दस्यालंकारशब्दसामानाधिकरण्यादुपमादिवदजहल्लिङ्गत्वयोगाच्च पुंलिङ्गत्वे किमितीह नापुंसकः संस्कारः कृत इत्याशङ्क्याह—लक्ष्येत्यादि । लक्ष्यस्य लक्षणीयस्य पुनरुक्तवदाभासस्य पुनः शब्दापेक्षया निर्देशे वचन इत्यर्थः । अलंकार्यपारतन्त्र्येति । काव्यसामा-नाधिकरण्येन निर्देशात् । लौकिका हारादयः । एषा ह्यलंकार्येण सह संयोगः संबन्धः । अत एवैषां तपरतन्त्रतापि न स्यात् । काव्यालंकाराणां पुनरलंकार्येण सह समवायः संबन्धः । अत एवैषामयुत-सिद्धत्वादलंकार्यपारतन्त्र्यमेवेति लौकिकालंकारवैधर्म्यमेव न्याय्यम् । आश्रयाश्रयिभावेनालंकार्या-लंकरणभावोपपत्तेः किमाश्रयमस्यालंकारत्वमित्याशङ्क्याह—अर्थेत्यादि । एवकारः शब्दपौनरु-क्त्यावच्छेदद्योतकः । तेन शब्दस्यापौनरुक्त्यान्न शब्दालंकारो नाप्युभयालंकारोऽयमित्यर्थः । पर्यवसाने वस्तुतोऽर्थस्यासत्त्वात् । धर्म्यभावे च धर्मस्य निर्विषयत्वात्पौनरुक्त्यं कस्य धर्मः स्यादिति न वाच्यम् । आमुखेऽर्थस्यावभासमानत्वेन सत्त्वाद्धर्मिधर्मभावस्य नैवानिष्टेरर्थगतयोः सत्त्वासत्त्वयोरनुपयोगात् । आमुखावगतैव च प्रतीतिरलंकारबीजं न पार्यवसानिकी । तथात्वे ह्युपमारूपकादीनामप्यविशेषः स्यात् । पर्यवसानेऽप्यर्थस्य ‘दारुणः काष्ठतो जातः’ इत्यादाविन्धनार्थस्य सत्त्वादनैकान्तिकत्वाभावाच्छ-शशृङ्गवदभावो न वाच्यः । पर्यवसानेऽप्यत्रेन्धनार्थः सन्नपि नालंकारत्वप्रयोजक इति अग्विधदेहशरीरः’ इत्यादावप्यसता कार्यार्थेनाविशेषात्समानः । किं च इतो न पर्यवसानेऽर्थस्यासत्त्वम् । इह हि प्रतीतिमात्रसारत्वात्काव्यस्य यद्यथैव प्रतीयते तत्तथैव भवतीत्यविवादः । तद्बाधोत्पत्तावपि तैमिरिकद्विचन्द्रप्रतीतिवत् पुनरुक्ततयावभातस्यार्थस्यावभासमानत्वात्सत्त्वमेव । नहि शतशोऽपि क्रूराद्यर्थोपलम्भे काष्टादेरर्थस्यापुनरुक्ततया भानमस्ति । बाधोत्पत्तेः पुनर्द्विचन्द्रप्रतीतिवत्पौनरुक्त्य-प्रतीतेरनुपपद्यमानत्वं भवति । नतु शुक्तिकायामिव रजतप्रत्ययस्य स्वरूपत एवाभावः । अत एवाभातपौनरुक्त्यापि प्रतीतिरपौनरुक्त्यपर्यवसायिन्यस्य स्वरूपम् । एवमपि वस्तुतः कार्याद्यर्था-भावस्तदवस्थ इति चेत्, सत्यम् । किं तु यथा वस्तुतो बहिरसंभवन्नपि द्वितीयश्चन्द्रः प्रतीतौ कंचन विशेषमाधातुं नोत्सहते तथेहापि वस्तुवृत्तेन कायादेरर्थस्यासंभवेऽपि प्रतीतौ न कश्चिद्विशेष इति दिण्डिकाराग एव

वास्तवत्वान्वेषणम् । तस्मादत्रावभासमानत्वमेवार्थस्य सत्त्वप्रतिष्ठापकं प्रमाणम् न त्ववभासमानत्वं प्रमातृधर्म इति कथं तदाश्रयो धर्मः काव्यालंकार इति चेत्, असदेतत् । अवभासमानत्वस्याव-भास्यनिष्ठतया प्रतीतेरर्थधर्मत्वात् । तथा हि केषांचन प्रतीतिवादिनां ‘तथाहि वेद्यता नाम भावस्यैव निजं वपुः । चैत्रेण वेद्यं41 वेद्मीति किं ह्यत्र प्रतिभासते ॥’ इत्याद्युक्तयुक्त्या कौमारिलवन्नीलताया इव वेद्यताया अप्यर्थधर्मत्वमेवेष्टम् । इह च तदुपक्रम एवेति न वस्तुवादसंस्पर्शो न्याय्यः । आमुखतुल्यार्थत्वस्य च शब्दधर्मत्वेन शब्दाश्रयत्वात् शब्दालंकारत्वं यद्यस्योच्यते तथापि पर्यवसाने वस्तुतस्तुल्यार्थत्वस्या-संभवात् शशशृङ्गवद्धर्मधर्मिभावो दुष्टः स्यात् । सत्त्वेऽपि दोष एवेत्यस्मत्पक्षोक्तसमग्रचोद्यावकाशः । अत्रापि यद्यामुख एवैकार्थत्वेनावभासनं समाधिस्तदास्मत्पक्षेण किमपराद्धम् । एवं च विरोधेऽपि वस्तुतो विरुद्धस्यार्थस्यासंभवाद्विरुद्धार्थस्य42 च शब्दधर्मत्वात् शब्दालंकारत्वं प्रसज्यते । अत्र विरुद्धस्यार्थस्यासंभवेऽपि कर्त्रादिभिर्वाच्यतयाध्यवसायः। इह तु पौनरुक्त्याश्रयस्यानन्वितत्वेन न वाच्यतेति चेत्, नैतत् । यतः ‘दारुणः काष्ठतो जातः’ इत्यादौ तावत्पौनरुक्त्याश्रयस्य काष्ठादेरर्थस्य जातत्वादिना सहान्वितत्वावगमादस्त्येव मुख्यया वृत्त्या वाच्यत्वम् । ‘अरिवधदेहशरीरः’ इत्यादौ तु वस्तुतः कायादेरवाच्यत्वेऽप्यवभातपौनरुक्त्याश्रयत्वादकृत्रिमार्थशोभापर्यवसायित्वेन वाच्यतयास्त्येव विवक्षितत्वम् । अत्र ह्यकृत्रिमोऽर्थोऽलंकृतकृत्रिमार्थोपस्कृतो यथा चमत्कारकृन्न तथा तदुपस्कृतत-योच्यमानः स्यात् । ‘स्त्रीणां हि कण्ठाभरणानि हाराः पयोधरानव्यभिभूषयन्ति’ इत्यादि दृशा च हारस्य कण्ठालंकारत्वेऽपि सामीप्यात्तावतिशोभातिशयाधायकत्वाद्यथा पयोधरादावप्यलंकारत्वं तथैव कृत्रिमार्थाश्रयत्वेऽप्यवभासमानस्य पौनरुक्तस्याकृत्रिमार्थोपस्कारकत्वमपि प्रतीयत एवेति नानुभवा-पह्नवः कार्यः । एवं च पौनरुक्त्याश्रयस्यार्थस्य यत्रैव वाच्यत्वेन विवक्षितत्वं तत्रैवास्यालंकारत्वं नान्यत्र । ‘अकृष्णपक्षेन्दुमुखी बन्धुजीवाधरद्युतिः । इयं विलासिनी कस्य न नेत्रोत्सवकारिणी ॥’ अत्राकृष्णेत्यर्थ-पौनरुत्त्यस्य संभवेऽपि वाच्यत्वेनाविवक्षितत्वान्नायमलंकारः । एवं वक्ष्यमाणानामप्यलंकाराणां कविविवक्षैव स्वरूपप्रतिष्ठापकं प्रमाणं ज्ञेयम् । किं बहुना, सर्वेषामप्यलंकाराणामुपमितार्थत्वादेः शब्दधर्मत्वाच्छब्दालंकारत्वं स्यात् । तदर्थालंकारत्वमस्य ज्यायः । यावता ह्यर्थस्यामुक्त एव पुनरुक्ततयावभासोऽस्य जीवितम् । अत एव पुनरुक्तत्वदाभासमित्यन्वर्थसंज्ञा । अर्थस्य च पौनरुक्त्यप्रतीतौ न कस्यचिद्विवादः । तामेवाश्रित्य शब्दालंकारस्य भवद्भिरुक्तत्वात् । एवं च प्रत्यासत्तेस्तदाश्रयत्वमेवास्यालंकारत्वं युक्तम् । अन्यथा तुल्यार्थशब्दतापि वाक्यधर्म इति तदाश्रयोऽपि स्यादित्यनवस्थाप्रसङ्गः । अथात्र शब्दस्वरूपवैशिष्टयनिबन्धनं चमत्कारकारित्वमिति तदलंकारत्वमिति चेत्, किं नाम शब्दस्य स्वरूपे वैशिष्टयम् । किं पौनरुक्त्यम्, उत पुनरुक्तार्थवाचित्वम्, उत सभङ्गाभङ्गपदेन श्लिष्टत्वम् । तत्र न तावदाद्यः पक्षः । शब्दस्य द्विरुच्चारणाभावात्तथात्वाप्रतिभासनात् । नापि द्वितीयः । वाच्यवाचकभावेनालं

विस्तरभयान्नोच्यन्ते । उदाहरणं मदीये श्रीकण्ठस्तवे यथा—

‘अहीनभुजगाधीशवपुर्वलयकङ्कणम् ।
शैलादिनन्दिचरितं क्षतकंदर्पदर्पकम् ॥
वृषपुंगवलक्ष्माणं शिखिपावकलोचनम् ।
ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥
‘दारुणः काष्ठतो जातो भस्मभूतिकरः परः ।
रक्तशोणाचिरुच्चण्डः पातु वः पावकः शिखी ॥’

एतच्च सुबन्तापेक्षया । तिङन्तापेक्षया च यथा तत्रैव—

‘भुजंगकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः ।
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ॥’

शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च । अलंकारप्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते । इति द्वैविध्यमेव स्वरव्यञ्जनसमुदायपौनरुक्त्य च ।

                     *         
*

कार्यालंकरणभावात्तस्याश्रयाश्रयिभावेनोपपत्तेः । अत एव सर्वेषामेवार्थालंकाराणामुपमितार्थादिवादि-त्वाच्छब्दस्य तदलंकारत्वं स्यादित्युक्तम् । नापि तृतीयः । पुनरुक्तवदाभासमित्यन्वर्थसंज्ञाश्रयणात् । पौनरुत्त्याख्यधर्म प्रयोजकीकारेणालंकारस्योपक्रान्तत्वात् श्लिष्टत्वस्येहानौपयिकत्वात् । तत्पुनरत्रार्थ-पौनरुत्त्यावगमे निमित्तमात्रम् । निमित्तनिमित्तिभावश्च नालंकारत्वप्रयोजक इत्यविवादः। तस्मादर्थाश्रय-त्वात्पौनरुत्तयस्य तदलंकारत्वमेवेति युक्तम् । एवं वक्रलंकारतापि निरस्ता । सर्वेषामपि वक्रतिशय-रूपत्वात्तंथात्वानुपपत्तेः43विस्तरभयादिति । न तु चित्रत्वाभावात् । नोच्यन्त इति । वस्तुतस्तु संभवन्त्येवेत्यर्थः । अतश्चायं प्रायो वाक्यार्थपदार्थाश्रयत्वात्प्रथमं द्विधाभवन्समस्तासमस्तपदत्वेन चतुर्विधः । क्रमेण यथा— ‘तुहिनक्षितिभृद्युष्मान्पातात्सर्वत्र सर्वदा ख्यातः । हिमवानवतु सदा वो विश्वत्र समागतः ख्यातिम् ॥’ ‘नदीप्रकरमुल्लिङ्गितवन्तं मनोहरहस्तमत्यजन्तं च सपर्याणां रुचि वहन्तं सर्वत्र पूजनीयं च, सकुम्भं सकलशंचरन्तं च सदानदन्तं मदपर्याविलदशन च, करटं कमपि बिभ्रतं कवाटविभ्रमममुञ्चन्तं च, कुञ्जराजिवर्धितरुचिं वारणरणरणिकाकुलितं च, राजमानविसंधायिनं विराजमानं च, शारीभूतं मदसलिलेन शबलीभूतं च, इति पुनरुक्ताश्रयम्’ इत्यनङ्गलेखायां हस्तिवर्णने । ‘बतहन्तासितः कालो गोविभावसुदीधितीः। क्षिपास्य रक्षावसितश्वेतराजयशोभय ॥” असमस्तपदं तु ग्रन्थकृतैवोदाहृतम् । केवलस्वरपौनरुक्त्यं किं न गणितमित्याशङ्क्याह—अलंकारेत्यादि । यथा—‘इन्दीव-

संख्यानियमे पूर्वं छेकानुप्रासः ॥

द्वयोर्व्यञ्जनसमुदाययोः परस्परमनेकधा सादृश्यं संख्यानियमः । पूर्वेव्यञ्जनसमुदायाश्रितं यथा—

‘किं नाम दर्दुर दुरध्यवसाय सायं
कायं निपीड्य निनदं कुरुषे रुषेव ।
एतानि केलिरसितानि सितच्छदाना
माकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥’

अत्र सायंशब्देनास्यालंकारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सह्रैकाभिधानलक्षणः संकरः । छेका विदग्धाः ।

अन्यथा तु वृत्त्यनुप्रासः ॥

केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं त्र्यादीनां च परस्परसादृश्यमन्यथाभावः । वृत्तिस्तु रसविषयो व्यापारः । तद्वती पुनर्वर्णरचनेह

                       *       
  *

रम्मि इन्दम्मि इन्दआलम्मि इन्दिअगणम्मि इन्दिन्दिरम्मि इन्दमि जोइण्णो सरिससंकप्पो44 ॥’ अत्र स्वरपौनरुक्त्यस्य चारुत्वाभावान्नालंकारत्वम् । अत्र45 केवलव्यञ्जनस्वरव्यञ्जनसमुदायाश्रितमलंकारद्वयं लक्षयति— संख्येत्यादिना । एकवचनस्य जात्या बहुत्वप्रसङ्गाद्बहुवचनस्य च त्र्यादीनां स्वयमेव बहुत्वात्संख्यानियमो द्वित्व एव संभवतीति द्वयोरित्युक्तम् । द्वयोरप्येकधा सादृश्यं वृत्त्यनुप्रास एवेत्याशङ्कयाह—अनेकधेति । यकारमात्रेत्यनेन द्वयोरेव सादृश्यमस्य जीवितमिति ध्वनितम् । यद्यपि चायं व्यञ्जनमात्रपौनरुक्त्याख्यस्य सामान्यलक्षणस्य संभवादनुप्रास एवान्यैरन्तर्भावितः तथाप्यस्य ग्रन्थकृता उद्भटमतानुरोधादिह लक्षणं कृतम्— अन्यथेत्यादि । एतदेव भेदनिर्देशं कुर्वन्व्याचष्टे—केवलेत्यादि । समुदायः पारिशेष्याद्व्य46ञ्जनद्वयरूपः । एकधेति47 चात्रैव संबद्धव्यम् । केवलस्य त्र्यादीनां चानेकधापि सादृश्यस्यानेन व्याप्तत्वात् । एतच्च समस्तासमस्ताक्षरत्वेन संभवतीत्यस्य प्रायः षट् प्रकाराः । क्रमेण यथा— ‘यया यायाय्यया यूयं यो यो यं येययायया । ययुयायि ययेयाय ययेयायाय याययुक् ॥’ असमस्ताक्षरं तु ग्रन्थकृतैवोदाहृतम् । ‘दीनादीनां ददौ दानं निननाद दिने दिने । निन्दिन्द नन्दनानन्दानदुनोदिननन्दनम् ॥’ ‘रुच्याभिः प्रचुराभिस्तरुशिखरापाचिताभिरुचिताभिः । []48 अचिररुचिरु-चिररुचिभिश्चिराश्चिराभिश्चमत्कृतं48 चेतः ॥’ ‘ततः सोमसिते मासि सततं संमतं सताम् । अतामसो-

वृत्तिः । सा च परुषकोमलमध्यमवर्णारब्धत्वात्रिधा । तदुपलक्षितोऽयमनुप्रासः । यथा—

‘आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे
खेलन्ती49 प्रथते तथापि कुरुते नो मन्मनोरञ्जनम् ।
न स्याद्यावदमन्दसुन्दरगुणालंकारझंकारितः
सप्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ॥’

यथा वा—

‘सह्याःपन्नगफूत्कृतानलशिखा नाराचपाल्योऽपि वा
राकेन्दोः किरणा विषद्रवमुचो वर्षासु वा वायवः ।
न त्वेतोः50 सरलाः सितासितरुचः साचीकृताः सालसाः
साकूताः समदाः कुरङ्गकदृशां मानानुविद्धा दृशः ॥’

स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् ॥

अत्र क्वचिद्भिन्नार्थत्वं क्वचिदभिन्नार्थत्वं क्वचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम् । यथा—

                   *           

त्तममतिः सती सुतमसूत सा ॥’ ‘कमलदृशः कमलामलकोमलकमनीयकान्तिवपुरमलम् । कमलं कुरुते तावत्कमलापतितोऽपि यो विमलः ॥’ आदिशब्दाच्चतुरक्षरादेर्ग्रहणम् । यथा— ‘स ददातु वासवादिदेवतासंस्तवस्तुतः । सदा सदसतिं देवः सविता विततां सताम् ॥’ वर्णरचनेह वृत्तिरिति । उपचारादिति भावः । त्रिधेति । यदुक्तम्— ‘शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता । परुषा नाम वृत्तिः स्याद्ह्लह्वह्याद्यैश्च संयुता ॥ सरूपसंयोगयुतांमूर्ध51वर्गान्त्ययोगिभिः । स्पर्शैर्युतां च मन्यन्ते उपनागरिकां बुधाः ॥’ शेषवर्णैर्यथायोगं रचितां कोमलाख्यया । ग्राम्यां वृत्तिं प्रशंसन्ति काव्येष्वादृतबुद्धयः॥’ यथा— ‘निरर्गलविनिर्गलद्गुलगुलाकरालैगलैरमी तडिति ताडितोड्डमरडिण्डिमोड्ढामराः । मदाचमनचञ्चुर-प्रचुरचञ्चरीकोच्चयाः पणः परिणतिक्षणक्षततटान्तरा दन्तिनः ॥’ अत्र लकाराद्यावृत्त्या मध्यमत्वमिति वृत्तित्रैविध्यम् । एवं व्यञ्जनमात्राश्रयमलंकारद्वयं लक्षयित्वा स्वरव्यञ्जनाश्रयं यमकं लक्षयति—स्वरेत्यादि । एकस्येत्याद्युपलक्षणपरम् । अतो बहूनां यमकानां क्वचित्सार्थकत्वं निरर्थकत्वं च स्थितं संगृहीतमेव । ‘क्वचित्सार्थकत्वं क्वचिन्निरर्थकत्वं’ इति तु पाठे प्रथममेव भेदद्वयमुक्तं स्यान्न तृतीयः प्रकारः। अतश्च भेदनिर्देशग्रन्थो यथास्थित एव ज्यायान् । संक्षेपत इति । एतच्च काव्यात्मभूतर-सचर्वणाप्रत्यूहकारित्वात्प्रपश्चयितुं न यो-

‘यो यः पश्यति तन्नेत्रे रुचिरे वनजायते ।
तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ॥

इदं सार्थकत्वे । एवमन्यज्ज्ञेयम् ।

शब्दार्थपौनरुक्त्यं प्ररूढं दोषः ॥

प्ररूढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम् । यदाहुः— ‘शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रा-नुवादात् ।’ इति ।

                        *      
  *

ग्यमिति चिरंतनालंकारवन्न विभज्य लक्षितमिति भावः । एवं चित्रेऽपि ज्ञेयम् । अन्यदिति प्रकारद्वयम् । तत्रानर्थकं यथा— ‘सरसमन्थरतामरसादरभ्रमरसजलया नलिनी मधौ । जलधिदेवतया सदृशीं श्रियं स्फुटतरागतरागरुचिर्दधौ ॥’ अत्र तरागेत्यनर्थकम् । अनर्थकत्वसार्थकत्वयोर्यथा— ‘साहारं साहारं साहारं मुणइ सज्जसाहारम् । सं ताणं संताणं संताणं मोहसंताणम् ॥’ अत्र सज्जसाहारमित्यनर्थकम् । अन्यानि तु सार्थकानीति न कश्चिद्दोषः । इदं च स्थाननियममन्तरेण न भवति । यदुक्तम्— ‘पदमनेकार्यमक्षरं चावृत्तं स्थाननियमे यमकम्’ इति । अत एव स्थाननियमाद्यमकमित्यस्यान्वर्थ-मभिधानम् । स च स्थाननियमो वैवक्षिको न वास्तवः । यथा— ‘मधुपराजिपराजितमानिनीजनमनः-सुमनःसुरभि श्रियम् । अमृत वारितवारिदविप्लवां स्फुटितताम्रतताम्रवणं जगत् ॥’ अत्राक्षरद्वयानन्तरं यमकविन्यासात्स्थानस्य नियतत्वम् । यथा वा’छिन्द्याद्भायाति तत्र कार्तिकेयः शशी जितो येन स कार्तिकेयः । उत्खातदन्तो गणनायकस्य स्वामी यदन्यो गणनाय कस्य ॥’ अत्र चार्धद्वये यमकद्वयमिति स्थाननियमो द्विधैवेति नास्यालंकारस्य क्षतिः काचित् । अतश्च ‘श्रुतरसिक तरसिकलितरुकलित- रुजालहरिजालहरिणतमः52 (?) । हरिणतमश्च ततस्तव ततस्तवः स्याद्यशोराशिः ॥’ इत्यत्र सत्त्वेऽपि स्वरव्यञ्जनसमुदायपौनरुक्त्यस्य स्थाननियमाभावाद्यमकाभासोऽयं वृत्त्यनुप्रासः । प्ररूढमिति । यथाभासनं53 विश्रान्तेः । यथा—तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तमः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥’ अत्रेन्दुरिति । अत्रिनेत्रक्षीरोदजन्मत्वादिन्दोर्द्वित्वान्नैतत्प्ररूढमिति न कार्यम् । कविसमये तथात्वस्याप्रतीतेः । आहुरित्याक्षपादाः ।अन्यत्रानुवादादिति । अनुवादे हि शब्दार्थयोः पुनर्वचनं क्रियमाणं न दोपाय । अक्रियमाणं पुनर्दोषाय भवतीति भावः । यथा— ‘उदेति रक्तः सविता रक्त एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता ॥’ अत्र रक्त इति । ‘शिरः शार्वे स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् । अधोधो गङ्गावद्वयमुपगता नूनमथवा विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥’ अत्र पौनरुक्त्येऽपि शब्दस्या

तात्पर्यभेदवत्तु लाटानुप्रासः ॥

तात्पर्यमन्यपरत्वम् । तदेव भिद्यते, न54तु शब्दार्थयोः स्वरूपम् । यथा—

‘ताला जाअन्ति गुणा जाला दे सहिअएहिँ घेप्पन्ति ।
रइकिरणाणुगाहिआइँ होन्ति कमलाइँ कमलाई ॥’

‘ब्रूमः कियन्नय कथंचन कालमल्प
मत्राब्जपत्रनयने नयने निमील्य ।
हेमाम्बुजं तरुणि तत्तरसापहृत्य
देवद्विषोऽयमहमागत इत्यवैहि॥’

अत्राब्जपत्रनयने नयने निमील्येत्यादौ विभक्त्यादेरपौनरुक्त्येऽपि बहुतरशब्दार्थपौनरुक्त्या-लाटानुप्रासत्वमेव ।

‘काशाः55 काशा इवाभान्ति (न्तः) सरांसीव सरांसि च ।
चेतांस्याचिक्षिपुर्यूनां निम्नगा निम्नगा इव ॥’

__________

पुनर्वचनं प्रतीत्यन्तरजनकत्वाद्दोषः । तदेवाप्ररूढमलंकार इत्याह—तात्पर्येत्यादिअन्यपरत्वमिति । एकस्य वाच्यविश्रान्तत्वेऽन्यस्य लक्ष्ये व्यङ्गये वार्थे वाच्यविश्रान्तिरित्यर्थः। भिद्यत इति पर्यवसाने । आमुखे हि शब्दवदर्थस्याप्येकत्वेनैवावभासः । अत एवाह—न शब्दार्थस्वरूपमिति । एवं च नायं द्वयोर्वाच्यविश्रान्तत्वेऽनुवादमात्रमलंकारः । नहि दोषाभावमात्रमलंकारस्वरूपम् । एवं हि सत्यपशब्दा-द्यभावस्याप्यलंकारत्वप्रसङ्गः । यत्परमादावुक्तं तत्परमेव पुनर्नोच्यते । इत्येव सामान्येन यद्यप्यन्यपर-त्वमुच्यते तद्विरोधादिवत् ‘उदेति रक्तः सविता–’ इत्यादौ दोषाभावमात्रत्वेऽप्यलंकारत्वोचि-तस्यान्यपरत्वाख्यस्यातिशयस्यापि भावादलंकारत्वप्रसङ्गः । न चैतावतैव कश्चिदतिशयः प्रतीयत इति यथोक्तमेव56 युक्तम् । एकः कमलशब्दो वाच्यपर्यवसितः अन्यश्च सौरभबन्धुरत्वाद्यनेकधर्मनिष्ठ इति तात्पर्यभेदः । ब्रूमः कियदिति । अत्राब्जशब्दस्याप्यपौनरुक्त्याल्लाटानुप्रासत्वमेवेति चिन्त्यम् । अत्र हि द्वयोरपि नयनशब्दयोर्वाच्यविश्रान्तत्वादन्यपरत्वाभावान्नास्ति तात्पर्यभेदः । स एव ह्यस्य जीवितम् । अन्यथा ह्यनुप्रासमात्रत्वं स्यान्नालंकारत्वम् । अथापि केवलनयनशब्दस्य स्वार्थविश्रान्तिः संसर्गपदान्त-र्गतस्य पुनः स्वार्थमुपसर्जनीकृत्य संज्ञिनमभिदधतश्च स्वार्थत्यागात्परार्थे च वृत्तेरस्त्येव लक्ष्यनिष्ठत्वमिति चेत्, नैतत् । लक्षणासामग्र्यभावात् । अत्र ह्यन्यपदार्थप्रधानत्वान्नयनशब्दस्य गुणीभावः, न मुख्यार्थबाधः । स्वार्थ एव विश्रान्तेः । न च गुणीभावमुख्यार्थबाधयोरेकत्वम् । सतो हि मुख्यार्थस्य कंचिदपेक्ष्य

इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः । अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थ-मात्रगतत्वेन च व्यवस्थितेर्भिन्नविषयत्वात् ।

‘अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥”

तदेवं पौनरुक्त्ये पञ्चालंकारः ॥

निगदव्याख्या57तमेतत् ।

वर्णानां खड्गाद्याकृतिहेतुत्वेचित्रम् ॥

पौनरुक्त्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनम् । यद्यपि लिप्यक्षराणां खङ्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवे-

_____________

गुणीभावः। बाधःपुनःस्वस्मिन्नेवाविश्रान्तिरित्यनयोर्महान्भेदः । नाप्यत्र किंचित्प्रयोजनं न वारूढिरियमित्येतत्पौनरुक्त्यमात्रम् । एवम्, ‘सितकरकररुचिरविभा विभाकराकार धरणिधरकीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥” इत्यादावपि ज्ञेयम् । चमत्कारस्त्वत्रानुप्रास-कृतोऽवसेयः । नन्वनन्वयेऽपि शब्द पौनरुक्त्यं दृश्यत इति तत्रापि किमयमेवालंकारः किमु स एवेत्याशङ्कयाह—अनन्वय इत्यादिआनुषङ्गिकमिति । न पुनः साक्षात्प्रयोजकमित्यर्थः । शब्दैक्यं विनाप्यनन्वयस्य प्रतिपादनात् । अत्र हि शब्दैक्यं क्वचिदक्रियमाणमनौचित्यमावहति क्वचिन्नेति भावः । तत्तु यथा—‘यच्चक्षुर्जगतां सहस्रकरवद्धाम्नां च धामार्कवन्मोक्षद्वारमपावृतं च रविवद्धान्तान्तकृत्सूर्यवत् । आत्मा सर्वशरीरिणां सवितृवत्तिग्मांशुवत्कालकृत्साध्वीं नः स गिरं ददातु दिनकृद्योन्यैरतुल्योपमः ॥’ अत्र सहस्रकरादयोऽन्य इवाभासमाना अनन्वयप्रतीतिं विघ्नयन्तीति शब्दैक्याभावोऽनौचित्यमावहति न पुनरनन्वयस्याभावात् । ‘स्थैर्याद्भूर्व्यापकत्वाद्वियदखिलजगत्प्राणभावान्नभस्वान्भास्वान्विश्वप्रकाशाद्यु-गपदपि सुधासूतिराह्लादनाच्च । वह्निः संहारकत्वाज्जलमखिलजनाप्यायनाच्चोपमानं सत्यात्मत्वेऽपि यस्य प्रभवतु भवतां सोऽष्टमूर्तिः शिवाय ॥’ अत्र निर्विघ्नमेवानन्वयस्य प्रतीतेः शब्दैक्याभावो नानौचित्यावहः । तुशब्दो व्यतिरेके ।साक्षादिति । शब्दैक्यं विनास्यानुत्थानात् । एतदेवोपसंहरति—तदेवमित्यादि । पुनवक्तवदाभासमर्थपौनरुक्त्याश्रितं, छेकानुप्रासादयस्त्रयः शब्दपौनरुक्त्याश्रयाः । लाटानुप्रासस्तूभयाश्रित इति पञ्च पौनरुक्त्याश्रिता अलंकाराः । यद्यप्युक्तेः शब्दार्थगतत्वेनोच्चरणाभि-धानतया भेदात्सामान्याभावात्कस्य पञ्चप्रकारत्वं तथापि तस्या द्वयोरप्यनुगमादेकत्वेन प्रतीतेरुक्तिसा-मान्यानिबन्धनमेव प्रकारिप्रकारभाववचनम् । यच्चार्थभेदेन शब्दस्यापि भिन्नत्वं तदवास्तवम् । प्रतीतावेकतयैवावभासात् । अत एवानेकार्थवर्गादिष्वपि तथात्वेनैव व्यवहारः । वर्णानामित्यादि । उच्चारणकाले स्थानविशेषश्लिष्टवर्णात्मकखड्गादिसंनिवेशस्याभावात्पौनरुक्त्यप्रतीतिर्नात्रेति किमायो-ऽयमलंकार इत्याशङ्क्याह— यद्यपीत्यादि

तवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालंकारोऽयम् । आदिग्रहणाद्यथाव्युत्पत्ति-संभवं पद्मबन्धादिपरिग्रहः । यथा—

‘भासते प्रतिभासार रसाभासाहताविभा ।
भावितात्माशुभावादे देवाभा बत ते सभा ॥’

एषोऽष्टदलपद्मबन्धः । अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां लिष्टाक्षरत्वम् । विदिग्दलेषु त्वन्यथा ।कर्णिकाक्षरं तु श्लिष्टमेव ।

उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यले उपमा ॥

अर्थालंकारप्रकरणमिदम् । उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थम् । साधर्म्ये त्रयः प्रकाराः । भेदप्राधान्यं व्यतिरेकादिवत् । अभेदप्राधान्यं रूपकादिवत् । द्वयोस्तुल्यत्वं यथास्याम् । यदाहुः— ‘यत्र किं-

                   *          

लिप्यक्षराणां मषीबिन्दुरूपाणां श्रयमाणतासतत्त्ववर्णशब्दाभेदप्रतिपत्त्या औपचारिकोऽयं शब्दालंकार इति तात्पर्यार्थः । आदिग्रहणं सफलयितुं पद्मबन्धेनोदाहरति—भासतेत्यादि । खड्गबन्धः पुनर्यथा—स पात्रीभविता मोक्षक्षणलक्ष्म्या भवारसः । समस्तजनतायाससमुद्राभिन्नताभिदः ॥’ श्लिष्टमेवेति । अष्टदिक्कमपि निर्गमप्रवेशयोः । उपमानेत्यादिअर्थेति । शब्दालंकारनिर्णयानन्तरमवसरप्राप्त-मित्यर्थः । ननूपमानोपमेययोरेव साधर्म्य संभवति न कार्यकारणादिकयोरिति किं तदुपादानेनेत्या-शङ्क्याह—उपमानेत्यादि । तत्रोपमानस्याप्रतीतत्वं लिङ्गभेदादिना प्राच्यैरुक्तम् । यथा— ‘कटु क्वणन्तोमलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधु ध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥’ अत्र क्कवणनादेधर्मस्योपमानेऽन्यतां58 करोतीति लिङ्गभेदो दुष्टः । यद्यपि साधारणधर्मस्योभयसंबन्धसंभवेऽपि सिद्धत्वादुपमाने तत्संबन्धस्य स्वयमेवावगमात्तस्य न शाब्दता युक्तेत्युपमानपारतन्त्र्येण लिङ्गादिविपरिणामो न कार्य इति न लिङ्गभेदादेर्दुदुष्टत्वम् तथाप्युपमान-वाक्यस्य साकाङ्क्षवात्प्रतीतिविश्रान्तेः शाब्दस्तत्संबन्ध उपयुक्त एव । नहि प्रभामहत्यादावुपमानवाक्ये पूतत्वादिसंबन्धं विना समन्वयविश्रान्तिः स्यात् । केवलं समानधर्मस्योपमेये विधीयमानत्वमुपमाने चानूद्यमानत्वमितीयानेव विशेषः । तदुभयत्रापि तत्संबन्धस्यावश्योपयोगादुपपद्यत एव समानधर्मस्यानु-गामित्वम् । तल्लिङ्गभेदादेरपि दुष्टत्वं युक्तम् । उपमेयस्याप्रतीतत्वमवर्णनीयस्यापि वर्णनीयत्वम् । यथा— ‘गौरःसुपीवराभोगोरण्डाया मुण्डितो भगः । मेरोरर्कयोल्लीढशष्पहेमतटायते ॥अत्र तन्वङ्ग्या रूपवर्णने भगवर्णनमनौचित्यावहमित्युपमेयस्याप्रतीतत्वम् । भेदाभेदतुल्यत्वं व्याख्यातुं साधर्म्यस्य विषयविभागेण व्यवस्थितिं दर्शयति–साधर्म्य इत्यादिना । एतैरेव च त्रिभिः प्रकारैः साधर्म्याश्रयः

चित्सामान्यं कश्चिच्च विशेषः स विषयः सदृशतायाः’ इति ।उपमैवानेकप्रकारवैचित्र्येणानेकालं-कारबीजभूतेति प्रथमं निर्दिष्टा । अस्याश्च पूर्णालुप्तात्वभेदा59च्चिरंतनैर्बहुविधत्वमुक्तम् । तत्रापि साधारण60धर्मस्य क्वचिदनुगामित

समग्र एवालंकारवर्गः संगृहीतः । तेन व्यतिरेकवदित्यनेन सहोक्त्यादयः संगृहीताः । रूपकवदित्यनेन परिणामोत्प्रेक्षादयः । किंतु रूपकोत्प्रेक्षयोरभेदप्राधान्यसद्भावेऽप्यारोपाध्यवसायकृत एव विशेषः । यद्वक्ष्यति— ‘आरोपादभेदेऽध्यवसायःप्रकृष्यते’ इति । अतश्चाध्यवसायगर्भेष्वलंकारेषु शुद्धाभेदरूपश्च-तुर्थः प्रकारो न कश्चिदाशङ्कनीयः । तत्राप्यभेदप्राधान्यस्यैव भावात् । अनयाप्युपमेयोपमादयः संगृहीताः । सामान्यमित्यभेदहेतुकम् । विशेष इति भेदहेतुकः । एवं च भेदाभेदतुल्यत्वविषये यः सादृश्यप्रत्ययो जायते तस्योपमाविषयत्वमुक्तम् । ननु च सत्स्वप्यनेकेष्वर्थालंकारेषु प्रथममियमेव किं निर्दिष्टेत्याशङ्कयाह—उपमैवेत्यादिअनेकेऽलंकाराः साधर्म्याश्रयाः तत्रैवास्याजीव (बीज )त्वात् । उक्तमिति । ‘साधर्म्यमुपमा भेदे पूर्णा लुप्ता च साग्रिमा । श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥’ इत्यादिना । अतश्च किमस्माकं तदाविष्करणेनेति भावः । एवं च तेषां गणने तथा न वैचित्र्यं किंचिदिति सूचितम् । तत्रापीति । चिरंतनोक्ते पूर्णत्वादिभेदनिर्देशे सत्यपीत्यर्थः । साधारणधर्मस्येति । धर्मः पराश्रितः तस्य च तदतद्गामित्वात्साधारणत्वम् । तदेव चोपमाद्युत्थाने निमित्तम् । स च ‘चतुष्टयी शब्दानां प्रवृत्तिः’ इति महाभाष्यप्रक्रियया जातिगुणक्रियाद्रव्यात्मकेषु धर्मिष्वेवंरूप एव भवति । न चैतद्विरुध्यते । धर्मिधर्मभावस्याश्रयाश्रयिभावेन भावात् । अत एव च धर्मिधर्मभावस्य न वास्तवत्वम् । जात्याद्यात्मनो धर्मिणोऽपि कदाचिदन्याश्रितत्वे धर्मत्वात् । एवं च तदतिरिक्तं धर्ममात्रमपि साधारणं न किंचिद्वाच्यम् । चतुष्टय्या एव शब्दानां प्रवृत्तेरुक्तत्वात् । ‘सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥’ इत्यादावुपमानादौ क्रियारूपत्वादेर्यो-जयितुं शक्यत्वात्तस्या एव च समग्र विषयावगाहनसहिष्णुत्वात् । ननु जातेःसाधारणधर्मत्वे61 तज्जातीयत्वात्तत्त्वं न स्यान्न तत्सदृश्यत्वमि62ति कथमुपमाङ्गत्वमस्याः स्यादिति चेत्, न । बिम्बप्रतिबिम्ब-भावाश्रयेण तथात्वाभावात् । तत्र ह्यसकृन्निर्देशाद्द्वयोर्हारनिर्झरादिकयोर्जात्योः शैत्या63द्यभेदनिमित्ता-वलम्बनेनैकत्वमाश्रित्य सादृश्यनिमित्तं साधारण्यं स्यात् । एतच्च सविस्तरमुपरिष्टाद्वक्ष्यामः । तत्र धर्मिणो जात्यादिरूपता यथा— ‘घनोद्यानच्छायामिव मरुपथाद्दावदहनात्तुषाराम्भोवापीमिव विषविपाकादिव सुधाम् । प्रवृद्धादुन्मादात्प्रकृतिमिव निस्तीर्य विरहाल्लभेय त्वद्भक्तिं निरुपमरसां शंकर कदा ॥’ अत्र च्छायावापीसुधाप्रकृतीनामुपमानानां जातिगुणद्रव्यक्रियात्वम् । छायायास्तु जातिरूपत्वाद्गुणत्वं नाशङ्कनीयम् । उपमेयस्य पुनरेतत्स्वयमेवाभ्यूह्यम् । धर्माणां तु यथा— ‘वैदेहि पश्यामलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् । छायापथेनेव शरत्प्र-

यैकरूप्येण निर्देशः । क्वचिद्वस्तुप्रतिवस्तुभावेन पृथङ्निर्देशः । पृथङ्निर्देशे च संबन्धिभेदमात्रं प्रतिवस्तूपमावत् । बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् ।

क्रमेणोदाहरणम्—

‘प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः ।
संस्कारवत्येव गिरा मनीषी तथा स पूतश्च विभूषितश्च ॥’

‘यान्त्या मुहुर्वलितकंधरमाननं त
दावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या
गाढं निखात इव मे हृदये कटाक्षः ॥’

अत्र वलितत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने । धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव ।

‘पाण्ड्योऽयमंसार्पितलम्बहारःक्लृप्ताङ्गरागो नवचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्वार इवाद्गाराजः ॥’

  *                  *

सन्नमाकाशमाविष्कृततारतारम्64 ॥’ अत्र विभक्तमित्यस्य क्रियात्वं रामसेतुच्छायापथयोर्द्रव्यत्वं फेनतारकाणां जातित्वं प्रसादस्य च गुणत्वं द्रव्यात्मकाकाशाम्बुराशिगतत्वेनोपनिबद्धम् । एवं प्रकृतामेव महाभाष्यप्रक्रियामपहाय निर्निमित्तमेव प्रक्रियान्तरमाश्रित्य यदन्यैरुक्तं65 तदयुक्तमेवेत्यलं बहुना । एवंविधस्य चास्य भावाभावरूपतया द्वैविध्यम् । एतच्च न तथा वैचित्र्यावहमिति ग्रन्थकृता नोक्तम् । ऐक्यरूप्येणेति । सकृत् । यद्वक्ष्यति— ‘तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देश उपमा’ इति । पृथङ्निर्देशः इति । असकृदित्यर्थः। यद्वक्ष्यति— ‘वस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव’ इति । साधारणधर्मस्येत्यत्रापि संबन्धनीयम् । वस्तुप्रतिवस्तुभावेऽपि द्वैविध्यमित्याह— पृथङ्निर्देशः इत्यादि । संबन्धिभेदमात्रमिति । न पुनः स्वरूपभेदः कश्चिदित्यर्थः । यद्वक्ष्यति— असकृन्निदेशे शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा’ इति । एतच्च भेदत्रयं प्रायः सर्वेषामेव सादृश्याश्रयाणामलं-काराणां जीवितभूतत्वेन संभवतीत्यग्रत एव तत्रतत्रोदाहरिष्यामः । क्रमेणेति यथोद्देशम् । संबन्धिभेदादिति । संबन्धिनोःकंधरावृन्तयोर्भेदात् । न तु हारनिर्झरादिवत्स्वरूपतो भेदः । वस्तुत एकत्वाद्वलितत्वावृत्तत्वयोरभेदः । ननु यदि वलितत्वावृत्तत्वाख्यो धर्म आननशतपत्रयोः शुद्धसामान्यरू-पतयोपात्तस्तद्धर्मी कंधरावृन्त रूपःपुनःकिंरूपतयेत्याशङ्कयाह—धर्म्यभिप्रायेणेत्यादि । एवकारः शुद्धसामान्यरूपत्वव्यवच्छेदकः । कंधरावृन्तयोश्च यथोक्ते धर्मित्वेऽप्याननशतपत्रापेक्षया धर्मत्वमेव युक्तम् । आश्रयाश्रयिभावेन धर्मिधर्मभावस्य भावात् । अत एवास्यावास्तवत्वं पूर्वमुक्तम् ।

अत्र हाराङ्गरागयोर्निर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ ।

                      *        
*

अतश्चाननशतपत्रापेक्षया इति न व्याख्येयम् । तयोरुपमानोपमेयभाववाचोयुक्तरेव युक्तत्वात् । एवं च सति कंधरावृन्तयोः स्वरूपमनभिमतं स्यात् । अनेनैव च बिम्बप्रतिबिम्भावस्य स्वरूपे दर्शितेऽप्यसंकीर्णप्रकटनाशयेन पुनः ‘पाण्ड्योऽयम्’ इत्यायुदाहृतम् । हाराङ्गरागयोरिति । स्वरूपयोरिति शेषः । न चात्र बिम्बप्रतिबिम्बभावस्य विषयान्तरं प्रदर्श्य वाक्यार्थगतामुपमामाशङ्कय गुणसाम्यनामा चतुर्थः प्रकारो वाच्यः । यावता हि सा धारणधर्मनिबन्धनमुपमास्वरूपं स चात्र धर्मो निर्दिष्टानिर्दिष्टत्वेन द्विविधः । निर्देशपक्षे चास्य त्रैविध्यमुक्तम् । अनिर्देशपक्षे चास्य न वैचित्र्यं किचिदिति न तदाश्रयं भेदजातमुक्तम् । अतश्चात्र निर्दिष्टः साधारणधर्मो व्यवस्थित इति का नाम चतुर्थप्रकारकल्पना । वाक्यार्थोपमागन्धोऽप्यत्र नास्ति । स ह्यनेकेषां धर्मिणां परस्परावच्छिन्नानां तादृशैरेव धर्मिभिः साम्ये भवति । यथा— ‘जनयित्र्याः कुलाल्याश्च रक्षित्र्या विदितोऽभवत् । रत्नसूतेर्भुजंग्याश्च प्रच्छन्न इव शेवधिः ॥’ अत्र जनयित्र्यादीनां रत्नसूत्यादीन्युपमानान्युपात्तानि । एतेषां धर्मित्वं परस्परावच्छिन्नत्वं च स्फुटमेव । बिम्बप्रतिबिम्बभावःपुनर्धर्मिविशेषप्रतिपादनोन्मुखानां धर्माणां भवति । यथात्रैव । अत्र हि हाराङ्गरागयोः पाण्ड्यस्य विशिष्टतापादनायैवोपादानम् । इन्दुमतीं प्रति तस्य विशिष्टालम्बनविभावत्वेन विवक्षितत्वात् । अतश्च तयोः परस्परोन्मुखत्वात्स्वात्मन्येवाविश्रान्तिरिति का कथोपमेयतायाः । एवं पाण्ड्यस्याद्रिराजेन हारनिर्झरादिधर्मनिमित्तैवोपमा । तावन्मात्रेणैव सादृश्यपर्यवसानात्66 । तच्च हारादेःसाधारणधर्मस्य बिम्बप्रतिबिम्बत्वाद्दृष्टान्तन्यायस्यैतत्सूदाहरणमेव । ननु हारनिर्झरयोस्तदतद्गामित्वाभावात्कथं साधारणधर्मतेति चेत्, उच्यते— अस्यास्तावद्धर्मस्य साधारण्यं जीवितम् । तच्च धर्मस्यैकत्वे भवति । न च वस्तुतोऽत्र धर्मस्यैकत्वम् । नहि य एव मुखगतो लावण्यादिर्धर्मः स एव चन्द्रादौ । तस्यान्वयासंभवात् । अपि तु तज्जातीयोऽत्रान्योऽस्ति धर्मः । एवं धर्मयोर्भेदात्साधारणत्वाभावादुपमायाः स्वरूपनिष्पत्तिरेव न स्यात् । अथ धर्मयोरपि सादृश्यमभ्युप-गम्यते तत्तत्रापि सादृश्यनिमित्तमन्यदन्वेष्यम् । तत्राप्यन्यदित्यनवस्था स्यात् । ततश्च धर्मयोर्वस्तुतो भेदेऽपि प्रतीतावेकतावसायाद्भेदेऽप्यभेद इत्येतन्निमित्तमेकत्वमाश्रयणीयम् । अन्यथा ह्युपमाया उत्थानमेव न स्यात् । एवमिहापि हारनिर्झरादीनां वस्तुप्रतिवस्तुतयोपात्तानां वस्तुतो भेदेऽप्यभेदविवेक्षकत्वं67 ग्राह्यम् । अन्यथा ह्येषां पाण्ड्याद्रिराजयोरौपम्यसमुत्थाने निमित्तत्वमेव न स्यात् । न चैषामौपम्यं युक्तमिति समनन्तरमेवोक्तम् । अत एवात्र बिम्बप्रतिबिम्बभावव्यपदेशः । लोको हि दर्पणादौ बिम्बात्प्रतिबिम्बस्य भेदेऽपि मदीयमेवात्र वदनं संक्रान्तमित्यभेदेनाभिमन्यते । अन्यथा हि प्रतिबिम्बदर्शने कृशोऽहं स्थूलोऽहमित्याद्यभिमानो नोदियात् भूषणविन्यासादौ च नायिका नाद्रियेरन् ।प्राच्यैरपि68— ‘स मुनिर्लाञ्छितो मौञ्ज्याकृष्णाजिनपटं वहन् । व्यराजन्नीलजीमूतभागश्लिष्ट इवांशुमान् ॥’

इति । तथा— ‘स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः। शतहूदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥’ इत्यत्र मौञ्जीतडितोः शङ्खशशिनोश्च वस्तुतो भेदेऽप्यभेदविवक्षामे-वाश्रित्य साधारणधर्मस्य हीनत्वमाधिक्यं चोक्तम् । अत एवात्र69 पूर्वे ग्रन्थकृता वस्तुप्रतिवस्तुभाव-वस्तुद्वयस्य प्राच्योक्तमेव व्यवहारं दर्शयितुं प्रतिवस्तूपमावदृष्टान्तवच्चेति तदुक्तमेव दृष्टान्तद्वयं दत्तम् । एवं चात्राभेदविवक्षैव जीवितम् । एषा च लक्ष्ये सुप्रचुरैव ।यथा— ‘विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहृतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥’ अत्र विद्युद्वनितादीनां मेघप्रासादविशिष्टताधायकतया धर्मत्वेनैवोपादानम् । अत एव तैस्तैर्विशेषैरित्युक्तम् । तेषां सकृन्निर्देशाभावान्नानुगामिता । एकार्थत्वाभावान्न शुद्धसामान्यरूपत्वमिति पारिशेष्यद्बिप्रतिबिम्बभाव एव । एतेषां चाभेदेनैव प्रतीतेः साधारण70त्वम् । एवं हारादेरपि ज्ञेयम् । अभेदप्रतीतिश्चात्र सादृश्यनिमित्ता । न चैतावतैवैषामुप-मानोपमेयत्वं वाच्यम् । तथात्वाविवक्षणात् । सादृश्यस्य च सितत्वादिगुणयोगित्वं नाम निमित्तम् । एवमभेदप्रतीतिमुखेनात्र हारादेः समानधर्मत्वम् । क्वचिन्निमित्तान्तरेणाप्यभेदप्रतीतिर्भवति । यथा— ‘द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीद्दष्टोऽदङ्गुष्ट इवाहिना ॥’ अत्रोत्तरार्धे दष्टदुष्टयोर्दोषकारित्वादिना एक कार्यकारित्वं भेदकारणमित्यलं बहुना । इयं च द्वयोरपि प्रकृतयोरप्रकृतयोश्चौपम्येसमुच्चिता71 भवति । क्रमेण72 यथा— ‘सदयं बुभुजे महाभुजः’ इत्यादि । अत्र वधूमेदिन्योरचिरोपनतत्वात्प्रकृतत्वेन सदयोपभोगे समुच्चितत्वम् । अप्रकृता यथा73— ‘स्वरेण तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि । अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिक ताड्यमाना ॥ ‘अत्र भगवत्यपेक्षयान्यपुष्टावितन्त्र्योरप्रकृतयोः प्रतिकूलशब्दत्वे समुच्चितत्वम् । इयमेकदेशविवर्तिन्यपि । यथा— ‘कमलदलैरघरैरिव दशनैरिव केसरैर्विराजन्ते । अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥’ अत्र नलिनीनां नायिका उपमानत्वेनोपात्ता इत्येकदेशविवर्तित्वम् । इयं च सादृश्यदायार्थ कविप्रतिभाकल्पिते साधर्म्ये कल्पिता भवति । तच्च क्वचिदुपमेयगतत्वेन क्वचिदुपमानेनापि कल्पितमिति द्विधात्वमस्याः । यदुक्तम्— ‘उपमेयस्य वैशिष्टयमुपमानस्य वा क्वचित्’ इति । वैधर्म्येणापि साधर्म्यमिति तृतीयः प्रकारः पुनरस्या न वाच्यः । अस्योपमायामेव संभवाद्दार्ढ्यप्रतिपादनाप्रतीतेश्च । क्रमेण यथा—“तं74 णमह णाहिणलिनं हरिणो गअणङ्गणाहिरामस्स । छप्पअछम्पिअगत्तो मलो व्व चन्दम्मि जत्य विही ॥’ अत्रोपमेयस्य षट्पदाच्छादित्वं कल्पितम् । ‘आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । संजातपुष्पस्तबकाभिनम्रा संचारिणी पल्लविनी लतेव ॥’ अत्रोपमानगतत्वेन संचारिणीत्वं कल्पितम् । न चास्याः पृथग्लक्षणं वाच्यम्

एकस्यैवोपमानोपमेयखेऽनन्वयः ॥

वाच्याभिप्रायेण पूर्वरूपावगमः ।एकस्य तु विरुद्धधर्मसंसर्गो द्वितीयसब्रह्मचारिनिवृत्त्यर्थः । अत एवानन्वय इति योगोऽप्यत्र संभवति । यथा—

                    *         

द्वयोरौपम्यप्रतीतेः । सामान्यलक्षणस्यात्राप्यनुगमात् । अथात्र कल्पनास्तीति चेत्, न । एवं हि प्रतिभेदं लक्षणकरणप्रसङ्गः । समुच्चितत्वादेविशेषान्तरस्यापि भावात् । अथोपमानगुणविशिष्टोपमेयावगम-फलत्वेनोपमायाःप्रतिभटभूतवस्त्वन्तराभावप्रयोजनत्वेन चास्याः पृथगलंकारत्वमिति चेत्, न । अत्रोपमेयस्योपमानगुणविशिष्टतयैव प्रतीतेः फलभेदाभावात् । तथा हि ‘आवर्जिता’ इत्यादौ भगवत्या लतायाः सादृश्यस्य संचारिणीत्वेनाभावो मा प्रसाङ्क्षीदिति तयोः साधर्म्यमेव द्रढयितुं कविना लतायाः संचारिणीत्वं कल्पितम् । नन्वत्र भगवत्या अन्यदुपमानं नास्तीति प्रतीयते । अनन्वयादिवदुपमानान्त-रनिषेधस्य वाक्यार्थत्वात् ।मैवम्75 । एवमुपमेयस्यापि वैशिष्टयकल्पने उपमेयान्तरनिषेधफलत्वं वाच्यम् । समानन्यायत्वात् । तद्यथा दृढारोपे रूपके विषयविषयिणोरभेदमेव द्रढयितुं कस्यचिद्धर्मस्य हानिराधिक्यं वा कल्प्यते तथेहापि सामान्यदार्ढ्यायैव कल्पितत्वं ज्ञेयम् । अत्राप्यभेदालंकाराख्या-लंकारान्तरत्वं न वाच्यम् । रूपकेणैवास्या विच्छित्तः संगृहीतत्वात् । विषयविषयिणोरभेदो हि रूपकसतत्त्वम् । स एव चात्र दान प्रतीयत इति को नामास्य रूपकात्पृथग्भावः । अभेदमात्रप्रतीतौ रूपकम्, नियतधर्महानावन्यतः सर्वतोऽप्यभेदप्रतीतावभेद इति प्रतीतिभेदोऽप्यस्तीति चेत्, न । एवं ह्यस्ति तावदभेदप्रतीतिरत्रानुगता । यस्तु विशेषः स पृथग्भेदत्वे व्यवस्थापकोऽस्तु न पृथगलंकारत्वे । नहि शावलेयता (?) मात्रेण गोत्वमश्वत्वव्यपदेश्यं भवति । एवं च ‘गृहीतविग्रहः कामो वसन्तः सार्वकालिकः । जहार हृदयं कामी नित्यपूर्णः सुधाकरः ॥’ इत्यादौ गृहीतविग्रहत्वादेनियतस्य धर्मस्याधिक्येऽप्यलंकारान्तरप्रसङ्गः76 । इयं च मालात्वादिनान्तभेदेति तद्ग्रन्थविस्तरभयान्न प्रपञ्चितम् । एकस्यैवेत्यादि । ननु सादृश्याश्रयाणामलंकाराणां लक्षयितुं प्रस्तुतत्वात्सादृश्यस्योभयनिष्ठत्वेनैव संभवादेकस्य च तदभावात्कथमिहातदाश्रयस्याप्यस्य वचनमित्याशङ्क्याह—वाच्याभिप्रायेणेत्यादिपूर्वरूपेति । सादृश्याश्रयत्वस्येत्यर्थः । अस्त्येव ह्यत्र शाब्दी सादृश्यप्रतीतिः । मुखं चन्द्र इवेत्यादिवदेवात्रोपमानोपमेयत्वस्य वाच्यतयोपनिबन्धनात् । अत एवाह— वाच्याभिप्रायेणेति । न पुनर्वस्त्वभिप्रायेणेत्यर्थः । वस्तुतो ह्येकस्यैव साध्यसिद्धधर्मरूपत्वासंभवादुपमानोपमेयत्वेऽपि विरोधः स्यात् । इत्थं शाब्दमेव सादृश्यानुगममाश्रित्येहास्य लक्षणम् । ननु यद्येवमेकस्योपमानोपमेयत्वं विरुध्यते तत्किं वस्तुविरुद्धेन निष्फलेन चैतेनेत्याशङ्क्याह—एकस्येत्यादि । एवं चास्य द्वितीयसब्रह्मचारिनिवृत्तिरेवालंकारत्वप्रतिष्ठापकं प्रमाणम् । अन्यथा पुनर्नास्यालंकारत्वम् । यथा— ‘तस्याज्ञयैव परिपालयतः प्रजा मे कर्णोपकण्ठपलितंकरिणी जरेयम् । यद्गर्भरूपमिव मामनुशास्ति सो-

‘युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो
भीमोऽपि भीम इव वैरिषु भीमकर्मा ।
न्यग्रोधवर्तिनमथाधिपतिं कुरूणा-
मुत्प्रासनार्थमिव जग्मतुरादरेण ॥

द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ॥

                         *     
  *

ऽयमद्यापि तन्मयि गुरोर्गुरुपक्षपातः ॥’ अत्र यथैव गर्भरूपं मां गुरुरन्वशात्तथैवाद्याप्यनुशास्तीति सत्यप्येकस्योपमानोपमेयत्वे द्वितीयसब्रह्मचारिनिवृत्तिप्रतिपत्त्यभावान्नायमलंकारः । एकस्यैवा77वस्थाभेदेन च सिद्धसाध्यधर्मसंभवान्नोपमानोपमेयत्वस्य विरुद्धधर्मसंसर्गः । अत एवेति । विरुद्धधर्मसंयोगात् । एकस्यैव सिद्धसाध्यरूपेणोपमानोपमेयत्वेनाविद्यमानोऽन्वयः संबन्धो यत्र स तथोक्तः । अर्जुनादन्यो युद्धे प्रथितप्रतापो नास्तीति द्वितीयसब्रह्मचारिनिवृत्तिरत्र जीवितभूता प्रतीयत एव । अत एव कार्तवीर्यहिंस्रसत्त्वयोरुपमानरूपयोरप्रतीतेः शुद्धमेवैतदुदाहरणम् । ‘इत्तिअमेतुम्मि जए सुन्दरमहिलासहस्सभरिअम्मि । अणुहरइणवरँ तिस्सा वामाद्धं दाहिणद्धस्स78 ॥’ इत्यादौ चानन्वयोदाहरणत्वं न वाच्यम् । अत्रान्यार्धेनान्यार्धस्योपमीयमानत्वेनोपमाया अभिधीयमानत्वात् । अस्य ह्युपमानान्तरनिषेध79पर्यवसाय्यभिधीयमानमेकस्यैवोपमानोपमेयत्वं स्वरूपम् । न च तदत्र शब्देनाभिधीयतेऽपि तु व्यज्यत इति प्रतीयमानतैव युक्तेति न वाच्यत्वमस्येति वाच्यम् । एवं ह्यलंकारध्वनेर्विषयापहारः स्यात् । एवम् ‘गन्धेन सिन्धुरधुरंधर वक्रमैत्रीमैरावणप्रभृतयोऽपि न शिक्षितास्ते । तत्त्वं कच80त्रिनयनाचलरत्नभित्तिस्वीयप्रतिच्छविषु यूथपतित्वमेषि ॥’ इत्यत्राप्यनन्वयो न वाच्यः । स्वीयप्रतिबिम्बैरेव सादृश्यप्रतीतेस्तद्गन्धस्याप्यभावात् । यदि नाम चैतत्प्रतीयेत तदप्यस्य प्रतीयमानत्वं स्यान्न वाच्यत्वम् । यथोक्तन्यायात् । एवं च तदेकदेशेनावसितभेदेन वेत्यपास्य81 उपमानतया कल्पितेनैव सादृश्यमनन्वय इत्येव त्वया सूत्रणीयम् । ‘ग्रसमानमिवौजांसि सदस्यैगरवरितम् । नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ॥’ इत्यत्र पुंसः पुंस्त्वारोपादनन्वय-रूपकमिति यदन्यैरुक्तं तदयुक्तम् । एकस्यैव विध्यनुवादभावेनावस्थानादारोपाभावात् । द्वयोरित्यादि । द्वयोरित्युपमानोपमेययोः, न पुनर्द्विसंख्याकयोः । तेन, ‘कान्ताननस्य कमलस्य सुधाकरस्य पूर्वे परस्परमभूदुपमानभावः । सद्यो जरातुहिनराहुपराहतानामन्यः परस्परमसावरसः प्रसूतः ॥’ इत्यत्र त्रयाणामप्युपमानोपमेयत्वं स्थितमस्या एवाङ्गम् । तच्छब्देनेति तस्मिन्नित्यनेन । यौगपद्याभाव इति क्रमरूपत्वात् । अत इति यौगपद्याभावात् । स च वाक्यभेदः शाब्द आर्थश्च । तत्र शाब्दो यथा—‘रजोभिः स्यन्दनो82द्धूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भू-

तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्षः । पर्यायो यौगपद्याभावः । अत एवात्र वाक्यभेदः । इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तु निर्देशे च द्विधा ।

आद्ये यथा—

‘खमिव जलं जलमिव खं हंसश्चन्द्र इव इंस इव चन्द्रः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥”

द्वितीये यथा—

‘सच्छायाम्भोजवदना सच्छायवदनाम्बुजा ।
वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः ॥’


सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥

वस्त्वन्तरं83 सदृशमेव । अविनाभावाभावान्नानुमानम् । यथा—

तलम् ॥’ अत्र भुवस्तलं व्योमेव कुर्वन्निति वाक्यपरिनिष्पत्तेः स्फुट एव शाब्दो वाक्यभेदः। आर्थो यथा— ‘भवत्पादाश्रयादेव गङ्गा भक्तिश्च शाश्वती । इतरेतरसादृश्यसुभगामेति वन्द्यताम् ॥’ अत्र स्फुटेऽपि शाब्दे एकवाक्यत्वे गङ्गा भक्तिवद्भक्तिश्च गङ्गावद्वन्द्येत्यस्त्येवार्थो वाक्यभेदः । अस्याश्चोपमानान्तर-तिरस्कार एव फलम् । अत एवोपमेयेनोपमा इत्यस्या अन्वर्थाभिधानम् । यत्र पुनरुपमानान्तर-तिरस्कारो न प्रतीयते तत्र नायमलंकारः । यथा — ‘सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । या मिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥’ न ह्यत्र विधुसवित्रादीनामुपमाना-न्तरतिरस्करणं विवक्षितं किं तु सुखदुःखवशीकृतमनसामेवं विपरीतं भवतीति । साधारण्य इति । एतच्च धर्मस्य निर्देशानिर्देशरूपपक्षद्वयागूरकत्वेनोक्तम् । तत्र निर्देशपक्षे साधारण्यमस्ति तथाप्यत्र सकृन्निर्देशेनैवानुगतत्वात्तदुपलम्भः स्फुट इत्यत्र भावः । अनिर्देशपक्षे तु वास्तवमेव साधारण्यम् । यदनुसारं खमिव जलमित्याद्युदाहृतम् । धर्मस्यानुगामित्वे तु यथा— ‘कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः । धरणीव ‘धृतिधृतिरिव धरणी सततं विभाति बत यस्य ॥’ अत्र विभातीति सकृन्निर्दिष्टम् । वस्तुप्रतिवस्तुनिर्देशश्च पूर्ववदिहापि शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां द्विधा । तत्र बिम्बप्रतिबिम्बभावो ग्रन्थकृतैवोदाहृतः । तत्र ह्यम्भोजदनयोबिम्बप्रतिबिम्बभावः । शुद्धसामान्य-रूपत्वं यथा— ‘उद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतर-तारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥’ (अत्र) प्रस्पन्दमानप्रचलितत्वेन शुद्धसामान्यरूपत्वम् । तारकभ्रमरयोस्तु बिम्बप्रतिबिम्बभावः ।उन्मेषाभिप्रायेण चानुगामितेति भेदत्रयस्याप्येतदुदाहरणम् । सदृशेति । वस्त्वन्तरमिति स्मर्यमाणम् । सदृशमेवेति । सादृश्यस्योभयनिष्ठत्वात् । अतश्च स्मर्यमाणेनानुभूयमानस्य,

‘अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम् ।
कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥’

सादृश्यं विना तु स्मृतिर्नायमलंकारः । यथा—

‘अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् (सुप्तः) ॥’

अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मर्तृदशाभावित्वमसमीचीनम् । प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्त निमित्तोत्थापिता स्मृतिर्विषयः ।

                          *    
    *

अनुभूयमानेन वा स्मर्यमाणस्य सादृश्यपरिकल्पनमयमलंकारः । यदुक्तम्—‘यथा दृश्येन जनिता साम्यधीः स्मर्यमाणगा84 । स्मर्यमाणकृताप्यस्ति तथेयं दृश्यगामिनी ॥’ इति । तत्राद्यःप्रकारो ग्रन्थकुदुदाहरणे । तत्र हि शिशोरेव रघुनन्दनेन सादृश्यं विवक्षितम् । द्वितीयस्तु यथा— ‘‘तस्यास्तीरे निचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः । मद्नेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥’ अत्रानुभूयमानेन मेघेन स्मर्यमाणस्य क्रीडाशैलस्य सादृश्यपरिकल्पनम् । एवं चात्र सादृश्यस्योभयसंबन्धेऽप्यनुभूयमानेनैव पुनः स्मर्यमाणप्रतीतिर्भवतीत्यवसेयम् । ननु यद्येवं तत्परस्मात्परप्रतिपत्तेः किं नेदमनुमानमित्याशङ्क्याह—अविनाभावेत्यादि । अविनाभावस्तादात्म्यान्नित्यसाहचर्याद्वा । अनुभूयमानस्मर्यमाणयोश्च तदभावः । शिशुरघुनन्दनयोः सादृश्यपरिकल्पने चातिशयितसुरासुरप्रभावत्वादिधर्मोऽनुगामितया निर्दिष्टः । वस्तुप्रतिवस्तुभावेनापि धर्मस्यायं भवति । तत्र शुद्धसामान्यरूपत्वेन यथा— ‘सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः । कुर्वन्नजस्रं यमुनाप्रवाहसलीलराधास्मरणं मुरारेः॥’ अत्र सोल्लाससलीलत्वयोरेकत्वम् । बिम्बप्रतिबिम्बभावेनापि यथा— पूर्णेन्दुना मेघलवाङ्कितेन द्यां मुद्रितां सुन्दरि वीक्षमाणः । विवाहहोमानलघूमलेखामिलत्कपोलां भवतीं स्मरामि ॥’ अत्र मेघलवधूमलेखादीनां बिम्बप्रतिबिम्भावः । एतदेव सादृश्यनिमित्तत्वं द्रढयितुं प्रत्युदाहरति—**सादृश्यमित्यादिना ।**सदृशानुभवाभावात्तत्स्मृतेर्न सादृश्यहेतुकत्वम् । स्मर्तव्यदशाभावित्व इति । स्मर्तव्यदशाभावित्वं वाच्यं सदनादृत्येत्यर्थः । अत एव वाच्यस्यावचनम् । स्मर्तृदशाभावित्वमित्यवाच्यस्य वचनम् । यद्यपि स्मर्तृदशायामतीतत्वात्कर्तृविशेषणानां मृगयानिवृत्तत्वादीनामप्यतीतकालावच्छिन्नानां तद्भावित्वं तथापि वर्तमानकालावच्छिन्नस्य स्मर्तुर्विशेषणभावेनोपनिबन्धात्तेषां तदवच्छिन्नतैव प्रतीयत इति यथोक्तमेव दूषणद्वयं युक्तमिति सहृदया एव प्रमाणम् । प्रत्युदाहरणान्तररूपि दर्शयति—प्रेयोलंकारस्येत्यादिना । तुशब्द-

यथा85— ‘अहो कोपेऽपि कान्तं मुखम्’ इति । तत्रापि विभावाद्यागूरितत्वेन स्वशब्दमात्रप्रति-पाद्यत्वे यथा— ‘अत्रानुगोदं’ इत्यादि ।

‘यैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि
स्फीतासृक्स्रुतिपाटलीकृतपुरोभागःपरान्पातयन् ।
तेषां दुःसहकालदेहदहनप्रोद्भूतनेत्रानल-
ज्वालालीभरभास्वरे स्मररिपावस्तं गतं कौतुकम् ॥’

इत्यादौ सदृशवस्त्वन्तरानुभावे शक्यवस्त्वन्तरकरणात्मा विशेषालंकारः। करणस्य क्रियासामान्यात्मनो दर्शनेऽपि संभवात् । मतान्तरे काव्यलिङ्गमेतत् । तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालंकारा निर्णीताः संप्रत्यभेदप्राधान्येन कथ्यन्ते—

अभेदप्राधान्ये आरोपे आरोपविषयानपह्नवे रूपकम् ।

                            *  
     *

श्चार्ये । सादृश्यव्यतिरिक्तं संस्कारादिनिमित्तम् । तत्रापीति । एवं स्थितेऽपि सतीत्यर्थः । विभावाद्यागू-रितत्वे प्रेयोलंकारस्य सादृश्यव्यतिरिक्तनिमित्ततोत्थापिता स्मृतिर्विषयो न स्वशब्दमात्रप्रतिपाद्यत्वे स्मृतिविषय इति संबन्धः । तत्र विभावाद्यागूरितत्वे स्मृतिर्यथा— ‘अहो कोपेऽपि कान्तं मुखम्’ इति । स्वशब्द मात्र प्रतिपाद्यत्वे यथोदाहृतम् ‘अत्रानुगोदं–’ इत्यादौ । अत्र च यथा प्रेयोलंकारो भावध्वनेश्चास्य यथा भिन्नविषयत्वं तथाग्र एव वक्ष्यामः । एवं च प्रत्युदाहरणद्वयस्यापि प्रयोजनं भिन्नविषयत्वात् । क्वचिच्च सादृश्यनिमित्तापि स्मृतिरवाक्यार्थत्वान्नास्मिन्पर्यवस्यतीत्याह **— ‘यैर्दृष्टोऽसि—’ इत्यादि ।**वस्त्वत्र जयापीडदर्शनम् । वस्त्वन्तरं तु भगवल्लक्षणम् । अत्र त्वद्दर्शनमभिलषतां जनानां न त्वद्दर्शना-वाप्तिरेवाभूद्यावत्तेषामसंभाव्यं भगवद्दर्शनमपि जातमित्यशक्यवस्त्वन्तरकरणम् । विशेषालंकारस्य ह्यशक्यवस्त्वन्तरकरणं रूपम् इह पुनरशक्यवस्त्वन्तरदर्शनं स्थितमिति कथमत्र विशेषालंकार इत्याशङ्क्याह—करणस्येत्यादि । एतच्च गम्यगमकभावमाश्रित्यान्यैः काव्यलिङ्गत्वेनाभ्युपगतमिति दर्शयितुमाह—मतान्तर इत्यादि । एतदिति स्मरणम् । मतान्तर इत्यौद्भटे । यदुक्तम्— ‘श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा । हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥ इति । इह पुनर्गम्यगमक-भावादनुभूयमानस्मर्यमाणव्यवहारोऽपि विशिष्यत इति पृथगलंकारतयैतदुक्तम् । एतदुपसंहरन्नन्य-दवतारयति—तदेत इत्यादि । एत इत्युपमाद्याश्चत्वारोऽलंकाराः । संप्रतीति । भेदाभेदतुल्यत्वाश्रया-लंकारानन्तरमभेदप्रधानं लक्षयितुमुचितत्वादवसरप्राप्तावित्यर्थः । तत्र तावत्प्रथमं रूपकं लक्षयति—अभेदप्राधान्य इत्यादि । वस्तुत इति । न तु प्रतीतितः । सद्भाव

अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः । अन्यत्रान्यावाप आरोपः । तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्नवेऽपह्नुतिः । अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकम् \। साधर्म्ये त्वनुगतमेव । यदाहुः—‘उपमैव


    ***

इति । प्रधानाप्रधानयोः संबन्धिशब्दत्वात् । अन्यत्रान्यावाप आरोप इति । अन्यत्रेति प्रकृते मुखादौ । अन्यस्येत्यप्रकृतस्य चन्द्रादेः । स च सामानाधिकरण्येन वैयधिकरण्येन च निर्देशे भवति । न तु सामानाधिकरण्येन निर्देश एव सः । एवं हि— ‘याताःकणादतां केचित्’ इत्यादावारोपसद्भावेऽपि न सामानाधिकरण्यमस्तीति व्याप्तिः स्यात् । आर्थ सामानाधिकरण्यमस्तीति नाव्याप्तिरिति चेत्, न । भिन्नयोः सामानाधिकरण्येन निर्देशो ह्यारोपलक्षणम् । न च तदत्र निर्दिष्टम् । वैयधिकरण्येन निर्देशात्तस्यार्थावसेयत्वात् । अर्थावसायो निर्देशश्च नैकं रूपम् । विप्रतिषेधात् । नीलमुत्पलमित्यादावपि गुणजातिरूपत्वेन भिन्नयोर्नीलोत्पलयोः सामानाधिकरण्येन निर्देशादारोपः प्रसज्यत इत्यतिव्याप्तिः स्यात् । न चारोपे भिन्नयोः सामानाधिकरण्येन निर्देश उच्यत इत्यसंभवोऽपि । इति न निरवद्यमेतदारोपलक्षणम् । यद्येवं तत्किंशब्दे शब्दान्तरमर्थे वार्थान्तरमारोप्यत इति चेद्रूमः । तत्र न शब्दे शब्दान्तगरोपः । मुखशव्दादेश्चन्द्रशब्दादिरूपत्वेनाप्रतीतेरन्योन्यविविक्तस्वविश्रान्तरूपोप-लम्भादिति भवद्भिरेवोक्तत्वात् । किं त्वर्थेऽर्थान्तरारोपः । स च प्रयोजनपरतया तथा निर्दिश्यते न भ्रान्त्या । अत एव शुक्तिकायामिव रजतारोपो न मुखे चन्द्रारोपः । तस्य स्वरसत एवोत्थानेन भ्रमरूपत्वात् । अत एव तत्रारोपविषयस्यारोप्यमाणेनाच्छादितत्वेन प्रतीतिः । इह पुनर्जानान एव कश्चिचन्द्रविविक्तं मुखं तत्र प्रयोजनपरतया चन्द्रार्थमारोपयति । अत एवोक्तमारोपविषयानपह्नव इति । भवद्भिरप्यनेनैवाशयेन प्रतिपादनभ्रमोऽयं न भ्रान्ताप्रतिपत्तिरित्याद्युक्तम् । तस्येत्यारोपस्य विषयः प्रकृतः विषयी चाप्रकृतः । ताभ्यामवष्टब्धत्वं युक्तम् । यदुक्तम् — ‘सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा’ इति । **अन्यथेति ।**अपह्नवे । एवमनेनापह्नुतिरूपकयोर्भेदोऽप्युक्तः ।आहुरिति दण्ड्यादयः । अतश्च साधर्म्यसद्भावात्तदनुयायिभेदत्रयानुप्राणितत्वमप्यस्य ज्ञेयम् । यथा— ‘कंदर्पद्विप-कर्णकम्बुमसितैर्दानाम्बुभिर्लाञ्छितं संलग्नाञ्जनपुञ्जकालिकमलं गण्डोपधानं रतेः । व्योमानोकहपुष्प-गुच्छमलिभिः संछाद्यमानोदरं पश्यैतच्छशिनः सुधासहचरं विम्बं कलङ्काङ्कितम् ॥’ अत्र कलङ्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनम् । लाञ्छितत्वाङ्कितत्वयोः शुद्धसामान्यरूपत्वम् । सुधासहचरत्वस्यानुग-तत्वादनुगामितेति भेदत्रयानुप्राणितत्वम् । अनेन च सादृश्यनिमित्त एवारोपो रूपकमित्युक्तं भवति । केषांचिदपि संबन्धान्तरहेतुरप्यारोपो रूपकाङ्गमेवेति मतम् । यदाहालंकारभाष्यकारः— ‘लक्षणापर-मार्थ यावता रूपकस्वरूपं’ इत्युपक्रम्य ‘सारोपान्या च सादृश्याद्वा संबन्धान्तराद्वा इत्यादि । स तु यथा— ‘अमृतकवलः शोभाराशिःप्रमोदरसप्रपा सितिमशकटं ज्योत्स्नावापा तुषारघरट्टिका । मनसिजवृसी शृङ्गारश्रीविमानमहो नु भो निरवधिसुत्वश्रद्धा दृष्टेः कृती मृगकेतनः ॥’ अत्रेन्दुरूप कारणे

तिरोभूतभेदा रूपकमिष्यते’ इति । आरोपादभेदेऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालंकारविभागः । इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम् । आद्यं केवलं मालारूपकं चेति द्विधा । द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव । तृतीयं श्लिष्टाश्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमालारूपकत्वाच्चतुर्विधम् । तदेवमष्टौ रूपकभेदाः । अन्ये तु प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः । क्रमेण यथा—

                            *  
     *  

कार्यरूपायाः श्रद्धाया आरोपः । ग्रन्थकृताप्यलंकारानुसारिण्यामत्र86 श्रद्धाहेतुत्वाच्छ्रद्धेत्यभिधाया विशेषेणैकस्मिन्ननेक वस्त्वारोपान्मालारूपकमित्यभिदधतायमेव पक्षः कटाक्षितः । ननु चाध्यवसाय-गर्भाणामप्यलंकाराणामभेदप्राधान्ये सति प्रथममारोपगर्भा अलंकाराः किमिति लक्षिता इत्याशङ्क्याह—आरोपादित्यादि । चशब्दोऽन्यालंकारापेक्षया भेदसमुच्चयार्थः। विषयद्योतकस्तुशब्दः । अवयवेभ्यो निष्क्रान्त आरोप्यमाणो यत्र तत्तथोक्तम् । सहावयवैरारोप्यमाणो वर्तते यत्र तत्तथोक्तम् । परम्परयैकस्य माहात्म्यादपरस्यारूपणत्वमायातं यत्र तत्तथोक्तम् । आद्यमिति निरवयवम् । माला चैकस्यानेकस्य वानेकारोपाद्भवति । एवं परम्परितत्वेन मालारूपकं ज्ञेयम् । द्वितीयमिति सावयवम् । समस्तमारोप्यमाणात्मकं वस्त्वभिधाया विषयो यत्र तत्तथोक्तम् । एकदेश आरोपविषयाणामर्थात्त-दात्मक एवारोप्यमाणप्रयोजनप्रतिपादनाय तद्रूपतया विवर्तते परिणमति यत्र तत्तथोक्तम् । तृतीयमिति परम्परितम् । यद्यपि श्लेषनिबन्धनेऽस्मिन्गुणक्रियात्मकधर्मनिबन्धनस्य सादृश्यस्यासंभव एव । तथापि शब्दमात्रकृतमेवाभेदाध्यवसायतः सादृश्यं ग्राह्यम् । अन्य इति एतद्भेदाष्टकव्यतिरिक्ताः । संभवन्तीति चिरंतनालंकारग्रन्थेष्वेव । न पुनर्लक्ष्यन्त इति भावः । तत्र हि तेषां तत्त्वेऽप्येतद्भेदाष्टककृतमेव वैचित्र्यं प्रतीयते । तथा च—पादःकूर्मोऽत्रयष्टिर्भुजगपतिरयं भाजनं भूतधात्री तैलापूराः समुद्राः कनकगिरिरयं वृत्तवर्तिप्ररोहः । अर्चिश्चण्डांशुरुच्चैर्गगनमलिनिमा कज्जलं दह्यमाना वैरिश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्रतापप्रदीपः ॥’ इत्यत्र सत्यपि वाक्यार्थोक्तत्वे समस्तवस्तुविषयकृतमेव वैचित्र्यम् । क्रमेणेति यथोद्देशम् । द्विर्भावः स्मरकार्मुकस्येत्यत्र च वाक्यार्थपर्यालोचनयेन्दोः स्मरकार्मुकत्वारोपप्रतीतेः कुटिलत्वाद्यनेकधर्मनिमित्तं सादृश्यमेव संबन्धः । इन्दोश्चैकस्य बहव आरोपा इति मालारूपकम् । अनेकस्य तु यथा—‘बाहू बालमृणालिके कुचतटी माणिक्यहर्म्य रतेर्मुक्ताशैलशिला नितम्बफलकं हासः सुधानिर्झरः । वाचः कोकिलकूजितानि चिकुराश्वेतोभुवश्चामरं तस्यास्त्रस्त कुरङ्गशावकदृशः किं किं न लोकोत्तरम् ॥’ अत्रानेकेषामनेकारोपाद्रूपकमाला । इयं च श्लेषनिबन्धनापि दृश्यते । यथा— ‘नेत्रे पुष्करसोदरे मधुमती

दासे कृतागसि भवत्युचितः प्रभूणां
पादप्रहार इति सुन्दरि नास्मि दूये
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै
र्यत्स्विद्यते तव पदं ननु सा व्यथा मे ॥’

‘पीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये
स्वर्गङ्गाविमनस्ककोकवदनस्त्रस्ता मृणालीलता ।
द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा
माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ॥’

‘विस्तारशालिनि नभस्तलपत्रपात्रे
कुन्दोज्ज्वलप्रभमसंचय87भूरिभक्तम् (?) ।
गङ्गातरङ्गघनमाहिषदुग्धदिग्धं
जग्धं मया नरपते कलिकालकर्ण ॥”

‘आभाति ते क्षितिभृतः क्षणदाप्रभेयं
निस्त्रिंशमांसलतमालवनान्तलेखा ।
इन्दुद्विषो युधि हटेन तवारिकीर्ती-
रानीय यत्र रमते तरुणः प्रतापः ॥’

क्षितिभृत इत्यत्र श्लिष्टपदं परम्परितम् ।

                           *   
  *  

वाणी विपाशा मतिश्चेतो याति नदीनतां कलयते शोणत्वमस्याधरः । चारित्रं ननु पापसूदनमहो मामेष तीर्थाश्रयः स्नातुं वाञ्छति भूपतिः परमितीवोष्णोदकं वल्गति ॥’ अत्रानेकेषां श्लिष्टा अनेक आरोपिता इति श्लिष्टार्थरूपकमाला । आभातीत्यत्र समासोक्तिमन्ये मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते । यथा— ‘भवत्संवित्पुष्पश्रियमनुपमामोदमधुरां समुच्चिन्वन्नानाविषयवनराजीविकसिताम् । भवोद्याने भक्त्या तव सह विशेषोल्लसितया विहन्तुं व्यग्रः स्यामनुसृतविवेकप्रियसखाः ॥’ अत्र भक्तेर्नायिकारोपस्या-शाब्दत्वादेकदेशविवर्तित्वम् । ‘पीयूषस्याधरामृतेन श्लिष्टशब्दनिरूपणम्’ इति लेखककल्पितोऽय-मपपाठो ज्ञेयः । अधरामृतस्य हि पीयूषेण निरूपणमत्र स्थितम् । अतश्च ‘अधरामृतस्य पीयूषेण श्लिष्टशब्दनिरूपणम्’ इति पाठो ग्राह्यः । अत्र च पीयूषवदमृतशब्दस्याधररसावाचकत्वमन्ये मन्यन्त इत्युदाहरणान्तरमुदाह्रियते । यथा— ‘अलौकिकमहालोकप्रकाशितजगत्रय । स्तूयते देव सद्वंशमुक्ता-रत्नं न कैर्भवान् ॥’ अत्र मुक्तारत्नमित्यारोपपूर्वको वंश एव वंश इत्यारोप इति श्लिष्टशब्दं

‘कि पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न वा
वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।
वन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो
दर्पःस्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥’

अत्र वक्रेण रूपणमहेतुकम् पीयूषेणाधरामृतस्य श्लिष्टशब्दं रूपणम् ।

‘विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते
दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर ।
सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो
साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः॥’

अत्र त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्द मालापरम्परितम् ।

‘यामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाथम् ।
जन्मजरामरणार्णवतरणतरण्डं हरामियुगम् ॥’

‘पर्यङ्कोराजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो
भग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यानदानाम्बुपट्टः ।
सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः
खड्गःक्षमासौविदल्ल समिति विजयते मालवाखण्डलस्य ॥’

अत्र क्षमासौविदल्ल इति परम्परितमप्येकदेश विवर्ति । एवमादयोऽन्येऽपि भेदा लेशतः सूचिता एव । इदं वैधर्म्येणापि दृश्यते । यथा—

                          *    
   *

केवलपरम्परितम् । विद्वदित्यादिहंसरूपणामाहात्म्यान्मानसरूपणेति परम्परितम् । एवमर्णवरूपणा तरण्डारोपस्य हेतुरिति परम्परितम् । पर्यङ्ग इत्यत्रैकस्य बहव आरोपा इति मालापरम्परितम् । अनेकस्य तु यथा— ‘श्रीः श्रीधरोरः स्थलखेन्दुलेखा श्रीकण्ठकण्ठाभ्रतडिच्च गौरी । शक्राक्षिपद्माकर-राजहंसी शची च वो यच्छतु मङ्गलानि ॥’ अत्र बहूनामनेकारोपात्परम्परितमाला । एवमादय इति । परम्परितमप्येकदेशविवर्तीत्येवंप्रकाराः । सूचिता इति । एतच्च दर्शनादेव । ततश्च सावयवं द्विविधमपिश्लिष्टं दृश्यते । तत्र समस्तवस्तुविषयं यथा— ‘विहडन्तोट्ठदलउडं फुरन्तदन्ताकारबहलकेसरपअरम्88 । पहरिमच-

‘सौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण
ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा ।
यैरेषा हि दुराशया कलियुगे राजावलिः सेव्यते
तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥’

अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गत्वेऽपि क्वचित्स्वतोऽसंभवत्सं

                          *    
  *

न्दालोए हसिअं कुमुएण सुरहिगन्धोग्गारम् ॥’ अत्र कुमुदस्य श्लिष्टत्वम् । एकदेशविवर्ति यथा— ‘यत्तारामौक्तिकार्धप्रकरपुलकितं चन्द्रिकाचन्दनाम्भोदिग्धं सप्तर्षिहस्तस्थितकरकपयोधौतमाकाश-लिङ्गम् । तोयाधारे प्रतीचि च्युतवति दिनकृद्बिम्बनिर्माल्यपद्मे तस्यार्चापुण्डरीकं व्यधित हिमकरं सत्वरं मूर्ध्नि कालः ॥’ अत्र कालविषये पूजकादिरारोप्यमाणो न शाब्द इत्येकदेशविवर्तित्वम् । तोयाधारस्य समुद्रनिर्माल्योदकभाण्डवाचकत्वाच्छ्लिष्टत्वम् । क्वचिच्चाभेदमेव द्रढयितुं विषयिणो निषेधपूर्वमारोप्य-माणत्वेन तदीयस्य वा भेदहेतोर्धर्मस्य हानिकल्पनेनाधिक्येन वा दृढारोपत्वेनापीदं दृश्यते । क्रमेण यथा— ‘कलिप्रिया शश्वदपालिताज्ञावज्ञां गुरुज्ञातिषु दर्शयन्ती । जाया निजा या ननु सैव कृत्या कृत्या न कृत्या सरलस्य धार्मेः89 ॥’ अत्र कृत्या निषेधपूर्व जायायामारोपिता । तन्निषेधेन हि जायाया कृत्यया दार्ढ्येन साम्यं प्रतीयते । कृत्या तथा न स्वकर्मणि व्याप्रियते । यथेयं तत्कर्मणीति ह्यत्र वाक्यार्थः। अत्र च यदन्ये विशेषालंकारमाहुस्तदभेदालंकारनिराकरणादेव निराकृतमिति न पुनरायस्यते । हान्या यथा90 — ‘वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥’ अत्रातैलपूरेण हानिकल्पनम् । आधिक्येन यथा—‘तुरीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽपि वा । अपि वा जंगमं तीर्थ धर्मो वा मूर्तिसंचरः ॥’ अत्र तुरीयत्वादेर्धर्मस्याधिक्यम् । ‘दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥’ इत्यत्रापि दृढारोपमेव रूपकं ज्ञेयम् । अत्र हि कृपणस्य कृपाणस्येति समुच्चीयमानत्वेन निर्देशाच्छाब्दस्यारोपस्याप्रतीतेर91प्याकारमात्रेण भेदस्योक्तेर्वाक्यार्थपर्यालोचनमाहात्म्यात्परिशिष्टसमस्त-धर्मान्तरसद्भावाभ्यनुज्ञानात्पर्यवसाने दार्ढ्ये न विषयविषयिणोरभेदप्रतिपत्तिः । सैव च रूपकसतत्त्वमिति पूर्वमेवोक्तम्92 । अन्येऽपि भेदाः स्वयमेवभ्यूह्योहार्याः। वैधर्म्येणापीति । न केवलं साधर्म्येणेत्यर्थः । अस्य च विच्छित्तिविशेषान्तरं दर्शयितुमाह—**अत्रेत्यादि ।**आविष्टलिङ्गत्वेऽपीत्यनेन धर्मिणः स्वरूपमात्रपर्यवसितत्वेऽपि धर्म्यन्तरसंबन्धिनः संख्यात्मनो धर्मान्तरस्यापि स्वीकार इत्यावेदितम् । असंभवत्संख्यायोगस्येति । यद्यप्येकादिव्यवहारहेतुः संख्येति नीत्या एकस्मिन्नपि द्रव्ये तद्योगः संभवति तथाप्यनेकद्रव्यवर्तित्वाद्यभिप्रायेणैतदुक्तम् । प्रत्येकमारोपादिति अयमग्निः कपिलोऽयमग्निः कपिल इत्येवं

ख्यायोगस्यापि विषय संख्यात्वं प्रत्येकमारोपात् । यथा– ‘क्वचिजटावल्कलावलम्बिनः कपिलादावाग्नयः’ इत्यादौ । न हि कपिलमुनेर्बहुत्वम् ।

‘भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छा तमः शरीरसादम् ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥’

इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव । जलदभुजगजमिति रूपकसाधकमिति । पूर्वं सिद्धत्वाभावान्न तन्निबन्धनम् । विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः ।

आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः ।

आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति । आगमानुगमविगमख्यात्यभावात्सां-

  •         *
    

रूपात् । अतश्वारोप्यमाणस्य कपिलमुनेर्बहुत्वायोगाद्विषयसंख्यत्वम् ।श्लिष्टतानिबन्धनस्य परम्परितस्य श्लेषाद्वैलक्षण्यं द्योतयितुमाह—भ्रमिमिति । प्रभावित इति । प्रथममेव प्रतीतिगोचरीकृत इत्यर्थः । पूर्वंसिद्धत्वाभावादिति । रूपकस्य श्लेषहेतुत्वात् । तन्निबन्धनमिति रूपकनिबन्धनम् । इतिशब्दो हेतौ । अतश्च श्लेष एवात्रालंकारो न परम्परितं रूपकमित्य93त्र तात्पर्यम् । चिन्त्यं चैतत् । यतः श्लेषस्तावद्वाच्ययोर्द्वयोः प्रकृतयोरप्रकृतयोः प्रकृताप्रकृतयोश्च भवति । अत्र च न द्वयोः प्रकृतत्वं नाप्यप्रकृतत्वम् । वर्षासमये जलदस्येव जलस्य वर्णनीयत्वात् । प्रकृताप्रकृतयोश्च विशेषणसाम्य एव श्लेषो भवति इह तु विशेष्यस्यापि साम्यमिति शब्दशक्तयुत्थितस्य ध्वनेरयं विषयो न श्लेषस्य अतश्च नात्र श्लेषालंकारः । नापि ध्वनिः । जलदभुजगजमिति रूपकमाहात्म्याच्छब्दशक्त्या गरलार्थस्याभि-धानात् । एवमत्र श्लिष्टशब्दनिबन्धनं जलदभुजगजमिति । रूपकान्तरेणापि गरलार्थो यदि प्रतीयते तत्स ध्वनेर्विषयः स्यादित्युक्तम् । स्थिते तु जलदभुजगजमिति रूपके तन्माहात्म्यादेव विषशब्दे श्लिष्टशब्दनिबन्धनं रूपकम् । अन्यथा हि जलदभुजगजमिति रूपकं व्यर्थ स्यात् । तेन विना हि गरलार्थःप्रतीयत इत्यलं बहुना । आरोप्यमाणस्येत्यादि । आरोप्यारोपविषयभावसाम्येऽपि रूपकाद्वैलक्षण्यं दर्शयन्नेतदेव व्याचष्टे—आरोप्यमाणमित्यादिना । प्रकृतोपरञ्जकत्वेनेति । यदुक्तम्—विषयिणा विषयस्य रूपवतः करणाद्रूपकमिति । प्रकृतात्मतयेति । प्रकृताङ्गतयेत्यर्थः । उपयोग इति । तेन विना प्रकृतार्थस्यानिष्पत्तेः । परिणमतीति । प्रकृतमप्रकृतव्यवहारविशिष्ट-तयावतिष्ठते । प्रकृतस्वरूपमात्रावस्थाने प्रकरणार्थानिष्पत्तेः । एवमत्र प्रकरणोपयो

ख्यीयपरिणामवैलक्षण्यम् । तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद्वैविध्यम् । आद्यो यथा—

‘तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय
स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय ।
व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं
कृच्छ्रादन्वीयमानस्त्वरितमथ गिरिं चित्रकूटं प्रतस्थे ॥’

अत्र सौमित्रिमैत्री प्रकृता आरोप्यमाणसमानाधिकरणान्तररूपत्वेन परिणता । आतरस्य मैत्रीरूपतया प्रकृते उपयोगात् । तदत्र यथा समासो—

                         *     
  *

गित्वाभावादित्यारोप्यमाणस्योपयोग इति चान्वयव्यतिरेकाभ्यां प्रकृतोपयोगित्वस्यासाधारणत्वं दर्शितम् । असाधारणत्वस्य हि धर्मस्य तत्त्वव्यवस्थापकत्वाल्लक्षणत्वम् । अतश्च नास्त्येवालंकारान्तरेषु प्रकृतोपयोगित्वम् । एवम्— ‘आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । पुत्रं लभस्वात्म-गुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥’ इत्यत्रोपमायाम् । ‘अत्रान्तरे सरस्वत्यवतरणवार्तामिव कथयितुमवततार मध्यमं लोकमंशुमाली’ इत्यादावुत्प्रेक्षायाम् ‘मन्दरमेहक्खोहिअससिकलहंसपरिअ-(मु)क्कसलिलोच्छङ्गम्94 । मरगअसेवालोवरिणिसण्णतुह्णिक्कमीणचक्काअजुअम् ॥‘इत्यत्र च रूपके तथान्यालंकारेष्वौचित्यमेव नोपयोगः । औचित्यं हि सिद्धस्य सतः प्रकृतार्थोपलम्भकं भवति । उपयोगः पनः सिद्धावेव प्रकृतार्थहेतुतां भजते इत्यनयोर्महान्भेदः । तथा हि—‘अनन्वये च शब्देक्यमौचित्यादानु-षङ्गिकम् । अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥’ इत्यत्रैकस्यैव शब्दैक्यस्यौचित्योपयोगाभ्यां भेद उक्तः । अतश्चौचित्योपयोगयोर्भेदमजानद्भिः सर्वत्रैव प्रकृतोपयोगित्वमन्यैर्यदुक्तं तदयुक्तम् । तस्माद्रूपकादन्य एवं परिणामः । इह पुनः प्रकृतार्थस्याप्रकृतार्थारोपमन्तरेण सिद्धिरेव न भवतीति प्रकृतोपयोगितैव95 जीवितम् । ‘दाहोऽम्भः प्रसृतिंपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेङ्खितदीप्रदीपलतिकाः पाण्डिम्नि मग्नं वपुः । किं वान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्र महसस्तस्याः स्थितिर्वर्तते ॥’ अत्र हि च्छत्रारोपमन्तरेण चन्द्रातपरोध एव न भवतीति तस्य प्रकृतोपयोगित्वम् । अतश्च96 प्रकृतमप्रकृततया परिणमतीति परिणामः97 । यद्येवं तर्हि सांख्यीयपरिणामादस्य को विशेष इत्याशङ्क्याह—आरोपे(गमे) त्यादि । ‘जहद्धर्मान्तरं पूर्वमुपादत्ते यदा ह्ययम् । तत्त्वादप्रच्युतो धर्मी परिणामः स उच्यते ॥’ इति सांख्यीयपरिणामलक्षणम् । मैत्रीरूपतयेति । मैत्र्यात्मतयेत्यर्थः । उपयोगादिति । आतरमन्तरेण

क्तावारोप्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थितम्, अत एव तत्र तद्व्यवहारसमारोपः । एवमिहापि ज्ञेयम् । केवलं तत्र विषयस्यैव प्रयोगः । विषयिणो गम्यमानत्वात् । इह तु द्वयोरप्यभिधानं तादात्म्यात्तयोः परिणामित्वम् । द्वितीयो यथा—

‘अथ पक्रिमतामुपेयिवद्भिः सरसैर्वक्रथाश्रितैर्वचोभिः ।
क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यैः ॥’

राजसंघटने तूपायनमुचितम् । तच्चात्र वचोरूपमिति वचसां व्यधिकरणोपायनरूपत्वेन परिणामः ।

विषयस्य संदिह्यमानत्वे संदेहः ।

अभेदप्राधान्ये आरोप इत्येव । विषयः प्रकृतोऽर्थः । यद्भित्तित्वेनाप्रकृतः संदिह्यते । अप्रकृते संदेहे विषयोऽपि संदिह्यत एव । तेन प्रकृताप्र

                      *        

तरणायोगात् । अतश्च प्रकृते यत आतरस्योपयोगस्ततश्च प्रकृताया एव मैत्र्यास्तत्कार्यकारित्वात्तद्व्य-वहारारोपः । एतदेव दृष्टान्तमुखेनापि प्रतिपादयति—**तदत्रेत्यादिना ।**अत्रेति परिणामे । समासोक्तौ चारोप्यमाणस्य प्रकृतोपयुक्तत्वम् । प्रकृतसिद्ध्यर्थमेवाप्रकृतस्याक्षेपात् । आरोप्यमाणमपि तत्र प्रकृतावच्छेदकत्वेन स्थितं न पुनराच्छादकत्वेनेत्याह—तच्चेत्यादि । अत एवेति । आरोपविषयात्म-कत्वादेव । तत्रेति समासोक्तौ । एतदेव प्रकृते योजयति—एवमित्यादि । यद्येवं तर्हि समासोक्तिपरि-णामयोः को विशेष इत्याशङ्क्याह—केवलमित्यादि । तयोरित्यभिधीयमानयोर्द्वयोः । उचितमिति । उपयुक्ततयेति शेषः । विषयस्येत्यादि । विषयविषयिणोः संबन्धिशब्दत्वाद्विषयस्योक्तेर्विषयिणो-ऽप्याक्षेपादत्र ग्रहणम् । तेन विषयस्य विषयिणश्च संदेहप्रतीतिविषयत्वं सूत्रार्थः। ननु विषयशब्देन विषयिशब्दस्य संबन्धिशब्दत्वादाक्षेपेऽपि विना वचनमाक्षेपमात्राद्विषयिणः कथं संदिह्यमानता लभ्यत इति चेत्, न । अनियतोभयाशावलम्बिविमर्शरूपत्वाद्विषयमात्रगतत्वेनासंभवात्संदेहस्यान्यथानुपपत्त्या विषयिणस्तत्संबन्धित्वं लभ्यत एवेति यथासूत्रितमेव ज्यायः । एतदेव विभज्य व्याचष्टे—विषय इत्यादिना । यद्भित्तित्वेनेति । अन्यथा ह्यप्रकृतस्य निर्विषयत्वमप्रस्तुताभिधानलक्षणो वा दोषः स्यादिति भावः । तेन विषयभित्तितया विषयिणामेव तथाभावो भवतीत्याशङ्कयाह—अप्रकृतेत्यादि । विषयोऽपीति । न केवलं विषयिण एव संदिह्यमानत्वं यावद्विषयस्यापीत्यपिशब्दार्थः । तेन क्वचिद्विषयिणामेव संदिह्यमानत्वं क्वचिच्च विषयविषयिणोरप्यलंकारो भवेत् । उभयत्रापि सामान्यलक्ष-णानुगमात् । अनियतोभयांशावलम्बी हि विमर्शःसंशयः । स च विषयिणामेव भवति । विषयविषयि-णोरेव संदिह्यमानत्वात् । अत एव च प्रकृताप्रकृतगतत्वेनेति

कृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालंकारः । स च त्रिविधः । शुद्धो निश्चयगर्भो निश्चयान्तश्च । शुद्धो यस्य98 संशय एव पर्यवसानम् । यथा—

‘किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी
लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधे ।
उद्गाढोत्कलिकावतां स्वसमयोपन्यासविस्त्रम्भिणः
किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥’

निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च । स यथा—

‘अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं साक्षाप्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरा99
त्सामालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥’

निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानम् । यथा—

‘इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् ।
ललितसविलासवचनैर्मुखमिति100 हरिणाक्षि निश्चितं परतः ॥’

क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन101 दृश्यते । यथा—

‘रञ्जिता नु विविधास्त रुशैला नामितं नु गगनं स्थगितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥’

                      *        

यथासंभवं योज्यम् । प्रतिभूत्थापित इति न पुनः स्वरसोत्थापितः । स्थाणुर्वा पुरुषो वेत्येवमादिरूप इत्यर्थः। एतदेव भेदत्रयं विवृण्वन्नुदाहरति—शुद्ध इत्यादि । अत्र प्रकृतायास्तन्व्याः संदेहप्रतीति-विषयत्वाभावाद्विषयिणां मञ्जर्यादीनामेव संदेहः । विषयविषयिणोर्यथा— ‘किं पङ्कजं किमु सुधाकरबिम्बमेतत्किंवा मुखं क्लमहरं मदिरेक्षणायाः । यद्दृश्यते मधुकराभकुरङ्गकान्तिनेत्र-द्वयानुकृति कार्ण्यममुष्य मध्ये ॥’ अत्र क्लमहरत्वादिः समानो धर्मोऽनुगामित्वेनोपात्तः । क्वचिद्वस्तुप्रतिवस्तुभावेनापि भवति । यथा— ‘किमिदमसितालिकलितं कमलं किं वा मुखं सुनीलकचम् । इति संशेते लोकस्त्वयि सुतनु सरोवतीर्णायाम् ॥’ अत्रासितत्वसुनीलत्वयोः शुद्धसामान्यरूपत्वम् । अलिकचानां च बिम्बप्रतिबिम्बभावः । एवं चास्य सादृश्यनिमित्तत्वात्समानधर्मानेकधर्मनिमित्तत्वेन द्विभेदत्वं न व्याकार्यम् । सादृश्यनिमित्तत्वेनैवास्य संग्रहसिद्धेः । विप्रतिपत्त्यादिनिमित्तान्तरवच्चारुत्वाभा

अत्रारोपविषयतिमिरे रागादि102 तर्वादिभिन्नाश्रयत्वेनारोपितम् । केचित्त्वध्यवसायोश्रयत्वेन103 संदेहप्रकारमाहुः । अन्ये तु नुशब्दस्य संभावनाद्योतकसत्वादुत्प्रेक्षाप्रकारमिममाचक्षते—

सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्

असम्यग्ज्ञानत्वसाधर्म्यात्संदेहानन्तरमस्य104 लक्षणम् । भ्रान्तिश्चित्तधर्मः । स विद्यते यस्मिन्भणि-तिप्रकारे स भ्रान्तिमान् । सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः । यथा—

वाच्च । भिन्नाश्रयत्वेनेति वैयधिकरण्येन । अत्रैव पक्षान्तरमाह—केचिदित्यादि । अनेन च संदेहस्याध्यवसायमूलत्वमाप ग्रन्थकृतैवोक्तम् । तेनाध्यवसायाश्रयोऽप्ययं स्वरूपहेतुफलानां मंदिह्यमानत्वेन त्रिधा भवति । तत्र स्वरूपसंदेहो यथा— रञ्जिता इत्याद्येव । यथा वा— ‘एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुर चकोरसुहृदि प्रौढे तुषारत्विषि । कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैरक्षालि स्फटिकोपलैः किमघटिद्यावापृथिव्योर्वपुः ॥’ अत्र कौमुदीधवलिम्नः कर्पूरपूरणादिनाध्यवसितत्वादध्यवसायमूलत्वम् । हेतुसंदेहो यथा— ‘देवि त्वञ्चरणाम्बुजस्मृतिविधौ गाढावधानस्पृशां धन्यानां प्रसरन्ति संतततया ये बाष्पधाराभराः । किं ते स्युश्चिरकालभावितभवा-प्रश्नक्रियावेगतः किं वासादितमुक्तिचन्द्रवदनासंदर्शनानन्दतः ॥’ अत्राश्रुहेतोरानन्दस्य संसारवियोगो मुक्तिसांमुख्यं चेति हेतुद्वयमध्यवसितम् । फलसंदेहो यथा—‘नृत्तान्ते पारिजातं किमु विघटयितुं प्रष्टुमाकाशगङ्गां किंस्विद्वा चन्द्रसूर्यौ किमु विदलयितुं श्वेतरक्ताब्जबुद्ध्या । लब्धुं नक्षत्रमालाभरणभरमुत स्वर्गजं वाभियोद्धुं दूरोदस्तः समस्तस्तव गणपतिना स्वस्तये सोऽस्तु हस्तः ॥’ अत्र करिणो105 निष्पादनस्य विघटनादिफलमध्यवसितम् । अत्रैवादिशब्दवन्नुशब्दस्य106 संभावनाद्योतकत्वात्पक्षान्तरमपि107 दर्शयितुमाह—अन्य इत्यादि । अतश्च रञ्जिता इवेत्यर्थः। पूर्वत्रार्थे तु नुशब्दो वितर्कमात्र एव व्याख्येयः । सादृश्यादित्यादि । असम्यग्ज्ञानं त्वसाधर्म्यादिति न पुनरारोपगर्भत्वसाजात्याल्लक्षितमिति भावः । आरोपो हि विषयविषयिणोर्युगपदेकप्रमाविषयीकृतत्वे भवतीति नारोपगर्भो भ्रमः क्वचिदपि संभवति । शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानाभावात् । ननु भ्रान्तिश्चित्तधर्मः स यस्यास्ति स भ्रान्तिमानिति वक्तुं न्याय्यं तत्कथमलंकारस्यैतदभिधानमित्याशङ्कयाह—भ्रान्तिरित्यादि । स इति भणितिप्रकारः । अतश्चालंकारे भ्रान्ति108सद्भाव उपचरित इति भावः । सादृश्यप्रयुक्तेति । न तु ‘कामशोकभयोन्मादचौरस्वप्नाद्यपप्रताः । अ-

‘ओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया
कर्णालंकृतिभाजि दाडिमफलभ्रान्त्या च शोणे मणौ ।
निष्पत्त्या109 सकृदुत्पलच्छददृशामात्तक्लमानां मरौ
राजन्गूर्जर राजपञ्जरशुकैः सद्यस्तृषा मूर्छितम् ॥’

भूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥’ इत्याद्यभिहितावान्तरनिमित्तोत्थापितेत्यर्थः । अतश्च सादृश्यनिमित्तैव भ्रान्तिरलंकारविषय इति तात्पर्यार्थः । एवं च ‘प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा दिशि दिशि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥’ इत्यत्रैकस्या एव परिमिताया अपि योषितो गाढानुरागहेतुकं तन्मयतानुसंधानं प्रासादादावनेकत्र युगपत्प्रतीतौ निमित्तमिति न भ्रान्तिमदलंकारः । स हि प्रासादादेर्वल्लभारूपत्वेन प्रतीतौ स्यात् । अन्यस्यान्यरूपत्वेन सम्यगभिधानात्मानिश्चयो हि भ्रान्तिमल्लक्षणम् । न च प्रासादादिर्वल्लभात्वेन प्रतीयते इति स्फुट एवायं विशेषालंकारस्य विषयः । अथ प्रासादादावभूताया अपि वल्लभाया दर्शनाङ्क्रान्तिरिति चेत्, नैतत् । एवं ह्यत्र भ्रान्तिमात्रं स्यान्नालंकारः । गाढानुरागात्मकनिमित्तसामर्थ्यात्स्वरसत एव प्रासादादावसत्या अपि युवत्याः प्रतीतिसमुल्लासाः । कविप्रतिभानिर्वर्तित्वाभावात् । ‘देवमपि हर्षेपितृशोकविह्वलीकृतं श्रियं शाप इति महीं महापातकमिति राज्यं रोग इति भोगान्भुजगा इति निलयं निरय इत्यादिमन्यमानं’ इत्यादावपि न भ्रान्तिमदलंकारः । तत्र हि विषयानवगम एव निमित्तसामर्थ्यात्स्वरसत एव विषयप्रतीतिरुल्लसेत् । शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानानुदयादिति समनन्तरमेवोक्तत्वात् । इह पुनर्विषयरूपां श्रियमवगम्यापि श्रीहर्षेण पितृशोकविह्वलीकृतत्वाच्छापत्वेन भाव्यत इति विषमालंकारो ज्यायान् । ‘दातुं वाञ्छति दक्षिणेऽपि नयने वामः करः कज्जलं भौजंगं च भुजोऽङ्गदं घटयितुं वामेऽपि वामेतरः । इत्थं स्वं स्वमशिक्षितं भगवतोरर्धे वपुः पश्यतोः साधारस्मितलाञ्छितं दिशतु नो वक्रं मनोवाञ्छितम् ॥’ इत्यत्रापि संस्कार एवालंकारो न भ्रान्तिमान् । अत्र हिभगवत्या110 नेत्रद्याञ्जन111दानसतताभ्यासाद्वामनेत्राञ्जनदानानन्तरं दक्षिणनेत्राञ्जनदानवासनानुरोधो जायत इति संस्कारस्यैव वाक्यार्थत्वम् । अथात्र संस्कारप्रबोधं विना तदभावादञ्जनदानसंस्कारहेतुका भगवदर्धस्य स्वार्धत्वेनाभिमानरूपा भगवत्या भ्रान्तिरेवेति चेत्, नैतत् । प्रत्युतात्र हि भगवदर्धस्य तथात्वेनैवावगमादञ्जनदानसंस्कारो न प्ररोहमुपागत112 इति कारणस्यैव स्खलद्गतित्वात्तत्कार्यस्य भ्रमस्योत्पाद एव न संभवतीति न भ्रान्तिमतोऽवकाशः । प्ररूढ एव हि संस्कारो भ्रमः । स्वात्ममात्रावस्थितस्तु संस्कारा113लंकारः । अत एव

गाढमर्मप्रहारादिना तु भ्रान्तिर्नास्यालंकारस्य विषयः । यथा—

‘दामोदरकराघातचूर्णिताशेषवक्षसा114
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥’

सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थं कविप्रतिभोत्थापितैव115 गृह्यते । यथोदाहृतं न स्वरसोत्था-पिता शुक्तिकारजतवत् । एवं स्थाणुर्वा स्यात्पुरुषो वा स्यादिति संशयेऽपि बोद्धव्यम् ।

एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः ।

                      *        

दातुं वाञ्छतीत्युक्तम् । एवं चात्र नेत्रद्वयाञ्जनदानसंतताभ्यासहेतुकः संस्कार एव प्रतीयते न तु तन्निमित्तकोऽपि भ्रमः परमः । परमेश्वरार्धस्य तथात्वेनैवावगमात्तद्गन्धस्याप्यभावात् । अत एवाशिक्षितं स्मितलाञ्छितं चेत्युक्तम् । अवान्तर एवानयोर्विशेषोऽलंकारभाष्य एवोक्त इति तत एवानुसर्तव्य इति । एवं च सादृश्यनिमित्तैव भ्रान्तिरलंकारविषयो न निमित्तान्तरोत्थापितेति न लक्षणस्याव्यापकत्वं वाच्यम् । एवं सादृश्यनिमित्तकत्वादस्य साधारणधर्मस्यापि त्रयी गतिः । तत्रानुगामिता यथा— ‘नीलोत्पलमिति-भ्रान्त्या विकासितविलोचनम् । अनुधावति मुग्धाक्षि पश्य मुग्धो मधुव्रतः॥’ अत्र विकासीत्यनुगामित्वेन निर्दिष्टो धर्मः । शुद्धसामान्यरूपत्वं तु यथा— ‘अयमहिमरुचिर्भजजन्प्रतीचीं कुपितवलीमुखतुण्डता-म्राबिम्बः । जलनिधिमकरैरुदीक्ष्यते द्राङ्नवरुधिरारुणमांसपिण्डलोभात् ॥’ अत्र ताम्रत्वारुणत्वयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावो यथा— ‘पुंसिआ116 कण्णाहरणेन्दणीलकिरणाहआ ससिमऊहा । माणिणिवअणम्मि सकज्जलंसुसङ्काए दइएण ॥’ अत्र सकज्जलत्वेन्द्रनीलकिरणाहत-त्वयोर्बिम्बप्रतिबिम्बभावः । सादृश्यनिर्मित्तत्वं117 चास्य द्रढयितुं प्रत्युदाहरति—गाढेत्यादिना । सादृश्यनिमित्तकत्वेऽपि कविप्रतिभोत्थापितैव भ्रान्तिरस्यैव विषयो न पुनर्वास्तवीत्याह—सादृश्येत्यादिउदाहृतमिति । ओष्ठे बिम्वफलाशयेत्यादि । एतदेव संदेहेऽपि योजयति—एवमित्यादि । संशय इति । अर्थादारोपगर्भ एव । तत्रैव ह्यस्य सादृश्यं निमित्तम् । अध्यवसायमुले हि संदेहे सादृश्यात्संबन्धान्तराद्रा विषयविषयिणोः संदिह्यमानत्वं स्यात् । यथोदाहृतं प्राक् । एवमारोपगर्भत्व एव सादृश्यं विना नायमलंकार118 इत्यवगन्तव्यम् । तस्मादविशेषेणैव119 साधर्म्य विहायापि निमित्तान्तरमवलम्ब्य नास्यालंकारत्वं वाच्यम् । सादृश्येऽपि कविप्रतिभोत्थापितस्यैवालंकारत्वं न पुनः स्वारसिकस्येति । एकस्यापीति । अनेकधा ग्रहणमिति न पुनरनेकधा कल्पनम् । ग्रहणं हि स्वारसिक्यामुत्पादितायां च प्रतिपत्तौ संभवति न तु स्वारसिक्यामेव । यदाहुः— ‘अतः शब्दानुसंधानवन्ध्यं तदनुबन्धि वा । जात्यादिविषयग्राहि सर्वे प्रत्यक्षमिष्यते ॥’ इति ।

** यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः । न चेदं निर्मित्तमुल्लेखमात्रमपि तु नानाविधधर्मयोगित्वा120ख्यनिमित्तवशादेतत्क्रियते []120 । तत्र रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रयोजिकाः121 । तदुक्तम्—**

‘यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधिते ॥‘इति॥

** यथा— ‘यस्तपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः संगीतशालेति लासकैः’ इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने । अत्र ह्येक एव श्रीकण्ठाख्यो जनपदस्तद्गुणयोगात्तपोव-नाद्यनेकरूपतया निरूपितः । रुच्यर्थित्वव्युत्पत्तयश्च प्रायशः समस्तव्यस्ता योजयितुं शक्यन्ते । नन्वेतन्मध्ये ‘वज्रपञ्जरमिति शरणागतैरसुरविवरमिति वातिकैः’ इत्यादौ रूपकालंकारयोग इति कथमयमुल्लेखालंकारविषयः । सत्यम् । अस्ति तावत् ‘तपोवनं’ इत्यादौ रूपकविविक्तोऽस्य विषयः । यदत्र वस्तुतस्तद्रूपतायाः**

                      *        
   *

कल्पनं पुनरुक्ताद्यं प्रतिपत्त्येकगामीति स्वारसिक्यां प्रतिपत्तौ न संभवतीत्युभयत्रापि व्यापकत्वाद्यथासूत्रितमेव युक्तम् । रूपबाहुल्येति । अत एवामुखे वस्त्वन्तरप्रतीतिरस्त्येव । अन्यथा ह्येकस्यानेकधाग्रहणमेव न स्यात् । अत एव चास्य भ्रान्तिमदनन्तरमेव लक्षणम् । एकस्य च न स्वातन्त्र्येणानेकधाग्रहणमपि तु तत्प्रयोजनवशादित्याह—न चेदमित्यादिएतदिति । अनेकधा ग्रहणमेकस्यैव नानाविधधर्मयोगिनः स्वातन्त्र्येण122 प्रतीतिगोचरीभावात्कथमेकैकधर्मविषयमनेकधाग्रहणं युक्तमित्याशङ्कयाह—तत्रेत्यादि । तत्रेत्यनेकधाग्रहणे । स्वातन्त्र्येण विकल्पनं रुचिः । अर्थक्रियाभि-लाषपरत्वमर्थित्वम् । वृद्धव्यवहारशरणता व्युत्पत्तिः । उक्तमिति श्रीप्रत्यभिज्ञायाम्123 । तत्तद्गुण-योगादिति विविक्तत्वादिनानाविधधर्मसंबन्धात् । मुनीनां तपोवनविषयमर्थित्वम् वेश्यानां च कामायतन-विषयमर्थित्वम् । एवं लासकानां तु संगीतशालाविषया व्युत्पत्तिरथित्वं च । प्रायश इत्यनेन रुचिरत्र नास्तीति सूचितम् । ननु योऽयं श्रीकण्ठाख्यजनपदवर्णनग्रन्थखण्ड उदाहरणत्वेनानीतस्तत्रालंकारान्त-रसंबन्धोऽप्यस्तीति कथमेतद्विषय एवेत्याह—नन्वित्यादिना । एतदेवाभ्युपगम्य प्रतिविधत्ते—सत्यमित्यादिना । तावच्छन्दो रूपकाभावविप्रतिपत्तिद्योतनार्थम् । तद्रूपताया इति तपोवनादि-रूपतायाः । अत्रापि124 यदन्यैरवयवावयविभावसंबन्धात्सारोपाया लक्षणायाः सत्त्वाद्रूपकालंकारमाशङ्कय विविक्तस्य125 चिन्त्यत्व-

संभवः । यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभाविनी तत्संकरोऽस्तु । न त्वेतावतास्याभावः शक्यते वक्तुम्126 । ततश्च न दोषः कश्चित् । एवं हि तत्र विषये भ्रान्तिमदलंका-रोऽस्तु । अतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनत्वात् । नैतत् । अनेकधाग्रहणाख्यस्यापूर्वस्याति-शयस्याभावात् । तद्धेतुकत्वाच्चास्यालंकारस्य संकरप्रतीतिस्त्वङ्गीकृतैव । यद्येवम्, अभेदे भेद इत्येवंरूपातिशयोक्तिरत्रासु । नैष दोषः । ग्रहीतृभेदाख्येन विषयविभागेनानेकधात्वोट्टङ्कना-त्तस्य च विच्छिन्त्यन्तररूपत्वात्सर्वथा तस्यान्तर्भावः शक्यक्रिय इति निश्चयः । यथा वा—

‘णाराअणो127 त्ति परिणअवआहिँ सिरिवल्लहो त्ति तरुणीहिं ।
बालाहिं उण कोदूहलेण एमे अ सच्चविओ ॥’

मुक्तं तदयुक्तम् । अवयवावयविभावसंबन्धाभावाल्लक्षणाया एवासत्त्वात् । न हि श्रीकण्ठाख्ये जनपदे तपोवनमवयवन्यायेन कुत्राप्येकदेशेऽस्ति यत्तत्रावयविनि मुनिभिरारोपितम् । किं तु तत्तद्गुणयोगिनः श्रीकण्ठस्य विविक्तत्वादितपोवनादिगुणमुखेन निजनिजवासनानुसारेणार्थित्वादिना मुनिप्रभृतीनामीदृ-गाभासः । अथापि यद्यस्त्यवयवावयविभावविवक्षा तल्लक्षणामात्रं न रूपकम् । तस्य लक्षणापरमार्थत्वे-ऽपि विषयिणा विषयस्य रूपवतः करणादलंकारत्वम् । अन्यथा तु लक्षणामात्रमेव । नहि लक्षणापि रूपकपरमार्था इह च तपोवनाद्यारोपेणारोपविषयस्य नातिशयः कश्चित् । वस्तुत एव तद्रूपतायाः संभवात् । अतश्च स्थित एवात्र रूपकविविक्तोऽस्य विषयः । न केवलमन्यालंकारविविक्तोऽयमेवास्य विषयो यावद्यत्रापि रूपकालंकारयोगोऽस्ति तत्राप्ययं संभवत्येवेति दर्शयितुमाह —यत्रेत्यादि । इयमपि भङ्गिरिति एकस्यानेकधाग्रहणरूपा । एतावतेति रूपकप्रयोगमात्रेण । ततश्चेति रूपकोल्लेखयोः संकरात् । ननु यत्र128 रूपकयोगो नास्ति तदलंकारान्तरयोगः संभवतीत्याह—एवं हीत्यादिअतद्रूपस्येति । अतपोवनरूपस्यापि तपोवनरूपत्वोपनिबन्धनात् । अतस्मिस्तद्रोहो भ्रम इत्येतदेव हि भ्रमतत्त्वम् । अपूर्वस्येति भ्रान्तिमदसंभविनः । तद्धेतुकत्वादिति अनेकधाग्रहणाख्याति-शयनिमित्तकत्वात् । यदि चात्र भ्रान्तिमानप्यस्ति तत्तेन सहास्य संकर एवास्त्वित्याह—संकरेत्यादियद्येवमिति । भ्रान्तिमतोऽस्य विशेषस्तेन सहास्य संकरो वेत्यर्थः । एष इति अतिशयोक्तिसद्भावः । तस्येति ग्रहीतृभेदाख्यस्य विभावस्य129 । विच्छित्यन्तरत्वमेव हि सर्वेषामलंकाराणां भेदहेतुः । तदेवं तत्तच्छङ्का130निरासपूर्वममुमेव सिद्धान्तीकृत्य पुनरप्युदाहरति—णाराअणो त्तीति । अत्र च नारायणत्वा-

एवम् ‘पृथुरुरसि अर्जुनो यशसि’ इत्यादाववसेयम् । इयांस्तु विशेषः— पूर्वत्र ग्रहीतभेदेनानेक-धात्वोल्लेखः, इह तु विषयभेदेन । नन्वनेकधात्वोल्लेखने गुर्वादिरूपतया श्लेष इति कथमलंकारान्तरमत्र स्थाप्यते । सत्यम् । अनेकधात्वनिमित्तं तु विच्छिन्त्यन्तरमत्र दृश्यते इति तत्प्रतिभोत्पत्तिहेतुः श्लेषोऽत्र स्यात्131 । न तु सर्वथा तदभावः । अतश्चालंकारान्तरम् । यदेवं132विधे विषये श्लेषाभावेऽपि विच्छित्तिसद्भावः133 । तस्मादेवमादावुल्लेख एव श्रेयान् । एवमलंकारान्त-रविच्छित्त्याश्रयेणाप्ययमलंकारो निदर्शनीयः ।

द्युल्लेखने वृद्धाप्रभृतीनां यथाक्रमं व्युत्पत्त्यर्थित्वरुचयः । एतदेवान्यत्रापि योजयति—एवमित्यादि । विशेष इति पूर्वस्मात् । विषयभेदेनेति वचनादिभिन्नत्वेन । अनेकधात्वोल्लेखे गुर्वादिरूपतया श्लेष इति गुर्वादीनामुभयार्थवाचित्वात् । तत्प्रतिभोत्पत्तिहेतुरिति । श्लेषमन्तरेणात्रोल्लेखानिष्पत्तेः । तदभाव इत्युल्लेखाभावः । अतश्चेति । श्लेषाभावेऽप्येतद्रिच्छित्तिसंभवात् । एवंविध इति विषयभेदरूपे । तत्तु यथा— ‘सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेर्ष्या जह्रुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥’ अत्रैकस्या एव दृष्टेस्तत्तद्विषयभेदेन नानात्वोल्लेखनम् । तदयं द्विप्रकारोऽपि रूपकाद्याश्रयवदन्यालंका-राश्रयोऽपि संभवतीत्याह—एवमलंकारान्तरेत्यादि । तत्राद्यः प्रकारः संदेहाश्रयो यथा— ‘किं भानुः किमु चित्रभानुरिति यं निश्चिन्ते वैरिणः किं चिन्तामणिरेष कल्पविटपी किं वेति चाशागताः । किं पुष्पाकर एष पुष्पविशिखः किं वेति रामाजनः134 किं रामः किमु जामदग्न्यइति वा यं धन्विनो मन्वते ॥’ अत्रैकस्यैव संदिह्यमानत्वेनानेकधात्वोल्लेखनम् ।अतिशयोक्त्याश्रयश्चायमेव यथा— ‘वज्रं सौराज्यसाक्षी परिकलितमहाः शक्तिमार्द्रापराधो दण्डं खड्गं रिपुस्त्रीप्रसभहरणवित्कृपवाप्यादिदृश्वा । पाशं पाणावपश्यन्ध्वजमपि बलवित्कोषवेदी गदां च स्वाच्छन्द्यज्ञस्त्रिशूलं लिखति करतले देव चित्राकृतेस्ते ॥’ अत्र त्वमेवेन्द्र इत्याद्यतिशयोत्तया लोकपालाभेदो राज्ञ उपलभ्यते इत्येकस्यानेकधात्वोल्लेखनम् । विषयभेदेन च रूपकाश्रयो यथा— ‘मूर्ध्न्यद्वेर्धातुरागस्तरुषु किसलयं विद्रुमौघः समुद्रे दिङ्मातङ्गोत्तमाङ्गे-ष्वभिनवनिहितः सान्द्रसिन्दूररेणुः । सीम्नि व्योम्नश्च हेम्नः सुरशिखरिभुवो जायते यः प्रकाशः शोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म रश्मिप्रतानः ॥’ अत्रैकस्यैव विषयभेदेन रूपकाश्रयं नानात्वम् । ‘कारकान्तर’ इत्यपपाठः । प्रकृतकारकविच्छित्त्याश्रयस्यैवानुक्तत्वात् । अयं स्वरूपहेतुफलोल्लेखन-रूपत्वात्रिधा । तत्र स्वरूपोल्लेखः समनन्तरमेवोदाहृतः । हेतूल्लेखस्तु यथा— ‘सर्गहेतोः सदा धर्मः स्थितिहेतोरपि प्रजाः । द्विषः संहारहेतोश्च विदुस्त्वां

विषयस्यापह्नवे135ऽपह्नुतिः

वस्त्वन्तरप्रतीतिरित्येव । प्रक्रान्तापह्नव136वैधर्म्येणेदमुच्यते । आरोपप्रस्तावादारोपविषयापह्नु-तावारोप्यमाणप्रतीतावपह्नुत्याख्योऽलंकारः । तस्य च त्रयी बन्धच्छाया— अपह्नवपूर्वक आरोपः । आरोपपूर्वकोऽपह्नवः । छलादिशब्दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः । पूर्वोक्तभेदद्वये वाक्यभेदः । तृतीयदे त्वेकवाक्यम् । आद्यो यथा—

जातमात्मनः ॥’ अत्रैकस्यैव जन्मनो हेतूनामनेकधात्वोल्लेखनन् । फलोल्लेखस्तु यथा—‘धर्मीयैव विदन्ति पार्थिव यथाशास्त्रं प्रजाः पालिता अर्थायैव च जानतेऽन्तरविदः137 कोषैकदेशस्य ये । कामायैव कृतार्थतामुपगता नार्यश्च निश्चिन्वते मोक्षायैव च वेद138जन्म भवतः कश्चिद्विपश्चिज्जनः ॥’ अत्रैकस्यैव जन्मनः फलानामनेकधात्वोल्लेखनम् । विषयस्येत्यादिवस्त्वन्तरेति । भ्रान्तिमतोऽनुवर्तत इति शेषः । अत एव केचन मण्डूकप्लुतिन्यायेनानुवर्तनस्यानुचितद्भ्रान्ति मदनन्तरमपह्नुतिर्ग्रन्थकृता लक्षिता उल्लेखश्चातिशयोक्त्यनन्तरमिति ग्रन्थं विपर्यासितवन्तः । न चैतत् । यत उल्लेखस्तावदतिशयोक्त्य-नन्तरं ग्रन्थकृता न लक्षितः । यद्वक्ष्यति— ‘एवमध्यवसायाश्रयेणालंकारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलंकारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्येऽपि पदार्थगतमलंकारद्वयं क्रमेणोच्यते’ इति । तस्माद्वस्त्वन्तरप्रतीतेर्भावाान्तिमदनन्तरमेवास्य ग्रन्थकृता लक्षणं कृतम् । अत एव चोल्लेखेऽपि तत्संभवाद्वस्त्वन्तरप्रतीते139र्निरन्तरमेवानुवर्तनादिहैवास्या लक्षणमुचितमिति यथास्थित एव ग्रन्थः साधुः । यद्येवं140 तह्युर्ल्लेस्वापह्नुत्योरिहैव विपर्ययेण किं न लक्षणं कृतमित्याशङ्कयाह—प्रक्रान्तेत्यादि । इदमित्यपह्नुतिलक्षणम् । तदेव व्याचष्टे—आरोपेत्यादिना। विषयस्यापह्नवे विषयिणोऽन्यस्य विधिरित्यर्थः । तेन ‘न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं तु141 ससंततिम् ॥’ इत्यत्र विषस्य निषेधपूर्वे ब्रह्मस्वविषय142 आरोप्यमाणत्वादृढारोपं रूपकमेव नापह्नुतिः । अपह्नुतेर्हि निषेध्यविषयभित्तितयैवान्यस्य विषयिणो विधानं लक्षणम् । अत्र तु निषेध्यस्यैव विषस्य ब्रह्मस्वविषये आरोप्यमाणत्वाद्विधानम् । अथात्र मुख्यस्य विषस्य निषेधे आरोप्यमाणत्वात् ब्रह्मस्वविषस्य गौणस्य विधानमिति चेत्, तत्र ब्रह्मस्वविषस्य गौणस्य विधानमिति भणितेः कोऽर्थः । किं ब्रह्मस्वविषस्य विधानं किं वा द्वन्द्वपदार्थद्व्रह्मस्वस्य च विषस्य च ब्रह्मस्वे वा विषस्येति । तत्र नाद्यः पक्षः । विषादिन्यायेन ब्रह्मस्वविषात्मनः कस्यचिद्वस्तुनो बहिरसं-

‘यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते
तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी
कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम् ॥’

अत्रैन्दवस्य शशस्यापह्नवे उपक्षिप्ते शशकप्रतिवस्तुकिणवत इन्दोरारोपोनान्वयघटनां पुष्यतीति न निरवद्यम् । तत्तु यथा—

‘पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभास्वरं
नेदं मण्डलमभ्युदेति गगनाभोगे जिगीषोर्जगत् ।
मारस्योच्छ्रितमातपत्रमधुना पाण्डु प्रदोषश्रिया
मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनः ॥

द्वितीयो यथा—

‘विलसदमरनारीनेत्रनीलाब्जखण्डा
न्यधिवसति सदा यः संयमाधः कृतानि ।
नतु रुचिरकलापे वर्तते यो मयूरे
वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥

तृतीयो यथा—

‘उद्भ्रान्तोज्झितगेहगूर्जरवधूकम्पाकुलोच्चैः कुच
प्रेङ्खोलामलहारवल्लिविगलन्मुक्ताफलच्छद्मना ।

    *             *

भवात् । तत्राप्यस्य ब्रह्मस्वं विषं चेति न भेदेनोक्तिः स्यात् । नापि गौणता । स्वार्थ एव प्रवृत्तेः । अन्यदन्यत्र वर्तमानं गौणमित्युच्यते । न चात्र ब्रह्मस्वविषमन्यत्र कुत्रचिद्वर्ततेयेनास्य गौणता स्यात् । एवं द्वितीयेऽपि पक्षे न गौणत्वं युक्तम् । नाप्यत्रोभयविधिः । ब्रह्मस्वविषये विषस्यैव विधीयमानत्वात् । तृतीयेऽपि न गौणस्य सतो विषस्य विधानम् । ब्रह्मस्ववृत्त्यभावान्मुख्यार्थबाधागुणेषु वर्तनात् विहितस्य तस्य गौणत्वात् । एवं ब्रह्मस्वस्य दार्ढ्येन विषसाम्यप्रतीतिप्रतिपिपादयिषया तत्र निषेधपूर्वे विषमारोपितमिति दृढारोपमेव रूपकं युक्तम् । न ब्रह्मस्वं विषमिदमिति पुनरुच्यमानेऽपह्नुतिः स्यात् । तस्मान्मुख्यस्येवेत्यपास्य विषयस्यापह्नवेऽन्यविधिरपह्नुतिरित्येव लक्षणं कार्यम् । तस्येत्यपह्नुत्या-ख्यस्यालंकारस्य । वाक्यभेद इत्येकवाक्यमिति चानेन यथासंभवं भेदत्रयस्य स्वरूपनिर्देशः कृतः । न निरवद्यमिति । यथोक्तक्रमनिर्वाहाभावात् । अतएवोदाहरणान्तरमाह—पूर्णेन्दोरित्यादि । मन्येशब्दस्य प्रयोग इति संभावनायोतकत्वात् ।

सार्धंत्वद्रिपुभिस्त्वदीययशसां शून्ये मरौधावतां
भ्रष्टं राजमृगाङ्क कुन्दमुकुलस्थूलैः श्रमाम्भःकणैः॥’

अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापहवोत्प्रेक्षा इत्यपि स्थापयिष्यते ‘अहं त्विन्दुं मन्ये’ इति तु वाक्यभेदे मन्येशब्दप्रयोगे नोत्प्रेक्षेति च वक्ष्यते । एतस्मिन्नपि भेदेऽपह्नवारोपयोः पौर्वापर्यप्रयोगविपर्यये भेदद्वयं सदपि न पूर्ववच्चित्रतावहमिति न भेदत्वेन गणितम् । तत्रापह्नवपूर्वके आरोपे निरन्तरमुदाहृतम् । आरोपपूर्वके त्वपह्नवे यथा—

‘ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी
न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् ।
द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन॥’

क्वचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायि वपुःशब्दादिनिबन्धनं यथा—

‘अमुष्मिल्लावण्यामृतसरसि नूनं मृगदृशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः ।
यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे
शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥’ इति ।

                        *      
  *

नोत्प्रेक्षेति । साध्यवसायाद्युत्प्रेक्षासामन्यभावात् । वक्ष्यत इत्युत्प्रेक्षायाम् । तथा चास्या इवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किं तूत्प्रेक्षासामग्र्यभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयतीति । अतश्च ‘अवाप्तः प्रागल्भ्यं–’ इत्यादावपह्नुत्युदाहरणत्वमभिदधतः समानेऽपि न्याये ‘नो मां प्रति तथा’ इत्यनेन शशकपक्षस्य निराकृतत्वादन्यस्यान्यरूपतया143 संभावनाया अभावान्मन्य इत्यनेन किणपक्षस्यैव निश्चितत्वादतिशयोक्ति144रेवेति मन्यन्ते । तेषां पूर्वापरविचारकुशलानां किमभिदध्मः । एवमन्यैरत्रान्यत्र चोदाहरणादौ बहुप्रकारंस्खलितं तत्पुनर्ग्रन्थविस्तरभयादस्मद्दर्शन-दत्तदूषणोद्धरणस्यैव प्रतिज्ञातत्वादस्माभिः प्रातिपद्येन न दूषितम् । एतस्मिन्निति छलादिशब्दप्रतिपाद्ये । संभवमात्रं पुनर्देर्शयितुमेतदुदाहृतम् । वस्त्वन्तररूपताभिधायीति । वपुःशब्दस्य शरीरार्थाभिधायित्वात् । अत्र पुनरुपमानस्योपमेयरूपतापरिणतौ परिणाम इति परिणामालंकारत्वं यदन्यैरुक्तं तदयुक्तम् । तत्त्वे हि धूमशिखान्यग्भावे तत्परिणतिरूपरोमावलीप्राधान्यं

स्यात् । इह पुनः शर्वप्रुष्टमदननिपतनानुमापकत्वेन रोमावल्यपह्नवे धूमशिखाया एव प्राधान्यं विवक्षितमिति न परिणामो नापि रूपकम् । व्याजार्थपर्यवसायिवपुःशब्दबलादारोपविषयापह्नुतावा-रोप्यमाणस्य प्रतीतेः । आरोपविषयानपह्नवे हि रूपकमिति पूर्वमेवोक्तम् । अथात्रापि भिन्नयोः सामानाधिकरण्यायो145गादेकतरस्य निषेधप्राप्तावारोप्यमाणस्य च निषेधानुपपत्तेरारोपविषयस्यैव पर्यवसाने निषेधः प्रतीयत इति चेत्, नैतत् । अत्र हि मुखादौ चन्द्रादेर्वृत्त्यभावो बाधितः संश्चन्द्रार्थः स्वात्मसहचारिणो गुणांल्लक्षयति न तु मुखादेर्विषयस्य निषेधः प्रतीयते । मुखशब्दादेः स्वार्थ एव प्रवृत्तेः146 । पर्यवसाने ह्यत्र मुखादि147 चन्द्रादिगुणविशिष्टं प्रतीयते । न तु मुखादेर्बाधः । न मुखमित्येवमादेः प्रत्यवमशीभावात् नापि निदर्शना148। । संबन्धविघटनाद्यभावात् । आदिशब्दाच्च तृतीययापि क्वचिदसत्यत्वं प्रतिपाद्यते । यथा—‘मद्वाह्वोर्व्यवहारमुज्झतु लता कण्ठस्थले तावके मा कार्षीरतिसाहसं प्रियतमे दासस्तव प्राणिति । नीता वृद्धिममी त्वयैव कुसुमैर्बाष्पायमाणा द्रुमा गृह्णन्ति क्षुरिकामिवालिपटलव्याजेन पाशंच्छिदे ॥’ अत्र कुसुमैरिति तृतीययापह्नवनिबन्धनम् । आरोपगर्भ-त्वाच्चेयं सादृश्याद्वा भवति संबन्धान्तराद्वा \। सादृश्येऽप्यस्याः साधारणधर्मस्य त्रयीगतिः । तत्रानुगामिता यथा—‘तरुणतमालकोमलमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते । तदनृतमेव निर्दयविधुंतुददन्तपदव्रणविवरोपदर्शितमिदं हि विभाति नभः ॥’ अत्र तमालमलीमसत्वमनुगामित्वे-नोपात्तम् । शुद्धसामान्यरूपत्वं यथा— ‘अयं सुरेन्द्रोपवनाद्धरित्रीं स पारिजातो हरिणोपनीतः । न प्रापितोऽयं सुमनःप्रवर्हः149 कश्मीरदेशोद्भवताभिमानम्150 ॥’ अत्रोपनयनप्रापणयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावो यथा— ‘न ज्योत्स्नाभरणं नभो न मिलितच्छायापथो वाम्बुदो नो ताराप्रकरो न चेदममृतज्योतिष्मतो मण्डलम् । क्षीरक्षोभमयोऽप्यपांनिधिरसौ नेत्राहिना मन्दरः पृक्तोऽयं मणिपूग एष कलशश्चायं सुधानिर्झरः ॥’ अत्र ज्योत्स्नाभरणत्वस्य क्षीरक्षोभमयत्वं प्रतिबिम्बत्वेन निर्दिष्टम् । संबन्धान्तद्यथा— ‘हेलोदञ्चन्मलयपवनाडम्बरेणाकुलासु प्रेङ्खाकेलिं कमपि भजतां चूतशाखालतासु \। वाचालत्वं नयदुदभवत्कानने कोकिलानां मौनित्वं तंत्पथिकहरिणीलोचनानां ववल्ग ॥’ अत्र कोकिलवाचालत्वस्य कारणस्य निषेधे पथिकस्त्रीमौनित्वस्य कार्यस्य विधिः । एवमारोपगर्भेयं प्रपञ्चं दर्शिता अध्यवसायगर्भा पुनर्दयेते यथा— ‘न लक्ष्मीसौन्दर्यान्न च सुरशरण्यीकृतसुरासुधादिज्येष्ठत्वान्न मुकुटमणित्वाद्भगवतः । यदेवं151 बालेन्दोर्दिशि विदिशि वन्द्यत्वमुदितं स्फुटत्वे तत्कान्तामुखकमलदास्या-दुपनतम् ॥’ अत्र वन्द्यत्वस्य प्रभावादिहेतुकत्वे निगीर्य हेत्वन्तरमध्यवसितम् । यथा वा— ‘कलाभिस्तृप्त्यर्थे सुरपितृनृणां पञ्चदशभिः सुधासूतिर्देवः प्रतिदिनमुदेतीत्यसदिदम् । परिभ्राम्यत्येष प्रतिफलनमासाद्य भवतीकपोलान्तर्युक्त्या त्वदधरसुधासंग्रहपरः ॥’ अत्रोदयादौ तत्तद्राश्युपभोगलक्षणं निमित्तं निगीर्य

** एवमभेदप्राधान्ये आरोपगर्भानलंकारांल्लक्षयित्वा अध्यवसायगर्भाल्लक्षयति—**

                      *        
   *

तत्फ152लभूतं निमित्तान्तरमध्यवसितम् । एतदुपसंहरन्नन्यदवतारयति—एवमित्यादिआरोपगर्भानिति । अत्राध्यवसायगर्भत्वस्यापि विद्यमानत्वान्मल्लग्राम इत्यादिवदारोपगर्भस्य प्राधान्यादेवं व्यपदेशः । तत्र तावदुत्प्रेक्षां लक्षयति—अध्यवसाय इत्यादि । अध्यवसाय इति न पुनः संदेहः153। इह हि निश्चयानिश्चयरूपत्वेन प्रत्ययानां द्वैविध्यम् । निश्चयश्चार्थाव्यभिचारी सम्यक्, अन्यथा त्वसम्यगिति भेदो154 न ग्राह्यः। प्रतीतिवृत्तिमात्रस्यैवेह विचारयितुमुपक्रान्तत्वात् । तस्य च प्रामाण्यविचारे उपयोगात् । अनिश्चयश्च संशयतर्करूपत्वेन द्विविधः । अतश्चानिश्चितं च संदिग्धमेवेति न वाच्यम् । तर्कात्मनः संभावनाप्रत्ययस्याप्यनिश्चयात्मकत्वे संदिग्धत्वाभावात् । उत्प्रेक्षा संभावनादिशब्दाभिधेयतर्कप्रतीति-मूलेति नास्याः संदेहमूलत्वम् । तत्य भिन्नलक्षणत्वात् । अथानवधारणज्ञानसंशय इत्यनवधारणज्ञानत्वाविशेषात्सं155शयान्नार्थान्तराभावस्तर्कस्थेत्यस्याः संशयमूलत्वमिति चेत्, नैतत् । अनवधारणज्ञानत्वाविशेषेऽपि संशयतर्कयोभिन्नरूपत्वात् । तथाहि—स्थाणुर्वा पुरुषोवेति सामान्येन पक्षद्वयोल्लेखः संशयः । पुरुषेणानेन भवितव्यमित्येकतरपक्षानुकूलकारणदर्शनेन पक्षान्तरबाधनमिव तर्कः । पुरुष एवायमिति पक्षान्तरसंस्पर्शेनैकतरपक्षनिर्णयो निश्चयः इत्यस्ति सहृदयसाक्षिकं प्रत्ययानां त्रैविध्यम् । बाढमस्त्येव प्रत्ययानां त्रैविध्यम् । किं त्वनवधारणज्ञानत्वाविशेषात्तत्सामान्यतर्को156ऽपि संशयप्रकार इति चेत्, नैतत् । एवं ह्यसम्यग्ज्ञानत्वाविशेषाद्भ्रमोऽपि संशयप्रकारःस्यात् । अर्थनिश्चयानिश्चयस्वभावत्वादिना अस्त्यनयोर्विशेष इति चेत्, इह पुनर्नास्त्यत्र157 किं प्रमाणम् । संशयो ह्यतिशयतोभयांशावलम्बित्वेनोदेति तर्कः पुनरंशान्तरबाधनेनेव वाहकेलिदर्शनाद्यनुकूलकारणौचित्यादं-शान्तरावलम्बनेन चेत्यस्त्यनयोर्विशेषः । देशान्तरे हि यथा स्पर्धमान एव स्थाणुपक्ष आस्ते न तथा वाहकेलिभूमौ अपि तु शिथिलीभवति संभवत्प्रमादत्वाच्च सर्वात्मना न निवर्तत इति अत एव निश्चयः । साधकप्रमाणाभावेऽप्यस्योपपत्तेः । नहि प्रतिपक्षबाधादेव निश्चयो भवति । साधकबाधकप्रमाणसद्भावेन तदुत्पादात् । तेनानियतोभयपक्षावलम्बी किंस्विदिति विमर्शः संदेहः । एकतरपक्षावलम्बी तु तर्क इति । अथ कोऽस्य फलस्योपायविशेष इत्येकतरपक्षावलम्बेनापि संदेह संभवतीति चेत्, नैतत् । किमर्थेनानियतपक्षान्तरस्वीकारादेकतरपक्षावलम्बनस्याप्रतिष्ठानात् । बाह्यालीदर्शनाच्च यथा पुरुषविशेषाः स्मरणपथं158 समवतरन्ति न तथा स्थाणुविशेषा इत्युभयविशेषस्मरण159जन्मनः संदेहादेकतरविशेषस्मरणजन्मा विशिष्यते तर्क इत्याद्यवान्तरमतिगहनमनयोरस्ति भेदसाधनं तत्पुनः प्रकृतानुपयोगादिह नोक्तम् । तेन संदेहनिश्चयान्तरालवर्ती तद्विलक्षणः संभावनाप्रत्ययस्त्रिशङ्कुरिव लम्बमानोऽवश्याभ्यु-

तत्र ।

अध्यवसाये160 व्यापारमाधान्ये उत्प्रेक्षा ।

पगन्तव्यः । एवमप्यनिश्चयात्मकसंभावनाप्रत्ययमूलत्वादुत्प्रेक्षायाः कथमध्यवसायमूलत्वम् । तस्य हि विषयनिगरणे विषयिनिश्चयश्च स्वरूपम् । न चात्रैकमपि संभवति । विषयोपादानान्निश्चयाभावाच्चेति । अत्रोच्यते—इह द्विधास्त्यध्यव161स्त्रायः— स्वारसिक उत्पादितश्च । तत्र स्वारसिके विषयानवगम एव निमित्तसामर्थ्यात्स्वरसत एव विषयप्रतीतेरुल्लासात् । नह्यवगतशुक्तिकास्वरूपस्य प्रमातुः कदाचिदपि रजतमिदमिति प्रत्ययोत्पादः स्यात् । इतरत्र तु विषयमवगम्यापि तदन्तःकारेण प्रतिपत्तौ स्वात्मपरतन्त्रविकल्पनाद्विषये162 प्रतिपत्तिमुत्पादयेत् । जानान एव हि विषयिविविक्तं विषयं तत्र प्रयोजनपरतया विषयिणमध्यवस्येत् । तत्राद्यो भ्रान्तिमदादिविषयः । तत्र हि प्रमात्रन्तरगता स्वारसिक्येव तथाविधा प्रतिपत्तिर्वक्रानूद्यते न तूत्पाद्यते । यदाहुः— ‘प्रमात्रन्तरधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते । स भ्रान्तिमान्’ इति । स्वारसिकत्वं पुनरत्र कविप्रतिभानिर्वर्तितमेवेष्टम् । अन्यथा हि भ्रान्तिमात्रं स्यादिति पूर्वमेवोक्तम् । इतरस्तूत्प्रेक्षाविषयः । स च द्विविधः— सिद्धः साध्यश्च । सिद्धो यत्र विषयस्यानुपात्ततया निगीर्णत्वादध्यवसितप्राधान्यम् । साध्यो यत्रेवाद्युपादानात्संभावनाप्रत्ययात्मकत्वा-द्विषयस्य निगीर्यमाणत्वादध्यवसायक्रियाया एव प्राधान्यम् अत एवाह— व्यापारप्राधान्य इति । अत एव चात्र क्वचिद्विषयानुपादानम् ।वाच्योपयोग्याध्यवसायस्य साध्यमानत्वेनोपक्रान्तत्वात् । क्वचिच्च विषयस्यानुपादानेऽपि न सिद्धत्वम् । इवाद्युपादानान्निगीर्यमाणतायाः प्राधान्यात्संभावनाप्रत्ययस्यैवो-द्रेकात् । अत एव चात्र विषयस्य निगीर्यमाणत्वादारोपगर्भत्वं न वाच्यम । तत्र विषयस्य विषयितया प्रतीतिः । इह पुनर्विषयस्य निगीर्यमाणत्वेन विषयिण एव प्रतीतिः । ननु विषयनिगरणमध्यवसायस्य लक्षणम्163 इह पुनर्विषयस्य निगीर्यमाणतेति कथमत्राध्यवसायतेति चेत्, नैतत् । ‘विषय्यन्तः कृतेऽन्यस्मिन्सा स्यात्साध्यवसानिका’ इत्यायुक्त्याध्यवसायस्य विषयिणा विषयस्यान्तःकरणं लक्षणम् । तच्च विषयस्य निगरणेन निगीर्यमाणत्वेन वा भवतीति न कश्चिद्विशेषः । निगीर्यमाणमपि पूर्वोक्तनीत्या विषयस्योपात्तस्यानुपात्तस्य वा भवतीत्यपि न कश्चिद्विशेषः । एवं सिद्धेऽध्यवसायेऽध्यवसितप्राधान्यं साध्ये च स्वरूपप्राधान्यमिति सिद्धम् । एतच्च ग्रन्थकृदेव विभज्याग्रे वक्ष्यतीति तत एवावधार्यम् । यदेवचाध्यवसायस्य साध्यत्वं तदेव संभावनात्मकत्वम् । संभावना ह्येकतरपक्षशिथिलीकारेण पक्षान्तरदादार्ढ्येन च प्रादुर्भवतीत्यस्याः साध्याध्यवसायतुल्यकक्षत्वम् । तस्यापि विषयाशथिलीकारेण विषयिदादार्ढ्येन चोत्पत्तेः । अत एव विषयिणोऽपि शाब्देन वृत्तम सत्यत्वम् । विषयदार्ढ्येनैव साध्यवसाय164स्वरूपप्रादुर्भावात् । यदुक्तं भवद्भिरेव ‘संभावनायां च संभाव्यमानस्य

विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः। स च द्विविधः— साध्यः सिद्धश्च । साध्यो यत्र विषयिणोऽसत्यतया165 प्रतीतिः । असत्यत्वं च विषयिगतस्य166 धर्मस्य विषय उपनिबन्धे विषयिसंभवित्वेन विषयासंभवित्वेन च प्रतीतेः167। धर्मो गुणक्रियारूपःतस्य संभवासंभवप्रतीतौ संभवाश्रयस्य तत्रापर168मार्थतया असत्यत्वं प्रतीयते इतरस्य तु परमार्थ169तया सत्यत्वम् । यस्यासत्यत्वं170 तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः । अतश्च व्यापारप्राधान्यम् । सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यता171प्रतीतिः । स

दार्ढ्यादपरस्य च शैथिल्यात्’ इति । इह संभाव्यमानस्य172 विषयिणो दार्ढ्यादत्र संशयाद्वैलक्षण्यम् । तस्य ह्यनियतोभयांशावलम्बी किंस्विदिति विमर्शो लक्षणम् । संभावनाविषयस्य च शैथिल्यान्निश्चयादपि भेदः । निश्चये हि बाधकसद्भावादेकस्य पक्षस्यापसरणेन शैथिल्येन वा साधकसद्भावाच्चपक्षान्तरस्य सिद्धिः स्यात् । अतिशयोक्तिश्च निश्चयात्मिकेति ततोऽस्या भेदः । यत्तु साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः’ इत्यादि ग्रन्थकद्वक्ष्यति तद्वस्तुवृत्ताभिप्रायेणावगन्तव्यम् । तदेवं विषयस्य निगीर्यमाणत्वाद्विषयिणश्च निश्चयात्सिद्धमध्यवसायमूलत्वमस्या इति यथोक्तमेव लक्षणं पर्यालोचिताभिधानम् । तस्मात् ‘इवादौ निश्चयाभावाद्विषयस्य परिग्रहात् । क्वचिदध्यवसायेन नोत्प्रेक्षापि तु संशयात् ॥’ इत्याद्युक्तमयुक्त-मेवत्यलं बहुना । एतदेव व्याचष्टे—विषयेत्यादिना । अभेदप्रतिपत्तिरिति विषयान्तःकरणात् । संभावनाप्रत्ययात्मकत्वेऽपि साध्याध्यवसायस्य वस्त्वभिप्रायेण तद्वैलक्षण्यं प्रदर्शयितुमाह—साध्य इत्यादि । विषयपरिशोधनद्वारेण प्रमाणानुग्राहकत्वात्संभावनाप्रत्ययस्य पुरुषेणानेन भवितव्यमित्यत्र वस्तुवृत्तेन पुरुषस्य सत्यत्वम् । इह पुनस्तत्र तस्य प्रयोजनपरतयाध्यवसीयमानत्वात्संभावनाविषये संभाव्यमानस्य वस्तुनो न सत्यत्वमित्याह—असत्यतया प्रतीतिरिति । अत्रैव निमित्तमाह—असत्यत्वं चेत्यादिविषय उपनिबन्ध इति । तद्गतधर्माभेदेनाध्यवसित इत्यर्थः । अनेन सप्रयोजनत्वमेवोपो-द्वलितम् । धर्म इति विषयिगतः । स एव चोत्प्रेक्षणे निमित्तम् । तस्येति धर्मस्य । संभावनाश्रयस्येति विषयिणः । तत्रेति संभावनाश्रये विषये । इतरस्येति असंभवाश्रयस्यविषयस्य173 । यस्येति विषयिणः । अतश्चेति । अध्यवसायस्य साध्यमानत्वात् । असत्यस्थापीति । वस्तुतो विषयिणस्तत्रासंभवात् । सत्यताप्रतीतिरिति । निश्चयस्वभावत्वादतिशयोक्तेः । असत्यत्वनिमित्तस्येति धर्मसंचारादेः । अतश्चेति धर्मसंचारान्निगीर्यमाण

त्यत्वं च (^(………)) पूर्वकस्यासत्यत्वनिमित्तस्याभावात् । अतश्चाध्यवसितप्राधान्यम् । तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्येऽध्यवसायः संभावनमभिमानस्तर्क ऊह उत्प्रेक्षेत्यादिशब्दैरुच्यते । तदेवमप्रकृतगुणक्रियाभिसंबन्धादप्रकृतेन प्रकृतस्य संभावनमुत्प्रेक्षा । सा च वाच्या इवादिशब्दैरुच्यते । प्रतीयमानायां पुनरिवाद्यप्रयोगः । सा च जातिगुणक्रियाद्रव्याणामप्रकृता-नामध्यवसेयत्वेन174 चतुर्धा । प्रकृतस्यैतद्भेदयोगेऽपि175 न वैचित्र्यमिति ते न गणिताः । प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्येऽष्टविधत्वम् । भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणक्रिया-रूपत्वेन षोडश भेदाः । तेषां च प्रत्येकं निमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशत्प्रकाराः । तेषु च हेतुस्वरूपफलोत्प्रेक्षणरूपत्वेन षण्णवतिर्भेदाः । एषा गतिर्वाच्योत्प्रेक्षायाः । तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः । प्रतीयमानायास्तु यद्यप्युद्देशत एतावन्तो176 भेदास्तथापि निमित्तस्यानुपादानं तस्यां न संभवतीति तैर्भेदैर्न्यूनोऽयं प्रकारः । इवाद्यनुपा-

_____________

तायाः प्राधान्याभावात् । अध्यवसितप्राधान्यमिति । विषयस्य निगीर्णत्वाद्विषयिण एव प्राधान्यमित्यर्थः । साध्यत्व सिद्धत्वसिद्धयोश्च समनन्तरमेव स्वरूपमुपपादितमितीह न पुनरायस्तम् । तत्रेति द्वयनिर्धारणे । अध्यवसाय इत्यादिशब्दरुच्यत इति संबन्धः । एतदेवोपसंहरति—तदेवमित्यादि । यदाहुः— ‘विषयित्वेन संभावनमुत्प्रेक्षा’ इति । प्रतीयमानायामिति । इवाद्यप्रयोगाच्छब्दानुक्तत्वा-दूह्यायां न व्यङ्ग्यायामलंकारप्रभेदानां प्रतिपिपादयिषितत्वाद्व्यङ्गयभेदाभिधानस्याप्रस्तुतत्वात् । एवं वाच्या प्रतीयमाना चोत्प्रेक्षा भवतीत्यनुवादद्वारेण विधिः । सा चेति । न वैचित्र्यमिति । तस्य निगीर्यमाणत्वेनाप्राधान्यात् । प्रत्येकमितिजात्यादीनाम् । निमित्तस्येति धर्मस्य । तद्वशादेव हि प्रकृतगतत्वेनाप्रकृतोपनिबन्धः । हेतुस्वरूपफललक्षणमेवास्या भेदत्रयं जीवितभूतमिति तदेव विश्रान्तिधामतया पश्चादुद्दिष्टम् । जात्यादिभेदगणनं पुनरवैचित्र्यावहमपि चिरंतनानुरोधात्कृतम् । अत एव ग्रन्थकृता प्रातिपद्येन नोदाहृतम् । अस्माभिश्च नोदाहरिष्यते । एषेति समनन्तरीक्ता । तत्रापीति सत्यामपि समनन्तरोद्दिष्टायां भेदगणनायाम् । प्रायःशब्देन च हेतुफलयोः कुत्रापि संभवोऽस्तीति दर्शितम् । अत एवालंकारानुसारिण्यां ग्रन्थकृतानयोरपि संभवो दर्शितः । तदेवं द्रव्यस्य हेतुफलयोः संभवे प्रागुक्तैव संख्याज्यायसी । अन्यथा त्वेतद्भेदषोडशकस्याभावादशीतिर्भेदाः । अस्याश्च वक्ष्यमाणनीत्या हेतुफलयोर्निमित्तानुपादानासंभवाच्चतुःषष्टिरेव भेदाः संभवन्ति । एतावन्त इति षण्ण

दाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य निष्प्रमाणकत्वात् । प्रायश्च स्वरूपोत्प्रेक्षात्र न संभवति177 । तदेवं प्रतीयमानोत्प्रेक्षाया यथासंभवं भेदनिर्देशः । एषा चार्थाश्रयापि धर्मविषये श्लिष्टशब्दहेतुका क्वचिद्दृश्यते ।क्वचित्पदार्थान्वयभेदाद्वा178सादृश्याभिधानादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्थ्यादभिमन्तृव्यापारोपारोहक्रमेणोत्प्रेक्षायां पर्यवस्यति । क्वचिच्च च्छलादिशब्द प्रयोगे सापह्नवोत्प्रेक्षा भवति । अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः । सांप्रतं त्वियं दिङ्मात्रेणोदाह्रियते । तत्र जात्युत्प्रेक्षा यथा—

‘स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः
स्मरारेर्यो मूर्ध्नि ज्वलनकपिशे भाति निहितः ।
स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कर इव ॥’

अत्राङ्कुरशब्दस्य जातिशब्दत्वाजातिरुत्प्रेक्ष्यते । क्रियोप्रेक्षा यथा—

‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।

अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येते । उत्तरार्धे179तु

असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥’

इत्यत्रोपमैव नोत्प्रेक्षा । गुणोत्प्रेक्षा यथा—

‘एषा स्थली यत्र विचन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥

                      *        

वतिः । अयं प्रकार इति प्रतीयमानोत्प्रेक्षालक्षणः । प्राय इति । वाच्या यथा स्वरूपोत्प्रेक्षा लक्ष्येषु प्रचुरा तथेयं न भवतीत्यर्थः । न पुनरत्यन्तमेवास्या अभावो व्याख्येयः । क्वचिदपि लक्ष्येऽस्या दृष्टेः । यथासंभवमिति।लक्ष्ये भेदनिर्देश इति कार्यः । तस्याश्चाष्टचत्वारिंशद्भेदाः संभवन्ति । तदुक्तमलंकारानुसारिण्याम्— ‘प्रतीयमानोत्प्रेक्षाभेदा अष्टचत्वारिंशत्’ इति । अर्थाश्रयापीति । अर्थाश्रयस्य यद्यपि शब्दहेतुकत्वं न क्काप्युपयुक्तं तथापि लिष्टशब्दहेतुकत्वमस्याः क्वचिद्वैचित्र्यमावहतीत्यर्थः । उपमा उत्प्रेक्षायां पर्यवस्यतीति संबन्धः । आनन्त्यमिति बहुप्रकारत्वम् । सांप्रतमिति प्राप्तावसरम् । दिङ्मात्रेणेति । अनेन जात्यादिभेदानामनवक्लृप्तिर्ध्वनिता । तमोगतत्वेनेति । तमोगतव्यापनादिधर्मनिगरणेनेत्यर्थः । अत्र हि तमसो धर्मिणोऽन्यधर्मधर्मित्वं निगीर्यान्यधर्म

अत्र दुःखं गुणः । द्रव्योत्प्रेक्षा यथा—

‘पातालमेतन्नयनो180त्सवेन विलोक्य शून्यं शशलाञ्छनेन ।
इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिः ॥’

अत्र चन्द्रस्यैकत्वाद्रव्यत्वम् । एतानि भावाभिमानेनोदाहरणानि ।

अभावाभिमानेन यथा—

‘कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥

अत्रापश्यन्ताविति क्रियाया अभावाभिमानः । एवं जात्यादावेप्यूह्यम्181 । गुणस्य निमित्तत्वं यथा— ‘नवबिसलताकोटिकुटिलः’ इत्यादावुदाहृतस्य कुटिलत्वस्य । क्रियाया यथा—‘ईदृक्षां क्षामतां गतौ’ इत्यत्र क्षामतागमनस्य । निमित्तोपादानस्यैते182 उदाहरणे । अनुपादाने ‘लिम्पतीव तमोऽङ्गानि’ इत्याद्युदाहरणम् । हेतूत्प्रेक्षा यथा—‘विश्लेषदुःखादिव बद्धमौनम्’ इत्यादौ । स्वरूपोत्प्रेक्षा यथा—

धमित्वमवस्थापितमित्यग्रएव वक्ष्यामः । द्रव्योत्प्रेक्षेति । द्रव्यस्य183 स्वरूपेणोत्प्रेक्षणम् । तस्यैव हि हेतुत्प्रेक्षा यथा—‘जयति शिशिरतायाः कारणं सा हिमाद्रेस्त्रिपुरहरकिरीटादापतन्ती द्युसिन्धुः । सततसहनिवासी क्षीरसिन्धोः प्रसूतो हिमकर इव हेतुः श्वैत्यशैत्यस्य यस्याः ॥’ अत्रेन्दोर्द्रव्यस्य हेतुत्वेनोत्प्रेक्षणम् । फलोत्प्रेक्षा यथा—‘मध्येसलिलमादित्यसंमुखं धूलिधूसराः184 । कुमुदिन्यस्तपस्यन्ति चन्द्रायेव दिने दिने ॥’ अत्र चन्द्रस्य द्रव्यत्वम् । एषामेव भावाभिमानोदाहरणत्वमतिदिशति—एतानीत्यादिनाअभ्यूह्यमितिअभावाभिमानोदाहरणम् । निमित्तोपादानस्येति । कुटिलत्वस्य क्षामतागमनस्य च साक्षान्निर्देशात् । अनुपादान इति । तिरोधायकत्वादेर्निमित्तस्य गम्यमानत्वात् । भेदान्तरेष्विति स्वरूपफलादिकेषु । ज्ञेयमिति प्रतीयमानत्वात् । तत्र स्वरूपोत्प्रेक्षा यथा— ‘मलअसमीरसमागमसंतोसपणिच्चराभिसव्वत्तो । विव्याहइ चलकिसलअकराहि साहाहि महुलच्छी ॥ अत्र मधुलक्ष्मीगतत्वेन चलकिसलयकरत्वादि निगीर्य व्याहरणक्रियास्वरूपेणोत्प्रेक्षिता । तदौन्मुख्योत्पादकत्वादि च निमित्तमनुपात्तम् । यत्पुनरुद्देशे प्रतीयमानोत्प्रेक्षायां निमित्तानुपादानं न संभवतीत्युक्तं तत्र प्रायस्तस्याः स्वरूपोत्प्रेक्षणस्यासंभवो निमित्तम् । ग्रन्थकृतो हि प्रतीयमानोत्प्रेक्षा हेतुफलरूपैव भवतीत्यभिप्रायः । हेतुफलोत्प्रे

‘कुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य
दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोसत्सर्ज ॥’

फलोत्प्रेक्षा यथा—

‘चोलस्य यद्धीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः ।
अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥’

एवं वाच्योत्प्रेक्षाया उदाहरणदिग्दत्ता । प्रतीयमानोत्प्रेक्षा यथा—

‘महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती ।
अणुदिणमणण्णअम्मा अङ्गं तणुअम्पि तणुएइ ॥’ इति

अमाअन्ती इत्यत्रावर्तमानेवेति तनूकरणहेतुत्वेनोत्प्रेक्षितम् । एवं भेदान्तरेष्वपि ज्ञेयम् । श्लिष्टशब्दहेतुर्यथा—

‘अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीतो जगतीतले यः ।
अभूदहंपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम् ॥’

अत्र धर्मविषये मार्गणशब्द लिष्टः। उपमोपक्रमोत्प्रेक्षा यथा—

‘कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे
रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि ।
याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु
स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥’

                           *   
   *

क्षणयोश्च वक्ष्यमाणनीत्या निमित्तानुपादानं न संभवतीत्याशयेनैतदुत्तम् । तेन प्रतीयमानापि स्वरूपोत्प्रेक्षा निमित्तोपादानानुपादानाभ्यामेव भवति । तत्र निमित्तानुपादाने उदाहृता । उपादाने तु यथा— ‘प्रसारि सर्वतो विश्वं तिरो दधदिदं तमः । सर्वाङ्ग लिम्पति जनं सान्द्रैरमृतकूर्चकैः ॥’ अत्र प्रसारित्वादि निगीर्य तमोगतत्वेन लेपनक्रिया स्वरूपेणोत्प्रेक्षिता तिरोधायकत्वादि च निमित्तम् । ‘तुरीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽपि वा । अपि वा जङ्गमं तीर्थे धर्मो वा मूर्तिसंचरः ॥’ इत्यादौ तु वामनमते विशेषोक्तिः । ‘भूतलकार्तिकेय’ इतिवत् । ग्रन्थकृन्मते तु दृढारोपं रूपकम् । यद्वक्ष्यति— या त्वेकहानिकल्पनायां साम्यदार्ढ्येविशेषोक्तिरिति विशेषोक्तिर्लक्षिता सास्मद्दर्शने रूपकभेद एवेति । अत एवात्र तत्सामग्र्यभावादुत्प्रेक्षोदाहरणत्वं न वाच्यम् । एवम् ‘अपरः पाकशासनो राजा’ इत्यत्रापि दृढारोपमेव रूपकम् । एतच्चालंकारानुसारिण्यामुत्प्रेक्षाविचारे ग्रन्थकृतैव दर्शितम् । फलोत्प्रेक्षा यथा— ‘गिज्जन्ते मङ्गलगाहिआहि वरगोत्तदत्तकण्णाए । सोत्तुं विणिग्गओ उअह होन्तबहुआहि रोमो ॥’ अत्र श्रोतुमिवेति फलमुत्प्रेक्षितम् । श्लिष्ट इत्यर्थिशरवाचकत्वात् ।

अत्र यद्यपि ‘सर्वप्रातिपदिकेभ्यः क्विप्’ इत्युपमानात्किब्विधावामुखे उपमाप्रतीतिस्तथाप्युप-मानस्य प्रकृते संभवौचित्यात्संभवोत्थाने उत्प्रेक्षायां पर्यवसानम् । यथा वा विरहवर्णने ‘केयूरायितमङ्गदैः’ इत्यादौ । एषा च समस्तोपमाप्रतिपादकविषयेऽपि हर्षचरितवार्तिके साहित्यमीमांसायां च तेषु तेषु प्रदेशेषूदाहृता (दृश्यते ।) इह तु ग्रन्थविस्तरभयान्न प्रपञ्चिता । सापह्नवोत्प्रेक्षा यथा—

‘गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु ।
यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा ॥’

अत्रेवशब्दमाहात्म्यात्संभावनं छलशब्दप्रयोगादपह्नवो गम्यते । एवं छद्मादिशब्दप्रयोगेऽपि ज्ञेयम् । ‘अपर इव पाकशासनः’ इत्यादावपरशब्दाप्रयोगे उपमैवेयम् । तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावु

                      *        
*

आमुख इति न पुनः पर्यवसाने । उपमाप्रतीतिरिति । तदर्थमेव क्विपःप्रवृत्तेः । अत एवात्र वाचकाभावान्नोत्प्रेक्षात्वमिति न वाच्यम् । नहि वाचकसंभवासंभवमात्रमेवालंकाराणां भावाभावप्रयो-जकम् । एवं हि व्याजस्तुतौ निन्दादेर्वाच्यत्वेऽप्यवाच्यस्य स्तुत्यादेः प्रतीतिरलंकारत्वपर्यवसायिनी न स्यात् । तस्माद्वाक्यार्थ एव प्ररूढोऽलंकाराणां स्त्ररूपप्रतिष्ठापकं प्रमाणम् । वाक्यार्थस्य च पदार्थान्वयवेलातोऽन्यैव प्रतिपत्तिः । संभवौचित्यादिति । कस्तूरीतिलकादेर्विषयिणो भालफलकादौ संभवे यथौचित्यं न तथा कण्ठत्विडादेर्विषयस्येत्यर्थः । अत एवात्रोपमायाः प्रकृतस्याप्रकृतकस्तूरीति-लकादिरूपतया परिणामात्परिणामगर्भत्वं यदन्यैरुक्तं तत्तेषां परिणामस्वरूपानभिज्ञत्वम् । नह्यौचित्यमेव तस्य स्वरूपं किं तु यथोक्तं प्रकृतोपयोगित्वम् । औचित्यं च नोत्प्रेक्षायां विरुद्धम् । तस्य सर्वत्रैव भावात् । उत्प्रेक्षायां पर्यवसानमिति । कण्ठत्विषामेव कस्तूरीतिलकत्वादिप्रतीतेर्विषयिणो विषयनिगरणेनाभेदप्रतिपत्तेः । सादृश्यावगमाभावात् । सादृश्यं ह्युभयनिष्ठम् । न चात्र प्रकृताप्रकृतयोः संस्पर्धितया प्रतीतिः । यथा वेत्यनेनास्या लक्ष्ये प्राचुर्य दर्शितम् । सेति (एषेति) समस्तोपमाप्रतिपादकविषये दृश्यमाना । सा तु यथा —‘स दण्डपादो भवदण्डपाद (त) मुत्खण्डयन्सक्षतु चण्डिकायाः । यसेन्दुलेखा पुरतः स्फुरन्ती त्रुट्यत्तुलाकोटितुलामुपैति ॥’ अत्र सत्यपि तुला (कोटि)शब्दे चन्द्रलेखाया एव तुलाकोटिप्रतीतेरुत्प्रेक्षात्वम् । छद्मशब्दप्रयोगेन यथा— ‘स्वेदोदबिन्दुसंदोहच्छद्मना तव राजते । स्मरेणावैम्यनर्घापि दत्तार्धेव कुचस्थली ॥’ अस्याश्च तत्तच्छब्दप्रयोगाप्रयोगाभ्यां प्रतीतिभेदादलंकारैः सह विभागं दर्शयितुमाह—अपर इत्यादि । तत्प्रयोग इत्यपरशब्दप्रयोगे । इवशब्दस्य संभावनाद्योतकस्याप्रयोगात्सिद्धत्वम् । अत एव चात्र विषयस्यानुपादानमेव । तदुपादाने हि दृढारोपं रूपकमिति समनन्तरमेवोक्तम् । अन्यत्र पुनः सर्वत्र विषयोपादानमेव न्याय्यम् । त-

त्प्रेक्षैवेयम् । इवशब्दाप्रयोगे तु सिद्धत्वादध्यवसायस्यातिशयोक्तिः । अपरशब्दस्याप्रयोगे तु रूपकम् । तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धर्मोऽध्यवसायवशादभिन्न उत्प्रेक्षानिमित्तत्वेनाश्रीयते । स च वाच्य एव नियमेन भवति । अन्यथा कं प्रति स हेतुः स्यात् । यथा—‘अपश्यन्ताविवान्योन्यं’ इत्यादौ । अत्र कपोलयोः प्रकृतयोः संबन्धित्वेनोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम् । हेतुफलं च तत्र क्षामतागमनं निमित्तम् । एवं ‘अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्’ इत्यत्र नूपुरगतस्य मौनित्वस्य हेतुर्दुःखित्वम् । तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम् । एवं सर्वत्र । स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते तत्र धर्मो निमित्तभूतः क्वचिन्निर्दिश्यते । यथा— ‘स वः पायादिन्दुः’ इत्यादौ । अत्र कुटिलत्वादि निर्दिष्टमेव । वेलेव रागसागरस्य’ इत्यादौ संक्षोभकारि

                            *  
   *

दित्यं भेदवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतुस्वरूपफलानां यथासंभवं स्वरूपं दर्शयति—तदेवमित्यादिना । स धर्म इति यं प्रत्येव हेतुरुत्प्रेक्ष्यते । अध्यवसायवशादिति भेदेऽप्यभेदाश्रयणात् । अभिन्न इत्यप्रकृतसंबन्धिना धर्मेण । स इति निमित्तात्वेनाश्रितोधर्मः ।नियमेनेति । अवाच्यः पुनर्न कदा चिद्भवतीत्यर्थः । अन्यथेति वाच्यत्वे । कं प्रति स हेतुरिति । तस्यैव फलरूपत्वात् । नहि यं प्रत्येव हेतुरुत्प्रेक्ष्यते तस्यैव वाच्यत्वं युक्तम् । साध्यमन्तरेण साधनस्य निर्विषयत्वापत्तेः । यदि चास्य निमित्तमात्रत्वमेव स्यात्तद्वाच्यत्वमवाच्यत्वं स्यात् । एवमेक एव धर्मो हेतोरुत्प्रेक्ष्यमाणस्य निमित्तं फलं चेति सिद्धम् । एतदेव दर्शयति—अपश्यन्तावित्यादिना । तत्रेति । हेतूत्प्रेक्षणे निमित्तमिति । तद्विनोत्प्रेक्षणस्यानिष्पत्तेः । द्विविधमत्र क्षामतागमनं तपोजनितमदर्शनजनितं च । तयोरध्यवसायवशाद-भिन्नत्वेनाश्रयणम् । अतश्च हेतोरेक एव धर्मो निमित्तं फलं च । वस्तुतस्तु तपोजनितस्य निमित्तत्वमन्यस्य तु हेतुफलरूपत्वम् । अत एव नेतरेतराश्रयदोषः । द्वयोरपि भिन्नत्वात् । मौनित्वमेवेति । न पुनरन्यत्किंचिदित्यर्थः । अतश्च निश्चलत्वादिजनितस्य दुःखजनितस्य च मौनित्वस्याभेदनाश्रयणम् । सर्वत्रेत्यनेन समस्तलक्ष्याविरुद्धत्वं हेतूत्प्रेक्षास्वरूपकथनस्योक्तम् । एवं हेतूत्प्रेक्षाया यथासंभवं स्वरूपं प्रदर्य स्वरूपोत्प्रेक्षाया अपि दर्शयति—स्वरूपोत्प्रेक्षायामित्यादिना । यद्यप्युद्देशत एवैतत्स्वरूपोत्प्रेक्षायां निमित्तोपादानत्वानुपादानत्वमवगम्यते तथापि हेतूत्प्रेक्षायां यथा निमित्तोपादानमेव संभवति तथात्रापि न संभाव्यमित्याशयेन पुनरिहैतदुक्तम् । यदा चात्र धर्मो धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते तदा तत्र निमित्तस्य कीदृग्रूपत्वं भवतीत्याशङ्कयाह—यत्रेत्यादि ।

त्वादि गम्यमानम्185 । यत्र धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम् । उपादाने यथा—

‘प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासतिद्विषाम् ।
चकम्पे वेपमानान्ता186 भयविह्वलितेव भूः ॥’

अत्र भूगतत्वेन187 भयविह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित्तमुपात्तम् । अनुपादाने यथा— ‘लिम्पतीव तमोऽङ्गानि इत्यादौ । अत्र तमोगतत्वेन लेपनक्रियाकर्तृत्वोत्प्रेक्षायां व्यापनादि-निमित्तं गम्यमानम् । व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्वेष्यं स्यात् । न च विषयस्य गम्यमानत्वं युक्तम् । तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात् । तस्माद्यथो

धर्म एवेति । न पुनर्धर्मी धर्मिगतत्वेनेति । धर्मिभित्तितयेत्यर्थः । अत्र हि धर्मिणोऽन्यधर्मधर्मित्वं निगीर्यान्यधर्मधर्मित्वमवस्थाप्यते । अत एवात्र धर्मी भित्तिभूततया विषयः । धर्मिणं विना केवलस्यैव धर्मस्य व्यवस्थापयितुमशक्यत्वाद्व्यत्रस्थाप्यमानत्वे वा धर्मित्वमेव स्यात् । वस्तुतस्तु धर्म एवोत्प्रेक्षाविषयः । यन्निगरणेनाभेदप्रतिपत्तिर्विषयिणोऽवसीयते । स च निगीर्यमाणो धर्मः दुपात्तो भवति क्वचिच्चानुपात्तः । ‘प्राप्याभिषेकं’ इत्यादावन्ये हेतूत्प्रेक्षात्वं मन्यन्ते इत्युदाहरणान्तरेणोदाह्नियते— ‘नवरोसदलिअ घणनिरवलम्ब संघडिअ तडिकडप्पन्न (?) । नरहरिणो जअइ कडारकेसरे कंधराबन्धो ॥’ अत्र कन्धराबन्धधर्मिणि सकेसरत्वं निगीर्य सतडित्कटप्रत्वमुत्प्रेक्षितम् । कडारत्वं च निमित्तमुपात्तम् । निगीर्यमाणश्च धर्मो धर्मितगत्वेनोपात्तः । लेपनक्रियाकर्तृत्वोत्प्रेक्षायामित्यर्थादाशङ्कितायाम् । एवं हि तमोलेपनमिवेति प्रतीतिः स्यात् । न चात्र तथेत्याशङ्कयाह—व्यापनादावित्यादि । निमित्तमन्यदिति तिरोधायकत्वादि । तेन तमसि धर्मिणि व्यापनादिधर्म निगीर्य लेपनक्रियाकर्तृत्वरूपो धर्म उत्प्रेक्षित इत्यर्थः । यदाह श्रीमम्मटः— ‘व्यापनादिलेपनादिरूपतया संभावितम्’ इति । यत्र च धर्मान्तरनिगरणेन धर्म एव धर्मिभित्तितयोत्प्रेक्ष्यते तत्र भित्तिभूतत्वाद्विषयरूपस्य धर्मिणः समनन्तरोक्तनीत्या गम्यमानत्वं न युज्यत इत्याह—न चेत्यादि । विषयस्येति । निगीर्यमाणोत्प्रेक्ष्यमाणयोर्धर्मयोर्भित्तिभूतस्य धर्मिण इत्यर्थः । न तु निगीर्यमाणस्येति व्याख्येयम् । तस्य ह्युपादानानुपादानाभ्यां द्वैविध्यं भवतीति समनन्तरमेवोक्तम् । तच्चोदाहृतम् । यथा वा— ‘यत्पुण्डरीक इव पार्वण एव वेन्दाविन्दीवरद्वयमिवो-दितमेकनालम् । तत्पद्मरागनिधिमूलमिवाधिगम्य सम्यग्जितं नयनयोर्मम भाग्यशक्त्या ॥’ अत्र मुखादीनामुत्प्रेक्षाविषयाणामनुपादानाद्गम्यमानत्वम् । तस्येति धर्मिरूपस्य विषयस्य । उत्प्रेक्षिताधार-त्वेनेति । उत्प्रेक्षितस्य लेपनादेर्धर्मस्य व्यापानादिधर्मनिगरणेनोत्प्रेक्षाविषयीकृतस्याधारत्वेन भित्तिभूततयेत्यर्थः । धर्मिणमन्तरेण धर्मस्य विश्रान्तेः । प्रस्तुत-

क्तमेव साधु । फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तम् । तस्यानुपादाने कस्य तत्फलत्वेनोक्तत्वं स्यात् । तस्मात्तत्र तस्य निमित्तस्योपादानमेव न प्रकारान्तरम् । यथा—

‘रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥’

अत्र परिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम् । तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितोऽपि लक्ष्ये दुरवधारत्वादिह न प्रपञ्चितः । तस्याश्चेवादिशब्दवन्म-न्येशब्दोऽपि प्रतिपादकः । किं तूत्प्रेक्षा सामग्र्यभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति । यथोदाहृतं प्राक् । ‘अहं त्विन्दुं मन्ये त्वदरिविरह’ इत्यादि ।

                      *        
*

स्येति । अवश्याभिधेयस्येत्यर्थः । एवं हेतुफलोत्प्रेक्षयोरपि धर्मिगतत्वेनैवान्यधर्महेतुकत्वं निगीर्यान्यधर्महेतुत्वमन्यधर्मफलत्वं चाध्यवसीयते । अतश्च स धर्मी वाच्य एव भवति । यथोक्तोपपत्तेः । निगीर्यमाणः पुनर्धर्म एवोपादानानुपादानाभ्यां द्विधा । तत्तु यथा—एषा स्थलीत्यादि । अत्र नूपुरस्य धर्मिणो बद्धमौनत्वे निश्चलत्वादि धर्म हेतुकत्वं निगीर्य दुःखहेतुकत्वमुत्प्रेक्षितम् । निगीर्यमाणश्चानुपात्तो धर्मः । उपात्तस्तु यथा—‘मृणालसूत्रं निजवल्लभायाः समुत्सुकचाटुपु चकवाकः । अन्योन्यविश्लेषणमन्त्रसूत्रभ्रान्त्येव चञ्चुस्थितमाचकर्ष ॥’ अत्र चक्रवाकस्याकर्षणे चाटुसमुत्सुकहेतुत्वं निगीर्य भ्रान्तिहेतुत्वमध्यवसितम् । निगीर्यमाणश्च धर्म उपात्तः । अनुपात्तस्तु यथा—‘कुमुदिन्यः प्रमोदिन्यस्तदानी188मुदमीमिलन् । नलिन्या भर्तृविरहान्म्लानिमान189मिवेक्षितुम् ॥’ अत्र कुमुदिनीनामुन्मीलने चन्द्रोदयहेतुकत्वं निगीर्य दर्शनं फलत्वेनोत्प्रेक्षितम् । निर्गीर्यमाणश्च धर्मोऽनुपात्तः । तदेवं हेतुस्वरूपयोर्यथासंभवं स्वरूपं दर्शयित्वा फलोत्प्रेक्षाया अपि दर्शयति—फलोत्प्रेक्षायामित्यादिना । तस्येति फलस्य । एतच्च हेतूत्प्रेक्षाविचारग्रन्थविवृतेरवगतार्थमिति ग्रन्थविस्तरभयान्न पुनरायास्यते । तदेवं ग्रन्थकृदात्मनः श्लाघां कटाक्षयन्नेतदुपसंहरति—तदसावित्यादि । अस्याश्च वाचकव्यवस्थां दर्शयति—तस्याश्चेत्यादि । उत्प्रेक्षासामग्र्यभाव इति संभावनाप्रत्ययात्मकत्वाभावात् । प्रागित्यपह्नुतौ । एवमिवशब्दोऽपि क्वचिद्वितर्कमेव प्रतिपादयति । यथा— ‘वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः ॥’ इयं च भेदेऽभेदे इत्याद्यतिशयोक्तिभेदमय्यपि दृश्यते । तत्र भेदेऽभेदो यथा— पृथ्वीराजविजये— ‘गृह्णद्भिः परया भक्त्या बाणलिङ्गपरम्पराः । अनर्मदेव यत्सैन्यैर्निरमीयत नर्मदा ॥’ अत्र नर्मदाया अभेदेऽपि भेदः । संबन्धेऽसंबन्धो यथा— ‘अद्वैतं तद्भवतु भवतां संविदद्वैतपुष्ट्यै क्ष्याभृत्पुत्रीपरिवृढ रमाकान्तदेहद्वयस्य । यत्रा-

** एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्ति लक्षयति—**

अध्यवसितप्राधान्ये त्वतिशयोक्तिः ।

अध्यवसाने त्रयं संभवति— स्वरूपं विषयो विषयी च । विषयस्य हि विषयिणान्तर्निगीर्णत्वेऽ-ध्यवसायस्य स्वरूपोत्थानम् । तत्र साध्यत्वे स्वरूपप्राधान्यम् । सिद्धत्वे त्वध्यवसितत्वप्राधान्यम् । विषयप्राधान्यमध्यवसाये नैव संभवति । अध्यवसितप्राधान्यैवातिशयोक्तिः । अस्याश्च पञ्च

                       *       

कार्ष्ण्यंनिज इव विदन्दक्षिणार्धप्रभाभिर्देहेऽन्येषामपि पुररिपुः कार्ष्ण्यमन्तः प्रमार्ष्टि॥’ अत्र कार्ष्ण्यसंबन्धेऽप्यसंबन्धः । असंबन्धे संबन्धो यथा— ‘क्षीरक्षालितचन्द्रेव नीलीधौताम्बरेव च । टङ्कोल्लि-खितसूर्येव वसन्तश्रीरजृम्भत ॥’ अत्र क्षीरक्षालितत्वाद्यसंबन्धेऽपि संबन्धः । कार्यकारणयोस्तुल्यकालत्वे यथा— ‘यशसेव सहोद्भुतः श्रियेव सह वर्धितः । तेजसेव सहो द्रुतस्त्यागेनेव सहोत्थितः ॥’ पौर्वापर्य-विपर्यये यथा— ‘शराः पुरस्तादिव निष्पतन्तिकोदण्डमारोपयतीव पश्चात् । अन्वक्प्रहारा इव संघटन्ते प्राणान्द्विषः पूर्वमिव त्यजन्ति ॥’ कार्यकारणयोर्विपर्ययेऽपीयं दृश्यते यथा— ‘सेयं संततवर्तमानभगव-द्वाणार्चनैकाग्रताव्यग्रोपान्तलताविमुक्तकुसुमा चन्द्रप्रसूतिर्नदी ।यस्याः पाण्डुरपुण्डरीकपटलव्याजेन तीरद्वये शश्वत्पार्वणचन्द्रमण्डलशतानीव प्रसूते जलम् ॥’ अत्र नर्मदातश्चन्द्रस्योत्पत्तिप्रतीतेः कार्यकारणविपर्ययः । क्रमिकविपर्ययेणापीयं दृश्यते यथा— ‘अखर्वगर्वस्मितदन्तुरेण विराजमानोऽधर-पल्लवेन । समुत्थितः क्षीरविपाण्डुराणि पीत्वेव सद्यो द्विषतां यशांसि ॥’ अत्र समुत्थानानन्तरभाविनो यशःपानस्य पूर्वनिर्देशात्क्रमिकविपर्ययः । अत्रैव ‘पिबन्निवोच्चैः’ इति तु पाठे क्रमिकयोः समकालभावित्वम् । एतदुपसंहरन्नन्यदवतारयति—एवमित्यादि । तामेव लक्षयितुमाह । एतदेव व्याख्यातुमध्यवसायस्य190 तावद्यथासंभवं स्वरूपं दर्शयति—अध्यवसितेत्यादि । परस्परनिष्ठत्वानुप-पत्तेरध्यवसायस्य किं विषयविषयिभ्यामित्याशङ्क्याह— विषयस्य हीत्यादि । विषयविषयिभ्यामन्तरे-णाध्यवसाय एव न भवतीत्यर्थः । एषामेव विषयविभागं दर्शयति— तत्रेत्यादिना । तत्रेतित्रयनिर्धारणे । स्वरूपप्राधान्यमित्यध्यवसायप्राधान्यम् । अध्यवसितप्राधान्यमिति विपयिप्राधान्यम् । साध्यत्वं सिद्धंत्वं चोत्प्रेक्षायामेव निर्णीतम् । नैव संभवतीति । अध्यवसायस्वरूपानुदयात् । तदेवं विषयिणः प्राधान्यविवक्षायामलंकारो भवतीत्याह—अध्यवसितेत्यादि । उक्तं चान्यत्र— ‘अध्यवसायसाध्यत्व-प्रतीतावियमिष्यते । तत्सिद्धताप्रतीतौ तु भवेदतिशयोक्तिधीः ॥’ इति । पञ्चेति न्यूनाधिकसंख्या-निरासार्थम् । अत एव कार्यकारणपौर्वापर्यविध्वंसस्य191 चतुर्थभेदान्तर्भावो न वाच्यः । एवं हि भेदान्तराणामपि तदन्तर्भाव एव स्यात् । अभेदाद्यसंबन्धेऽपि संबन्धोपनिबन्धनात् । अथ भवत्वेतदिति

प्रकाराः । भेदेऽभेदः । अभेदे भेदः । संबन्धेऽसंबन्धः । असंबन्धे संबन्धः । कार्यकारणपौर्वापर्य-विध्वंसश्च ।

तत्र भेदोऽभेदो यथा—

‘कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारंसुभगेत्युत्पातपरम्परा केयम् ॥’

______________

चेत् । न । अत्र च यद्यपि सर्वत्र भेदेऽभेदादौ वस्तुतोऽसंबन्धे संबन्ध एव वर्णयितुं शक्यते तथाप्यवान्तरभेदविवक्षयान्यैर्लक्षितत्वाद्विविक्तस्यासंबन्धे संबन्धस्य दर्शितत्वाच्च विभागेन निर्देशःकृत इति भवद्भिरेवोक्तत्वात् । तत्समानन्यायत्वात्कथमस्यापि चतुर्थभेदान्तर्भावो न्याय्यः । अथ यदि कार्यकारणयोः पौर्वापर्यविध्वंसात्समानन्यायताद्यभावेऽपि तथोपनिबन्धे पञ्चमोऽत्र प्रकार इष्यते तद्देशकालयोः पदार्थसंबन्धे विशेषाभावाद्भिन्नदेशत्वाभावेऽपि तथोपनिबन्धे षष्टोऽपि भेदः परिगणनीय इति निर्विषयत्वादसंगतेरभावः प्रसज्यत इति चेत् । नैतत् । यस्मादतिशयोक्तावतिशयाख्य-प्रयोजनप्रतिपिपादयिषया विषयनिगरणेन विषयिप्राधान्यं विवक्षितम्, असंगतौ तु विरुद्धत्वप्रत्यायनाय कार्यकारणयोर्भिन्नदेशत्वमित्युभयत्राप्यस्ति तात्रन्निर्विवादो लक्षणभेदः । कार्यकारणपौर्वापर्यविध्वंसे च वल्लभकर्तृकस्य हृदयाधिष्ठानस्य कारणस्य स्मरकर्तृकस्य च कार्यस्य पूर्वापरीभावं निगीर्यत्वद्दर्शनेनैव विषयान्तरवैमुख्येन त्वदभिलाषपरैव जातेत्यतिशयप्रयोजनप्रतिपादनार्थमन्यथात्वमध्यवसितमित्यति-शयोक्तिभेदत्वमेवास्य न्याय्यं न त्वसंगतिभेदत्वम् । तत्र हि ‘बबन्ध धम्मिल्लमधीरदृष्टेः क्ष्मानायकश्च-म्पकमालिकाभिः। चित्तेषु मन्युः स्थिरतां जगाम विपक्षसारङ्गविलोचनानाम् ॥’ इत्यादौ धम्मिल्ले बन्धश्चित्तेषु च मन्युस्थैर्यमिति कार्यकारणयोर्भिन्नदेशत्वम् । यत्रैव बन्धस्तत्रैव तत्कार्यस्य स्थैर्यस्योपपत्ते-र्विरुद्धत्वप्रत्यायकम् । विरोधस्य चात्राभासमानत्वम् । धम्मिल्लबन्धमन्युस्थैर्ययो-र्वस्तुतोऽपि कार्यकारणभावसद्भावाभावाख्यस्य बाधकप्रत्ययस्योल्लासात् । न च बाधोदयेऽपि विरोधाप्रतीतिः । द्विचन्द्रप्रतीतिवदनुपपद्यमानतया स्खलद्गतित्वेन तत्प्रतीतैरवस्थानात् । न चातिशयोक्तौ स्खलद्गतित्वम् । निश्चयस्वभावत्वादस्या अनुपपद्यमानत्वशङ्काया अप्यभावात् । नहि कार्यकारणयोः पौर्वापर्यविध्वंस उपपद्यत इत्यत्र विवक्षितं किंत्वेवं फलमेतदिति अत एवासंगतेरतिशयोक्तेश्च स्वरूपभेदोऽपीति कार्यकारणयोः पौर्वापर्यविध्वंसेनासंगतिभिन्नदेशत्वेन चातिशयोक्तिरिति यथोक्तमेव युक्तम् । अत एव च ‘पौर्वापर्यविपर्याससमकालसमुद्भवौ । कार्यकारणयोर्यौ तौ विरोधाभासपल्लवौ॥’ इत्याद्यपि यदन्यैरुक्तं तदयुक्तमेवेति न न्यूनप्रकारत्वम् । केचिच्चसर्वालंकाराणामप्यतिशयोक्तेरेव प्रभेदत्वादस्या बहुप्रकारतामाचक्षते । तथा ह्युपमायामव्यस्त्येतद्भेदत्वम् । न्यूनगुणस्य मुखादेरधिक-गुणेन चन्द्रादिना साम्येऽतिशयानतिपातादतिशयं विना च गौरिव गवय इत्यादावनलंकारत्वात् । अतश्चातिशयस्यैव सर्वालंकारबीजभतत्वात् ‘एकैवातिशयोक्तिश्च काव्यस्यालंकृतिर्मता’ इत्युक्तम् । नैतत् । इह ह्यतिशयस

** अत्र मुखादीनां कमलाद्यैर्भेदेऽप्यभेदः । अभेदे भेदो यथा—**

‘अण्णं लडहत्तणअं अण्णा विहि कावि वत्तणच्छाआ ।
सामा सामण्णपआवइणो रेह च्चि अ ण होइ ॥”

अत्र लटभात्वादीनामभेदेऽप्यन्यत्वेन भेदः । यथा वा—

‘णाराअणोत्तिपरिणअवयाहिँ सिरिवल्लहोत्ति तरुणीहिं ।
बालाहिं उण कोदूहलेण एमेअ सच्चविओ ॥’

अन्नाभिन्नस्यापि विषयविभागेन भेदेनोपनिबन्धः ।

संबन्धेऽसंबन्धो यथा—

‘लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः
स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्तानलो दीपितः ।

एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता

कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥’

                    *         
*  

द्वयी गतिः यदयं कविप्रतिभानिर्वर्तितः सामान्यात्मा भवति भेदेऽप्यभेद इत्येवमादिरूपो विशेषात्मा वा । तत्राद्यः सर्वैरवालंकारबीजतयाभ्युपगतः । अन्यथा हि गौरिव गवय इत्यादावलंकारत्वं स्यात् । तावता पुनरेतत्प्रभेदत्वं सर्वालंकाराणां न युक्तम् । तत्त्वे हि विशेषोक्त्युल्लेखादीनामपि तत्प्रसङ्गः । सर्वालंकाराणामपि विशेषोक्त्युल्लेखरूपत्वात् । अथ द्वितीयपक्षाश्रयेणैतदुच्यते तदप्ययुक्तम् । अस्या ह्यध्यवसितप्राधान्यं लक्षणम् । तच्चालंकाकाराणां192 न संभवति । तथात्वानवगमात् । अतश्चैषामसंभवत्त-त्सामान्यत्वात्कथं तद्विशेषत्वमिति बहुप्रकारत्वमस्या निरस्तम् । मुखादीनामिति । न तु वास्तवस्य सौन्दर्यस्य । कमलाद्यैरिति । न तु कविसमर्पितेन सौन्दर्येण । अत एव चात्रातिशयाख्यमित्यादिस्त-दभिप्रायेणैवाध्यवसितप्राधान्यमित्यन्तश्चोत्तरकालिको ग्रन्थः स्वमतिजाड्याल्लेखकैरन्यथा लिखित इति निश्चिनुमः । अयं हि ग्रन्थकृतः पश्चात् कैश्चिद्विपश्चिद्भिः पत्रिकाभिलिखित इत्यवगीता प्रसिद्धिः । ततश्च तैरनवधानेन ग्रन्थान्तरप्रसङ्गत्वादनुपयुक्तत्वाद्वा पत्रिकान्तरादयमसमञ्जसप्रायो ग्रन्थखण्डो लिखित इति । न पुनरेकत्रैव तदैव मुखादीनां कमलाद्यैर्भेदेऽप्यभेद इत्युक्त्वापि न तु वदनादीनां कमलादिभिर-भेदाध्यवसायो योजनीय इत्यादि वचनं पूर्वापरपराहतमस्य वैदुष्यशालिनो ग्रन्थकारस्य संभाव्यम् । लटभत्वादीनामित्यादिशब्दाद्विवर्तनेच्छाया एव ग्रहणम् । तत्रैवाभेदेऽपि भेदविवक्षणात् । उत्तरार्धे हि संबन्धेऽप्यसंबन्धः । ‘लावण्यद्रविणव्ययो न गणितः’ इत्यस्य पादत्रयी तन्वीलावण्यप्रकर्षप्रतिपादनार्थ-मिति । एतत्प्रयोजनदर्शनं सर्वोदाहरणोपलक्षणपरम् । तेनान्यत्र स्वयमेव प्रयोजनमभ्यू-

अत्र लावण्यद्रविणस्य व्ययसं193बन्धेऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्रतिपादनार्थे निबद्धः । यथा वा—

‘अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु194विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो विधिः195 ॥’

अत्र पुराणप्रजापति निर्माणसंबन्धेऽप्यसंबन्ध उक्तः । असंबन्धे संवन्धो यथा—

‘पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥’

** अत्र संभावनया संबन्धः । यथा वा—**

‘दाहोऽम्भः प्रसृतिंपचः प्रचयवान्बाप्पः प्रणालोचितः
श्वासाः प्रेङ्खितदीप्रदीपकलिकाः पाण्डिम्नि मग्नं वपुः ।
किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने
हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिवर्तते ॥’

     *                *        

ह्यम् । संभावनयेति । न तु वस्तुतः । अत एव संबन्धस्यावास्तवत्वादुदाहरणान्तरमाह—दाहोऽम्भ इत्यादि । वाशब्दः समुच्चयार्थः । अत्र च कार्यकारणपौर्वापर्यविध्वंस इत्यनेन प्रसिद्धयोः कार्यकारणयोविध्वंसो विपर्ययस्तथ पौर्वापर्यस्यादिपश्चात्कालभावित्वेन प्रसिद्धस्य क्रमस्य विध्वंसो व्यत्ययः सहभावो वेत्यपि भेदत्रयं तन्त्रेणोक्तम् । एवं च कार्यकारणविध्वंसस्यापि पश्चप्रकाराः । अवान्तरप्रकारत्वात्पुनरेषां पञ्चप्रकारत्वं नियमगर्भीकारेण पूर्वे व्याख्यातम् । तत्र कार्यकारणयो-र्विपर्ययो यथा— ‘एअत्तं अवअत्तं संकोअअरंमिअङ्क कान्तीइं । गहस्सप अरइन्दस्स कारणं भणइ सरस्स (?) ॥’ अत्रेन्दुकान्तेः संकोचे विपर्ययेण शतपत्रस्य कारणत्वमध्यवसितम् । अत्र भेदेऽभेद इत्येवंरूपातिशयोक्तिर्हेतुत्वेन स्थिता । उतरे त्वर्धे सैव लिटशब्दनिबन्धना हेतुः । तथाभावोपनिबन्धश्चात्र वक्रस्य लावण्यप्रकर्षप्रतिपादनार्थम् । क्रमविपर्ययो यथा— ‘कुपितस्य प्रथममन्धकारी भवति विद्या ततो भ्रुकुटिः। आदाविन्द्रियाणि रागः समास्कन्दति चरमं चक्षुः । आरम्भे तपो गलति पश्चात्स्वेदसलिलम् । पूर्वमयशः स्फुरत्यनन्तरमधर इति ।’ अत्र कोपकार्ये । विद्याभ्रुकुट्यादीनामन्ध-कारीभवनादौ क्रमं निगीर्य तद्विपर्ययोऽध्यवसितः । तस्यैव सहभावो यथा— ‘रइभवणाहि परिअणो मसणं मणिमेहला णिअम्बाहिं । लज्जा हिअआहि

अत्र दाहादीनामम्भःप्रसृत्याद्यैरसंबन्धेऽपि संबन्धः सिद्धत्वेनोक्तः । कार्यकारणपौर्वापर्य-विध्वंसः पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा विपर्ययो

यथा—

‘हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ लोचनविषयं त्वया भजता196 ॥’

तुल्यकालत्वं यथा—

‘अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः ।
अयमायातः कालो हन्त मृताः पथिकगेहिन्यः ॥’

एषु197 पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरम् । अत्र198चातिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः । तथा हि ‘कमलमनम्भसि’ इत्यादौ वदनादीनां कमलाद्यैर्भेदेऽपि वास्तवं सौन्दर्य कविसमर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम् । तत्र199 च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम् । न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः । अभेदे भेद इत्यादिषु प्रकारेष्वव्याप्तेः । तत्र हि ‘अण्णं लडहत्तणअं’ इत्यादौ सातिशयं लटभात्वं निमित्तभूतमभेदेनाध्यवसितम् । एवमन्यत्रापि ज्ञेयम् । तदभिप्रायेणैवाध्यवसितप्राधान्यम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालं

समो सरन्ति^(……)ससिमुहीणम् ॥’ अत्र परिजनादीनामपसरणे क्रमिकत्वेऽपि समकालत्वमध्यवसितम् । एवमेषां सर्वेषामेव भेदानां लोकासंभवद्विषयत्वं दर्शयितुमाह—एष्वित्यादि । एष्विति विषयसप्तमी । एष चावयवनिर्देशः।लोकातिक्रान्तेति । कविप्रतिभानिर्मितमेव सातिशयं वस्त्वेषां विषय इत्यर्थः । अत्रेति भेदपञ्चके । चशब्दः प्रमेयान्तरसमुच्चयार्थः। फलमिति । तस्यैव प्रतिपिपादयिषितत्वात् । तत्रेति । वास्तवस्य सौन्दर्यस्य कविसमर्पितेन सौन्दर्येणाभेदवचनेन । ननु चात्र वदनादीनां कमलाद्यध्यवसायः प्रतीयते इति कथमेतदुक्तमित्याशङ्कयाह—न त्वित्यादि । कुतश्च तेष्वव्याप्तिरित्याशङ्क्याह—तत्र हीत्यादि । कमलमनम्भसीत्यत्र हि यदि वदनादीनां धर्मिणामभेदा-ध्यवसाययोजनं क्रियते तत्तस्य धर्मिगतत्वेनैवेष्टेरिह धर्माणां न स्यादव्याप्तिः । अतश्च पूर्वत्र धर्माणामेवाध्यवसायो योजनीयो येन सर्वत्रैक एव पक्षः स्यादिति तात्पर्यार्थः । उपलक्ष्यं चैतत् । यावता ह्यध्यवसितप्राधान्यमस्या लक्षणम् । तच्च धर्मिणामस्तु धर्माणां वेति को विशेषो येनाव्याप्तिः स्यात् । प्रत्युत धर्मयोरभेदाध्यवसायाभ्युपगमे उपमादीनामप्यतिशयोक्तिप्रसङ्गः

कारप्रस्तावे प्रपञ्चार्थं लक्षयिष्यते । एवमध्यवसायाश्रयमलंकारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलंकारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्ये पदार्थगतमलंकारद्वयमुच्यते—

औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा स मानधर्माभिसंबन्धे तुल्ययोगिता ।

इवाद्यप्रयोगे ह्यौपम्यस्य गम्यत्वम् । तत्र प्राकरणिकानामप्राकरणिकानां वा समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता । यथा—

‘सज्जात200पत्रप्रकराञ्चितानि []200 समुद्वहन्ति स्फुटपाटलत्वम् ।
विकस्वराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुः ॥’

अत्र ऋतुवर्णनस्य प्रक्रान्तत्वाद्दिनानां पद्मानां च प्रकृतत्वाद्वृद्धिगमनं201 क्रिया । एवं गुणेऽपि । यथा—

स्यात् । तत्रापि धर्माणामेव भेदेऽभेदविवक्षणात् । एवं च विजातीयत्वेन भेदे धर्मयोरप्यव्याप्तिः प्रसज्यत इत्यलमसङ्गतग्रन्थार्थोदीरणेन202प्रपञ्चार्थमिति । न तु निर्णयार्थम् । इहैव तस्य निश्चितत्वात्203 । प्रपञ्चश्च तत्रैव दर्शयिष्यते । एतदुपसंहरन्नन्यदवतारयति—एवमित्यादिना । गम्यमानौपम्याश्रया इति इवाद्यप्रयोगात् । पदार्थमिति । वाक्यार्थापेक्षया पदार्थप्रतीतेरन्तरङ्गत्वात् । तत्र प्रथमं तुल्ययोगितामाह—औपम्येत्यादि । एतदेव व्याचष्टे— इवेत्यादिना । तत्रेत्यौपम्यस्य गम्यत्वे सति । प्राकरणिकानामिति द्वयोः समानधर्मसंबन्धस्य संभवादेव ग्रहणसिद्धेर्बहुवचननिर्देशो बहूनां ग्रहणार्थम् । अत एव च बहूनामौ204पम्यग्रहणायेति न वाच्यम् । वक्ष्यमाणोदाहरणेषु द्वयोरौपम्यस्योद्भासमानत्वात् । एवं दीपकेऽपि ज्ञेयम् । अन्वितार्थेति । समानधर्मसंबन्धिनामत्र भावात् । अनेनैव चास्याः प्रकृतानामप्रकृतानां च गुणक्रियात्मकधर्मयोगाद्वैविध्येन चतुष्प्रकारत्वमप्युक्तम् । न चास्यातिशयोक्ति-रनुप्राणकतया वाच्या । तां विनापि वक्ष्यमाणोदाहरणेष्वस्याः संभवात् । औपम्याभावेऽपि गुणसाम्योदाहरणद्वयं प्राच्योदाहृतत्वाद्ग्रन्थकृतोदाहृतम् । यत्र पुनरौपम्यं प्रतीयते तदुदाहियते यथा— ‘ईर्ष्याविकारावसरे तवोचितमिदं प्रिये । स्खलद्गतित्वं वचसां लीलाचङ्कमणस्य च ॥’ अत्रोचितत्वं गुणः । अप्रकृतयोस्तु यथा— भूभारोद्वहनव्यग्रे सुचिरं त्वयि तिष्ठति । देवाद्य फणिनामग्र्यः कूर्मश्च सुखिनौ परम् ॥’ अत्र सुखित्वं गुणः । केचिच्च नायिकाभिलितयोः प्राकरणिकत्वं मन्यन्त

‘योगपट्टो जटाजालं तारवीत्वङ्मृगाजिनम् ।
उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम् ॥’

** उचितत्वं गुणः । अप्राकरणिकानां यथा—**

‘धावत्त्वदश्वपृतनापतितं मुखेऽस्य
निर्निद्रनीलनलिनच्छदकोमलाङ्गया ।
भग्नस्य गूर्जरनृपस्य रजः कयापि
तन्व्या तवासिलतया च यशः प्रसृष्टम् ॥’

** अत्र गूर्जरं प्रति नायिकासिलतयोरेप्राकरणिकत्वे205 मार्जनं क्रिया । गुणो यथा—**

‘त्वदङ्गमोर्दव206द्रष्टुः कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरता ॥”

कठोरत्वं207 गुणः । एवमेषा चतुर्विधा व्याख्याता ।

प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमुच्यते—

प्रस्तुतामस्तुतानां तु दीपकम् ।

** औपम्यस्य गम्यत्व इत्याद्यनुवर्तते । प्राकरणिकाप्राकरणिकयोर्मध्यादे**

                       *       
   *

इत्युदाहरणान्तरेणोदाह्रियते यथा— ‘शंभोर्यन्नखरश्मिभिः प्रणमतश्चूडामणित्वे स्थितागङ्गा चन्द्रकला च सर्वजगतां वन्द्यत्वमापादिता । युक्तायाः परतापदावविपदः कन्या पितॄणामसौ दूरीकार्यहिमालया कथमुमापादद्वयी प्राप्यते । अत्र भगवतीपादद्वयस्यैव वर्णनीयत्वाद्गङ्गाचन्द्रकलयोरप्रकृतत्वम् । आपादनं च क्रिया । बिम्बप्रतिबिम्बभावेनापीयं भवति । यथा— ‘क्षिपन्त्यचिन्त्यानि पदानि हेलया स्वराजहंसानधिरुह्य च स्थिता । कवीन्द्रवकेषु च यत्र शारदा सहस्रपत्रेषु रमा च रज्यति ॥’ अत्र वक्त्रपद्मयोर्बिम्बप्रतिबिम्बभावः । अनेनैव चाशयेनात्रालंकारवार्तिके ग्रन्थकृता वैशिष्टयमस्या दर्शितम् । शुद्धसामान्यरूपत्वेन यथा— ‘आस्तां बालस्य संनद्धे द्वे धायौ तस्य वृद्धये । एका पयःप्रस्त्रविणी सर्वसंपत्प्रसूः परा ॥’ अत्र प्रस्रवणस्य शुद्धसामान्यरूपत्वम् । एतदुपसंहरन्नन्यदवतारयति—प्रस्तुताप्रस्तुतानामिति । एकत्रेति प्राकरणिकेऽप्राकरणिके वा । अन्यत्रेति प्राकरणिकादौ । दीपकेति ‘संज्ञायाम्’ इत्यनेन कन् । सादृश्येन समुदायगम्यायाः संज्ञाया

कत्र निर्दिष्टः समानो धर्मः प्रसङ्गेनान्यत्रोपकाराद्दीपनाद्दीपसादृश्येन दीपकाख्यालंकारो208त्थापकः । तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः । स च वास्तव एव । पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकरणिकत्वे वा वैवक्षिकः । अत्र प्राकरणिकत्वाप्राकरणिकत्वविवर्तित्वादुपमानोपमेय-भावस्यानेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वक्तिः । वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्त-वाक्यगतत्वेन धर्मस्य वृत्तावादिमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः । क्रमेणोदाहरणम्—

‘रेहइ209 मिहिरेण णहं रसेण कव्वं सरेण जोव्वणअम् ।
अमएण धुणीधवलो210 तुमएण [अ] णाह भुवणमिणम् ॥

‘संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरगताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥’

______________

अभावात् । तत्रेति दीपके । वास्तव इति । प्रकृताप्रकृतयोरुपमानोपमेयरूपत्वात् । पूर्वत्रेति तुल्ययोगितायाम् । इयानेव च दीपकतुल्ययोगितयोर्विशेषोऽस्तीत्यप्यनेन दर्शितम् । न चैतावतैवानयोः पृथग्लक्षणं युक्तम् । औपम्यगर्भत्वाख्यस्य सामान्यस्य द्वयोरप्यनुगमात् । एवं च समुच्चितोपमादेरपि पृथग्लक्षणं स्यात् । ग्रन्थकृता पुनश्चिरन्तनानुरोधात्कृतम् ।वैवक्षिक इति । यत्रैव वक्तुरुपमानत्व-मुपमेयत्वं वा वक्तुमिष्टं तत्रैव प्रकरणादिबलादाश्रयणीयमित्यर्थः । अतश्च ‘प्रस्तुतस्य विनान्येन211 व्यभिचारस्य दर्शनात्’ इति नीत्या प्रस्तुताप्रस्तुतत्वमात्रनिबन्धन एवोपमानोपमेयभावो न भवतीति भावः । एवं ‘प्रसिद्धेनाप्रसिद्धस्य सादृश्यमुपमा मता’ इत्यादिदृशा प्रसिद्धाप्रसिद्धत्वमात्रनिबन्धनोऽप्यु-पमानोपमेयभावो न वाच्यः । ‘खमिव जलं जलमिव खं’ इत्यादौ द्वयोरपि तुल्यत्वात् । प्रसिद्धगुणत्वाद्य-भावेऽप्युपमानोपमेयभावस्येष्टेर्व्यभिचारस्य दर्शनात् । ननु चात्र साधर्म्य वाक्यार्थगतत्वेनैव प्रतीयत इति कथं तस्य पदार्थगतत्वमुक्तमित्याशङ्क्याह—अनेकस्येत्यादि । एवं पूर्वत्रापि ज्ञेयम् । धेनुसंध्ययोः प्रकृतत्वादत्रान्ये तुल्ययोगितां मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते— ‘धम्मज्जणेण काण वि काणवि अत्यज्जणेण बोलेई । कामज्जणेण काण वि काण वि एमेअ संसारो ॥’ एकक्रियमित्यनेनैक212गुणमपि दीपकं स्वयमेवोदाहार्यमिति सूचितम् ।

‘किवणाणँ213 घणं णाआणँ फणमणी केसराइँ सीहाणम् ।
कुलवालिआणँ थणआ कुत्तो छेप्पन्ति अमुआणम् ॥’

एवमेकक्रियं दीपकत्रयं निर्णीतम् । अत्र च यथानेककारकगतत्वेनैकक्रियादीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम् । यथा—

‘साधूनामुपकर्तुंलक्ष्मीं धर्तुं विहायसा गन्तुम् ।
न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥’

      *             *

तत्तु यथा— ‘फणासहस्रमृभृदधोदिवि नेत्रसहस्रभृत् । अद्वितीयः पृथिव्यां च भवान्नामसहस्रभृत् ॥’ अद्वितीयत्वं गुणः । एवमेकां क्रियां गुणं वानेककारकगतत्वेनाभिधाय तदेव च दृष्टान्तीकृत्यैककारक-मप्यनेकक्रियागतत्वेन दीपकं भवतीत्याह—अत्रेत्यादि । अत्र चोच्छ्वासवर्णनीयं भैरवाचार्यादिसक्त-मुपकारकरणादिविशेषरूपं प्रस्तुतं श्रोतॄनवबोधयितुं कविकर्तृकमिदं साधूपकारकरणादीनां सामान्यानामप्रस्तुतानां प्रशंसनम् । तेषां च सामान्यानां परस्परमौपम्यप्रतीतेरेककारकगतत्वेनेयं कारकतुल्ययोगिता । अतश्च नेदं कारकदीपकस्योदाहरणम् । तत्तु यथा— ‘आलिङ्गितुं शशिमुखीं च सुधां च पातुं कीर्तिं214 च साधयितुमर्जयितुं च लक्ष्मीम् । त्वद्भक्तिमद्भुतरसां हृदये च कर्तु मन्दादरं जनमहं पशुमेव जाने ॥’ अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्टः । प्रस्तुताप्रस्तुतं स्फुटमेव । ‘स्विद्यति कूणति वेल्लति215 विवलति निमिषति विलोकयति तिर्यक् । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणीता(णया) वधूः शयने ॥’ इत्यत्र तु स्वेदनादिक्रियाणां प्रस्तुतानामेकाधारगतत्वेन समुच्चीयमानत्वाच्च समुच्चयालंकारो न तु कारकदीपकम् । तद्धि प्रस्तुताप्रस्तुतानां क्रियाणामौपम्य-सद्भावे भवति । एवं सर्वक्रियाणां प्रस्तुतत्वेऽपि समुच्चयस्यौपम्याभावादेव तुल्ययोगितातोऽपि भेदः । औपम्यसद्भावेऽपि तुल्ययोगितैव । यथा— ‘चकार दुर्बलानां यः क्षमामागस्विनामपि । जह्नेनिरपराधानामपि यश्च बलीयसाम् ॥’ अत्र करणहरणयोः प्रकृतत्वम् । द्वयोरपि राजगतत्वेन वर्णनीयत्वात् । इदं बिम्बप्रतिबिम्बभावेनापि भवति । यथा— ‘मणिः शाणोल्लीढः समरविजयी हेतिनिहतः कलाशेषश्चन्द्रः सुरतमृदिता बालललना । मदक्षीणो नागः शरदि सरिदाश्यानपुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः ॥’ अत्र शाणोल्लीढत्वादीनां बिम्बप्रतिबिम्बभावः । शुद्धसामान्यरूपत्वं यथा— ‘फणरअणराइअङ्गो216 भुअंगणाहो घरं समुव्वहइ । णहदप्पणोवसोहिअसिहो अ तुह णाह सुअदण्डो ॥’ अत्र राजितत्वशोभितत्वयोः शुद्धसामान्यरूपत्वम् । नन्वेतदनन्तरमेव मालादीपकमन्यैर्लक्षितं तदिहापि किं न लक्ष्यत इत्या

अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टं मनो निर्दिष्टम् । छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यते ।

वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमा ।

पदार्थारब्धो वाक्यार्थ इति पदार्थगतालंकारानन्तरं वाक्यार्थगतालंकारप्रस्तावः । तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा । वस्तुप्रतिवस्तुभावेन सकृन्निर्देशेऽपि सैव । इवाद्यनुपादाने सन्निर्देशे दीपकतुल्ययोगिते । असकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा । आद्यः प्रकारः प्रतिवस्तूपमा । वस्तुतः शब्दस्य वाक्यार्थवाचित्वे प्रतिवाक्यार्थमुपमा । साम्यमित्यन्वर्थाश्रयणात् । केवलं काव्यसमयात्पर्यायान्तरेण पृथङ्किर्देशः। द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा । यथा—

‘चकोर्य एव चतुराश्चन्द्रिकाचाम217कर्मणि ।
आवन्त्य एव निपुणाः सुशो रतनर्मणि ॥

शङ्कयाह—छायेत्यादि । छायान्तरेणेति शृङ्खलारूपेण । प्रस्तावान्तर इति शृङ्खलाबन्धोपचित-रूपत्वात् । वाक्यार्थेत्यादि । एतदेव व्याख्यातुमलंकारान्तरैः सहास्या विभागं दर्शयति—तत्रेत्यादिना । ‘तया स पूतश्च विभूषितश्च’ इत्यत्रोपमायां सकृन्निर्देशः । ‘पाण्ड्योऽयमंसार्पितलम्बहारः’ इत्यादावपि चासकृन्निर्देशः । तदेवमिवाद्यु पादाने साधारणधर्मस्य यथासंभवं स्वरूपं निरूप्येवाद्यनुपादानेऽपि निरूपयति—इवादीत्यादिना । यद्यपि दीपकतुल्ययोगितयोः सामान्यस्या218सकृन्निर्देशोऽपि संभवति तथापि सकृन्निर्देशं विना तयोरनुत्थानात्तदेवेह प्राधान्येनोक्तम् । असकृन्निर्देशश्च द्विधा भवतीत्याह—असकृदित्यादि । आद्यः प्रकार इति शुद्धसामान्यरूपत्वम् । यदि चात्र सामान्यस्यैकरूपत्वमेवास्ति तत्किं पर्यायान्तरेण पृथङ्निर्देशः क्रियत इत्याशङ्कयाह—केवलमित्यादि । यदुक्तम्— ‘नैकं पदं द्विः प्रयोज्यं प्रायेण’ इति । बिम्बप्रतिबिम्भावो द्वितीयः प्रकारः। एवमेतदुपसंहरन्प्रकृतमेव सिद्धान्तयति—तदेवमित्यादिना ।औपम्याश्रयेणेति । एतदभिदधता ग्रन्थकृता प्रतिवस्तूपमाया दृष्टान्ताद्भेदो दर्शितः । यतोऽस्याः प्रकृतार्थस्य विशेषाभिधित्सया219 सादृश्यार्थमप्रकृतमर्थान्तरमुपादीयते । अत एव चात्र प्रकृताप्रकृतयोरुपमानोपमेयभावः । दृष्टान्ते पुनरेतादृशो वृत्तान्तोऽन्यत्रापि स्थित इति प्रकृतस्यार्थस्याविस्पष्टा प्रतीतिर्मा भूदिति प्रतीतिविषदीकरणार्थमर्थान्तरमुपादीयते ।

अत्र चतुरत्वं साधारणो धर्म उपमेय220वाक्ये निपुणपदेन निर्दिष्टः । न केवलमियं साधर्म्येण यावद्वैधर्म्येणापि । यथात्रैवोत्तरस्थाने ‘विनावन्तीर्न निपुणाःसुदृशो रतनर्मणि221’ इति पाठे ।

तस्यापि बिम्बप्रतिबिम्बभावतया निर्देशे दृष्टान्तः ।

तस्यापीति न केवलमुपमानोपमेययोः । तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः । अयमपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा—

‘अब्धिर्लङ्घितःएव वानरभटैः किं त्वस्य गम्भीरता
मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ।
दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः ॥’

अत्र यद्यपि ज्ञानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमौ-

                             * 
    *

अत एवात्रार्थान्तरोपादानं प्रकृतस्य न क्वाप्युपयुक्तमपि तु प्रतिपत्तुः222 प्रकृतार्थप्रतीतेरविस्पष्टतानिरासात् । केचिच्च दृष्टान्ते द्वयोः समर्थ्यसमर्थकभावेनानयोर्भेदमाहुः । तदसत् । यतः सरूपयोर्विशेषयोः समर्थ्यसमर्थकभावो न भवति । वस्त्वन्तरेण वस्त्वन्तरसिद्ध्यनुपपत्तेः । नहि सामान्यविशेषयोरेव भवति । सामान्यस्य नियमेन विशेषनिष्ठत्वाद्विशेषस्य च नियमेन सामान्याश्रयत्वात् । यदि चात्र समर्थ्यसमर्थकभावः स्यादर्थान्तरन्यासादस्य पृथगलंकारता न स्यात् । समर्थ्यसमर्थकभावात्मनः सामान्यस्योभयत्राप्यनुगमात् । अन्ये पुनरुभयत्राप्यार्थमौपम्यमाश्रित्य सामान्यस्य शुद्धसामान्यरूपत्व-बिम्बप्रतिबिम्बभावाभ्यां व्यवस्थितेरनयोर्भेदमाहुः । तदप्यसत् । एतावतैवौपम्याख्यस्य सामान्यलक्षण-स्यानुगतत्वादुपमाभेदवदनयोः पृथगलंकारत्वानुपपत्तेः । तदेवं वाक्यनैरपेक्ष्येऽपि वक्तृप्रतिवक्रोरेव223 विशेषादनयोर्भेदः सिद्धः । वैधर्म्येणापीति । भवतीति शेषः । तस्यापीति । उपमानोपमेययोरिति । प्रकृताप्रकृतयोर्धर्मिणोरित्यर्थः । अतश्च धर्माणां धर्मिणां च बिम्बप्रतिबिम्बभावेन निर्देशोऽयमलंकारः । यदुक्तमन्यत्रापि— ‘दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्’ इति । उपमानोपमेययोरिति तु स्वार्थ एव (न) व्याख्येयम् । अर्थान्तरस्य प्रकृतदार्ड्यायोपादानात्सादृश्यस्याविवक्षणात् । आद्य इति साधर्म्येण । यथा वा— स्थानेषु शिष्यनिवहैःप्रतिपाद्यमाना विद्या गुरुं हि गुणवत्तरमातनोति । आदाय शुक्तिषु बलाहकविप्रकीर्णैःरत्नाकरो भवति वारिभिरम्बुराशिः ॥’ अत्र स्थानादीनां शुक्त्यादिभिः प्रति-

पम्यं विवक्षितम् । यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् । द्वितीयो यथा—

‘कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोडरयः ।
तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् ॥

अत्र निहत्वादेः स्थानादिना वैधर्म्येण प्रतिबिम्बनम् ।

संभवतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना ।

प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम् । तत्र क्वचित्संभवन्नेव वस्तुसंबन्धः स्वसामर्थ्याद्बिम्ब-प्रतिबिम्बभावं कल्पयति । क्वचित्पुनरन्वयबाधादसंभवता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते । तत्र संभवद्वस्तुसंबन्धा यथा—

‘चूडामणिपदे धत्ते यो देवं रविमागतम् ।
सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥’

                       *       

बिम्बनम् । यन्निबन्धनं चेति । अर्थालंकारत्वं न पुनरौपम्यम् । तस्य च समनन्तरोक्तयुक्त्यासंभवात् । संभवतेत्यादि । बिम्बप्रतिबिम्बभावमिति । उपमानोपमेयत्वमित्यर्थः । धर्मधर्मिणोरभेदोपचारात् । एवं चात्र निदर्शनायां सादृश्याविनाभावः । तेन ‘प्रभाते पृच्छन्तीरनुरहसवृत्तं सहचरीर्नवोढा न व्रीडामुकुलितमुखीयं कथयति । लिखन्तीनां पत्राङ्कुरमनिशमस्यास्तु कुचयोश्चमत्कारो गूढं करजपदमासां प्रथयति ॥’ इत्यादौ संभवत्यपि वस्तुसंबन्धे प्रथनस्यौपम्याभावान्न निदर्शनालंकारत्वम् । अनेनैव वस्तुसंबन्धस्य संभवासंभवाभ्यामस्या भेदद्वयमप्युक्तम् । तदेवोदाहरति—**चूडामणीत्यादिना ।**तत्समर्थाचरणे प्रयोगादिति । ‘कारीषोऽध्यापयति’ इत्यादिवत् । अभ्यागतस्य रवेर्गिरिणा शिरसा धारणं तत्समर्थाचरणम् । अत एवात्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगान्मयेव भवद्भिरप्यतिथि-सपर्या कार्येति संभवत्संबन्धमूलमत्रार्थमौपम्यम् । एवं च पर्वतस्य बोधनक्रियाकर्तृत्वासंभवादे-वाभिमन्तृव्यापारोपारोहाभावान्नात्र प्रतीयमानोत्प्रेक्षा नापि स्मृत्यलंकारः । गृहमेधिनां गृहकर्तृकस्य सद्विषयातिथ्यबोधकत्वस्य वाक्यार्थत्वात् । तत्र हि सदृशदर्शनाद्वस्त्वन्तरस्य स्मृतिर्भवति । नचात्र गृहमेधिनां रविदर्शनादतिथिस्मृतौ कर्तृत्वम् । तेषां सदातिथ्यकर्तव्यताया बोध्यत्वात् । नाप्यत्र रविणातिथेरतिथिना वा रवेः साम्यं विवक्षितम् । अपि तु मयेव गृहमेधिभिरपि सतामातिथ्यं कार्यमिति । अत एव नात्र वस्त्वन्तरकरणात्मा224पि विशेषालंकारः । तपनावगमे225ऽतिथ्यादेरसंभाव्यस्यावगमो

चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम् ।
देव्यै यदि रुचितमिदं नन्दिन्नाहूयतां राहुः ॥

हा राहौ शितदंष्ट्रे भयकृति निकटस्थिते रतिः कस्य ।
यदि नेच्छसि संत्यक्तः संप्रत्येषैव हाराहिः ॥

वसुरहितेन क्रीडा भवता सह कीदृशी न जिद्वेषि ।
किं वसुभिर्नमतोऽमून्सुरासुरान्नैव पश्यसि पुरः ॥

आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्कस्य ।
दिव्यं वर्षसहस्रं स्थित्वेति न युक्तमभिधातुम् ॥

इति कृतपशुपतिपेलवपाशकलीलाप्रयुक्तवक्रोक्ति ।
हर्षवशतरलतारकमाननमव्याद्भवान्या वः ॥’

वक्रोक्तिशब्दश्चालंकारसामान्यवचनोऽपीहालंकारविशेषे संज्ञितः ।

सूक्ष्मवस्तुस्वभावयथावद्वर्णनं स्वभावोक्तिः

इह वस्तुस्वभाववर्णनमात्रं नालंकारः । तत्त्वे सति सर्वे काव्यमलंकारः स्यात् । न हि तत्काव्यमस्ति यत्र न वस्तुस्वभाववर्णनम् । तदर्थं सूक्ष्मग्रहणम् । सूक्ष्मः226 कवित्वमात्रस्य गम्यः । अत एव तन्निर्मित एव यो वस्तुस्व

न्यायेन शब्दश्लिष्टत्वादस्य श्लेषवक्रोक्तावन्तर्भावः स्यात् । उभयमुखेनेति । सभङ्गासभङ्गश्लेषद्वारेण । विजय इति श्लेषस्यासभङ्गत्वम् । मेदुरोदरेणेति सभङ्गत्वम् । ‘स्मेरोऽवताद्वःशिवः’ तथा ‘प्रयुक्तवक्रोक्ति’ इत्यादिना वचनविघातमात्रप्रयोजनस्यान्यथा योजनस्य प्रहेलिकाप्रायत्वमेव प्रकाशितम् । ननु ‘सैषा सर्वैव वक्रोक्तिः कोऽलंकारोऽनयाविना’ इति नीत्या समग्र एवालंकारवर्गो वक्रोक्तिरूप इति कथमयमेव तथात्वेन निर्दिष्ट इत्याशङ्क्याह—वक्रोक्तीत्यादि । इहेति । वाक्छलात्मकत्वेनोक्तेः कौटिल्यात् ॥ सूक्ष्मेत्यादि । ननु कथं वस्तुवर्णनमात्रमलंकार इत्याह—इहेत्यादि । ‘तदतिशयहेतवस्त्वलंकाराः’ इति नीत्या वस्त्वतिशयदायिनां धर्माणामलंकारत्वात्कथं वस्तुमात्रस्यैवालंकारत्वं स्यादिति भावः । ननु कथमेतत्सूक्ष्ममात्रग्रहणेनैव समाहितमित्याशङ्क्याह—सूक्ष्म इत्यादि । कवित्वमात्रस्येति । कुशाग्रीयधिषणत्वात् । एवं स्थूलमतीनामकवीनां कुकवीनां तस्यावगमेऽपि तथा विकल्पारोहे न भवेदिति भावः । अत ए

____________________________________________________________________________

१. ‘सूक्ष्ममित्यादि’ ख.

‘शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥’

इत्यत्र दृष्टान्तबुद्धिर्न कार्या । उक्तन्यायेन निदर्शनाप्राप्तेः । इयं सामान्येनैवासंभवा227त्प्रतिपादिता उपमेयवृत्तस्योपमाने संभवादपि भवति । उभयत्रापि संबन्ध228विघटनस्य विद्यमानत्वात् । तद्यथा—

‘वियोगे गौडनारीणां यो गण्डतलपाण्डिमा ।
अलक्ष्यत229 स खर्जूरीमञ्जरीगर्भरेणुषु ॥’

अत्र गण्डतलं प्रकृतम् । तद्धर्मस्य पाण्डिम्नः खर्जूरीरेणुषु संभवा230दौपम्यप्रतीतिः । एष च प्रकारः शृङ्खलान्यायेनापि भवति । यथा—

______________

नेति । प्रकृतवाक्यार्थे वाक्यार्थान्तरस्य समानाधिकरण्येनाध्यारोप्यमाणत्वात् । अतश्चान्यैर्वाक्यार्थयोः समानाधिकरण्यनिर्देशाच्छ्रौतारोपसद्भावेन वाक्यार्थरूपकं यदुक्तं तत्तावदास्ताम्, यत्पुनः प्रतिवस्तूपमोदाहरणत्वमुक्तं तदयुक्तमेव । निरपेक्षयोर्वाक्यार्थयोधर्मस्य शुद्धसामान्यरूपत्वे प्रतिवस्तूपमा । न चात्रैकमपि संभवति । वाक्यार्थयोः सापेक्षत्वाच्छुद्धेसामान्य231रूपत्वाभावाच्च । अर्थापत्युदाहरणत्वमप्यत्रायुक्तम्232 । ‘जाग्रतः कमलाल्लक्ष्मींयज्जग्राह तदद्भुतम् । पादद्वन्द्वस्य मत्तेभगतिस्तेये तु का स्तुतिः233 ॥’ इत्यत्र तु प्रतिवस्तूपमोदाहरणत्वं पापात्पी(त्पापी ?)यः234 । अत्र हि वाक्यार्थयोः परस्परं सादृश्यमात्रमपि नास्तीति का कथा प्रतिवस्तूपमायाः। एवंविधमेव चान्यत्र सर्वालंकारोदाहरणेष्वासमञ्जस्यं संभवदपि समनन्तरोक्तहेतुद्वयान्न दर्शितम् । तथा च ‘आज्ञाधरः पञ्चशरः पुरस्तात्सुधा पुनः कर्मकरी मुखस्य । स चापि सौन्दर्यविशेषबन्दी यत्रेन्दुरिन्दीवरलोचनानाम् ॥’ इत्यत्र विषयविषयिणोद्वयोरप्युपादाना235त्स्फुटेऽपि रूपकत्वेऽतिशयोक्त्युदाहरणत्वमुक्तं तत्र चातिशयोक्तित्वमेव नास्तीति किं कार्यकारणभावपूर्वकत्वानि दर्शनेनेत्यलं236 बहुना । असंभवद्वस्तुसं-बन्धनिबन्धनायाश्च यद्यपि वस्तुसंबन्धस्याविशेषेण संभव उक्तस्तथापि समनन्तरोक्तोदाहरणेषु यथोपमानसंबन्धी धर्म उपमेयगतत्वेनैव संभवति तथैवोपमेयसंबन्धी धर्मः क्वचिदुपमानेऽपीत्याह—इयमित्यादि । उभयत्रेत्युपमेये उपमाने वा । वसन्तवर्णनस्य प्रक्रान्तत्वाद्द्वयोः प्रकृतत्वेऽपि गण्डतलस्योपमेयत्वम् । तद्गतत्वेनैव पाण्डिम्नःसिसाधयिषितत्वात् । सिद्धसाध्यधर्मत्वमेव चौपमानोपमे

‘आ237 मुण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरं धारयसि ।
जुगुप्सस्यात्मानं नागरिक विदग्धाश्छल्यन्ते ॥’

क्वचित्पुनर्निषेधसामर्थ्यादाक्षिप्तायाः प्राप्तेः संबन्धानुपपत्त्यापि भवति । यथा—

‘उत्कोपे238 त्वयि किंचिदेव चलति द्राग्गूर्जरक्ष्मभृता
मुक्ता भूर्न परं भयान्मरुजुषां यावत्तदेणीदृशाम् ।
पद्भ्यां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि
क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमः ॥’

अत्र मुक्तेति निषेधपदं तदन्यथानुपपत्त्या पादयोर्हसगतिप्राप्तिराक्षिप्यते । सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंबन्धनिबन्धना239 निदर्शना ।

भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः ।

अधुना भेदप्राधान्येनालंकारकथनम् । भेदो वैलक्षण्यम् । स च द्विधा भवति । उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् । विपर्ययो न्यूनगुणत्वम् । क्रमेणोदाहरणम्—

                          *    
    *

यत्वम् । यथा वा— ‘त्वद्वक्त्रलावण्यमिदं मृगाक्षि संलक्ष्यते पत्युरपि क्षपायाः। कथं त्वनेनाहृतमेतदद्य कलावतां वा किमसाध्यमस्ति ॥’ अत्र चाटुषु नायिकायाः प्रस्तुतत्वाद्वक्रमुपमेयम् । तद्धर्मस्य च लावण्यस्योपमाने शशिन्यसंभवः । एष इत्यसंभवद्वस्तुसंबन्धनिबन्धनो वा वाच्यः । आक्षिप्ताया इति । प्राप्तिपूर्वकत्वान्निषेधस्य । सेति प्राप्तिः ।सादृश्यमिति । पादयोर्हेसगतितुल्याया गतेः प्रतीतेः । इयं च सामान्यस्यानुगामितया । यथा—अव्यात्स व इत्यादि । अत्र निसर्गवक्रताख्यधर्मस्यानुगामित्वम् । शुद्धसामान्यरूपत्वेन यथा— ‘हारेणामलकस्थूलमुक्तेनामुक्तकुन्तलः ।फणीन्द्रबद्धजूटस्य श्रियमाप स धूर्जटेः॥ अत्रामुक्तबद्धयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावेन । यथा— ‘उह सरसदन्तमण्डलकपोलपडिमागओ मअच्छीइ । अन्ते सिन्दूरिअसङ्घवत्तकरणिं वहइ चन्दो ॥’ अत्र दन्तमण्डलसिन्दूरितत्वयोर्बिम्बप्रतिविम्बभावः । भेदप्राधान्य इत्यादि । अधुनेति प्राप्तावसरम् । भेदस्य चात्र प्राधान्यादभेदस्य वस्तुतः सद्भावः ।

‘दिदृक्षवः पक्ष्मलताविलासमक्ष्णां सहस्रस्य मनोहरं ते ।
वापीसु नीलोत्पलिनीविकासरम्यासु नन्दन्ति न षट्पदौघाः ॥’

‘क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥’

अत्र विकस्वरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पक्ष्मलताया अधिकगुणत्वम् । चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वम् । शशिवैलक्षण्येन तस्यापुनरागमात् ।

                           *   
      *

सादृश्य एव पर्यवसानात् । अत एव सादृश्यव्यतिरेकेण संभवन्नपि भेदो नास्य विषयः । यथा— ‘दिव्योत्तरीयभृति कौस्तुभरत्नभाजि देवे परे दधतु लुब्धधियोऽनुबन्धम् । रूपं दिगम्बरमखण्डनृमुण्डचूडं भावत्कमेव तु बतेश मम स्पृहायै ॥’ अत्र वैष्णवेभ्यः स्वात्मनि विष्णोर्वा परमेश्वरे भेदमात्रं विवक्षितं न तु केनापि कस्यचिदौपम्यम् । स इति भेदः । तस्याधिक्यविपर्ययाभ्यां द्वैविध्याद्व्यतिरेकोऽपि द्विविधः । तदाश्रयत्वादस्य । चन्द्रापेक्षयेति । शशियौवनयोर्हि समानेऽपि गत्वरत्वे शशिनः पुनरागमनमपि संभवति न तु यौवनस्येति ततोऽस्य न्यूनगुणत्वम् । नन्वत्र विपर्ययमेवेति सूत्रितं भेदान्तरमयुक्तम् । उपमानादुपमेयस्य न्यूनगुणत्वे वास्तवत्वात्तत्त्वे चालंकारत्वानुपपत्तेः । यौवनस्य चात्रास्थिरत्वे प्रतिपाद्ये चन्द्रापेक्षयाधिकगुणत्वमेव विवक्षितम् । यदेतच्चन्द्रवद्यातं सन्न पुनरायातीति । असदेतत् । यतोऽत्र चन्द्रवद्गतं सद्यौवनं यदि पुनरप्यागच्छेत्तत्प्रियं प्रति चिरमीर्ष्यानुबन्धो युज्येत । कालान्तरेऽपि ह्यस्य तदवलोकनादिना सफलीकारः स्यात् । इदं पुनर्हतयौवनं यातं सत्पुनर्नागच्छतीतीर्ष्याद्यन्तरायपरिहारेण निरन्तरतयैव प्रियेण सह सफलयितव्यमिति धिगीर्ष्या त्यज प्रियं प्रति मन्युं कुरु प्रसादमित्यस्मिन्प्रियवयस्योपदेशे प्रियं प्रति कोपोपशमाय240 चन्द्रापेक्षया यौवनस्यापुनरागमनं न्यूनगुणत्वेनैव विवक्षितमिति वाक्यार्थविद एव प्रमाणम् । नचैतद्वास्तवमुपमेयस्य न्यूनगुणत्वम् । तस्यैव सातिशयत्वेन प्रतिपाद्यत्वात् । प्रकृतार्थोपरञ्जकत्वे हिं सर्वथा कवेः संरम्भः । तच्चाधिकगुणमुखेन भवत्वितरथा वा को विशेषः । तस्माद्युक्तमेव विपर्यये वेति सूत्रितम् । प्रत्युत प्रतिकूलत्वं वेति सूत्रितमयुक्तम् । उपमानादुपमेयस्याधिक्ये इत्येतावतैव लक्षणेनास्य व्याप्तत्वात् । यतः ‘स्वरेण तस्या अमृतस्रुतेव’ इत्यादावन्यपुष्टालापस्य प्रतिकूलत्वोक्तेः कर्णकटुकत्वादिना न्यूनत्वावगतरुपमेयभूताया भगवत्याः संबन्धिनः स्वरस्यामृतस्रुतेवेत्यभिधानादा-नन्दातिशयदायित्वादेश्चाधिक्यमेवावगम्यत इत्यलं बहुना । अस्यापि सादृश्याश्रयत्वात्सामान्यस्य त्रयी गतिः । तत्रानुगामिता यथा— ‘नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः । लब्धापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥’ अत्र परिणाहि-

उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसंबन्धे241 सहोक्तिः ।

भेदप्राधान्य इत्येव । गुणप्रधानभावनिमित्तकमत्र भेदप्राधान्यम् । सहार्थप्रयुक्तश्च गुणप्रधानभावः । उपमानोपमेयत्वं चात्र वैवक्षिकम् । द्वयोरपि प्राकरणिकत्वादप्राकरणिकत्वाद्वा सहार्थसामर्थ्याद्धि तयोस्तुल्यकक्षत्वम् । तत्र तृतीयान्तस्य नियमेन गुणत्वा242दुपमानत्वम् । अर्थाच्च243 परिशिष्टस्य प्रधानत्वादुपमेयत्वम् । शाब्दश्चात्र गुणप्रधानभावः । वस्तुतस्तु विपर्ययोऽपि स्यात् । तत्र नियमेनातिशयोक्तिमूलत्वमस्याः । सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च । अभेदाध्यवसायश्च श्लेषभित्तिकोऽन्यथा वा । साहित्यं चात्र कर्त्रादिनानाभेदं ज्ञेयम् । तत्र च कार्यकारणप्रतिनियमविपर्ययरूपा यथा— ‘भवदपराधैः244 सार्धं संतापो वर्धते तरामस्याः।’ अत्रापराधानां संतापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः ।

रूपत्वस्यानुगामित्वम् । वस्तुप्रतिवस्तुभावे पुनर्ग्रन्थकृतैवोदाहृतम्—**दिदृक्षव इत्यादि।**अत्र मनोहरत्वरम्यत्वयोः शुद्धसामान्यरूपत्वम् । पक्ष्मलताविलासविकस्वरयोश्च बिम्बप्रतिबिम्बभावः । उपमानेत्यादि । किं हेतुकं चात्र भेदप्राधान्यमित्याशङ्क्याह—गुणेत्यादि । गुणप्रधानभावोऽपि किं हेतुक इत्याह—सहार्थेत्यादि । एकस्य प्रधानभूतविभक्तिनिर्देशादन्यस्य च विधिविभक्तिनिर्देशात् । वैवक्षिकमिति न पुनर्वास्तवम् । उपमानोपमेयत्वं हि द्वयोस्तुल्यकक्षत्वे भवति तच्चात्र किं निमित्तकमित्याशङ्क्याह—सहार्थेत्यादि । परिशिष्टस्येति प्रथमान्तस्य । शाब्द इति न पुनरार्थः । वस्तुतो विपर्ययस्यापि संभवात् । एवं गुणप्रधानभावनिमित्तकं भेदप्राधान्यमपि शाब्दमेवात्र ज्ञेयम् ।वस्तुतो हि सादृश्यस्यैव पर्यवसानाद्भेदाभेदयोस्तुल्यत्वेनैव प्रतीतिः । तस्माच्छाब्दमेव भेदप्राधान्यमाश्रित्येहास्या वचनम् । विपर्यय इति । प्रधानविभक्त्या निर्दिष्टस्याप्राधान्यं गुणविभक्त्या च निर्दिष्टस्य प्राधान्यम् । नियमेनेति । अनेनातिशयोक्त्यनुप्राणनमन्तरेणालंकारत्वमेवास्या न भवतीति ध्वनितम् । त्यतिशयोक्तिः । कार्यकारणयोः प्रति नियमस्य विपर्ययस्तुल्यकालत्वादिनोक्तेः । (अथ च कार्यकारणवत्प्रतिनियमस्य क्रमस्य विपर्ययस्तुल्यकालत्वादिनोक्तेः ।) अन्यथेत्यश्लेषरूपः । तदेवमस्या अतिशयोक्तिभेदचतुष्टयमनुप्राणकम् । कर्त्रादीति आदिशब्दात्कर्मादयः । तत्रेति निर्धारणे । अस्यामनुप्राण-

श्लेषभित्तिकाध्यवसायरूपा यथा— ‘अस्तं भावान्प्रयातः सह रिपुभिरयं संहियन्तां वलानि ।’ अत्रास्तं गमनं श्लिष्टम् । अस्तमित्यस्योभयार्थत्वात् ।

तदन्यथारूपा यथा— ‘कुमुदवनैः सह संप्रति विघटन्ते चक्रवाकमिथुनानि ।’ अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टम् । एतद्विशेषणपरिहारेण सहोक्तिमात्रं नालंकारः । यथा— ‘अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु’ इत्यादौ । एतान्येव कर्तृसाहित्ये उदाहरणानि । कर्मसाहित्ये यथा—

‘द्युजनो मृत्युना सार्धे यस्याजौ तारकामये ।
चक्रे चक्राभिधानेन प्रेष्येणाप्तमनोरथः ॥”

अत्र करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वम् । एषा च मालयापि भवन्ती दृश्यते । यथा—

‘उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धंमुखैर्नामितं
भूपानां जनकस्य संशयधिया साकं समास्फालितम् ।

                         *     
     *

कत्वेन स्थितेति शेषः । अत्रापराधानां शाब्दो गुणभावः । वस्तुतस्तु प्राधान्यं तेषामेव । प्रतिपाद्यत्वात् । एवमन्यत्र ज्ञेयम् । ‘क्षयमेति सा वराकी स्नेहैन समं त्वदीयेन’ इत्यस्यार्धम् । ‘कुर्वन्त्वाप्ता हतानां रणशिरसि जना वह्निसाद्देहभारानश्रून्मिश्रं कथंचिद्ददतु जलममी बान्धवा बान्धवेभ्यः । मार्गन्तो ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कैः’ इत्यस्याद्यंपादत्रयम् । ‘सह कमलैर्ललनानां मानः संकोचमायाति’ इत्यस्यार्धम् । एतद्विशेषणपरिहारेणेति अतिशयोक्त्यनुप्राणनमन्तरेण । ‘द्वीपान्तरानीत-लवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः’ इति द्वितीयमर्धम् । एतानीति समनन्तरोक्तानि । यमापेक्षया द्युजनस्थानन्तरमाप्तमनोरथत्वमित्यादि पश्चाद्भावेन क्रमिकयोस्तुल्यकालत्वेनोक्तिः । यथा वा— ‘भाग्यैः समं245 समुत्पन्नंप्रजाभिः सह लालितम् । वर्धितं सुकृतैः सार्धमर्णोराज246मसूत सा ॥’ अत्र समुत्पत्त्यनन्तरं तद्भाग्यानामुत्पत्तिरिति क्रमिकयोः समकालत्वम् । अस्याश्च शुद्धसामान्यरूपत्वं यथा— ‘मलआणिलेण सह सोरह वासिएण दइआणम् । वडून्ति बहलसोमालपरिमला सासणिउरम्बा ॥’ अत्र सौरभपरिमलयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावां यथा— ‘दिनअरअरणिउरम्बा कणआअलकडअरेणुविष्फुरिआ । विअसन्ति परिमलभरोव्भडेहिँ कमलाकरेहिँ समम् ॥’ अत्र कनकाचलकटकरेणुविच्छुरितत्वस्य परिमलभरौद्भटत्वं बिम्बप्रतिबिम्बत्वेन निर्दिष्टम् । प्रतिभटभूतामिति प्रतिपक्षभूताम् । अत एवै-

वैदेह्या मनसा समं245 च सहसाकृष्टं ततो भार्गव
प्रौढाहंकृतिकन्दलेन च समं तद्भग्नमैशं247 धनुः ॥’

सहोक्तिप्रतिभटभूतां विनोक्ति लक्षयति248

विना कंचिद249न्यस्य सदसत्त्वाभावो विनोक्तिः ।

सत्त्वस्य शोभनत्वस्य भावः शोभनत्वम् । एवमसत्त्वस्याशोभनत्वस्य भावोऽशोभनत्वम् । ते द्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा विनोक्तिः । अत्र च शोभनत्वाशोभनत्वसत्तायामेव वक्तव्यायामसत्तामुखेनाचभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् । एवं च तदन्यनिवृत्तौ250 विधिरेव प्रकाशितो भवति । आद्या यथा—

‘विनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥’

अत्र विनयाद्यसंनिधिप्रयुक्तश्रीविरहाद्यभिमानमुखेनाशोभनत्वमुक्तम् । अत्र विनाशब्दमन्त-रेणापि विनार्थविवक्षा यथाकथंचिन्निमित्तीभवति । यथा सहोक्तौ सहार्थविवक्षा । एवं च

                        *      
   *

तदनन्तरमेतल्लक्षणम् । तदेवाह—विना कंचिदित्यादि । एतदेव व्याचष्टे—सत्त्वस्येत्यादिना । कस्यचिदिति यत्र यादृशो विवक्षित[स्त ]स्येति । ननु चात्र सत्त्वासत्त्वयोर्विधिमुखेनैव वाच्यत्वे किमिति प्रतीतिवैषम्यदायिना निषेधमुखेन निर्देशः कृत इत्याशङ्क्याह—अत्र चेत्यादि । तच्छब्देन सत्त्वासत्त्वयोः प्रत्यवमर्पः । अन्यनिवृत्तिप्रयुक्तेन तन्निवृत्तिख्यापनेनापि किं भवतीत्याशङ्क्याह—एवं चेत्यादि । अन्यस्य कस्यचिदनिवृत्तौ सत्त्वमसत्त्वमेव वा भवतीत्यर्थः । आद्येति असत्त्वनिबन्धनोक्तिः । का श्रीर्न काचिच्छ्रीरिति श्रियो विरहोऽसद्भावः251 । विनयासद्भावेऽपि श्रियोऽसद्भावोऽस्तीत्येतदभिधानं श्रियोऽसत्त्वे पर्यवस्यतीति विनयनिवृत्तिप्रयुक्तं श्रियोऽसत्त्वमुक्तम् । एवं विनयस्यानिवृत्तौ श्रियः सत्त्व एव विधिः प्रकाशितो भवतीति विनय एव भरबन्धः कार्यः । एवमन्यत्रापि ज्ञेयम् । अन्ये चात्र वास्तवत्वं मन्यमानाः ‘तस्याः शैत्यं विना ज्योत्स्ना पुष्पर्द्धिःसौरभं विना । विनोष्ण्यत्वं च हुतभुंक्त्वां विना प्रतिभासते ॥ इत्यत्र विनोक्त्यलंकारत्वमाहुः । अत्र हि ज्योत्स्नादीनां शैत्यादिना नित्यमविनाभावेऽपि विनाभाव उपनिबद्धः । यदाहालंकारभाष्यकारः— “नित्यसंबद्धानामसंबन्धवचनं विनोक्तिः’ इति विनोक्तिरुपसंख्यास्यते” इति । ग्रन्थकृता पुनरियं चिरंतनलक्षितत्वाल्लक्षिता । यथाकथंचिदिति । यद्यपि

‘निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धा ॥’

इत्यादौ विनोक्तिरेव । तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्वप्रतीतेः। इयं च परस्परविनोक्तिभभङ्ग्या चमत्कारातिशयकृत् । यथोदाहृते विषये । द्वितीया यथा—

‘मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः ।
अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ॥’

अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्गयोक्तः । सैषा द्विधा विनोक्तिः । अधुना विशेषणविच्छित्त्याश्रयेणालंकारद्वयमुच्यते । तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाह—

विशेषणानां सास्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः ।

इह प्रस्तुताप्रस्तुतानां क्वचिद्वाच्यत्वं क्वचिद्गम्यत्वमिति द्वैविध्यम्252 । वाच्यत्वं च श्लेषनिर्देशभङ्गया पृथगुपादानेन वेत्यपि द्वैविध्यम्252 । एतद्विभेदमपि श्लेषालंकारस्य विषयः । गम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः253

यथा सहशब्दं विनापि सहार्थे तृतीयास्ति तथा विनाशब्दं विनापि द्वितीयादीनां विनार्थे सद्भावोऽस्ति । तथापि वाक्यार्थ254पर्यालोचनासामर्थ्यात्तदर्थः पर्यवस्यतीत्यस्य भावः । सहशब्दं विनापि सहार्थविवक्षा यथा— ‘विवृण्वता सौरभरोरदोषं255 बन्दिव्रतं वर्णगुणैः स्पृशन्त्या । विकस्वरे कस्य न कणिकारे घ्राणेन दृष्टेर्ववृधे विवादः ॥’ अत्र घ्राणेन सहेति तत्प्रयोगं विना तत्प्रतीतावेव256 विश्रान्तेः । एवं चेति । यस्माद्विनाशब्दंविनापि तदर्थविवक्षा भवतीत्यर्थः । यथोदाहृत इति निरर्थकमित्यादौ । यथा वा— हंसाण सरेहिँ विणा सराण सोहा विणा ण हंसेहिं । अण्णोण्णंचिअ एए अप्पाणं णवर गरुएन्ति ॥ द्वितीयेति शोभनत्वनिबन्धनोक्तिः । तत्रेत्यलंकारद्वयमध्यात् । आदाविति प्रधानतया । अस्या हि विशेषणमात्रावष्टम्भात्परिकराद्विशेषणसाम्यावष्टम्भत्वेन257 विशिष्टत्वम् । विशेषणेत्यादि । अस्याश्चालंकारान्तरेभ्यो विभागं दर्शयितुमुपक्रमते— इहेत्यादिना । वाच्यत्वं चात्र द्वयोः प्रस्तुतयोरप्रस्तुतयोः प्रस्तुत प्रस्तुतयोश्च भवति । गम्यत्वं पुनः क्वचित्प्रस्तुतस्य क्वचिच्चाप्रस्तुतस्य । प्रस्तुताप्रस्तुतयोस्तु न भवति । ताद्रूप्येण वस्तुसद्भावाभावात् । श्लेषनिर्देशभङ्गयेति । प्रस्तुतयोरप्रस्तुतयोश्च । पृथ-

अप्रस्तुतनिष्ठं तु समासोक्ति258विषयः । तत्र च निमित्तं विशेषणसाम्यम् । विशेषस्यापि साम्ये श्लेषप्राप्तेः । विशेषणसाम्याद्धि प्रतीयमानमप्रस्तुतं प्रस्तुता259वच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वं260 च व्यवहारसमारोपो न रूपसमारोपः । रूपसमारोपे । त्ववच्छादितत्वेन प्रकृतस्य तद्रूपरूपित्वादेव रूपकम् । ततश्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भावास्त्रिधा भवति । तत्र श्लिष्टतया यथा—

‘उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥’

** अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्ना नायकव्यवहारप्रतिपत्तिः ।**

                         *     
   *

गुपादानेनेति । प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्चैतदिति वाच्यम् । अत्र चाप्रस्तुतस्य किंहेतुकं गम्यत्वमित्याशङ्कयाह—तत्र चेत्यादि । तत्रेत्यप्रस्तुतस्य गम्यत्वे । । विशेषणानां चात्र बहुत्वमेव261 विवक्षितमिति न वाच्यम् । ‘श्वसनविषमा रात्रिर्ज्योत्स्ना तरङ्गितविभ्रमा शशिमणिभुवो बाष्पायन्ते निमीलति पद्मिनी । उपचिततमोमोहा भूमिर्व्यनक्ति विवर्णतां तदिति गहने दर्शे दर्शे कथं सखि जीव्यते ॥’ इत्यत्र विशेषणबहुत्वाभावेऽपि262 समासोक्तेः सद्भावात् । अतश्च विशेषणानां साम्यादिति न सूत्रणीयम् । अबहुत्वे तस्याव्याप्तेः । विशेषणसाम्यमपि कस्मादत्र हेतुत्वं भजत इत्याशङ्कयाह—विशेषणेत्यादि । प्रस्तुतमिति न पुनरप्रस्तुतधर्मा263 एव । नह्यन्यधर्मिसंबन्धिनो धर्माः स्वधर्मिणमन्तरेणान्य-त्रावतिष्ठन्ते । नह्यनायके नायकधर्माणामन्वयो युज्यते । अन्यधर्माणामन्यत्रान्वयासंभवात्264 । अत एवान्यरोप्यमाणोऽन्यव्यवहारोऽन्यत्र न संभवतीति265 तदविनाभावात्स्वव्यवहारिणमाक्षिपतीत्याक्षिप्य-माणेनाप्रस्तुतेन धर्मिणैव प्रस्तुतो धर्म्यवच्छिद्यते न पुनराच्छाद्यते266 । तथात्वे ह्यप्रस्तुतेन प्रस्तुतस्य रूपरूपितत्वाद्रूपसमारोपः स्यान्न व्यवहारसमारोपः। अत एवाह—प्रस्तुतावच्छेदकत्वेनेति । अत एवाप्रस्तुतस्य267 गम्यत्वे इति सूत्रितम् । एवं समासोक्तौ व्यवहारसमारोपादप्रस्तुतेन प्रस्तुतस्य वैशिष्टयलक्षणमवच्छेदकत्वं विधीयते । रूपके तु रूपसमारोपापरूपितत्वाख्यमाच्छादकत्वमित्य-नयोर्भेदः । तेन विशेषणानां साम्यादप्रस्तुतधर्मावच्छेद इत्यपास्यास्मल्लक्षणानुगुण्येनैव विशेषणसाम्या-दप्रस्तुतावच्छेदः समासोक्तिरित्येव सूत्रणीयम् । अतिशयोक्त्याशङ्का पुनरत्र निष्प्रमाणिकैव । विषयस्योपादानाद्विषयिणश्चानुपादानात् । तदिति अप्रस्तुतस्य गम्यत्वे निमित्तम् । तत्रेति

अपरित्यक्त268स्वरूपयोर्निशाशशिनोर्नायकनायिकाख्यधर्मविशिष्टयोः प्रतीतेः । साधारण्येन यथा—

‘तन्वी मनोरमा बाला लोलाक्षी पुष्यहासिनी ।
विकासमेति सुभग भवदर्शनमात्रतः ॥

अत्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः । तत्र च लतैकगामिविका-साख्यधर्मसमारोपः कारणम् । अन्यथा विशेषणसाम्यमात्रेण नियत269लताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उपचारतो270 ज्ञेयः । एवं च कार्यसमारोपेऽपि ज्ञेया271 । इयं च समासोक्तिः पूर्वापेक्षया अस्पष्टा । औपम्यगर्भत्वेन यथा—

‘दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥’

अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन च कृते समासे पश्चाद्दन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेषणमाहात्म्याल्लताव्यवहारप्रतीतिः। अत्रैव ‘परीता हरिणेक्षणा’ इति पाठेउपमारूपकसाधकबाधकामावात्संकरसमाश्रयेण272 कृते योजने पश्चात्पूर्वव

__________________

निर्धारणे । नायकेति सरूपयोरेकशेषः । अपरित्यक्तस्वरूपयोरिति । रूपरूपितत्वे हि परित्यक्तं स्वस्वरूपं स्यात् । अत्रेति273 लताव्यवहारप्रतीतौ । ननु यदि लतैकगाम्येव विकासाख्यो धर्मस्तत्कथं प्रकृते संगच्छत इत्याशङ्कयाह— विकास इत्यादि । एतदेवान्यत्रापि योजयति—एवमित्यादिना । तदेवं साधारण्येन समासोक्तेर्विशेषणसाम्ये सत्यप्यप्रकृतसंबन्धि धर्मकार्यसमारोपमन्तरेण तद्व्यवहारप्रतीतिर्न भवतीति सिद्धम् । सुवेषत्वं प्रकृतार्थ एवानुगुणमित्युपमायाः साधकम् । अतश्च तत्समाश्रयः । समासान्तराश्रयणेनेति । यद्यप्यत्रोपमासमास एव स्थितस्तथाप्युपमानोपमेययोर्व्यत्ययादेव समासान्तरत्वमुक्तम् । पूर्वापेक्षयास्यान्यथात्वात् । अत्रैवेति दन्तप्रभेत्यादौ । उपमारूपकसाधक-बाधकाभावादिति । परीतत्वस्य हि प्रकृताप्रकृतयोस्तथा नानुगुण्यमिति साधकत्वाभावः । तथा च न विगुणत्वमिति बाधकत्वाभावः । अतश्चैकपक्षाश्रयाभावादुपमारूपकयोः

त्समासान्तरमहिम्ना लताप्रतीतिज्ञेया । रूपकगर्भत्वेन तु समासान्तराश्रयणात्समानविशेषणत्वं भवदपि न समासोक्तेः प्रयोजकम् । एकदेशविवर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात्274 । न च पूर्वदर्शितोपमासंकरविषये एष न्यायः । उपमासंकरयोरेकदेशविवर्तिनोरभावात् । तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम् । अश्लिष्टं यथा—

‘निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः ।
धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्याततरं ररास ॥’

अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके275 पयोदस्य द्रष्टृपुरुषनिरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते । श्लिष्टं यथा—

‘मदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चय

न्निव किल बृहत्पत्रन्यस्तद्विरेफमषीलवैः ।
कुटिललिपिभिः कं276 कायस्थं न नाम विसूत्रय
न्व्यधित277 विरहिप्राणेष्वायवयावधिकं मधुः ॥’

___________________

संदेहसंकरः । तस्य समाश्रय उभयसमासग्रहणम् । तच्चैकस्मिन्नेव वाक्ये न संभवतीति कामचारेण तयोर्ग्रहणम् । संकरसमाश्रयेणाप्युपमासमासयोजने कृते यद्वदयमेवालंकारस्तद्वद्रुपकसमासयोजनेऽपि किमयमेव किमुतालंकारान्तरमित्याशङ्कयाह—**रूपकेत्यादि ।**एतच्च साक्षादपि रूपकगर्भे समासे योज्यम् । समानन्यायत्वात् । यद्येवं तर्ह्युपमासमाश्रयेऽप्येकदेशविवर्त्युपमामुखेनैवार्थान्तरप्रतीतेः किं नैतद्भवतीत्याशङ्कयाह—**न चेत्यादि ।**एष इति रूपकोक्तः । अभावादिति उद्भटमतेन । यदाहुः— ‘न च रुद्रटस्येवोद्भटस्यैकदेशविवर्तिरूपकवदुपमासंकररावेकदेशिनौ स्तः ।’ अतश्चैतत्तन्मताभिप्राये-णोक्तम् । ग्रन्थकृन्मते हि वक्ष्यमाणनीत्या278 तयोः संभवः । ननु यदि तयोर्ग्रन्थकृन्मते संभवस्तदौपम्यगर्भविशेषणोत्थापितः समासोक्तिप्रकारस्तर्हि न संभवति । तस्यैकदेशविवतिरूपक-वदेकदे शविवर्तिभ्यामुपमासंकराभ्यामेवार्थान्तरप्रतीतिसिद्धेर्वैयर्थ्यात् । नैतत् । यतोऽस्त्येव तावदौपम्यगर्भविशेषणहेतुकत्वं समासोक्तेः । किं त्वेतदन्यभेदसहचरितमेवास्या279 निमित्ततां भजते न पुनः केवलम् । तथात्वे हि विशेषणानामौपम्यगर्भत्वे280 एकदेशविवर्तिन्या उपमायाः प्राप्तिः । तत्र श्लिष्टत्वसह281चरितमेतद्यथा— ‘परिपिञ्जरितासिताम्बरैर्निबिडैः कं न हरन्ति

अत्र हि पत्रलिपिकायस्थशब्देषु श्लेषगर्भे रूपकं द्विरेफमषीलवैरित्येतद्रूपकनिमित्तम् । अस्य च प्रचुरः प्रयोगविषय इति न समासोक्तिबुद्धिः कार्या । तदेवं श्लिष्टविशेषणसमुत्थापितैका । साधारणविशेषणसमुत्थापिता धर्मकार्यसमारोपाभ्यां द्विभेदा । औपम्यगर्भविशेषणसमुत्था-पितोपमा संकरसमासाभ्यां द्विभेदा । रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः ।

                         *     
 *

हारिभिः । अयि सायमिमाः पयोधरैः स्फुटरागाश्चलतारका दिशः ॥’ अत्र ‘स्फुटसंध्यातपकुङ्कुमैः’ इति पाठे संध्यातपकुङ्कुमैरित्यौपम्यगर्भे विशेषणम् । साधारण्यसहचरितं यथा—‘तन्वी मनोरमा बाला लोलाक्षी स्तबकस्तनी। विकासमेति सुभग भवद्दर्शनमात्रतः ॥’ अत्र स्तबकस्तनीत्यौपम्यगर्भ विशेषणम् । शुद्धकार्यसमारोपसहचरितं यथा— ‘समारुरोहोपरिपादपानां लुलोठ पुष्पोत्कररेणुपुञ्जे । लताप्रसूनांशुकमाचकर्ष क्रीडन्वने282 किं न चकार चैत्रः ॥’ अत्र प्रसूनांशुकमित्यौपम्यगर्भे विशेषणम् । केवलत्वं पुनरेतेषामेकदेशविवर्तिन्युपमै283व यथा— ‘बभौ लोलाधरदलस्फुरद्दशनकेसरम् । भ्रूविलासालिवलयं ललितं ललनामुखम् ॥’ अत्र ललितत्व284मुपमासाधकम् । समासान्तराश्रयात्समान-विशेषणत्वं भवदपि नात्र समासोक्तेः प्रयोजकम् । एकदेशविवर्त्युपमामुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । एवं दन्तप्रभेत्यादावपि ज्ञेयम् । दन्तप्रभाः पुष्पाणीवेत्येवसमासे कृते उपमानभूताया लतायाः प्रतीतिसिद्धेः समासान्तराश्रयेणागतायास्तत्प्रतीतेर्व्यर्थत्वात् । अप्रकृतागूरणे हि कवेः संरम्भः तच्चानयैव सिद्धमिति किं समासोक्त्या । चिरंतनानुरोधात्पुनरत्र ग्रन्थकृता समासोक्तिरुक्ता । यत्तु ‘यत्र समासोक्ता285वुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरुक्ता’ इति वक्ष्यति तदपि चिरंतनानुरोधपरमेव । अन्यथा हि समानन्यायत्वादेकदेश-विवर्तिनि रूपकेऽपि यत्र समानविशेषणत्वं योजयितुं शक्यं तत्रापि समासोक्तिरिति किं नोक्तम् । यत्तु नोक्तं तद्युक्तम् । रूपकमाहात्म्यात्प्रथममेव तत्प्रतीतिसिद्धेरनन्तरं समासोक्तिमुखेनाप्रकृतप्रतीत-र्वैयर्थ्यात् । ‘आह्लादिचन्द्रवदना स्फुरत्तारकमौक्तिका घनान्धकारधम्मिल्लाराजते गगनस्थली ॥’ इत्यादौ पुनरुपमायाःसाधकाभावादेकदेशविवर्ति रूपकमेवेति न समासोक्तिभ्रमः कार्यः । न चैवमादावुपमा-रूपकयोः संदेहसंकरो न्याय्यः तस्यालंकारसारकारादिभिनिराकृतत्वात् । समासोक्तिलक्षणावसरे किं रूपकनिरूपणेनेत्याशङ्कयाह—अस्या इत्यादि । अस्याश्च यथोपपादितान्भेदान्संकलयति—**तदेवमित्यादिना ।**भेदद्वयमिति साक्षात्संदिह्यमानत्वेन वा । न विषय इति । यथोक्तोपपत्ते रूपक एव

तदेवं पञ्चप्रकारा समासोक्तिः । इयं286 च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्वेन प्रथमं त्रिधा समासोक्तिः । विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम् । सर्वत्र चात्र व्यवहारसमारोप एव जीवितम् । स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः । लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः । शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा भवति । तदेवं बहुप्रकारा समासोक्तिः । तत्र शुद्धकार्यसमारोपेण यथा—

‘विलिखति कुचा287वुच्चैर्गाढं करोति कचग्रहं
लिखति ललिते वक्रे पत्रावलीमसमञ्जसाम् ।
क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं
मरुभुवि हठान्नश्यन्तीनां तवारिमृगीदृशाम् ॥’

अत्र पत्रावलीविलेखनादिशुद्धकार्यसमारोपात्खदिरस्य हठकामुकत्वप्रतीतिः । विशेषणसा-म्येनोदाहृतम् । उभयमयत्वेन यथा—

‘निर्लनान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः
कर्णे रुग्जनिता कृतं च नयने नीलाब्जकान्ते क्षतम् ।
यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरसैः288
किं किं कण्टकिभिः कृतं न तरुभिस्त्वद्वैरिवामभ्रुवाम् ॥’

अत्र नीरसैः कण्टकिभिरिति विशेषणसम्यम्289 । निर्लूनान्यलकानीत्यादिश्च290 कार्यसमारोपः । व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणं यथा—

_______________

विश्रान्तेः । प्रथममिति । एतद्भेदत्रयमस्या मूलभूतमित्यर्थः । उक्तं पुनः प्रकारपञ्चकमस्या अवान्तरभेदरूपम् । विशेषणसाम्यस्यैतद्भेदत्वात् । यद्यपि शुद्धकार्यसमारोपेऽपि विशेषणसाम्यमेवास्ति तथाप्यत्र शुद्ध एव कार्यसमारोप उद्रिक्ततया प्रतीयत इति तस्य पृथग्भेदत्वमुक्तम् । सर्वत्रेति भेदसप्तके । []291 बहुप्रकारेति291 लौकिकादीनां व्यवहाराणामानन्त्यात् । उदाहृतमिति उपोहरागेणेत्यादिना । क्रमेणेति यथोद्देशम् । मीमांसेत्यत्रोत्तरमीमांसा विवक्षिता ।

‘द्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब
रुद्धाम्बरां शशिकलामलिखत्कराग्रैः ।
अन्तर्निमग्नचरपुष्पशरोऽतितापा
कि किं चकार तरुणो न यदीक्षणाग्निः ॥’

लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यम् ।

‘यैरेकरूपमखिलास्वपि वृत्तिषु त्वां
पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम् ।
लोपः कृतः किल परत्वजुषो विभक्ते
स्तैर्लक्षणं292 तव कृतं ध्रुवमेव मन्ये ॥’

अत्रागमशास्त्रप्रसिद्धे293 वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः ।

‘सीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं
न स्पृष्टं वचसा कदाचिदपि यदृष्टोपमानं न यत् ।
अर्थादापतितं न यन्न च न यत्तत्किचिदेणीदृशां
लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकृत् ॥’

अत्र लावण्ये लौकिके मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः । एवं तर्कायुर्वेदज्योतिः शास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः ।

‘स्वपक्षलीलाललितै294रुपोढहेतौ स्मरे दर्शयतो विशेषम् ।
मानं निराकर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत् ॥’

अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः295

‘मन्दमग्निमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः ।
दृष्टय स्तिमिरजं सिषेविरे दोषमोषधिपतेरसंनिधौ ॥’

अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः ।

‘गण्डान्ते मददन्तिनां प्रहरतः क्ष्मामण्डले वैधृते
रक्षा296माचरतः सदा विदधतो लाटेषु यात्रोत्सवम् ।

पूर्वामत्यजतः स्थिति शुभकरीमासेव्यमानस्य ते
वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम् ॥’

अत्र ज्योतिः शास्त्र प्रसिद्धवस्तुसमारोपः ।

‘प्रसपत्तात्पर्यैरपि सदनुमानैकरसिकै
रपि ज्ञेयो यो नो परिमितगतित्वं परिजहत् ।
अपूर्वव्यापारो गुरुवरबुधैरित्यवसितो
न वाच्यो नो []297 लक्ष्यस्तव297 सहृदयस्थो गुणगणः ॥’

अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः । तथा ह्यत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते । यतो रसो न तात्पर्यशक्तिज्ञेयः । नाप्यनुमानविषयः । न शब्दरभिधाव्यापारेण वाच्यीकृतः । न लक्षणागोचरः । किं तु विगलितवेद्यान्तरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणा-पूर्वव्यापारविषयतोऽनुकार्यानुकर्तृगतत्वपरिहारेण सहृदयगत इति प्रसर्पत्तात्पर्यैरित्यादिपदै रस एव प्रतीयते । एवमन्यदपि ज्ञेयम् ।

‘पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमभ्यन्तरे
यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिघासारसात् ।
चाटूच्चारणचापलं विदधतां वाक्तत्र बाह्या कथं
देव्या ते परया प्रभो सह रहः क्रीडादृढालिङ्गने ॥’

अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । लौकिकवस्तुव्यवहारश्च रसादिभेदाद्बहुभेद298 इत्युक्तं प्राक् । तत्र शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिक-माश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथंचिद्योज्यम् । इह तु

____________

तत्र हि निखिलप्रमाणागोचरं परमात्मस्वरूपं दर्शितम् । तद्व्यवहारसमारोपोऽत्र कृतः । न तात्पर्येति । यदुक्तम्— ‘नाभिधैवं न तात्पर्ये लक्षणानुमितिर्न वा । ध्वन्यन्तर्भावने शक्ता भेदेन विषयस्थितेः ॥’ इति । अनुकार्यो रामादिः । अनुकर्ता नटादिः । तद्गोचरश्च न रसः प्रतीयते । यदुक्तम्— ‘नानुकार्येऽपि रामादौ नटादौ नानुकर्तरि । रसः सचेतसां किं तु’ इति । अन्यदिति । अन्यशास्त्रप्रसिद्धवस्तु-समारोपलक्षणम् । तदित्थं सप्रपञ्चां समासोक्तिं प्रतिपाद्य पुनरपि सहृदयानां हृदयंगमीकर्तु ग्रन्थकृदेतत्प्रतीतिं विभागेन लक्ष्ये योजयति—इह त्वित्यादिना । अविप्रतिपत्तिद्योतनार्थस्तावच्छन्दः । कुतस्त्येति ।

‘ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥’

इत्यत्रास्ति तावद्रविशशिनोर्नायकत्वप्रतीतिः । न चात्र विशेषणसाम्यमिति सा कुतस्त्या । प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदो नायिकात्वप्रतीतौ तदानुगुण्यात्तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेत् आर्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्दिष्टम् । न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्व प्रतीतिः स्यात् । तत्कथमत्र व्यवस्था । उच्यते— एकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता तदा299सा केन प्रतिषिद्धा । सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि संभवात् । अथात्र300 नोपमानत्वेन नायकः स्वरूपेण प्रतीयते तथापि301 रविशशिनोरेव नायकव्यवहारप्रतीतिः302 । तयोरत्र नायकत्वात् । तदत्रार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम् । इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः । यथा ‘दना जुहोति’ इत्यादौ दध्निसंचार्यते विधिः303 एवमियमुपमानुप्राणिता समासोक्तिरेव । इह तु पुनः

‘नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरः श्रियः ।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥’

                            *  
     *

किमस्या निमित्तमिति भावः । तदानुगुण्यादिति शरदो नायिकात्वप्रतीत्यनुगुणत्वात् । तयोरिति रविशशिनोः । कथमिति । प्रकृतार्था304ननुगुणत्वात्साम्यायोगात् । कथमत्र व्यवस्थेति । विशेषणसाम्यायोगात्समासोक्तरप्राप्तेरेकदेशविवर्तिन्या उपमाया अनुक्तत्वात् । सामान्यलक्षणेति । उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमेति । एवमेकदेशविवर्त्युपमासामर्थ्यादेवात्र नायकत्वप्रतीतिरिति भावः । अथेति पक्षान्तरे । यदि चात्र पूर्वोक्तयुक्त्यैवानुगुण्याद्रविशशिनोः समासोक्तिमुखेन नायकत्वप्रतीतिस्तदार्द्रनखक्षताभमिति विशेषणं कथं साम्येन योजयितुं शक्यमित्याशङ्कयाह—**तत्रेत्यादि ।**एतदेव शास्त्रान्तरप्रसिद्धदृष्टान्तमुखेन हृदयंगमीकरोति— यथेत्यादिना । अग्निहोत्रं जुहुयादित्यनेनोत्पत्तिविधिवाक्येन हि होमो विहितः तस्य च पुनर्विधानमदग्धदहन्यायेन यावदप्राप्तं विधेर्विषय इत्यभ्युपगमान्न युज्यत इति तत्रायुक्तत्वादुपपदे दध्नि संचार्यत इत्यर्थः। उपमानुप्राणितेति । औपम्यगर्भविशेषणोत्थापितेत्यर्थः । समासोक्ति

इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या । विशेषणसाम्याभावात् । तस्मान्नायिकात्रोप-मानत्वेन प्रतीयते न तु सरः श्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या । गत्यन्तरासंभवात् । यैस्तु नोक्ता तेषामुपमाख्ययैव305 । यत्र तु ‘केशपाशालिवृन्देन’ इत्यादौ समासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषण-प्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् ।

सा च समासोक्तिरर्थान्तरन्यासेन क्वचित्समर्थ्यगतत्वेन क्वचित्समर्थकगतत्वेन भवति । क्रमेण यथा—

‘अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा ।
कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥’

‘असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत्सर्वेनो संध्यां भजते रविः ॥’

अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोर्नायकव्यवहारप्रतीतौ306 समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते । सामान्यस्य चात्र श्लेषवशादुत्थानम् । शान्ततडित्कटाक्षेत्यौपम्यगर्भे विशेषणं समासान्तराश्रयेणात्र समानम् । असमाप्तेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्योपनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण307 रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते ।

आकृष्टि308वेगविगलद्भुजगेन्द्रभोग
निर्मोकपट्टपरिवेषतयाम्बुराशेः ।

____________

रेवेति । न पुनरेकदेशविवर्तिन्युपमा । गत्यन्तरमलंकारान्तरम् । यैरित्युद्भटादिभिः । यत्र त्वित्यादेर्ग्रन्यस्य पूर्वमेवास्माभिरभिप्राय उक्तः । सेत्युक्तप्रपञ्चा । सामान्यस्येत्यङ्गनाशब्दस्य स्त्रीत्वमात्राभिधानात् । श्लेषवशादिति । पयोधराणां हि त्वम् । लिङ्गविशेषेति । रविसंध्ययोः पुंस्त्रीरूपेण कार्ये भजनाख्यम् । एवमन्यालंकारसंमिश्रत्वमप्यस्या दर्शयति—आकृष्टीत्यादि309ना । सेत्युत्प्रेक्षा । एकः काल इति । ज्ञप्तौ समासोक्ति-

मन्थव्यथाव्युपशमार्थमिवाशु यस्य
मन्दाकिनी चिरमवेष्टत पादमूले ॥’

अत्र निर्मोकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले310 वेष्टनं तच्चरणमूले311 वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसीयते । तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्यु-त्प्रेक्षामुत्थापयति सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नी312व्यवहाराश्रयां समासोक्तिं गर्भीकरोति । एवं चोत्प्रेक्षासमासोक्त्योरेकः कालः । एवं ‘नखक्षतानीव वनस्थलीनाम्’ इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव । एवमियं समासाक्तिरनन्तप्रपञ्चेत्यनया दिशा स्वयमुत्प्रेक्ष्या ।

विशेषणसाभिप्रायत्वं परिकरः ।

विशेषणवैचित्र्यप्रस्तावादस्येह निर्देशः । विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः । एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम ।

यथा—

‘राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः
प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च ।

                           *   
    *

गर्भीकारेणैवोत्प्रेक्षाया उत्थानात् । एवमिति । यथोक्तगत्येत्यर्थः । विशेषणेत्यादि । इहेति समासोत्तयनन्तरम् । विशेषणानां चात्र बहुत्वमेव विवक्षितम् । अन्यथा ह्यपुष्टार्थस्य दोषत्वाभि-धानात्तन्निराकरणेन313 स्वीकृतस्य पुष्टार्थस्यायं विषयः314 स्यात् । एवमेवंविधानेकविशेषणोपन्यासद्वारेण वैचित्र्यातिशयः संभवतीत्यस्या104लंकारत्वम् । प्रतीयमानार्थस्य वाच्योन्मुखत्वेन प्राधान्याभावाद्गमकारस्त-दन्तः कृतत्वम् । अत एवेति प्रतीयमानार्थस्य प्राधान्याभावात् । प्रसन्नत्वं वाच्यस्यैव प्राधान्येन निर्देशात् । गम्भीरत्वं प्रतीयमानस्याप्यर्थस्य गुणीभावेन गर्भीकारात् । यत्र च प्रतीयमानं315 प्रत्युपसर्जनीकृतस्वार्थयोः शब्दार्थयोरवस्थानं स ध्वनेर्विषय इति (ध्वनिविदः316 । यदाहुः— ‘तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यप्रतिष्ठितौ । ध्वनेः स एव विषयः’ इति । अत्र च न तथात्वमित्युक्तं नायं ध्वनेर्विषय इति ।) अत एव नामाप्यस्य यौगिकमित्याह—एवं चेत्यादि । सोत्प्राशपरत्वमिति317 तथा च राज्ञो318 जग

पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः
कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥’

अत्र राज्ञ इत्यादौ सोत्प्राशपरत्वं319 प्रसन्नगम्भीरपदत्वम् । एवम् ‘अङ्गराज सेनापते राजवल्लभ द्रोणोपहासिन्कर्ण, सांप्रतं रक्षैनं भीमाहुःशासनम्’ इत्यादौ ज्ञेयम् ।

विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः ।

केवल विशेषणसाम्यं समासोक्तावुक्तं विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते । तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्राकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः । तत्राद्यं प्रकारद्वयं विशेषणविशेष्यसाम्य एव भवति । तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति । विशेप्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्तरगत320ध्वनेविषयःस्यात् ।

_____________

द्रक्षितव्यमस्य पुनरनुजमात्ररक्षणासिद्धेरन्यदेव नाममात्रेण राजत्वमित्युपहासपरत्वम् । एवमन्येषामपि स्वयमेवैतदवगन्तव्यम् । आदिशब्देन ‘यस्यैकस्यैव दोष्णां जयति दशशती सान्वयो द्वारि रुद्रः कारागारे सुराणां पतिरपि च शची चामरव्यग्रहस्ता । कन्या तस्येयमेका रजनिचरपतेरेष शुद्धान्तमेको बालो निःशङ्कमस्याः प्रविशति च नमस्तेजसे वैष्णवाय ॥’ इत्यादावपि विशेषणानां प्रसन्नगम्भीरत्वं ज्ञेयम् । विशेष(ष्य)स्थापीत्यादि । इदमिति श्लेषलक्षणम् । आद्यमिति । प्राकरणिकगतत्वेनाप्राकरणिक-गतत्वेन च । एवकारश्चात्र भिन्नक्रमो द्रष्टव्यः321 । तेन प्रकारद्वयमेवेति व्याख्येयम् । अतश्च तृतीयः प्रकारो विशेषणसाम्य एव भवतीति व्यवच्छेदफलम् । अन्यथा हि प्रकारद्वयस्यास्य विशेष्य322साम्याभावेऽपि दर्शनादव्याप्तिः स्यात् । तद्यथा ‘संचारपूतानि दिगन्तराणि’ इत्यादि । अत्र प्रभाधेन्वोर्द्वयोः प्रकृतयोर्विशेष्ययोः साम्याभावः । ‘आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः । उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा योधा वारवधू323स्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनः ॥’ अत्र स्तनयोधयोरप्रकृतयोर्विशेष्ययोः साम्याभावः । विशेषणसाम्य एवेति न पुनर्विशेष्यसाम्ये । एतदपि विशेष्यसाम्ये किं न भवतीत्याशङ्क्याह—**विशेष्यसाम्ये त्वित्यादि ।**यथा— ‘लङ्कालआण पुत्तअ वसन्तमासम्मि लद्धपसराणम् । आपीअलोहिआणं वीहेइ जणो पलासाणम् ॥’ अत्र पलाशानामिति विशेष्यस्यापि श्लिष्टत्वम् । प्रकरणवशाच्च वृक्षविशेषणामेव वाच्यत्वनियमात्प्र-स्तुतत्वेन निशाचराणामप्रस्तुतानां व्यङ्ग्यत्वम् । अत्र चोपमाया एव व्यङ्ग्यत्वं युक्तं नातिशयोक्तरिति प्रकृतानुपयोगादिह नोक्तम् । ननु च

आद्ये तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वम् । अत एवाह— ‘द्वयोर्वोपादाने’ इति तृतीयप्रकार-विषयत्वेनो324क्तम् । ‘विशेष्यस्यापि साम्ये’ इति तु शिष्ट325प्रकारद्वयविषयम् । क्रमेण यथा—

‘येन ध्वस्तमनोभवेन बलिजित्कायःपुरास्त्रीकृतो
यश्चोद्वृत्तभुजंगहारवलयो गङ्गां च योऽधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥’

‘नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः ।
सदृशे वनवृद्धानां कमलानां तदीक्षणे ॥’

‘स्वेच्छोपजातविषयोऽपि न याति वक्तुं
देहीति मार्गणशतैश्च ददाति दुःखम् ।
मोहात्समाक्षिपति जीवनमप्यकाण्डे
कष्टं मनोभव इवेश्वरदुर्विदग्धः ॥’

अत्र हरिहरयोर्द्वयोरपि प्राकरणिकत्वम् \। पद्मानां मृगाणां चोपमानत्वादप्राकरणिकत्वम्326 । ईश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वम् । एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात्रिविधः । तत्रोदात्तादिस्वरभेदात्प्रयत्नभेदाच्च शब्दान्यत्वे शब्दश्लेषः । यत्र प्रायेण पदभङ्गो भवति । अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वम् । संकलनया तूभयश्लेषः । यथा—

________________

येथैवायं327 ध्वनेर्विषयस्तथैवाद्यमपि भेदद्वयं किं न भवतीत्याशङ्क्याह—आद्य इत्यादि ।वाच्यत्वमिति । अत एव न ध्वनेर्विषयः । तस्य वाच्यातिरिक्तस्वरूपत्वात् । तृतीयप्रकारविषयत्वेनेति प्राधान्यादुक्तम् । आद्यस्यापि प्रकारद्वयस्य द्वयोरुपादानसंभवात् । एष इति त्रिविधोऽपि श्लेषः । तत्रेति त्रयनिर्धारणे । यत्रेति शब्दश्लेषे । अत एवेति स्वरादिभेदाभावात् । संकलनयेति संसभङ्गासभङ्गपदसंमेलनया328 । पृथगिति भेदेन । तत्र शब्दश्लेषो यथा— ‘ते गच्छन्ति महापदं भुवि पराभूतिः समुत्पद्यते329 तेषां तैः समलंकृतं निजकुलं तैरेव330 लव्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिताः प्रत्यहं ये

‘रक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः ।
निरस्य पुष्पेषु रुचि समग्रां पद्मा विरेजुः श्रमणा यथैव ॥”

अत्र रक्तच्छदत्वमित्यादा331वर्थश्लेषः । नालमित्यादौ शब्द श्लेषः । (उभय332घटनायामुभयश्लेषः ।) ग्रन्थगौरवभयात्तु पृथङ्गोदाहृतम् ।

एष333334 नाप्राप्तेष्वलंकारान्तरेष्वारभ्यमाणस्तद्बाधकत्वेन335 तत्प्रतिभोत्पत्तिहेतुरिति केचित् । ‘येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतः’ इत्यादौ विविक्तोऽस्य विषय इति336 निरवकाशत्वाभावान्नान्यबाधकत्वमित्यन्यैः सह संकरः । दुर्बलत्वा337भावान्नान्यबाधकत्व(ध्यत्व)-मित्यन्ये । तत्र पूर्वेषामयमभिप्रायः । इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोचर

_________________

दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥’ अत्र पदानां सभङ्गत्वं स्पष्टम् । अर्थश्लेषो यथा— ‘इच्छन्तौ चिबुकाग्रचुम्बनमथो शैथिल्यशङ्कोज्झितौ नैबिड्येन परस्परस्य न मनाक्केनापि लव्धान्तरौ । धन्यौ तौ तरुणीस्तनाविव न यौ स्वप्नेऽपि विश्लिष्यतो विश्लेषं विषमं विषह्य भवतो नाधोमुखौ जातु वा ॥’ अत्र पदानामसभङ्गत्वं स्पष्टम् । संकलनया तु ग्रन्थकृतैवोदाहृतम् । तदेवंरूपस्यास्य ‘निरवकाशा हि विधयः सावकाशान्विधीन्बाधन्ते’ इति नीत्या निरवकाशत्वात्सर्वालंकारापवादकत्वं केचिदा हुरित्याह— एष चेत्यादि । केचिदित्युद्भटादयः । केचित्पुनर्विषयवैविक्त्यस्य संभवान्निरवकाशत्वाभावान्नास्य सर्वालंका-रापवादकत्वमभ्युपयन्तीत्याह—येनेत्यादि । अन्या इति मादृशाः । विविक्तोऽस्य विषय इति तुल्ययोगिताया अत्राभावात्। सा हि द्वयोरपि प्रकृतयोरप्रकृतयोर्वा विशेष्ययोः पृथगुपादाने औपम्यस्य च गम्यत्वे भवति । इह तु तदभावः । विशेष्ययोः पृथगनुपादानात् औपम्यस्य च गम्यत्वाभावात् । नह्यत्रोमाधवस्य माधवेन तेन वा तस्य सादृश्यं विवक्षितम् । एकेनैव शब्देन श्लिष्टतयार्थद्वयस्य प्रतिपिपादविषितत्वात् । अत्र हि परस्परनैरपेक्ष्यात्तयोरुमाधववाक्यार्थपरामर्शवेलायां माधववाक्यार्थ-परामर्शमात्रमपि नास्तीति को नामौपम्यस्यावसरः । तस्मादेवमादावलंकारान्तरविविक्तविषयत्वा-च्छ्लिष्टतायाश्चोद्धुरकंधरीभावेन प्रतीतेर्न निरवकाशः श्लेषः । अन्यैः सह संकर इति द्वयोरपि तुल्यकक्षताप्रतीतेः । **बाध्यत्वमिति ।**श्लेषस्य दुर्बलत्वा338दलंकारान्तराणां च बलवत्त्वात् । एतच्च ग्रन्थकृदेवाग्रे दर्शयिष्यतीति नेहायस्तम् । तदेवमस्य सर्वालंकारापवादकत्वं न युक्तम् । अन्यालंकारवदेव बाध्यबाधकभावादिदर्शनात् । एतच्चालंकारसारकृता सप्रपञ्चमुक्तमितीह ग्रन्थविस्तरभया-

त्वेन तावत्प्रतिष्ठितो339ऽयमलंकारः । तत्राद्यं प्रकारद्वयं तुल्ययोगिताया विषयः340 । तृतीये तु प्रकारे दीपकं भवतीति तावदलंकारद्वयमिदं श्लेषविषये व्याप्त्या व्यवतिष्ठते । तत्पृष्ठे चालंकारान्त-राणामुत्थापन341मिति नास्ति विविक्तोऽस्य विषयः । अत एवालंकारान्तराणां बाधितत्वात्प्रति-भानमात्रेणावस्थानम् । ‘येन ध्वस्तमनोभवेन’ इत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययोगितायाः प्रतिभानम्342 । अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तेः । ‘रक्तच्छदत्वं’ इत्यादावर्थद्वयाश्रितत्वादयमर्थालंकारः । ‘नालं’ इत्यादौ तु शब्दद्वयाश्रितत्वाच्छ-ब्दालंकारोऽयम् । यद्यप्यर्थभेदाच्छब्दभेद इति दर्शने ‘रक्तच्छदत्वं’ इत्यादावपि शब्दाश्रितोऽयं तथाप्यौपपत्तिकत्वादत्र शब्दभेदस्य प्रतीते343रेकतावसायान्नास्ति शब्दभेदः । ‘नालं’ इत्यादौ तु प्रयत्नादिभेदात्प्रा344तीतिक एव शब्दभेदः । अतश्च पूर्वत्रैकवृन्तगतफलद्वयन्यायेनार्थद्वयस्य शब्दश्लिष्टत्वम् । अपरत्र जतुकाष्ठन्यायेन स्वयमेव श्लिष्टत्वम् । पूर्वत्रान्वयव्यतिरेकाभ्यां शब्दहेतुकत्वाच्छब्दालंकारत्वमिति चेत्,

___________________

त्तथा नोक्तम् । पूर्वेषामित्युद्भटादीनाम् । अविप्रतिपत्तिद्योतकस्तावच्छन्दः । **व्याप्त्येति ।**सर्वलक्ष्यव्याप-कत्वेन सर्वत्रैवास्य त्रिरूपत्वात् । तत्पृष्ठ इति तुल्ययोगितादीपकोपरि । अलंकारान्तराणामित्युपमा-दीनाम् । उत्थापनमिति345 तुल्ययोगितादीपकाभ्यामपि तत्प्रतीतेरुद्रेकात् । अत एवेति । तस्य विविक्तविषयत्वासंभवात् । प्रतिमानमित्याभासमात्रम् । न पुनस्तत्रैव विश्रान्तिरित्यर्थः । एतच्च यथा नोपपद्यते तथा समनन्तरमेवोक्तम् । अस्य च शब्दार्थाश्रितत्वादुभयालंकारतां दर्शयति— अलंकार्येत्यादिना । ननु च यावन्त एवमर्थाः स्युः शब्दास्तावन्त एव हि’ इत्याद्युत्तयारक्तच्छदत्व-मित्यादावपि शब्दद्वयाश्रयाच्छब्दालंकार एवायं तत्कथमन्यथोक्तमित्याशङ्कयाह—यद्यपीत्यादि । एकतावसायादिति । रक्तच्छदत्वादेः प्रयत्नादिभेदं विना सादृश्येनार्थद्वयाभिधानात् ।अतश्चेति । अर्थद्वयस्य शब्दद्वयस्य च श्लिष्टत्वात् । पूर्वत्रेति । रक्तच्छदत्वमित्यादौ शब्दस्य वृन्तस्थानीयत्वात् । अपरत्रेति नालमित्यादौ । जतुकाष्ठन्यायेनेति परस्परं संवलितत्वात् । पूर्वत्रेति रक्तच्छदत्वमित्यादौ । अन्वयव्यतिरेकाभ्यामिति । रक्तच्छदत्वमित्येव346 शब्दे स्थिते श्लेषः शब्दपरिवर्तने तु कृते न श्लेष इत्यत्रापि शब्दहेतुकत्वात्तद

न । आश्रयाश्रयिभावेनालंकारत्वस्य लोकवव्यवस्थानात् । एवं च ‘सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव’ इत्यादौ न गुणक्रियासाम्यवच्छब्दसाम्यमुपमाप्रयोजकमपि तूपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसेयः । श्लेषगर्भे तु रूपके रूपकहेतुकस्य श्लेषस्य तृतीयकक्षायां रूपक एव विश्रान्तिरिति रूपकेण श्लेषो बाध्यते । श्लिष्टविशेषणनिबन्धनायां च समासोक्तौ विशेष्यस्यापि गम्यत्वाच्छ्रेषस्य बाधिका समासोक्तिः । इह तु347

‘त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवस्वान् ।
मन्येऽस्त शैलात्पतितोऽत एव विवेश शुद्ध्यै वडवाग्निमध्यम् ॥’

अत्र348 श्लोके विवस्वतो वस्तुवृत्तसंभवि अधःप्रदेशसंयोगलक्षणं यत्पतितत्वं यच्च वडवाग्निमध्यप्रवेशस्ते द्वे अपि त्रयीमयत्वसंबन्धिवारुणीगमनरूपविरुद्धाचरणहेतुकाभ्यां पतितत्वाग्निप्रवेशाभ्यामतिशयोक्त्या श्लेषमूलया349 अभेदेनाध्यवसिते । सोऽयमतक्रियायोगः । तद्धेतुका च मन्ये

________________

लंकारत्वमेवेत्यर्थः । आश्रयाश्रयिभावेनेति । न पुनरन्वयव्यतिरेकाभ्याम् । ताभ्यां हि यस्य यद्धेतुकत्वं तस्य तत्कार्यत्वं स्यान्न पुनस्तदलंकारत्वम् । लोकवदिति । लोके हि यथा कर्णाश्रितः कुण्डलादिः कर्णालंकार350 उच्यते न पुनः सुवर्णकारणहेतुकत्वात्तदलंकारः । तदेवं स्वमतोपोद्वलनाय पूर्वमस्यान्यैः सह संकरो दुर्बलत्वाद्वा (भावान्नान्य) बाध्यत्वमिति यदुक्तं तदेव प्रपञ्चयितुमेतत्केर्तृकं351 तावदन्यालंका-रबाध्यत्वं दर्शयति—श्लेषेत्यादिना । तृतीयकक्षायामिति । प्रथमकक्षायां हि रूपकप्रतीतिरेव । द्वितीयकक्षायां तु श्लेषप्रतीतिः । श्लेषस्य सर्वालंकारापवादत्वमिच्छद्भिरप्यौद्भदैर्यदन्यालंकारबाध्य-त्वमेतस्योक्तं तत्सर्वजन352विरुद्धप्रायमेतेषामिति ध्वनयितुं तदुक्तमेव रूपकसमासोक्तिबाध्यत्वमेतस्य ग्रन्थकृतेह दर्शितम् । बाध्यत इति विद्वन्मानसहंसेत्यादौ । बाधिकेति उपोढरागेणेत्यादौ । एवं श्लेषस्यान्यालंकाराणां च परस्परं बाध्यबाधकभावं प्रकाश्यान्यैः सहास्य संकीर्णत्वं दर्शयति—इह त्वित्यादिना । वडवाग्निमध्यप्रवेशेऽपि वस्तुवृत्तसंभवीति विशेषणं लिङ्गविपरिणामाद्योज्यम् । ते द्वे इति वडवाग्निमध्यप्रवेशपतितत्वे । पतितत्वाग्निप्रवेशाभ्यामिति ब्राह्मण्यपरिच्यावप्रायश्चित्तात्मकाभ्याम् । सोऽयमिति । यत्पतितत्वाग्निप्रवेशयोर्वस्तुतोऽन्यथास्थित353योरप्यन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसायः । तद्धेतुकेति तच्छब्देन

अत एव विशुध्द्यै इत्युप्रेक्षा (क्षया) अत्रात एवेति परामृष्टो विरोधालंकारालंकृतोऽर्थो हेतुत्वेनो354त्प्रेक्ष्यते । विशुध्द्यै इति च फलत्वेन । ततश्च हेतुफलयोर्द्वयोरप्यत्रोत्प्रेक्षा । विरोधालंकारस्य च355 विरोधाभासत्वं लक्षणम् । अतो विरोधाभासनसमय एव हेतुफलोत्प्रेक्षयोरुत्थानम्356 । उत्तरकालं तु

____________________

तक्रियायोगपरामर्शः। फलत्वेनेति उत्प्रेक्ष्यत इत्यत्रापि संबन्धः । ततश्चेति357 हेतुफलयोर्द्वयोरुत्प्रेक्ष्य-माणत्वात् । ननु विरोधालंकारस्य विरोध एव रूपं358 तस्य दुष्टत्वात्कृते च समाधाने विरोध एव नास्तीति विरोधालंकृतोऽर्थः359 कथमत्रोत्प्रेक्षायां हेतुत्वं भजत इत्याशङ्कयाह—विरोधेत्यादि । यद्वक्ष्यति— ‘विरोधाभासत्वं विरोधः’ इति । अत एव च विरोधस्याभासमात्रसारत्वाद्यथावभासं विश्रान्त्यभावान्न प्ररोहो नापि बाधोत्पत्तावपि360 पैत्तिकज्वलत्स्तम्भतैमिरिकचन्द्रद्वयावभासवदस्ति प्रत्यय इति नात्र पूर्वे विरोधबोधः361पश्चाद्विरोधधीरिति वाक्यस्थावस्थाद्वयम् । ननु बाध्यनिषेधपरो नैतदेवमिति प्रत्ययरूपो बाधो बाध्ये362 च तथैव प्रतीयते किं तेन कृतं स्यादिति चेत्, स्खलद्गतित्वमिति ब्रूमः । तथाहि शुक्तिकारजतमरीचिकासलिलादिविभ्रान्तिष्विव नात्र प्रथमप्रवृत्तविरुद्धप्रतिभासस्वभावबाध्यविज्ञान-समुत्पुंसनेन बाधकत्वमुदेति । बाधोदयेऽपि पैत्तिकज्वलत्स्तम्भतैमिरिकचन्द्रद्वयावभासवद्विरुद्ध-प्रतिभासानिवृत्तेः363 । केवलमत्र तद्वशादेवानुपपद्यमानताकारास्खलद्गतितैवावगम्यते । स्खलद्गतित्वे च प्रतिपत्तृव्यवहारं प्रति निमित्तत्वानुपपत्तिः । न हि पैत्तिकः स्वपित्तविकाराज्ज्वलत्स्तम्भदर्शनं मन्यमानस्तत्र दाहपाकाद्यर्थितया प्रवर्तते । तिमिरदोषं वा जानानस्तैमिरिकोऽपि बहिश्चन्द्रद्वयास्तित्व-व्यवहारं विधत्ते । एवं बाधोत्पत्तेरनुपपद्यमानत्वात्स्खलद्गतित्वेन प्रतीयमानोऽपि विरोधो न प्रतिपत्रपेक्षोत्प्रेक्षणलक्षणव्यवहारनिमित्तभावमुपगन्तुमुत्सहते । यतोऽनुपपद्यमानत्वेन स्खलद्गतित्वमुप-पद्यमानत्वेन च व्यवहारनिमित्तत्वमिति परस्परविरुद्धत्वादनुभवविरोधाच्च तयोः कथमेकत्र समावेशो घटते । अतश्चानेनैवाभिप्रायेणाह—अत इत्यादि । विरोधाभासनसमय एवेति । न तु बाधकोदयसमय इत्यर्थः। बाधोदयानन्तरं विरोधस्योत्प्रेक्षाहेतुत्वं न युज्यते इत्युपपादितं स्थितं चोत्प्रेक्षा हेतुत्वं विरोधस्येति बाधोदयात्प्रागेवान्यथानुपपत्त्या निश्चीयते । बाधस्य च स्वारसिकत्ववस्तुवृत्तेः पर्यालोचनालभ्यत्वेन द्विविधस्यापि सर्वत्रोत्तरकालमेवोल्लासः संभवति । तस्य च बाध्यनिष्ठत्वाद्वाध्यस्य च पूर्वकालभवित्वात्364 । अ-

विरोधसमाधिः365 । श्लेषस्य च सर्वालंकारापवादत्वाद्विरोधप्रतिभोत्पत्तिहेतुरयं श्लेषः । यत्र तु प्रस्तुताभिधेयपरत्वेऽपि वाक्यस्य श्लिष्टपदमहिम्रा वक्ष्यमाणार्थनिष्ठमुपक्षेपापरा366भिधानं सूचकत्वं तत्र किं श्लेष उतशब्दशक्तिमूलध्वनिरिति विचार्यते— तत्र न तावच्छ्रेषः । अर्थद्वयस्यान्वितत्वेनाभिधेयतया वक्तुमनिष्टेः । नापि ध्वनिः । उपक्षेप्यस्यार्थस्यासंबद्धत्वा-भावात्तेन सहोपमानोपमेयत्वस्याविवक्षणात् । न चान्या गतिरस्ति तदत्र367 किं कर्तव्यम् । उच्यते—श्लेषस्योक्तनयेनाप्रवृत्ते368र्ध्वरेवायं विषय इति निश्चयः । तथाहि शब्दशक्तिमूले ध्वनावर्थान्तर-स्यासंबद्धत्वात्संबन्धार्थ369मौपम्यं कल्प्यते स च संबन्धः प्रकारान्तरेणौपम्यपरिहारेण यद्यप्युपपादयितुं शक्यः स्यात् तत्कोऽयमभिनिवेशस्तत्र । उपमाध्वनौ वस्तुध्वनिरपि संबन्धान्तरेण तत्र समीचीनः स्यात् । अत एव

_______________

न्यथा हि निर्विषयो बाधःस्यात् । अतश्चोत्तरकालं तु विरोधसमाधिरिति भणितेरर्थमजानानेनायमर्थो-ऽन्वेषणीयः । यदि हि बाधः प्रागप्युत्प्रेक्षायाः स्वाधिकार370वशेन स्वरसत एवोल्लसेत्तदुक्तनीत्या उत्प्रेक्षोत्थानमेव न स्यादित्यबाधित एव विरोध उत्प्रेक्षाया निमित्तमित्युक्तमुत्तरकालं विरोधसमाधिरिति । स च समाधिरत्र दिगाद्यर्थाधिगमादवबुध्यत इति विरोधस्य श्लेषोऽङ्गम् । तद्वशादेवास्योत्थानात् । तथा चात्रानयोः संकीर्णत्वमात्रमेव न पुनः संकरालंकारः । स तु यथा— ‘सज्जातपत्र371प्रकराञ्चितानि []371 समुद्वहन्ति स्फुटपाटलत्वम् । विकस्वराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुः ॥’ अत्र श्लेपतुल्ययोगितयोरेकवाचकानुप्रवेशेन संकरः । प्राच्यानां मते पुनरेतत्प्रतिभोत्पत्तिहेतुः श्लेषोऽय-मित्याह— श्लेषस्येत्यादि । तेनाद्यः पक्षः स्वाभिप्रायेण ग्रन्थकृतोक्तः । यद्वक्ष्यत्येतच्छ्रोकविचार एव संकरालंकारे । अत्र प्रथमेऽर्धे विरोधप्रतिभोत्पत्तिहेतुः श्लेषः । दर्शनान्तरे तु विरोधश्लेषौ द्वावलंकाराविति । तदेवं स्वमताभिप्रायेणास्यालंकारान्तरवदन्यालंकारैः सह बाध्यबाधकभावं संकीर्णत्वं च प्रकाश्य शब्दशक्तयुद्भवाद्ध्वानेर्विशेषंप्रतिपादयति—यत्र त्वित्यादिना । असंबद्धत्वाभावादिति उपक्षेप्यस्यार्थस्य वर्णनीयत्वात् । अन्येति श्लेषध्वनिव्यतिरिक्ता । उक्तनये नेति अर्थद्वयस्यान्वितत्वेना-भिधेयतया वक्तुमनिष्टेरित्यनेन । संबन्धार्थमिति संगत्यर्थम् । यथा— अतन्द्रचन्द्राभरणा समुद्दीपितम-न्मथा । तारकातरला श्यामा सानन्दं न करोति कम् ॥’ अत्र प्रकृताप्रकृतयोरसं

‘अलंकारोऽथ वस्त्वेव शब्दाद्यत्रावभासते ।
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥’

इति न्यायभव372नबन्धेन द्विधा शब्दशक्त्युद्भव उक्तः । एवं प्रकृतेऽपि यत्र सूचनाव्यापारोऽस्ति तत्र शब्दशक्तिमूलो वस्तुध्वनिर्बोद्धव्यः । यथा—

‘सद्यः कौशिकदिग्विजृम्भणवशादाकाशराष्ट्रं रसा
त्त्यक्त्वाधूसरकान्तिवल्कलधरो राजास्तशैलं ययौ ।
तत्कान्ताप्यथ सान्त्वयन्त्यलिकुलध्वानैः समुल्लासिभिः
क्रन्दन्तं कुमुदाकरं सुतमिव क्षिप्रं प्रतस्थे निशा ॥’ इति ।

हरिश्चन्द्रचरितेऽत्र प्रभातवर्णनानुगुण्येन राजशब्दाभिधेयेऽस्तमुपेयुषि चन्द्रे रोहिताश्वाख्यत-नयसहितया उशीनर्या वध्वा युक्तस्य हरिश्चन्द्रस्य राज्ञो विश्वामित्रसंपादितोपद्रववशा373त्प्रातः स्वराष्ट्रं त्यक्त्वा वाराणसीं प्रति गमनं374 सूचितं स्यात् । तथा च कौशिकशब्दः प्रकृते इन्द्रोलूयोर्वर्तते । सूचनीयार्थविषयत्वेन तु विश्वामित्रवृत्तिः । वल्कलसुताभ्यां त्वौपम्यं सूच-

________________

बद्धार्थत्वं मा प्रसाङ्क्षीदिति नायिकाशशिनोरौपम्यं कल्पनीयम् । संबन्धान्तरेणेति यत्र यादृशेन विवक्षितेन । तत्रेति शब्दशक्तिमूले ध्वनौ । अत एवेति । औपम्यं विनापि प्रकृताप्रकृतयोः प्रकारान्तरेण संबन्धस्योपपादयितुं शक्यत्वात् । उक्त इति काव्यप्रकाशकृता । चन्द्र इति वर्ण्यमान इति शेषः । सूचितमिति शब्दशक्त्या । तामेव विभज्य दर्शयति—तथा चेत्यादिना । अतश्चेति । इत्येव शब्दशक्तेर्भावात् । अत्र च यद्यपि सुतादिरूपार्थशक्तिरप्यस्तीति वस्तुध्वनेरुभयशक्तिमूलत्वमेव तथापि शब्दशक्तिरत्र स्फुटा स्थितेति तन्मूलत्वमेव ग्रन्थकृतास्योक्तम् । शुद्धस्तु शब्दशक्तिमूलो वस्तुध्वनिर्यथा—‘न महानयं न च बिभर्ति गुणसमतया प्रधानताम् । स्वस्य कथयति चिराय पृथग्जनतां जगत्यनभिमानतां दधत् ॥’ अत्र केवलयैव शब्दशक्त्या सांख्यपुरुषरूपं वस्त्वभिव्यक्तम् । यत्तु काव्यप्रकाशसंकेते ग्रन्थकृता वस्तुध्वनेः शब्दशक्तिमूलत्वं चिन्त्यमुक्तं तदुदाहरणाभिप्रायेणैवोन्नेयम् । तत्र हि ‘पन्थिअ ण इत्थ सत्थरं’ इत्याद्युदाहरणमुभयशक्तिमूलं शब्दशक्तिमूलस्य वस्तुध्वनेः श्रीमम्मटेनोपात्तम् । इह तु यथासंभवमेव विचारितम् । एवं स्वमतेन श्लेषस्य यथोपपत्ति स्वरूपं प्रति

  •                       *  
    

१. ‘शब्दशक्तिमूलत्वमस्य ग्रन्थकृतान्यानुमतानुरोधादुक्तम्’ क.

नीयार्थनैरपेक्ष्येण सादृश्यसंभवमात्रेण संभवनीयम्375 । अतश्च प्रकृतेन376 सूचनीयस्य संबन्धाच्छब्दशक्तिमूलो वस्तुध्वनिरयम् । इह च

‘आकृष्यादावमन्दग्रहमलकचयं वक्रमासज्य वक्रे
कण्ठे लग्नः सुकण्ठः प्रभवति कुचयोर्दत्तगाढाङ्गसङ्गः ।
बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक्प्रियो मे
वाले लज्जा निरस्ता नहि नहि सरले चोलकः किं त्रपाकृत् ॥’

इत्यलंकारान्तरविविक्तोऽयं श्लेषस्य विषय इति नाशङ्कनीयम् । अपह्नुतेरत्र विद्यमानत्वात् । वस्तुतोऽपह्नवस्य सादृश्यार्थमंत्र377प्रवृत्तेर्नायमपह्नुत्यलंकार इति चेत्, न । उभयथाप्यपह्नुति-संभवात् । सादृश्यपर्यवसायिना वापह्नवेनापह्नवपर्यवसायिना वा सादृश्येन भूतार्थापह्नवस्यो-भयत्र विद्यमानत्वात् ।

‘सादृश्यव्यक्तये यत्रापह्नवोऽसावपह्नुतिः ।
अपह्नवाय सादृश्यं यत्राप्येषाप्यपह्नुतिः ॥’

इति संक्षेपः । आद्या स्वप्रस्ताव एवोदाहृता, द्वितीया तु संप्रति दर्शिता । तेनालंकारान्तरविविक्तो नास्य विषयोऽस्तीति सर्वालंकारापवादोऽयमिति स्थितम् ।

प्रस्तुतादप्रस्तुतप्रतीतौ378 समासोक्तिरुक्ता अधुना तद्वैपरीत्येनाप्रस्तुतात्प्रस्तुतप्रतीताव प्रस्तुतप्रशंसोच्यते—

__________________

पाद्यापि प्राच्यानुरोधात्पुनरपि तदीयमेव मतं दर्शवितुमाह—इह चेत्यादि । भूतार्थो वास्तवः संक्षेप इति प्रमेयसंचयात् । आद्येत्यादि सादृश्यपर्यवसायापह्नवस्वरूपा । स्वप्रस्ताव इत्यपह्नुतिलक्षणे । उदाहृतेति पूर्णेन्दोरित्यादिना । द्वितीयेति अपह्नुतिपर्यवसायिसादृश्यरूपा । प्रदर्शितेति आकृष्यादावि-त्यादिना । अत्र च ग्रन्थकृता श्लेषः सर्वालंकारापवादक इति न केवलं प्राच्यमतानुसारमुक्तम् यावदपह्नवपर्यवसायिसादृश्यरूपोऽपह्नुतिभेदोऽपि तन्मतानुसारमेवोक्तः । यद्वक्ष्यति— व्याजोक्तौ चत्वारः प्रकारा विद्यन्त इत्युपक्रम्योद्भटसिद्धान्ताश्रयेण तत्तत्रोक्तमिति । अतश्चात्र ग्रन्थकृन्मते वक्ष्यमाणसादृश्या श्लेषमूला व्याजोक्तिः । तस्या एव वाक्यार्थीभूतत्वेन विश्रान्तेः । उक्तेति समनन्तरम् । यत्तु समासोक्तयनन्तरं परिकरश्लेषयोर्वचनं तद्विशेषणसाम्यादिना प्रसङ्गागतम् । तामेवाह—अप्रस्तुतादित्यादि । नन्विहाप्रस्तुतस्य वर्णनमेवायुक्तमिति कथं तस्मादपि

अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीताव-प्रस्तुतप्रशंसा ।

इह प्रस्तुतस्य वर्णनमेवायुक्तमप्रस्तुतत्वात् । प्रस्तुतपरत्वे तु कदाचित्तद्युक्तं स्यात् । न चाप्रस्तुतादसंबन्धे प्रस्तुतप्रतीतिः अति379प्रसङ्गात् । संबन्धे तु भवन्ती380 न त्रिविधं संबन्धमतिवर्तते । तस्यैवार्थान्तरप्रतीतिहेतुत्वोपपत्तेः । त्रिविधश्च संबन्धः—सामान्यविशेषभावः कार्यकारणभावः सारूप्यं चेति । सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामान्यस्य प्रतितौ द्वैविध्यम्381 । कार्यकारणभावेऽप्यनयैव भङ्गया द्विधात्वम् । सारूप्ये त्वेको भेद इत्यस्याः पञ्च प्रकाराः तत्रापि सारूप्यहेतुके भेदे साधर्म्यवैधर्म्याभ्यां द्वैविध्यम् । वाच्यस्य संभवासंभवोभयरूपताभिस्त्रयः प्रकाराः । श्लिष्टशब्दप्रयोगे त्वर्थान्तरस्यावाच्यत्वाच्छेषाद्विशेषः । श्लेषेह्यनेकस्यार्थस्य वाच्यत्वमित्युक्तं तत्र सामान्याद्विशेषस्य प्रतीतौ यथा—

‘ता382तत्थि किम्पि वइणो कम्पिअजणणित्ति अइगईणीव ।
अणवरदगमणमीलसकालअवरिअस्स पाहिज्जम् ॥’

_______________

प्रस्तुतस्य प्रतीतिर्भवतीत्याशङ्कयाह— इहेत्यादि । तदित्यप्रस्तुतवर्णनम् । अतिप्रसङ्गादिति सर्वस्मा-त्सर्वप्रतिपत्त्यात्मनः । तस्यैवेति त्रिविधस्य संबन्धस्य । सामान्यस्य विशेषाश्रयत्वाद्विशेषस्य च सामान्य-निष्ठत्वात्सामान्यविशेषयोः परस्परमागूरणे संबन्धः । एवं च कार्यस्य कारणपरतन्त्रत्वादन्त्यावस्थस्य383 कारणस्य कार्योन्मुखत्वात्कार्यकारणयोरपि संबन्धः । इत्थमेतत्संबन्धद्वयं वास्तवम् । सारूप्यं पुनः प्रातीतिकमेव । प्रतीतावेव सदृशेन वस्त्वन्तरेण सदृशस्य वस्त्वन्तरस्य प्रतीतिसिद्धेः । वस्तुत्वे हि वस्त्वन्तरप्रतीत्या वस्त्वन्तरप्रतीतिर्न स्यात् । अनयैव भङ्गयेति कारणात्कार्यस्य कार्याद्वा कारणस्य प्रतीतौ । तत्रापीति सत्यपि पञ्चप्रकारत्वे । श्लिष्टशब्दप्रयोग इति । श्लिष्टशब्दनिबन्धनाप्य-प्रस्तुतप्रशंसा भवतीत्यनुवादाविधिः । अत एवास्य बहुप्रकारत्वमुक्तम् । प्रस्तुत इति । प्रहस्तवधवर्णन-स्यैव प्रक्रान्तत्वात् । अत्र वाक्यान्तरोपात्ते विशेषात्मनि प्रस्तुते प्रहस्तवधे नियतिकर्मलक्षणं सामान्याभिधानमर्थान्तरन्यास इत्यन्ये मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते । यथा— ‘दुर्ज

अत्र प्रहस्तवधे विशेषे प्रस्तुते सामान्यमभिहितम् । विशेषात्सामान्यप्रतीतौ यथा—

‘एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं पाथसो
यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि ।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै
स्तत्रोड्डीय गतो हहेत्यनुदिनं निद्राति नान्तः शुचा ॥’

अत्र जडानामस्थान एवोद्यम इति सामान्ये प्रस्तुते विशेषोऽभिहितः । कारणात्कार्यप्रतीतौ यथा—

‘पश्यामः किमियं प्रपद्यत इति स्थैर्येमयालम्बितं
किं मामालपतीत्ययं खलु शठःकोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥’

अत्र धाराधिरूढो मानः कथं निवृत्त इति कार्ये प्रस्तुते निवृत्तिकारणमभिहितम् । कार्यात्कारणप्रतीतौ यथा384

‘इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिभृंगीणामिव
प्रम्लानारुणिमेव विद्रुमरुचिः श्यामेव हेमप्रभा ।
कार्कश्यं कलयामि कोकिलवधूकण्ठेष्विव प्रस्तुत
सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हाइव ॥’

अत्र संभाव्यमानैरिन्द्वादिगतैरञ्जनलिप्तत्वादिभिः कार्यरूपैरप्रस्तुतैर्लोकोत्तरो वदनादिगतः सौन्दर्यातिशयः कारणरूपः प्रस्तुतः प्रतीयते । तेनेयमप्रस्तुतप्रशंसा । ननु कार्यात्कारणे गम्यमाने385ऽप्रस्तुतप्रशंसायामिष्यमाणायाम्

_________________

नदूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः । बालःपायसदग्धो दध्यपि फूत्कृत्य भक्षयति ॥’ अत्र केनापि दुर्जनेन विप्रलब्धस्य कस्यचित्सुजनविशेषे विस्रम्भो न जायते । तस्य सुजनस्येयं विशेषे प्रस्तुते सामान्योक्तिः । तेनेति । अप्रस्तुतात्कारणात्प्रस्तुतस्य कार्यस्य प्रतीतेः । यथा वा— ‘अनेन सार्धे सरयूवनान्ते कूजन्मयूरीमुखरे विहृत्य । वि-

‘येन लम्बालकः सास्त्रः कराघातारुणस्तनः ।
अकारि भग्नवलयो गजासुरवधूजनः ॥’

इति । तथा—

‘चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
आलिङ्गनोद्दामविलासशून्यं रतोत्सवं चुम्बनमात्रशेषम् ॥

इत्यादौ सुप्रसिद्धे386 पर्यायोक्तविषयेऽप्रस्तुतप्रशंसाप्रयोगः । अत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो गजासुरवधः प्रतीयते । तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपो गम्यते । एवमन्यत्रापि पर्यायोक्तविषये ज्ञेयम् । तस्मादप्रस्तुतप्रशंसाविषयत्वात्पर्यायोक्तस्य निर्विषयत्वप्रसङ्गः । नैष दोषः । इह यत्र कार्यात्कारणं प्रतीयते तत्र कार्य प्रस्तुतमप्रस्तुतं चेति द्वयी गतिः । यत्र यत्र प्रस्तुतत्वं कार्यस्य कारणवत्तस्यापि वर्णनीयत्वात्तत्र कार्यमुखेन कारणं पर्यायेणोक्तमिति पर्यायोक्तालंकारः । तत्र हि कारणापेक्षया कार्यस्यातिशयेन सौन्दर्यमिति तदेव वर्णितम् । यथोक्तोदाहरणद्वये । अत्र हि गजासुरवधू387वृत्तान्तोऽपि भगवत्प्रभावजन्यत्वात्प्रस्तुत एव । एवं राहुवधूवृत्तान्तेऽपि ज्ञेयम् । ततश्च नायमप्रस्तुतप्रशंसाविषयः। यत्र पुनः कारणस्य प्रस्तुतत्वे कार्यमप्रस्तुतं वर्ण्यते तत्र स्पष्टैवाप्रस्तुतप्रशंसा यथा—‘इन्दुर्लिप्त इवाञ्जनेन’ इत्यादौ । अत्र हि इन्द्वादयः स्फुटमेवाप्राकरणिकाः । तत्प्रतिच्छन्दभूतानां मुखादीनां प्राकरणिकत्वात् । तेनात्रेन्द्वादिगते नाञ्जन

__________________

लासवातायनसेवनेन श्लाघ्यामयोध्यां नगरीं विधेहि ॥’ अत्र स्वयंवराख्ये कार्ये388 प्रस्तुते कारणस्याभिधानम् । ननु चात्र कार्यात्कारणस्य प्रतीतौ यद्यप्रस्तुतप्रशंसा स्यात्तद्वक्ष्यमाणस्य पर्यायोक्तालंकारस्य को विषय इत्याह—नन्वित्यादि । सुप्रसिद्ध इति सर्वालंकारकाराभिमते । तत्रेति द्वयनिर्धारणे । तदेव वर्णितमिति कार्यमेवोक्तम् । कारणस्य गम्यमानत्वात् । ततश्चेति । द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात् । स्पष्टैवेति । अप्रस्तुतस्यैव कार्यस्य प्रशंसितत्वात् । अतश्च द्वयोरपि प्रस्तुतत्वे पर्यायोक्तं प्रस्तुताप्रस्तुतत्वे त्वप्र-

लिप्तत्वादिना अप्रस्तुतेन कार्येण प्रस्तुतं मुखादिगतं सौन्दर्ये सहृदयाह्लादकारि गम्यते इत्यत्राप्रस्तुतप्रशंसा389 । एवं च यत्र वाच्योऽर्थोऽर्थान्तरं तादृशमेव स्वोपस्कारकत्वेनागूरयति तत्र पर्यायोक्तम् । यत्र पुनः स्वात्मानमेवाप्रस्तुतत्वात्प्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति निर्णयः । ततश्चानया प्रक्रियया

‘राजत्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः
कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि संभुज्यते ।
इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा
चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥’

इत्यत्र पर्यायोक्तमेव बोध्यम् । अन्ये तु दण्डयात्रोद्यतं त्वां बुद्धा त्वदरयः पलाय्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात्कार्यरूपोऽर्थोऽप्रस्तुत एव राजशुकवृत्तान्तस्याप्रस्तुतत्वा-त्प्रस्तुतार्थे प्रति स्वात्मानं समर्पयतीत्यप्रस्तुतप्रशंसैवात्र न्याय्येति वर्णयन्ति । सर्वथा पर्यायोक्ताप्रस्तुतप्रशंसयोर्विषय विभागस्तु निरूपित एवेति स्थितम् । एतानि साधर्म्योदाहर-णानि । वैधर्म्येण यथा—

________________

स्तुतप्रशंसेति विषयविभागः । अतश्च सामान्यविशेषयोः प्रस्तुतत्वासंभवात्कार्यकारणयोः प्रस्तुतत्वेऽपि कार्यात्कारणप्रतीतिवत्कारणात्कार्यप्रतीतर्वैचित्र्याभावाच्च ‘पर्यायत्वे कार्यहेत्वोर्भेदसामान्ययोस्तथा । अप्रस्तुतप्रशंसायां सरूपस्यैव गम्यता ॥’ इत्याद्युक्तमयुक्तम् । यद्येवं तदत्र पर्यायोक्ताप्रस्तुतप्रशंसयोः प्रस्तुताप्रस्तुतरूपं कार्य प्रस्तुतं कारणं कथमागूरयतीत्याशङ्कयाह—एवं चेत्यादि । तादृशमेवेति वाच्यम् । स्वोपस्कारकत्वेनेति । स्वसिद्ध्यर्थे परस्याक्षेपात् । समर्पयतीति वाच्योऽर्थः । इत्थं च ‘स्वसिद्धये पराक्षेपः परार्थे स्वसमर्पणम् । उपादानं लक्षणं च’ इत्युक्त्या लक्षणाद्वयाश्रितत्वादनयोस्वा-न्तरोऽपि विषयभेदोऽस्तीत्यत्र तात्पर्यम् । ततश्चेति । अनयोभिन्नविषयत्वात् । अन्यः इति काव्यप्रकाशकारादयः । सर्वथेति । तत्र390 पर्यायोक्तमप्रस्तुतप्रशंसा वास्त्वित्यभिप्रायः । इह च सारूप्येण391 साधर्म्योदाहरणानां पूर्वमनुद्दिष्टानामध्येतानि साधर्म्योदाहरणानीत्यनेनातिदेशवाक्येनेति निश्चिनुमः । अयं हि ग्रन्थो ग्रन्थकृतः पश्चात्कैरपि392 पत्रिकाभिलिखित इति प्रसिद्धिः । तैश्चानवधाना उदाहरणपत्रिका न लिखिता। अतिदेशवाक्यं च पत्रिका-

‘धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः ।
राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ॥’

अत्र वाता धन्या इत्यप्रस्तुतादर्थादहमधन्य इति वैधर्म्येण प्रस्तुतोऽर्थः प्रतीयते । वाच्यस्य संभव उक्तान्येवोदाहरणानि । असंभवे यथा—

‘कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं393
वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥’

अत्राचेतनेन सह प्रश्नोत्तरिका394 नोपपन्नेति वाच्यस्यासंभव एव । प्रस्तुतं प्रति तात्पर्यात्प्रमुख एव तदध्यारोपेण प्रतीतिरिति युज्यत एवैतत् । उभयरूपत्वे यथा—

‘अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ॥’

अत्र वाच्येऽर्थे कण्टकानां भङ्गुरीकरणे हेतुत्वं संभवि च्छिद्राणां त्वसंभवीत्युभयरूपत्वम् । प्रस्तुतस्य तात्पर्येण प्रतीतेस्तदध्यारोपात्तत्र संगतमेवैतदिति नासमीचीनं किंचित् । एतदेव च श्लेषगर्भायामस्यामुदाह-

__________________

न्तराल्लिखितमिति ग्रन्थस्यासंगतत्वम् । बहूनि पुनरुदाहरणानि सारूप्यहेतुकस्य भेदस्य लक्ष्ये प्राचुर्यदर्शनार्थम् । एवं वाच्यस्य संभवे उक्तान्येवोदाहरणानीत्यत्राप्ययमेवाभिप्रायो योज्यः। अतश्च ‘परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥’ तथा— ‘पातः पूष्णो भवति महते नोपतापाय यस्मात्कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये । एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥? तथा— ‘पथि395 निपतितां शून्ये लब्ध्वा निरावरणाननां ननु दधिघटीं गर्वोन्नद्धः समुद्रुरकंधरः । निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो396 यदि न कुरुते काणः काकः कदा नु करिष्यति ॥’ इत्युदाहरणान्यत्र मध्ये लेखितव्यानि येन ग्रन्थस्य संगतत्वं स्यात् । अत्र च सारूप्यं साधर्म्य वाच्यसंभवश्च स्फुट एव । तदध्यारोपेणेति प्र-

रणम् । तदत्र सामान्य विशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद्भेदपञ्चकर्मुद्दिष्टं397 तत्र द्वयोः सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति तदार्थान्तरन्यासाविर्भावः \। सरूपयोस्तु वाच्यत्वे दृष्टान्तः । अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वथा प्रस्तुतप्रशंसेति निर्णयः ।

उक्तन्यायेन प्राप्तावसरमर्थान्तरन्यासमाह—

सामान्यविशेषभावकार्यकारण398भावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तर-न्यासः ।

निर्दिष्टस्याभिहितस्य समर्थनार्हस्य प्रकृतस्य समर्थकात्पूर्व पश्चाद्वा निर्दिष्टस्य यत्समर्थन-मुपपादनं399 न त्वपूर्वत्वेन प्रतीतिरनुमानरूपा सोऽर्थान्तरन्यासः । तत्र सामान्यं विशेषस्य विशेषो वा सामान्यस्य समर्थक इति द्वौभेदौ । तथा400 कार्ये कारणस्य कारणं वा कार्यस्य समर्थकमित्यपि द्वौ भेदौ । तत्र भेदचतुष्टये प्रत्येकं साधर्म्यवैधर्म्याभ्यां भेदद्वयेऽष्टौ भेदाः । हिशब्दाभिधानानभिधानाभ्यां समर्थकपूर्वोपन्यासोत्तरोपन्यासाभ्यां च भेदान्तरसंभवेऽपि न तद्गणना सहृदयदह्यहारिणी । वैचित्र्यस्याभावात् ।

तस्माद्भेदाष्टकमेवेहोट्टङ्कितम् \। क्रमेण यथा—

____________________

स्तुतारोपेण । एतदित्यचेतनेन सह प्रश्नोत्तरकरणम् । एतच्च सामान्यादिभेदपञ्चकं वाच्यं सदर्थान्तरन्यासदृष्टान्तयोर्विषयो भवति । अन्यथा पुनरस्या एवेति दर्शयितुमाह—तत्रेत्यादि । सर्वथेत्यनेनैतल्लक्षणस्याव्यभिचार उक्तः । उक्तन्यायेनेति । अप्रस्तुतप्रशंसाभेदानामेव वाच्यत्वकथनात् । आहेति सामान्येत्यादिना । समर्थनार्हस्येति । साकाङ्क्षत्वादुपपादनापे401क्षत्वात् । उपपादनमित्येवमेव । एतदिति नैराकाङ्क्षयोत्पादनलक्षणम् । कार्यकारणभावाश्रयस्य भेदद्वयस्य काव्यलिङ्गत्वं ग्रन्थकृदेव वक्ष्यतीति सामान्यविशेषभावाश्रयमेव भेदद्वयमाश्रयणीयम् । विशेषेणापि सामान्यसमर्थने यत्र सामान्यवाक्यस्योपपादनापेक्षत्वं तत्रायमेवालंकारः । नहि विशेषात्मकागस्त्यवृत्ता-न्तोपादानं विना पुंसां कुलवैलक्षण्येन चरितमात्रमेव प्रतिष्ठानिमित्तमिति सामान्यात्मा प्रकृतोऽर्थः सिद्ध्येत । यत्र पुनः स्वतः सिद्धस्यैव प्रतीतिविशदीकरणार्थेतदेकदेशभूतो विशेष उपादीयते तत्रोदाहरणालं-

‘अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥’

‘लोकोत्तरं चरितमर्पयति प्रतिष्ठां
पुंसां कुलं नहि निमित्तमुदात्ततायाः402
वातापितापनमुनेः कलशात्प्रसूति
ललायितं पुनरमुद्रसमुद्रपानम् ॥’

‘सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥’

अत्र सहसाविधानाभावस्य विमृष्यकारित्वरूपस्य च कारणस्य संपद्धरणं कार्ये साधर्म्येण समर्थकम् । तस्यैवैतत्कार्यविरुद्धत्वमापत्पदत्वम् । सहसाविधानाभावविरुद्धाविवेककार्ये वैधर्म्येण403 समर्थकम् ।

‘पृथ्वि स्थिरा भव भुजंगमा धारयैनां
त्वं कूर्मराज तदिदं द्वितयं दधीथाः ।
दिक्कुञ्जराः कुरुत तत्रितये दिधीर्षी
देवः404 करोति हरकार्मुकमाततज्यम् ॥’

अत्र हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्यादिप्रवर्तकत्वे कारणं समर्थकत्वेनोक्तम् । वैधर्म्येण सामान्य विशेषभावो यथा—

_______________

कारः । गुणसंनिपाते दोषनिमज्जनात्मनः सामान्यस्य नैराकाङ्क्षयेण सिद्धस्येन्दोः किरणेष्विवाङ्क इति तदेकदेशभूतो विशेषस्तत्र प्रतीतिविषदीकरणार्थमुपात्तः । अतश्च विशेषस्यान्येन समर्थनमर्थान्तरन्यास इत्यत्र विशेषेणापि सामान्यस्य समर्थन मिति सूत्रणीयम् । अन्यथा ह्यव्याप्तिः स्यात् । तस्यैवेति सहसाविधानाभावस्य । एतत्कार्यविरुद्धमिति संपद्धरणकार्यविरुद्धम्405 । विरुद्धं सामान्यरूपतयेत्यनेन वैधर्म्येण विशेषः सामान्येन समर्थित इत्युक्तम् । सामान्यं तु विशेषेण समर्थ्यते यथा—‘गुणानामेव दौरात्म्याद्धुरि धुर्यो नियुज्यते । असंजातकिणस्कन्धः सुखं स्वपिति गौर्गडी ॥’ अत्रापि समर्थ्यसमर्थकभावसमर्थनादुदाहरणत्वं वाच्यम् । उदाहृतमिति ‘सहसा विदधीत–’ इत्यादिना । एतदुपसंहरन्नन्यदवतारय-

‘अहो हि मे बह्वपराधमायुषा यदप्रियं वाच्यमिदं मयेदृशम् ।
त एव धन्याः सुहृदां पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ॥’

अत्रायुःकर्तृकापराद्धत्वाक्षिप्तस्याधन्यत्वस्यायुर्विरुद्धक्षयगतिप्रयुक्तं धन्यत्वं विरुद्धं सामान्य-रूपतया समर्थकत्वेनोक्तम् । कार्यकारणतायां वैधर्म्येणोदाहृतम् । हिशब्दाभिहितत्वान-भिहितत्वादि406भेदाः स्वयमेव बोद्धव्याः ।चारुत्वातिशयाभावान्नेह प्रदर्शिताः ।

एवमप्रस्तुतप्रशंसानुषङ्गायातमर्थान्तरमुक्त्वा गम्यमानप्रस्तावागतं पर्यायोक्तमुच्यते—

गम्यस्यापि भङ्गयन्तरेणा407भिधानं []407 पर्यायोक्तम् ।

यदेव गम्यत्वं तस्यैवाभिधाने पर्यायोक्तम् । गम्यस्य सतः कथमभिधानमिति चेत्, गम्यापेक्षया प्रकारान्तरेणाभिधानस्याभावात् । नहि तस्यैव तदैव तयैव विच्छित्त्या गम्यत्वं408 वाच्यत्वं च संभवति । अतः कार्यमुखद्वारेणा409भिधानम् । कार्यादेरपि तत्र प्रस्तुतत्वेन वर्णनार्हत्वात् । अत एवाप्रस्तुतप्रशंसातो भेदः । एतच्च वितत्या प्रस्तुतप्रशंसाप्रस्तावे निर्णीतमिति तत एवावधार्यम् । उदा410हरणम्—

______________

ति— एवमित्यादिना । तदेवाह— गम्यस्यापीत्यादि । ननु कथमेकस्यैवैकस्मिन्काले गम्यत्वं वाच्यत्वं च संभवतीत्याह— गम्यस्यैवेत्यादि । प्रकारान्तरेणेति कार्यादिद्वारेण । अत इति । एकस्यै411-वैकस्मिन्काले गम्यत्ववाच्यत्वासंभवात् । कार्यादिद्वारेणेत्यादिशब्दः प्रकारे । अभिधीयमानं हि कार्य तदविनाभावित्वात्स्वसिद्धये कारणमाक्षिपतीति गम्यमपि तद्वाच्यायमानमिति यदेव गम्यते तस्यैव भङ्गयन्तरेणाभिधानम् । अतश्च ‘स्वभ्यस्तदुर्नयजयस्तनयस्तदीयः क्ष्मामाररक्ष जयवाहननामधेयः । दुर्वारवैरिवरवीरविलासिनीनां स्वप्नावशेषमकरोत्प्रियदर्शनं यः ॥’ इत्यादावलंकार412प्रकारत्वं न वाच्यम् । बहुधाजयत् इति हि क्रियमाणे ‘गतोऽस्तमर्कः भातीन्दुः’ इत्यादिवदेतदकाव्यमेव स्यात् । न च दोषाभावमात्रमलंकारत्व413मिति बहुशः प्रागुक्तं यत्तु स्वप्नावशेषप्रियदर्शनात्मकं कार्यरूपेणार्थेन स्वसिद्धयर्थेकारणरूपस्तदूध आक्षिप्यते तदितरप्रकारान्तरं414 पृथग्वक्तुं न युक्तमिति निर्वीजैव पर्यायोक्तान्तरवाचोयुक्तिः । अत एवेति । द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात् ।

‘स्पष्टास्ता नन्दने शाच्याःकेशसंभोगलालिताः ।
सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ॥’

अत्र हयग्रीवस्य कार्यमुखेन स्वर्गविजयो वर्णितः । प्रभावातिशयप्रतिपादनं च । कारणादिव कार्यादपीति कार्यमपि वर्णनीयमेवेति पर्यायोक्तस्यायं विषयः ।

गम्यत्वविच्छित्तिप्रस्तावाद्याजस्तुतिमाह—

स्तुतिनिन्दाभ्यां निन्दास्तुयोर्गम्यत्वे व्याजस्तुतिः ।

यत्र स्तुतिरभिधीयमानापि प्रमाणान्तराद्बाधित स्वरूपा निन्दायां पर्यवस्यति तत्रासत्यत्वाद्व्या-जारूपा स्तुतिरित्यनुगमेन तावदेका व्याजस्तुतिः । यत्रापि निन्दाशब्देन प्रतिपाद्यमाना पूर्ववद्बाधितरूपा स्तुतिः पर्यवसिता भवति सा द्वितीया व्याजस्तुतिः । व्याजेन निन्दामुखेन स्तुतिरिति कृत्वा । स्तुतिनिन्दारूपत्वस्य विच्छित्तिविशेषस्य भावादप्रस्तुतप्रशंसातो भेदः । क्रमेण यथा—

____________________

कार्यमुखेनेति । पारिजातमञ्जरीस्पर्शद्वारेणेत्यर्थः । स्वर्गविजय इति कारणरूपः । वर्णनीयमिति । प्रस्तुतमेवेत्यर्थः। आहेति स्तुतिनिन्दाभ्यामित्यादिना । प्रमाणान्तरादिति वक्तृवाच्यप्रकरणादिपर्या-लोचनात्मनः । बाधितस्वरूपेति । आमुख एव । प्रस्खलद्रूपेत्यर्थः । अत एवास्या ध्वनेर्भेदः । स हि विश्रान्ते वाक्यार्थे वक्तृवाच्यौचित्यपर्यालोचनाबलादवगम्यते । इह पुनः प्रमाणान्तराद्बाधितः सन्वाक्यार्थः स्वयमनुपपद्यमानत्वात्परत्र415 निन्दादौ स्वंसमर्पयति । तत्रैव प्रकृतवाक्यार्थस्य विश्रान्तेः । एवम्— ‘अह सज्जणाण मग्गो सुहअ तए च्चेअ णवरेँणिव्वूोढो । इ्ह्णिंअण्णं हिअए अण्णं वाआइ लोअस्स ॥’ इत्यादौ विश्रान्ते वाक्यार्थे वक्तृवाच्यौचित्यपर्यालोचनाबलान्निन्दायाः प्रतीतिरिति ध्वनिविषयत्वमेव युक्तम् । पूर्ववदिति प्रमाणान्तरात् । एका द्वितीया चेत्यभिदधता द्वे एवात्र व्याजस्तुती न पुनरे- कैव द्विविधा व्याजस्तुतिरिति सूचितम् । प्रकारप्रकारिभावो हि सामान्यलक्षणासद्भावे न भवति । असंभवत्तत्सामान्यस्य तद्विशेषत्वाभावात् । शब्दनिबन्धनं तु सामान्यमाश्रित्य द्वयोरत्राभिधानम् । एवं स्तुतिनिन्दाभ्यामप्रस्तुताभ्यां निन्दास्तुत्योः प्रस्तुतयोर्गम्यत्वमित्यत्र सिद्धम् । यद्येवं तत्किमियमप्रस्तुतप्रशंसैव न भवतीत्याशङ्क्याह—स्तुतीत्यादि । तत्र

‘हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे
नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो
भारप्रोद्वहनेकरोषि कृपया साहायकं यन्मरोः ॥’

अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः ।

‘इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठपीठी मुरारि-
र्दिङ्गागानां मदजलमषीभाञ्जि गण्डस्थलानि ।
अद्याप्युर्वीवलयतिलक श्यामलिम्नानुलिप्ता-
न्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥’

अत्र धवलताहेतुयशोविषयानवक्लृप्ति416प्रतिपादनेन ‘विशेषप्रतिषेधे शेषाभ्यनुज्ञानम्’ इति न्यायात्कतिपयपदार्थवर्जेसमस्तवस्तुधवलताकारित्वं नृपयशसः प्रतीयते ।

‘किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ-
स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठया
मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥

इत्यत्र प्रकान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्तिरिति भणित्या उन्मूलितेति न प्ररोहं गमितेति श्लिष्टमेतदुदाहरणम् ।

________________

हि सामान्यविशेषादीनां गम्यत्वमुक्तम् । विपरीतलक्षणयेति । सनिमित्तात्र वाच्यवैपरीत्यप्रतीतिरिति भावः । अन्यथा हि सर्वस्मात्स417र्वप्रतिपत्तिः स्यात् । लक्षणा च मुख्यार्थबाधपूर्विकैव भवतीत्यभिधीय-मानायाः स्तुतेर्बाधितस्वरूपत्वमुक्तम् । अस्याश्च निन्दास्तुत्योर्वाच्यत्वे स्तुतिनिन्दयोर्यदा गम्यत्वमेव भवति तदैवालंकारत्वं नान्यदेति418 दर्शयितुमाह—किं वृत्तान्तैरित्यादिउन्मूलितेति । स्तुतिरेव वाच्यत्वेनोक्तेत्यर्थः419श्लिष्टमिति । अनुदाहरणमेवैतदिति तात्पर्यम् । अतश्चास्य लोचनकारेण यद्वयाजस्तुत्युदाहरणत्व

गम्यत्वमेव प्रकृतं विशेषविषयत्वेनोररीकृत्याक्षेपालंकार उच्यते420

उक्तवक्ष्यमाणयोः प्राकरणिकयोविंशेषप्रतीत्यर्थेनिषेधाभास आक्षेपः ।

इह प्राकरणिकोऽर्थः प्राकरणिकत्वादेव वक्तुमिष्यते तथाविधस्य विधानार्हस्य निषेधः कर्तुन युज्यते । स कृतो बाधितस्वरूपत्वान्निषेधायत इति निषेधाभासः संपन्नः । तस्यैतस्य करणं प्रकृतगतत्वेन विशेषप्रतिपत्त्यर्थम् । अन्यथा गजस्नानतुल्यं421 स्यात् । स चाभासमानोऽपि निषेधस्तत्रो422क्तस्य वा स्यात् आसूत्रिताभिधानत्वेन423 वक्ष्यमाणस्य वा स्यात् । इत्याक्षेपस्य द्वयी गतिः । तत्रो424क्तविषयत्वेन कैमर्थक्यपरमालोचनमाक्षेपः । वक्ष्यमाणविषयत्वेनानयनरूपमागूर-णमाक्षेपः । एवं चार्थभेदादाक्षेपशब्दस्य द्वावाक्षेपाविति वदन्ति । तत्रोक्तविषये यस्यैवेष्टस्य निषेधस्तस्यैवाक्षेपः । वक्ष्यमाणविषये

_______________

मुक्तं तदयुक्तमेवेति भावः । उररीकृत्येत्याश्रित्य । तमेवाह—**उक्तवक्ष्यमाणयोरित्यादि ।**तथाविधस्येति वक्तुमिष्टस्य । अत एव विधानार्हस्येत्युक्तम् । स इति निषेधः । बाधितस्वरूपत्वादिति । प्राकरणिके विधानार्हे तस्यासंभवात् । यद्येवं तर्ह्यसावकार्य एवेत्याशङ्क्याह—तस्येत्यादि । अन्यथेति । विशेषप्रतिपत्तिर्यदि न स्यात् । तस्य च विषयं दर्शयति—स चेत्यादिना । उक्तस्येति वस्तुतः कथनरूपस्य । आसूत्रिताभिधत्वेनेति सामान्यमुखेनांशोक्तिमुखेन वा । अन्यथा हि सर्वत्र विवक्षितार्थस्य निषेधमात्रादेव प्रतीतिप्रसङ्गः । कैमर्थक्येति । किमर्थमेतदिति पर्यनुयोगरूप इत्यर्थः । **एवमिति ।**कैमर्थक्यपर्यालोचनानयनरूपागूरणरूपत्वात् । वदन्तीति प्राच्याः । यदाह भामहः— ‘वक्ष्यमाणोक्तविषयस्तत्राक्षेपो द्विधामतः । एकरूपतया शेषा निर्दिश्यन्ते यथाक्रमम् ॥’ इति । तेनास्माकमेतन्न मतमिति भावः । वक्ष्यमाणविषये हि कथनस्यैव निषेध्यत्वात्किमर्थमेतत्कथ्यत इति कैमर्थक्यपरमालोचनमेव प्रतीयते इत्येक एवाक्षेपर्शब्दस्यार्थ425 इति भेदाभावाद्द्वाक्षेपाविति न युक्तम् । तत्किमेक एवाक्षेपो भवन्मते युक्त इत्याशङ्क्याह—तत्रेत्यादि । आक्षेप इति विशेषः । कार्यकारणयोरभेदोपचारात् । इष्टस्येति विशेषात्मनः । अन्यस्येति विशेषात् । एवं निषेधविशेषयोर्भेदेनावस्थितेर्नात्र सामान्यलक्षणसंभवोऽस्तीति तात्पर्यम् । ननु426 सर्वविशेषाणां सामान्यानुप्राणितत्वादेकत्रापि कृतो निषेधादिर

त्विष्टस्य निषेधः । इष्टसंबन्धिनस्त्वन्यस्य सामान्यरूपस्य विशेषः । तेनात्र लक्षणभेदः । विशेषस्य चात्र शब्दानुपात्तत्वाद्गम्यत्वम् । तत्रोक्तविषय आक्षेपे क्वचिद्वस्तु निषिध्यते क्वचिद्वस्तुकथनमिति द्वौ भेदौ । वक्ष्यमाणविषये तु वस्तुकथनमेव निषिध्यते । तच्च427 सामान्यप्रतिज्ञायां क्वचि428द्विशेषनिष्ठत्वेन निषिध्यते क्वचित्पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदौ । तदेवमस्य चत्वारो भेदाः । शब्दसाम्यनिबन्धनं सामान्यविशेषभावमवलम्ब्य चात्र प्रकारिप्रकारभावप्रकल्पनम्429 । क्रमेण यथा—

‘बालअ430 । सा म्रियते तवायश एतं धर्माक्षरं भणामः ॥’ इति च्छाया.”) णाहं दूई तीअ पिओसि त्ति ण मह वावारो
सा मरइ तुज्झ अयसो एअं धम्मक्खरं भणिमो ।’
‘प्रसीदेति ब्रूयामिदमसति कोपे न घटते
करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः ॥’

_________________

परत्रावश्यमेव पर्यवस्थतीति कथमत्र निषेधविशेषयोर्भिन्नविषयत्वमुक्तम् । सत्यम् । यद्यप्येवं तथाप्येतन्न शब्दार्थम्431 । अर्थवशेन तत्र तथात्वावगतेः । इह च शाब्दमेवैतदाक्षेपाङ्गं नार्थवशायातम् । तथात्वे हि रूपकादीनामप्युपमात्वं स्यात् । तेषामप्यार्थस्य सादृश्यस्याभावात् । एतच्चोद्भटविचारे राजानकतिलकेनैव सप्रपञ्चमुक्तमिति न तथास्माभिराविष्कृतम् । तेनेति । निषेधविशेषयोरेव भिन्नविषयत्वादाक्षेपशब्दस्यार्थे432 भेदात् । यस्त्वत्र विशेषः स किं वाच्यः किमुत गम्य इत्याशङ्क्याह—विशेषस्येत्यादि । कथनमेवेति । न पुनः साक्षाद्वस्तु तदिति कथनम् । सामान्यप्रतिज्ञयेति । सामान्यमेवाश्रियेत्यर्थः। विशेषनिष्ठत्वेनेति । सामान्यस्य विशेषाविनाभावित्वात् । निषिध्यत इत्यत्रोत्तरत्र च संबन्धनीयम् । अंशान्तरगतत्वेनेति । सामान्यप्रतिज्ञयेत्यत्रापि संबन्धः। अत्रापि ह्यपरांशोक्तिः सामान्यमुखेनैव निषिध्यते । विशेषस्य हि साक्षादत्र निषेधो न भवति । निषेधानन्तरं तत्प्रतीतर्भाविनो निषेधासंभवात् । नह्युक्तो निषेधः शब्दासमर्पिते433 तत्कालमप्रतीयमाने च विषये संभवति । अस्येत्याक्षेपस्य । ननु द्वयोराक्षेपयोश्चत्वारो भेदाः संभवन्तीति कथमेकस्यैवोक्ता इत्याशङ्क्याह—शब्देत्यादि । प्रकल्पनमिति । न पुनर्वस्तुतःसद्भाव इत्यर्थः । वस्तुनो निषेधमुखेन विशेष इत्यनेन यस्यैव

न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा
किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे ॥’

‘सुहअ434 किं भणामः ॥’ इति छाया. “) विलम्बसु थोअं जाव इमं विरहकाअरं हिअअम् ।
संठविऊण भणिस्सं अहवा वोलेसु किं भणिमो ॥’

‘ज्योत्स्ना तमः पिकवचः क्रकचतुषारः
क्षारो मृणालवलयानि कृतान्तदन्ताः ।
सर्वे दुरन्तभिदमद्य शिरीषमृद्वी
सा नूनमाः किमथवा हतजल्पितेन ॥’

आद्ये उदाहरणद्वये यथाक्रमं वस्तुनिषेधेन भणितिनिषेधेन चोक्तविषय आक्षेपः । तत्र चोक्तस्य दूतीत्वस्य वस्तुनो निषेधमुखेनैव वास्तवत्वादिर्विशेषः435 । तथा भण्यमानस्य प्रसादस्य निषेधमुखेनैव कोपोपरागनिवर्तनेनावश्यस्वीकार्यत्वं विशेषः । उत्तरस्मिन्पुनरुदाहरणद्वये यथाक्रमं सामान्यद्वारेणेष्टस्यांशोक्तावप्यशान्तरस्य स्वरूपेण च भणितिनिषेधे वक्ष्यमाणविषय आक्षेपः । तत्र च वक्ष्यमाणस्येष्टस्य भणितिसमिति प्रतिज्ञा तस्य सातिशयात्कोपजनकत्वा-र्दिविशेषः । तथा चांशोक्तावशान्तरस्य म्रियत

_________________

निषेधस्तस्यैव विशेष इत्युक्तं निर्वाहितम् । ‘दूरपवासे सँमुहो सि सुहअ आलिङ्गणं खणं कुरुसु । अहवा अला हि इमिणा गमणम्मि विलम्बआरेण ॥’ इत्यत्र पुनरुक्तस्यालिङ्गनस्यनिषेधो विधौ436 तात्पर्याभावात्र निषेधाभासतामियादित्येतदुदाहरणं न वाच्यम् । यतोऽत्र विलम्बनकारिण आलिङ्गनस्यैव निषेधेन गमनविधिरुद्रेचितः । स च विधिरनुपपद्यमानत्वादप्रस्थानलक्षणं निषेधं लक्षयति । अत्र च गमनस्यावश्यपरिहार्यत्वादिर्विशेषः प्रयोजनम् । क्षणालिङ्गनमात्रस्यैव चेष्टत्वे गमनस्य विधिरेव पर्यवस्येन्न निषेध इति विवक्षितवाक्यार्थविप्रलोप एव स्यात् । अतश्चोक्तविषये विहितनिषेधेऽप्याक्षे-पत्वमन्यत्र निषेधोऽन्यत्र विशेषश्चेति न वाच्यम् । प्रसादस्येति वस्तुनो न ब्रूयामिति तत्कथनस्यैव निषेधः । सामान्यद्वारेणेति । भणिष्यामीति भणनसामान्यमाश्रित्येत्यर्थः । तच्च तत्तदपराधोदीरणपरमेवेति तस्य विशेषागूरकत्वम् । इष्टस्येति काकाक्षिन्यायेन योज्यम् । अंशोक्ताविति सर्वे दुरन्तमित्यादिना । अंशान्तरस्येति म्रियते इत्यादेः । किमथवा हतजल्पितेनेति

इति प्रतिपाद्यस्याशक्यवचनीयत्वादिर्विशेषः । एवं च क्षिपे ईष्टार्थ437स्तस्य निषेधः निषेधस्यानुप-पद्यमानत्वादसत्यत्वं विशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । तेन न निषेधविधिः न विहितनिषेधः । किं तु निषेधेन विधेराक्षेपः । निषेधस्यासत्यत्वाद्विधिपर्यवसानात् । विधिना तु निषेधोऽस्य भेदत्वेन वक्ष्यते । तथा च हर्षचरिते— ‘अनुरूपो देव्या इत्यात्मसंभावना—’ इत्यादौ, तथा ‘यामीति न स्नेहसदृशं–’ इत्यादावुक्तविषय

_________________

सामान्यरूपस्यैव निषेधः । एवमप्यस्य विभज्य स्वरूपं प्रतिपादयति—एवं चेत्यादिना । उपयुज्यत इति । एतच्चतुष्टयमन्तरेणाक्षेप एव न भवतीत्यर्थः । तदेवाह—तेनेत्यादिना निषेधविधिर्नाक्षेप इति संबन्धः । एतदुत्तरत्रापि योज्यम् । यदाहुः— ‘विहितस्य निषेधेन न निषेधविधौ भवेत् । निषेधेन विधिर्यत्र तत्राक्षेपः प्रकीर्तितः ॥’ इति । तत्र निषेधविधिर्यथा— ‘एष क्षीरोदजन्मा कुमुदकुलपतिः सेयमाकाशगङ्गा ब्राह्मंशीर्ष तदेतत्तदिदमनिमिषं नेत्रमग्नेरगारम् । सैषा हालाहलश्रीर्वलयिततनवो नागराजास्त एते कङ्कालं कालियारेरिदमपि तदलं भाषितैरोनमस्ते ॥’ अत्रालमिति निषेधस्यैव विधिः । अतश्च438 न तस्यासत्यत्वम् । तदभावाच्च न विधिपर्यवसानमित्याक्षेपोपयोगिन्याः सामग्र्या अभाव इति नायमत्रालंकारः । स हि चतुष्टयसंनिधावेव भवति । विहितनिषेधस्तु यथा— ‘ब्रह्मभ्यः शिवमस्तु वस्तु विततं किं चिद्वयं ब्रूमहे हे सन्तः शृणुतावधत्त च धृतो युष्मासु सेवाञ्जलिः । यद्वा किं विनयोक्तिभिर्मम गिरां यद्यस्ति सूक्तामृतं माद्यन्ति स्वयमेव तत्सुमनसो यात्रा परं दैन्यभूः ॥’ अत्र विहितानां विनयोक्तीनां निषेध इति विहितनिषेधः । पूर्ववच्चात्र नाक्षेपालंकारः । निषेधेन विधिस्तु ग्रन्थकृतैवोदाहृतः । अत्र चनिषेधः स्वयमनुपपद्यमानत्वादविश्राम्यन्स्वात्मानं विध्यर्थे समर्पयतीति ‘परार्थ स्वसमर्पणम्’ इत्येवंरूपलक्षणामूलत्वमस्य सिद्धम् । यदुक्तमन्यत्र— ‘यत्र स्वयमविश्रान्तेः परार्थे स्वसमर्पणम् । कुरुतेऽसौ स आक्षेपो निषेधस्यैव भासनात् ॥’ इति । निषेधविधौ विहितनिषेधे च पुनरभिधेयनिषेधः । न पुनः स्वसिद्धये पराक्षेप इत्येवं लक्षणामूलत्वमत्र वाच्यम् । मुख्यार्थस्यैव विश्रान्तेर्मुख्यार्थबाधाद्यभावात् । अतश्चान्यैः स्वसिद्धये पराक्षेपः प्रतिषेधस्य यत्र हि । आक्षेपत्तत्र नैवेष्टः प्रतिषेधस्य भासनात् ॥’ इत्याद्ययुक्तमेवोक्तम् । यद्यपि लक्षणायां स्वसिद्धये पराक्षेपस्य प्रागभाव एव प्रागुक्तस्तथाप्येत-त्पक्षाश्रयेऽपि प्राच्यानामपर्यालोचिताभिधानमित्येवंपरमेतदुक्तम् । ननु च यद्येवं निषेधस्यासत्यत्वा-द्विधिपर्यवसाने आक्षेप उक्तस्तद्वेदव विधेर्निषेधपर्यवसाने को नामालंकार इत्याशङ्क्याह—विधिनेत्यादिना । अस्येत्याक्षेपस्य । शब्दसाम्यनिबन्धनं सामान्यभावमाश्रित्य चात्र

आक्षेपः। ‘केवलं बाल इति सुतरामपरित्याज्योऽस्मि ।रक्षणीय इति भवद्भुजपञ्जरमेव रक्षास्थानम्’ इत्यादावाक्षेपबुद्धिर्न कार्या । बालत्वादेरुक्तस्य निषेधत्वेनाविवक्षितत्वात् । प्रत्युतात्र बाल्यादिपरित्यागनिषेधकत्वेन439 प्रतीयते । तेन नायमाक्षेपः । कस्तर्ह्ययं विच्छित्तिप्रका-रोऽलंकार इति चेत्, व्याघाताख्यस्यालंकारस्यायं द्वितीयो भेदो वक्ष्यते ।

‘तदिष्टस्य निषेध्यत्वमाक्षेपोक्तर्निबन्धनम् ।
सौकर्येणान्यकृतये न निषेधकता पुनः ॥’

इति पिण्डार्थः । इह तु—

‘साहित्यपाथोनिधिमन्थनोत्थं काव्यामृतं रक्षत हे कवीन्द्राः ।
यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचौराःप्रगुणीभवन्ति ॥

गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवीश्वराणाम् ।
रत्नेषु लुप्तेषु बहुप्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥’

इति । तथा—

‘देया शिलापट्टकवाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु ।
वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः ॥
बाणेन हत्त्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य ।
इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकंदरस्थः ॥

____________

प्रकारप्रकारिभावः कल्पितो न तु वास्तवः । विधिनिषेधयोर्निषेधविध्यागूरकत्वादनयोः सामान्यलक्षणा-योगात् । ततश्चेति निषेधस्य विधिपर्यवसानात् । अस्य चालंकारान्तराश्रयाद्वैलक्षण्यं दर्शयति— केवलमित्यादिना । अत्र राज्यवर्धनोक्तौ बालत्वादेरुक्तत्वम् । श्रीहर्षदेवोक्तौ तु निषेधाविवक्षा । प्रत्युतेति । न केवलं बाल्याद्यत्र निषेध्यत्वेन विवक्षितम् । यावदेतदेवान्यनिषेधकत्वेनापीत्यर्थः । तेनेति । बालत्वादेर्निषेध्यत्वैनाविवक्षितत्वात् । वक्ष्यत इति । सौकर्येण कार्यविरुद्धा क्रिया चेत्यादिना । एतदेव सारार्थतया पिण्डीकृत्यापि प्रतिपादयति— तदिष्टस्येत्यादिना । अन्यकृतय इति निषेधार्थम्440 । अस्य च यथा विधिमुखेन प्रतीतिस्तथा निषेधमुखेनेति सौकर्यम् । एवं च निषेधकतैवाक्षेपोक्तेर्न निबन्धनमिति विहितनिषेधादावेतमो न विधेय इत्याह— इह त्वि

यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः ।
केलिप्रसङ्गे शबराङ्गनानां स हि स्मरग्लानिमपाकरोति ॥’

इति नाक्षेपबुद्धिः कार्या । विहितनिषेधो ह्ययम् । न चासावाक्षेपः । निषेधविधौ तस्य भावादित्युक्तत्वात् । चमत्कारोऽप्यत्र निषेधहेतुक एवेति न तद्भावमात्रेणाक्षेपबुद्धिः कार्या । अयं चाक्षेपो ध्वन्यमानोऽपि भवति । यथा—

‘गणिकासु विधेयो न विश्वासो वल्लभ त्वया ।
किं किं न कुर्वतेनर्थमिमा धनपरायणाः ॥’

अत्र हि गणिकाया उक्तौ तदोषोक्तिप्रस्तावे नाहं गणिकेति प्रतीयते । न चासौ निषेध एव । गणिकात्वेनावस्थित [ त] तयैव गणिकात्वस्य निषेधनात् । सोऽयं प्रस्खलद्रूपो निषेधाभासरूपो वत्रया गणिकायाः शुद्धस्नेहनिबन्धनत्वेन धनविमुखत्वादौ विशेषे पर्यवस्थतीत्युक्तविषय आक्षेपध्वनिरयम् । न तु—

‘स वक्तुमखिलाशक्तो हयग्रीवाश्रितान्गुणान् ।
योऽम्बुकुम्भैः441 परिच्छेदं कर्तुं442 शक्तो महोदधेः ॥’

इत्याक्षेपध्वनावुदाहार्यम् । निषेधस्यैवात्र गम्यमानत्वात् । न निषेधाभासस्य । गुणानां वक्तुमशक्यत्व एवात्र तात्पर्यम् । तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षेपध्वनिधीरत्र कार्या । सर्वथेष्टनिषेधाभासस्य विध्युन्मुखस्याक्षेपत्वमिति स्थितम् ।

_______________

त्यादि । तस्येत्याक्षेपस्य । तद्भावमात्रेणेति । केवलेनैव चमत्कारसद्भावेनेत्यर्थः । प्रतीयत इति गम्यते । नाहं गणिकेति निषेधस्य शब्दानुपात्तत्वाद्विशेषमात्रस्य गम्यत्वे आक्षेपालंकारो वाच्य एव । निषेधाभासस्यापि गम्यत्वे ध्वन्य इत्यनेन दर्शितम् । अन्यथा ह्यस्य ध्वन्यमानोदाहरणत्वमयुक्तं स्यात् । तस्येहानुपक्रान्तत्वात् । इत्थं च निषेधाभासस्यैव443 गम्यत्वेऽयं ध्वन्यमानो भवति । न निषेधमात्रस्यैवेति दर्शयितुमाह—न त्वित्यादि । अतश्च ध्वनिकृतायदेतदांक्षेपध्वनावुदाहृतं444 तदयुक्तमेवेति भावः । एवं चास्य यथोपपादितं स्वरूपमुपसंहारभङ्गयापि प्रतिपादयति— सर्वथेत्यादिना । सर्वथे-

** एवमिष्टनिषेधेनाक्षेपमुक्त्वा समानन्यायत्वादनिष्टविधिनाक्षेपमाह—**

अनिष्टविध्याभासश्च ।

यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्न एवमनिष्टस्याप्यनिष्टत्वादेव विधानं नोपपद्यते । तत्क्रियमाणं प्रस्खलद्रूपत्वान्निषेधे पर्यवस्यति । ततश्च विधेरुपकरणीभूतो निषेध इति विधिनायं निषेधोऽनिष्टविशेषपर्यवसायी । निषेधागूरणादाक्षेपो यथा—

‘गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥’

अत्र कयाचित्कान्तस्य प्रस्थानमात्मनोऽनिष्टमप्यनिराकरणमुखेन वि-

__________________

त्यनेन कुत्राप्यस्य व्यभिचारो नास्तीति दर्शितम् । एतदुपसंहरन्नन्यदवतारयति—एवमित्यादिना । समानन्यायत्वादिति । यथात्रेष्टस्य निषेधो बाधितत्वाद्विधौ पर्यवस्यति तथैवेहाप्यनिष्टस्य विधिर्निषेधे इत्येवंरूपात् । एवमेतावन्मात्रमस्याद्यस्य चाक्षेपस्य साजात्यम्, न पुनः सामान्यलक्षणसंभव445 इति भावः । तदेवाह—**अनिष्टेत्यादि ।**एतदेव दृष्टान्तद्वारकं व्याचष्टे—यथेत्यादिना । तदिति विधानम् । प्रस्खलद्रूपत्वादिति स्वार्थबाधात् । पर्यवस्थतीति । स्वात्मसमर्पणेन निषेधं लक्षयतीत्यर्थः । ततश्चेति विधेर्निषेधलक्षणात् । उपकरणीभूत इति । स्वार्थबाधादुपसर्जनीभूत इत्यर्थः । अनिष्टविशेषेत्यनेन प्रयोजनमत्रोक्तम् । अन्यथा हि गजस्नानतुल्यत्वं स्यात् । निषेधागूरणादिति निषेधस्यात्र लक्ष्यमाणत्वात् । सर्वत्रैव हि लक्षणायां लाक्षणिकेनैव लक्ष्योऽर्थ आगूर्यते । तस्मात्तत्प्रतिपत्तेः । तच्चार्थान्तरागूरणं ‘स्वसिद्धये पराक्षेपः’ इत्येवं लक्षणाप्रकारस्य पूर्वे निरस्तत्वात्स्वात्मसमर्पणेनैव भवतीति यथोक्तमेव युक्तम् । अत एवास्यान्वर्थाभिधत्वम् । पर्यनुयोगवशादागूरणमपि ह्याक्षेपशब्दस्यार्थः। व्याजस्तुत्यादौ तु व्याजेन स्तुतेर्विवक्षितत्वात्तत्र तत्त्वमेव युक्तं नापेक्षत्वम् । इह हि प्रधानेन व्यपदेशा भवन्ति’ इति न्यायाद्यदेव यत्र प्रधानतया विवक्ष्यते तदेव तत्र व्यपदेशनिमित्तम् । न तु प्रज्ञातिशय446वतां ‘प्राज्ञा वस्तुनि युध्यन्ति न तु सामयिके ध्वनौ’ इति नीत्या नाम्नि विवादो युक्तः । तस्मात् ‘आक्षिप्यतेऽत्र विधिना न यतो निषेधः स्वार्थे विधावपि न पर्यनुयोगबुद्धिः । तस्मादनिष्टविधिरेव विलक्षणत्वान्नाक्षेपमध्यपतितोऽपि तु भिन्न एव ॥’ इत्यादि न वाच्यम् । निराकरण447मुखेनेति । प्रवृत्तक्रियत्वात्कान्तस्यानुमोदनद्वारणेत्यर्थः । प्रस्खल448-

धीयते । न चास्य विधिर्युक्तः । अनिष्टत्वात् । सोऽयं प्रस्खलद्रूप449त्वेन निषेधमागूरयति । फलं चात्रानिष्टस्य प्रस्थानस्यासंविज्ञानपदनिबन्ध450नमत्यन्तपरिहार्यत्वप्रतिपादनम् । एतच्च ममापि तत्रैवेत्याशीः प्रतिपादनेनानिष्टपर्यवसायिना व्यञ्जितम् । यथा वा—

‘नो किंचित्कथनीयमस्ति सुभग प्रौढाः परं त्वादृशाः
पन्थानः कुशला भवन्तु भवतः को मादृशामाग्रहः ।
किं त्वेतत्कथयामि संततरतक्लान्तिच्छिदस्तास्त्वया
स्मर्तव्याः शिशिराः451 सहंसगतयो गोदावरीवीचयः ॥’

अत्रानभिप्रेतमपि कान्तप्रस्थानं यदा452 प्रमुख एवाभ्युपगम्यमानं प्रतीयते, तदायमनिष्टविधिराभासमानमाक्षेपाङ्गम् स्मर्तव्या इत्यनेन गमननिवृत्तिरेवोपोद्वलिता । तस्मादयमपि प्रकार आक्षेपस्य समानन्यायतयाभिनवत्वेनोक्तः ।

आक्षेपे इष्ट453निषेधेऽनिष्टविधौ चानुपपद्यमानत्वाद्विरुद्धत्वमनुप्रविष्टम् । एतत्प्रस्तावेन विरोधगर्भोऽलंकारवर्गः प्रक्रियते454 । तत्रापि विरोधालंकारस्तावल्लक्ष्यते—

विरुद्धाभासत्वं विरोधः ।

___________________

द्रूपत्वेनेति स्वार्थबाधात् । आगूरयतीति स्वात्मसमर्पणेन । ननु विधिमुखेनास्य किमागूरणं स्वयं निषेध एव क्रियतामित्याशङ्क्याह—फलमित्यादि । एतच्चेति विधेनिषेधागूरकत्वम् । यथा वेत्यनेनास्य लक्ष्ये प्राचुर्येदर्शितम् । प्रमुख एवेति । न पुनः पर्यवसान इत्यर्थः । एतदेवोपसंहरति—तस्मादित्यादिना । अभिनवत्वेनेति दण्ड्यायपेक्षया । तेन ह्यसौ ‘इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना । स्वावस्थां सूचयन्त्येवं प्रिययात्रा निषिध्यते ॥’ इत्युक्तेरसंभवतापि लक्षणेन लक्षितः । न पुनर्ग्रन्थकृदुपज्ञत्वेनैतद्व्या-ख्येयम् । ‘विधिनिषेधाभ्यां प्रतिषेधविध्युक्तिराक्षेपः’ इतीदृगेव हि श्रीभोजदेवेनाप्यस्य लक्षणं कृतम् । इदानीं विरोधस्य लक्षणमुपक्रमते—आक्षेप इत्यादिना । एतत्प्रस्तावेनेति । विरुद्धत्वानुप्रवेशानु-गुण्येनेत्यर्थः । तत्रापीति । विरोधगर्भालंकारोपक्रमेऽपीत्यर्थः। तावदित्युपक्रमे । तत्र हि विरुद्धगर्भ-त्वस्य प्राधान्यम् । तदेवाह—विरुद्धेत्यादि ।

इह जात्यादीनां चतुर्णी पदार्थानां प्रत्येकं तन्मध्य एव सजातीयविजातीयाभ्यां विरोधिभ्यां संबन्धे विरोधः । स च समाधानं विना प्ररूढो दोषः । सति तु समाधाने455 प्रमुख एवाभासमानत्वाद्विरोधाभासः । तत्र जातिविरोधस्य जात्यादिभिः सह चत्वारो भेदाः । गुणस्य गुणादिभिः सह त्रयः । क्रियायाः क्रियाद्रव्याभ्यां सह द्वौ भेदौ । द्रव्यस्य द्रव्येण सहैकः । तदेवं दश विरोधभेदाः । तत्र दिङ्मात्रेणोदाहरणं यथा—

‘परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥’

अत्र जडीकरणपापकरणयोः क्रिययोर्विरोधो वस्तुसौन्दर्येणाप्राप्तिपर्यवसानेन परिहियते । तथा—

‘अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥’

______________

तन्मध्य एवेति । जात्यादीनां गुणादय एव विजातीया गुणादीनामपि जात्यादय एव विजातीया ग्राह्याः, न पुनरन्ये यदृच्छादय इत्यर्थः। ननु विरोधस्य दोषत्वं वाच्यं प्रत्युतास्य कथमलंकारत्वमुच्यत इत्याशङ्कयाह—स चेत्यादि । समाधानमिति । वस्तुवृत्तपर्यालोचनालभ्यो विरोधप्रतीत्यनन्तरभावी नैतदेवमिति प्रत्ययरूपो बाधः । प्रमुख एवेति न पुनःपर्यवसाने । तेनामुखावगतो विरोधः पर्यवसाने न तथा प्ररोहमेतीति456 भावः । एतच्च श्लेष एव वितत्य प्रतिपादितमितीह न पुनरायस्तम् । एवं च सत्यपि समाधाने दोषाभावमात्रमेवास्य स्वरूपं नाशङ्कनीयम् । अलंकारत्वपर्यवसायिनो विच्छित्तिविशेषस्यापि457 संभवात् । जातेर्गुणेन सह विरोधे उक्ते ‘विरोधोऽन्योन्यबाधनम्’ इति दृशा तेनैव गुणस्यापि जात्या सह विरोधः सिद्धः । अत एव गुणस्य जातिवर्जेत्रयोभेदाः । एवमन्यत्रापि ज्ञेयम् ।दिङ्मात्रेणेति । अनैनैषां लक्ष्ये तथा वैचित्र्याभावादनवक्लृप्तिर्ध्वनिता । अत एवास्मा

अत्र जलनिधिः पीत इति द्रव्यक्रिययोर्विरोधो मुनिंगतेन महाप्रभावत्वेन समाधीयते । एवमन्यदपि ज्ञेयम् ।

विविक्तविषयत्वेन चास्य दृष्टेः । श्लेषगर्भत्वे विरोधप्रतिभोत्पतिहेतुः श्लेष औद्भुटानाम् । दर्शनान्तरे तु संकरालंकारः । यथा— ‘संनिहितवालान्धकारा भास्वन्मूर्तिश्च’ इत्यादौ विरोधिनोर्द्वयोरपि श्लिष्टत्वे । एकस्य तु श्लिष्टत्वे ‘कुपतिमपि कलत्रवल्लभम्’ इत्यादौ । एकविषयत्वे चायमिप्यते । विषयभेदे त्वसंगतिप्रभृतिर्वक्ष्यते ।

एवं विरोधमुक्त्वा विरोधमूला अलंकाराः प्रदर्श्यन्ते । तत्रापि कारणभावमूलत्वे विभावनां तावदाह—

________________

भिरप्येते नोदाहृताः458अन्यदिति । अनेनेह चिरंतनैरनुक्ता अपि वैचित्र्याधायिनो भेदा अनुसर्तव्या459 इत्यपि सूचितम् । तेन भावयोरभावयोर्भावाभावयोश्च विरुद्धत्वोपनिबन्धे विरोधी ज्ञेय इति । तत्र भावयोर्ग्रन्थकृतैवोदाहृतम् । अभावयोस्तु यथा— ‘तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेप एव पदमुद्धृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ । अत्राभावरूपयोः क्रिययोर्विरोधः \। भावाभावयोस्तु यथानङ्गलेखायां राजवर्णने ‘विदर्भाङ्गनाजनमपि दर्भगर्भकरमकरोत्, पञ्चतां जनयन्नपि पञ्चालस्य वैमुख्यमपुष्णात् पारसीकरणमप्यारसीकरणं चकार, मागधानपि विमागधान्व्यधात्, चोलकान्ता अप्यचोलकान्ताः समपादयत्, कुन्तलालसानप्यकुन्तला-लसांश्च निर्ममेशूरसेनानव्यशूरसेनानदर्शयत् ।’ इत्यादि । अस्यापि मतभेदेन श्लेषेण सह व्यवस्थितिं दर्शयितुमाह— विविक्तेत्यादि । ‘जडयति च तापं च कुरुते’ इत्यत्रास्य विविक्तविषयत्वम् । दर्शनान्तर इति ग्रन्थकृदभिमते । संकरशब्दश्चात्र संकीर्णमात्रे वर्तते । तेनात्र संकरेण संकीर्णत्वेन च श्लेष460मिश्रत्वेनालंकारो विरोधाभास इति व्याख्येयम् । अलंकारशब्देन चात्र विरोधाभास एवाभिधीयते । तस्यैवेह प्रस्तुतत्वात् । अहिले विरोधोत्पत्तौ हेतुत्वं भजते । तेन विना तस्यानुत्थानात् । संकरश्च स्वहेतुबलाल्लब्धसत्ताकयोरलंकारयोर्भवति । तेन यो यस्य हेतुत्वं भजते तेन सह तस्य संकरो न युक्तः । यद्वक्ष्यति— ‘न च विरोधोत्पत्तितोषस्य विरोधेन सहाङ्गाङ्गिसंकरः’ इति । द्वयोरेकस्येत्यनेन श्लेष मिश्रत्वस्यापि वैचित्र्यं दर्शितम् । अस्य च वक्ष्यमाणाद्विरोधगर्भादलंकाराद्वैलक्षण्यं दर्शयति—एकेत्यादिना । जडीकरणतापकरणयोर्विकारयोर्विकारिगतत्वेनास्यैक विषयत्वम् । विषयभेद इति । कार्यकारणादीनामेकविषयत्वोपपत्तावपि भिन्नदेशत्वाद्युपनिबन्धनात् । तावदिति प्रथमम् । कारणाभावे कार्योत्पत्तेरत्यन्तं विरुद्धत्वात् । आहेति । कारणाभाव इत्यादिना ।

कारणाभावे कार्यस्योत्पत्तिर्विभावना ।

इह कारणान्वयव्यतिरेकानुविधानात्कार्यस्य कारणमन्तरेणासंभवः । अन्यथा विरोधो दुष्परिहरः स्यात् । यदि461 तु कयाचिद्भङ्गया तथाभाव उपनिबध्यते तदा विभावनाख्योऽलंकारः । विशिष्टतया कार्यस्य भावनात्462 । सा च भङ्गिर्विशिष्टकारणाभावोपनिबन्धः463 । अप्रस्तुतं कारणं वस्तुतोऽस्तीति विरोधपरिहारः । कारणाभावेन चोप464क्रान्तत्वाद्बलवता कार्यमेव बाध्यमानत्वेन प्रतीयते, न तु तेन कारणाभाव इत्यन्योन्यबाधकत्वानुप्राणिताद्विरोधालंकाराद्भेदः । एवं विशेषोक्तौ कार्याभावेन कारणसत्ताया एव बाध्य-

________________

तत्र तावत्कार्यस्य कारणपरतन्त्रतां दर्शयति— इहेत्यादिना । यदुक्तम्— ‘यो हि येन विना नास्ति यस्मिंश्च सति विक्रिया465 । तदेव कारणं तस्य नान्यत्कारणमुच्यते ॥’ इति । अन्यथेति । यदि कारणं विनापि कार्यस्य संभव उपनिबध्यत इत्यर्थः । ननु यद्येवं तत्कथं कारणाभावे कार्योत्पत्तिरूपा विभावना भवतीत्याशङ्क्याह—**यदि त्वित्यादि ।**तथाभाव इति कारणाभावे कार्योत्पत्तिः । अत एव कार्यस्य विशिष्टत्वम् । **सेति ।**यथा भङ्गया कारणं विनापि कार्यसंभव466 उपनिबध्यत इत्यर्थः । विशिष्टेति प्रसिद्धम् । विरोधपरिहार इति । अप्रसिद्धस्य कारणान्तरस्य प्रस्तुतत्वात् । ननु यद्येवं तत्कथमयं विरोध एव न भवतीत्याशङ्क्याह—कारणेत्यादि । तेनेति कार्येण । यदुक्तम्— ‘कारणस्य निषेधेन बाध्यमानः फलोदयः । विभावनायामाभाति विरोधोऽन्योन्यबाधनम् ॥ अतो467 दूरविभेदोऽस्या विरोधेन व्यवस्थितः ।’ इति । एतदेव प्रसङ्गाद्विशेषोक्तरप्या—एवमित्यादि । लेखककल्पितश्चायमपपाठः । तथा हि— ‘हरतापि तनुं यस्य’ इत्यादौ बलाहरणेन कार्यभावेन तनुहरणरूपं कारणं न बाध्यते अपि तु सत्यपि तनुहरणाख्ये सामग्र्ये कथं न बलं हृतमिति कार्याभावस्यैव बाध्यत्वेन प्रतीतिः । तस्मात् ‘एवं विशेषोक्तौ कारणसत्तया468 कार्याभावस्यैव बाध्यमानत्वमुन्नेयम्’ इति पाठो ग्राह्यः । एतदेव469 राजानकतिलकेनाप्युक्तम्— ‘कारणसामग्र्यमिह बाधकत्वेनैव प्रतीयते कार्यानुत्पत्तिस्तु बाध्यत्वेन’ इति । ग्रन्थकृच्च प्रायस्तन्मतानुवर्त्येव । तदुक्तसमा-

मानत्वमुन्नेयम् । येन सापि विरोधाद्भिन्ना स्यात् । इह च लक्षणे यद्यप्यन्यैः कारणपदस्थाने क्रियाग्रहणं कृतं तथापीह कारणपदमेव विहितम् । नहि सर्वैः क्रियाफलमेव कार्यमभ्युपगम्यते । वैयाकरणैरेव तथाभ्युपगमात् । अतो विशेषमनपेक्ष्य सामान्येन कारणपदमेवेह निर्दिष्टम् । यथा470

‘असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥’

** अत्र द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावेऽपि यौवनहेतुकत्वेनोपनिबन्धः कृतः । मदस्य च द्वैविध्येऽप्यभेदाध्यवसायादेकत्वमतिशयोक्त्या । सा चास्यामव्यभिचारिणीति न तद्बाधेनास्या उत्थानम्471, अपि तु तदनुप्राणितत्वेन । इयं च विशेषोक्तिवदुक्तानुक्त निमित्तभेदाविधैव । तत्रोक्तनिमित्तोदाहृता । अनुतनिमित्ता यथा—**

_________________

नन्यायोऽस्माभिः पाठो लक्षितः । येनेति । एकस्यैव बाध्यत्वेन प्रतीतेः । ननु च ‘क्रियायाःप्रतिषेधेऽपि यत्फलस्य विभावनम्472 । ज्ञेया विभावना–’ इत्यादिनोद्भटादिभिरेतल्लक्षणे क्रियाग्रहणं कृतमिति कथमिह तदुल्लङ्घनेन कारणग्रहणं कृतमित्याशङ्क्याह—इहेत्यादि । सर्वैरिति बौद्धादिभिः । अत इति । वैयाकरणैरेव क्रियाफलस्य कार्यस्याभ्युपगमात् । सामान्येनेति । सर्ववादिसाधारणतयेत्यर्थः । सर्ववादिसाधारणोऽयं ग्रन्थः ।द्वितीय इति । अन्यपादयोर्न विभावनेत्यर्थः473यौवनहेतुकत्वेनेति । समाधानायाप्रसिद्धं कारणमाश्रित्येत्यर्थः। अन्यथा हि विरोधपरिहारो न स्यात् । ननु चासवजनितोऽन्य एव मदो यौवनहेतुकश्चान्य एवेत्यत्र यौवनहेतुक एव विवक्षित इति कथं कारणाभावे कार्यस्योत्पत्तिरित्याशङ्क्याह—मदस्येत्यादि । द्वैविध्य इति क्षैव्यदर्परूपे । मेत्यतिशयोक्तिः । अव्यभिचारिणीति । अतिशयोक्तिं विनास्या अनुत्थानात् । अत एवेयमतिशयोक्त्यनुप्राणितैव भवतीति सिद्धम् । तदेवाह—**तद्नुप्राणितत्वेनेति ।**यदुक्तमन्यत्रापि— ‘आश्लिष्टतिशयोक्तिश्च सर्वत्रैव विभावना’ इति । ‘निरुपादानसंभारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलालाध्याय शलिने ॥’ इत्यत्र तु जगत उपादानादिविरहेणैव भगवत्कार्यस्य वास्तवत्वाद्रिभावनैव नास्तीति कस्यातिशयोक्त्यनु-प्राणितत्वं स्यात् । एवम्— ‘ण अ रूवं ण अ ऋद्धी णा474वि कुलं ण अगुणाण विण्णाणम् । एमे अ तह ण वि कस्स वि को वि अणो वल्लहो होइ ॥’ इत्यादावपि ज्ञेयम् । अतश्च कचिच्छुद्धस्थापि संभवात्सर्वत्रा-स्यातिशयोक्त्यनुप्राणितत्वमिति न वाच्यमिति यदुक्तं तदयुक्तम् । विशेषोक्तिवदिति । विशेषोक्तौ प्राज्यैर्यथोक्तमित्यर्थः । अत्र चाद्य उदाहरणे द्वितीयपाद

‘अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् ।
अनलक्तकताम्राभामोष्ठलेखां च बिभ्रतीम् ॥’

अत्र सहजत्वं निमित्तं गम्यमानम् । असंभृतं मण्डनमिति, काम॑स्य पुष्पव्यतिरिक्तमस्त्रमिति च । अत्र विवदन्ते— इयमेव विभावनेति केचित् । संभरणस्य पुष्पाणां च मण्डनमस्त्रं प्रत्यकारणत्वाद्वान्त (?)मेतत् । एकगुणहानौ विशेषोक्तिरित्यन्ये । रूपकमेवाधिरोपित-वैशिष्ट्यमिति त्वपरे । आरोप्यमाणस्य प्रकृते संभवात्परिणाम इत्यद्यतनाः ।

विभावनां लक्षयित्वा तद्विपर्ययस्वरूपां विशेषोक्तिं लक्षयति—

कारणसामग्र्ये कार्यानुत्पत्तिर्विशेषोक्तिः ।

इह समग्राणि कारणानि नियमेन कार्यमुत्पादयन्तीति प्रसिद्धम् । अन्यथा समग्रत्वस्यैवाभावप्रसङ्गात् ।

यत्तु सत्यपि सामग्र्ये न जनयन्ति कार्ये सा कंचिद्विशेषमभिव्यङ्क्तुःप्रयु-

___________________

एव विभावना व्याख्येया न पुनरन्यैर्यथोक्तमित्याह—असंभृतमित्यादि । केचिदिति विवदन्त इति संबन्धः । अकारणत्वादिति । संभरणादीह475 मण्डनादेः स्वरूपम् । यद्येवं तर्ह्यत्रान्यः कोऽलंकार इत्याशङ्क्याह—एकेत्यादि । अन्य इति वामनीयाः। अपर इत्यौद्भटाः । तृतीयस्तु पक्षो न ग्राह्यः । लेखकपरिकल्पितत्वात् । तथाह्यारोप्यमाणस्य प्रकृते संभव इति न परिणामलक्षणम् । आरोप्यमाणस्य476 प्रकृत उपयोग इति तस्य लक्षितत्वात् । संभवोपयोगयोश्च नैकत्वम् । भिन्नत्वात् । ग्रन्थकृतापि साहित्यमीमांसायामेतलोकविवृतौ पक्षद्वयमेवोक्तम् । लेखकैश्चास्य ग्रन्थस्य प्रतिपदमेवविपर्यासः कृतः । तथा चात्रैवासंभृतमित्यादिको ग्रन्थस्तदनुप्राणितत्वेनेत्यस्य पश्चादुपपन्नोऽपि गम्यमानमित्यस्य पश्चाल्लिखितः । एतच्च न तथा दूषणमित्यस्माभिर्यथास्थित एव ग्रन्थो व्याख्यातः । तद्विपर्ययेति । कारणसामग्र्येकार्यानुत्पादात् । तामेवाह—कारणेत्यादि । समग्राणीति नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायादसमग्राणां पुनः कार्यजनकत्वं न न स्यादिति भावः । अत एवाव्यभिचारायाह—नियमेनेति । अन्यथेति यदा कारणानि कार्य नोत्पादयन्ति । एवं नैकं किंचन जनकं सामग्री वै जनिकेति नीत्या समग्राणां कारणानां कार्यजनकत्वं भवत्येवेति तात्पर्यार्थः । यदा त्वेतद्विपर्यय उपनिबध्यते तदा विशेषोक्तिर्भवतीत्याह—यत्तिवत्यादि । अत्र च वस्तुतो निमित्तमस्तीति विरोधपरिहारः ।

ज्यमाना विशेषोक्तिः । सा च द्विविधा— उक्तनिमित्तानुक्तनिमित्ता च । अचिन्त्यनिमित्ता त्वनुक्तनिमित्तैव । अनुक्तस्य च चिन्त्याचिन्त्यत्वेन हैविध्यात् । क्रमेण यथा—

‘कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने ।
नमोऽस्त्ववारवीर्याय तस्मै कुसुमधन्वने ॥’

‘आहूतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि ।
गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति ॥’

‘स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शंभुना न हृतं बलम् ॥’

अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कार्यस्यानुत्पत्तिः शक्तिस्वरूपेणा-विरुद्धेन धर्मेणोपनिबद्धा । अवार्यवीर्यत्वं चात्रोक्तनिमित्तम् । तथाह्वानादयः संकोचशिथिली-कारहेतव इति तेषु सत्स्वपि तस्यानुत्पत्तौ प्रियतमास्वप्नसमागमाद्यनुक्तं सच्चिन्त्यं निमित्तम् । तथा तनुहरणकारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनुक्तमप्यचिन्त्यमेव । प्रतीत्यगोचरत्वात् । कार्यानुत्पत्तिश्चात्र क्वचित्कार्यविरोधोत्पत्त्या निबध्यते । एवं विभावनायामपि कारणाभावः कारणविरुद्धमुखेन क्वचित्प्रतिपाद्यते । तथा च सति,

‘यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।

________________

तद्धेतुकमेवास्या भेदनिर्देशमाह—सा चेत्यादि । अचिन्त्येत्युत्तानाशयैः । वस्तुतस्तु संभवत्येव । अन्यथा ह्यस्या विरोधो दुष्परिहार्यः स्यात् । अविकल इति । समग्रे विरुद्धधर्मत्वं शक्त्यशक्त्योर्विरोधात् । अस्याश्च कार्यानुत्पत्तेविच्छित्यन्तरेण बन्धं दर्शयितुमाह—कार्येत्यादि । यथा कर्पूर इवेत्यादौ । एवमिति । यथैवात्र कार्यानुत्पत्तिर्विरुद्धमुखेनोपनिबध्यत इत्यर्थः । तथा च सतीति । द्वयोरप्यनयोर्विरुद्धमुखेन कार्यकारणभावोपनिबन्धे सतीत्यर्थः । उत्कण्ठायाःकारणं कौमारहरवराद्य-संनिधानम् । तस्य विरुद्धं तत्संनिधानम् । तेन कौमारहरवराद्यसंनिधानरूपं कारणं विनायुत्कण्ठाया उत्पाद इति विभावना । तथा कौमारहरवरादिसंनिधानरूपस्य कारणस्य कार्यमनुत्कण्ठा तस्याश्च विरुद्वोत्कण्ठा । तेन सत्यपि कौमारहरवरादिसंनिधानरूपे कारणे समग्र कार्यस्यानुत्कण्ठा-

सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ
रेवारोघसि वेतसीतरुतले चेतः समुत्कण्ठते ॥’

इत्यत्र विभावनाविशेषोक्त्योः संदेहसंकरः । तथा ह्युत्कण्ठाकारणं विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना । तथा यः कौमारहर इत्यादेः कारणस्य कार्ये विरुद्धं चेतः समुत्कण्ठत इत्युत्कण्ठाख्यं निबद्धमिति विशेषोक्तिः । विरुद्धमुखेनोपनिबन्धात्केवलमस्प-ष्टत्वम् । साधकबाधकप्रमाणाभावाच्चात्र संदेहसंकरः ।

या477 तु ‘एकगुणहानिकल्पनायां साम्यदार्ढ्ये विशेषोक्तिः’ इति विशेषोक्तिर्लक्षिता सास्मिन्दर्शने रूपकभेद एवेति पृथङ्ग वाच्या ।

अतिशयोक्तौ लक्षितायामपि कश्चित्प्रभेद कार्यकारणभावप्रस्तावेनेहोच्यते—

कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः ।

इह नियतपूर्वकालभाविकारणं नियतपश्चात्कालभावि कार्यमिति कार्यकारणयोर्लक्षणं प्रसिद्धम् । यदा तु विशेषप्रतिपादनाय तयोरेतद्रूपापगमः क्रियते तदातिशयोक्तिः । एतद्रूपापगमश्च कालसाम्यनिबन्धनः कालवि-

_________________

रूपस्याभाव इति विशेषोक्तिः । अस्पष्टत्वमिति । कार्यकारणयोः साक्षान्निषेध्यत्वेनाप्रतीतेः। ननु चात्रानयोः किमिति संदेह एकपक्षाश्रय एव क्रियतामित्याशङ्क्याह—साधकेत्यादि । ननु ‘द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्’ इत्यादौ वामनेन या विशेषोक्तिरुक्ता सा किं नोच्यत इत्याशङ्कयाह—या त्वित्यादि । एवमनयैव दृशा एकगुणहान्युपचयादिकल्पनायां साम्यदार्ढ्ये

विशेष इति लक्षितो विशेषालंकारोऽप्यस्मिन्दशेने रूपकभेद एवेति न पृथग्वाच्यः । प्रस्तावेनानुगुण्येन । अत एवेयन्तः कार्यकारणभावाश्रया विच्छित्तिविशेषाः संभवन्तीति प्रपञ्चमात्रं दर्शयितुं पुनरिहास्या478 वचनम् । एतच्चग्रन्थकृतैवोक्तम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालंकार-प्रस्तावे प्रपञ्चार्थे लक्षयिष्यत इत्युच्यत इति न पुनर्निर्णीयते । पूर्वत्रैवास्य निर्णीतत्वात् । तामेवाह—कार्यकारणयोरित्यादि । उभयत्रापि नियतशब्द एतदव्य-

पर्यासनिबन्धनश्चेति द्विधा भवन्नतिशयोक्तिमपि द्वैधे स्थापयति । क्रमेण यथा—

‘पश्यत्सूगद्गसान्द्रविस्मयरसप्रोत्फुल्लनीलोत्पलं
भूपालेषु तवात्र सूक्ष्मनिशिते निस्त्रिंशिवाराध्वनि ।
कीर्त्या च द्विषतः श्रिया479 च युगपद्राजन्यचूडामणे
हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम् ॥’

‘पथि पथि शुकचञ्चूचारुरम्भाङ्कुराणां
दिशि दिशि पवमानो वीरुधां लासकश्च ।
नरि नरि किरति द्राक्सायकान्पुष्पधन्वा
पुरि पुरि च निवृत्ता मानिनीमानचर्चा ॥’

पूर्वत्र प्रौढोक्तिनिर्मितेऽर्थे शत्रुश्रीप्रवेशः कीर्तिनिर्गमनस्य हेतुरिति भिन्नकालयोस्तुल्यकालत्वं निबद्धम् । उत्तरत्र च माननिवृत्तिः स्मरशरप्रकिरणकार्येति तयोस्तुल्यत्वेनोपपन्नं480 पौर्वापर्ये व्यत्ययेन निर्दिष्टमित्यतिशयोक्तिः। कार्यस्य चाशुभावाख्यो481 विशेषः प्रतिपाद्यते ।

तयोस्तु भिन्नदेशत्वेऽसंगतिः ।

तयोरिति कार्यकारणयोः । यद्देशमेव कारणं तद्देशमेव कार्ये दृष्टम् । नहि महानसस्थो वह्निः पर्वतदेशस्थं धूमं जनयति । यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्यमुपनिबध्यते तदोचितसंगतिनिवृत्तेरसंगत्याख्योऽलंकारः। विरुद्धकार्यकारणभावप्रस्तावादिह लक्ष्यते । यथा—

‘प्रायः पथ्यपराङ्मुखा विषयिणो भूपा भवन्त्यात्मना
निर्दोषान्सचिवान्भजत्यतिमहांल्लोकापवादज्वरः ।’

_______________

भिचारदर्शनात् । एतद्रूपापगम इति । कार्यकारणयोः सामान्यविपर्यासाभ्यामुपनिबन्धनात् ।प्रौढोक्तिनिर्मित इति । कीर्तिश्रियोस्तुतो निर्गमनप्रवेशासंभवात् । प्रतिपाद्यत इति प्रयोजनत्वात् । तयोरित्यादि । एतदेव व्यतिरेकमुखेनापि दर्शयति—नहीत्यादिना । उचितसंगतिनिवृत्तेरिति । एकदेशयोरपि कार्यकारणयोभिन्नदेशत्वेनोपनिबन्धनात् । अत एव च तयोर्भिन्नदेशत्वादियं विषयभेदेन भवतीत्येकविषयाद्विरोधादस्य

‘वन्द्याःश्लाघ्यगुणास्त एव विपिने संतोषभाजः परं
बाह्योऽयं वरमेव सेवकजनो धिक्सर्वथा मन्त्रिणः ॥’

अत्र पथ्यपराङ्मुखत्वमुपालम्भज्वरविषयत्वस्य भिन्नदेशो हेतुरित्यसंगतिः । एवम्482

‘सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरभरं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यसमाश्रितै483रपटवो जाताः स्म इत्यद्भुतम् ॥’

( इत्यत्र ज्ञेयम् ।) अत्र484 बाल्यनिमित्तमप्रगल्भवचनत्वमन्यदन्यच्च स्मरनिमित्तकमित्यनयोर-भेदाध्यवसायः । एवमन्यत्र ज्ञेयम्

विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम् ।

विरोधप्रस्तावेनेह लक्षणम् । तत्र कारणगुणप्रक्रमेण कार्यमुत्पद्यत इति प्रसिद्धौ यद्विरूपं कार्यमुत्पद्यमानं दृश्यते तदेकं विषमम् । तथा कंचिदर्थं साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भो यावदनर्थप्रा-

_________________

भेदः । इह लक्ष्यत इति । अस्या अपि कारणयोर्भिन्नदेशत्वेन विरोधगर्भत्वात् । अभेदाध्यवसाय इति । अनेनातिशयोक्तिरस्या अप्यनुप्राणकत्वेन कटाक्षिता । अन्यथा हि विरोधो दुष्परिहरः स्यात् । एवं पथ्यज्वरशब्दयोरतिशयोक्तिबलात्प्रजापालनयुक्तिसंतापवाचकत्वं द्रष्टव्यम् । अन्यत्रेति कातरत्वादौ । विरूपेत्यादि । इहेति । अस्या अप्यननुरूपसंसर्गेण विरोधगर्भत्वात्485विरूपमिति । कारणापेक्षया विजातीयत्वेनातद्गुणत्वात् । यद्यपि ‘गोमयागृश्चिकोत्पत्तिः’ इतिवत्कार्यकारणयोर्वास्तवं विरूपत्वं संभवति तथापीह कविप्रतिभानिर्वर्तितमेव तद्ग्राह्यम् । तेन ‘द्राक्षाफलानि शिखरेषु शिलोच्चयानां पीयूषसाररसनिर्भरगर्भवन्ति । विष्वग्दृषत्कठिनकायनिगूढशृङ्ग486शृङ्गाटकानि पुनरम्भसि संभवन्ति ॥’ इत्यादौ विषमं न वाच्यम् । ईदृश एव कार्यकारणभावस्य वस्तुतः संभवात् । तस्येति साधयितुमिष्टस्य । अप्रतिलम्भ इति । असिद्धिरिति487 यावत् । अत्यन्तेति

प्तिरपीति द्वितीयं विषमम् । अत्यन्ता488ननुरूपसंघटनयोर्विरूपयोश्चसंघटनं489 तत्तृतीयं विषमम् । अनुरूप490संसर्गो हि विषमम् । क्रमेण यथा—

‘सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ॥’

‘तीर्थान्तरेषु मलपङ्कवतीर्विहाय
दिव्यास्तनूस्तनुभृतः सहसा लभन्ते ।
वाराणसि त्वयि तु मुक्तकलेवराणां
लाभोऽस्तु मूलमपि यात्यपुनर्भवाय ॥’

‘अरण्यानी क्वेयं घृतकनकसूत्रः क्व स मृगः
क्व मुक्ताहारोऽयं क्व च स पतगः क्वेयमबाला ।
क्व तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं
स्वमाकूतं धाता निभृतनिभृतं कन्दलयति491 ॥’

अत्र कृष्णवर्णाच्छुक्लवर्णोत्पत्तिः कलेवरात्यन्तापहारलक्षणानर्थान्तरोत्पत्तिरिति अत्यन्तान-नुरूपाणां चारण्यादीनां परस्परं संघटनं492 क्रमेण

________________

न केवलं तयोः स्वयं विरूपत्वं यावत्तत्संघटनाया अप्यननुरूपत्व493मित्यत्र तात्पर्यम् । एकमित्याद्य-भिदधता ग्रन्थकृता विषमाणां494 भिन्नत्वमुक्तम् न प्रकारप्रकारित्वम् । सामान्यलक्षणस्यासंभवात् । एवमेव पुनरेषां कस्मादभिधानमित्याशङ्क्याह—**अननुरूपेत्यादि ।**यत्किंचित्पुनरस्मद्दर्शनविरुद्धमन्यैरधिक-मुक्तं तदिहास्माभिर्यथावस्तुग्रन्थार्थमात्रव्याख्याननिर्वाहसमुत्सुकमानसत्वान्न निराकृतमिति न तदेव सिद्धान्तीकार्यम् । तस्य पृथङ्गिरसिष्यमाणत्वात् । इह हि यथाशक्त्यस्माकमाग्रहप्रवृत्तपरकीयदूषणो-द्धारमात्रमेव विवक्षितम् । यथोपयोगं पुनस्तन्निराकरणमपिकृतं करिष्यते च । अत्र शुक्लकृष्णवर्णत्वं कार्यकारणात्मकविषयद्वयगतत्वेन स्थितमित्यस्य भिन्नविषयत्वादेकविषयाद्विरोधाद्भेदो ज्ञेयः । एवमन्यत्रापि ज्ञेयम् । अरण्यान्यादीनामननुरूपमन्योन्यघटनं495 वास्तवमित्युदाहरणान्तरेणोदाह्रियते । यथा— ‘शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना । अयं क्व च कुकूलाग्निकर्कशो मदनानलः ॥’

मन्तव्यम् । केवलमनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायिनीति शुद्धोदाहरणमप्यूह्यम्496 । यथा—

‘परहिअअं मग्गन्ती इआरिअं अत्तणोतए हिअअम् ।
अव्योल्लाहस्स कए मूलाओ विछेइआ जाआ ॥’

इति तत्रोदाहार्यम् ।

तद्विपर्ययःसमम् ।

विषमवैधर्म्यादिह प्रस्तावः । यद्यपि विषमस्य भेदत्रयमुक्तं तथापि च्छब्देन संभवादन्त्यो भेदः परामृप्यते । पूर्वभेदद्वयविपर्ययस्यानलंकारत्वात् । अन्त्यभेदविपर्ययस्तु चारुत्वात्समाख्योऽ-लंकारः । स चाभिरूपानभिरूपविषयत्वेन द्विविधः । आद्यो यथा—

‘त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः
कलानां सीमान्तं परमिह युवामेव भजथः ।
अयि द्वन्द्वं दिष्ट्या तदिह सुभगे संवदति वा
मतः शेषं यत्स्याजितमिह तदानीं गुणितया ॥’

अत्राभिरूपस्यैव नायकयुगलस्योचितं संघटनमाशंसितम् । द्वितीयो यथा—

‘चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं
जातो दैवादुचितरचनासंविधाता विधाता ।

____________

अत्राननुरूपयोस्तन्वीमदनानलयोः संघटनम् । अत्रेति तीर्थान्तरेध्वित्यादौ । **शुद्धेति ।**यत्र विषममेव न स्यात् । तत्तु यथा— ‘यो हठं प्रतिनिषेद्धुमुदस्तः सुभ्रुवा प्रियतमस्य कटाक्षः । स प्रतोद इव तस्य विशेषात्प्रेरकः किमपि हन्त बभूव ॥’ अत्र कटाक्षस्य हठनिषेधायोदस्तस्य न केवलं तदसिद्धिर्यावत्तस्यैवात्यन्तं स प्रेरको जात इत्यनर्थोत्पत्तिः । तद्विपर्ययेत्यादि । संभवादित्यलंकारत्वस्य । अनलंकारत्वादिति । कारणात्कार्योत्पत्तेर्वस्तुसाधनोद्यतस्य तत्सिद्धेश्च वास्तवत्वात् । यद्येवं तत्सरूपसंघटनापि वस्तुत एव युक्तेति तस्या अपि कथमलंकारत्वमित्याशङ्क्याह—अन्त्येत्यादि । चारुत्वादित्यलंकारत्वपर्यवसायिनः । अभिमानरूपेति । शोभनाशोभनविषयत्वेनेत्यर्थः । आद्य इत्यभिरू-

यन्निम्बानां परिणतफलस्फातिरास्वादनीय।
यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥’

अत्रानभिरूपाणां निम्बानां काकानां च समागम आशंसितः । आनुरूप्यात्स497मत्वव्यपदेशः ।

विरोधमूलं विचित्रं लक्षयति—

स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम् ।

यस्य हेतोर्यत्फलं तस्य498 यदा तद्विपरीतं भवति तदा तद्विपरीतफलनिपत्त्यर्थं कस्यचित्प्रयत्न उत्साहो उत्साहो विचित्रालंकारः499 । आश्चर्यप्रतीतिहेतुत्वात् । न चायं प्रथमो विषमालंकारप्रकारः । स्वनिषेधमुखेन वैपरीत्यप्रतीतेः । विपरीतप्रतीत्या तु स्वनिषेधस्तस्य विषयः । यथा— ‘तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते’ इत्यादि । इह त्वन्यथा प्रतीतिः । यथा—

‘घेत्तुं मुच्चइ अहरे अण्णन्तो वलइ पेक्खिउं दिट्ठी।
घडिदुं विहडन्ति भुआ रआअ सरअम्भि वीसामो॥’

अत्र मोचनवलनविघटनविश्रमाणां यथाक्रमं ग्रहणप्रेक्षणघटनरमणानि500 विपरीतफलानि प्रयत्नविषयत्वेन निबद्धानि । यथा वा—

____________

पविषयः । द्वितीय इत्यनभिरूपविषयः । आनुरूप्यादित्यौचित्यलक्षणात् । स्वविपरीतेत्यादि । एतदेव व्याचष्टे—यस्येत्यादिना । यदिति प्रसिद्धम् । फलमिति कार्यम् । तस्येति हेतोः । तदिति कार्यम् । प्रयत्नस्य कार्यादिभेदेऽपि न वैचित्र्यमिति तदिह नोक्तम् । एवं यस्य यत्कार्य तस्य तावत्तद्विपरीतं न भवति । यदि च तत्त्वं स्यात्तन्निष्पत्त्यर्थ च यदि कस्यचित्प्रयत्नः स्यात्तदायमलंकार इत्यत्र तात्पर्यम् । ननु चैतद्विरूपकार्योत्पत्तेः किं न विषममेव भवतीत्याशङ्कयाह—न चायमित्यादि । तस्येति501 विषमस्य । नीलयापि पाण्डु यशःप्रसूतमिति विपरीतप्रतीति502बलादेतन्नोपपद्यत इति ह्यत्र प्रतीतिः । अन्यथेति निषेधबलाद्वैपरीत्यप्रयत्न इति । यद्यपि503 विषमे विरूपस्य कार्यस्य स्वयमेवोत्पत्तिरिह च

‘उन्नत्यै नमति प्रभुं प्रभुगृहान्द्रष्टुं बहिस्तिष्ठति
स्वद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया ।
प्राणान्प्राणितुमेव मुञ्चति रणे क्लिश्नाति भोगेच्छया

सर्वे तद्विपरीतमेव कुरुते तृष्णान्धदृक्सेवकः ॥’

अत्र विपरीतफलनिष्पादनप्रयत्नः सुज्ञानः ।

आश्रयाश्रयणोरानुरूप्यमधिकम् ।

विरोधप्रस्तावादिह निर्देशः । अनानुरूप्यस्य विरोधोत्थापकत्वात् । तच्चानानुरूप्यमाश्रयस्य वैपुल्येऽप्याश्रितस्य परिमितत्वाद्वा भवति यद्वाश्रितस्य वैपुल्येऽप्याश्रयस्य परिमितत्वाद्वा स्यात् । क्रमेण यथा—

‘धौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचि
त्क्वाप्यत्रैव धरा धराधरजलाधारावधिर्वर्तते ।
स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधै
दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥’

‘दोर्दण्डाञ्चितचन्दशेखरधनुर्दण्डावभङ्गोद्यत
ष्टांकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।

_____________

तन्निष्पत्तये प्रयत्न इति स्थितोऽप्यनयोः स्फुटो भेदस्तथापि ग्रन्थकृता विशेषपरिपोषायैव सूक्ष्मेक्षिकागम्यो भेदोऽयमुक्तः । मोचनस्याग्रहणं504 स्वं फलम् । ग्रहणं पुनः कथं भवतीत्यामुख एवोद्रिक्तत्वेनात्र निषेधप्रतीतिः । अनन्तरं च तन्निमित्ता वैपरीत्यप्रतीतिः । अत एव विषमादस्य भेदः । सुज्ञान इति । पूर्वोक्तयुक्त्यैवावगतत्वात्पुनरुदाहरणमस्य लक्ष्ये प्राचुर्यदर्शनार्थम् । एतद्धि ग्रन्थकृतैवाभिनवत्वेनोक्तम् । आश्रयेत्यादि । इहेति विचित्रानन्तरम् । नन्वननुरूपयोः संघटने विषममुक्तमित्याश्रयायिणोस्तत्त्वे कथमलंकारान्तरत्वमुच्यत इत्याशङ्कागर्भीकारेणैतद्व्याचष्टे—तच्चेत्यादिना । आश्रयस्येत्याधारस्य । आश्रितस्येत्याधेयस्य । अनेनैव चास्य भेदद्वयमप्युक्तम् । एवं च परिमितत्वापरिमितत्वयोः सापेक्षत्वात्तथाविधवस्तुद्वयसंघटनयैव तदवगमनसिद्धिरित्यत्राधाराधेययोः संघटनेनैवाननुरूपत्वमवगम्यते । विषमे चानन्यापेक्षत्वेन स्वत एवाननुरूपयोः संघटनांमत्यनयो-र्महान्भेद इत्यत्र पिण्डार्थः। इत्थम्— ‘आधाराधेययोर्यत्र संसर्गः स्वाद्विरूपयोः । स स्फुटो विषमो वाच्यमधिकंनाधिकं ततः ॥’ इति न वाच्यम् । तच्चाश्रयाश्रयणोः कविप्रतिभाकल्पितमेव ग्राह्यस

द्राक्पर्याप्तकपालसंपुटमितब्रह्माण्डभाण्डोदर
भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥’

पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां द्युप्रभृतीनां पारिमित्यं चारुत्वहेतुः । उत्तरत्र तु टांकारध्वनेराश्रितस्य महत्त्वेऽपि ब्रह्माण्डस्याश्रयस्य स्तोकत्वम् ।

परस्परं क्रियाजननेऽन्योन्यम् ।

इहापि विरोधप्रस्ताव एव निर्देशकारणम् । परस्परजननस्य विरुद्धत्वात्505 । क्रियाद्वारकं यत्र परस्परोत्पादकत्वं506 न स्वरूपनिबन्धनं स्वरूपस्य तथात्वोक्तिविरोधात् तत्रान्योन्याख्योऽलंकारः । यथा—

‘कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकपालस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥’

____________

न पुनर्वास्तवम् । तेन चारुत्वाप्रतीतेः । तेन नभसो सुप्रभृतीनां चान्योन्यापेक्षया वैपुल्यं पारिमित्यं च वास्तवमेवेत्यनुदाहरणमेतत् । तदुदाहरणान्तरमन्वेष्यम् । तत्तु यथा— ‘रणरणअगुणिअमुज्जत्तणम्मि तणुई समुद्दगहिरम्मि । मेरुअडवच्छसः तुज्झ हिअए कहं णु ठाई ॥’ अत्र हृदयस्य महत्त्वं तन्वाश्च तनुत्वमित्याधाराधेययोरननुरूप्यम् । **परस्परमित्यादि ।**ननु यदि परस्परजननस्य विरुद्धत्वं तत्कथमस्यालंकारत्वमित्याशङ्क्याह—**क्रियेत्यादि ।**क्रियाशब्देनात्र धर्मो लक्ष्यते । अन्यथा— ‘प्रकाशः कोऽपि कैलासशैलपूर्णेन्दुबिम्बयोः । उदियाय तदा507न्योन्यपटुत्वजननक्रमात् ॥’ इत्यादौ गुणात्मकपटुत्वमुखेन परस्परजननेऽप्यव्याप्तिःस्यात् । परस्परोत्पादकत्वमिति । परस्परनिष्पाद-कत्वमित्यर्थः । एवं चानेन जननस्य क्रियासामान्यात्मककारणार्थत्वं दर्शितम् । तेन— ‘प्रियतमहृदयं विवेश तन्वी परयुवतिप्रसरापसारणाय । अतिसुभगतया हरन्तु मान्या इति च निजे हृदये निवेशयन्तम् ॥’ इत्यत्र परस्परं हृदयानुप्रवेशस्ताभ्यां कृत इति प्रतीतेः पर्यवसानात्परस्परजननस्याव्यापकत्वं508 न वाच्यम् । ‘विपर्ययं पूर्वकथाद्भुतस्य चालुक्यभूपालशरश्चकार । पपात यन्नष्टधृतिर्वराहस्तं विह्वालाङ्गं वसुधा बभार ॥’ इत्यत्र पुनरादिवराहवृत्तान्तवैलक्षण्यमात्रस्य विवक्षितत्वादन्योन्यालंकार एव नास्तीति कस्य व्यापकत्वं वा स्यात् । एवमन्यत्रापि ज्ञेयम् । तथात्वोक्तिविरोधादिति । इतरेतराश्रयदोष-लक्षणात् । यदि पुनरत्र विरोधसमाधिर्भवेत्तदालंकारत्वमपि स्यादिति भावः । यथा— ‘धनेन जायते

अत्र शोभाक्रियामुखकं परस्परजननम् ।

अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं विशेषः ।

इहाधारमन्तरेणाधेयं न वर्तत इति स्थितावपि यस्तत्परिहारेणाधेयस्योपनिबन्धः स एको विशेषः । यच्चैकं वस्तु परिमितं युगपदनेकधावर्तमानं क्रियते स द्वितीयो विशेषः । यच्च किंचिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं स तृतीयो विशेषः । आनुरूप्यपरिहाररूपविरोध-प्रस्तावाहोक्तिः। क्रमेण यथा—

‘दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ॥’

__________

प्रज्ञा प्रज्ञया जायते धनम् । प्रज्ञार्थो जीवलोकेऽस्मिन्परस्परनिबन्धनम् ॥’ अत्र प्रज्ञाधनयोः स्वरूपस्य परस्परं जननम् ।देशकालभेदाद्विरोधसमाधिः । शोभाक्रियेति । सैव ह्यत्र परस्परनिमित्तम्509अनाधारमित्यादि । एतदेव व्याचष्टे—इहेत्यादिना । तत्परिहारेणेति । आधारव्यतिरेकेणेत्यर्थः । परिमितमित्यव्यापकम् । व्यापकस्य हि युगपदनेकत्र स्थितिर्वस्तुसंभविनीति तत्र नालंकारत्वम् । किंचिदिति यत्र यादृग्विवक्षितम् । न केवलमारब्धस्य वस्तुनो निष्पत्तिर्यावदसंभाव्यस्यापि वस्त्वन्तरस्येत्यत्र तात्पर्यार्थः । तच्चवस्त्वन्तरं भवत्यचिकीर्षितं भवत्यचिकीर्षितं वा । एवं च ‘फलान्तरस्य निष्पत्तिचिकीर्षाविरहेऽपि या । स विशेषश्चिकीर्षायां प्रसङ्गस्तु ततः पृथक् ॥’ इत्यायुक्त-युक्त्या प्रसङ्गादन्यार्थः । प्रसङ्ग इति । प्रसङ्गाख्यमलंकारत्वं510 न वाच्यम् । न हि चिकीर्षितत्वमचिकी-र्षितत्वं वा कश्चिद्विच्छित्तिविशेषो येनालंकारान्तरत्वं स्यात् । यावता ह्यत्रासंभाव्यस्य511 वस्त्वन्तरस्य विच्छित्तिर्विवक्षिता सा चात्र स्थितेति किं चिकीर्षितत्वाचिकीर्षितत्वकल्पनेन । तस्मात् ‘अङ्गेषु सान्द्रहरिचन्दनपङ्कचर्चा मार्णालहारवलयादि च पान्यवध्वाः । योऽभूद्दिवा पतिवियोगविषाददम्भो ज्योत्स्नाभिसारपरिकर्म स नक्तमासीत् ॥’ इत्यत्र हरिचन्दनचर्चादिना न केवलं पतिवियोगविषाददम्भः कृतो यावदभिसारिकापरिकर्मापि कृतमित्यशक्यवस्त्वन्तरकरणात्मैवायं विशेषः । विशेषाश्चात्र त्रयो न पुनरेकस्त्रिविधः। लक्षणस्य भिन्नत्वात् । उचितस्य तु विशिष्टत्वस्य भावात्रयाणामपि विशेषत्वम् । गिरामत्र कविस्वभावादन्यत्र भावः । शंभोश्च लोकोत्तरवस्तुसंपादनं वास्तवमेवेति विशेषमत्रान्ये न मन्यन्ते । एतावतैव पुनरस्याभावो न वाच्याः । उदाहरणान्तरेष्वस्य संभवात् । तानि तु यथा— ‘अङ्गानि512 चन्दनरसादपि शीतलानि चन्द्रातपं वमति बाहुरयं यशोभिः । चालुक्यगोत्रतिलक क्व वसत्यसौ

________________________________________________________________________

४. ‘निष्पतिः’ ख.

‘प्रासादे सा पथि513 पथि च सा पृष्ठतः सा पुरः सा
पर्यङ्के सा दिशि514 दिशि च सा तद्वियोगातुरस्य ।
हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा
सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥’

‘निमेषमपि यद्येकं क्षीणदोषे करिष्यसि515
पदं चित्ते तदा शंभो किं न संपादयिष्यसि516 ॥’

अत्र कवीनामाधाराणामभावेऽप्याधेयानां गिरामवस्थितिरन्यत्रभावो517 विषयार्थ इति विषयत्वेन तेषामाधारत्वात् एकस्या एव योषितः प्रासादादौ युगपदवस्थानम्, तथा चित्तविषये पदकरणे प्रस्तुतेऽपि लोकोत्तरवस्तुसंपादानं क्रमेण ज्ञेयम् ।

यथा518साधितस्य तथैवान्येनान्यथाकरणं व्याघातः ।

यं519 कंचिदुपायविशेषमवलम्ब्य केनचिद्यन्निष्पादितं तत्ततोऽन्येन केन-

____________

ते दुर्वृत्तभूपपरितापगुरुः प्रतापः ॥’ अत्राङ्गादीनामनर्हत्वेनाधारत्वाभावेऽप्याधेयस्य प्रतापस्य स्थितिरिति विषेषालंकारत्वम् । तथा च— ‘चोरिअरमणाउलिए पुत्ति पिअं हरसि सित्ति कि वुज्जम् । वच्चन्ती मुहजोह्णाभरेहिँ तिमिरं पिण णिहिसि ॥’ अत्र न केवलं प्रियं हरिष्यसि. यावच्चिकीर्षाविहरेणासंभाव्यं तिमिरमपीति वस्त्वन्तरकरणात्मा विशेषः । यथा वा ‘माघः शिशुपालवधं विदधत्कविमदवधं विदधे । रत्नाकरः स्वविजयं हरविजयं वर्णयन्व्यवृणोत् ॥’ अत्र न केवलं माघः शिशुपालवधं चकार यावदसंभाव्यं चिकीर्षितं कविमदवधमपीत्यशक्यवस्त्वन्तरकरणात्मायं विशेषः । अशक्यमेव कविमदवधं कर्तुं माघस्यात्र कर्तृत्वम् । एवमुत्तस्त्रापि ज्ञेयम् । अतः ‘एकस्मिन्क्रियमाणे तज्जातीयस्य प्रसङ्गतः सिद्धिरनुषङ्गः’ इत्यनुषङ्गालंकारोऽपि विशेष एवान्तर्भवतीति न पृथग्वाच्यः । यथासाधितस्येत्यादि । निष्पादितमिति न तु निष्पादयितुं संभाव्यमानम् । तद्धि द्वितीयव्याघातविषयः । तत इति निष्पादनकर्तुः । तत्प्रतिद्वन्द्विनेति । निष्पादितवस्तुव्याहतिकारित्वात् । तेनैवेत्यत्र भरः । अन्यथा हि वैचित्र्यातिशयो न स्यात् । अन्यथाक्रियत इति । तदुपमर्दकवस्त्वन्तरजननेनेत्यर्थः । अत एव नामाप्यस्य यौगिकमित्याह—निष्पादितेत्यादि । अतश्च यत्र न निष्पन्नस्य वस्तुनो व्याहतिरुपनिबध्यते तत्र नायमलंकारः । निष्पत्तेरेवाप्ररोहाद्वयाघातायोगात् । निष्पन्नवस्तुव्याहतिर्हि व्याघातः । फलं चात्र व्याहति

चित्तत्प्रतिद्वन्द्विना तेनैवोपायविशेषेण यदन्यथा क्रियते स निष्पादितवस्तुव्याहतिहेतुत्वाद्र्याघातः । यथा—

‘दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे चारु520लोचनाः ॥’

अत्र दृष्टिलक्षणेनोपायेन स्मरस्य हरेण दाहविषयत्वं निष्पादितम् । मृगनयनाभिः पुनस्तेनैवोपायेन तस्य जीवनीयत्वं क्रियते । तच्च दाहविपयत्वस्य प्रतिपक्षभूतम्521 । तेन व्याघाताख्योऽयमलंकारः । सोऽपि व्यतिरेकनिमित्तत्वेनात्रोक्तः । विरूपाक्षस्य चारुलोचना इति व्यतिरेकगर्भावेव वाचकौ । जयिनीरिति व्यतिरेकोक्तिः । पूर्ववदिह प्रकरणं लक्षणम् ।

________________

कारिणस्तद्वैलक्षण्यम् । अत एव ‘उत्पत्तिविनाशयोरेकोपायत्वे व्याघातः ’ इति न सूत्रणीयम् । एवं हि व्याघातत्वमेव न स्यात् । ‘कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दर्पे राजंस्त एव तवाङ्कुशाः॥’ इत्यत्र च कुलादयो यथान्येषां दर्पहेतवो न तथा तव । प्रत्युत विनयकारिण इत्येवंविधगुणविशिष्टेभ्यः पुरुषान्तरेभ्योऽस्य वैलक्षण्यमात्रं विवक्षितम् । न तु कुलादिभिरुत्पादितोऽपि दर्पस्तव व्याहत इति येन व्याघातालंकारो भवति । अथात्र दर्पकारिणोऽपि कुलादेस्तद्विनाश इत्ययमलंकार इति चेत्, नैतत् । कुलादीनां प्रकृतिभेदेन दर्पा दर्पकारित्वस्य वास्तवत्वेनालंकारत्वात् । तत्रापि कुलादिभिस्तव दर्पस्य विनाश इत्यभ्युपगमेनायमलंकारः । निष्पादितवस्तुव्याहतेर-भावात्तन्निबन्धनत्वेन चास्योक्तत्वात् । ‘विण्णाणेण मअविसं विणिवट्टइ भिण्णकारणुप्पण्णम् । विण्णाणकारणं जं तंपुण भण को णिवट्टइ ॥’ इत्यत्रापि मदस्य विज्ञानतदन्यहेतुकत्वे वस्तुसंभवहेतुर्मदो522 विज्ञानेन निवर्त्यते तद्धेतुकः पुनः केनेत्यलंकारभाष्यकारोक्तस्तन्निवृत्तिहेतुप्ररोहात्मकत्वाद्वितर्कालंकारो न व्याघातः । विज्ञानहेतुकाया मदनिष्पत्तेरेव प्ररोहात् । ‘गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्य यः । ओष्ठविद्रुमदलान्यमोचयन्निर्दशन्युधि रुषा निजाधरम् ॥’ इत्यत्र चाधरव्यथानिर्मोचनात्मक विपरीतफलनिष्पत्त्यर्थ तन्निर्दशनात्मा प्रयत्न उपनिबद्ध इति विचित्रमिति न व्याघातालंकारो वाच्यः । तेनैवेति । दृष्टिलक्षणेनैव न पुनरन्येनेत्यर्थः । तेनेति निष्पन्नस्य वस्तुनस्तेनैवोपायेन व्याहतत्वात् । तदेव विभजति—विरूपाक्षस्येत्यादिना । अनेनास्य व्यतिरेकं विनोत्थानमेव न स्यादिति सूचितम् । तथा हि येनकेनचिद्यत्किचित्साधितं तदप्यन्येनान्यथाक्रियते523 तदा तस्य ततोऽन्यथाकरणानुपपत्त्या

** प्रकारान्तरेणाप्ययं भवतीत्याह—**

सौकर्येण कार्यविरुद्धक्रिया च व्याघात इत्येव ।

किंचित्कार्यं निष्पादयितुं संभाव्यमानः कारणविशेषस्तत्कार्यविरुद्धनिष्पादकत्वेन524 यत्समर्थ्यते सोऽपि संभाव्यमानकार्यव्याहतिनिबन्धनत्वाद्याघातः । कार्यविरुद्ध निष्पत्तिश्च कार्यापेक्षया सुकरा । तस्य525 कारणस्यात्यन्तं तदानुगुण्यात् । नत्वत्र कार्याभिमतस्य कार्यत्वाभावः । तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात् । अत एवं द्वितीयाद्विषमाद्भेदः । तत्र हि कार्यस्यानुत्पत्तिरनर्थस्य चोमनम् । इह तु कार्यमकार्यमेव526 न भवति । तद्विरुद्धस्यानर्थस्य व्यतिरेकिणोऽप्यत्र सुष्ठुकार्यत्वात् । यथा हर्षचरिते राज्यवर्धनं प्रति श्रीहर्षोक्तिषु—

‘यदि बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणीय इति भवद्भुजपञ्जरमेव रक्षास्थानम्’ इत्यादि ।

अत्र राज्यवर्धनेन श्रीहर्षाप्रस्थापने कार्ये बाल्यरक्षणीयत्वादि कारणत्वेन यत्संभावितं तत्प्रत्युत प्रस्थापनकारणत्वेन सुकरतया श्रीहर्षेण राज्यवर्धनस्य समर्थितमिति व्याघाताख्योऽलंकारः527

________________

वैलक्षण्यमवश्याभ्युपगन्तव्यम् । अतश्चास्य सर्वात्मना व्यतिरेको निमित्तत्वं यायात् । पूर्ववदित्यानुरूप्यपरिहारात् । स चैकस्योपायस्य साधनान्यथाकरणत्वेन विवक्षणात् । प्रकारान्तरेणेति प्रतीतिभेदात् । अयमिति व्याघातः । तमेवाह—सौकर्येणेत्यादि । एतदेव व्याचष्टे—किंचिदित्यादिना । संभाव्यमान इति केनचिदन्येन । तत्कार्येति । तच्च तत्कार्यं निष्पादयितुं प्रक्रान्तम् । अत एवास्य प्रथमाव्याघाताद्भेदः । तत्र हि येनकेनचिदुपायेन निष्पादितं सद्वस्तु तथैवान्येनान्यथीक्रियंत इत्युक्तम् । इह तु किंचिन्निष्पादयितुं संभाव्यमानस्य कारणम्य तविरुद्धनिष्पादकत्वेन समर्थनम् । तद्विरुद्धनिष्पत्तेश्च सौकर्यं किमुक्तमित्याशङ्क्याह—कार्येत्यादि । तदानुगुण्यादिति कार्यविरुद्धानु-गुणत्वात् । न त्विति । अपि तु दुष्करत्वेन कार्यत्वमित्यर्थः । अनेनाप्यस्य528 प्रथमाद्व्याघाताद्भेदः सूचितः । इह हि किंचिन्निष्पादयितुं संभाव्यमानः कारणविशेषः सौकर्येण तद्विरुद्धनिष्पादकत्वेन समर्थ्यते । तत्र रूपाय विशेषविवक्षापरिहारेण कर्तुरेव529 पक्ष प्रतिपक्षभावमाश्रित्य तथात्वोपनिबन्धः। अत एवेति । द्वयोरपि कार्यत्वसंभवात् । अनर्थेत्यनेनापि विषमादस्य भेद एवोपोद्वलितः । संभावितमिति । ( तथा ) समर्थितमिति । अनेन प्रथमव्याघा-

एवं विरोधमूलानलंकारान्निर्णीय शृङ्खलाबन्धोपचिता अलंकारा लक्ष्यन्ते । तत्र—

पूर्वस्य पूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला ।

यदा पूर्वे पूर्व क्रमेणोत्तरमुत्तरं प्रति हेतुत्वं भजते तदा कारणमालाख्योऽलंकरः । यथा—

‘जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥’

कार्यकारणक्रम एवात्र चारुत्वहेतुः ।

_________________

तोदाहरणत्वमस्य निरस्तम् । तत्र530 हि द्वयोरपि कार्ययोर्निष्पत्तिर्विवक्षिता । बाल्यस्य तु कार्यद्वयजननेऽपि सामर्थ्य किं तु प्रस्थापन531जनने सौकर्यम् । अत एवात्र संभाव्यमानस्य कार्यस्य व्याहतत्वम् । यथा वा– ‘यत्सशब्दमिति कामविमर्दे नूपुरं परिहरन्ति तरुण्यः । तद्वभार कतरापि विदग्धा गोपनाय निजकण्ठरुतानाम् ॥’ अत्र संभाव्यमानं कार्य परिहारः । तस्य व्याहतिधारणम् । उपायस्य सुकरदुष्करत्वेन विशिष्टत्वादत्र न प्रथमव्याघातोदाहरणत्वम् । यथा च नायमर्थो वक्रोक्तेर्भेदस्तथा वक्रोक्तावेव वक्ष्यामः । एपदुपसंहरनन्यदवतारयति—एवमित्यादिना । अलंकार इति न पुनः शृङ्खलैवैकोऽलंकारः । एवं हि साधर्म्यमप्येक532 एवालंकारः स्यात् । न ह्यपमादिषु साधर्म्यपरिहारेण प्रत्येकं कश्चिद्विच्छित्तिविशेषसंभवः येनालंकारभेदः स्यात् । एवं विरोधोऽप्येक एव वाच्यः । न हि ।विभावादीनां विरुद्धत्वादन्यः कश्चिद्विशेषः किमपरम् । एवं सप्ताष्टानामेवालंकाराणां लक्षणप्रणयनप्रसङ्गः । अथोपमादीनामपि साधर्म्यादाववान्तरोऽस्ति533 विशेष इति चेत् । तर्हि कारणमालादीनामपि शृङ्खलाबन्धोपचित्रितत्वेऽपि वक्ष्यमाणनीत्या कार्यकारणविशेषणविशेष्यभावा-द्यात्मास्त्येवावान्तरोऽपि विच्छित्तिविशेषः येनोपमादिवत्पृथगेवैषामलंकारत्वं युक्तम् । एवं हि शृङ्खलायामवान्तरविच्छित्तिविशेषसंभवेऽप्यन्यालंकारोपसंख्यानं प्रसज्यत इति चेत्, न । यद्यस्ति विच्छित्यन्तरं तदस्त्वलंकारान्तरोपसंख्यानं को दोषः । प्रत्युताभासमानस्य विशेषस्यापह्नवो न वाच्यः । तद्यथास्थित एवालंकारभेद आश्रयणीयः । तस्मादुत्तरोत्तरस्य पूर्वपूर्वानुबन्धित्वे534 विपर्यये535 वा शृङ्खलेति न वाच्यम् । तत्र तावत्कारणमालामाह—पूर्वेत्यादि । कारणमालाख्योऽयमिति मालान्यायेन बहुनां कारणमालानां यौगपद्येनावस्थानात् । अत एवाह— कार्यकारणक्रम एवेति । न पुनः केवलमेव शृङ्खलात्वमित्यर्थः । अत एव कारणमालेत्यस्या अन्वर्थमभिधानम् । एवमन्येभ्यः शृङ्खलाबन्धोपचि-त्रितेभ्योऽलंकारेभ्योऽस्या विषयविभागः । न हि तेषु कार्यकारणक्रम एव चारुत्व-

यथापूर्वं परस्य विशेषणतया536 स्थापनापोहने एकावली ।

यत्र पूर्वं पूर्वं प्रति क्रमेण परं परं विशेषणत्वमनुभवति स एकावल्यलंकारः । विशेषणत्वं च स्थापनेन निवर्तनेन वा537

स्थापनेन यथा—

‘पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः ।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासः कुसुमायुधस्य ॥’

अत्र वराङ्गनाः पुराणां विशेषणं स्थानीयत्वेन स्थितम् । एवं538 वराङ्गनानां रूपमित्यादि ज्ञेयम् । निवर्तनेन यथा—

‘न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं यन्त्र निलीनषट्पदम् ।
न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः ॥’

अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निषेध्यत्वेन स्थितम् । एवं पङ्कजानां निलीनषट्पदत्वं ज्ञेयम् ।

पूर्वस्य पूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम् ।

उत्तरोत्तरस्य पूर्वंपूर्वं प्रत्युत्कर्षहेतुत्वे एकावली । पूर्वस्य पूर्वस्योत्तरोत्तरोत्कर्षनिबन्धनत्वे तु मालादीपकम् । मालात्वेन चारुत्वविशेषमाश्रित्य

__________________

हेतुः । विशेषणविशेष्यभावादेवावान्तरस्य विच्छित्तिविशेषस्य संभवात् । क्वचिद्विपर्ययेणापि भवति । यथा— ‘माणो गुणेहि जाअइ गुणा वि जायन्ते सुअणसेवाइ539 । विमलेण540 सुअअप्पसरेण सुअणवइ उट्टाणम् ॥’ अत्र हि पूर्वस्योत्तरोत्तरं कारणतयोपनिबद्धम् । एवमुत्तरत्रापि विपर्ययोऽभ्यूह्यः॥ यथापूर्वमित्यादि । परं परमिति । अत एव पूर्वस्य पूर्वस्य यथायथं विशिष्टतयावगमः । स्वरूपमात्रेणावगतस्य वस्तुनो यत्संबन्धबलेन वैशिष्टयमवगम्यते तद्विशेषणम् । यद्वक्ष्यति । उत्तरोत्तरस्य पर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावलीति । एकावल्यलंकार इति । पूर्वोत्तरयोः परस्परानुषक्तत्वेनैकपङ्किरूपत्वात् । पूर्वेत्यादि । अतश्चैकावल्यलंकाराद्वैलक्षण्यं दर्शयन्व्याचष्टे—उत्तरेत्यादि । उत्कर्षनिबन्धनत्व इत्यनेन कारणमालातोऽप्यस्य वैलक्षण्यमुक्तम् । तस्यां हि पूर्वस्य पूर्वस्योत्तरमुत्तरं प्रति कारणत्वम् । ननु चास्य प्राच्यैदीपकानन्तरं लक्षणं कृतमिह तु किं न तथेत्याशङ्क्याह—मालात्वेनेन्यादि । मालाशब्देनात्र शृङ्खला लक्ष्यते । तस्या एवोपक्रान्तत्वात् । न चात्र मालोप

दीपकप्रस्तावोल्लङ्घनेनेह लक्षणं कृतम् । गुणावहत्वमुत्कर्षहेतुत्वम्541

यथा—

‘संग्रामाङ्गनसंगतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्॥’

अत्र कोदण्डादिभिः क्रमेण शरीरादीनामुत्कर्षो विहितः। समासादनलक्षणक्रियानिबन्धनं च दीपकं दीपनक्रियाणा542मुत्तरोत्तरोम्भितत्वेन कृतम् ।

उत्तरोत्तरमुत्कर्ष543णमुदारः ।

पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षनिर्वैन्धन544त्वमुदाराख्योऽलंकारः । यथा—

‘जये धरित्र्याः पुरमेव सारं पुरे गृहं सद्मनि चैकदेशः ।
तत्रापि शय्या शयने वरस्त्री रत्नोज्ज्वला राज्यसुखस्य सारम्॥’

______________

मावन्मालाशब्दो ज्ञेयः ।एकस्योपमेयस्य बहूपमानोपादानाभावात् । अत्र ह्यौपम्यमेव नास्ति । कोदण्डशरादीनां तस्याविवक्षणात् । अत एवास्य दीपकभेदत्वं न वाच्यम् । औपम्यजीवितं हि तत् । प्राच्यैः पुनरेतद्दीपनमात्रानुगुण्यात्तदनन्तरं लक्षितम् । शृङ्खलात्वेन तु विशिष्टमस्य चारुत्वमितीह लक्षणं युक्तम् । एतच्च दीपक एव ग्रन्थकृतोक्तम् । छायान्तरेण तु मालादीपकं प्रस्तावान्तरे545 लक्षयिष्यत इति । अत्रेत्यादि । उत्कर्षश्च शरादीनां कोदण्डादिसमासादनलक्षणः । दीपनविषयाणामिति । कोदण्डशरादीनाम् । अत एवास्य दीपकमित्यन्वर्थमभिधानम् ॥ उत्तरेत्यादि । एतदेव व्याचष्टे–पूर्वेत्यादि । एतच्चैकस्यैव वस्तुनो बहुनां वा स्यादित्यस्य द्वैधम् । तेन पूर्वत्र पूर्वपूर्वेत्युत्तरस्येति चावस्था546विशेषाभिप्रायेण व्याख्येयम् । अन्यथा ह्येकस्यैव पूर्वत्वमुत्तरत्वं च कथं स्यात् । एवमप्युत्तरोत्तरमुपचयःस्वरूपेण धर्मेण वा भवतीत्यस्य चातुर्विध्यम् । एवं प्रकृते यथायथमारोहक्रमेण धाराधिरूढतयोत्कर्ष प्रतिपादनं स्यादित्यलंकारबीजम् । यदुक्तम् । उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिरिति । पूर्वापेक्षयोत्तरस्योत्कृष्टत्वमित्यनेन मालादीपकादस्य भेदोऽप्युक्तः । तत्र हि पूर्वस्योत्तरं प्रत्युत्कर्षनिबन्धनत्वमुक्तम् । अत एव चास्योत्तरोत्तरस्योत्कर्षोपनिबद्धादन्वर्थत्वम् । तत्रैकस्य स्वरूपेणोत्कर्षो यथा— ‘किं छत्रं-

अत्र धरित्र्यपेक्षया पुरस्य सारत्वमेवं पुरापेक्षया तदेकदेशस्य गृहस्येत्यादि योजनीयम् । यथा—

‘राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥’

अत्र राज्यापेक्षया वसुंधरायाः सारत्वमेवं वसुधापेक्षया तदेकदेशस्य पुरस्येत्यादि योजनीयम् ।

एवं शृङ्खलाविच्छित्त्यालंकाराः प्रतिपादिताः547 । अधुना तर्कन्यायाश्रयेणा548लंकारद्वयमुच्यते । तत्र549

हेतोर्वाक्यपदार्थता काव्यलिङ्गम् ।

___________________

किं नु रत्नं तिलकमथ तथा कुण्डलं कौस्तुभो वा चक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्बलिद्वेषिदेहे । ऊर्ध्वे मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं पायात्तद्वोऽर्कबिम्बं स च दनुजरिपुर्वर्धमाणः क्रमेण ॥’ अत्रैकस्यैव हरेस्तत्तदवयवस्थाविशिष्टतया स्वरूपेणोत्तरोत्तरमुत्कर्षः। धर्मेणापि यथा— ‘अतसीकुसुम-प्रभं मुखे तदनु त्वत्कचमेचकद्युति । अथ बालतमालमांसलं प्रसृतं संप्रति सर्वतस्तमः ॥’ अत्रैकस्यैव तमसो निबिडत्वाख्यधर्ममुखेनोत्तरोत्तरमुत्कर्षः । अत्र च यद्यप्येकस्मिन्नेव तमस्यनेकस्यातसीकुसुमप्र-भादिकस्यावस्थानात्पर्यायत्वम्, तथापि तमसो नैबिड्यं यथायथमुत्कृष्टतया वाक्यार्थीभूतमिति यथोक्तमेव युक्तम् । बहूनां स्वरूपेणोत्कर्षो यथा— ‘अत्युच्चास्तरवः स्फुरन्ति गिरयः स्वर्वा सिशैलस्ततस्तस्माद्विष्णुपदं ततः किमपरं स्यादन्यदत्युन्नतम् । तस्मात्सर्वत एव साधुहृदयान्युत्तुङ्ग-भङ्गीनि तत्कस्या उन्नतये तवार्थिपदवीं चिन्तामणे तन्वते ॥’ अत्रानेकेषां पूर्वीपेक्षया स्वरूपेणोत्तरोत्तर-मुत्कर्षः। धर्मेण यथा— ‘कुक्षेः कोटर एव कैटभरिपुर्धत्ते त्रिलोकीमिमामप्युद्वयूढभरो बिभर्ति तमपि प्रीतो भुजंगेश्वरः । श्रीकण्ठस्य स कण्ठसूत्रमभवद्देव त्वया तं हृदा बिभ्राणेन परेषु पौरुषकथा श्रीकर्ण निर्नाशिता ॥’ अत्र कैटभारिप्रभृतीनां पौरुषाख्यधर्ममुखेनोत्तरोत्तरमुत्कर्षः । एवं ‘जये धरित्र्याः’ इत्यादौ सारत्वमुखेन बोद्धव्यम् । यदाहात्रेत्यादि । यथा वा— ‘त्रिलोक्यां रत्नसूः श्लाघ्या तस्यां धनपतेर्हरित् । तत्र गौरीगुरुः शैलो यत्तस्मिन्नपि मण्डलम् ॥’ अत्र बहूनां श्लाघ्यत्वेनोत्तरोत्तरमुत्कर्षः । यत्त्वन्यैरेतत्स्थाने रूपधर्माभ्यामाधिक्यमुक्तम् । तत्तेषां नाममात्रनवीकरणरसिकत्वम् । अस्यैव पूर्वपूर्वापेक्षयोत्तरोत्तरो-त्कर्षोपनिबन्धनात्मकत्वात्समग्रविषयावगाहनसहिष्णुत्वात् । तस्मादस्मिंश्च वर्धमाने सारोपान्तर्भावमेति । न पुनरिदमन्तर्भूतं सारे परिमितविषये महाविषयमित्याद्युक्तमेदोक्तम् । एतदुपसंहृत्यान्यदवतारयति— एवमित्यादिना । तत्रेति द्वयं निर्धारणे550 । हेतोरित्यादि । यत्रेति551 । हेतोश्च वाक्यार्थपदार्थगत्योपनिबन्धाद

यत्र हेतुः कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थगत्या लिङ्गत्वेन निबद्य्धते तत्काव्यलिङ्गम् । तर्कवैलक्षण्यार्थी काव्यग्रहणम् । न ह्यत्र व्याप्तिपक्षधर्मतोपसंहारादयः552 क्रियन्ते । वाक्यार्थगत्या च निबद्धोपनिबद्धस्य हेतुत्वम् । अन्यथार्थान्तरन्यासान्नास्यभेदः स्यात् । क्रमेण यथा—

‘यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं
मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता
स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥’

___________

स्यानेन सह भेदद्वयमप्युक्तम् । वाक्यार्थगत्येति । न तु पदार्थगत्या । तत्र ह्युपनिबद्धस्यैव हेतुत्वात्553हेतुत्वेनैवेति । हेतुत्वस्यामुख एवोद्रिक्तत्वेन प्रतीतेः । अन्यथेति । हेतुत्वेनोपनिबन्धो यदि न स्यात् । ननु हेतोर्वाक्यपदार्थोभयोपनिबन्धे न कश्चिद्विच्छित्तिविशेषः प्रतीयत इति कथमस्यालंकारत्वमुक्तम् । न हि साध्यसाधनायोपात्तस्य हेतोरेवं प्रकारद्वयातिरेकेणोपनिबन्धःस्यात् । न च यथासंभविनोपनिबन्ध-मात्रेणालंकारत्वं वक्तुं युक्तम् । कविप्रतिभात्मकस्य विच्छित्तिविशेषात्मकस्यालंकारत्वेनोक्तत्वात् । न चैवमुपनिबन्धात्कश्चिदतिशय इति कथमस्यालंकारत्वत् । एवं हि दृक्त्वाभासैव नान्येन वेद्येत्यादावपि स्वाभासत्वस्य हेतोर्विशेषणद्वारेण पदार्थगत्या, तथा ‘प्रत्यक्षाद्विरलकराङ्गुलिप्रतीतिर्व्यापित्वादकुशल-मिन्द्रियं न तस्याम्’ इत्यादौ तमसि विरलाङ्गुलिप्रतीतौ व्यापित्वादिन्द्रियकौशलमेव साधनमिति हेतोर्वाक्यार्थगत्योपनिबन्धादलंकारत्वं स्यात् । सत्यम् । यद्यप्येवमुपनिबन्धस्य वस्तुवृत्तेरसंभवान्न कश्चिदतिशयः प्रतीयते । तथापि ग्रन्थकृता प्राच्यैर्लक्षितत्वादेतदिह लक्षितम् । अथ यत्र व्यङ्गयाश्लिष्टो वाच्यार्थो वाच्यमेवार्थे प्रति हेतुतां भजते तत्रायमलंकारो युज्यत एवेति चेत् । तर्हि व्यङ्गयाश्लेषवशेन तदुत्थानाद्वात्यार्थपदार्थतयोपनियमानस्य हेतोः स्वात्मनि न कश्चिदतिशय इति व्यङ्ग्यकृत एवातिशयोऽभ्युपगम्यते । न तत्कृतः । तस्यैवमुपनिबद्धस्य वास्तव्यत्वात् । यदि च व्यङ्गयसाहचर्येणैव हेतुरलंकारतामियात् तच्छब्दस्यापि हेतोरलंकारत्वं प्रसज्यते । यदि तत्रापि व्यङ्ग्याश्लेषः स्यात् । अथ तस्य शाब्दत्वादेव वैचित्र्याभावादयमनलंकारत्वे निमित्तत्वं कथं न यायात् । अथ तत्र व्यङ्गश्लेषो न भवतीति चेत्, किं नामापराद्धम् । येनात्र व्यङ्ग्याश्लेषस्तत्र च नेति । तथात्वेन लक्ष्यादर्शनादिति चेत्, नैतत् । अवाग्दर्शिन एवं निश्चयानुपपत्तेः । प्रत्युत यत्र भवता व्यङ्ग्याश्लेष उक्तस्तत्र स नास्तीति वक्तुं श-

‘मृग्यश्च दर्भाङ्करनिर्व्यपेक्षास्तावागतिज्ञं समबोधयन्माम् ।
व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥’

पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपः554 । चतुर्थपादार्थो555 हेतुत्वेनोपन्यस्तः । उत्तरत्र संबोधने ‘व्यापारयन्त्यः’ इति मृगीविशेषणत्वेनानेकः पदार्थो हेतुत्वेनोक्तः ।

एवमेक556वाक्यार्थगतत्वेन काव्यलिङ्गमुदाह्रियते । यथा557

‘मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः ।
पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥’

‘यद्विस्मयस्तिमितमस्तमितान्यभाव
मानन्दमन्दममृतप्लवनादिवाभूत् ।
तत्संनिधौ तदधुना हृदयं मदीय
मङ्गारचुम्बितमिव व्यथमानमास्ते ॥

_____________

क्यते । तथाहि। ‘वक्षःस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्गरुडध्वजस्य । श्रियोङ्गरागेण विभाव्यते या सौभाग्यहेम्नःकषपट्टिकेव ॥’ इत्यत्र वक्षःस्थल्या जगद्रक्षकत्वे जगत्प्रसूतित्वं पदार्थो हेतुः । प्रसवितुर्हि निजप्रसूतेःसर्वथैव रक्षणमुचितम् । अत एव गरुडध्वजवक्षःस्थल्या जगद्रक्षकत्वे कर्तृत्वं युक्तम् । इयांश्चाभिधेय एवार्थः । अत एव चात्र न हेतोः कश्चिद्व्यङ्ग्यश्लेषः । इत्थम् । ‘संजीवणोसहम्मिव558 सुअस्स रक्खइ अणण्णवावारा । सासू णवब्भदंसणकण्ठागअजीविअं सोहम् ॥’ इत्यत्र कण्ठागतजीवितत्वस्य । अत्र च जगत्प्रसूतित्वस्य हेतोः पदार्थतयोपनिबन्धे न कश्चिदतिशयो विशेषः । एवम् । ‘अयि प्रमत्ते सिचयं गृहाणेत्युक्तेऽपि संख्या न विवेद काचित् । मना हि सा तत्र रसान्तराले यत्रान्तरङ्गो भगवाननङ्गः ॥’ इत्यत्रापि ज्ञेयम् । यद्यपि चात्र रसशब्दस्य जलवाचित्वं न विवक्षितम् । तथाप्यभेदाध्यवसाया-दतिशयोक्तिर्न पुनः शब्दशक्तिमूलं व्यङ्गयम् । तथात्वे हि हेतुहेतुमद्भावस्य न कश्चिदतिशयः । एवं हि । ‘एकान्तजाड्यादूरुभ्यां करभोर्वाः पराजिताः। कदल्यो यन्न तच्चित्रं जयः क्व न कलावताम् ॥’ इत्यत्र जाड्यस्यातिशयोक्त्यालिङ्गितत्वेन वैचित्र्यावहत्वाच्छाब्दस्यापि पदार्थस्य हेतोरलंकारत्वं स्यात् । एवमुदाहरणा

पूर्वत्र वरप्राप्तिहेतुभूततपोनिषेधस्य ‘मनीषिताः’ इति वाक्यार्थरूपो हेतुर्निर्दिष्टः । उत्तरत्र पुनः ‘अस्तमितान्यभावम्’ इत्यत्र विस्मयस्तिमितमिति विशेषणद्वारेण पदार्थः ।

साध्यसाधननिर्देशोऽनुमानम् ।

यत्र शब्दवृत्तेन पक्षधर्मान्वयव्यतिरेकवत्साधनं साध्यप्रतीतये निर्दिश्यते सोऽनुमानमलंकारः । विच्छित्तिविशेषश्चात्रार्थाश्रयणीयः ।

अन्यथा तर्कानुमानात्कि वैलक्षण्यम् । उदाहरणम्—

‘यथा रन्ध्रंव्योम्नश्चलजलदधूमः स्थगयति
स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः ।
यथा विद्युज्ज्वालो ज्वलनपरिपिङ्गाश्च ककुभ
स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥’

अत्र धूमस्फुलिङ्गकपिलदिक्त्वानि वह्निलिङ्गानि त्रिरूपत्वाद्दवशब्दप्रतिपादितं वह्निं गमयतीत्यनुमानम् । रूपकमूलत्वेनालंकारान्तरभङ्गीकारेण विच्छित्त्याश्रयणात्तर्कानुमानवै-लक्षण्यम् ।

__________________

न्तरेष्ववसेयम् । एवं च यत्रापि व्यङ्गयाश्लेषःस्यात्तत्रापि हेतोर्वाक्यार्थपदार्थतयोपनिबन्धे न कश्चिदतिशयः । अथ साध्यप्रतीतये हेतोरुपनिबन्धादस्त्येव वैचित्र्यातिशय इति चेत् । तर्ह्यनुमानमेवेदं स्थान्नालंकारान्तरम् । साध्यसाधनस्य तल्लक्षणत्वेन वक्ष्यमाणत्वात् । एवं हेतोर्वाक्यपदार्थतयोप-निबद्धस्य वास्तवत्वादस्य पृथगलंकारत्वं न युक्तम् । उक्तवक्ष्यमाणनीत्यानुमान एवान्तर्भावोपपत्तेः । साध्येदित्या । एतदेव व्याचष्टे—**यत्रेत्यादिना ।**एवं चात्र साध्यप्रतीतये त्रिरूपस्य साध्यस्य निर्देशात्तर्कानुमानसमानकक्ष्यमेवास्य लक्षणमिति भावः । यद्येवं तत्ततोऽस्य को विशेष इत्याशङ्क्याह—विच्छित्तीत्यादि । तच्चानुमानं द्विधा । स्वार्थेपरार्थेच । तत्र स्वार्थेयत्र मयायमवगतोऽर्थ इति स्वपरामर्षस्य निश्चयः स्यात् । परार्थे तु यत्र परेणानवगतस्य वस्तुतः प्रतिपादनात्परप्रत्यायकत्वं स्यात् । एवं च । स्वार्थपरार्थभेदेन द्विविधमनुमानमेवैकोऽलंकारो वाच्यो न पुनरनुमानहेतुतया पृथगलंकारत्वम् । उभयत्रापि सामान्यलक्षणानुगमात्प्रकारप्रकारिभावस्यैवोपपत्तेः । तत्र स्वार्थानुमानं यथा ग्रन्थकृतैवो-दाहृतम् । तत्र हि स्मरदवो लग्न इति स्वपरामर्षस्यैव निश्चयः । परार्थानुमानं यथा— ‘तदस्ति तेषां तमसि प्रसर्पिणां निशाचरत्वं यदि पारमार्थिकम् । ततः प्रिये संनिहितेऽत्र वासरे कथं नु तत्संचरणं भविष्यति ॥’ अत्र दिवासंचरणस्य कार्यस्य विरुद्धं निशाचरत्वं परप्रत्यायको हेतुः । रूपकमूलत्वेनेति559 रूपक

क्वचित्तु शुद्धमपि भवति । यथा560

‘यत्रता लहरी चलाचलदृशो व्यापारयन्ति भ्रुवं
यत्तत्रैव पतन्ति संततममी मर्मस्पृषो मार्गणाः ।
तच्चक्रीकृतचापसञ्जितशरप्रेङ्खत्करः क्रोधनो

धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ॥’

अत्र योषितां भ्रूव्यापारेण मार्गणपतनं स्मरपुरोगामित्वेऽसाध्येऽनलंकृतमेव साधनमिति शुद्धमनुमानम् । प्रौढोक्तिमात्र निष्पन्नार्थनिष्ठत्वेन च विच्छित्तिविशेषाश्रयणाच्चारुत्वम् । अयमत्र पिण्डार्थः। इहास्ति प्रत्याय्यप्रत्यायकभावः । अस्ति च समर्थ्य समर्थकभावः ।

तत्राप्रतीत प्रत्यायने प्रत्याय्यप्रत्यायकभावः । प्रतीतप्रत्यायने तु समर्थ्यसमर्थकभावः । तत्र प्रत्याय्यप्रत्यायकभावेऽनुमानम् । समर्थ्यसमर्थकभावे तु यत्र पदार्थो हेतुस्तत्र हेतुत्वेनोपादाने ‘नागेन्द्रहस्तास्त्वचि कर्क

_______________

मन्तरेणानुत्थानात् । ननु चास्यालंकारान्तरगर्भीकारमात्रमेव किं तर्कानुमानवैलक्षण्यनिमित्तम् । उतान्यदपि किंचिदित्याशङ्क्याह—क्वचिदित्यादि । अनलंकृतमिति । शासनधर्मादेः561प्रौढोक्त्या वास्तवत्वेनैव विवक्षितत्वादतिशयोक्त्याद्यलंकारान्तरगर्भीकाराभावात्। अतश्चास्य कविकर्मैव वैलक्षण्य-निमित्तमिति भावः । तदाह—प्रौढोक्तीत्यादि । एवं च कविकर्माभावाद्यत्र विच्छित्तिविशेषाश्रयणं न स्यात्तत्र नायमलंकारः । यथा— ‘यो यत्कथाप्रसङ्गे च्छिन्नच्छिन्नायतोष्णनिःश्वासः । स भवति तं प्रति रक्तस्त्वं च तथा दृश्यसे सुतनु ॥’ अत्र रक्तत्वं प्रति विशिष्टस्य निःश्वसितस्यार्थेऽपि हेतुत्वे वास्तवत्वात्कविप्रतिभानिर्वतितत्वाभावान्नायमलंकारः । यथा— ‘प्रजानां विनयादानाद्रक्षणाद्भरणादपि । स पिता पितरस्त्वासां केवलं जन्महेतवः ॥’ अत्र विनयादानादिहेतूनां वास्तवत्वादनलंकारत्वम् । न पुनरत्र हेतोरार्थत्वाभावादनलंकारत्वमिति वाच्यम् । कविकर्मण एवालंकारनिबन्धनत्वेनोक्तत्वात् । अर्थत्वस्य तदप्रयोजकत्वात् । न हि हेतोरार्थत्वेऽपि कविकर्मव्यतिरेकेणालंकारत्वं स्यात् । तच्छाब्देऽपि हेतौ क्वचित्कविप्रतिभानिर्वर्तितत्वेनालंकारत्वाभ्युपगमे न कश्चिद्दोषः । ग्रन्थकृता पुनरेतच्चिरंतनमतानु-रोधेनोक्तम् । तन्मतमेवाधिकृत्य ह्ययमत्रेत्यादिना विचारःप्रस्तुतः । तत्रेति द्वयनिर्धारणे । प्रतीतेति । बोद्धव्येन समर्थतया प्रमुख एवाधिगतस्येत्यर्थः ।

१. ‘शुद्धमेव’ क.

शत्वात्’ इत्यत्र562 न कश्चिदलंकारः यत्र तूपात्तस्य हेतुत्वं यथोदाहृते विषये ‘मृग्यश्च दर्भाङ्करनिर्व्य-पेक्षाः’ इत्यादौ तत्रैव काव्यलिङ्गम् । यत्र तु वाक्यार्थो हेतुस्त हेतुप्रतिपादक563मन्तरेण हेतुत्वायोपन्यासे काव्यलिङ्गमेव । तटस्थत्वेनोपन्यस्तस्य हेतुत्वेनार्थान्तरन्यासः । एवं चास्यां प्रक्रियायां कार्यकारणवाक्यार्थयोर्हेतुत्वे काव्यलिङ्गमेव पर्यवस्यति । समर्थकवाक्यस्य सापेक्षत्वात् । ताटस्थ्याभावात् । ततश्च सामान्यविशेषभावोऽर्थान्तरन्यासस्य विषयः । यत्पुनरर्थान्तरन्यासस्य कार्यकारणगतत्वेन समर्थकत्वमुक्तम्, तदुक्तलक्षणकाव्यलिङ्गमना-श्रित्य । तद्विषयत्वेन लक्षणान्तरस्यौद्भटैरनाश्रितत्वात् ।

उक्तलक्षणाश्रयणे564 तु यत्त्वन्नेत्रेत्यादिर्विविक्तो विषयः काव्यलिङ्गस्यार्थान्तरन्यासदर्शित इति कार्यकारणयोः समर्थ्यसमर्थकत्वमर्थान्तरन्यासस्य पूर्वेदर्शितमितीयती गमनिका श्रयितव्या ।

एवं तर्कन्यायमूलमलंकारद्वयमुक्त्वा काव्यन्यायमूला अलंकारा उच्यन्ते—

उद्दिष्टानामर्थानां क्रमेणान् देशो यथासंख्यम् ।

ऊर्ध्वे निर्दिष्टा उद्दिष्टाः । पश्चान्निर्देशोऽनूद्देशः । स चार्थादर्थान्तर-

_______________

न कश्चिदलंकार इति । हेतुमात्ररूपत्वात् । हेतुत्ववाचकं विनापि तदधिगमे ह्यस्य चारुत्वातिशय इति भावः । यद्वक्ष्यति—हेतुत्वप्रतिपादकमन्तरेणेति । उपात्तस्येति । पारिशेष्यात्पदार्थस्य वाक्यार्थस्य हेतुत्वेनोपादानाभिधानात् । एकमिति पदार्थगतम् । हेतुत्वप्रतिपादक इति शब्दादिः । तटस्थत्वेनेति । न तु हेतुत्वेनेत्यर्थः । अत एव चानयोर्भेदः । ततश्चेति पारिशेष्यात् । ननु यद्येवं तत्पूर्वमर्थान्तरन्यासस्य केनाभिप्रायेण कार्यकारणगतत्वेन समर्थकत्वमुक्तमित्याशङ्क्याह—**यत्पुनरित्यादि । लक्षणान्तरस्येति ।**पदार्थगतत्वेनैवेष्टेः । यदाहुः— ‘श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा । हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥’ इति । यद्येतदुद्भटमताभिप्रायेणोक्तं तत्कथं स्वमतं संगच्छते इत्याशङ्क्याह—उक्तेत्यादि । विविक्तविषय इति । ताटस्थ्यव्यतिरेकेण वाक्यार्थस्य हेतुत्वायोपन्यासादर्थान्तरन्यासस्यात्राव्यापृतेः565आश्रयितव्येति । न पुनर्वस्तुतः संभवतीत्यर्थः । एतदुपसंहरन्नन्यदवतारयति— एवमित्यादिना । उद्दिष्टानामि

गतः संबन्धश्चात्र सामर्थ्याप्रतीयते । ऊर्ध्वं निर्दिष्टानामर्थानां पश्चान्निर्दिष्टैरर्थैःक्रमेण संबन्धो यथासंख्यमिति वाक्यार्थः । अन्ये त्विममलंकारं क्रमसंज्ञयाभिदधिरे । तच्च यथासंख्यं शाब्दमार्थे च द्विधा । शाब्दं यत्रासमस्तानां पादानामसमस्तैः पदैरर्थद्वारकः संबन्धः । तत्र क्रमसंबन्धस्यातिरोहितस्य प्रत्येयत्वात् । आर्थे तु यत्र समासः क्रियते तत्र समुदायस्य समुदायेन सह संबन्धस्य शाब्दत्वादर्थावगमपर्यावलोचनया त्ववगतः क्रमसंबन्धः प्रतीयते । तथात्र यथासंख्य566स्यार्थत्वम् । आद्यस्योदाहरणम्—

‘लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा ।
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो वृथैव किममी सृष्टाः कुलक्ष्माभृतः ॥’

अत्र लावण्यौकः प्रभृतीनामिन्द्वादिभिः क्रमसंबन्धस्याव्यवहितत्वेन प्रतीतेः । शाब्दं यथासंख्यं यथा—

‘कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः ।
जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥’

अत्र कज्जलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सह संबन्धो हरिप्रभृतिभिः संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते । अर्थानुगमानुसारेण त्ववयवानां क्रमसंबन्धावगतिरित्यार्थे यथासंख्यम् ।

_________________

त्यादि । अर्थादिति । उद्दिष्टानामेव ह्यनुनिर्देशे पौनरुक्त्यं स्यात् । सामर्थ्यादिति । वाक्युपर्यालोचनबलातु । अन्य इति । वामनादयः । यदाहुः— ‘उपमेयोपमानां क्रमसंबन्धतः क्रमः’ इति । अनेनास्य प्राच्योक्तत्वं दर्शितम् । अव्यवहितत्वेनेति । समासाद्यभावात् । अवयवानामिति । हरिकज्जलादीनाम् । न चास्यालंकारत्वं युक्तम् । दोषाभावमात्ररूपत्वात् । उद्दिष्टानां क्रमेणानुनिर्देशे ह्यक्रियमाणेऽपक्रमाख्यो दोषः प्रसज्यते । यदुक्तम्— ‘क्रमहीनार्थमपक्रमम् इति । तच्च यथा— ‘कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसाविव’ इति । दोषाभावमात्रं च नालंकारत्वम् । तस्य कविप्रतिभात्मकविच्छि

एकमनेकस्मिन्ननेकमेकस्मिन्क्रमेण पर्यायः ।

क्रमप्रस्तावादिदमुच्यते । एकमाधेयमनेकस्मिन्नाधारे यत्तिष्ठति स एकः पर्यायः। नन्वेकमनेकगोचरमिति प्राक्तनेन लक्षणेन विशेषालंकारोऽत्रोक्तः । तत्किमर्थमिदमुच्यते इत्याशङ्कयोक्तम्— क्रमेणेति । इह च क्रमोपादानादर्थात्तत्र यौगपद्यप्रतीतिः । तेनास्य ततो विविक्तविषयत्वम् । तथा—

एकस्मिन्नाधारेऽनेकमाधेयं यत्स द्वितीयः पर्यायः।

नन्वत्र समुच्चयालंकारो वक्ष्यते इत्येतदर्थेक्रमेणेति योज्यम् । अत एव ‘गुणक्रियायौगपद्यं समुच्चयः’ इति समुच्चयलक्षणे यौगपद्यग्रहणम् । अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्थमभिधानम् ।

विनिमयाभावात्परिवृत्तिवैलक्षण्यम् । तस्या हि विनिमयो लक्षणत्वेन

___________________

त्तिविशेषत्वेनोक्तत्वात् । तत्त्वे चास्य ‘यथासंख्यमनुदेशः समानाम्’ इत्यादिसूत्रोदाहरणानां तूदीशलातु-रवर्मतीकुचवाराडक्छण्टञ्यकः’ इत्यादीनामप्यलंकारत्वप्रसङ्गः । एतच्च वक्रोक्तिजीवितकृता सप्रपञ्चमुक्तमित्यस्माभिरिह नायस्तम् । ग्रन्थकृता पुनरेतदुद्भटमतानुयायितया लक्षितम् । एवमासत्ति-विप्रकर्षवतां तदपेक्ष उपदेशाक्रम इति लक्षितः । क्रमोऽप्यनलंकार एव । दोषाभावमात्ररूपत्वात् । आदिपश्चान्निर्देश्यानामतथानिर्देशे ह्यपक्रमाख्य एव दोषः स्यात् । यथा— ‘तुरङ्गमथ मातङ्गं मेप्रयच्छ मदालसम् ।’ अत्र गजाश्वयोरादिपश्चान्निर्देश्ययोरप्यतथानिर्देशादपक्रमत्त्रम् । अनयोश्च स्वस्थाननिर्देशे दोषाभावमात्रत्वम् । न पुनरलंकारत्वम् । तस्मात् । ‘अवश्यं तदहो भाविवियोगो यत्र नो ध्रुवम् । परिच्छेदसुहृद्बन्धुविषयेन्द्रियजीवितैः ॥’ इत्यत्र परिच्छदादीनामन्यथानिर्देशे दोष एव स्यात् । न चात्र तादृक्कश्चिद्विशेष उपलभ्यते । येनानलंकारत्वं स्यात् । एवम्— ‘आस्तामस्तमयोऽहमित्यभिमतेर्देहादि-मात्रस्पृशो माभूद्वा विरतिर्ममेति च मृतेर्दारात्मजादिष्वपि । अस्माकं वसुवेश्मनिष्कुटनदीसीमानुके-दारिकादेशक्ष्मेशदिगादिकेष्वपि कथं सा हन्त नास्तं गता ॥’ इत्यत्रापि ज्ञेयम् । एकमित्यादि । इदमिति पर्यायलक्षणम् । तदेव व्याचष्टे—एकमित्यादिना । एक इति द्वितीयापेक्षया । अतश्च द्वौ पर्यायौ । न पुनरेक एव । सामान्यलक्षणायोगात् । अत एव काव्यप्रकाशकृता पृथगेतौ लक्षितौ । यदाह— ‘एकं क्रमेणानेकस्मिन्पर्यायः’ इति । ‘अन्यस्ततोऽन्यथा’ इति च । ग्रन्थकृता त्वनयोरत्रान्यस्यान्यथा ग्रहणेन क्रमान्यथाभावोऽपि प्रसक्त इति दूषणोद्भावनयैवं लक्षणं कृतम् । एवं क्रमेणैकमनेकत्रान्यथा वा पर्याय इत्यपि सूचितं तस्यैव प्रयोजनं दर्शयति—नन्वित्यादिना ।किमर्थमिति । विशेषालंकारेणैव तत्प्रतीतिसिद्धेः । अर्थादिति । पारिशेष्यात्मका

वक्ष्यते । तत्रानेकोऽसंहतरूपः संहतरूपश्चेति द्विविधः । तच्च द्वैविध्यमांधाराधेयगतमिति567 चत्वारोऽस्य भेदाः । क्रमेणोदाहरणानि—

‘नन्वाश्रयस्थितिरियं किल कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा ।
प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ
कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥’

‘विसृष्टरागादवरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तथा करः ॥’

‘निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम् ।
नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥’

‘यत्रैव मुग्धेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभूत् ।
तत्रैव दैवाद्वदने मदीये पत्नीति भार्येति गिरश्चरन्ति ॥’

अत्र कालकूटमेकमनेकस्मिन्नसंहते आश्रये क्रमेण स्थितिमन्निबद्धम् । करश्चैकोऽनेकस्मि-न्संहते क्रमवान् । अधरकन्दुकयोर्निवृत्त्युपादानतया संहृतत्वेन स्थितत्वात् । अभिसारिकाः शिवाश्चानेकस्वभावा असंहतरूपा

______________

त्सामर्थ्यादित्यर्थः । तेनेति । क्रमयौगपद्यरूपत्वेनेत्यर्थः । तत इति । विशेषात् । तथेत्यादि । अत्रापि क्रमग्रहणस्य प्रयोजनं दर्शयति—**नन्वित्यादिना । अत एवेति ।**विशेषसमुच्चययोर्योगपद्यसंभवात् । अन्वर्थमिति । ‘परावनुपात्य इण्’ इत्यनेनानुपात्यये गम्यमाने घञो विहितत्वात् । अतश्चास्यैव क्रमार्थाभिधायित्वात्क्रमोऽपि पृथगलंकारतया न लक्षणीयः । अथात्रारोहावरोहयोरधिकयोः प्रतीतिरस्तीति युक्तमेवास्य पृथग्लक्षणमिति चत । एवं तर्ह्याधाराधेयानां परस्परं विलक्षत्वाभ्यामप्यलं-कारान्तरप्रणयनं स्यात् । तयोरप्यधिकयोःपर्याये संभवात् । न चात्र तावत्कश्चिदतिशय उपलभ्यते । येन पृथगलंकारत्वमपि स्यात् । एवमारोहादिना यदत्र वैलक्षण्यमवगम्यते तदेतद्भेदत्वे निमित्तम् । न पुनः पृथगलंकारतायाम् । एकस्यानेकत्रान्यथा वा क्रमेणावस्थानाख्यस्य सामान्यलक्षणस्यात्राप्यनुगमात् । एवं ‘यदेकस्मान्निवृत्तोऽर्थ आधारान्तरमाश्रयेत् । स पर्यायो निवृत्तौ तु क्रमोऽयं बहुधा स्थितः ॥’ इत्यपि पर्यायादस्य पृथक्त्वे निमित्तं न वाच्यम् । निवृत्त्यनिवृत्त्योर्विच्छित्तिविशेषत्वाभावात् । तस्मादस्य पर्याय एवान्तर्भावात्पृथग्लक्षणप्रणयनं नवनवालंकारप्रदर्शनहेवाकमात्रमेवेत्यलं बहुना ॥ ननु चैकानेकरूपस्य वस्तुनोऽन्यत्र प्राप्तेः परिवृत्तिरेवायं किं नेत्याशङ्क्याह—विनिमयेत्यादि । संहतरूप इति । संघातरूप

एकस्मिन्नाश्रये राजपथे क्रमवर्तिन्यः । वचने चैकस्मिन्नाश्रये मुग्धत्वादिवर्गःपत्नीत्यादिवर्गश्च568 वर्गत्वादेव संहतरूपोऽनेकः क्रमवानुपनिबद्धः ।

समन्यूनाधिकानां समाधिकन्यूनै569र्विनिमयः परिवृत्तिः ।

विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम् । समेन तुल्यगुणेन त्याज्यमानेन तादृशस्यैवादानम् । तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य गुणहीनस्य परिग्रहः । एवं न्यूनेन हीनगुणेन त्याज्यमानेनाधिकगुणस्योत्कृष्टस्य स्वीकारः । तदेषा त्रिप्रकारा परिवृत्तिः । क्रमप्रतिभासंभवात्पर्यायानन्तरमस्या लक्षणम् । समपरिवृत्तिर्यथा—

‘उरो दत्त्वामरारीणां येन युद्धेष्वगृह्यत ।
हिरण्याक्षवधाह्येषु यशः साकं जयश्रिया ॥’

** अत्रोरोयशसोस्तुल्यगुणत्वम् । अधिकपरिवृत्तिर्यथा**

‘किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् ।
वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥’

अत्रोत्कृष्टगुणैराभरणैर्न्यूनगुणस्य वल्कलस्य परिवृत्तिः । न्यूनपरिवृत्तिर्यथा—

‘अस्य हि प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यते बुधैः ।
येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः ॥’

___________

इत्यर्थः । अस्येति शब्दसामान्यमवलम्ब्योक्तम् । असंहते इति । आश्रयाणामनेकत्वात् । क्रमेणेति । हृदयाद्यनुक्रमात् । एवमप्येकस्यैव कालकूटस्योत्तरोत्तराधिकस्थानासादनादारोहणप्रतीतिः । अवरोहो यथा— ‘शिरः शार्वे स्वर्गात्’ इत्यादि । अत्र गङ्गाया उत्तरोत्तरस्थानासादनम् । संहते इति । अधरकन्दुकादेरनेकस्याश्रयत्वात् । क्रमवर्तिन्य इति । अभिसारिकाशिवानामतीतवर्तमानकाला-वच्छिन्नत्वात् । मुग्धत्वादीनां बहुत्वाद्वर्गत्वम् । समन्यूनेत्यादि । एतदेव व्याचष्टे—विनिमय इत्यादिनातादृशस्येति । तुल्यगुणस्येत्यर्थः । अतश्चात्र द्वयोरपि तुल्यगुणत्वात्त्यज्यमानादीयमानयोर्गम्य-मानमौपम्यम् । एवं च तन्निमित्तस्य साधारणधर्मस्यापि त्रैविध्यम् । अधिकत्वं न्यूनत्वं चोत्कृष्टत्वानुत्कृष्ट-त्वयोगात् । अतश्चात्र570 शब्दोपात्तदधति (?) । क्वचित्सामर्थ्यलभ्यं तदिति

अत्र हीनगुणेन कलेवरेणोत्कृष्टगुणस्य यशसो विनिमयः ।

‘दत्वा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः \।
किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥’

अत्राद्ये समपरिवृत्तिः । द्वितीयार्धे न्यूनपरिवृत्तिः ।

एकस्यानेकप्राप्तावेकत्र नियमनं परिसंख्या ।

एकानेकप्रस्तावादिह वचनम् । एकं वस्तु यदानेकत्र युगपत्संभाव्यते तदा तस्यैकत्रासंभाव्ये571 द्वितीयपरिहारेण नियमनं परिसंख्या । कस्यचित्परिवर्जनेन572 कुत्रचित्संख्यानं वर्णनीयत्वेन गणनं परिसंख्या । सा चैषा प्रश्नपूर्विका तदन्यथा वेति प्रथमं द्विधा । प्रत्येकं च वर्जनीयत्वेऽस्य573 शाब्दत्वार्थत्वाभ्यां द्वैविध्यमिति चतुःप्रभेदाः । क्रमेण यथा—

‘किं भूषणं सुदृढमत्र यशो न रत्नं
कि कार्यमार्यचरितं सुकृतं न दोषः ।

  •       *
    

नियमस्य574 त्रिरूपत्वात् । क्रमप्रतिभासेति । त्यागादानयोः पौर्वापर्येण क्रमिकत्वात् ।तुल्यगुणत्वमिति \। वैपुल्यादिना साधारणधर्मस्यानुगामितया पुनरत्र तुल्यगुणत्वं यथा— ‘सुधावदातं पाण्डुत्वं विनिधाय कपोलयोः । भीर्यत्कथोत्था शत्रूणां निःशेषमकरोद्यशः ॥’ सुधावदातमित्यस्यानुगामित्वम् । बिम्बप्रतिबिम्बभावो यथा— ‘लतानामेतासामुदितकुसुमानां मतं लास्यं दत्वा श्रयति भृशमामोदमसमम् । लतास्त्वध्वन्यानामहह दृशमादाय रभसाद्ददत्याधिव्याधिभ्रमरुदितमोहव्यतिकरम् ॥’ अत्र मतासमत्वयोर्बिम्बप्रतिबिम्बभावः । शुद्धसामान्यरूपत्वं यथा— ‘मनोहरं स्वं प्रतिवेतनाय रुतं प्रकल्प्योन्मदचित्तहारि \। मध्वाददानो मधुपायिलोकः पद्माकराणामनृणीबभूव ॥’ अत्र मनोहरत्वचित्त-हारित्वयोः शुद्धसामान्यरूपत्वम् । आभरणानां चात्रोत्कृष्टत्वं वस्तुसामर्थ्याल्लभ्यते । वल्कलस्य पुनर्वार्धकशोभीत्यनेन स्वयमेव न्यूनत्वमुक्तम् । एवं कलेवरयशसोरपि जर्जरोज्ज्वलत्वेन न्यूनाधिकत्वमुक्तम् । ऐतच्चास्य575 प्राच्यैरप्युक्तमिति रुद्रटोदाहरणेऽपि समपरिवृत्त्यादि योजयति—दत्वेत्यादिना । एकानेकेति । पर्याये एकस्यानेकत्र पर्यवसानादेरुक्तत्वात् । असंभाव्य इति । कविप्रतिभानिर्वतितत्वाभावाल्लोकोत्तर इत्यर्थः । न पुनः प्राप्तिविषयत्वेनासंभाव्यत्वं व्याख्येयम । सर्वथाप्राप्तस्यार्थान्तर निषेधमात्र परो हि विधिः परिसंख्या । अत एवार्थान्तरनिषेधे तात्पर्यमेव दर्शयितुं द्वितीयपरिहारेणेत्युक्तम् । अपवर्जन इति । ‘अपपरीवर्जने’ इति वचनात् । सेति । यथोक्तरूपा । एषेति । परिसंख्या । किं भूषणमिति

किं चक्षुरप्रतिहतं धिषणा न नेत्रं
जानाति कस्त्वदपरः सदसद्विवेकम् ॥’

‘किमासेव्यं पुंसां सविधमनवद्यं घुसरितः
किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः ।
किमाराध्यं पुण्यं किमभिलषणीयं च करुणा
यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति ॥”

‘भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे ।
चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥’

‘कौटिल्यं कचनिचये करचरणाघरदलेषु रागस्ते ।
काठिन्यं कुचयुगले तरलत्वं नेत्रयोर्वसति ॥”

अत्र चालौकिकं576 वस्तु गृह्यमाणं वस्त्वन्तरव्यवच्छेदे पर्यवस्यतीति व्यवच्छेद्यं वस्त्वन्तर577शब्दमात्रं []577 वेति नियमाभावः । अलौकिकत्वाभिप्रायेणैव क्वचित्प्रश्नपूर्वकं ग्रहणम् । यथा—

‘विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि ।
बिभर्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः ॥’

यथा— ‘चित्रकर्मसु वर्णसंकरो यतिषु दण्डग्रहणानि’ इत्यादि श्ले-

________________

प्रश्नपूर्वकत्वम् । न रत्नमिति शब्दोपादानात्परिवर्जनीयस्य शब्दत्वम् । न पुनरीश्वरादिसेव्यमिति परिवर्जनीयस्य शब्दानुपादानादर्थत्वम् । अत्रेति । एषूदाहरणेषु । अलौकिकमिति । कविप्रतिभानिर्वर्तितम्578गृह्यमाणमिति । विधीयमानतया । वस्त्वन्तरव्यवच्छेद इति । अर्थान्तरनिषेधमात्रतात्पर्यात् । नियमाभाव इति । न ह्यत्र व्यवच्छेद्यस्य शाब्दत्वार्थत्वाभ्यां कश्चिल्लक्षणभेद इति भावः । अलौकिकत्वाभिप्रायेणेति । न हि ‘पञ्च पञ्चनखा भक्ष्याः’ इत्यादौ प्रश्नपूर्वकं ग्रहणमित्याशयः । क्वचिदिति । कुत्राप्यप्रश्नपूर्वकत्वमपि भवेदिति भावः । श्लेषसंपृक्तत्वमिति । श्लेषशब्दश्चात्र श्लिष्टशब्दनिबन्धनायामतिशयोक्तौ वर्तते । तथात्वोक्तेश्चातिशयोक्तिमात्रसंपृक्तत्वे न

षसंपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम् । अत्र च नियमपरिसंख्ययोर्वाक्यविप्रसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसंख्येति सामानाधिकरण्येनोक्तिः । अत एव पाक्षिक्यपि प्राप्तिरत्र स्वीक्रियत इति युगपत्संभावनं प्रायिकम् ।

_______________

तथा चारुत्वं भवतीति प्रयोजनम् । अत्यन्तेति । पूर्वोदाहरणेभ्यः । ननु नियमपरिसंख्य भिन्नलक्षणे प्रसिद्धे इति कथं तयोः सामानाधिकरण्यं सूत्रितमित्याशङ्क्याह—**अत्रेत्यादि ।**वाक्यविदो मीमांसकाः । यदाहुः— ‘विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसंख्या निगद्यते ॥’ इति । अत्रायमथः । इह कस्यचिदथेस्य नियमनाज्ञातस्य विधिः क्रियमाणो यदार्थान्तरनिषेधार्थमपि पर्यवस्यति तदां नियमविधिः। पुनरज्ञातज्ञापनमात्रपर्यवसित एव भवति । तेन नियमे ‘व्रीहीनवहन्ति’ इत्यादाववघातमात्रपर्यवसायित्वमेव । दलनादेरपि निषेध्यत्वेन पर्यवसानात् । नापि निषेधमात्र एव तात्पर्यम् । अवघाताभावे विध्यनिष्पत्तेः । सर्वप्रकारप्राप्तेरप्राप्तांशपरिपूरणस्याप्यभावे विधिः क्रियमाणोऽर्थान्तरनिषेधमात्रार्थमेव यत्र पर्यवस्यति सा परिसंख्या । तेन ‘पञ्च पञ्चनखा भक्ष्याः’ इत्यादावन्यपञ्चनखभक्षणनिषेधमात्रतात्पर्यमेव । न पुनरेतत्पञ्चनखभक्षणकर्तव्यतापि । तथात्वे हि पञ्चानां पञ्चनखानामभक्षणे प्रत्यवायप्रसङ्गो नियमादस्या भेदो वा न स्यात् । नादरणीयमिति । अनेनैव लक्षणेनोभयोः संग्रहात् । तथा हि नियमे ‘समे देशे यजेत’ इत्यादौ यागस्य समविषमात्मन्यनेकत्र देशे प्राप्तावेकत्र सम एव नियमनं कृतम् । परिसंख्यायामपि सर्वत्र भक्षणस्य प्राप्तौ पञ्च पञ्चनखविषय एवैकत्र नियमनम् । नन्वत्र पञ्चपञ्चनखान्तरनिषेधमात्रतात्पर्यात्पञ्चपञ्चनखविषये भक्षणनियमनेन वाक्यार्थत्वमिति कथमुभयानुगाम्येतल्लक्षणमिति चेत् । सत्यम् । अस्ति तावदामुखे पञ्चपञ्चनखविषये भक्षणे विधिः । यदास्यार्थान्तरनिषेधपर्यवसायित्वं तदेव जीवितभूतत्वेनेहालंकारत्वप्रतिष्ठापकम् । तच्च नियमपरिसंख्ययोः समानम् । अथ नियमे विधिनिषेधयोर्वाक्यार्थत्वं परिसंख्यायां च निषेधस्यैवेत्यनयो-र्महान्भेद इति चेत् । न । अस्ति तावद्विधेरर्थान्तरे निषेधपर्यवसायित्वं समानं यन्निबन्धनमनयोर-लंकारत्वम् । यत्तु नियमे विधावपि तात्पर्ये न तु परिसंख्यायाम् । तदनौपयिकत्वादिहानादरणीयम् । न हीह पञ्चानां पञ्चनखानामभक्षण एव प्रत्यवायः प्रसज्यते येन विधिनिषेधतात्पर्याभ्यामनयोरलंकारभेदः स्यात् । तथात्वे च सर्वालंकारभेदानां भेदहेत्वतिशयादिसंभवाद्भि579नलक्षणप्रसङ्गेऽलंकारानन्त्यं स्यात् । अतश्चैतद्भेदत्वमेव नियमस्य वाच्यम् । तदाह—अत एवेत्यादि । स्वीक्रियत इति । भेदत्वेनेत्यर्थः । सा च यथा— ‘किमासेव्यं पुंसाम्’ इत्यादौ । द्युसरित्तटेश्वरयोः सेवाया न युगपत्संभावनमिति निषेधपर्यवसायी द्युसरित्तट एवैकत्र सेवाया नियमः कृतः । अत एव च तत्प्रायिकमित्युक्तम् ।

दण्डापूपिकयार्थान्तरापतनमर्थापत्तिः ।580

दण्डापूपयोर्भावो दण्डापूपिका । ‘दण्डमनोज्ञादिभ्यश्च’ इति वुञ् ।

पृषोदरादित्वाच्च वृद्ध्यभावः । यथा— अहमहमित्यादाविति केचित् । अन्ये तु दण्डपूपौ विद्येते यस्यां नीतौ सा दण्डापूपिका नीतिः । एवमहं581 शक्तोऽहं शक्तोऽस्यामिति अहमहमिकेति वन्मत्वर्थी582 यष्टन्नित्याहुः । अपरे दण्डापूपाविव दण्डापूपिकेति इवे583 प्रकृताविति कनं वर्णयन्ति । अत्र हि मूषककर्तृकेण दण्डभक्षणेन तत्सहभाव्यपूपभक्षणम584र्थात्सिद्धम् । एवं न्यायो दण्डापूपिकाशब्देनोच्यते । ततश्च यथा दण्डभक्षणादपूपभक्षणमर्थायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ सामर्थ्यात्समानन्यायत्वलक्षणादर्थान्तरमापतति सार्थापत्तिः ।

__________________

दण्डापूपिकयेत्यादि । शब्दयोजनां तावदाह—दण्डेत्यादि । द्वन्द्वसंज्ञकत्वादस्यानेन वुञ् । शैष्योपाध्यायिकेतिवत् । ननु चास्य ञ्णिति चेति ञित्वावृद्धिः किं न भवतीत्याशङ्क्याह—पृषोदरेत्यादि । यथोपदिष्टमित्यनेन हि शिष्टप्रयोगभाजां शब्दानां व्याकरणशास्त्रेण लोपागमवर्ण-विकारादि यदविहितं तद्भवति । लक्ष्यमूलत्वाद्व्याकरणस्य । तेनात्राविहितोऽपि वृद्ध्यभावोऽनेन सिद्धः । इतिशब्दो हेतौ । ‘अत इनिठनौ’ इति ठन् । एतच्च पक्षत्रयं सामान्येनैवाभिदधता ग्रन्थकृता स्वयमेवोपन्नः पक्ष आश्रयणीय इति सूचितम् । तेनात्राद्य एव पक्ष आश्रयणीयः । पक्षान्तरयोरनुपपत्तेः । तथा चात्र ‘एकाक्षरात्कृतो जातेः सप्तम्या585 च न तौ स्मृतौ’ इत्याद्युक्त्या तस्य सप्तम्यर्थे निषिद्धत्वात् ठनेव न भवति । अथापि विषयनियमार्थस्येति करणस्यात्रापि संबन्धादिहापि भवतीति चेत् । न । एतद्धि
नियतोदाहरणविषयम् । अन्यथा हि निषेधकस्याकरणप्रसङ्ग एव स्यात् । अहमहमिकाशब्दस्य पुनरेतदत्यन्तमेवायुक्तम् । अदन्तात्प्रातिपदिकादनो विहितत्वात् । कनोऽप्यत्र न प्राप्तिः । तस्य प्रकृतौ गम्यमानायामिवार्थे वर्तमानात्प्रातिपदिकादुक्तत्वात् । अदन्तात्प्रातिपदिकादुक्तत्वात्प्रकृत्यभावाच्च कन्न भवति । अन्यथा हि गौरिव गवय इत्यत्रापि कनः प्रसङ्गः । तदित्थमाद्य एव पक्षो ज्यायान् । नन्वत्र किमर्थसिद्ध्या तत्सहभाविनोऽर्थस्य कस्यापतनं स्थितं येनेह दृष्टान्तत्वेन दर्शनमित्याशङ्क्याह—अत्रेत्यादि । एतदेव प्रकृते योजयति—ततश्चेत्यादिना । सामान्यन्यायत्वलक्षणादिति । येनैव न्यायेनै

१.‘जातौ’ ख.

न चेदमनुमानम् । समन्याय्यस्य संबन्धरूपत्वाभावात् । असंबन्धे चानुमानानुत्थानात् । अर्थापत्तिश्च वाक्यविदां न्याय इति तज्जातीयत्वेनेहाभिधानम् । इयं च द्विधा । प्राकरणिकाद-माकरणिकस्यार्थापतनमेकः प्रकारः । अप्राकरणिकात्प्राकरणिकस्यार्थापतनं द्वितीयः प्रकारः ।

आद्यो यथा—

‘पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥’

अत्र विभुवृत्तः प्राकरणिको लोकवृत्तान्तमप्राकरणिकमर्थादाक्षिपति ।

द्वितीयो यथा—

‘धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् ।
रिपुसंज्ञकेषु गणना केव वराकेषु काकेषु ॥’

अत्र शैलवृत्तान्तोऽप्रामाणिको रिपुवृत्तान्तं प्राकरणिकमर्थादाक्षिपति ।

क्वचिन्यायसाम्ये निमित्तं श्लेषेण गम्यते—

‘अलंकारः शङ्काकरनरकपालं परिकरो
विशीर्णाङ्को भृङ्गी वसु च वृष एको गतवयाः ।
अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो
विधौ वक्रे मूर्ध्नि प्रभवति वयं के पुनरमी ॥’

अत्र विधौ वक्रे इति श्लिष्टम् । अप्राकरणिकस्थाणुवृत्तान्तात्प्राकरणिकार्थापतनम् ।

_____________

कस्यार्थसिद्धिस्तेनैवाप्यस्यापरस्यार्थस्येत्यर्थः । नन्वर्थादर्थान्तरप्रतीतेः किमयमनुमानमेव न भवतीत्याशङ्क्याह—न चेदमित्यादि । संबन्धरूपत्वाभावादिति । दण्डभक्षणे ह्यपूपभक्षणं समानन्यायत्वादुचितमपि न निश्चितमेव दण्डभक्षणेऽपि पृथक्प्रवेशावस्थानादिना केनापि निमित्तेनापूपानामभक्षणस्यापि भावात् । अनुमानं पुनर्नियतमेवार्थादर्थान्तरस्यापतनमित्यस्याः पृथग्भावः । इहेति । वाक्यन्यायमूलालंकारप्रस्तावे । द्विविधेत्यनेनापततोऽर्थान्तरस्य साम्यादिना बहुप्रकारत्वं न तथा वैचित्र्यावहमिति सूचितम् । आपततः पुनरर्थान्तरस्योपादानानुपादानाभ्यां संभवत्यस्या वैचित्र्यम् । तत्रोपादाने ग्रन्थकृतैवोदाहृतम् । अनुपादाने यथा— ‘श्रीशारदापादरजः पवित्रैः स्पृष्टाः समन्ताद्धिम-वन्मरुद्भिः । यत्रोल्लसन्निर्भरशास्त्रगर्भसंदर्भिणः सन्त्यपि गर्भरूपाः ॥’ तत्र गर्भरूपेभ्योऽन्येषां का

तुल्यबलविरोधो विकल्पः ।

विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात्तुल्यबलयोरेकत्र युगपत्प्राप्तौ विरुद्धत्वादेव यौगपद्यासंभवे विकल्पः । औपम्यगर्भत्वाच्चात्र चारुत्वम् । यथा— ‘नमन्तु शिरांसि धनूंषि वा कर्णपूरीक्रिय-न्तामाज्ञा मौर्व्या वा’ इत्यादि । अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणश्लिष्टत्वम् । संधिविग्रहौ चात्र क्रमेण तुल्याप्रमाणे । प्रतिराजविषयत्वेन स्पर्धया द्वयोरपि संभाव्यमानत्वात् । द्वौ चेमौ विरुद्धाविति तयोर्युगपत्प्रवृत्तिं प्राप्नुतश्चात्र युगपत्प्रकारान्तरस्यानाशङ्कयत्वात् । ततश्च न्यायप्राप्तो विकल्पः ।

नमनकृतं च तयोः सादृश्यमित्यलंकारता । एवं कर्णपूरीक्रियन्तामित्यादौ योजनीयम् । औपम्यगर्भत्वाच्च क्वचिच्छलेपावलम्बेनाप्ययं दृश्यते । यथा—

_______________

वार्तेत्यापतदर्थान्तरमनुपात्तम् । श्लेषेणेति । श्लेषमूलयातिशयोक्त्येत्यर्थः । तुल्येत्यादि । एतदेव व्याचष्टे— विरुद्धयोरित्यादिना । तुल्यबलत्वादेवैकस्यापि बाधाभावान्नैकतरग्रहणम् । तच्च द्वयोरपि युगपत्प्राप्तिः । न च विरुद्धयोरेतद्युज्यते इत्यत्रैकस्यापि साधकबाधकप्रमाणाभावादनिश्चयादनियतै-कतरावलम्बनेन पाक्षिकी प्राप्तिः । अत एव नियतोभयपक्षावलम्बी विकल्पः । ननु च ‘यवैत्रींहिभिर्वा यजेत’ इति वास्तवत्वाद्विकल्पादस्य को विशेष इत्याशङ्क्याह— औपम्येत्यादि । औपम्यं साधारणधर्मनिबन्धनमिति तस्याप्यत्र त्रैधम् । एवं च यत्रैवौपम्यगर्भत्वं तत्रैवायमलंकारो न त्वन्यथेति भावः । यथा— ‘निन्दन्तु नीतिनिपुणा अथ वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम् अधैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रचलयन्ति पदं न धीराः ॥’ अत्रौपम्यगर्भत्वाभावाद्विकल्पमात्रत्वम् । विकल्पवृत्तं चात्र दर्शयति—अत्रेत्यादिना । क्रमेणेति । शिरोनमने संधिर्धनुर्नमने विग्रहश्चेति । स्पर्धयेत्यनेन विरुद्धत्वमेवोद्वलितम् । द्वौ चेमाविति । संधिविग्रहौ । अनयोविरुद्धत्वादेतत्कार्ययोरपि शिरोधनुर्नमनयोर्विरद्धत्वम् । तयोरिति । शिरोधनुर्नमनयोः । प्रकारान्तरस्येति । यत्र शिरसां धनुषां च युगपन्नमनं न संभवेत् । ततश्चेति । विरुद्धयोर्युगपत्प्रवृत्त्यसंभवान्यायप्राप्तत्वेनास्यानुन्मूल्यत्वमुक्तम् । अत एव चैतदभाववादिनामन्यायवादित्वमपि सूचितम् । अत्रौपम्यकृतमेवालंकारत्वमित्याह—नमनेत्यादि । तेनात्र नमनाख्यस्य समानधर्मस्यानुगामितयैक्यरूपेण निर्देशः । वस्तुप्रतिवस्तुभावस्तु यथा— ‘स्रष्टुं विधातुरुचितं मुखमेव चञ्चद्भूकं नतभ्रु तव कान्तिविलोकितेषु । एणाङ्कबिम्बमथ वा विवलत्कलङ्कमेकं न यद्विहित एव जगत्प्रकाशः ॥’ अत्र चञ्चद्विवलत्वयोः शुद्धसामान्यरूपत्वं भ्रूकलङ्कयोर्विबिम्बप्रतिबिम्बभावः ।

………………………..यिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनता समाधिनिरतैर्नीते हितप्राप्तये ।
लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥’

अत्र नेत्रे तनुर्वेति विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणं श्लिष्टत्वम् । न चात्र समुच्चये वाशब्दः । संभवन्त्यामपि गतौ महाकविव्यवहारे तथा प्रयोगाभावात् । ननु विरोधनिमित्तो विकल्पः कथं चात्र विरोधः । नैतत् । तनुमध्ये नेत्रयोः प्रविष्टत्वात्तयोः पृथगभिधानमेव [न] कार्यम् । कृतं च तस्पर्धिभावं गमयति । स्पर्धिभावश्च विरुद्धत्वम् । नेत्रे अथवा समस्तमेव शरीरमिलार्थावगमे विरोधस्य सुप्रत्येयत्वात् । स चात्र श्लेषाच्छ्रिष्टः । लिङ्गश्लेषस्य वचनश्लेषस्य चात्र दृष्टेः । तस्मात्समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलकारः । पूर्वैरकृतविवेकोऽत्र दर्शित इत्यवगन्तव्यम् ।

गुणक्रियायौगपद्यं समुच्चयः ।

गुणानां वैमल्यादीनां यौगपद्येनावस्थानम्, तथैव क्रियाणां च समुच्चयोऽलंकारः । विकल्पप्रतिपक्षेणास्य स्थितिः । क्रमेणं यथा—

‘विदा तसकलारिकुलं तव बलमिदमाशु विमलं च ।
प्रखठमुखानि नराधिप मलिनानि च तानि जातानि ॥"

______________

उत्तमत्वादिति । द्वयोरपि भगवत्संबन्धित्वेन भवार्तिशमनकरणसामर्थ्येन समत्वात् । ननु च नेत्रे तनुश्चेत्यत्र समुच्चय एव किं न भवतीत्याशङ्क्याह—न चात्रेत्यादि ।गताविति । शब्दस्य समुच्चयार्थलक्षणायाम् । तथेति । समुच्चयार्थपरतयेत्यर्थः । न ह्यत्र समुच्चयार्थो विवक्षतः । एवमत्र विरोधाभावात्कथं विकल्पोऽपि न भवतीत्याह—नन्वित्यादि । न कार्यमिति । तन्वभिधानेनैव नेत्रयोः स्वीकृतत्वात् । **कृतमिति ।**पृथगभिधानम् । स्पर्धिभावमिति । अन्यथा हि पृथगभिधानं निष्प्रयोजनं स्यात् । स्पर्धिभावामित । तुल्यत्वात् । अ(सु )प्रत्येयत्वादिति । सुष्टुत्वेन विरुद्धस्य कष्टकल्पनानिरास कृतः । स इति । विकल्पः । एतदेवोपसंहरति—तस्मादित्यादिना । समुच्चये द्वयोरपि युगपदवस्थानमिह त्वन्यथेत्यस्य तत्प्रतिपक्षभूतत्वम् । अनेनास्य ग्रन्थकृदुपज्ञत्वमेव दर्शितम् । गुणक्रियेत्यादि । तथैवेति । यौगपद्यावस्थानेनेत्यर्थः ।

_________________________________________________________________________

३. ‘स चात्र श्लेषः श्लिष्टः’ ख. ४. ‘इ.

‘अयमेकेपद तथा विधाग ……………………………..।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्र586रम्यैः ॥’

एतद्विभिन्नविषयत्वेनोदाहरणम् । एकाधिकरणत्वेनाप्ययमलंकारो दृश्यते । यथा—

‘बिभ्राणाहृदये त्वया विनिहितं प्रेमाभिधानं नवं
शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् ।
शेते शुष्यति ताम्यति प्रलपति प्रम्लायति भ्राम्यति
प्रेङ्खत्युल्लिखति प्रणश्यति दलत्युन्मूर्च्छति त्रुट्यति ॥’

एवं गुणसमुच्चयेऽप्युदाहार्यम् । केचित्पुनर्न केवलं गुणक्रियाणां व्यस्तत्वेन समुच्चयो यावत्समस्तत्वेनापि भवतीति वर्णयन्ति । उदाहरणम्—

‘न्यञ्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमाकेकरं
व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेमकम्पं स्थिरम् ।
उद्भूभ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गोत्तरं
चक्षुः सानु च वर्तते रसवसादेकैकमन्यक्रियम् ॥’

अत्राकेकरादयो गुणशब्दा न्यञ्चदित्यादयः क्रियाशब्दा इति सामस्त्येन गुणक्रियायोगपद्यम् ।

प्रसादिसप्रमेत्यादीनां समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धस्य वाच्यत्वात् । तस्य च सिद्धरूपत्वेन गुणत्वाद्गुणशब्देन गुणयोगपद्यमिति

_________________

अनेनैव चास्य गुणक्रियाणां युगपदवस्थितेर्भेदद्वयमप्युक्तम् । नैर्मल्यमालिन्दयोर्गुणयोरुपनमन-भवनयोश्च क्रिययोर्योगपद्येनावस्थानम् । विभिन्नविषयत्वेनेति । गुणादीनां बलमुखादिविषयगतत्वात् । अतश्च भिन्नाधिकरणोऽयं समुच्चयः । एकेत्यादि । यद्यप्यत्र शयनादीनां शोषणादीनां च क्रियाणामुपनमनभवनादिवत्कालान्तरभाविवान्न यौगपद्येनावस्थानम् । तथापि तन्नैरन्तर्येण ज्ञेयम् । एवमिति । यथैवात्रैकविषयत्न शयनाद्याः क्रिया इत्यर्थः । तत्तु यथा— ‘सितं ज्योत्स्नाजालैररुणरुचि संध्याकरभरैस्तम्तोमैः श्यामच्छवि भपटलैः पीतमपि च । नभो नीलीनीलं रतिरमणलीलाविहरणे स्थली धात्रा चित्रं चतुरमधुना चित्रितमदः ॥’ अत्र सितादीनां गुणानामेकाधिकरणत्वे युगपदवस्थानम् । ननु च केकरादयो न्यञ्चदित्यादयश्च यदि गुणक्रियाशब्दास्ततसादीत्यादयः पुनः किं शब्दा इत्याशङ्क

द्रष्टव्यम् । एवमयं त्रिधा समुच्चयः।

एकं समुच्चयं त्रिप्रकारभिन्नं लक्षयित्वा द्वितीयं लक्षयति—

एकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वं च ।

समुच्चय इत्येव ‘यत्रैकः कस्यचित्कार्यस्य सिद्धिहेतुत्वेन प्रक्रान्तस्तत्रान्योऽपि यदि तत्स्पर्धया तत्सिद्धिं करोति तदायमपरः समुच्चयः । न चायं समाध्यलंकारेऽन्तर्भवति । तत्र ह्येकस्य कार्य प्रति पूर्ण साधकत्वम् । अन्यस्तु कार्याय काकतालीयेनापतति तत्र समाधिर्वक्ष्यते । यत्र तु खले कपोतिकया बहूनामवतारस्तत्रायं समुच्चयः । अतः सुमहान्मेदोऽनयोः । स एष समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च भवतीति त्रिधा भिद्यते । सतः शोभनस्य सता शोभनेन समुच्चीयमानेन यथा—

‘कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी
भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् ।
प्रकृतिसुभगा एते भावा अमीभिरयं जनो
व्रजति नितरां दर्पे राजँस्त एव तवाङ्कुशाः ॥’

___________

एवमित्यादिना ।त्रिधेति । गुणानां क्रियाणां गुणक्रियाणां च यौगपद्येनावस्थानात् । भिन्नाभिन्नाधिकरणत्वेन यो विशेषः स एतत्प्रपञ्च एवेतिन पृथगिहोपात्तः । लक्षयतीति । एकस्येत्यादिना । ए[कः] कस्यचिदिति । यत्र यादृशो विवक्षितस्य । स्पर्धयेति । प्रक्रान्तस्य हेतोः । तत्सिद्धिमिति । कार्यनिष्पत्तिम् । **अपर इति ।**पूर्वसमुच्चयात् । भिन्नलक्षणत्वात् । ननु यद्येवं तत्कथं वक्ष्यमाणलक्षणः समाधिरेवायं न भवतीत्याशङ्क्याह— न चेति । पूर्णमिति । अन्यनिरपेक्षमित्यर्थः । आकस्मिकमापततो हि कारणान्तरस्य सौकर्येण मुखेन स्वरूपोपचयाधायित्वेन सुष्टुकार्यनिष्पत्तिः प्रयोजनम् । समुच्चये पुनः स्पर्धयैव बहूनामेककार्यकारित्वम् । अत एवात्र खले कपोतिकयेति निदर्शनीयम् । एवं च— ‘सोबाणारुहणपरिस्समेण587 कीस्सृविजे विनिस्सरिआ । तेस्वि अहरिदःसनवइअरेणस्सा साणवाच्छिण्णाः ॥’ इत्यादौ समुच्चय एव । सोपानारोहणपरिश्रमस्पर्धयैव हरिदर्शनरूपस्यापि कारणान्तरस्य तद्व्यवच्छेदनिषेधमुखेन श्वासकारित्वोपनिबन्धात् । अत एवात्र न समाधिः । तस्य हि काकतालीयेनापतता कारणान्तरेण कार्यसौकर्ये लक्षणम् । न चात्रैतत्संभवति । न ह्यत्र काकतालीयेन हरिदर्शनरूपस्य कारणान्तरस्यापतनम् । तदर्थमेव सोपानारोहणस्योपक्रान्तत्वात् । नापि तद्योगात्कार्यस्योपोद्व-

अत्रामालिन्येन शोभनस्य कुलस्य मूर्त्यादिभिः शोभनैः समुच्चयः । एकैकं च दर्पहेतुतायोग्यं तत्स्पर्धया निबद्धम् । यथा—

‘दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं
गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् ।
स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमो
नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः ॥’

अत्र दुर्वारत्वेनाशोभनानां स्मरमार्गणानां तादृशैरेव प्रियतमादूरत्वादिभिः समुच्चयः । नववयःप्रभृतीनां च यद्यपि स्वतः शोभनत्वम्, तथापि विरहविषयेनात्राशोभनत्वं ज्ञेयम् । सदसतः शोभनाशोभनस्य तादृशेन सदसता समुच्चीयमानेन योगो यथा—

‘शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृति588
प्रभुनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥’

अत्र शशिनः स्वतः शोभनस्यापि दिवसधूसरत्वादशोभनत्वेन सदसतस्तादृशैरेव कामिनीप्रभृतिभिः समुच्चयः । नत्वत्र कश्चित्समुच्चीयमानः शोभनः । अन्यस्त्वशोभन इति सदसद्योगो व्याख्येयः । ननु नृपाङ्गनगतः खल इत्यशोभनोऽन्ये त्वशोभना इति कथं समुच्चीयमानस्य सतस्तादृशेनासता योगः। नैतत् । ‘नृपाङ्गनगतः खलः’ इति प्रत्युत प्रक्रमभङ्गाद्दुष्टमेव । न तु सौन्दर्यनिमित्तमित्युपेक्ष्यमेवैतत्589

______________

लनात्मकं सौकर्ये हरिदर्शनस्यापि सोपानारोहणपरिश्रमस्पर्धतया तत्कारित्वमात्रस्यैव विवक्षितत्वात् । अत एव ‘णवोवाच्छिण्णा’ इत्युक्तम् । शोभनैरिति । भद्रत्वादिति योगात् । ननु दूरनिर्वासितत्वादिना प्रियादीनां यद्यशोभनत्वं तत्कथं नववयःप्रभृतीनामपीत्याशङ्क्याह—नवेत्यादि । तादृशैरेवेति । सदसद्भिः । कामिन्यादीनां स्वतः शोभनानामपि गलितयौवनादेरशोभनत्वात् । अन्यथा पुनरत्र सदसद्योगो व्याख्येय इत्याशङ्क्याह—नन्वित्यादितादृशेनेति । समुच्चीयमानेनेत्यर्थः । प्रक्रमभेदादिति

अत एवान्यैरेवमादौ सहचरभिन्नोऽर्थदुष्ट एवेत्युक्तम् । प्रकृते तु नृपाङ्गनगतत्वेन शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थनीयम् । एवमपि विशेष्यस्य शोभनत्वं प्रक्रान्तम् । विशेषणस्य त्वशोभनत्वमिह त्वन्यथेति न सर्वथा निरवद्यम् । ननु ‘दुर्वाराःस्मरमार्गणाः’ इत्युक्तोदाहरणव-त्कथं न सदसद्योगः । नैतत् । इह शोभनस्य सतोऽशोभनत्वमिति विवक्षा । तत्र त्वशोभनमेवैत-दिति विवक्षितमित्यस्त्यनयोर्भेदः । अत एवैकत्रोपसंहृतं ‘मनसि सप्तशल्यानि’ इति । सुन्दरत्वे-नान्तः प्रविष्टानामपि व्यथाहेतुत्वात् । अपरत्र तु ‘कथं सोढव्यः’ इति सर्वथा दुष्टत्वाभिप्रायेण । तस्मादस्ति प्रकारत्रयस्य विविक्तविषयत्वम् ।

कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः ।

केनचिदारब्धस्य कार्यस्य कारणान्तरयोगात्सौकर्यंसम्यगाधानात्समाधिः । समुच्चयसादृश्या-त्तदनन्तरमुपक्षेपः । तद्वैलक्षण्यं तु प्राक्प्रतिपादितमेव । उदाहरणम्—

‘मानमस्या निराकर्तु पादयोर्मे पतिष्यतः ।
उपकाराय दिष्ट्येदमुदीर्णेघनगर्जितम् ॥’

माननिराकरणे कार्ये पादपतनं हेतुः ।

_______________

शोभनानामुपक्रमेऽप्यशोभनस्य निर्देशात् । अत एवेति । सौन्दर्यनिमित्तत्वाभावात् । अन्यैरिति । काव्यप्रकाशकारादिभिः । तत्तु यथा— श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ॥’ अत्र श्रुतिधृतिबुद्ध्यादिभ्य उत्कृष्टेभ्यः सहचरेभ्यो व्यसनमूर्खतयोर्निकृष्टयोर्भिन्नत्वम् । एवमपीति । सत्यामप्यस्यां समर्थनायाम् । न समर्थेति । अनेनापि मार्गेण क्रमभेदोपपत्तेः । असद्योगसदसद्योगौ भेदयति—नन्वित्यादिना । इहेति । प्रकृते सदसद्योगोदाहरणे । तत्रेति । असद्योगोदाहरणे । अत एवेति । शोभनस्य सतोऽशोभनत्वेन विवक्षणात् । सोढव्य इत्युपसंहृतमित्यत्रापि संबन्धनीयम् । एतदेवोपसंहरति—तस्मादित्यादिना । प्रकारत्रयस्येति । प्रकारद्वयस्य तावद्भेद उक्तस्तद्वचनादेव पारिशेष्यात्तृतीयस्यापि प्रकारभेदः प्रतिपादितो भवतीत्येतदुक्तम् । **कारणेत्यादि ।**एतदेव व्याचष्टे— केनचिदित्यादिना । सौकर्यमिति । कार्यस्य सुखेनानायासमेव प्रकृतकारणवशेन निष्पन्नत्वेऽपि स्वरूपोपचयाधायकत्वेनाकृच्छ्रार्थ-स्योपलक्षणपरत्वेन विवक्षितत्वात्सुष्टु वा करणमित्यर्थः । अत एव कारणान्तरयोगात्कार्यस्य सुखेन सुष्टु वा का

तत्सौकर्यार्थे घनगर्जितस्य कारणान्तरस्य प्रक्षेपः । सौकर्ये चोपकारायेति पदे प्रकाशितम् ।

एवं बाह्यन्यायाश्रयणोऽलंकारान्प्रतिपाद्याधुना लोकन्यायाश्रयणोऽलंकारा उच्यन्ते । तत्र—

प्रतिपक्षतिरस्काराशक्तौ तदीयस्य तिरस्कारः प्रत्यनीकम् ।

यत्र बलवतः प्रतिपक्षस्य दुर्बलेन प्रतिपक्षेण प्रतीकारः कर्तुं न शक्यते इति तत्संबन्धिनो दुर्बलस्य तं बाधितुं590 तिरस्कारः क्रियते तत्प्रत्यनीकम् । अनीकस्य सैन्यस्य प्रतिनिधिः प्रत्यनीकमुच्यते । तत्तुल्यत्वादिदमपि प्रत्यनीकमुच्यते ।

यथानीकेऽभियोक्तव्ये तत्रासामर्थ्यात्तत्प्रतिनिधिभूतमन्यदभियुज्यते । तद्वदिह प्रतिपक्षे विजेये तदीयस्य दुर्बलस्य तिरस्करणमित्यर्थः । प्रतिपक्षगतत्वेन बलवत्त्वख्यापनं प्रयोजनम् । यथा—

________________

रणस्य भेदद्वयमपि ज्ञेयम् । प्रागिति समुच्चये । हेतुरिति । प्रकृतः । तत्सौकयार्थिमिति । सुखेन कार्यनिष्पत्त्यर्थमित्यर्थः । यद्याकस्मिकघनगर्जित591योगो न स्यात्तन्निरासमाननिराकरणं न सिद्ध्येत् । एतच्च प्रथमप्रकारस्योदाहरणम् । द्वितीयस्य यथा— ‘स्त्रैणं लीलाभरणमभितस्त्रोटयित्वा श्रमाम्भः शक्त्या पत्रावलिमृगमदव्यञ्जितश्मश्रुदेहः । केलिक्षोभः कुवलयदृशां मान्मथे कार्यभावे पुंवद्भावं घटितमभितः पारिपूर्ण्ये निनाय ॥’ अत्र स्वेदादिना घटितस्यापि पुंवद्भावस्य केलिक्षोभाख्येन कारणान्तरेण स्त्रैणाभरणत्रोटनादिना स्वरूपोपचयाधानात्समाधिः । एवमेवमादा592वव्यापकमेतल्लक्षण-मिति यदन्यैरुक्तं तत्तेषामेतल्लक्षणस्वरूपानवधारणमेवेत्यलं बहुना । एतदुपसंहरन्नन्यदवतारयति—एवमित्यादिना । तत्रेति निर्धारणे । प्रतिपक्षेत्यादि । एतदेव व्याचष्टे—**यत्रेत्यादिना ।**बलवत इति दुर्बलेनेति च प्रतीकाराकरणे विशेषणद्वारेण हेतुद्वयोपन्यासः । तत्संबन्धिनइति । बलवत्प्रतिपक्षमत्कस्य । तत्संबन्धित्वं च सादृश्यादिसंबन्धमूलम् । **दुर्बलस्येति ।**तस्यापि हि बलवत्वे दुर्बलेन प्रतिपक्षेन प्रतीकारः कर्तु593 न शक्यत इति भावः । **तमिति ।**सबलं प्रतिपक्षम् । बाधितुमिति । अन्यथा हि निष्प्रयोजनस्तदीयतिरस्कारः स्यात् । क्रियत इति । दुर्बलेन प्रतिपक्षेण । नैतत्संज्ञामात्रमित्याशङ्क्याह—**अनीकस्येत्यादि ।**तुल्यत्वमेव दर्शयति—यथेत्यादि । किं चात्र प्रयोजनमित्याशङ्क्याह—प्रतिपक्षे

‘यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवकसदृशाकृति कृती राहुरिन्दुमधुनापि बाधते ॥’

अत्र राहोः सकाशाद्भगवान्बलवान्विपक्षः । तदीयः पुनर्वक्रसादृश्यमुखेन दुर्बलश्चन्द्रमाः तत्तिरस्काराद्भगवतः प्रकर्षावगतिः ।

उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम् ।

उपमेयस्यैवोपमानभारोद्वहनसामर्थ्यादुपमानस्य कैमर्थक्येनाक्षेप आलोचनं क्रियते तदेकं प्रतीपम् । उपमानप्रतिकूलत्वादुपमेयस्य प्रतीपमिति व्यपदेशः । यद्युपमानतया प्रसिद्धस्योपमानान्तरप्रति-तिष्ठापयिषयानादरणार्थमुपमेयत्वं कल्प्यते तत्पूर्वोक्तगत्या द्वितीयं प्रतीपम् । क्रमेण यथा—

_______________

त्यादि । बलवत्वाख्यापनमिति । अप्रतीकार्यत्वात् । अत्रेत्यादि । वक्रासादृश्यमुखेन तदीय इति संबन्धः । तत्तिरस्कारादिति । न पुनस्तत्स्वीकारात् । बाधत इत्युक्तेस्तिरस्कारस्यैव साक्षाद्वाक्यार्थ-त्वात् । अत एव परैरपि तत्संबन्धितिरस्कारद्वारा तस्यैव बाधनादित्युक्तम् । प्रकर्षोऽप्रतीकार्यत्वम् । एतेन चास्य प्रयोजनं दर्शितम् । अत्र ह्यतिरस्कार्यतिरस्करणातिरस्करणकर्तु594र्निन्दाद्वारेण बलवतः प्रतिपक्षस्य प्रतीकार्यत्वात्स्तुतिप्रतिपादने तात्पर्यम् । उपमानस्येत्यादि । कैमर्थक्येनेत्यादि । तद्व्यापारस्योपमेयेनैव कृतत्वादनुपयोगेनेत्यर्थः । उपमानान्तरेति । उपमानानां मध्ये । अनादरणार्थमिति । उपमानत्वेन नैतद्योग्यमिति यावत् । पूर्वोक्तगत्येति । उपमेयस्योपमानप्रति-कूलवर्तित्वात् । अनेनोभयत्रापि नैतत्संज्ञामात्रमित्युक्तम् । एकं द्वितीयमित्यभिदधता ग्रन्थकृता प्रतीपाख्यमलंकारद्वयं पुनः सामान्यलक्षणाभावादेकमेव द्विप्रकारमित्युक्तम् । उपमाप्रकारत्वं चानयोर्न वाच्यम् । उपमानस्याक्षेपादुपमेयकल्पनाच्च । न हि तत्र तदस्तीति ततोऽनयोः सुप्रत्यय एव भेदः । अनयोः पुनः साधर्म्यजीवितत्वात्साधारणधर्माणामस्ति त्रैविध्यम् । एवमौपम्यमन्तरेण नैतदलंकारद्वयं भवतीत्यवगन्तव्यम् । तेन ‘णिद्दश्चअ वन्दिज्जिअ किं किरऊ देवआहिं अण्णाहिं । जिइ पसाएण पिओ लघइ दूरे वि णिवसन्तो ॥’ इत्यत्रापि प्रतीपालंकारत्वं न वाच्यम् । अत्र हि देवतान्तराणां तथा सामर्थ्यादर्शनात्तदाक्षेपेण स्वप्नकाले प्रियोपलब्धिदायिन्या निद्राया विरहिणीकर्तृकं वास्तवमेव वन्द्यत्वम् । वस्तु च नालंकार इति निर्विवादः । कुवलयदलदाम्नामाक्षेपश्चक्षुषामत्यन्तमेव तत्साधर्म्यप्रतिपादनार्थः। अन्यथा हि तदाक्षेपो निरर्थकः स्यात् । एवं ‘किं कर्णपूरैर्यदि साधुवादा मुक्ताफलैः किं यदि वाग्विलासाः । किं चूर्णयोगैर्यदि रूपशोभा लावण्यमास्ते यदि चन्दनैः किम् ॥’ इत्यत्रापि ज्ञेयम् । अत्र हि यथा कर्णपूरादिभिः श्रोत्रशोभा क्रि-

‘यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारस्तु कुवलयदलमाल्यानि’ इत्यादि । यथा वा—

‘लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा ।
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥’

अत्र यथासंख्यमप्यस्तीति प्राक्प्रतिपादितम् ।

‘ए595 एहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिज्जम् ।
तुज्झ मुहेण किसोअरि चन्दो उअमिज्जइ जणेण ॥’

अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं कल्पितम् । वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका । क्वचित्पुनर्निष्पन्नमेवौपम्यम596नादरकारणम् । यथा—597

________________

यते तथैव साधुवादादिभिरिति साधुवादादिभिरेव तत्कार्यकरणात्कर्णपूरादीनामाक्षेपः । तस्य च साधुवादादीनामत्यन्तमेव तत्साधर्म्यात्प्रतिपादनं फलम् । एवं ‘खेलन्तीनां सुरपतिपरीवारवाराङ्गनानां यन्मञ्जीरध्वनितसुभगो रौति कोलाहलोऽयम् । तेनैवास्ते मदननृपतेर्माङ्गलिक्ये प्रबोधे मोघायन्ते पथि पथि गिरः कच्छपारावतानाम् ॥’ इत्यत्रापि ज्ञेयम् । यत्पुनरत्रान्यैरुपमानोपमेयत्वस्याविवक्षितत्वमुक्तम्, तत्तेषां तत्स्वरूपानभिज्ञत्वम् । लावण्यादिधर्मश्चात्र नृपचन्द्रयोरनुगामितया निर्दिष्टः । यथा वा— ‘तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे ही धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥’ इत्यत्र सौम्यसुभगत्वादि सकृन्निर्दिष्टम् । असकृन्निर्देशस्तु यथा— ‘यद्यस्ति तस्याः स्मरशार्ङ्गभङ्गिविला-सवेल्लद्भ्रुमुखं नताङ्गयाः। तदिन्दुना किं विहितं विधात्रा सृष्टेन वल्गन्मृगशावकेन ॥’ अत्र वेलद्वलगत्वयोः शुद्धसामान्यरूपत्वं भ्रूमृगयोस्तु बिम्बप्रतिबिम्बभावः ।निकर्षार्थमिति । अन्यथा चन्द्रस्योपमेयत्वकल्पनं निरर्थकं स्यात् । प्रयोजिकेति । उत्कर्षप्रतिपादनात् । अत्रापि साधारणधर्मस्या-नुगामितया यथा— मुखेन सखि पीयूषपेलवेन निशासु ते । उपमानतया चन्द्रं प्रियेणाशिष्यते ध्रुवम् ॥’ अत्र पीयूषपेलवत्वमनुगामितयोपात्तम् । असकृन्निर्देशस्तु यथा— ‘पौलस्त्य विस्तृतविवेल्लदपूर्वब-कच्छटाप्रकटितं

‘गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे ।
सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥’

अत्रोत्कर्षभाज उपमानस्य प्रादुर्भाव एव न्यक्कारकारणम् । अनेन न्यायेनोत्कृष्टगुणत्वाद्यदु-पमानभावमपि न सहते तस्योपमाभावत्वकल्पितं598 प्रतीपमेव । यथा—

‘अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥’

अत्र हालाहलं प्रकृष्टदोषत्वादसंभाव्यमानोपमेयभावमप्युपमानत्वेन निबद्धम् ।

वस्तुना वस्त्वन्तरनिगूहनं मीलितम् ।

सहजेनागन्तुकेन वा लक्ष्मणा यद्वस्त्वन्तरेण वस्त्वन्तरं निगूह्यते तद-

__________________

सृजताद्य च त्वाम् । नीतोऽञ्जनाद्रिरुपमेयधुरां विधात्रा प्रोत्तुङ्गशृङ्गविवलत्पृथुदाववह्निः ॥’ अत्र वेल्लद्विवलत्वयोः शुद्धसामान्यरूपत्वम्, कूर्चदावयोस्तु बिम्बप्रतिबिम्भावः । अस्य हि विच्छित्यन्तरं दर्शयति—क्वचिदित्यादिना ।निष्पन्नमिति । सिद्धत्वेनोक्तेः । उत्कर्षभाज इति । अर्थान्नेत्रयुगलस्य । प्रादुर्भाव इति । उपमानस्याभूतस्योत्पत्तिः । अत एव स्पर्धाबन्धभाजः परस्योत्पादान्न्यक्कारः । अनेन न्यायेनेति । अत्र यथोपमानत्वप्रादुर्भावो न्यक्कारकारणं तथैवेत्यर्थः । अतश्च पूर्वस्या एव विच्छित्तेरिदं विभजनं न पुनर्विच्छित्यन्तरमिति भावः । प्रतीपमिति । उपमानभावं यो न सहते तस्योपमानत्वपरिकल्पनेन599 प्रतिकूलवर्तित्वात् । यद्यपि प्रकृष्टगुणेनोपमानेन भाव्यं न्यूनगुणेन चोपमेयेन, तथापीदृशप्रकृष्टगुणत्वं विवक्षितं यदपेक्षया न्यूनगुणमप्युपमेयं न संभवतीत्यत्र पिण्डार्थः । ‘वैकुण्ठाय श्रियमभिनवां600 शीतभानुं भवाय प्रादादुच्चैःश्रवसमपि वा वज्रिणे तत्क्क गण्यम् । तृष्णार्ताय स्वमपि मुनये यद्ददाति स्म देहं कोऽन्यस्तस्माद्भवति भुवने वारिधेर्बोधिसत्त्वः ॥’ इत्यत्र पुनरन्यमतेऽपि न प्रतीपम् । लक्ष्म्यादेरधिकगुणस्य न्यूनगुणेनावतारत्वापादनाभावात् । अत्र हि लक्ष्म्यादिदानाद्देहदानस्याधिकगुणत्वं विवक्षितम् । अत एवाम्बुधेः स्वदेहदानमुत्प्रेक्ष्य को नाम लक्ष्म्यादिदानेनोत्कर्ष इत्यत्र वाक्यार्थः । एतच्च वस्त्विति नालंकार इत्यलमतिविस्तरेण । वस्तुनेति । लक्ष्मणेति । चिह्नरूपेण धर्मेणेत्यर्थः । तस्य हि सहजागन्तुकत्वेन द्विविधत्वादस्यापि द्विप्रकारत्वमस्तीत्यनेनोक्तम् । ननु वस्त्वन्तरस्य

न्वर्थाभिधानं मीलितम् । न चायं सामान्यालंकारः, तस्य हि साधारणगुणयोगाद्भेदानुपलक्षणं रूपम् । अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानमिति महाननयोर्विशेषः601 । सहजेन यथा—

‘अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।
इति स्फुरितमङ्गकैर्मृगदृशां स्वतो लीलया
यदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥’

______________

वस्त्वन्तरेण निगूहितत्वेनैकात्म्योपनिबन्धात्किमयं सामान्यालंकार एव न भवतीत्याशङ्क्याह—न चायमित्यादि । साधारणगुणयोगादिति । यदाहुः— ‘प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । ऐकात्म्यं बध्यते602 योगात्तत्सामान्यमिति स्मृतम् ॥’ इति । भेदानुपलक्षणमिति । प्रस्तुत प्रस्तुतात्मनः सदृशस्य वस्तुद्वयस्यासामान्याकारतया पृथगवगतस्याप्येकतरविशेषस्मरणादुभयविशेषाग्रहणाच्चैकतरत्वेनैव निश्चयोत्पादनाद्धटपटवद्भेदो न प्रातिष्टकेन रूपेणानुपलक्षणं यथावगमनमध्यवसाय इत्यर्थः । यथा—राजगञ्जदौ शुक्तिकारजतयोः संनिकर्षेण सामान्याकारतया पृथगवगमेऽप्येकतरविशेषस्मरणादुभयत्र विशेषाग्रहणात्कस्यचिदेकतरत्वेनैव निश्चयो जायते तथैवेहापि ज्ञेयम् । मीलिते पुनर्न्यूनगुणस्याधिक-गुणेन तिरोहितत्वात्सामान्याकारकत्वेनाप्युभयावगमो न्यूनगुणाच्छादकतया तद्देशावष्टम्भेनाधिक-गुणस्यैव प्रतिभासनात् । अत एवात्र मदोदयकृतस्य दृक्तारल्यादेर्नावगममात्रं603 तस्य मदोदयात्पूर्वमपि तथैवावस्थानात् । बलवता स्वाभाविकेन दृक्तारल्यादिनाच्छादितत्वात् । सामान्ये पुनः— ‘अभेदमूढस्तबकाभिरागता लताभिरीषल्ललितालिपङ्कति । इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तमवामनस्तनी ॥’ इत्यादौ निकुञ्जमध्यगताया योषितः पृथग्देशावष्टम्भेन सामान्याकारतयावगमेऽपि साधारणगुणयोगाल्लताभ्यो भेदेनानध्यवसायः। अत एव ‘न लक्ष्यते व्यक्तम्’ इत्यायुक्तम् । अतश्च स्वरूपेणावगतस्यापि भेदानध्यवसायः। सामान्यं बलवता तिरोहितत्वात्स्वरूपानवगमो मीलितमिति स्थितम् । अत एवाह—महाननयोर्विशेष इति । एवं तर्हि समानगुणत्वस्याविशेषाद्वक्ष्यमाणोदाहरणा-दावभिसारिकादिवज्ज्योत्स्नादेरपि भेदानुपलक्षणं किं न स्यात् । ननूक्त एवात्र परिहारो यत्सुमनोगुणत्वेऽप्येकतरविशेषस्मरणादुभयविशेषाग्रहणाच्चेति एवमपि कथमिति चेत्, कस्यायं पर्यनुयोगः, किं ज्ञातुरुत ज्ञेयस्य वा । एतच्चाप्रस्तुतत्वान्नेहास्माभिरुक्तम् । इह च प्रस्तुतस्यैवाप्रस्तुताद्भे-देनानुपलक्षणं विवक्षितम् । तद्गतत्वेनैवाभदद्वारेण

अत्र दृक्तारल्यादिना स्वाभाविकेन लक्ष्मणा मदोदयकृतं दृक्तारल्यादितिरोधीयते । आगन्तुकेन यथा—

‘ये कन्दरासु निवसन्ति सदा हिमाद्रे
स्त्वत्पातशङ्कितधियो विवशा द्विषस्ते।
अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं
तेषामहो बत भियां न बुधोऽप्यभिज्ञः ॥’

हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन समुद्भावितावागन्तुकौ कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ । तिरोधायकत्वादेव च भीलितव्यपदेशः ।

प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् ।

यत्र प्रस्तुतस्य वस्तुनोऽप्रस्तुतेन साधारणगुणयोगादैकात्म्यं भेदानध्यवसायादेकरूपत्वं निबध्यते तत्समानगुणयोगात्सामान्यम् । न चेयमपह्नुतिः । किंचिन्निबध्य कस्यचिदप्रति-ष्ठापनात् । यथा—

‘मलयजरजसा विलिप्ततनवो नवहारलताविभूषिताः
सिततरदन्तपत्रकृतवऋरुचो रुचिरामलांशुकाः ।
शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः
प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥’

__________

तत्सादृश्यस्य प्रतिपादयिषितत्वात् । न चैवमप्यन्यस्यान्यतया प्रतीतेरस्य भ्रान्तिमत्यन्तर्भावो वाच्यः \। तस्य हि प्रकृतवस्त्वाच्छादकत्वेनैव प्रतीतिर्लक्षणम् । इह तु तथात्वेऽपि वस्त्वन्तरस्य पृथक्प्रतिपत्तिरित्यलं बहुना । न चास्य संज्ञामात्रमेतदित्याह— तिरोधायकत्वादिति । अतश्च पूर्व तदन्वर्थाभिधानं मीलितमित्युक्तं निर्वाहितम् ॥ प्रस्तुतस्येत्यादि । प्रस्तुतस्येत्युपमेयस्य । अप्रस्तुतेनेत्युपमानेन । साधारणगुणानां604 च त्रिरूपत्वमत्रार्थसिद्धम् । तेन साधारणगुणस्यानुगामितया यथा–‘मध्ये जानपदस्खैमुखानाममलत्विषाम् । रोहोरलक्ष्यता605मेति यत्र पूर्णेन्दुमण्डलम् ॥’ अत्रामलकान्तित्वमनुगामितया सकृन्निर्दिष्टम् । असन्निर्देशस्तु यथा— अभेदमित्यादौ । अत्र स्तबकस्तनयोबिम्बप्रतिविम्यभावः । ललितत्वनर्तितत्व606योः शुद्धसामान्यरूपत्वम् । ननु च प्रस्तुतस्याप्रस्तुतेनापहवः क्रियत इति किमयमपह्नुतिरेव न भवतीत्याशङ्क्याह— न चेयमित्यादि ।

अत्र मलयजरजसा विलेपनादीनां चन्द्रप्रभया सह ‘अविभाव्यता गताः’ इत्यभेदप्रतीतिर्दर्शिता ।

स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः ।607

यत्र परिमितगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्य608 स्वीकरणं स तद्गुणः । तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा । न चेदं मीलितम् । तत्र हि प्रकृतं वस्तु वस्त्वन्तरेणाच्छादितत्वेन प्रतीयते, इह त्वनपह्नुतस्वरूपमेव प्रकृतम् । [यत्र609 परिमितगुणं वस्तु तस्य समीपवर्तिप्रकृष्टवस्तुगुणस्वीकारं कुरुते स तद्गुणः ।] वस्त्वन्तरर्गुणोपरक्ततया610 प्रतीयत इत्यस्त्यनयोर्भेदः । यथा—

‘विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचं रुचा स्वामानिन्यिरे वंशकरीरनीलैः ॥’

अत्र रविरथाश्वानामरुणवर्णस्वीकारः । तस्यापि गारुत्मतमणिप्रभास्वीकार इति तद्गुणत्वम् ।

सति हेतौ तद्गुणाननुहारोऽतद्गुणः ।

तद्गुणप्रस्तावात्तद्विपर्ययरूपोऽतद्गुण उच्यते । इह न्यूनगुणस्य विशिष्टगुणपदार्थधर्म-स्वीकारः प्रत्यासत्त्यान्याय्यः । यदा पुनरुत्कृष्टगुणपदार्थस-

_____________

‘अविभाव्यतां गताः’ इत्यर्थादुक्तेः ॥ स्वगुणेत्यादि । परिमितेति । स्वीक्रियमाणस्य गुणस्याभावात् । तत्संभवादेव चान्यस्य प्रकृष्टगुणत्वम् । समीपवर्तीत्यनेन गुणग्रहणे योग्यत्वमुक्तम् । अस्मिन्निति । परिमितगुणे प्रकृते । अतश्च नैतत्संज्ञामात्रम् । ननु च प्रकृष्टगुणेन परिमितगुणस्य तिरोधानान्मीलित-मेवायं किं न भवतीत्याशङ्क्याह—न चेत्यादि । आच्छादितत्वेनेति । अपह्नुतिस्वरूपत्वेनेत्यर्थः । उपरक्ततयेति । विशिष्टत्वेनेत्यर्थः । तस्येति । अरुणवर्णस्य । अपिः समुच्चये । यथा वा— ‘इन्दूदयश्चन्दनमिन्दुवका चैत्रस्तवेत्यादिसहायसंपत् । वपुश्च शृङ्गारमयं स मन्ये संतापकस्त्वं हरवह्नियोगात् ॥’ अत्र हरवद्विगुणस्य संतापकत्वस्यं स्वीकारः ॥ सतीत्यादि । तद्विपर्ययेति । अत्र हि प्रत्यासत्यान्यगुणग्रहणमुक्तम् । इह तु योग्यतायामपि न तद्ग्रहणम् । प्रत्यासत्त्येति । विप्रकृष्टस्य ह्यन्यगुणस्वीकारानुपपत्तिः । यदा त्वेतन्न भवति तदाय-

न्निधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्टगुणस्याननुहरणं न्यनगुणेनाननुवर्तनं भवति सोऽतद्गुणः । तस्योत्कृष्टगुणस्यास्मिन्गुणा न सन्तीति । यद्वा तस्याप्रकृतस्य रूपाननुपहारः सत्यननुहरणहेतौ सोऽतद्गुणः । तस्याप्रकृतस्य गुणा नास्मिन्सन्तीति कृत्वा । क्रमेण यथा—

‘धवलो611 सिजह वि सुन्दर तह वि तुए मज्झ रजिअं हिअअम् ।
राअभरिए वि हिअए सुहअ णिहित्तो ण रत्तो सि ॥’

‘गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥’

पूर्वत्रातिरक्तहृदयसंपर्कान्नायकस्य धवलशब्दवाच्यस्य प्राप्तमपि रक्तत्वं न निष्पन्नमित्यतद्गुणः । उत्तरत्राप्रकृतस्य गाङ्गयामुनजलस्य संपर्केऽपि न तथा रूपत्वमित्ययमप्यतद्गुण एव ।

कार्यकारणभावस्य चात्राविवक्षणान्न विषमालंकारावकाशः ।

________________

सलंकार इत्याह—यदेत्यादि । उत्कृष्टगुणस्येत्यनेन व्याख्यान्तरे द्वयोरपि गुणत्वं सूचितम् । एवं च प्राप्तेऽप्यन्यगुणस्वीकारे तदभावोऽयमलंकारः । यदुक्तम्— ‘तद्रूपाननुहारश्चेदस्य तत्स्यादतद्गुणः’ इति । अस्मिन्निति । न्यूनगुणे । यद्वेति पक्षान्तरे ।अप्रकृतस्येति । अननुदाहरणीयगुणस्यान्यस्य । तदेवं व्याख्यानद्वयेनास्य प्रकारद्वयं दर्शितम् । अननुदाहरणाख्यस्य सामान्यस्यानुगमात् अतिरिक्तत्वेनात्यु-त्कृष्टगुणत्वं हृदयस्य दर्शितम् । अयमपीति । समानगुणत्वेनापीत्यर्थः । धवलोसीति । तत्तद्गुण एवेति ग्रन्थैकदेशस्तु क्वचिल्लेखकैः कल्पित इत्युपेक्ष्य एव । पुस्तकान्तरेष्वस्यादृष्टेः । न च गाथाव्याख्यानं प्रस्तुतं येनात्रालंकारान्तरस्यापि व्याख्यानं स्यात् । नाप्यत्र तद्गुणः । तस्य हि स्वगुणत्यागेनाप्यन्यगुणस्वीकारो लक्षणम् । न चात्र स्वगुणत्यागो नाप्यन्यगुणस्वीकारः । तस्य धवलत्वव्यभिचारात् । किं त्वत्र कारणाभावेऽपि कार्योत्पादनाद्विभावना, न तु विरूपकार्योत्पत्त्या विषमालंकारः । तत्र हि कार्यकारणयोर्विरूपत्वेऽध्यबाध्यमानतया प्रतीतिः । इह त्वेकस्य बाध्यमानतयेति महाननयोर्भेदः। नन्वत्र सत्यपि कारणसामग्र्येऽन्यगुणानुदाहरणरूपस्य कार्यस्या-नुत्पत्तेः किमयं विशेषोक्तिरेव न भवतीत्याशङ्क्याह—कार्येत्यादि । अविवक्षणादिति । वस्तुतस्तु संभवत्येव कार्यकारणभावः । अत एवालंकारसारकृता विशेषोक्त्यन्तर्भाव एवोक्तः ।

उत्तरात्मश्नोन्नयनमसकृदसंभाव्यमुत्तरं चोत्तरम् ।

यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबध्यमानादुत्तरादुन्नीयते तदेकसुत्तरम् । न चेदमनुमानम् । पक्षधर्मतादेरनुद्देशात् । यत्र च प्रश्नपूर्वकमसंभावनीयमुत्तरं तच्च न सकृत् तावन्मात्रे चारुत्वाप्रतीतेः । अतश्चासकृनिबन्धे द्वितीयमुत्तरम् ।

न चेयं परिसंख्या । व्यवच्छेद्यव्यवच्छेदकपरत्वाभावात् । क्रमेण यथा—

‘एकाकिनी यदबला तरुणी तथाह
मस्मद्गृहे गृहपतिश्च गतो विदेशम् ।

____________

ग्रन्थकृता तु प्राच्यानुरोधाल्लक्षितः । ‘विषमालंकार–’ इति पाठस्तु पुस्तकान्तरेषु स्थितोऽध्यत्रायुक्तः । न हि कार्यकारणभावविवक्षामात्रेणात्र तत्त्वं स्याद्येन तन्निषेधेन तस्यानवकाशः । तस्य हि विरूपस्य कार्यस्यानर्थस्योत्पत्तिश्च लक्षणम् । उत्तरादित्यादि ।उन्नीयत इति । प्रश्नरूपत्वेन संभाव्यत इत्यर्थः । ननु चाप्रतीतस्य प्रत्ययनात्किमिदमनुमानं न भवतीत्याशङ्क्याह—न चेदमित्यादि । असंभावनीयमिति । कविप्रतिभानिवर्तितमित्यर्थः । तदिति । प्रश्नपूर्वकमुत्तरम् । एवं प्रश्नस्याप्यसकृदे-वोपनिबन्धो न्याय्यः । अतश्चेति । सकृदुत्तरस्य चारुत्वाप्रतीतेः । एवं समानन्यायत्वा-त्पूर्वत्राप्यनुपनि-बध्यमानप्रश्नागूरकमुत्तरं न सकृत् तावन्मात्रेण चारुत्वाप्रतीतेरित्याश्रयणीयम् । ननु च प्रश्नोत्तररूपत्वा-दियं परिसंख्यैव किं न भवतीत्याशङ्क्याह—**न चैयमित्यादि ।**एतच्चोत्तराख्यमलंकारद्वयम् । न पुनरेकः, सामान्यलक्षणायोगात् । एतच्चोदाहरणद्वयं ग्रन्थकृता प्राच्यमतानुरोधेन दत्तम् । वस्तुतस्त्वत्र नास्त्येतदलंकारद्वयम् । अत एवैतावतालंकारसारकारादिभिरेतदलंकारद्वय-मपास्तम् । न च तद्युक्तम्, लक्षणदोषाभावात् । उदाहरणान्तरेष्वस्य प्रतिष्ठानात् । तत्तु यथा— ‘भिक्षो कन्थाश्लथा किं ननु शफरवधे जालिकैषात्सि मत्स्यान्मध्ये मद्यावदंशं पिबसि मधु समं वेश्यया यासि वेश्याम् । हत्वारीन्किं करिष्ये कति तव रिपवः संधिभेत्तास्मि येषां चोरस्त्वं द्यूतहेतोः कथमसि कितवो येन भिक्षुर्नमस्ते ॥’ अत्र हि शफरबन्धजालिकैषेत्युत्तरान्मत्स्यादनरूपस्य प्रश्नस्योन्नयनम् । एवमन्यदपि ज्ञेयम् । ‘येन दासीसुतोऽस्मि’ इति पुनः पाठो ग्राह्यः । दासीसुतत्वे कितवस्य निमित्तत्वाभावात् । प्रश्नोत्तरोन्नयनस्यासमाप्तेः साकाङ्क्षवाद्वाक्यार्थस्याविश्रान्तेः । द्वितीयो यथा— ‘पुंसः संबोधनं किं विदधति करिणं के रुचोऽग्नेभिषक्किं का शून्या ते रिपूणां नरवर नरकं कोऽवधीत्क्रीडनं किम् । के वा वर्षासु न स्युस्तृणमिव हरिणा किं नखाग्रैर्विभिन्नं विन्ध्याद्रौ पर्यटन्कोविघटयति तनुर्नर्मदावारिपूरः ॥’ ‘नर्मदा-

कं याचसे तदिह वासमियं वराकी
श्वश्रूर्ममान्धबधिरा ननु612 मूढ पान्थ ॥’

‘का613 विसमा देवगई कि लद्धं जं जणो गुणग्गाही ।
किं सोक्खं सुकलत्तं किं दुक्खं जं खलो लोओ ॥’

पूर्वत्र मम वासो दीयतामिति प्रश्न उत्तरादुन्नीयते । उत्तरत्र दैवगत्यादिनिगूढत्वादसंभाव्यमस-कृत्प्रश्नपूर्वकमुत्तरं निबद्धम् ।

इतः प्रभृति गूढार्थप्रतीतिपरालंकारलक्षणम्—

संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् ।

इह सूक्ष्मः स्थूलमतिभिरसंलक्ष्यो योऽर्थः स यदा कुशाग्रमतिभिरिङ्गिताकाराभ्यां संलक्ष्यते तदा तस्य संलक्षितस्य विदग्धं प्रति प्रकाशनं सूक्ष्ममलंकारः । तत्रेङ्गिताद्यथा—

‘संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥’

अत्र संकेतकालाभिप्रायो विटसंबन्धिना भ्रूक्षेपादिना इङ्गितेन लक्षितः रजनिकालभाविना लीलापद्मनिमीलनेन प्रकाशितः । आकाराद्यथा—

_________________

वारिपूरः’ इति सभङ्गासभङ्गत्वेन त्रिरुत्तरम् । अत्र च यथोक्तमनुमानपरिसंख्यावैलक्षण्यं सुस्पष्टमेवेति ग्रन्थविस्तरभयान्नोक्तमिति ॥ अधुनालंकारान्तराणां लक्षणं कर्तुमुपक्रमते—इत इत्यादि । एतदेव व्याचष्टे—इहेत्यादि । इङ्गिताकाराभ्यां सूक्ष्मार्थसंलक्षणादस्य भेदद्वयमप्युक्तम् । एवं संलक्षितस्यार्थस्य प्रकाशनमयमलंकार इत्यत्र तात्पर्यम् । ‘कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते । धर्मेण केनचिद्यत्र तत्सूक्ष्मं परिदृश्यते ॥’ किं च ‘यत्र कर्णोत्पलन्यस्तहस्तदीपावलोकिनी । दृष्ट्वा वधूः प्रियोपान्ते सखीभिः प्रतिमुच्यते ॥’ इत्येतद्ग्रन्थप्रक्रिययालंकारोदाहरणजातं कुर्वताप्यलंकारभाष्यकृता-सूक्ष्मालंकारे यत्तदनुगुणमुदाहृतं तत्रायमाशयः— यत्सूक्ष्मस्यार्थस्य संलक्षणमात्रं प्रकाशनमात्रं वाप्ययमेवालंकार इति । अत एवात्र सखीभिः सुरतोत्सुकत्वं संलक्षितम् । कर्णोत्पलन्यासादिना प्रकाशितमित्युभयार्थसहितत्वम् । तदेवमादौ सूक्ष्मालंकार एव

‘वक्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे ।
पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख ॥’

अत्र स्वेदबिन्दुकृतकुङ्कुमरूपभिन्नेनाकारेण संलक्षितं पुरुषायितं पाणौ पुरुषोचितखड्ग-धारालिखनेन प्रकाशितम् ।

उद्दिन्नवस्तुनिगूहनं व्याजोक्तिः ।

यत्र निगूढं वस्तु कुतश्चिन्निमित्तादुद्भिन्नं प्रकटतां प्राप्तं सद्वस्त्वन्तरप्रक्षेपेण निगूह्यते अपलप्यते सा वस्त्वन्तरप्रक्षेपरूपस्य व्याजस्य वचनाद्वयाजोक्तिः । यथा—

‘शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस
द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः ।
हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं
शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः ॥’

** अत्र रोमाञ्चादिनोद्भिन्नो रतिभावः शैत्यप्रक्षेपणेनापलपितः । यद्यप्यपह्नुतोऽपि सस्मितत्व-ख्यापनेन पुनरप्युद्भिन्नत्वेन प्रकाशितः । तथाप्यपलापमात्रचिन्तयास्यालंकारस्योल्लेखः । नन्वपह्नुतिग्रन्थे ‘यथा सादृश्याय योऽपह्नवः सापह्नुतिः, तथापह्नवायापि यत्सादृश्यं साप्यपह्नुतिः’ इति स्थापितम् । व्याजोक्तौ चोत्तरः प्रकारो विद्यते तत्कथमियमलंकारान्तरेण कथ्यते । सत्यम् । उद्भटसिद्धान्ताश्रयेणोत्तरत्रोक्तम्614 । न हि तन्मते व्याजोक्त्याख्य-**

_______________

वाच्यः । सूक्ष्मस्यैवार्थस्य संलक्ष्यमाणत्वादिनावस्थानात् ॥ उद्भिन्नेत्यादि ।निगूढमिति । वस्तुतः । वस्त्वन्तरप्रक्षेपेणेति । निमित्तान्तरकथनेनेत्यर्थः । रतिभाव इति । स्थायी । अपहुतोऽपीति । व्याजोक्तःप्ररोहात् । अपलापमात्रचिन्तयेति । तावन्मात्रस्यैव तल्लक्षणत्वात् । अस्याश्चापह्नुतेर्भेदं दर्शयितुमुपक्रमते—नन्वित्यादिना । स्थापितमिति । श्लेषग्रन्थे यदुक्तम् । ‘सादृश्यव्यक्तये यत्रापह्नवोऽसावपह्नुतिः’ इति । एवमपह्नवग्रन्थ इति पूर्ववाक्य एव संबन्धनीयम् । उत्तरः प्रकार इति । अपह्नवाय सादृश्यं तदिति । उत्तरेणैव प्रकारेण व्याप्तत्वात् ।कथमिति । निष्प्रयोजकत्वात् । एतदेवाप्युपगम्यं प्रतिविधत्ते— सत्यमित्यादिना

मलंकरणमस्ति । इह तु तस्य संभवाद्व्यतिरिक्तापह्नुतिरिति पृथगयमलंकारो निर्दिष्टः ।

अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथा योजनं वक्रोक्तिः ।

उक्तिव्यपदेशसाम्याद्वयाजोक्त्यनन्तरमस्या लक्षणम् । यद्वाक्यं केनचिदन्यथाभिप्रायेणो615क्तं []615 सदपरेण वक्रा काकुप्रयोगेण श्लेषप्रयोगेन वान्यथान्यार्थघटनया योज्यते तदुक्तिः सा वक्रोक्तिः । काकुप्रयोगेन यथा—

‘गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥’

अत्रेतद्वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम् । तत्सख्या काकुप्रयोगेण विधिपरतां प्रापितम् । काकुवशाद्विधिनिषेधयोर्विपरीतार्थसंक्रान्तिः ।

______________

तदित्यपह्नवाय सादृश्यम् । तत्रेति । श्लेषे । तन्मत इति । उद्भटमते । **तस्येति ।**व्याजोक्त्याख्यस्यालंकारस्य । तद्व्यतिरिक्तेति । अपह्नुतौ हि प्रकृतमेवोत्कर्षयितुमप्रकृतस्योपादानम् । इह तद्भिन्नं सत्प्रकृतं वस्तु वस्त्वन्तरेणाप्रकृतेन निगूह्यते इत्यनयोर्महान्भेदः । एवं ‘आकृष्यादी’ इत्यादौ च लोकात्मवस्त्वन्तरप्रक्षेपेणोद्भिन्नप्रियनिगूहनस्यैव वाक्यार्थत्वाद्व्याजोक्तिरेव न पुनरपह्नुतिः । अत एव च नात्र वक्रोक्तिः । तस्य हि यथायोजनमात्रं लक्षणम् ॥ अन्यथेत्यादि । एतदेव व्याचष्टे—**यद्वाक्यमिति । अन्याभिप्रायेणेति ।**विवक्षितार्थपरतयेत्यर्थः । काकुःध्वनिविशेषः । यदुक्तम्— ‘वाक्याभिधेय-मानेऽर्थे येनान्यः प्रतिपद्यते । भिन्नकण्ठध्वनिर्धीरैः स काकुरिति कथ्यते ॥ अन्यार्थघटनयेति । प्रक्रान्तादन्यस्य व्यतिरिक्तस्यार्थस्थ घटनयोल्लेखनेनेत्यर्थः । येनकेनचिद्वक्राभिप्रेतार्थस्य प्रतिपादयिष-योक्तस्य वाक्यस्यान्थेन विद्याताय प्रहेलिकामात्रार्थे ‘नवकम्बलकोऽयं माणवकः’ इत्यादिना वाक्छलेनान्यथायोजनमात्रमयमलंकार इति पिण्डार्थः अत एव द्वितीयो व्याघातो नास्या भेदतया वाच्यः । न हि तत्र वचनविघातायैवान्यथा योजनम् । तत्र हि ‘बाल इति सुतरामपरित्याज्योऽस्मि, रक्षणीय इति भवद्भुजपञ्जरं रक्षास्थानम्’ इत्यादौ बालत्वादिकं प्रस्थानविशेषतया राज्यवर्धनेन संभावितं ‘श्रीहर्षेण616 पुनरन्यथा प्रस्थाननिमित्ततया योजितम् । अतश्चात्रान्यथा योजनस्य प्रस्तुतवस्तुव्या-हतिनिबन्धनत्वेऽपि प्रस्थानविधौ तात्पर्यम् । न तद्विघातमात्रेणास्य वक्रोक्तावन्तर्भाव इति चेत्, तर्हि साधर्म्याविशेषादुपयोपमादीनामप्युपमायामन्तर्भावः किं न स्यात् । अथात्र फलभेदोऽस्तीति कथमेतदिति चेत्, एवमिहापि फलभेदस्य विद्यमानत्वात्कथमस्यान्तर्भावः स्यात् । तथा ह्यन्य-

तत्र श्लेषोऽभङ्गसभङ्गत्वेनोभयमयत्वेन त्रिविधः । तत्रा617भङ्गश्लेषमुखेन यथा—

‘अहो618 केनेदृशी बुद्धिर्दारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥’

अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषभङ्गया तृतीयान्ततया संपादितम् । सभङ्गश्लेषमुखेन यथा—

‘त्वं हालाहलभृत्करोषि मनसो मूर्च्छा समालिङ्गितो
हालां नैव बिभर्मि नैव च हलं मुग्धे कथं हालिकः ।
सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने
वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद्वः शिवः ॥’

उभयमुखेन यथा—

‘विजये कुशलस्त्र्यक्षो न क्रीडितुमहमनेन सह शक्ता ।
विजये कुशलोऽस्मि न तु त्र्यक्षोऽक्षद्वयमिदं पाणौ ॥
किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः ।
कः प्रद्वेष्टि विनायकम हिलोकः किं न जानासि ॥

_______________

था योजनस्य क्वचिद्वचनविघातमात्रं फलं क्वचिच्च संभाव्यमानव्याहतिनिबन्धनत्वेऽप्यर्थान्तरे तात्पर्यम् । फलभेदश्चालंकारभेदनिमित्तमित्यविवादः । तेन पूर्वत्र वक्रोक्तिरपरत्र व्याघात इति यथोक्त एवालंकारभेदो न्याय्यः । एवं फलान्तरेष्वपि ज्ञेयम् । तस्मात् ‘एष श्रीकण्ठकण्ठच्छविरनभिमतो राजहंसव्रजानां सद्यस्तापं प्रजानां प्रशममुपनयन्नच्छधाराच्छलेन । कुर्वन्दिक्वक्रवालाक्रमणमुदयते देव को वारिवाहो मा मैवं मालवेन्द्रो परिमलकतरस्तर्हि राजन्नसिस्ते ॥’ इत्यत्र श्रोत्रा संभावितस्य वारिवाहस्यान्यथा खड्गत्वेन योजनं तस्य तत्सादृश्यप्रतीत्यर्थमित्यङ्गभूतोत्तरमार्थमौपम्यं वक्तुर्विवक्षितम् । वाक्छलमुपचारफलम् । तदविशेषादिति वाक्छलेनैवास्य संग्रहादुपचारच्छलात्मकं क्वचित्त्वौपचारिके प्रयोगे मुख्यार्थमापादान619मिति भेदान्तरमप्यवसानवाच्यम्620 । यस्तु तदर्थान्तराभावादिति न्यायाद्वागुपचारच्छलयोर्विशेष उक्तः स नैयायिकानामुपयुक्तो नालंकारिकाणाम् । तथात्वेनान्यथा-योजनस्य वैचित्र्यान्तराभावात् । यद्वा मुख्यौपचारिकार्थद्वयस्यैकवृन्तगत621फलद्वय

चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम् ।
देव्यै यदि रुचितमिदं नन्दिन्नाहूयतां राहुः ॥

हा राहौ शितदंष्ट्रे भयकृति निकटस्थिते रतिः कस्य ।
यदि नेच्छसि संत्यक्तः संप्रत्येषैव हाराहिः ॥

वसुरहितेन क्रीडा भवता सह कीदृशी न जिह्रेषि ।
किं वसुभिर्नमतोऽमून्सुरासुरान्नैव पश्यसि पुरः ॥

आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्कस्य ।
दिव्यं वर्षसहस्रं स्थित्वेति न युक्तमभिधातुम् ॥

इति कृतपशुपतिपेलवपाशकलीलाप्रयुक्तवक्रोक्ति ।
हर्षवशतरलतारकमाननमव्याद्भवान्या वः ॥’

वक्रोक्तिशब्दश्चालंकारसामान्यवचनोऽपीहालंकारविशेषे संज्ञितः ।

सूक्ष्मवस्तुस्वभावयथावद्वर्णनं स्वभावोक्तिः ।

इह वस्तुस्वभाववर्णनमात्रं नालंकारः । तत्त्वे सति सर्वे काव्यमलंकारः स्यात् । न हि तत्काव्यमस्ति यत्र न वस्तुस्वभाववर्णनम् । तदर्थे सूक्ष्मग्रहणम् । सूक्ष्मः226 कवित्वमात्रस्य गम्यः । अत एव तन्निर्मित एव यो वस्तुस्व-

___________

न्यायेन शब्दश्लिष्टत्वादस्य श्लेषवक्रोक्तावन्तर्भावः स्यात् । उभयमुखेनेति । सभङ्गासभङ्गश्लेषद्वारेण । विजय इति श्लेषस्यासभङ्गत्वम् । मेदुरोदरेणेति सभङ्गत्वम् ।‘स्मेरोऽवताद्वःशिवः’ तथा ‘प्रयुक्तवक्रोक्ति’ इत्यादिना वचनविघातमात्रप्रयोजनस्यान्यथा योजनस्य प्रहेलिकाप्रायत्वमेव प्रकाशितम् । ननु ‘सैषा सर्वैव वक्रोक्तिः कोऽलंकारोऽनया विना’ इति नीत्या समग्र एवालंकारवर्गो वक्रोक्तिरूप इति कथमयमेव तथात्वेन निर्दिष्टइत्याशङ्क्याह—वक्रोक्तीत्यादिइहेति । वाक्छलात्मकत्वेनोक्तेः कौटिल्यात् ॥सूक्ष्मेत्यादि । ननु कथं वस्तुवर्णनमात्रमलंकार इत्याह—इहेत्यादि । ‘तदतिशयहेतवस्त्वलंकाराः’ इति नीत्या वस्त्वतिशयदायिनां धर्माणामलंकारत्वात्कथं वस्तुमात्रस्यैवालंकारत्वं स्यादिति भावः । ननु कथमेतत्सूक्ष्ममात्रग्रहणेनैव समाहितमित्याशङ्क्याह—सूक्ष्म इत्यादिकवित्वमात्रस्येति । कुशाग्रीयधिषणत्वात् । एवं स्थूलमतीनामकवीनां कुकवीनां तस्यावगमेऽपि तथा विकल्पारोहे न भवेदिति भावः । अत ए


                          ***

१. ‘सूक्ष्ममित्यादि’ ख.

भावस्तस्य यथावदन्यूनानतिरिक्तत्वेन वर्णनं स्वभावोक्तिरलंकारः । उक्तिवाचोयुक्तिप्रस्ता-वादिह लक्षणम् । भाविकरसवदलंकाराभ्यामस्य भेदो भाविकप्रसङ्गेन निर्णेष्यते । यथा—

‘क्रेङ्कारो नखकोटिचक्षुपुटकव्याघट्टनोट्टङ्कित
स्तन्व्याः कुन्तलकौतुकव्यतिकरे सीत्कारसीमन्तितः ।
पृष्टश्लिष्टदवामनस्तनभरोत्सेव्याङ्कपालीसुधा
सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत् ॥’

अतीतानागतयोः प्रत्यक्षायमाणत्वं622 भाविकम् ।

अतीतानागतयोर्भूतभाविनोरर्थयोरलौकिकत्वेनात्यद्भुतत्वाद्व्यस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविकम् । कविगतो भाव आशयः श्रोतरि प्रतिविम्बत्वेनास्तीति, भावो भावना वा पुनः पुनश्चेतसि

______________

वेति ।कवित्वमात्रगम्यत्वात् । तन्निर्मित एवेति । अन्येषां तथात्वेन वक्तुमशक्यत्वात् । तद्वस्तुगतस्यासाधारणस्य फलक्रियादेःसंभवतः स्वभावस्य शब्देन प्रतिपादनमात्रत्वात्तन्निर्मित एवेत्युक्तम् । अन्यूनानतिरिक्तत्वेनेति । यथा वस्तुनि संभवतीत्यर्थः। अत एव सचेतसां वस्तुगतस्य सूक्ष्मसुभगस्य वस्तुनो वर्णनेन हृदयसंवादाच्च किमयं रसवदलंकारो वा न भवतीत्याशङ्क्याह—भाविकेत्यादि । तत्र निर्णेष्यमाणस्यैतद्भेदस्य ‘वस्तुनश्चित्तवृत्तेश्च संवादः स्फुटता प्रथा । स्वभावोक्ते रसवतो भाविकस्य च लक्षणम् ॥’ इत्ययं संक्षेपः ॥ अतीतानागतयोरित्यादि । एतदेव व्याचष्टे—अतीतेत्यादि । अलौकिकत्वेने त्यनेन सहृदयानां तत्रावधानार्हत्वमुक्तम् । व्यस्तेति । यद्यपि वाचामाकुलत्वं सर्वत्रैव वर्जनीयम् तथापि तत्तत्र वैषम्येनार्थाविशेषात्प्रतीतेर्विघ्नमात्रफलम् । इह तु तदाकुलत्वेनातीतानागतयोः प्रत्यक्षायमाणत्वमेव न स्यादिति प्राधान्ये नैतदुक्तम् । एवमनेन हेतुद्वयेनास्यालंकारत्वमुक्तम् । इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा वाच्यवाचकयो रामणीयकमित्युक्तम् । अत एवैकस्यापि रामणीयकहानौ नास्यालंकारत्वम् । इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा अपि निजसौभाग्याभावात्तृणशर्करावत्सहृदयानामवज्ञास्पदतया नावधानार्हाः । केचिच्च सुभगा अपि दुर्भगशब्दोपारोहितया सहृदयानामनावर्जका एवेत्युभयमपीहा-वश्यमाश्रयणीयम् । यदाहुः— ‘प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ॥’ इति । वाशब्दः पक्षान्तरद्योतकः । ननु चाप्रत्यक्षाणां भूतभाविनां प्रत्यक्षेणोपनिबन्धा-

निवेशनं सोऽत्रालीति ।न चेयं भ्रान्तिः । भूतभाविनो भूतभावितयैव प्रकाशनात् । नापि रामोऽभूदितिवद्वस्तुमात्रम् । भूतभाविगतस्य प्रत्यक्षत्वादिगतस्य धर्मस्य स्फुटत्याधिकस्य प्रतिलम्भात् । नापीयमतिशयोक्तिः ।अन्यसान्यतयाध्यवसायाभावात् । नहि भूतभाव्यभूतभा-वित्वेनाध्यवसीयते, अभूतभावि वा भूतभावित्वेनापि, प्रत्यक्षमप्रत्यक्षगतत्वेन, अप्रत्यक्षमपि प्रत्यक्षत्वेन ।

न हि प्रत्यक्षत्वं केवलं वस्तुधर्मः । प्रतिपत्त्यपेक्षयैव वस्तुनि तथाभावात् । यदाहुः— ‘तत्र यो ज्ञानप्रतिभासनात्मनोऽन्वयव्यतिरेकावनुकारयति स प्रत्यक्षः’ इति । केवलवस्तुप्रत्यक्षत्वे प्रतिपत्तुः सामग्री उपयुज्यते । सा च लोकयात्रायां चक्षुरादीन्द्रियसभावायोगिनामतीन्द्रियार्थ-दर्शने भावनारूपा । काव्यार्थविदां च भावना स्वभावैव । सा च भावना वस्तुगत्यात्यद्भुतत्वप्रयुक्त्ता । अत्यद्भुतानां च वस्तूनामादरप्रत्ययेन हृदि संधार्यमाणत्वात् । नापि भूतभाविनामप्रत्यक्षाणां प्रत्यक्षतयैव प्रतीतेरिवार्थगर्भीकारे

_______________

द्भान्तिमानेवायं किं623 न भवतीत्याशङ्क्याह—न चेयमित्यादि । ननु यदि भूतभावितचैव प्रतीयते तदेतद्वस्त्वेव किं नेत्याशङ्क्याह—नापीतिअधिकस्येति । वस्तुवृत्तेतस्यासंभवात् । अत एवास्य ततो व्यतिरेकः । नन्वस्यान्यतयावसायात्किं नायमतिशयोक्तिरित्याशङ्क्याह—नापीयमित्यादि । भूतभाविनो भूतभावितयैवास्फुटतयावगमात् । नन्वत्राप्रत्यक्षमेव624 प्रत्यक्षेण किं नाध्यवसितमित्याशङ्क्या—नहीत्यादि । तच्चाप्रस्तुतत्वाद्गहनत्वाच नेह प्रपञ्चितम् । ननु यद्येवं तत्प्रमातुः सदैव समस्तवाह्यवस्त्ववगमः किं न स्वादित्याशङ्क्याह—केवलमित्यादिभावनारूपेति । तत्रेन्द्रियादीनामव्यापारणात् । एवं योगिनां भावनावलाद्भुतभावितयैव प्रत्यक्षावभास इति भावः । यदाहुः— ‘अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते’ इति । चः समुच्चये । तेन योगिनामतीन्द्रियार्थदर्शने625 यथा भाविना निमित्तं तथैव काव्यार्थविदामपीत्यर्थः । तस्याश्च निमित्तमाह— सा चेत्यादि । वस्तुनोऽत्यद्भुतत्वमादरे निमित्तम् । आदरश्च वस्तुनो हृदि संधारणम् । तच्च तदेकतानतया प्ररूढं सद्भावनात्वमुपयातीति काव्यार्थविदां योगिनामिव भावनावलात्स्वकालावच्छेदेनैव भूतभाविवस्तु-प्रत्यक्षतया भासत इति नाप्रत्यक्षाणां प्रत्यक्षतयाध्यवसायः । ननु यद्यपि योगविद्भुतभाविनो भावाः स्वकालावच्छेदेनैव सचेतसः प्रत्यक्षतयेव तदभावभासनं युक्तमित्येतत्प्रतीयमानोत्प्रेक्षैव किं नेत्याशङ्क्याह—नापीत्यादि

भावस्तस्य यथावदन्यूनानतिरिक्तत्वेन वर्णनं स्वभावोक्तिरलंकारः । उक्तिवाचोयुक्तिप्रस्तावा-दिह लक्षणम् । भाविकरसवदलंकाराभ्यामस्य भेदो भाविकप्रसङ्गेन निर्णेष्यते । यथा—

‘क्रेङ्कारो नखकोटिचक्षुपुटकव्याघट्टनोट्टङ्कित
स्तन्व्याः कुन्तलकौतुकव्यतिकरे सीत्कारसीमन्तितः ।
पृष्टश्लिष्टदवा मनस्तनभरोत्सेव्याङ्कपालीसुधा
सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत् ॥"

अतीतानागतयोः प्रत्यक्षायमाणत्वं622 भाविकम् ।

अतीतानागतयोर्भूतभाविनोरर्थयोरलौकिकत्वेनात्यद्भुतत्वाद्ध्यस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविकम् । कविगतो भाव आशयः श्रोतरि प्रतिविम्बत्वेनास्तीति, भावो भावना वा पुनः पुनश्चेतसि

____________

वेति । कवित्वमात्रगम्यत्वात् । तन्निर्मित एवेति । अन्येषां तथात्वेन वक्तुमशक्यत्वात् । तद्वस्तुगतस्यासाधारणस्य फलक्रियादेः संभवतः स्वभावस्य शब्देन प्रतिपादनमात्रत्वात्तनिर्मित एवेत्युक्तम् । अन्यूनानतिरिक्तत्वेनेति । यथा वस्तुनि संभवतीत्यर्थः । अत एव सचेतसां वस्तुगतस्य सूक्ष्मसुभगस्य वस्तुनो वर्णनेन हृदयसंवादाच्चकिमयं रसवदलंकारो वा न भवतीत्याशङ्क्याह—भाविकेत्यादि । तत्र निर्णेष्यमाणस्यैतद्भेदस्य ‘वस्तुनश्चित्तवृत्तेश्च संवादः स्फुटता प्रथा । स्वभावोक्ते रसवतो भाविकस्य च लक्षणम् ॥ ‘इत्ययं संक्षेपः ॥ अतीतानागतयोरित्यादि । एतदेव व्याचष्टे—अतीतेत्यादि । अलौकिकत्वेनेत्यनेन सहृदयानां तत्रावधानार्हत्वमुक्तम् । व्यस्तेति । यद्यपि वाचामाकुलत्वं सर्वत्रैव वर्जनीयम् तथापि तत्तत्र वैषम्येनार्थाविशेषात्प्रतीतेर्विघ्नमात्रफलम् । इह तु तदाकुलत्वेनातीतानागतयोः प्रत्यक्षायमाणत्वमेव न स्यादिति प्राधान्येनैतदुक्तम् । एवमनेन हेतुद्वयेनास्यालंकारत्वमुक्तम् । इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा वाच्यवाचकयो रामणीयकमित्युक्तम् । अत एवैकस्यापि रामणीयकहानौ नास्यालंकारत्वम् । इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा अपि निजसौभाग्याभावात्तृणशर्करावत्सहृदयानामवज्ञास्पदतया नावधानार्हाः। केचिच्च सुभगा अपि दुर्भगशब्दोपारोहितया सहृदयानामनावर्जका एवेत्युभयमपीहा-वश्यमाश्रयणीयम् । यदाहुः— ‘प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ॥’ इति । वाशब्दः पक्षान्तरद्योतकः । ननु चाप्रत्यक्षाणां भूतभाविनां प्रत्यक्षेणोपनिबन्धा

निवेशनं सोऽत्रास्तीति । न चेयं भ्रान्तिः । भूतभाविनो भूतभावितयैव प्रकाशनात् । नापि रामोऽभूदितिवद्वस्तुमात्रम् । भूतभाविगतस्य प्रत्यक्षत्वादिगतस्य धर्मस्य स्फुटस्याधिकस्य प्रतिलम्भात् । नापीयमतिशयोक्तिः । अन्यस्यान्यतयाध्यवसायाभावात् । नहि भूतभाव्यभूत-भावित्वेनाध्यवसीयते, अभूतभावि वा भूतभावित्वेनापि, प्रत्यक्षमप्रत्यक्षगतत्वेन, अप्रत्यक्षमपि प्रत्यक्षत्वेन ।

न हि प्रत्यक्षत्वं केवलं वस्तुधर्मः । प्रतिपत्त्यपेक्षयैव वस्तुनि तथाभावात् । यदाहुः— ‘तत्र यो ज्ञानप्रतिभासनात्मनोऽन्वयव्यतिरेकावनुकारयति स प्रत्यक्षः’ इति । केवलवस्तुप्रत्यक्षत्वे प्रतिपत्तः सामग्री उपयुज्यते । सा च लोकयात्रायां चक्षुरादीन्द्रियस्वभावायोगिनामतीन्द्रियार्थ-दर्शने भावनारूपा । काव्यार्थविदां च भावना स्वभावैव । सा च भावना वस्तुगत्यात्यद्भुतत्व-प्रयुक्ता । अत्यद्भुतानां च वस्तूनामादरप्रत्ययेन हृदि संधार्यमाणत्वात् । नापि भूतभाविनाम-प्रत्यक्षाणां प्रत्यक्षतयैव प्रतीतेरिवार्थगर्भीकारे-

_______________

द्भ्रान्तिमानेवायं किं626 न भवतीत्याशङ्क्याह—न चेयमित्यादि । ननु यदि भूतभावितयैव प्रतीयते तदेतद्वस्त्वेव किं नेत्याशङ्क्याह—नापीतिअधिकस्येति । वस्तुवृत्ते तस्यासंभवात् । अत एवास्य ततो व्यतिरेकः । नन्वस्यान्यतयावसायात्किं नायमतिशयोक्तिरित्याशङ्क्याह—नापीयमित्यादि। भूतभाविनो भूतभावितयैवास्फुटतयावगमात् । नन्वत्राप्रत्यक्षमेव627प्रत्यक्षेण किं नाध्यवसितमित्याशङ्कयाह—नहीत्यादि । तच्चाप्रस्तुतत्वाद्गहनत्वाच्च नेह प्रपञ्चितम् । ननु यद्येवं तत्प्रमातुः सदैव समस्तबाह्यव-स्त्ववगमः किं न स्यादित्याशङ्क्याह—केवलमित्यादिभावनारूपेति । तत्रेन्द्रियादीनामव्या-पारणात् । एवं योगिनां भावनाबलाद्भूतभावितयैव प्रत्यक्षावभास इति भावः । यदाहुः— ‘अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते’ इति । चः समुच्चये । तेन योगिनामतीन्द्रियार्थदर्शने625 यथा भाविना निमित्तं तथैव काव्यार्थविदामपीत्यर्थः । तस्याश्च निमित्तमाह— सा चेत्यादि । वस्तुनोऽत्यद्भुतत्वमादरे निमित्तम् । आदरश्च वस्तुनो हृदि संधारणम् । तच्च तदेकतानतया प्ररूढं सद्भावनात्वमुपयातीति काव्यार्थविदां योगिनामिव भावनाबलात्स्वकालावच्छेदेनैव भूतभाविवस्तुप्रत्य-क्षतया भासत इति नाप्रत्यक्षाणां प्रत्यक्षतयाध्यवसायः। ननु यद्यपि योगविद्भुतभाविनो भावाः स्वकालावच्छेदेनैव सचेतसः प्रत्यक्षतयेव तदभावभासनं युक्तमित्येतत्प्रतीयमानोत्प्रेक्षैव कि नेत्याशङ्क्याह—नापीत्यादि

णायं प्रतीयमानोत्प्रेक्षा । तस्या अभिधानरूपाख्याध्यवसायस्वभावत्वात् । न ह्यप्रत्यक्षं प्रत्यक्षत्वेनाध्यवसीयते । किं तर्हि काव्यार्थविद्धिः प्रत्यक्षत्वेन दृश्यते इति । नापि वस्तुगता इवार्था उत्प्रेक्षाप्रयोजकाः । तस्या अभिमानरूपायाः प्रतिपत्तृधर्मत्वात् । यदाहुः—‘अभिमानेन सा योक्तिर्ज्ञानधर्मसुखादिवत्’ इति च । काव्यविषये च प्रयोक्तापि प्रतिपत्तैव । नाप्यद्भुतदर्शनादतीतानागतत्वप्रत्यक्षत्वप्रतीतेः काव्यलिङ्गमिदम् । लिङ्गलिङ्गयभावेन प्रतीत्यभावात् । योगिवत्प्रत्यक्षतया प्रतीतेः ।

नाप्ययं पुरः स्फुरद्रूपतया सचमत्कारं प्रतीते रसवदलंकारः । रत्यादिचित्तवृत्तीनां तदनुषक्ततया विभादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानवत्प्रतीतौ तस्य भावात् । इह च ताटस्थ्येन भूतभाविनां स्फटत्वेन भिन्नसर्वज्ञवत्प्रतीतेः । स्फुटप्रतीत्युत्तरकालं तु साधारण्यप्रतीतौ स्फुटप्रतीतिनिमित्तक औत्तरकालिको रसवदलंकारः स्यात् । नापीयं सुन्दरवस्तुस्वभाववर्णनात्स्वभावोक्तिः । तस्यां लौकिकवस्तुगतसूक्ष्मधर्मवर्णने साधारण्येन हृदयसंवादसंभवात् ।

_____________

किं तर्हीति । अध्यवसायो नास्त्येवेत्यर्थः । प्रतिपत्तैवेति । नह्यजानतः कवितुः प्रयोक्तृत्वं भवतीति भावः । नन्वत्यद्भुतपदार्थप्रत्यक्षप्रतीत्योर्गम्यगमकभावात्किं नेदमनुमानमित्याशङ्कयाह—नापीत्यादि । एवं रसवदलंकारादस्य भेदं दर्शयति—नाप्ययमित्यादिना । पुरःस्फुरद्रूपतयेत्यादिनानयोर-भेदनिमित्तमुक्तम् । परकीयायश्चित्तवृत्तेरात्मीयचित्तवृत्त्यभेदेन628 परामर्शो हृदयसंवादः । तस्य च स्वपरविभागाभावाद्देशकालाभावाच्च व्यापकत्वेन प्रतीतेः साधारण्यम् । अत एव परमाद्वैतज्ञान-तुल्यत्वम् । तस्य ह्ययमित्येव परामर्शः । तद्व्यतिरिक्तस्यान्यस्यासंभवात् । ताटस्थ्येनेति । इदमहं जानामीति सामानाधिकरण्येन प्रतीत्येत्यर्थः । अत एव विद्येश्वरादितुल्यत्वम् । ननु भाविकप्रतीत्यनन्तरं यत्र रसवदलंकारः प्रतीयते तत्र किं प्रतिपत्तव्यमित्याशङ्क्याह— स्फुटेत्यादि । एवमत्रानयोरङ्गाङ्गि-तया समावेश इति तात्पर्यार्थः । तत्तु यथा— ‘वनान्तरादुपावृत्तैः स्कन्दासक्तसमित्कुशैः । अग्निप्रत्युद्गमात्पूतैः पूर्यमाणं तपस्विभिः ॥’ अत्र तपस्विनां स्फुटत्वप्रतीतिः शान्ताख्यरसोदयाङ्गमिति न तयोरैकात्म्यम् । एवं च सुन्दरस्य वस्तुनो यथावद्वर्णनावशात्प्रत्यक्षायमानत्वमस्य स्वरूपमिति तात्पर्यम् । ननु यद्येवं तत्किमिदं स्वभावोक्तिरेवेत्याशङ्क्याह629नापीयमित्यादि । ईदृगिदं वस्त्वित्यत्र हृदयसंवादः। स च यथा— ‘यत्र स्तनंधया

इह च लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतौ630 क्वचित्तु लौकिकानामपि वस्तूनां स्फुटत्वेन भाविकस्वभावोक्त्योः समावेशः स्यात् । न च हृदयसंवादमात्रेण स्वभावोक्तिरसव-दलंकारयोरभेदः । वस्तुसंवादरूपत्वात्स्वभावोक्तेः । चित्तवृत्तिसमाधिरूपत्वाच्च रसवदलंका-रस्य । उभयसंवाददर्शनेऽपि समावेशोऽपि घटते । यत्र वस्तुगतसूक्ष्मधर्मवर्णनं स्यात्तत्र स्वभावोक्तिः, अन्यत्र तु रसवदलंकार एव ।

_______________

र्हस्ते रत्नदीपाञ्जिघृक्षतः । दृष्ट्वा हा हेति संभ्रान्ता धात्री चेटैर्विहस्यते ॥’ अत्र धात्रीणामीदृगयं स्वभाव इति वस्तुनिर्दिष्टो हृदयसंवादः । यथा वा— ‘यदास्वाद्यं सीता वितरति तदग्रे स्वगृहिणे सुमित्रापुत्राय प्रणिहितविशेषं तदनु च । यदामं यत्क्षामं यदनतिरसं यच्च विरसं फलं वा मूलं वा रचयति तु तेन स्वमशनम् ॥’ अत्रेदृगेव गृहिणीनां स्वभाव इति संवादः । स्फुटतयेति । पुरःस्फुरद्रूपतया । सा च प्रतीतिर्यथा—‘निमीलितस्य पूर्णेन्दोः सुधायां पङ्किलाङ्गली । यत्र मृत्युजितः पादौ भाव्येते भावितैः पुरः ॥’ यथा च— ‘दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि दत्वा631 । आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥’ अत्र पादयोः शकुन्तलायाश्च शुद्धैव प्रत्यक्षत्वेन प्रतीतिः । ननु च यत्र स्वभावोक्तावपि प्रत्यक्षतया प्रतीतिस्तत्र किमित्याशङ्कयाह—कचिदित्यादि । समावेश इति । संसृष्टिपःसंकररूपो वा । स तु यथा—‘हेरम्भोऽत्र हरीश्वरे नखमुखैः कण्डूयमाने गलं कुर्वन्युच्छविवर्तनां निविरतोरोमन्थलीलायितात् । संमीलन्नयने विसंस्थुललसत्सास्नं नतोन्नामितग्रीवं निश्चलकर्णमीश्वरबलीवर्दः सुखं मन्यते ॥’ अत्र वृषभस्य पुच्छविवर्तनादिसूक्ष्मधर्मवर्णनेन स्वभावोक्तिः, प्रत्यक्षायमानत्वेन भाविकमित्यनयोः समावेशः । स्वभावोक्तेरपि रसवदलंकारात्प्रसङ्गेन भेदं दर्शयति—न चेत्यादिना । हृदयसंवादो हि वस्तुचित्तवृत्तिगतत्वेन द्विविधः । तत्र स्वभावोक्तौ वस्तुसंवादःप्रदर्शितः । चित्तवृत्तिसंवादस्तु यथा—‘चन्द्रांशुस्मेरधम्मिल्लमल्लिकानां प्रियं प्रति । सौधेषु नीतं रामाणां यत्रालिभिरनूद्यते ॥’ अत्र प्रियाभिलाषिणी नायिकाचित्तवृत्तिः सचेतसां स्वचित्तवृत्त्यभेदेन संवदतीति तत्संवादः । यत्र द्विविधोऽपि संवादस्तत्र किं प्रतिपत्तव्यमित्याशङ्क्याह—उभयेत्यादि । स च समावेशो यथा— ‘किचित्कुञ्चितचञ्चुचुम्बनमुखस्फारीभवल्लोचना स्वप्ने मोदितचारुचाटुकरणैश्चेतो-ऽर्पयन्ती मुहुः । कूजन्ती विततैकपक्षतिपुटेनालिङ्गय लीलालसं धन्यं कान्तमुपान्तवर्तिनमियं पारावतं सेवते ॥’ अत्र पारावतयोः सूक्ष्मधर्मवर्णनेन स्वभावोक्तिः, चित्तवृत्तिविशेषाच्च रसवदलंकार इत्यनयोः समावेशः । अन्यत्रेति । यत्र वस्तुगतसूक्ष्मधर्मवर्णना न स्यात् । अनेन च

नाप्ययं शब्दानाकुलत्वहेतुकाज्झगित्यर्थसर्पणात्प्रसादाख्योतस्य हि स्फुटास्फुटोभयवाच्य-गतत्वेन झटिति समर्पणं रूपम् । अस्य झटिति समर्पकस्य सतः स्फुटत्वेन प्रतीतौ स्वरूपप्रतिलम्भः । तस्मादयं सर्वोत्तीर्ण एवालंकारः । लक्ष्ये चायं प्रचुरप्रयोगो दृश्यते । यथा—

‘मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः ।
येनैक चुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥’

यथा वा— हर्षचरितप्रारम्भे ब्रह्मसदसि वेदस्वरूपवर्णने । तत्र हि प्रत्यक्षमेव स्फुटत्वेन तदीयं रूपं दृश्यते । एवं तत्रैव मुनिक्रोधवर्णने, पुलिन्दवर्णनादौ ज्ञेयम् । अयं तु तत्र विचारलेशः संभवति—इह क्वचिद्वर्णनीयस्य वर्णनावशादेव प्रत्यक्षायमाणत्वम् । क्वचित्प्रत्यक्षायमाणस्यैव वर्णनम् । आद्यो यथोदाहृतं प्राक् ।

द्वितीयो यथा—

‘अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः ।
अचामरोऽप्येष सतेव वीज्यते विलासबालव्यजनेन कोऽप्ययम् ॥’ इति ।

_______________

भाविकरसवदलंकाराभ्यामस्या भेदो भाविकप्रसङ्गे निर्णेष्यते इति यत्प्रागुक्तं तन्निर्वाहितम् । इदानीं च प्रकृतमेवाह—नाप्ययमित्यादि । झगित्यर्थसमर्पणं प्रसादः, झगिति समर्पितस्यार्थस्य स्फुटत्वेन प्रतीतिर्भाविकमित्यनयोर्महान्भेदः । एतदेवोपसंहरति—तस्मादित्यादि । एतच्च नास्माभिरस्थान एवाभिनिविष्टमित्याह—लक्ष्य इत्यादितत्रैवेति । हर्षचरिते । तत्र क्रोधमुनिवर्णनं प्रारम्भ एव स्थितम् । पुलिन्दवर्णनं पुनरष्टमोच्छासारम्भे स्थितमिति तत एव स्वयमवधार्यम् । इह तु ग्रन्थविस्तरभयान्न लिखितम् । अतीतानागतयोः सूत्रितेऽपि प्रत्यक्षायमाणत्वे देशादिविप्रकष्टानां प्रत्यक्षायमाणत्वमुदाहरता ग्रन्थकृतातीतानागतत्वस्य विप्रकर्षमात्रसारत्वं सूचितम्। तच्च देशकालस्वभावविप्रकृष्टानामविशिष्ट-मित्येतदुदाहृतम् । तत्रा632गस्त्यमुनेदेशाविप्रकृष्टत्वम् । अनागतस्य तु यथा— ‘क्षिप्तोत्क्षिप्ताखिलखुरपुटा-हन्यमानाद्रिरौद्रध्वोनत्रस्य633त्सुरवरनमस्कारवाग्दत्तकर्णः। पार्ष्णिस्पर्शाद्वहनतुरगं प्रेरयन्म्लेच्छजातिं जेष्यत्येष त्रिभुवनविभुः कर्किरूपेण विष्णुः ॥’ एवं चिरंतनोक्तनीत्या विचार्य पुनरपि स्वोपज्ञं कंचिद्विचारमाह—अयमित्यादिनासंभवतीति । न पुनः केनापि दृष्ट इति भावः । यथोदाहृतमिति । मुनिर्जयतीत्या

तत्र प्रथमप्रकारविषयोऽयमलंकारो न प्रकारान्तरगोचरः । कविसमर्पितानां धर्माणां ह्यलंकारत्वात् । न हिमांशुलावण्यादीनामिव वस्तुसन्निवेशिनाम् । अपि च ‘शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते’ इति भामहीये, ‘वाचामनाकुलत्वेनापि भाविकम्’ इति चौद्भटलक्षणे व्यस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वं प्रत्यक्षायमाणत्वप्रतिपादकं कथं प्रयोजकीभवेत्यदि वस्तुसन्निवेशधर्मिगतत्वेनापि भाविकं स्यात् । तस्माद्वास्तवमेव महत्त्वमुत्तरत्र634 प्रकारविषये वर्णितमिति नायमलंकारः । यदि तु वास्तवमेवात्र सौन्दर्येकविनिबद्धं कविनिबद्धवक्तृनिबद्धं वा सकलवक्तृगोचरीभूतं स्वभावोक्तिवदलंकारतया वर्ण्यते तदायमपि प्रकारो नातीव दुःश्लिष्टः । अत एव ‘प्रत्यक्षा एव यत्रार्थाः क्रियन्ते भूतभाविनः । तद्भाविकम्’ इति, एवमन्यैर्भाविक-लक्षणमकारि । स्वभावोक्त्या किचित्सादृश्यात्तदनन्तरमस्य लक्षणं कृतम् ।

समृद्धिमद्वस्तुवर्णनमुदात्तम् ।

स्वभावोक्तौ भाविके च यथावद्वस्तुवर्णनम् । तद्विपक्षत्वेनारोपितवस्त्वा-

_______________

दिना । प्रथमेति । यत्र वर्णनावशात्प्रत्यक्षायमाणत्वम् । अत एव कविसमर्पितधर्मत्वं न वस्तुसन्निवेशिनां635धर्माणामलंकारत्वादिति संबन्धः । न हि वस्तुमात्रवर्णने कविकौशलंकिंचिदिति भावः । अपि चेति । निपातसमुदायः समुच्चयार्थः। अत्रैव वाक्यगत्या हेत्वन्तरस्य समुच्चीयमानत्वात् । कथमिति । वस्तुमात्रवर्णने शब्दानामाकुलताया अनाकुलतायाश्चाविशेषात् । उत्तरप्रकारेति । अनातपत्रोऽपीत्यादौ । अत्रापि प्रकारान्तरेणालंकारत्वं योजयति—यदि त्वित्यादिना । **सकलवक्तृगोचरीभूतमिति ।**कवित्वमात्रगम्यत्वात् । अत एव प्रत्यक्षायमाणत्वस्य तन्निर्मितायमानत्वं स्यात् । सकलवक्तृगोचरीभूतत्वे पुनर्यथोक्तं वास्तवत्वमेवेति भावः । नातीवेति । न पुनः प्रकारवसुश्लिष्ट इति यावत् । अत एवेति । वास्तवस्यापि सौन्दर्यस्यात्रालंकारतया वर्णनात् । एतावदेवेति न पुनः शब्दानाकुलत्वादिवस्तुनि तस्याविशेषात् । अन्यैरिति । काव्यप्रकाशकारादिभिः । समृद्धिमदित्यादि । तद्विपक्षत्वेनेति । वस्त्ववस्तुवर्णनयो

त्मन उदात्तस्यावसरः । तत्रासंभाव्यमानविभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमै-श्वर्यलक्षणमुदात्तम् । यथा—

‘मुक्ताःकेलिविसूत्रहारगलिताःसंमार्जनीभिर्हृताः636
प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रीलाक्षारुणाः ।
दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका
यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥’


अङ्गभूतमहापुरुषचरितं च ।

उदात्तशब्दसाम्यादिहाभिधानम् । महापुरुषाणामुदात्तचरितानामङ्गिभूतवस्त्वन्तराङ्गभावे-नोपनिबध्यमानं चरितं चोदात्तम् । महापुरुषचरितस्योदात्तत्वात् । यथा—

‘तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी ।
निवसन्बाहुसहायश्चकारः रक्षःक्षयं रामः ॥’

अत्रारण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम् ।

_________________

र्विरुद्धत्वात् । तत्रेति । एवमवसरे सतीत्यर्थः । असंभाव्यमानेति । संभाव्यमानविभूतियुक्तस्य तु वर्णनं नैतदङ्गमिति भावः । यथा— ‘प्रातश्चकासति गृहोदरकुट्टिमाग्रविक्षिप्तरत्नकुसुमप्रकरावकीर्णाः।अभ्युद्गतारुणकराहतिपात्यमाननक्षत्रराशिशबला इव यत्र रथ्याः ॥’ अत्र हि भगवन्नगर्यो वस्तुत एव संभवति रत्नविक्षेपः । अत एवास्य कविप्रतिभोत्थापितत्वमुक्तम् । एवं चास्य नामापि सार्थकम् । अलंकारसारकृता पुनरत्रातिशयोक्तिप्रकारत्वमुक्तम् । अङ्गभूतेत्यादि । एतदेव व्याचष्टे—महापुरुषाणामित्यादिना । अङ्गभूतस्य वस्तुनो महापुरुषचरितमुत्कर्षप्रतिपिपादविषयाङ्गतयोप-निबध्यमानमेतदलंकाराङ्गम् । न तूपलक्षणमात्रपरतयोपात्तमिति तात्पर्यार्थः । तच्च यथोदाहृतम् । ‘कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥’ अत्राङ्गिनो गिरिविशेषस्य वसतियोग्यत्वादिदर्शनार्थमुत्कर्षप्रतिपिपादयिषया रामसीतादिचरितमुपलक्षणपरं तत्र नायमलंकारः । यथा—‘गोदावर्याः करिकुलमदक्षोददक्षोदकायाः पारे पारे बत बत परामृश्यतामृष्यमूकः । कंकालाद्रौ पिहितगगने दुन्दुभेर्यत्र रामः पादाङ्गुष्ठं निजमपि भवदैवतं निर्ममेऽस्तम् ॥’ अत्र पवनं प्रति वियोगिन्या उक्तौ रामचरितमुपलक्षणमात्रपरम् । न ह्यङ्गभूतेनाङ्गिनः कश्चिद्विशेषो विवक्षितः । ‘अत्रासीत्फणिफा-शबन्धन

रसभावतदाभासतत्प्रशमानां निबन्धनेन637 रसवत्प्रेय ऊर्जस्विस माहितानि ।

उदात्ते महापुरुषचरितस्य चित्तवृत्तिरूपत्वाच्चित्तवृत्तिविशेषस्वभावत्वाच्चरसादीनामिह तदलंकाराणां प्रस्तावः । अत एव चत्वारोऽलंकारा युगपल्लक्षिताः । तत्र638 विभावानुभावव्यभि-चारिभिः प्रकाशितो रत्यादिश्चित्तवृत्तिविशेषो रसः । भावो विभावानुभावाभ्यां सूचितो निर्वेदादिस्त्रयस्त्रिंशद्भेदाः । देवादिविषयश्च639 रत्यादिर्भावः ।

तदाभासो रसाभासो भावाभासश्च । आभासत्वमविषयप्रवृत्त्यानौचित्यम् । तत्प्रशम उक्तप्रकाराभ्यां निवर्तमानत्वेन प्रशाम्यदवस्था । तत्रापि रसस्य परविश्रान्तिरूपत्वात्सा न संभवति इति परिशिष्टभेदविषयो द्र-

________________

विधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः । दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितस्तस्याप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ॥’ इत्यत्र तु रामस्य सीतां प्रत्युक्तावुपलक्षणीभूतदेशविशेषं पाशबन्धनाद्येव साक्षाद्विवक्षितमिति न महापुरुषचरितस्य वस्त्वन्तरं प्रत्यङ्गभाव इति नायमलंकारः ॥ रसभावेति ।अत एवेति । चतुर्णामपि चित्तवृत्तिविशेषस्वभावात् । तत्रेति । युगपल्लक्षणे स्थिते सतीत्यर्थः। विभावा ललनोद्यानादयः आलम्बनोद्दीपनकारणानि । अनुभावाः कटाक्षभुजक्षेपादयः कार्याः। व्यभिचारिणो निर्वेदादयः सहकारिणः । **प्रकाशित इति ।**व्यञ्जितः । यदुक्तम्— ‘विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः’ इति । रत्यादीत्यादिशब्देन हासादीनां स्थायिनां ग्रहणम् । निर्वेदादिरिति । यदुक्तम्— ‘निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया’ व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥’ इति । देवतादिविषयाणामानन्त्यादनेक-प्रकारत्वेऽप्येकप्रकार एव रत्यात्मभावः। अत एव रत्यादिरित्यादिशब्दः प्रकारे । चः समुच्चये । यदुक्तम्—‘रतिर्देवादिविषया व्यभिचारी तथाञ्चितः । भावः प्रोक्तः’ इति । तथा ‘तदाभासा अनौचित्यप्रवर्तिताः’ इति । प्रशाम्यदवस्थेति । न तु ध्वंसरूपा प्रशान्तावस्थेत्यर्थः । तथात्वे हि सर्वत्रैव कस्यचित्प्रकृतत्वे सर्वेषामन्येषां प्रशान्तत्वादेवभावः स्यात् । ननूक्तप्रकारत्वेन परामृष्टस्य रसस्यापि कथं प्रशाम्यदवस्था संगच्छत इत्याशङ्क्याह—तत्रापीत्यादि । परिशिष्टेति ।

ष्टव्यः । एषामुपनिबन्धक्रमेण640 रसवदादयोऽलंकाराः । रसो विद्यते यत्र निबन्धे व्यापारात्मनि तद्रसवत् । प्रियतरं प्रेयो निबन्धनमेव द्रष्टव्यम् । एवमूर्जो बलं विद्यते यत्र तदपि निबन्धनमेव । अनौचित्यप्रवृत्तत्वादत्र बलयोगः । समाहितं परिहारः । स च प्रकृतत्वादुक्तभेदविषयः प्रशमापरपर्यायः । तत्र यस्मिन्दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलंकारः, तत्राङ्गभूतरसादिविषये रसवदाद्यलंकारः । द्वितीये उदात्तालंकारः । तन्मते त्वङ्गभूते रसादिविषये रसवदाद्यलंकाराः । अन्यस्य रसादिध्वनिना व्याप्तत्वात्तत्रोदात्तालंकारस्य विषयो नावशिष्यते । तद्विषयस्य रसवदादिना व्याप्तत्वम् । तत्र रसवत उदाहरणम्—

__________________

भावतदाभासतत्प्रशमविषय एवेत्यर्थः । एषामिति । रसभावतदाभासतत्प्रशमानाम् ।बलयोग इति । अनुचितेन बलात्कारेणैव प्रवृत्तिः । प्रकृतत्वादिति । तेनात्र वस्त्वन्तरं प्रकृतमिति भावः । ननु च परविश्रान्तिरूपस्य काव्यात्मनोऽलंकार्यस्य रसस्य कथमलंकारत्वं संगच्छत इत्याशङ्क्याह—तत्रेत्यादि । यस्मिन्दर्शन इति । ध्वन्यभाववादिनां मत इत्यर्थः। द्वितीय इति । ऐश्वर्यलक्षणात् । अन्यस्येति । यत्र वाक्यार्थीभूतो रसः । एवं ध्वन्यभाववादिमतं विषयद्वयस्य दृष्टान्तीकृत्य रसरसवदलंकारयोरनेन विषयविभागः कृतः । अङ्गभूतस्य रसादेश्चालंकारत्वं युक्तम् । तथा च यावतोपमादीनां सर्वालंकाराणां प्रकृतवस्तूपरञ्जकत्वमलंकारत्वे निबन्धनम् । अङ्गभूतेनापि रसेन तत्क्रियत एव । प्रकृतस्य रसादेस्तदुपस्कृतत्वेन भावात् । अतश्चोपमादीनामलंकारत्वे यादृश्येव वार्ता तादृश्येव रसादीनां यद्यपि चोपमादयोऽर्थालंकाराः, तथापि तस्य वाच्यार्थस्य विभावादिरूपतापर्य-वसानाद्रसपर्यवसायित्वमेवेति काव्यात्मनो व्यङ्गयस्य रसादेरेव तदलंकार्यत्वम् । किं पुनस्तस्य शब्दमुखेनोपस्कारकाः शब्दालंकाराः, अर्थमुखेन त्वर्थालंकाराः । तत्तदवयवगतैरपि हि कटकादिभिश्चेतन आत्मैव तत्तच्चित्तवृत्तिविशेषौचित्यसूचनात्मना तयालंक्रियते । तथा ह्यचेतनं शवशरीरादिकं कटकाद्युपेतमपि न भाति, अलंकार्यस्याभावात् । अतश्च देहद्वारेण सर्वत्रात्मैवालंकार्यः । एवमस्थापि शब्दार्थशरीरत्वात्तन्मुखेनैवालंकार्यत्वम् । तेन रसभावादितात्पर्यमाश्रित्य विनिवेशनम् । ‘अलंकृतीनां सर्वासामलंकारत्वसाधनम्’ इति दृशा रसाद्याश्रयेणैवालंकाराणां विनिवेशनं जीवितम् । अतश्चेहापि प्रकृतस्य वाक्यार्थीभूतत्वेन प्रधानस्य रसादेरुपस्कार्यस्याङ्गभावेन रसादेरलंकारत्वं युक्तम् । यदाहुः— ‘प्रधानतां यत्र रसादयो गता रसो रसादिध्वनिगोचरो भवेत् । भवन्ति ते यत्र रसादिपोषका रसाद्यलंकारदशा हि सा पृथक् ॥’ इति । ननु निर्वेदादीनां भावानां गर्भदासवत्कदाचिदपि स्वप्राधान्याभावात्सर्वदा रसाद्य

‘किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं
केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः ।
स्वप्नान्तेष्विति वो वदन्प्रियतमव्यासक्तकण्ठग्रहो
बुद्धा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ॥’

_________________

ङ्गत्व एव ध्वनिभेदत्वमिति प्रधानेतरकक्षाद्वयाभावादेतेषां भावस्थित्युदयसंधिशबलताप्रशमात्मतया कथमलंकारत्वं वाच्यम् । तथात्वे641 ह्यभिधीयमाने ध्वनिभेदत्वमेषां न स्यात् । असदेतत् । इह हि निर्वेदादीनां त्रयी गतिः । तत्र ‘व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः’ इति नीत्या विभावानुभावस्पर्धयैषां रसव्यञ्जकत्वमेका गतिः । तत्र च रसस्यैव प्राधान्यान्निरतिशयप्रीतिकारित्वेन फलवत्त्वात् ‘फलवत्संधिनावफलं तदङ्गम्’ इति नीत्या रसव्यञ्जकत्वमात्रेणैव कृतार्थत्वान्नास्त्येषां रसव्यक्तिव्यतिरेकि किंचित्प्रयोजनान्तरम् । ‘नायं कञ्चलिकाविमोक्षसमयः स्पृष्टो न काञ्चीगुणः प्रक्रान्ता न मया विपर्ययरतारम्भाय वा प्रार्थना । न त्वत्कर्तृकमर्थयामि निबिडं दोःकन्दलीबन्धनं न्निष्कारणमेव बाललवलीवल्लीव किं वेपसे ॥’ अत्रालम्बनविभावो642 लता, वेपनादिरनुभावः, वितर्कश्च व्यभिचारिभावः । एषां चात्र समस्पर्धितया रसव्यञ्जकत्वमात्रमेव प्रयोजनम् । व्यक्तश्च रसः सचेतसां दत्तफल इति नैषां किंचित्फलान्तरम् । अत एव रसाद्यङ्गभूतस्य व्यभिचारिणः स्थित्याद्यात्मध्वनिप्रकारत्वं भवतीति न वाच्यम् । तथात्वे चाभिधीयमाने निर्वेदादेः प्राधान्याभावात् ध्वनिव्यपदेश एव न युक्तः । अप्रधानस्य प्रधानत्वाभिधाने विरोधात्643 । एवं644 च गुणीभूतव्यङ्गयस्यापि ध्वनिव्यपदेशः केन प्रत्युक्तः । क्वचिदपि ‘मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन’ इति नीत्या राजानुगतविवाहप्रवृत्तभृत्यवद्विभावानुभावव्यञ्जितानां रसगुणीभावेनैषामेव प्राधान्यम् । यथा— ‘इतश्चारुप्रेमप्रणयसुकुमारा वरवधूरितः स्वेच्छालभ्यानुपमफलमूला वनमही । इतो मौर्वीनादोन्मुखनिखिलसैन्यो रणविधिः क्व नामायं सादृक्तरलहृदयो रज्यतु जनः ॥’ अत्र विभावानुभावाभ्यां व्यञ्जितः शृङ्गारादीनां रसानामप्ररूढत्वेन गुणीभावाद्वाक्यतात्पर्यविषयत्वेन विश्रान्तेश्चिन्ताख्यो व्यभिचारिभावः प्रधानम् । अत एवात्र भावस्थितेर्ध्वनिभेदत्वम् । एवं चात्र चिन्तायाः शृङ्गारादीन्प्रति तदङ्गत्वाभावान्न गुणीभावः । अत एव चात्र तत्परिपोषकत्वात्या645गात्तदीयकार्याकरणाद्रसं प्रति गुणीभावात्स्वेनैव च निरतिशयप्रीतिकारित्वेन सचेतसां दत्तफलत्वान्निजप्रयोजनासंपादकत्वविरहा-द्राजानुगतविवाहप्रवृत्तभृत्यवन्मुख्यानपि रसाननादृत्य चिन्ताया एव वाक्यतात्पर्यविषयत्वेन प्राधान्याद-ङ्गित्वम् । अत एव

एतन्मतद्वयेऽप्युदाहरणम् । वाक्यार्थीभूतोऽत्र करुणो रसः । अङ्गभूतस्तु विप्रलम्भशृङ्गारः । एवं रसान्तरेष्वप्युदाहार्यम् । प्रेयोऽलंकारादौ विशेषमनपेक्ष्योदाह्रियते । प्रेयोलंकारो यथा—

________________

च दृष्टान्तदार्ष्टान्तिकयोर्न कश्चिद्विषम उपन्यासः । वक्तुश्चात्र सरलहृदयत्वेनैकत्र तात्पर्येच्छाभावान्नैकत-रपक्षाश्रयणमिति न कश्चिदपि रसस्य प्राधान्यम् । नाप्येषां परस्परविरोधात्संधिरिति व्यभिचारिभावस्यैव प्राधान्यम् । एवं च निर्वेदादीनां गर्भदासवत्कदाचिदपि प्राधान्यं [न] भवतीत्यपर्यालोचिताभिधानम् । गर्भदासस्यापि कदाचिदन्ततो गर्भदासीं प्रत्यस्ति प्राधान्यम् । प्रधानाप्रधानभावस्यापेक्षिकत्वात् । ‘क्वचिदप्यपरस्याङ्गम्’ इति नीत्यैषामङ्गत्वे प्राधान्याभावादलंकारत्वम् । यथा— ‘कचकुचचिबुकाग्रे पाणिषु व्यावृतेषु प्रथमजलधिपुत्रीसंगमेऽनङ्गधानि । निबिडनिबिडनीवीग्रन्थिविस्रंसनेच्छोश्चतुरधिक-कराशा शार्ङ्गिणो वः पुनातु ॥’ अत्र शृङ्गाररसस्याप्ररूढत्वाद्गुणीभावेन वाक्यतात्पर्यविषयत्वे-नोपनिबन्धमप्यौत्सुक्यं646 शार्ङ्गिविषयां रतिं प्रत्यङ्गमिति प्रेयोऽलंकारः । ननु च यद्यपि परस्याङ्गत्वे सत्येषामलंकारत्वं तद्रसाङ्गभूतत्वादेषां सर्वत्रैव तत्त्वं स्यादिति चेत्, नैतत् । यस्मान्निमित्तान्तरेभ्यो लब्धसत्ताकस्याङ्गिभूतस्य वस्तुन उपस्काराधायकतयाङ्गतामुपगच्छतामेषामलंकारत्वमुपकार्योपस्का-रकत्वनिबन्धनतयालंकार्यालंकरणभावस्योक्तत्वात् । रसादेः पुनः स्वरूपनिवृत्तये निर्वेदादयोऽङ्गता-मुपयान्तीति तत्रैषां रसोपसर्जनीभूतत्वात्तद्वयञ्जनमात्रमेव फलम् । अत एव तत्रैव पूर्वोक्तनीत्या न ध्वनित्वम्, नाप्यलंकारत्वम् । रसव्यक्तिव्यतिरेकिप्रयोजनान्तरनिष्पादनत्वायोगात् । एवं निर्वेदादीनां रसव्यक्तौ सहकारित्वम् अङ्गित्वे ध्वनित्वम्, अङ्गत्वे चालंकारत्वमिति विषयविभागः । तस्मात् ‘निर्वेदादीनां सर्वदैवाङ्गभावात्प्रेयोऽलंकारस्तद्वयपेक्षो न वाच्यः । तस्मादेतेषां व्यङ्ग्यतायां ध्वनित्वं न प्राधान्यं क्वापि यस्माद्भजन्ते ॥ एतेन भावप्रशमादयोऽपि व्यङ्गयाःसदैव ध्वनितां प्रयान्ति । ध्वनित्वमिष्टं यदि तर्हि तेषु न लक्षणीयस्तु समाहितादिः ॥’ इत्यादि यदन्यैरुक्तं तदुपेक्ष्यम् ॥ एतन्मतद्वय इति । ध्वन्यभाववादिनां ध्वनिभाववादिनां च । तत्र ध्वन्यभाववादिमते करुणापेक्षया रसवदलंकारः । शृङ्गारापेक्षया तदात्तम् । मतान्तरेण तु करुणाभिप्रायेण रसध्वनिः । शृङ्गारापेक्षया त्वयमलंकारः । अत्र यद्यपि राजविषयाया रतेरङ्गित्वात्करुणोऽपि तदङ्गमेव, तथापि तस्य शृङ्गारापेक्षयाङ्गित्वमाश्रित्यै-तदुक्तम् । करुणश्च शृङ्गारोपस्कृतःप्रतीयत इति तस्यालंकारत्वम् । एवमिति । यथा मतद्वयमपि संगच्छत इत्यर्थः647 । तत्तु यथा— ‘का त्वं रक्तपटावगुण्ठितमुखी मुग्धे तवाहं सखी किं शून्यौकसि केवला निवससि त्वामागतान्वेषितुम् । एतद्वक्त्रमुदञ्चयेति कथयन्त्यालोक्य कूर्चे ततः पत्युःस्मेरमुखाम्बुजस्य तरुणी जाता विलक्षस्मिता ॥’ अत्र वाक्यार्थीभूतः शृङ्गारः, अङ्गभूतस्तु हासः । एवमिति सामान्येनाप्युदाहरणव्याप्तिपरं

‘गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरो648मोद्गमा
सान्द्रस्वेदरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥’

अत्र नायिकायां हर्षाख्यो व्यभिचारिभावः । यथा वा—

‘त्वद्वक्त्रामृतपानदुर्ललितया दृष्ट्या व विश्रभ्यतां
त्वद्वाक्यश्रवणाभियोगपरयोः श्राव्यं कुतः कर्णयोः ।
एभिस्तत्परिरम्भनिर्भरतरैरङ्गैः कथं स्थीयतां
कष्टं तद्विरहेण संप्रति वयं कृच्छ्रामवस्थां गताः ॥’

अत्र चिन्ताख्यो व्यभिचारिभावः । एष एव च भावालंकारः । भावस्य चात्र स्थितिरूपतया वर्णनम् । शान्त्युदयावस्थे तु वक्ष्येते ।

ऊर्जस्वी यथा—

‘दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि जाते श्रुतिं
चेतः कालकलामपि प्रकुरुते नावस्थिति या विना ।
एतैराकुलितस्य विक्षततरैरङ्गैरनङ्गातुरैः
संपद्येत कदा तदाप्तिसुखमित्येतन्न वेद्मि स्फुटम्॥’

अत्र रावणस्याभिलाषको विप्रलम्भशृङ्गारः । औत्सुक्यं च व्यभिचारिभावः । अनौचित्येन प्रवृत्तौ समाहितं यथा—

‘अक्षणोः स्फुटास्त्रु कलुषोऽरुणिमानिलीनः
शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या ।

_____________

व्याख्येयम् । यथा— ‘पार्वत्या रचितां कपालिवृषभारूढं विलासाङ्गदग्रन्थिक्कान्तमहाहिलोचन-लसज्ज्वालं पिनाकाङ्कितम् । कन्दर्पार्पितशासनां कविवलत्कंकालमर्धेन्दुमद्भस्माङ्कं च पुनातु वो नवरसान्पुष्णन्मुरारेर्धनुः ॥’ अत्र भगवद्विषयाया रतेर्नव रसा अङ्गम् । विशेषमिति । अङ्गाङ्गित्वेन । तेन ध्वन्यभाववादिमतेनाङ्गाङ्गित्वमेवैषामाश्रित्योदाह्रियत इति तात्पर्यम् । भावालंकार इति । निर्वेद्रादीनां भावानां स्थित्यात्मकतयोपनिबध्यमानत्वात् । शान्त्युदयावस्थेति भावस्येत्यत्रापि संबन्धनीयम् । अनेन चास्य समाहि

भावान्तरस्य तव चण्डि गतोऽपि रोषां
नो गाढवामनतया प्रसरं ददाति ॥’

अत्र कोपस्य प्रशमः । एवमन्यत्राप्युदाहार्यम् ।

भावोदयो भावसंधिर्भावशबलता च पृथगलंकारः ।

भावस्योक्तरूपस्योदय उद्गमावस्था, संधिः द्वयोर्विरुद्धयोः स्पर्धित्वेनोप-

________________

तादिभ्यो वैलक्षण्यं द्योतितम् । तेन यत्र भावस्य स्थितिस्तत्रायमलंकारः, अन्यथा त्वन्येऽलंकारा इति । एवमिति । यथैतदुदाहृतमित्यर्थः । अन्यत्रेति । ध्वनिवादमते एषामङ्गत्व इत्यर्थः । तत्र प्रेयोऽलंकारः ‘कचकुच–’ इत्यादिना व्यभिचारिभावापेक्षयोदाहृतः । देवताविषयरत्यात्मभावोपनिबन्धे पुनर्यथा— ‘कण्ठेऽर्पयत्युरगपाशमसूयया मे यामिन्यधीशशिख यत्समये कृतान्तः । नूनं तदा मुहुरुपैमि फणीन्द्रहार त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् ॥’ अत्र भवद्विषयाया रतेर्मरणविषया रतिरङ्गमिति प्रेयोऽलंकारः । ऊर्जस्वी यथा— ‘वन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां प्रणमन्तिलान्तिपरितचुम्बन्ति ते सैनिकाः ।अस्माकं सुकृतैर्दृशां निपतितोऽस्यौचित्यवारांनिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ॥’ अत्र राजविषयस्य भावस्य प्रथमद्वितीयार्धद्योत्यौ रसाभासभावाभासावङ्गम् । व्यभिचारिभावापेक्षया पुनरयं यथा— ‘द्विषां तवारण्यनिवासमीयुषां नितम्बिनीनां निकुरम्बकं नृप । मुहुर्मुहुरूत्र्यश्रवलद्विलोचनं न केन पल्लीपतिना निरीक्षितः ॥’ अत्र शबराणां परदारविषयमौत्सुक्यमनौ-चित्येन प्रवृत्तमिति भावाभासो राजविषयां रतिं प्रत्यङ्गम् । समाहितं यथा— ‘अविरलकरवालकम्पनैभ्रुकुटीतर्जनगर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्कापि तवेक्षणे क्षणात् ॥’ अत्र राजविषयाया रतेरङ्गभूतस्य शत्रुविषयस्य मदस्य प्रशमः। देवतादिविषयरत्यात्मभावापेक्षया पुनरयं यथा— ‘अत्युच्चाःपरितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुवस्तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥’ अत्र राजविषयाया रतेरङ्गभूतस्य भूविषयस्य रत्याख्यभावस्य प्रशाम्यत्वम् । अत एव च समाहितं यदन्यैर्न लक्षितं तदत्यन्तमेवायुक्तम् । तन्मतेऽपि प्रेयोऽलंकारवद्रत्याभावापेक्षयास्य लक्षयितुं युक्तत्वात् । व्यभिचारिभावापेक्षया हि भवद्भिः प्रेयः प्रभृतीनामलंकारत्वं निरस्तम् । यदुक्तम्— ‘तस्माद्व्यभिचारापेक्षया प्रेय ऊर्जस्विसमाहितभावोदयसंधिशबलत्वानि न पृथगलंकाराणि याच्यामि’ इति । तस्माद्भवन्मतेऽपि समाहितादीनां लक्षणीयत्वं युक्तम् । भावेत्यादि । एतदेव व्याचष्टे—भावत्यादि । उक्तरूपस्येति । व्यभिचारिदेवादिरतित्वेन द्विप्रकारस्येत्यर्थः । उद्गमावस्थेति । उद्गमावस्था न पुनरुदितेत्यर्थः । उदितायां हि भावस्य स्थित्यात्मकत्वात्प्रेयोऽलंकार एव स्यात् । एते इति । भावोदय

निबन्धः, शबलता च बहूनां पूर्वोपमर्देन निबन्धः । एते च पृथग्रसवदादिभ्यो भिन्नालंकाराः ।

एतत्प्रतिपादनं चोद्भटादिभिरेषां पृथगलंकारत्वेनानिर्दिष्टत्वात् । अथ च संकरसंसृष्टि-वैलक्षण्येन । एते च सर्वालंकाराः पृथक्केवलत्वेनालंकारा इति सर्वालंकारशेषत्वेनोक्तम् । संसृष्टिसंकरयोर्हि संपृक्ततयालंकाराणां स्थिति स्तद्वैलक्षण्यप्रतिपादनमेतत् । तत्र भावोदयो यथा—

‘एकस्मिञ्छयने विपक्षरमणीनामग्रहे मुग्धया
सद्यः कोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणा
न्माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥

अत्रौत्सुक्यस्योदयः । भावसंधिर्यथा—

‘वामेन नारीनयनास्त्रधारां कृपाणधारामथ दक्षिणेन ।
उत्पुंसयन्नेकतरः करेण कर्तव्यमूढः सुभटो बभूव ॥’

_____________

भावसंधिभावशबलतास्त्रयोऽलंकाराः । ननु च लक्षणस्य भिन्नत्वादेवैषां पृथक्त्वावगम इति किं तहणेनेत्याशङ्क्याह— एतदित्यादि । अथ चेति पक्षान्तरे । **एत इति ।**पूर्वोद्दिष्टाः । सर्वालंकारा इति । पुनरुक्तवदाभासादिभावशबलान्ताः । केवलत्वेनेति649 तस्यैवैकस्य वाक्यार्थत्वेन प्ररोहात् । तस्मादङ्गभूतैरलंकारान्तरैरुपस्क्रियमाणो वा य एव यत्र वाक्यात्तात्पर्यविषयत्वेन प्रतीयते स एव तत्र साक्षादलंकार इति भावः । अत एवात्र संसृष्टसंकरव्यपदेशः । यतस्तयोरलंकाराणां मिश्रत्वेनावस्थानं लक्षणम् । तदेवाह—संसृष्टीत्यादि । यत्तु पूर्वत्र कुत्रचिदुदाहरणेषु संकराद्यलंकारत्वमस्ति तत्तत्र संभवमात्रेण650 निदर्शनीकृतम् । न तु साक्षादलंकारत्वम् । तत्तत्र तथाविधस्योदाहरणस्य स्वयमेव लक्ष्यादभ्यूहः कार्यः । एतदुदाहरणत्रयं ध्वन्यभाववादिमतेन ग्रन्थकृतोपात्तम् । ध्वनिवादिमतेन पुनरुदाह्रियते । तत्र भावोदयो यथा—‘साकं कुरङ्गकदृशा मधुपानलीलां कर्तुसुहृद्भिरपि वैरिणि च प्रवृत्ते । अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥’ अत्र राजविषयाया रतेरङ्गभूतस्य त्रासस्योदयः । भावसंधिर्यथा— ‘असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो देव्याः651 कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥’ अत्र भगवद्विषयाया रतेरङ्गभूतयोरावेगधैर्ययोः संधिः । भावशबलता यथा — ‘प

अत्र स्नेहाख्यरतिभावरणौत्सुक्ययोः संधिः । भावशबलता यथा—

‘क्काकार्ये शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति ॥’

अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां भावानां शबलता । तदेते चित्तवृत्तिगत-त्वेनालंकारा दर्शिताः ।

अधुनैषां सर्वेषामलंकाराणां संश्लेषसमुत्थापितमलंकारद्वयमुच्यते । तत्र संश्लेषः संयोगन्यायेन समवायन्यायेन च द्विविधः । संयोगन्यायो यत्र भेदस्योत्कटतया स्थितिः । समवायन्यायो यत्र तस्यैवानुत्कटत्वेनावस्थानम् । तत्रोत्कटत्वेन स्थितौ तिलतण्डुलन्यायः इतरत्र तु क्षीरनीरसादृश्यम् । क्रमेणैतदुच्यते—

एषां तिलतण्डुलन्यायेन मिश्रत्वं संसृष्टिः ।

उक्तालंकाराणां यथासंभवं यदि क्वचिद्वचनं स्यात्, तदा ते किंपृथक्त्वेन

________________

श्येत्काश्चिच्चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासियासि । इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तेः कन्या कंचित्फलकिशलयान्यादधानाभिधत्ते ॥’ अत्र राजविषयाया रतेः शङ्कासूयाधृतिस्मृत्यौत्सुक्यदैन्यौत्सुक्यानां पूर्वपूर्वापमदेनोपनिबद्धानामङ्गत्वम् । देवताविषयरत्या-त्मभावापेक्षया पुनरुदाहरणत्रयं यथा—‘त्रिशङ्कोः परिपूर्णानां पुण्यानामस्तलक्षणम् । यदकस्मादुदेत्याशु विश्वामित्रं प्रति स्पृहा ।’ अत्र विश्वामित्रविषयाया रतेरुदयः । ‘परिचुम्बनीयचलकाकपक्षकं तनयं कथं वितरतु क्षितेः पतिः । अभिवन्दनीयतमपादपङ्कजं सहसा प्रतीपयतु वा कथं मुनिम् ॥’ अत्र सुतमुनिविषययो रत्याख्यभावयोः संधिः । ‘त्याज्यो नैष शिशुः सुतो रघुकुले याति प्रतीपो गुरुस्ताम्यन्त्यस्य सहोदरा विजयते क्षत्रस्य शस्त्रग्रहः । यात्यस्मिन्नवसादमेति हृदयं स्वार्थः परार्थेन मे व्यामुह्यन्त्यमुना विना प्रकृतयो मान्यो मुनिः प्रीयताम् ॥’ अत्र पुत्रादिविषयाणां रतीनां पूर्वपूर्वोपमर्देनोपनिबद्धानां शबलत्वम् । अत्र च रते रामचरितं प्रत्यङ्गत्वमित्यलंकारत्वम् ॥ अलंकारान्तरलक्षणं कर्तु चोपक्रमते—अधुनेत्यादि । अधुनेति प्राप्तावसरम् । एषामिति । पूर्वोद्दिष्टानाम् । तत्रेति । अलंकारद्वये । तस्यैवेति । भेदस्य । स्फुटत्वमस्फुटत्वं च सुस्पष्टमेव । अत एव तिलतण्डुलन्यायः, क्षीरनीरन्यायश्चेत्युक्तम् । एषामित्यादि । एतदेवोपपादयितुमुपक्रमते—उक्तेत्यादिना ।

पर्यवसिताः, उत तद्लंकारान्तरमेव किंचिदिति विचार्यते— तत्र यथा बाह्यालंकाराणां सौवर्णमणिमयप्रभृतीनां पृथक्चारुत्वहेतुत्वेऽपि संघटनाकृतं चारुत्वान्तरं जायते तद्वत्प्रकृतालंकाराणामपि संयोजने चारुत्वान्तरमुपलभ्यते । तेनालंकारान्तरप्रादुर्भावो न पृथक्पर्यवसानमिति निर्णयः । अलं-

__________________

तदेतत्पक्षद्वयमध्यादृष्टान्तोपदर्शनद्वारेणालंकारान्तरत्वमेव सिद्धान्तयितुमाह—तत्रेत्यादिना । संघटनाकृतमिति । एकत्रैव द्वयोर्बहूनां वालंकाराणां युगपद्विनिवेशनं संघटना, तया कृतम् । तदुत्थापितमित्यर्थः । चारुत्वान्तरमिति । एकैकालंकारनिबन्धनात्मकृतत्वाचारुत्वादन्यत्सातिशयमिति यावत् । उपलभ्यते । स्वसंवित्सिद्धतया साक्षात्क्रियत इत्यर्थः । तेनेति । चारुत्वान्तरोपलम्भेन । नहि विषयभूतालंकारातिशयमन्तरेणोपलम्भातिशयो भवितुमर्हतीति भावः । ननु शब्दार्थालंकाराणां संघटनामात्रेणैव कथमलंकारान्तरत्वमुक्तम् । भिन्नकक्ष्यत्वेनैषामेकबुद्ध्युपारोहासंभवाच्चारुत्वान्तरा-भावात् । तेषां हि संघटितत्वेऽपि ‘अलंकारेषु चारुत्वं तद्वद्विदि विभिद्यते । यथैव साधु माधुर्यमिक्षुक्षीरगुणादिषु ॥’ इति नीत्या भेदत्वेनैव चारुत्वावगमाद्भिन्नत्वमेव न्याय्यम् । नापि लौकिकालंकारवदेतेषां संघटनाकृतं चारुत्वान्तरमुपलभ्यते । नहि मौक्तिकपद्मरागेन्द्रनीलादिवत्स-चेतसः कस्यचिदनुप्रासोपमादीनां परस्परं परभागो भासते । शब्दार्थयोभिन्नेन्द्रियग्राह्यत्वेन भिन्नजातीयत्वात् । असदेतत् । तथाहि खलु यथा पृथगवस्थितेषु स्थालीजलज्वलनरततण्डुलादिषु न समताप्रत्ययः समुदितेषु तु भवति समग्रसंनिधानाख्यस्य धर्मस्य प्रत्यक्षमुपालम्भात्, तथैव भिन्नकक्ष्याणामलंकाराणां संघटनाबलेन पूर्वापरैकीकारेणैकबुद्ध्यधिरोहादुपलभ्यत एवं कश्चन संसर्गो नाम यस्य संसृष्टिसंकरव्यपदेशार्हत्वम् । अपि च रूपभेदेऽप्यविच्छेदादेकत्वम् । ‘चित्रपत्रक’ इत्यादिनीत्या चित्रास्तरणादौ यथा स्वरूपस्य रूपान्तराद्वद्वयावृत्तत्वेऽपि विच्छेदानवभासोदकघट-श्लिष्टाकारप्रत्ययः । चित्ररूपमप्येकमेव वस्तुरूपं भासते । तथैव भिन्नकक्ष्याणामप्यलंकाराणां ‘संघटमानत्वेन652 प्रतीतावेकतावसाय इति युक्तमेव संसृष्टाद्यलंकारान्तरत्वम्653 । इक्ष्वादीनां च माधुर्यस्य भेदेऽपि संमीलनायां पानकादिरसनिष्पत्तावुपलभ्यत एव कश्चिद्वैचित्र्यातिशयस्तद्वदेषामपीति युक्तमलंकारान्तरत्वम् । न चास्य चारुतातिशयस्य शपथप्रत्ययत्वं वाच्यम् । एकत्रैवैकस्य द्वयोर्बहूनां वालंकाराणामवगमे यथायथमतिशयोत्कर्षस्य स्वसंवित्साक्षिकत्वेन वैद्यमानत्वात् । संघटमानत्वेन च प्रतिपत्तिरलंकाराणामेकस्मिन्वाक्ये तत्तच्छन्दसि वा भवति । न तु कुलकादौ, विदूरतया तस्यास्तावत्याः प्ररोहासंभवात् । यदाहुः— ‘वाक्यार्थभेदेऽप्येकश्लोकान्तर्गतत्वेनालंकारस्यालंकारान्तरसाहित्यं प्रतिभात्येव । अविदूरत्वाद्विभिन्नश्लोकगतत्वेन वाक्यभेदे व्यवहितत्वान्न भवति संसृष्टिः । ‘इति । कुलकादावप्यलंकाराणां वाक्यैकवाक्यतया यद्यविच्छेदेन प्रतिपत्ति-

प्ररोहः स्यात्तदात्रापि संसृष्टवाद्यभ्युगमे न कश्चिद्दोषः । ननु समग्रताप्रत्यये चित्रज्ञाने वा स्थाल्यादीनां चैकेन्द्रियग्राह्यत्वेन समानजातीयानामेकबुद्ध्यधिरूढादुपपद्यत एव सामगादेरेकस्य वस्तुनोऽवगमः । इह तु भिन्नेन्द्रियग्राह्यत्वेन भिन्नजातीययोः शब्दार्थयोरेकबुद्ध्ययधिरूढाभावात्तदलंकाराणां युगपत्प्रती-तिरेव नास्तीति कथमेकस्य संसर्गादेर्वस्तुनोऽवभासो यस्यापि संसृष्टयाद्यलंकारान्तरव्यपदेशार्हत्वं स्यात् । अत्रोच्यते । श्रोत्रकरणत्वाच्छब्दावगमस्यैकेन्द्रियग्राह्यत्वात्तदलंकारयोः सजातीयत्वे तावदविवादः । अत एव च तयोरेकबुद्ध्यधिरोहाद्युगपत्प्रतीतेःसंसर्गावगमः । सति च संशये चारुतातिशयोपसर्जन इत्यत्र संसृष्टाद्यलंकारत्वम् । एवमर्थावगमस्यापि शब्दकरणत्वात्समानजातीययोः संसृष्टत्वेन प्रतीयमानयोरलंकारयोरपि ज्ञेयम् । शब्दार्थयोः पुनरुपायभेदेऽपि तदलंकाराणां सुगन्धिबन्धूकबोध-न्यायेन मानसबोधन्यायेन मानसज्ञानविषयत्वायुगपदवभासः सिद्ध्यतीति लौकिकालंकारवदेव शब्दार्थोभयालंकाराणां संसर्गे लब्धपरभागतयावभासत एव चारुत्वान्तरमिति न्यायप्राप्तमेव संसृष्ट्याद्यलंकारत्वम् । यत्पुनरन्यैः शब्दार्थयोभिन्नजातीयत्वे भिन्नेन्द्रियग्राह्यत्वं निमित्तमुक्तं तदुपेक्ष्यमेव । शब्दार्थशरीरे काव्ये शब्दप्रतिपाद्यस्यैवार्थस्याङ्गत्वात्तचक्षुरिन्द्रियग्राह्यस्य बाह्यस्यानौपयिकत्वात् । यद्येवं पूर्वलक्षितानामनुप्रासोपमादीनामभावः स्यात् । असंकीर्णानामलंकाराणामसंभवात्सर्वत्र संसृष्टिसंकरयोरेव भावादेषां विषयापहारात् । नैतत् । असंकीर्णानामलंकाराणां सहस्रशो दर्शनात् । तथाहि— ‘यशोवर्माणमुल्लङ्घ्य हिमाद्रिमिव जाह्नवी । सुखेन प्राविशत्तस्य वाहिनी पूर्वसागरम् । उत्तराः कुरवोऽविक्षुस्तद्भयाज्जन्मपादपान्654 । उरगान्तकसंत्रासाद्विलानीव महोरगाः ॥ जयार्जितधनः सोऽथ प्रविवेश स्वमण्डलम् । भिन्नेभमौक्तिकापूर्णपाणिः सिंह इवाचलम् ॥ राजतान्क्कापि सौवर्णान्क्कापि देवान्विनिर्ममे । पार्श्वेषु मुख्यदेवानां पार्थिवो धनदोपमः ॥ तुः खारश्चङ्कणश्चक्रे स्वनामाङ्कविहारकृत् । भूपचित्तोपमं स्तूपं जिनार्हसमयास्तथा ॥ ईशानदेव्या तत्पत्न्या खाताम्बु प्रतिपादितम् । सुधारसमिव स्वच्छमारोग्यादायि रोगिणाम् ॥ संजग्राह स देशेभ्यस्तांस्तांनन्तरविज्जनान् । विकचान्सुमनःस्तोमान्पादपेभ्य इवानिलः ॥ अभेद्यसारे मयि तु व्यक्तमेवं विधीयते । प्रयासः कुण्ठतां यातो लोहे वज्रमणाविव ॥ निदेशेनैव संपश्य पयः सूतेऽद्य मेदिनी । रसितेनाम्बुवाहस्य रत्नं वैडूर्यभूरिव ॥ इत्युक्त्वा सोऽम्बु निष्क्रष्टुं कुन्तेनोर्वीमदारयत् । उज्जिहीर्षुर्वितस्ताम्भः शूलेनेव त्रिलोचनः॥ श्रुते प्रणष्टे नगरे निःशोकोऽभून्महीपतिः । स्वप्नान्तरिते पुत्रे प्रबुद्धोऽग्र इवेक्ष्यते ॥ अत्रस्थैः सर्वदा रक्ष्यः स्वभेदः प्रभविष्णुभिः । चार्वाकाणामिवैषां हि भयं न परलोकतः ॥’ इत्यादि राजतरङ्गिण्यां ललितादित्यवर्णने उपमायाः शुद्धमुदाहरणजातम् । एवमत्रैवान्यराजवर्णने प्रबन्धान्तरेषु वा शुद्धाया उपमायाः कियान्विषय इति को नाम दर्शयितुमलम् । उपमैव चानेकालंकारबीजभूतेति तन्निदर्शनमेव कृतम् । एवमन्यालंकाराणामपि सहस्रशश्चात्रोदाहरणत्वं संवददपि ग्रन्थविस्तरभयान्न दर्शितम् । तस्मादेषां विषयत्वं655 प्रविरलविषयत्वं

कारान्तरत्वेऽपि च संयोगन्यायेन स्फुटावगमो भेदः । समवायन्यायेन वास्फुटत्वावगम इति द्वैधम् । पूर्वत्र संसृष्टिः, उत्तरत्र संकरः । अत एव तिलतण्डुलन्यायः, क्षीरनीरन्यायश्च तयोर्यथार्थतामवगमयतः । तत्र तिलतण्डुलन्यायेन भवन्ती संसृष्टिस्त्रिधा । शब्दालंकारगतत्वेन, अर्थालंकारगतत्वेन, उभयालंकारगतत्वेन च । तत्र शब्दालंकारसंसृष्टिर्यथा—

‘कुसुमसौरभ656लोभपरिभ्रमद्भमरसंभ्रमसंभृतशोभया ।
वनितया657 विदधे कलमेखला कलकलोऽलकलोलदृशान्यया ॥’

अत्रानुप्रासयमकयोर्विजातीययोः संसृष्टिः । अत्रैव ‘अलकलोलकलोल’ इति, तथा ‘कलोलकलोल’ इति सजातीययोर्यमकयोः संसृष्टिः । अर्थालंकारसंसृष्टिर्यथा—

‘देवि क्षपा गलति चक्षुरमन्दतार
मुन्मीलयाशु नलिनीव सभृङ्गमब्जम् ।
एष त्वदाननरुचेव विलुण्ठ्यमानः
पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्कः ॥’

अत्र सजातीययोरुपमोत्प्रेक्षयोः संसृष्टिः ।

‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥’

_____________

च न वाच्यम् । प्रविरलविषयत्वेऽप्युपमादीनां न संसृष्टिसंकरयोरेव658 लक्षणीयतया प्राप्तिस्तावन्मात्रविषयस्वीकारायाप्येषां659 पृथग्लक्षयितुमुचितत्वात् । एवं च न संसृष्टिः । पूर्वहाराच्चारुत्वाभावाच्चेत्यायुक्तमयुक्तम् । अत एव च ‘तस्मात्समस्तविषये प्रतिबन्धकारे संसृष्टिसंकथने660 चलिते विदूरम् । प्राधान्यतः स्वविषयं सुविशालमाप्य सर्वोऽप्यलंकृतिगणो रसतां चिराय ॥’ इत्याशीर्वचनसूक्तमपि निष्प्रयोजनम् । नन्वेवं यद्यलंकारान्तरत्वं युक्तं तदेक एव संसृष्टिःसंकरो वास्तु, किं द्वाभ्यामित्याशङ्क्याह— [अलंकारान्तरत्वेऽपि661चेति । ] श्रीभोजदेवेन पुनर्भेदस्य स्फुटास्फुटत्वमाश्रित्य नानालंकारसंकरः संसृष्टिरिति संकीर्णमात्राभिप्रायेण संसृष्टयाख्य एक एवालंकार उक्तः । **विजातीययोरिति ।**यमकानुप्रासयोभिन्नलक्षणत्वात् । अत्र च प्रधानस्यानुप्रासस्य परिपोषकत्वेनाङ्गं यमकमिति संकरोदाहरणं न वाच्यम् । अत्र हि यमकसर्गस्योपक्रान्तत्वात्तत्रैव कवितुः सं-

रम्भातिशयाद्यमकस्य प्राधान्यमित्यनुप्रासस्य यमकं प्रति वरमङ्गत्वं युक्तं न पुनर्विपर्ययः ।सकलवाक्यव्यापिनोऽप्यनुप्रासस्य प्राधान्येनाविवक्षणात् । नाप्यत्र परस्परमङ्गाङ्गिभावो युक्तः। इह हि निमित्तानिमित्तभावेनोपकार्योपकारकभावेन चेति द्विधाङ्गाङ्गिभावः । तत्राद्यो द्विधा । सार्वत्रिकः, प्रादेशिकश्चेति । तत्र सार्वत्रिको यथा विभावनातिशयोक्त्योः । ‘आश्लिष्टातिशयोक्तिस्तु सर्वत्रैव विभावना’ इति दृशा विभावनायाः सर्वत्रैवातिशयोक्त्यपेक्षात्662 । प्रादेशिको यथा श्लेषातिशयोक्त्योः । ‘रजनीमुखम्’ इत्यादौ क्वचिदिव श्लेषवशेनातिशयोक्तेरुत्थानात् । ‘कमलमनम्भसि’ इत्यादौ श्लेषमन्तरेण663 तस्याः संभवात् । एतद्भेदद्वयं च न संकरस्य विषयः । तस्य स्वहेतुबलाल्लब्धसत्ता-कानामलंकाराणां संसर्गे वक्ष्यमाणत्वात् । द्वितीयो यथा— ‘अङ्गलीभिरिव’ इत्यादौ । अत्र हि स्वहेतुबलेन लब्धसत्ताकानामुपमादीनां परस्परमुपकार्योपकारकत्वमात्रं येनाङ्गाङ्गिभावः । न ह्यत्रोपमयोः परस्परं स्वरूपनिष्पत्तावुपेक्षा काचित् । एकतराभावेऽप्येकस्याः स्वरूपोत्थानात् । एवमुपमाद्वयपरिहारेण केवलाप्युत्प्रेक्षा स्यात् । स्थितानां पुनरेषामियं चिन्ता यच्चुम्बने केशग्रहणादेरु-चितत्वादुपमाद्युपकारकमुत्प्रेक्षा चोपकार्या येनाङ्गाङ्गिभावः । एवं च तेन प्रधानतायामुपमादीनां निजं निजं नाम । अङ्गत्वे पुनरेषां संकरादीनामङ्गाङ्गिभावेऽपीत्याद्यन्यैरयुक्तमेवोक्तम् । इह पुनर्यमकानुप्रासयोर्निमित्तनिमित्तिभावः । सर्वत्रैवानयोः स्वरूपनिष्पत्तावन्योन्यानपेक्षत्वात् । तत्त्वेऽपि समनन्तरोक्तयुक्त्या संकरायोगात् । न च स्वहेतुभ्यो लब्धसत्ताकयोरप्यनयोः परस्परमङ्गाङ्गिभावः । शब्दालंकारयोः शब्दवदुपकार्योपकारकत्वभावात् । अथ वर्णसावर्ण्येन वैचित्र्यातिशयाधायकत्वेनान-योरुपकार्योपकारकभाव इति चेत् । न । इयमेव हि संसृष्टियोर्बहूनां वालंकाराणां परस्परनिरपेक्षाणा-मपि संसर्गे सति चारुतातिशयप्रतिपत्तिः । एवमर्थालंकारसंसृष्टावपि संकरोदाहरणत्वं न वाच्यम् । न हि तत्रोपमोत्प्रेक्षयोः परस्परमुपकार्योपकारकभावाद्यात्माङ्गाङ्गिभावः । यद्येवं दशदाडिमादिवाक्यवचनयो-रसंबद्धत्वं स्यादिति चेत्, न । चक्षुरुन्मीलनात्मके एकस्मिन्नेव प्रधानेऽर्थे द्वयोरपि समृद्धत्वात् । न च पाकलक्षणमेकमेवार्थमुररीकृत्य व्यवस्थितानां स्थाल्यादीनामप्यन्यः कश्चित्संबन्धः । अथोपमालिङ्गितस्य चक्षुरुन्मीलनस्योत्प्रेक्षाश्लिष्टः शशाङ्काम्बरत्यागः पारम्पर्येण हेतुत्वेनोपनिबद्ध इति स्वाश्रयभू तार्थवदनयोरप्यङ्गाङ्गिभावोऽस्तीति चेत् । नैतत् । उपमाद्यालिङ्गनाभावेऽपि चक्षुरुन्मीलनादेर्हेतुहेतु-मद्भावानतिपातादवस्थितत्वे वा तयोरुक्तयुक्त्या परस्परं संबन्धाभावात् । नाप्यत्रोपमाया वाक्यार्थत्वम् । तस्या अप्युत्प्रेक्षादिवच्चक्षुरुन्मीलनाङ्गत्वेनावस्थानात् । अत्र हि चक्षुरुन्मीलनस्यैव वाक्यार्थत्वम् । शशाङ्काम्बरत्यागोपपादितस्य क्षपागलनस्य तं प्रत्येव हेतुत्वेनोपनिबन्धात् । एवं परं प्रत्युपसर्जनीभूतयो-रवान्तरसंबन्धाभावेऽप्युपमोत्प्रेक्षयोः संसर्गे सति चारुत्वातिशयोपसर्जन इति यथोक्तमेव संसृष्टयुदाहरणत्वं युक्तम् । एवम् ‘अन्योन्यसंबन्धविवर्जितानामलंकृतीनां विनिवेशनं चेत् । अनन्वितत्वाद्दशदा-

अत्रोपमोत्प्रेक्षयोर्विजातीययोः संसृष्टिः । उभयसंसृष्टिर्यथा—

‘आनन्दसुन्दरपुरंदरमुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य ।
पादाम्बुजं भवतु मे664विजयाय मञ्जु
मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥’

अत्रोपमानुप्रासयोः संसृष्टिः पादाम्बुजमित्यत्र ह्युपमाया मञ्जीरशिञ्जितयोगो व्यवस्थापकं प्रमाणम् । स हि रूपके प्रतिकूलः । पारिशेष्यादुपमां प्रसादयति । तदेवं संसृष्टिस्त्रिधा निर्णीता ।

अधुना क्षीरनीरन्यायेन संकर उच्यते—

क्षीरनीरन्यायेन तु संकरः ।

मिश्रत्व इत्येव । अनुत्कटभेदत्वमुत्कटभेदत्वं च संकरः । तच्च मि-

________________

डिमादिवाक्यादिवद्दूषणमेव तर्हि ॥ अथान्वयोऽस्त्येव परस्परं तद्गुणप्रधानत्वमवश्यमेष्यम् । तदा न संसृष्टिकथा गुणस्य पराङ्गतायां खलु संकरःस्यात् ॥ एकत्र चेदङ्गिनि संगतं स्याद्वयं तदन्योन्यसमीलनेन । न संकरो नापि न वा गुणत्वे कार्यान्तरोत्पादनशक्तियोगात् ॥’ इत्याद्युपेक्षणीयमेव । न चात्रायं चालंकार इत्यार्थोऽलंकारसमुच्चय इति वाच्यम् । धर्मयौगपद्यमन्यस्यापि तत्करत्वं च समुच्चय इत्युक्त्या भवन्मतेऽप्यलंकारयौगपद्यस्य तल्लक्षणत्वाभावात् । तथात्वाभ्युपगमे चायं नाम्नि विवादः । एवं हि संसृष्टया किमपराद्धम् । ‘अत्र चोद्यं करिष्यामि’ इत्याशयेन सजातीययोरुपमयोः संसृष्टिरित्यशुद्धं पठित्वा यदन्यैरुक्तं तदुपेक्ष्यमेव । अत्र हि विजातीययोरुपमोत्प्रेक्षयोः संसृष्टिरित सर्वत्रैव सुस्पष्टः पाठः । उत्प्रेक्षयोरिति । प्रथमार्धगतयोः । यद्यपि चानयोद्वितीयार्धगतयाप्युपमया संसर्गे संसृष्टिरेव, तथापि विजातीययोरुपमोत्प्रेक्षयोरुदाहृतत्वात्सजातीयाभिप्रायेणैवमुक्तम् । नाप्यत्रोत्प्रेक्षाद्वयमुपमाहेतुभूतमिति वाच्यम् । त्रयाणामप्यलंकाराणां वाक्यार्थीभूतं तमोबाहुल्यं प्रत्यङ्गत्वात् । उभयसंसृष्टिरिति । अनुप्रासोपमयोः शब्दार्थालंकारत्वात् । व्यवस्थापकमिति । मञ्जीरशिञ्जितयोगस्य पादगतत्वेनौचित्यात् । प्रतिकूल इति । अम्बुजस्य मञ्जीरशिञ्जितायोगात् । पारिशेष्यादिति । उपमारूपकाभ्यामन्य-स्याप्राप्तेः । एतदेवोपसंहरति—तदेवमित्यादित्रिधेति । यद्यपि सजातीयविजातीयत्वेनान्यदप्यस्याः संभवति भेदद्वयम्, तथापि तदुद्दिष्टस्यैवान्तर्भवतीति यथोक्त एवायमुपसंहारः ॥ इदानीं संकरमवतारयति—अधुनेत्यादि । तदेवाह—क्षीरेत्यादितदिति । यथोक्तरूपम् । त्रिभेदमिति । अङ्गाङ्गिभावादिना। प्रसा-

श्रत्वमङ्गाङ्गिभावेन संशयेन, एकवाचकानुप्रवेशेन च । त्रिधाभवत्संकरं त्रिभेदमुत्थापयति । क्रमेण यथा—

‘अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः ।
कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥’

अत्राङ्गुलीभिरिवेत्युपमा, सैव सरोजलोचनमित्यस्या उपमायाः प्रसाधिका । रजनीमुखमिति श्लेषमूलातिशयोक्तिः । प्रारम्भवदनाख्ययोर्मुख्ययोरभेदातिशयात् । अत एव तयोरङ्गाङ्गिभावः । एवं च वाक्योक्तसमासोक्तिः । उपमाश्लेषानुगृहीता चातिशयोक्तिरुत्प्रेक्षया ‘चुम्बतीव’ इति प्रकाशिताया अनुग्राहिका । तद्बलेन तस्याः समुत्थानात् । सा च समुत्थापिता समुत्थापकानां चमत्कारितानिबन्धनमित्यस्त्यङ्गाङ्गिभावः । यथा वा—

‘त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवस्वान् ।
मन्येऽस्तशैलात्पतितोऽत एव विवेश शुद्ध्यै वडवाग्निमध्यम् ॥’

अत्र प्रथमार्धे विरोधोत्पत्तिहेतुः श्लेषः । दर्शनान्तरे तु विरोधश्लेषौद्वावलंकारौ तदनुगृहीता द्वितीयेऽर्धे मन्येपदप्रकाशितोत्प्रेक्षा । अतश्चाङ्गाङ्गिभावः ।

तथा ह्यत्र यत्कारणमुत्प्रेक्षते तत्र विरोध श्लेषानुप्रवेशः । यच्चात्र कार्यमुत्प्रेक्षानिमित्तं तत्र पतितत्वाग्निप्रवेशौ वस्तुस्थित्या अन्यथास्थितावपि अन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसितौ ज्ञेयौ । तेनात्राङ्गाङ्गिभावः संकरः । न च विरोधोत्पत्तिहेतौ श्लेषे श्लेषस्य विरोधेन सहाङ्गाङ्गिभावः सं-

______________

धिकेति । आनुगुण्यकारित्वेनाङ्गमित्यर्थः । श्लेषमूलेति । श्लेषहेतुकेत्यर्थः । अत्र च यथाङ्गाङ्गितया संकरस्तथा पूर्वमेवोक्तम् । अत एवोपमाद्वयापेक्षयैव तयोरङ्गाङ्गिभाव इत्युपसंहारः।श्लेषानुगृहीतेति । श्लेषमन्तरेणास्या अनुत्थानात् । तद्बलेनेति । तेषामुपमादीनां बलेनोपकारकत्वेनेत्यर्थः । समुत्थानादिति । उपकार्यत्वेन । उदाहरणान्तरोपादानं दावाप्ति (?) प्रदर्शनपरम् । श्लेष इति । औद्भटानामिति शेषः । द्वावलंकाराविति । हेतुहेतुमद्रूपावित्यर्थः । श्लेषमन्तरेण । विरोधस्यानुत्थानात् । तदनुगृहीतेति । श्लेषमूलविरोधोप-कृतेत्यर्थः । अङ्गाङ्गिभावमेव विभजति—तथा हीत्यादिनाकार्यमिति । पतित्वाग्निप्रवेशलक्षणम् । एतच्चोत्प्रेक्षानुगुण्येन प्रसङ्गादिहोक्तम् । तेनेति । उत्प्रेक्षाविरोधोपकृतत्वेन । ननु विरोधोत्प्रेक्षयोर्यद्वदङ्गाङ्गिभावेन संकरस्तद्वदतिशयोक्त्यापि सह तस्या विरोधश्लेषयोश्च किं संकर उत नेत्याशङ्क्याह—न चेत्यादि । एतच्चोद्भटमतानुसारश्लेषस्य प्राधा-

करः, उत्प्रेक्षाया वा निमित्तगतातिशयोक्त्या सहायं संकरः, ताभ्यां विना तयोरनुत्थानात् । अतश्च निरवकाशत्वाद्बाधकत्वम् । न च मन्तव्यं विरोधमन्तरेणापि श्लेषो दृश्यते इति श्लेषस्य सावकाशत्वमिति । यतो न ब्रूमो विरोधमन्तरेण श्लेषो न भवतीति । किं तर्ह्यलंकारान्तरविविक्तो विषयः श्लेषस्य नास्तीति निरवकाशत्वात्तेषां बाधः। तन्मध्ये च विरोधोऽनुप्रविष्ट इति सोऽपि न बाध्यत इति न कश्चिद्दोषः । एवमर्थालंकारसंकर उक्तः । शब्दालंकारसंकरस्तु कैश्चिदुदाहृतो यथा—

‘राजति तटीयमभिहतदानवरासातिपातिसारावनदा ।
गजता च यूथसविरतदानवरा सातिपाति सारा वनदा ॥’

अत्र यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षत्वेनाङ्गाङ्गिसंकर इति । एतत्तु न सम्यगावर्जकम् । शब्दालंकारयोः शब्दवदुपकार्योपकारकत्वाभावेनाङ्गाङ्गिभावाभावात् । शब्दालंकारसंसृष्टिस्त्वत्र श्रेयसी । यथोदाहृतं पूर्वम् ।

यद्वा अत्र शब्दालंकारद्वयमेकवाचकानुप्रविष्टमिति तृतीयः संकरो ज्ञेयः । एवमेकः प्रकारो दर्शितो द्वितीयः प्रकारस्तु संदेहसंकराख्यः । यत्रान्यतरपरिग्रहे साधकं प्रमाणं नास्ति बाधकं वा प्रमाणं न विद्यते तत्र न्यायप्राप्तः संशय इति संदेहसंकरस्तत्र विज्ञेयः । यथा—

_______________

न्याभिप्रायेणोक्तम् । स्वपक्षाभिप्रायेण तु विरोधस्याप्येतदेव द्रष्टव्यम् । अत्र च यथा न संकरालंकारस्तथा पूर्वमेवोपपादितम् । अत्र ह्युभयथाप्येक एवालंकारः । न चैकस्य संकरो युक्तः । तस्य द्विप्रभृतीनामलंकाराणां मित्रत्वे संभवात् । अतश्चेति । विरोधगुणीभावेन श्लेषस्यैव समुत्थानात् । यत्तु ग्रन्थकृता स्वताश्रयेणैतदपि नोक्तम्, तत्रायमाशयः । यावता हि यत्रालंकारान्तरस्वरूपनिष्पादने हेतुत्वं भजते तत्र नायमलंकार इति प्रतिपाद्यम् । तच्चैवमपि सिद्धयतीति तन्मतेनाप्येतत्साधनं चिरंतनाभ्युपगतत्वाभ्यनुज्ञानात्मप्रयोजनम् । तन्मध्य इति । श्लेषाद्वयतिरिक्तानामन्येषामलंकाराणां मध्य इत्यर्थः । दोष इति । सावकाशत्वापत्तिरूपः । कैश्चिदिति । काव्यप्रकाशकारादिभिः । उदाहृतमिति । कुसुमसौरभेत्यादिना । यद्वेति । पक्षान्तरे \। एकवाचकेति । य एव शब्दा यमकस्य वाचकास्त एव चित्रस्येति द्वितीय इत्यङ्गाङ्गिभावात् । **साधकमिति ।**अनुकूलम् । न्यायप्राप्त इति । साधकबाधकप्रमाणाभावादेकस्यानिश्चयात् । संदेहमेवोपपा-

‘यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोघसि वेतसीतरुतले चेतः समुत्कण्ठते ॥’

अत्र विभावनाविशेषोक्त्योः संदेहसंकरः । तथा ह्युत्कण्ठाकारणाभावे उत्कण्ठाया उत्पत्तौ विभावना । स च कारणाभावो ‘यःकौमारहरः’ इत्यादिना कारणविरुद्धमुखेन प्रतिपादितः । तथा च ‘यःकौमारहरः’ इत्याद्युत्कण्ठाकारणसद्भावेऽपि अनुत्कण्ठाया अनुत्पत्तौ विशेषोक्तिः । सा चानुत्पत्तिः ‘समुत्कण्ठते’ इति विरोधोत्पत्तिमुखेनोक्ता । अत एव द्वयोरपस्फुटत्वमन्य-त्रोक्तम् । न चानयोः प्रत्येकं साधकबाधकप्रमाणयोग इति संदेहसंकरोऽयम् । यथा वा—

‘यद्वक्त्रचन्द्रे नवयौवनेन श्मश्रुच्छलादुल्लिखितश्चकास्ति ।
उद्दामरामादृढमानमुद्राविद्रावणो मन्त्र इव स्मरस्य ॥’

अत्र वक्त्रंचन्द्र इवेति किमुपमा, उत वक्त्रमेव चन्द्र इति किं रूपकमिति संशयः । उभयथापि समासस्य भावात् । ‘उपमितं व्याघ्रादिभिः’ इत्युपमासमासः । व्याघ्रादीनामाकृतिगणत्वात् । मयूरव्यंसकादित्वात्तु रूपकसमासः । मयूरव्यंसकादीनामाकृतिगणत्वात् । न चात्र क्वचित्साधकबाधकप्रमाणसद्भाव इति संदेहसंकरः ।

_______________

दयति—तथा हीत्यादिना । उत्कण्ठाकारणाभाव इति । कौमारहरवराद्यसंनिधानरूपस्य कारणस्याभाव इत्यर्थः । विरुद्धमुखेनेति । तत्संनिधानद्वारेणेत्यर्थः । अत एवेति । द्वयोरपि विरुद्धमुखेनोपनिबन्धात् । अन्यत्रेति । काव्यप्रकाशादौ । उभयथेति । उपमारूपकत्वेनेत्यर्थः । चन्द्रशब्दस्याकृतिगणत्वाद्गणद्वयेनापि हि स्वीकृतत्वमिति भावः । क्वचिदिति । उपमायां रूपके वा । न चैतदलंकारसारकारादीनां मतम्, अलंकाराणां संदेहायोगात् । तथा हि स्थाणुर्वा पुरुषो वेति संदेहः कस्यचिदेव कदाचिद्भवति, न तु सर्वदैव सर्वेषां संनिकृष्टानां तदैवानन्तरं त्वन्येषामपि निश्चयोत्पादनात् । सर्वदा सर्वत्र सर्वान्प्रति चालंकारलक्षणं प्रणयनम् । तथात्वे च संदेहोऽयुक्तः, तस्य नियतदेशकालप्र-

यत्र तु कस्यचित्परिग्रहे साधकं बाधकं वा प्रमाणं विद्यते तत्र नियतपरिग्रहः । तत्रानुकूल्यं साधकम्, प्रातिकूल्यं बाधकम् । तत्र साधकं यथा—

‘प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने ।
नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥’

अत्र शंकर एव क्षीरसिन्धुरिति रूपकस्यामृतमयत्वं साधकम् । तस्य शंकरापेक्षया क्षीरसिन्धावनुकूलत्वात् । उपमायास्तु न बाधकम् । शंकरेऽपि तस्योपचरितस्य संभवात् । यथा वा—

‘एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि ।
संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥’

____________

मातृगतत्वात् । संदेहोऽपि पर्यवसानेऽवश्यमेकतरपक्षाश्रयणम्, उत्तरकालं बाधकप्रत्ययोल्लासात् । इह च संदेहेऽप्युत्तरकालं यद्येकतरालंकाराश्रयणं तत्स एवालंकारः स्यात्, तस्यैव वाक्यार्थत्वेन प्ररोहात् । वाक्यार्थीभाव एव त्वलंकाराणां स्वरूपप्रतिष्ठापकं प्रमाणम् । न चोभयोरपि वाक्यार्थीभावो विप्रतिषेधात् । संदिग्धश्च वाक्यार्थो दोष इत्यविवादः । न च लक्ष्येऽपि तथाभावः, तथा ह्याद्योदाहरणे विभावनाया एव निश्चयः । विरुद्धमुखेनोत्कण्ठाकारणाभावेऽपि प्रतिपन्ने तथापि ‘चेतः समुत्कण्ठते’ इत्युत्कण्ठोदयस्यैव कार्यस्य वाक्यार्थत्वेन प्ररोहात् । अत एवानुत्कण्ठोत्पत्तिरविवक्षितेति विशेषोक्तेर्बाधइति विभावनाया एव वाक्यार्थीभावः । उत्तरोदाहरणे रूपकस्यैव निश्चयः । यतोऽत्रान्यप्रयोजनयोर्द्वयोः समासयोरेकत्र युगपत्प्राप्तेस्तु लत्वाद्विप्रतिषेधः । ततश्च ‘विप्रतिषेधे परं कार्यम्’ इति परत्वाद्र्पकसमासप्रवृत्तिः रूपकस्य साधनं प्रमाणम् । अत एवात्र यदन्यैः ‘अबाधेन गतौ संभवन्त्यां बाधगातरप्रामाणिका’ इति न्यायाल्लक्षणात्मकरूपकसमासबाधकतयाश्रयात्मन उपमासमासस्य प्रवृत्तिरित्युपमायाः साधकप्रमाण-सद्भावोऽस्तीत्युक्तम् । तदयुक्तम् । भवन्मते च समासां प्रायशो लक्षणपरत्वादुपमासमासस्यापि लक्षणात्मकत्वमित्यबाधेन गतेरसंभवादुपमाया अपि नास्ति बाधकप्रमाणसद्भावः । अथोपमायां लक्षणा रूपके तु लक्षितलक्षणेति न द्वयोः पक्षयोस्तुल्यत्वमिति चेत्, नैतत् । एवमप्यबाधेन गतेरसंभवस्य तादवस्थ्यात् । अयं हि बाधगतेरेव प्रतीयते तत्र तत्समास एवं कार्य इत्याह—यत्र त्वित्यादि । एतदेव दर्शयति—तत्रेत्यादिना । न बाधकमिति । न पुनः साधकमपीत्यर्थः। बाधकत्वाभावमात्रेण साधकत्वानुपपत्तेः । तथात्वे ह्यत्रापि संदेहसंकरः स्यादिति भावः । यथा वेति । पूर्वत्र संकरेऽप्युपचरितस्यामृतमयत्वस्य संभवात्संदेहभ्रमः कस्यचित्स्यादित्यस्योदाहरणस्य पुनरुपादानम् ।

अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहेण साधकं प्रमाणम् । बाधकं यथा—

‘शरदीव प्रसर्पन्त्यां तस्य कोदण्डटांकृतौ ।
विनिद्रजृम्भितहरिर्विन्ध्योदधिरजायत ॥

अत्र विन्ध्य उदधिरिवेत्युपमापरिग्रहे विनिद्रजृम्भितहरिरिति साधारणं विशेषणं बाधकं प्रमाणम् । ‘उपमितं व्याघ्रादिभिः सह सामान्याप्रयोगे’ इति वचनात् । उपमासमासे प्रतिकूलत्वात् । अतश्च पारिशेष्यापरिग्रहः । न तु शरदीवेत्युपमात्रोपमासाधकत्वेन विज्ञेया । न ह्याशेषेन पञ्चाशत्सिद्धिः । न ह्येकेनालंकारेणापक्रान्तेन निर्वाहः कर्तव्य इति राजाज्ञैषा । नापि धर्मसूत्रकारवचनम् । नाप्येष न्यायः । उत्तरोत्तरसाम्यप्रकर्षविवक्षणे प्रक्रान्तोपमापरित्यागेन रूपकनिर्वाहस्योचितत्वात् । विपर्ययस्तु दुष्ट एव । यथा—‘येनेन्दुर्दहनं विषं मलयजं हारः कुठारायते । तस्मात्प्रकृते सामान्यप्रयोगे उपमापरिग्रहे बाधक इति मयूरव्यंसकेनाकृतिगणत्वा-द्रूपकसमाश्रयेण रूपकमेव बोद्धव्यम् । एवं ‘भाष्याब्धिः क्वातिगम्भीरः’ इत्यादौ द्रष्टव्यम् । साधकबाधकाभावे तु संदेहसंकरः । यथोदाहृतम् ।

तृतीयस्तु प्रकार एकवाचकानुप्रवेशलक्षणः । यत्रैकस्मिन्वाचकेऽनेकालंकारानुप्रवेशः, न च संदेहः । यथा—

_________________

साधारणमिति । सामान्यप्रयोगे हि विन्ध्य उदधिरेवेत्यसमास एव स्यात् । यथा— पुरुषोऽयं व्याघ्र इव शूर इति । अतश्चेति । उपमाया बाधकप्रमाणसंभवादप्रवृत्तेः । पारिशेप्यादिति । न पुनः साधकप्रमाणसंभवादित्यर्थः । उचितत्वादिति । रूपक निर्वाहेण सास्याधिक्येन प्रवृत्तिः। विपर्यय इति । रूपकोपक्रमेणोपमानिर्वाहो दुष्ट इति साम्यलाघवेन प्रतीतेः। ‘स्वेच्छाचारिणि यत्पुरा प्रियसखीवाचस्त्वया नाहता यत्कल्याणपराङ्मुखि प्रियतमः पादानतो नेक्षितः । तस्येदं हरिणाक्षि दुर्नयतरोरद्यापि बालं फलम् ॥’ इति चास्य पादत्रयी । एवं चाधिकप्रकर्षालंकारोपक्रमेण तत्प्रकर्षालंकारैर्निर्वाहो न कार्य इत्यप्यनेन सर्वालंकारशेषत्वेनोक्तम् । प्रकृत इति । शरदीवेत्यादौ । द्रष्टव्यमिति । उपमाया बाधकत्वं प्रति गम्भीरत्वस्य सामान्यस्य हि प्रयोगे उपमासमासे बाधक इति रूपकपरिग्रह एव युक्तः । उदाहृतमिति । ‘यः कौमारहरः’ इत्यादिना । न च संदेह इति । संदेहसत्कारे यद्यप्येकवाचकत्वमस्ति, तथापि तत्र संदिह्यमानत्वेन चमत्कारोऽस्तीति ततोऽस्य वैलक्षण्यम् ।

‘मुरारिनिर्गता नूनं नरके परिपन्थिनी ।
तवापि मूर्ध्नि गङ्गेव चक्रधारा पतिष्यति ॥’

अत्र मुरारिनिर्गतेति साधारणविशेषणहेतुका उपमा, नरकपरिपन्थिनीति श्लिष्टविशेषणसमु-त्थश्चोपमाप्रतिभोत्पत्तिहेतुः श्लेषश्चैकस्मिन्निवशब्दे प्रविष्टौ, तस्योभयोपकारित्वात् । अत्र यथार्थश्लेषेण सहोपमायाः संकरस्तथा शब्दश्लेषेणापि सह दृश्यते यथा—

‘सत्पूरुषद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाद्ये ।
उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते ॥’

अत्र पयसीव नाट्यगृहे रमन्ते इत्येतावतैव समुचितोपमा निष्पन्ना । सत्पूरुषद्योतितरङ्ग इति शब्दश्लेषेण सहैकस्मिन्नेव शब्दे शब्दालंकारयोः पुनरेकवाचकानुप्रवेशेन संकरः पूर्वमुदाहृतः । ‘राजति तटीयम्’ इत्यादिना । एकवाचकानुप्रवेशेनैव चात्र संकीर्णत्वम् ।

_________________

इह ह्येकानुप्रविष्टयोरलंकारयोर्निश्चितत्वेन निबन्धनम् । एकवाचकानुप्रविष्टत्वेन चालंकारयोः संसृष्टत्वेन चारुतातिशयोपजन इति नैवैकहेतुकत्वेन संकरोपमतयोरिवेत्युक्त्या नास्याभावो वाच्यः । न हि यमकयोः संसृष्टत्वेनैवावभासोऽस्तीति यथोक्तमेव युक्तम् । अर्थश्लेषेणेति । नरकशब्दस्य दानवनिरयार्थकत्वात् । द्योतितरङ्गेति शब्दस्य सभङ्गत्वाच्छन्दश्लेषः । न चास्योदाहरणद्वयमेतद्युक्तम् । उपमाप्रतिभोत्पत्तिहेतुकस्य श्लेषस्यैवात्रालंकारत्वात् । उपमा हि श्लेषस्य हेतुत्वेनैव गता । तां विना तस्या अनुत्थानात् । अतश्च श्लेष एवात्र प्राधान्येनालंकारः । एवं न संकरः, एकस्यैवात्रालंकारस्य स्थितेः । तस्य च द्विप्रभृतीनां संसृष्टतायामुक्तत्वात् । उदाहरणान्तरं यथा—‘अङ्के न्यस्योत्तमाङ्गं प्लवगवलपतेः पादमक्षस्य हर्तुः कृत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गमाधाय शेषम् । बाणं रक्षःकुलघ्नं प्रगुणितमनुजेनादरात्तीक्ष्णमक्ष्णःकोणेनैवेक्षमाणस्त्वदनुजवदने दत्तकर्णोऽयमास्ते ॥’ अत्रेदृगीश्वराणां स्वभाव इति स्वभावोक्तिः, दाशरथेश्च प्रत्यक्षायमाणवमिति भाविकमित्येकस्मिन्नेव वाचकेऽलंकारद्वय-मनुप्रविष्टमित्ययं संकरः । अत्र च भाविकस्वभावोक्त्योरुपकार्योपकारकभावेनाङ्गाङ्गित्वेऽप्येकवाच-कानुप्रवेशकृतो वैचित्र्यातिशयः प्रधानतया प्रतीयत इत्येतदुदाहरणत्वम् । अङ्गाङ्गिभावश्च भिन्नवाचका-लंकारगतत्वेन लब्धावकाशोऽस्ति । अतो ‘राजति तटीयम्’ इत्यादावेकवाचकानुप्रवेशोऽपि निरवकाश इति

अत एव व्यवस्थितत्वमन्यानुभाषितमप्रयोजनकम् । तुल्यजातीययोरप्यलंकारयोरेकवाचका-नुप्रवेशे संभवात् ।शब्दार्थवर्त्यलंकारसंकरस्तु भट्टोद्भटप्रकाशितः संसृष्टावन्तर्भावित इति त्रिप्रकार एवं संकर इह प्रदर्शितः । इदानीमुपसंहारसूत्रम्—

एवमेते शब्दार्थोभयालंकाराः संक्षेपतः सूत्रिताः ।

एवमिति पूर्वोक्तप्रकारपरामर्शः । एते इति प्रक्रान्तस्वरूपनिर्देशाः । सूत्रिता अलंकारसूत्रैः सूचिताः संक्षेपतः प्रकाशिताः ।

तत्र शब्दालंकारा यमकादयः । अर्थालंकारा उपमादयः । उभयालंकारा लाटानुप्रासादयः । संसृष्टिसंकरप्रकारयोरपि कयोश्चित्तद्रूपत्वात् ।

______________

ततोऽस्य पृथग्भावः । अत एवेति । शब्दालंकारयोरेकवाचकानुप्रवेशात् । **अन्येति ।**अन्यैः काव्यप्रकाशकारादिभिः । यदुक्तम्— स्फुटमेकत्र विषयं शब्दार्थालंकृतिद्वयम् । व्यवस्थितं च’ इति । अप्रयोजनकमिति । तथानुभाषणं पुनर्न कश्चिद्दोष इति भावः । मुरारिनिर्गतेत्यादौ ह्यर्थालंकारत्वात्स-जातीययोरुपमाश्लेषयोः पूर्वोक्तनीत्या भिन्नविषयत्वेनास्यैकवाचकानुप्रवेशोऽस्तीत्यर्थः । एवं शब्दाश्रय-त्वादर्थाश्रयत्वाच्च तुल्यजातीयानामलंकाराणामङ्गाङ्गिभावादिना संकर उक्तः । शब्दार्थवर्तिनाम-लंकाराणां पुनः संसर्गेणायमलंकार इत्याह—शब्दार्थोत्यादि । न केवलं काव्यप्रकाशकारेण शब्दार्थवर्तिनोरलंकारयोः संकर उक्तो यावदनेनापीति भावः । तदुक्तम्— ‘शब्दार्थवत्यलंकारवाक्य एकत्र भासिनः । संकरः ।’ इति । संसृष्टाविति । अनयोर्ह्याश्रयभेदात्तिलतण्डुलन्यायेन स्पष्ट एव भेदावगम इत्यत्रैवान्तर्भावो युक्तः । त्रिप्रकार इति । अङ्गाङ्गिभावसंशयैकवाचकानुप्रवेशेन । यदुक्तम्— ‘तेनासौ त्रिरूपः परिकीर्तितः’ इति । एवं संदेहसंकरस्यानुपपत्तावपि चिरंतनोक्तत्वादेवास्य ग्रन्थकृता त्रिप्रकारत्वमेवोक्तम् ॥ अधुनैतेषामलंकाराणामुपसंहारं कर्तुमुपक्रमते—इदानीमित्यादिना । प्राप्तावसरेति । यथातत्त्वं सर्वेषामलंकाराणां निर्णीतत्वात् । तदेवाह— एवमित्यादि । एतदेव व्याचष्टे—एवमित्यादिना । संक्षेपेणेति । ग्रन्थस्य । न पुनरर्थस्य । तस्य हि तथात्वकथने तेषां स्वरूपमेव कथितं न स्यात् । एवं ग्रन्थसंक्षेपेणापि सर्वेषामलंकाराणां विस्तरत एव यथासंभव स्वरूपमुक्तमिति प्राच्यालंकारग्रन्थेभ्योऽस्य वैलक्षण्यमपि ध्वनितम् । तत्र ग्रन्थविस्तरेणाप्येतत्स्वरूपस्यानभिधानात्। अत एव अन्यकारेण प्रयोजनमपि द्योतितम् । के ते शब्दार्थाभयालंकारा इत्याशङ्क्याह—तत्रेत्यादि । आदिग्रहणादनुप्रासानन्वयश्लेषादीनां ग्रहणम् । ननु च लाटानुप्रासश्लेषयोरेवोभयालंकारत्वे पूर्वमुक्त्वा उभयालंकारा इति बहुवचननिर्देशः कथं संगच्छते इत्याशङ्क्याह—संसृष्टीत्यादि । तत्र संसृष्टेरुभयालंकारत्वं यथा— ‘आनन्दमन्थर’

लोकवदाश्रयाश्रयिभावश्च तत्तदलंकारनिबन्धनम् । अन्वयव्यतिरेकौ तु तत्कार्यत्वे प्रयोजकौ । न तदलंकारत्वे । तदलंकारप्रयोजकत्वे तु श्रौतोपमादेरपि शब्दालंकारत्वप्रसङ्गात् । तस्मादाश्रयाश्रयिभावेनैव चिरंतनमतानुसृतिरिति भद्रम् ॥

संपूर्णमिदमलंकारसर्वस्वम् । कृतिस्तत्रभवद्राजानकरुय्य(च)कस्य ।

_______________

इत्यादि । संकरस्य यथा— ‘मैवमेवास्वसच्छायकर्णिकाचारुवर्णिता । अम्भोजिनीव चित्रस्था नेत्रमात्रसुखप्रदा ॥’ अत्र शब्दार्थालंकारसंसर्गादुभयालंकारत्वम् । संकरस्य चैतदुभयालंकारत्व-मौद्भटमत एवावसेयम् । ग्रन्थकृता ह्यस्य समनन्तरमेय संसृष्टावन्तर्भाव उक्तः । अतश्च ग्रन्थकृन्मते लाटानुप्राससंसृष्टिः । श्लेषाणामेवोभयालंकारत्वम् । ननु तुल्यत्वेऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलंकारः शब्दस्य कश्चिदर्थस्य कश्चिदुभयस्येति कुतः पुनरयं प्रतिनियम इत्याशङ्क्याह—लोकवदित्यादि । लोके हि योऽलंकारो यदाश्रितः स तदलंकारतयोच्यते, यथा कुण्डलादिः कर्णाद्याश्रितस्तदलंकारः । एवमिहापि शब्दाद्याश्रितस्तदलंकार इति सिद्ध एव विषयविभागरूपः प्रतिनियमः । यत्त्वन्यैरन्वयव्यतिरेकौ तदलंकारनिबन्धनत्वेनोक्तौ तदयुक्तमेवेत्याह— अन्वयेत्यादि । एवं हि श्रौतोपमायामिवादिशब्दान्वयव्यतिरेकानुवर्तनात्तत्कार्यमेव न पुनस्तदलंकारत्वम् । तस्याविशेषात् । अर्थस्य पुनरलंकृतत्वात्तदलंकारत्वमेव युक्तमिति तात्पर्यार्थः । एतच्चोद्भटविवेके राजान[क]तिलकेन सप्रपञ्चमुक्तमिति ग्रन्थविस्तरभयान्नेहास्मामिः प्रञ्चितम् । एतदेवोपसंहरति—तस्मादित्यादिआश्रयाश्रयिभावेनेति । उपस्कार्योपस्कारकभावेनेत्यर्थः । तेन योऽलंकारो यदुपस्कारः स तदलंकार इति पिण्डार्थः। **चिरंतनेति ।**अनेनास्माभिः सर्वत्रैव तन्मतानुसृतिरेव कृतेत्यात्मविषयमनौद्धत्यमपि ग्रन्थकृता प्रकाशितमिति शिवम् ॥

राजराज इति भूभुजामभूदग्रणीर्गुणिगणाश्रयः परम् ।
तां सतीसरसि राजहंसतामातनोत्किल धनागमेऽपि यः ॥

शक्राधिकश्रियस्तस्य श्रीशृङ्गार इति श्रुतः ।
गुणातिक्रान्तधिषणो मन्त्रिणामग्रणीरभूत् ॥

तदात्मजन्मा वैदग्ध्यबन्धुर्जयरथाभिधः ।
व्यधादिदमसामान्यं श्रवणाभरणं सताम् ॥

यन्नाम किंचिदिह सम्यगथान्यथा वा साक्षादलंकृतिनयोचितमेतदुक्तम् ।
विद्वषेरोषमपसार्य बुधैः क्षणस्य तत्रावधेयमियतैव वयं कृतार्थाः ॥

इति श्रीजयरथविरचितालंकारविर्माशनी संपूर्णा ॥

______________

अलंकारसर्वस्वस्य श्लोकानुक्रमणिका ।
<MISSING_FIG href="../books_images/U-IMG-1707470565d.PNG"/>

[TABLE]

[TABLE]

[TABLE]

[TABLE]

]


  1. “१. ख· पुस्तके टीकायां प्रारम्भात्प्रभृति आस्तामित्यन्तो ग्रन्थो नास्ति " ↩︎

  2. “२. ‘प्रवरोत्साह’ ख.” ↩︎ ↩︎

  3. “३. ‘श्रोतृप्रवृत्तिः’ ख.” ↩︎

  4. “१. ‘युक्त्या’” ↩︎

  5. “क. २. ‘ननु च’ ख. " ↩︎

  6. “३. ‘तदवतारणिकां’ क.” ↩︎

  7. “४. ‘वाच्यसंस्कारकत्वेन’ ख.” ↩︎

  8. “१. ‘किं भणामो भण्यते किमिति अथ किं वा अनेन भणितेन । भणिष्यसे तथापि अथवा भणामि किं वा न भणितोऽसि ॥’ इति च्छाया” ↩︎

  9. “२. ‘विधिरूप’ ख.” ↩︎

  10. “३. ‘तदयुक्तमेव । अत्र सभ्यङ्किषेधः न निषेधाभासः’ ख.” ↩︎

  11. “४. ‘अधुना प्रभवः प्रभवः प्रभुत्वं किं चिरंतनप्रभूणाम् । गुणदोषा दोषगुणा एभिः कृता न खलु कृता तैः ॥’ इति च्छाया” ↩︎

  12. “१. मल्लिका दीपाधारदण्ड” ↩︎

  13. “२ ‘प्राकृतबन्धं पठितुं बद्धुं तथा च कुब्जकुसुमानि । प्रौढमहिलां च रन्तुं विरला एव केऽपि जानन्ति ॥’ इति च्छाया.” ↩︎

  14. “३. ‘महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती । दिवसमनन्यकर्मा अङ्गं तनुकमपि तनूकरोति ॥’ इति च्छाया.” ↩︎

  15. “१. ‘विभावादीनां पर्ययेन तत्संवलितत्वेन’ ख. " ↩︎

  16. " ‘दायकः’ क.” ↩︎

  17. “३. ‘राघवस्य’ ख.” ↩︎

  18. " २. ‘गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि । निरहंकारभृगाङ्का हरन्ति नीलाश्च निशाः ॥ इति च्छाया.” ↩︎

  19. “१. ‘आदृत्य’ ख. " ↩︎

  20. " ३. ख- पुस्तके ‘तेन ब्रूमः सहृदयमनः- प्रीतये तत्स्वरूपम्’ इति तुरीयपादोऽपि गृहीतः " ↩︎

  21. “४. ‘समयादर्थावगमन’ ख.” ↩︎

  22. “५. ‘गतिः’” ↩︎

  23. “६. ‘पादन’ क.” ↩︎

  24. “१. ‘प्रतीतमेवेत्येका’ क.” ↩︎

  25. " २. ’ स च गङ्गाशब्दार्थादधिकरण’ ख. " ↩︎

  26. “३. ‘शाब्देऽर्थे’ क.” ↩︎

  27. “१. ‘कृतं’ क.” ↩︎

  28. “१. ‘काव्यं काव्यमेव न भवतीति तात्पर्यम्’ क.” ↩︎

  29. “१. ‘तद्भावे चास्य चासंभवात्’ क.” ↩︎

  30. " १. ‘निषेधेनैव वा विधिर्यः’ ख.” ↩︎

  31. “१. ‘अलसशिरोमणिधूंर्तानामग्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता ॥’ इति च्छाया” ↩︎

  32. “२. ‘पथिक नात्र स्त्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे । उद्गतपयोधरं प्रेक्ष्य यदि वससि तद्वस ॥’ इति च्छाया.” ↩︎

  33. “३. ‘तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥’ इति च्छाया.” ↩︎

  34. " ४. ‘जनहृदयविदारणके धारासलिललुलिते न रमति तथा । तव दृष्टिश्चिकुरभरे प्रियाणां यथा वैरिखने ॥ इति च्छाया.” ↩︎

  35. “१. ‘लक्ष्यमाण’ क. " ↩︎

  36. “२. ‘प्ररूढदोषः ’ ख.” ↩︎

  37. “१. ‘उक्तं पश्यामः’ क.” ↩︎

  38. “२. ‘मतोल्लङ्गनेनैव’ क.” ↩︎

  39. “१. ‘पर्यवसानान्यथात्व’ ख.” ↩︎

  40. " २. ‘अथ’ ख.” ↩︎

  41. “१. ‘दृष्टं’ ख. " ↩︎

  42. “२. ‘विरुद्धार्थत्वस्य शब्द’ ख.” ↩︎

  43. “१. ‘तथात्वोपपत्तेः.’ ख.” ↩︎

  44. “१. ‘संकम्मा’ क. " ↩︎

  45. “२. ‘तत्र’ ख. " ↩︎

  46. “३. ‘पारिशेषात्’ क.” ↩︎

  47. “४. ‘अनेकधेति’ क.” ↩︎

  48. “५. ‘खूवानी’ इति नाम्ना कश्मीरादिषु प्रसिद्धैः फलविशेषैः.” ↩︎ ↩︎

  49. “१. ‘वल्गन्ती’ ख.” ↩︎

  50. “२. ‘ह्येताः’ ख.” ↩︎

  51. " १. ‘पूर्व’ ख.” ↩︎

  52. “१. ‘श्रुतरसिक तरसिकलितं तरुकलिततरुजालहरिणतमः’ ख.” ↩︎

  53. " २. ‘भासमानं’ ख.” ↩︎

  54. “१. ‘न शब्दार्थस्वरूपम्’ इति टीकासंमतः पाठो भाति. " ↩︎

  55. “२. क-पुस्तके ‘काशाः काशा इवेत्यादौ ’ एतावदेवास्ति.” ↩︎

  56. “१. ‘प्रयोक्तमेव ज्यायः’ ख.” ↩︎

  57. “1. ‘निर्विवादं व्याख्यातम्’ ख.” ↩︎

  58. “१. ‘धर्मस्योपमानैक्यतां’ क.” ↩︎

  59. “१. ‘लुप्ताद्वयभेदात्’ क.” ↩︎

  60. “२. ‘अत्रासाधारण ’ ख.”

                  *            
    
     ↩︎
  61. “१. ‘धर्मत्वेऽपि ’ ख.” ↩︎

  62. “२. ‘न सदृशत्वं’ क. " ↩︎

  63. “३. ‘श्वैत्य’ ख.” ↩︎

  64. “१. ‘तारतम्यम्’ क. " ↩︎

  65. “२. ‘यदन्यैराश्रित्योक्तं’ क.” ↩︎

  66. “१. ‘पर्यवसानम्’ क.” ↩︎

  67. “२. ‘विवक्षैत्येकत्वं’ ख.” ↩︎

  68. “३. ‘इति’ क.” ↩︎

  69. “१. ‘एव चात्र’ ख. " ↩︎

  70. “2. ‘साधारणधर्मत्वमुक्तम्’ क. " ↩︎

  71. “३. ‘समुचिता’ ख.” ↩︎

  72. “४. ‘क्रमेण’ ख-पुस्तके नास्ति .” ↩︎

  73. “५. ‘अप्रकृता यथा’ ख-पुस्तके नास्ति. " ↩︎

  74. “६. ‘तं नमत नाभिनलिनं हरेर्गगनाङ्गनाभिरामस्य । षट्पदाच्छादितगात्रो मल इव चन्द्रे यत्र विधिः ॥’ इति च्छाया.” ↩︎

  75. “१. ‘मैवम्’ ख- पुस्तके नास्ति.” ↩︎

  76. “२. ‘प्रसङ्गात् ’ ख.” ↩︎

  77. “१. ‘एकस्यैव’ ख- पुस्तके नास्ति” ↩︎

  78. “२. ‘एतावन्मात्रे जगति सुन्दरमहिलासहस्रभरिते । अनुहरति केवलं तस्यां वामार्धे दक्षिणार्धस्य ॥” इति च्छाया.” ↩︎

  79. " ३. ‘उपमाननिषेध’ ख.” ↩︎

  80. “४. ‘कथं’ ख.” ↩︎

  81. “५. ‘अपास्य तेनैवानन्वय इति सूत्रणीयम्’ क.” ↩︎

  82. " ६. ‘स्यन्दनोत्कीर्णैः ’ क.” ↩︎

  83. “१. “यदभिहितं बौद्धैः—‘सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः’ इति । वस्त्वन्तरं”

                       *       
    
     ↩︎
  84. “१. ‘स्मृतिगामिनी’ ख.” ↩︎

  85. “१. ‘यथा’ क-पुस्तके नास्ति.” ↩︎

  86. “१. काश्मीरिकमहाकविजह्लणप्रणीतसोमपालविलासकाव्यटीकायाम्.” ↩︎

  87. “१. ‘प्रभवसंचय’ क.” ↩︎

  88. “१. ‘विघटदोष्ठदलपुटं स्फुरद्दन्ताकारबहलकेसरप्रकरम् चन्द्रालोके। ………….. हसितं कुमुदेन सुरभिगन्धोद्गारम् ॥’ इति च्छाया.” ↩︎

  89. “१. ‘धत्सेः’ ख.” ↩︎

  90. “२. ‘हान्या यथा’ ख- पुस्तके नास्ति.” ↩︎

  91. " ३. ‘अप्रतीतत्वेऽपि’ ख.” ↩︎

  92. “४. ‘पूर्वोक्तमेवोक्तम्’ क.” ↩︎

  93. “१. ‘रूपकमित्यनुचिन्त्यं चैतत्’ क.” ↩︎

  94. “१. ‘मन्दरमेघक्षोभितशशिकलहंसपरिमुक्तसलिलोत्सङ्गम् । मरकतशेवालोपरिनिषण्णतूष्णीकमीनचक्रवाकयुगम् ॥’ इति च्छाया.” ↩︎

  95. “२. ‘प्रकृतोपयोगित्वे च ’ क.” ↩︎

  96. “३. ‘ततश्च’ ख.” ↩︎

  97. “४. ‘परिणामः कस्मान्न भवतीत्याशङ्क्याह—आगमेत्यादि । यद्येवं तर्हि सांख्यीयपरिणामलक्षणम्’ क.” ↩︎

  98. “१. ‘यत्र’ ख.” ↩︎

  99. " २. ‘तिरः’ क.” ↩︎

  100. " ३. ‘इह’ ख. " ↩︎

  101. “४. ‘भिन्नविषयत्वेन’ क.” ↩︎

  102. “१. ‘रागादेः’ ख.” ↩︎

  103. “२. ‘श्रयणेन’ क.” ↩︎

  104. “३. ‘तस्य’ ख.”

                        *      
    
     ↩︎ ↩︎
  105. “१. ‘करणादि’ क.” ↩︎

  106. “२. ‘अत्रैव चेवादिशब्दस्य संभावना’ क.” ↩︎

  107. “३. ‘इदं’ क.” ↩︎

  108. “४. ‘भ्रन्तिमच्छब्दः’ क.” ↩︎

  109. “१. ‘व्युत्पत्त्या’ क.”

        *          *
    
     ↩︎
  110. “१. ‘भगवतोः’ ख.” ↩︎

  111. “२. ‘नेत्राञ्जन’ क.” ↩︎

  112. “३. ‘संस्कारप्ररोहमुपगतः’ क.” ↩︎

  113. " ४. ‘संस्कारः’ क.” ↩︎

  114. “१. ‘चक्षुषा’ ख.” ↩︎

  115. “२. ‘प्रतिभैव’ ख.” ↩︎

  116. “१. ‘प्रोञ्छिताः कर्णाभरणेन्द्रनीलकिरणाहताः शशिमयूखाः । मानिनीवदने सकजलाशङ्कया ॥’ या दयितेन ॥” इति च्छाया.” ↩︎

  117. “२. ‘निमित्तकत्वमेव चास्य’ ख.” ↩︎

  118. “३. ‘गर्भ एव सादृश्येऽपि नायमेवालंकारः’ क.” ↩︎

  119. “४. ‘अशेषेणैव’ क.” ↩︎

  120. “१. ‘योगत्वात्’ क.” ↩︎ ↩︎

  121. “२. ‘प्रजीविकाः’ क.” ↩︎

  122. “१. ‘आखण्डयेन’ क.” ↩︎

  123. “२. काश्मीरिकश्रीमदुत्पलाचार्यप्रणीतायामीश्वरप्रत्यभिज्ञायाम्” ↩︎

  124. “३. ‘अन्यत्रापि’ ख.” ↩︎

  125. “४. ‘वैचित्र्यस्य’” ↩︎

  126. " १. ‘कर्तुम्’ क. " ↩︎

  127. “२. ‘नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः । बालाभिः पुनः कौतूहलेन एवमेव सत्यापितः ॥’ इति च्छाया.”

     *              *
    
     ↩︎
  128. “१. ‘यद्यत्र रूपकप्रयोगो नास्ति तदलंकारप्रयोगे न संभवतीत्याह’ क. " ↩︎

  129. “२. ‘विषयभावगम्यविच्छित्त्यन्तरत्वमेव’ क.” ↩︎

  130. " ३. ‘तत्तदीयशङ्का’ ख.” ↩︎

  131. “१. ‘श्लेषोऽत्र……. स्यात्’ क.” ↩︎

  132. “२. ‘यद्येवं’ क.” ↩︎

  133. “३. ‘असद्भावः’ क.”

                      *        
    
     ↩︎
  134. “१. ‘जनाः ’ क-ख.” ↩︎

  135. “‘विषयापहवे’ क.” ↩︎

  136. “२. ‘प्रक्रान्तानपह्नव’ क.”

                      *        
    *
    
     ↩︎
  137. “१. ‘नयविदः’ ख.” ↩︎

  138. “२. ‘देव’ ख.” ↩︎

  139. “३. ‘अप्रतीतेः’ ख.” ↩︎

  140. “४ः ‘तह्येर्वं यदि’ ख.” ↩︎

  141. “५. ‘पुत्रपौत्रकम्’ ख.” ↩︎

  142. “६. ‘ब्रह्मस्वं विषं’ ख.” ↩︎

  143. " १. ‘पक्षतया’ ख. " ↩︎

  144. “अतिशयोक्तिं क.” ↩︎

  145. “१. ‘सामानाधिकरणयोः ’ ख.” ↩︎

  146. “२. ‘प्रतीतेः ’ ख.” ↩︎

  147. “३. ‘मुखादिभिः’ ख.” ↩︎

  148. “४. ‘प्रत्ययस्याभावार्थे नापि निदर्शना’ क.” ↩︎

  149. “५. ‘प्रवाहः’ क. " ↩︎

  150. “६. ‘सारम्’ क. " ↩︎

  151. “७. ‘तदेवं’ ख.” ↩︎

  152. “१. ‘तत्तत्’ क.” ↩︎

  153. " २. ‘संदेह इति’ ख.” ↩︎

  154. “३. ‘भेदेन’ क.” ↩︎

  155. “४. ‘अनवधारणताविशेषात्’” ↩︎

  156. " ५. ‘विशेषात्संशयप्रकारस्तर्क इति’ ख. " ↩︎

  157. “६. ‘नास्तीति किं’ क.” ↩︎

  158. “७. ‘स्मरणं प्रथममवतरन्ति’ ख. " ↩︎

  159. “८. ‘विशेषास्मरण’ ख.” ↩︎

  160. “‘तत्राध्यवसाये’ ख”

                        *      
    
     ↩︎
  161. “१. ‘द्विविधस्त्वध्यव’ क.” ↩︎

  162. " २. ‘विकल्पबलात्’ ख.” ↩︎

  163. " ३. ‘मूलत्वम्’ क.” ↩︎

  164. “४. ‘साध्याध्यवसाय’ क.” ↩︎

  165. “१. ‘विषयिणि सत्यतया’ ख. " ↩︎

  166. “२. ‘विषयगतस्य’ क. " ↩︎

  167. “३. ‘प्रतीतः’ क.” ↩︎

  168. “४. ‘तत्र पर’ ख. " ↩︎

  169. “५. ‘अपरमार्थ’ ख.” ↩︎

  170. “६. ‘यस्य सत्यत्वं’ ख. " ↩︎

  171. “७. ‘सत्यतया’ ख.”

                        *      
    *
    
     ↩︎
  172. " १. ‘असंभाव्यमानस्य’ ख. " ↩︎

  173. “२. ‘विषयस्येति विषयिणः’ ख.” ↩︎

  174. “१. ‘अध्यवसायत्वेन’ ख. " ↩︎

  175. “२ ‘भेदयोरपि ख. " ↩︎

  176. “३. ‘एव तावन्तो’ क-ख.” ↩︎

  177. “१. ‘भवति’ क.” ↩︎

  178. “२. ‘वेलायां’ ख.” ↩︎

  179. “३. ‘उत्तरे त्वर्धे’ क.” ↩︎

  180. “१. ‘मन्तर्नयनो’ ख. " ↩︎

  181. “२. ‘अभ्यूयम्’ क. " ↩︎

  182. “३. ‘उक्ते’ ख.”

                     *         
    
     ↩︎
  183. “१. ‘अत्र द्रव्यस्य’ ख.” ↩︎

  184. “२. ‘भस्म’ क.” ↩︎

  185. “१. ‘गम्यमानात्’ क.” ↩︎

  186. " २. ‘लोक्यमानास्ता’ ख.” ↩︎

  187. “३. ‘भूतगतत्वेन’ क-ख.”

                         *     
    
     ↩︎
  188. “१. ‘तत्क्षणात्’ ख.” ↩︎

  189. “२. ‘मानम्लानिं’ ख.” ↩︎

  190. “१. ‘अध्यवसितस्य’ ख. " ↩︎

  191. “२. ‘विरुद्धत्वं’ ख.” ↩︎

  192. “१. ‘तञ्चालंकारान्तराणां’ ख.” ↩︎

  193. “१. ‘व्ययस्य’ क.” ↩︎

  194. “२. ‘स्वविषय’ क.” ↩︎

  195. “३. ‘मुनिः’ ख.” ↩︎

  196. “१. ‘पतता’ क.” ↩︎

  197. " ‘एष्वैव’ ख.” ↩︎

  198. “३. ‘अतश्चात्र’ ख.” ↩︎

  199. “४. ‘अत्र च’ ख.”

                     *         
    
     ↩︎
  200. “१. ‘संजात’ क-ख. ‘सज्ज–आतपत्र’ इति दिनपक्षे छेदः; ‘सत्-जात-पत्र’ इति च पद्मपक्षे " ↩︎ ↩︎

  201. “२. ‘प्रक्रान्तत्वम्’ क.”

                       *       
    
     ↩︎
  202. " १. ‘ग्रन्थदूषणोदीरणेन’ क. " ↩︎

  203. “२. ‘निगीर्णत्वात्’ क. " ↩︎

  204. “३. ‘बहूनामेव’ ख.” ↩︎

  205. “१. ‘अप्राकरणिकत्वं’ क.” ↩︎

  206. " २. ‘मार्दवं’ क.” ↩︎

  207. “३. ‘अत्र कठोरत्वं’ ख.” ↩︎

  208. “‘दीपकालंकारोद्दीपकः ’ ख.” ↩︎

  209. “‘राजते मिहिरेण नभो रसेन काव्यं स्मरेण यौवनम् । अमृतेन………त्वया च नाथ भुवनमिदम् ॥’ इति च्छाया.” ↩︎

  210. " ‘अजीघवलो’ ख.” ↩︎

  211. “‘तु नान्येन’ क.” ↩︎

  212. “‘एकक्रियेत्यनेनैक’ ख” ↩︎

  213. “१. ‘कृपणानां धनं नागानां फणमणयः केसराणि सिंहानाम् । कुलबालिकानां स्तनाःकुतः स्पृश्यन्तेऽमृतानाम् ॥’ इति च्छाया.” ↩︎

  214. " १. ‘कीर्ति निधापयितुमर्थयितुं’ ख.” ↩︎

  215. “२. ‘वल्गति’ ख. " ↩︎

  216. “३. ‘फणरत्नराजिताङ्गो भुजंगनाथो धरां समुद्वहति । नखदर्पणोपशोभितशिखश्च तव नाथ भुजदण्डः ॥’ इति च्छाया.” ↩︎

  217. “१. ‘पान’ ख.”

                        *      
    
     ↩︎
  218. “१. ‘साम्यस्य’ ख.” ↩︎

  219. “२. ‘विशेषानभिधित्सया’ ख.” ↩︎

  220. “१. ‘उपमान’ क.” ↩︎

  221. “२.‘कर्मणि’ क.” ↩︎

  222. “१. ‘प्रतिपत्तेः’ क.” ↩︎

  223. “२.‘प्रतिपत्त्योः’ क.” ↩︎

  224. “१. ‘चमत्कार’ क.” ↩︎

  225. “२. ‘करणादपि’ ख.” ↩︎

  226. “१. ‘सूक्ष्मम्’ ख.”

                         *     
    *
    
     ↩︎ ↩︎
  227. “१. ‘सामान्येनोपमानवृत्तस्योपमेयेऽसंभवात् ख.” ↩︎

  228. “२. ‘संबन्धन’ क.” ↩︎

  229. “३. ‘अदृश्यत’ ख.” ↩︎

  230. “४. ‘असंभवात्’ ख.” ↩︎

  231. “१. ‘असामान्य’ ख. " ↩︎

  232. “२. ‘अन्यत्राप्युक्तम्’ ख.” ↩︎

  233. “३. ‘गतिः’ ख. " ↩︎

  234. “४. ‘पापोत्यापीयः’ ख. " ↩︎

  235. “५. ‘उपचारात्’ क. " ↩︎

  236. “६. ‘निर्मूलनेन’ ख.” ↩︎

  237. “१. इयं प्राकृतच्छाया क-पुस्तके वर्तते, प्राकृतं तु नास्ति. ख- पुस्तके तु ‘मुंडभिदिवोरफलवरोकरीवलो अर्थिरंधरिसि । विगुश्चावसि अप्पाणालिआ छेआ छलिंगाति ॥’ इत्यत्यशुद्धं प्राकृतमस्ति " ↩︎

  238. “२. ‘यत्कोपे’ ख.” ↩︎

  239. " ३. ‘असंभवत्संभवनिदर्शना’ क.” ↩︎

  240. “१. ‘कोणापगमाय’ क.” ↩︎

  241. “१. ‘संबन्धः’ क.” ↩︎

  242. “२. ‘गुणभावात्’ ख.” ↩︎

  243. “३. ‘आश्चर्यपरिशिष्टस्य ख. " ↩︎

  244. “४. पुस्तकद्वयेऽप्यस्योत्तरार्ध मूले लिखितम्.”

                         *     
    
     ↩︎
  245. “१. ‘सह’ क. " ↩︎ ↩︎

  246. “२. ‘कर्णराजं’ ख.” ↩︎

  247. “२. ‘भग्नं तदैशं’ ख. " ↩︎

  248. “३. ‘दर्शयति’ क. " ↩︎

  249. “४. ‘किंचित्’ क.” ↩︎

  250. “५. ‘तदनिवृत्तौ’ कं.” ↩︎

  251. “१. ‘विरहसद्भावः’ क.” ↩︎

  252. “१. ‘द्वैधम्’ क. " ↩︎ ↩︎

  253. “२. ‘विषयम्’ क.”

                         *     
    
     ↩︎
  254. “१. ‘बाह्यार्थ’ ख.” ↩︎

  255. " २. ‘लोभ’ क; ‘रोष’ ख. रोरशब्दो दारिद्र्यवाचकः श्रीकण्ठचरितस्थमिदं पद्यम्.” ↩︎

  256. " ३. ‘तत्प्रतीतेरविश्रान्तेः’ ख. " ↩︎

  257. " ४. ‘वष्टम्भवे श्लिष्टत्वम् ख.” ↩︎

  258. “१. ‘समासोक्तेर्गोचरम्’ क. " ↩︎

  259. “२. ‘प्रस्तुतस्य’ ख " ↩︎

  260. “३. ‘अवच्छेदकत्वाच्च’ क.” ↩︎

  261. “१. ‘बाहुल्यमेव’ ख. " ↩︎

  262. “२. ‘विशेषणासद्भावेऽपि’ ख.” ↩︎

  263. " ३. ‘धर्माणां च ’ ख. " ↩︎

  264. “४. ‘न्वयासद्भावात्’ ख.” ↩︎

  265. " ५. ‘संभवेदिति’ क.” ↩︎

  266. " ६. ‘आच्छिद्यते’ ख. " ↩︎

  267. “७. ‘एव प्रस्तुतस्य’ क ख.” ↩︎

  268. “१.‘अपरित्यक्तयोः’ क.” ↩︎

  269. “३. ‘नियतस्य’ ख.” ↩︎

  270. “४. ‘उपचरितः’ ख. " ↩︎

  271. “५. ‘ज्ञेयम्’ क. " ↩︎

  272. “६. ‘संकराश्रयेण’ क.” ↩︎

  273. “१. ‘तत्रेति’ क.” ↩︎

  274. “१. ‘वैयर्थ्यम्’ ख. " ↩︎

  275. “२. ‘रूपकम्’ ख. " ↩︎

  276. “३. ‘कि कायस्थैः ख. " ↩︎

  277. “४. ‘व्यथित’ ख.” ↩︎

  278. “१. ‘रीत्या’ ख.” ↩︎

  279. " २. ‘अन्यस्यापि’ ख.” ↩︎

  280. “३. ‘आरोपस्य गर्भत्वे’ ख. " ↩︎

  281. “४. ‘श्लिष्टेन सह ’ ख.” ↩︎

  282. “१. ‘शनैः’ क. " ↩︎

  283. “२. ‘केवलत्वे पुनरेकदेशविवर्तिन्युपमा यथा’ क. " ↩︎

  284. “३. ‘वलितत्वं’ क.” ↩︎

  285. “४. ‘समासोक्तायां’ क.” ↩︎

  286. “१. ‘इत्थं शुद्ध’ क. " ↩︎

  287. “२. ‘कुचान्’ ख.” ↩︎

  288. " ३. ‘नीरसे’ ख. " ↩︎

  289. “४. ‘साम्यात्’ ख. " ↩︎

  290. “५. ‘इत्यादिभिश्च’ ख.” ↩︎

  291. “१. ‘बहुप्रपञ्चेति’ ख.” ↩︎ ↩︎

  292. “१. ‘तत्क्षणम्’ ख. " ↩︎

  293. “२. ‘वृत्ते’ ख.” ↩︎

  294. " ३. ‘लडितैः’ क.” ↩︎

  295. " ४. ‘व्याख्येयः । तथा’ ख. " ↩︎

  296. “५. ‘राज्ञा’ ख.” ↩︎

  297. “१. ‘तव हृदयसंस्थो’ क. " ↩︎ ↩︎

  298. “२. ‘बहुतर’ खं.” ↩︎

  299. “१. ‘तत्’ क. " ↩︎

  300. “२. ‘यद्यप्यत्रोपमानत्वेन’ ख.” ↩︎

  301. " ३. ‘अपि तु’ क. " ↩︎

  302. “४. नायकत्वप्रतीतिः’ ख. " ↩︎

  303. “५. ‘दधि’ ख.” ↩︎

  304. “१. ‘अप्रकृतार्था’ क.” ↩︎

  305. " १. ‘उपसंख्ययैव’ क. " ↩︎

  306. “२. ‘नायकनायिकाव्यवहारन्यासप्रतीतौ’ ख. " ↩︎

  307. “३. ‘नायकनायिका’ ख. " ↩︎

  308. “४. ‘आकृष्ट’ क.” ↩︎

  309. “१. ‘आकृष्टेत्यादि’ क.” ↩︎

  310. “१. ‘पादमूल’ क.” ↩︎

  311. " २. ‘चरणमूल’ क.” ↩︎

  312. “३. ‘भर्तृपत्नी’ क.” ↩︎

  313. " १. ‘निराकारेण’ ख.” ↩︎

  314. “२. ‘विशेषः’ ख.” ↩︎

  315. “४. प्रतीयमानमनुपसर्जनीकृत्वा शब्दार्थयोः’ ख.” ↩︎

  316. " ५. कोष्ठकान्तः स्थितः पाठः क पुस्तके नास्ति,” ↩︎

  317. “६. ‘परमिति’ क.” ↩︎

  318. “७. ‘राज्ञा’ क.” ↩︎

  319. “१. ‘परम्’ क.” ↩︎

  320. “२. ‘गति’ ख.” ↩︎

  321. “१. ‘वक्तव्यः’ क.” ↩︎

  322. “२. ‘विशेष’ ख.” ↩︎

  323. “३. ‘देववधू’ ख.” ↩︎

  324. “१. ‘विशेषत्वेन’ ख.” ↩︎

  325. “२. ‘श्लिष्ट’ क.” ↩︎

  326. " ३. ‘प्राकरणिकत्वात् ’ क.” ↩︎

  327. “१. ‘यैरेवायं’ ख. " ↩︎

  328. “२. ‘सभङ्गासभङ्गपदभङ्गमेलनया’ क. " ↩︎

  329. “३. ‘सदा दृश्यते’ ख.” ↩︎

  330. “४. ‘तैश्चापि’ ख.” ↩︎

  331. “१. ‘इत्यत्र ’ क.” ↩︎

  332. “२. कोष्ठकान्तर्गतः पाठः ख-पुस्तके नास्ति.” ↩︎

  333. “३. ‘एषु’ क.” ↩︎

  334. " ४. च, प्राप्तेषु’ ख.” ↩︎

  335. “५. ‘बाधकत्वात्’ क.” ↩︎

  336. “६. ‘इह’ क.” ↩︎

  337. “७. ‘दुर्लभत्वा’ क.” ↩︎

  338. “१. ‘दुर्लभत्वात्’ क.” ↩︎

  339. “१. ‘प्रतितिष्ठतो’ क.” ↩︎

  340. “२. ‘एव विषयः’ क.” ↩︎

  341. “३. ‘उत्थानं’ क.” ↩︎

  342. “४. ‘प्रतिभासनम्’ ख.” ↩︎

  343. " ५. ‘प्रतीतौ ’ क.” ↩︎

  344. “६. ‘भेदात्म’ क.” ↩︎

  345. “१. ‘उत्थानमिति’ क.” ↩︎

  346. “२. ‘कृष्णच्छदत्वमित्येव’ क.” ↩︎

  347. “१. ‘इह तु ’ क - पुस्तके नास्ति.” ↩︎

  348. “२. ‘इति’ क.” ↩︎

  349. " ३. ‘मूलतया’ ख.” ↩︎

  350. “१. ‘तदलंकारबाध्यत्वमुच्यते’ क.” ↩︎

  351. “२. ‘कर्मक’ क.” ↩︎

  352. “३. ‘तद्वचन’ क.” ↩︎

  353. “४. ‘सिद्धयोः’ क.” ↩︎

  354. “१. ‘हेतुकत्वेन’ क.” ↩︎

  355. “२. ‘एव’ ख.” ↩︎

  356. “३. ‘उत्थानं स्यात्’ ख.” ↩︎

  357. “१. ‘अतश्चेति’ क.” ↩︎

  358. “२. ‘न रूपं’ ख.” ↩︎

  359. " ३. ‘विरोधालंकाराकृतो’ क.” ↩︎

  360. “४. ‘बाध्योत्पत्ती’ ख.” ↩︎

  361. “५. ‘बोधत्वाच्चात्र विरोधधीः’ क.” ↩︎

  362. “६. ‘बाध्यं’ क.” ↩︎

  363. “७. ‘प्रतिभानिवृत्तेः’ क.” ↩︎

  364. “८. ‘भावितत्वात्’ क.” ↩︎

  365. “१. ‘विरोधि’ क.” ↩︎

  366. " २. ‘उपेक्षैव परा’ ख.” ↩︎

  367. “३. ‘तत्र’ ख.” ↩︎

  368. “४. ‘नयेनात्राप्रवृत्तेः’ ख.” ↩︎

  369. “५. ‘संबन्धत्वात्संबन्धेनार्थ’ ख.” ↩︎

  370. “१. ‘स्वविकार’ ख.” ↩︎

  371. “२. पद्मपक्षे ‘सत् - जात - पत्र’ इति, दिनपक्षे ‘सज्जआतपत्र’ इति च्छेदः.” ↩︎ ↩︎

  372. “१. ‘भर’ ख.” ↩︎

  373. “२. ‘संपादितापद्धतिवशात्’ क.” ↩︎

  374. “३. ‘प्रस्थानं सूचितम्’ ख.” ↩︎

  375. “१. ‘विश्रमणीयम्’ ख.” ↩︎

  376. “२. ‘प्रकृतत्वेन’ ख.” ↩︎

  377. " ३. ‘मात्र’ ख.” ↩︎

  378. “४. ‘अप्रस्तुतावगतौ’ ख.” ↩︎

  379. “१. ‘इति’ क.” ↩︎

  380. " २. भवतीति’ ख.” ↩︎

  381. “३. ‘द्वैधम्’ क.” ↩︎

  382. “४. ‘अत्यस्फुटेयं गाथा. ख-पुस्तके तु नास्ति.” ↩︎

  383. " १. ‘अत्यावश्यकस्य’ ख.” ↩︎

  384. “१. ‘प्रतिपत्तिर्यथा’ ख.” ↩︎

  385. " २. ‘गम्यमानायाम्’ क.” ↩︎

  386. “१. ‘अत्र प्रसिद्धे’ क.” ↩︎

  387. “२. ‘गजासुरवध’ क.” ↩︎

  388. “१. ‘कारणे कार्यस्याभिधानम्’ ख.” ↩︎

  389. “१. ‘इत्यप्रस्तुत प्रशंसादौ’ ख.” ↩︎

  390. “१. ‘अत्र’ क.” ↩︎

  391. “२. ‘साधर्म्येण सारूप्यो’ ख.” ↩︎

  392. “३. ‘कैश्चित्’ ख.” ↩︎

  393. “१. ‘शाहोटकं’ क.” ↩︎

  394. “२. ‘प्रश्नोत्तरता’ ख.” ↩︎

  395. “१. ‘अवनिपतितां’ ख.” ↩︎

  396. “२. ‘कुला’ ख.” ↩︎

  397. “१. ‘समुद्दिष्टं’ ख.” ↩︎

  398. “२. ‘सामान्यविशेषकार्यकारण’ ख.” ↩︎

  399. “३. ‘उपादानं’ क.” ↩︎

  400. “४. एवं कार्यकारणभावे द्वौ भेदौ । तत्र’ क.” ↩︎

  401. “१. ‘उपमानापे’ ख.” ↩︎

  402. “‘उदारतायाः’ ख.” ↩︎

  403. “‘वैधणोदाहृतं समर्थकम्’ क.” ↩︎

  404. “‘रामः—आनतज्यम्’ ख.” ↩︎

  405. “‘संपत्करणकार्याविरुद्धम्’ ख.” ↩︎

  406. “‘हिशब्दाभिहितानभिहितादि’ क.” ↩︎

  407. " ‘पर्यायान्तरेण’ ख.” ↩︎ ↩︎

  408. “‘वाच्यत्वं गम्यत्वं’ ख” ↩︎

  409. “‘कार्याभिमुखेन’ क.” ↩︎

  410. " ‘तथा–’ क.” ↩︎

  411. “‘गम्यस्य’ क.” ↩︎

  412. “‘इत्यादावेव तदलंकार’ क. " ↩︎

  413. “‘मात्रत्वे’ ख.” ↩︎

  414. " ‘तदितरप्रकारान्तः पातित्वात्पृथग्वत्तुं’ क.” ↩︎

  415. " १. ‘परनिन्दादौ’ ख.” ↩︎

  416. “‘लिप्त’ ख.” ↩︎

  417. " १. ‘पूर्वस्मात् ’ ख. " ↩︎

  418. “२. ‘नान्यथेति’ ख.” ↩︎

  419. " ३. ‘वाक्यार्थत्वेन’ क.” ↩︎

  420. “१. ‘इत्युच्यते’ ख.” ↩︎

  421. “२. ‘तुल्यत्वं’ क.” ↩︎

  422. “३. ‘तत्र’ क पुस्तके नास्ति. " ↩︎

  423. “४. ‘भिधत्वेन’ क.” ↩︎

  424. “५. ‘तत्र ’ क-पुस्तके नास्ति.” ↩︎

  425. " १. ‘शब्दस्यार्थ इति तस्यार्थभेदाभावात्’ क. " ↩︎

  426. “२. ‘ननु सामान्ये सर्वविशेषाणां विशेषे च सामान्यानामनुप्राणितत्वात्’ ख.” ↩︎

  427. “१. ‘ततश्च’ ख.” ↩︎

  428. “२. ‘कापि’ क. " ↩︎

  429. “३. ‘प्रकारप्रकारिकभावपरिकल्पनम्’ ख. " ↩︎

  430. “४. ‘बालक नाहं दूती तस्याः प्रियोऽसीति न मम व्यापारः(? ↩︎

  431. “१. ‘सदर्थम्’ क. " ↩︎

  432. “२. ‘नाक्षेपशब्दस्यार्थभेदात्’ क. " ↩︎

  433. “३. ‘शब्दसमर्पिते तत्कालप्रतीयमाने च’ क.” ↩︎

  434. “१. ‘सुभग विलम्बस्व स्तोकं यावदिदं विरहकान्तरं हृदयम् । संस्थापयित्वा भणिष्यामि अथवा व्रज (? ↩︎

  435. “२. ‘वास्तवाभिन्नादिविशेषतयाभण्यमानस्य’ ख.” ↩︎

  436. “२. विधितात्पर्या’ क.” ↩︎

  437. “१. ‘य इष्टार्थः’ क.” ↩︎

  438. " १. ‘अत एव’ क.” ↩︎

  439. “१. ‘निषेधैकत्वेन’ ख.” ↩︎

  440. “१. ‘विशेषार्थम्’ ख.” ↩︎

  441. “१. ‘योऽम्भःकणैः’ ख.” ↩︎

  442. “२. ‘ज्ञातुं’ ख.” ↩︎

  443. " १. ‘भावस्यैव’ क. " ↩︎

  444. “२. ‘आक्षेपादावुदाहृतं’ क.” ↩︎

  445. “‘सद्भाव’ इत्यर्थः.” ↩︎

  446. “‘च प्रतिज्ञाशय’ ख.” ↩︎

  447. " ‘अनुकरण’ ख. " ↩︎

  448. “‘प्रलुठद्रूपत्वेनेति’ क.” ↩︎

  449. “‘प्रलुठदूप’ क. " ↩︎

  450. “‘निर्बन्धं’ क. " ↩︎

  451. “‘शिथिलाः’ ख. " ↩︎

  452. " ‘यस्य मुखे एव’ ख. " ↩︎

  453. " ‘इष्टस्य’ ख.” ↩︎

  454. “‘प्रतीयते’ क.” ↩︎

  455. “‘तत्समाधाने तु’ ख.” ↩︎

  456. " ‘प्ररोहतीति’ ख. " ↩︎

  457. “‘विच्छित्यविशेषस्यापि’ क.” ↩︎

  458. " ‘एतन्नोदाहृतम्’ क. " ↩︎

  459. “‘अनुमन्तव्याः’ ख. " ↩︎

  460. " ‘श्लिष्ट’ क.” ↩︎

  461. " ‘यदा’ क.” ↩︎

  462. “‘भावात् ’ ख.” ↩︎

  463. “‘कारणाभावो भावकार्योपनिबन्धः’ क.” ↩︎

  464. " ‘चेह’ ख.” ↩︎

  465. “‘विद्यते क्रिया’ ख. " ↩︎

  466. " ‘संबन्धः’ क.” ↩︎

  467. “‘अत्र दूरे विरोधःस्याद्विभेदेन’ क.” ↩︎

  468. “‘सत्तायाः’ ख. " ↩︎

  469. “‘एतच्च’ क.” ↩︎

  470. " ‘तदोदाहरणम्’ ख. " ↩︎

  471. “‘उत्थापन’ क.” ↩︎

  472. " ‘विभावना’ क.” ↩︎

  473. “‘इति भावः’ ख.” ↩︎

  474. “‘ण अ’ क.” ↩︎

  475. “‘संबन्धादिमण्डनादेः’ ख.” ↩︎

  476. “‘नारोप्यमाणस्य’ ख.” ↩︎

  477. “‘यस्तु’ ख.” ↩︎

  478. “पुनरिहास्य’ ख.” ↩︎

  479. “‘स्त्रिया’ ख.” ↩︎

  480. " ‘तयोरुपपन्नं पौर्वापर्येण निर्दिष्टम्’ क.” ↩︎

  481. “‘भावित्वाख्यो’ क.” ↩︎

  482. “एवं च’ ख.” ↩︎

  483. “‘समाश्रयैः’ क.” ↩︎

  484. “‘अत्र—ज्ञेयम्’ ख-पुस्तके नास्ति.” ↩︎

  485. “‘विरूपतागर्भत्वात्’ क.” ↩︎

  486. “‘शृङ्गं’ क-ख.” ↩︎

  487. “‘अप्रसिद्धि’ क.” ↩︎

  488. “‘अत्यर्थ’ क.” ↩︎

  489. “‘संघटनात्’ ख.” ↩︎

  490. “अननुरूपेत्यादि ख-पुस्तके नास्ति.” ↩︎

  491. “‘पलवयति’ ख. " ↩︎

  492. " ‘घट्टनं’ ख.” ↩︎

  493. “‘रूपत्वात्’ ख.” ↩︎

  494. “‘विषयानां’ ख. " ↩︎

  495. “‘घटना’ ख.” ↩︎

  496. “‘अभ्यूह्यम्’ क.” ↩︎

  497. “‘अनुरूपत्वात् ’ क-ख. " ↩︎

  498. “‘तस्य’ क पुस्तके नास्ति. ३. " ↩︎

  499. “‘तदा विचित्रालंकारः’ क.” ↩︎

  500. “‘मरणानि’ ख.” ↩︎

  501. " ‘यस्येति’ क.” ↩︎

  502. “‘विपरीतप्रतीतेः । यद्यपि विषमे विरूपस्य’ ख.” ↩︎

  503. “‘यद्यपि–त न्निष्पत्तये’ इति क-पुस्तके नास्ति.” ↩︎

  504. " ‘सौमनस्याग्रहणः पुनः’ ख.” ↩︎

  505. " ‘विरुद्धश्रद्धत्वात्’ क. " ↩︎

  506. " ‘परस्परोपपादकत्वं’ ख.” ↩︎

  507. “‘यदा’ क.” ↩︎

  508. " ‘जननस्य व्यापकत्वं’ ख.” ↩︎

  509. " ‘प्रवृत्तिनिमित्तम्’ ख.” ↩︎

  510. “‘प्रसंख्यालंकारान्तरं’” ↩︎

  511. " ‘ह्यत्रासद्भावस्य’ ख.” ↩︎

  512. " ‘अङ्गानि—तथा च’ इति ख-पुस्तके त्रुटितम्.” ↩︎

  513. “‘दिशि दिशि’ ख. " ↩︎

  514. “‘पथि पथि’ ख. " ↩︎

  515. " ‘दोषं करिष्यति’ ख. " ↩︎

  516. " ‘संपादयिष्यति’ ख.” ↩︎

  517. " ‘अनन्यभावः’ ख. " ↩︎

  518. “‘तथा’ ख, " ↩︎

  519. “‘यं’ क-पुस्तके नास्ति.” ↩︎

  520. “‘वाम’ ख. २.” ↩︎

  521. “‘प्रतिविरूपपक्षभूतम्’ क.” ↩︎

  522. “‘वस्तुसंभविन्यन्यहेतुर्मदो’ ख. २.” ↩︎

  523. “‘तद्वदन्येनान्यधी’ ख.” ↩︎

  524. “‘परिनिष्पादकत्वेन’ ख. " ↩︎

  525. " ‘तस्याकारणस्य’ ख. " ↩︎

  526. " ‘कार्य कार्यमेव’ ख.” ↩︎

  527. " ‘व्यादिष्टोऽलंकारः’ क.” ↩︎

  528. “तेनाप्यस्य’ क.” ↩︎

  529. “‘कर्त्रोरेव’ ख.” ↩︎

  530. “‘अत्र’ क.” ↩︎

  531. “‘प्रस्थान’ ख. " ↩︎

  532. “‘साधर्म्येऽप्येक’ ख.” ↩︎

  533. " ‘अप्यन्तरोऽस्ति’ ख. " ↩︎

  534. " ‘पूर्वानुबन्धित्वम्’ ख.” ↩︎

  535. “‘विपर्ययो वा’ ख.” ↩︎

  536. " ‘परस्परविशेषणतया’ ख.” ↩︎

  537. " ‘द्विधा भवति’ ख.” ↩︎

  538. " ‘वराङ्गनारूपमित्यादि’ ख.” ↩︎

  539. " ‘मानो गुणेन जायते गुणा अपि जायन्ते सुजनसेवायाः’ इति पूर्वार्धस्य च्छाया.” ↩︎

  540. “उत्तरार्ध क-पुस्तके नास्ति.” ↩︎

  541. “‘हेतुकं’ क.” ↩︎

  542. “‘दीपनविषयाणाम्’ ख.” ↩︎

  543. “‘उत्तरोत्तरमुत्कर्षः सारः’ ख.” ↩︎

  544. “‘निबन्धनं सारः’ ख.” ↩︎

  545. " ‘प्रस्तावान्तरेन’ क. " ↩︎

  546. “‘चार्ववस्था’ क.” ↩︎

  547. “‘प्रदर्शिताः’ क. " ↩︎

  548. “‘तत्कान्यायाश्रयेणा’ ख.” ↩︎

  549. " ‘तत्र’ इति क-पुस्तके नास्ति.” ↩︎

  550. “एतत्पर्यन्तं ख-पुस्तके नास्ति.” ↩︎

  551. “‘यत्रेति’ इति ख-पुस्तके नास्ति.” ↩︎

  552. “उपसंहारादयः क्रियावाक्यार्थगत्या’ ख.” ↩︎

  553. “‘हेतुत्वम्’ ख.” ↩︎

  554. " ‘अनेकार्थवाक्यार्थरूपः’ क.” ↩︎

  555. “‘चतुर्थपादार्थे’ क.” ↩︎

  556. “‘एवमेव’ ख.” ↩︎

  557. “‘यथा’ इति क पुस्तके-नास्ति.” ↩︎

  558. “‘संजीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा । श्वश्रूर्नवाभ्रदर्शनकण्ठगतजीवितां स्नुषाम्’ इति च्छाया.” ↩︎

  559. “रूपकमूलमेवेति क.” ↩︎

  560. " ‘यथा’ इति ख-पुस्तके नास्ति.” ↩︎

  561. " ‘शासनधरादेः’ क.” ↩︎

  562. " ‘इत्यादाविव’ ख. " ↩︎

  563. “‘हेतुत्वप्रतिपादकं’ ख. " ↩︎

  564. " ‘आश्रयेण’ क.” ↩︎

  565. " ‘अत्राप्रवृत्तेः’ ख.” ↩︎

  566. " ‘यथासंख्यम्’ ख.” ↩︎

  567. “१. ‘आधाराधेयमिति’ ख.” ↩︎

  568. “१. ‘पत्नीत्वादिवर्गश्च’ ख.” ↩︎

  569. “२. ‘समानाधिकन्यूनैः’ ख.” ↩︎

  570. " १. ‘अतः’ इत्यारभ्य ‘सामर्थ्यलभ्यम्’ इत्यन्तं ख-पुस्तके नास्ति.” ↩︎

  571. “१. ‘तस्यासंभाव्य एकत्र’ ख.” ↩︎

  572. “२. ‘परिवर्जने कस्यचिद्वंर्जने’ ख.” ↩︎

  573. “३. ‘वर्जनीयत्वस्य’ क.” ↩︎

  574. " १. ‘विनिमयस्य’ ख. " ↩︎

  575. “२. ‘अतश्वास्याः’ ख.” ↩︎

  576. “१. ‘लौकिक’ ख. " ↩︎

  577. “२. ‘वस्त्वन्तरं शाब्दमार्थे वेति’ ख.” ↩︎ ↩︎

  578. " १. ‘निवर्तितम्’ क.” ↩︎

  579. " १. ‘भेदहेत्वतिशयांशसंभवात्’ ख.” ↩︎

  580. " १. ‘दण्डापूपिकायाम्’ क; ‘दण्डापूपिकायार्थापतनमर्थापत्तिः’ ख. " ↩︎

  581. “२. ‘एवमहो शक्तोऽहं शक्तोऽस्यामिति’ क.” ↩︎

  582. “३. ‘मत्वर्थे’ ख. " ↩︎

  583. “४. ‘इव प्रकृताविति’ ख. " ↩︎

  584. “५. ‘तत्सहभाव्यपूपाभक्षणं’ ख.” ↩︎

  585. “२. ‘सप्तम्यांशयुतौ स्मृतौ’ ख.” ↩︎

  586. “१. ‘निरातपत्व” ↩︎

  587. “पुस्तकद्वयेऽप्येषा गाथास्फुटैव.” ↩︎

  588. “१. ‘स्वाकृतेः ’ ख. " ↩︎

  589. “२. ‘इत्युत्प्रेक्ष्यमेवैतत्’ क.” ↩︎

  590. “‘बाधयितुं’ ख.” ↩︎

  591. “‘मेघघनगर्जित’ क.” ↩︎

  592. " ‘एवमादौ’ ख. " ↩︎

  593. " ‘कर्तुं शक्यः’ ख.” ↩︎

  594. “‘तिरस्कारकर्तुः’ ख.” ↩︎

  595. " ‘अये एहि तावत्सुन्दरि कर्णे दत्वा शृणुष्व वचनीयम् । तत्र मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥’ इति च्छाया. " ↩︎

  596. “‘निष्पन्नमौपम्यम्’ ख.” ↩︎

  597. “‘यथा’ ख-पुस्तके नास्ति .” ↩︎

  598. “‘तस्यैवोपमानभावकल्पने’ खं.” ↩︎

  599. " ‘तस्योपमेयत्वपरिकल्पनेन’ इति भाति.” ↩︎

  600. “‘अभिनवं’ ख.” ↩︎

  601. “‘भेदः’ क.” ↩︎

  602. “‘बाध्यते’ क.” ↩︎

  603. " ‘दृक्तारतम्यादेः’ क.” ↩︎

  604. " ‘साधारणधर्माणो’ ख.” ↩︎

  605. “‘राहोरालक्ष्यतां’ ख.” ↩︎

  606. “‘तुलितत्व’ ख.” ↩︎

  607. “‘तद्गुणम्’ ख.” ↩︎

  608. “‘समीपवर्तिप्रकृष्टगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्य स्वीकरणम्’ क.” ↩︎

  609. “यत्रेत्यादि कोष्टान्तर्गतः पाठः ख-पुस्तके नास्ति” ↩︎

  610. “‘गुणेऽपरक्त’ ख.” ↩︎

  611. “‘धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् । रागभरितेऽपि हृदये सुभग निहितो न रक्तोऽसि ॥’ इति च्छाया.” ↩︎

  612. “१. ‘न शृणोति कश्चित्’ क. " ↩︎

  613. “‘का विषमा दैवगतिः किं लब्धं यवनो गुणग्राही । किं सौख्यं किं दुःखं यत्खलो लोकः ॥” ↩︎

  614. “१. ‘तत्तत्रोक्तम्’ ख.” ↩︎

  615. “१. ‘अन्याभिप्रायेण’ ख.” ↩︎ ↩︎

  616. “१. ‘श्रीकण्ठेन’ ख.” ↩︎

  617. " १. ‘अत्र’ ख.” ↩︎

  618. " २.‘आहो’ ख.” ↩︎

  619. “१. ‘मुख्यार्थापादानं’ ख.” ↩︎

  620. “२. ‘भेदान्तरमप्यस्या न वाच्यं’ ख.” ↩︎

  621. “३. ‘एकवृन्तगतच्छलत्वन्यायेन’ क.” ↩︎

  622. “१. ‘प्रत्यक्षायमानत्वं’ क.” ↩︎ ↩︎

  623. “१. ‘किं नेत्याह’ ख.” ↩︎

  624. “२. ‘एवाप्रत्यक्षेण’ ख. " ↩︎

  625. “३. ‘दर्शनेन’ क.” ↩︎ ↩︎

  626. “१. ‘किं नेत्याह’ ख,” ↩︎

  627. “२, ‘एवाप्रत्यक्षेण’ ख. " ↩︎

  628. “१. चित्तवृत्तिभेदेन’ क.” ↩︎

  629. " २. ‘स्वभावोक्तिरेव नेत्याशङ्कयाह’ ख.” ↩︎

  630. “१. ‘प्रतीते’ ख.” ↩︎

  631. “१. ‘गत्वा’ ख.” ↩︎

  632. “१. ‘यत्र’ क.” ↩︎

  633. “२. ‘ध्वानभ्राम्यत्’ क.” ↩︎

  634. “१. ‘उत्तरत्वप्रकारविषये ख.” ↩︎

  635. “१. ‘वस्तुसंनिवेशादलंकारत्वादिति संबन्धः’ क.” ↩︎

  636. “१. ‘कृताः’ क-ख.” ↩︎

  637. “१. ‘निबन्धने’ ख.” ↩︎

  638. " २. ‘अत्र’ क. " ↩︎

  639. “३. ‘देवतादिविषयश्च’ क.” ↩︎

  640. “१. ‘एषामुपनिबन्धे क्रमेण’ ख.” ↩︎

  641. “१. ’ तथा तत्वे ह्यभिधीयमाने’ ख. " ↩︎

  642. “२. ‘अत्रालम्बनविभाव उषावेपनादिरनुभावः’ क.” ↩︎

  643. “३. ‘प्रधानस्य प्रधानत्वाभिधानविरोधात्’ ख.” ↩︎

  644. “४.’ एवं गुणीभूत’ क.” ↩︎

  645. “५. ‘तत्परिपोषकत्वत्यागात्’ ख.” ↩︎

  646. “१. ‘निबद्धमप्यौत्सुक्यम्’ ख.” ↩︎

  647. “२. ‘इत्युक्तः’ क.” ↩︎

  648. “१. ‘प्रोद्भूत’ क.” ↩︎

  649. “१. ‘शबलत्वेनेति’ क.” ↩︎

  650. “२. ‘शाम्भमात्रेण’ क.” ↩︎

  651. “३. ‘दिश्यात्’ ख.” ↩︎

  652. “१. ‘संघट्टमानत्वेन च ’ ख.” ↩︎

  653. “२. ‘संसृष्टाद्यलंकारत्वम्’ क.” ↩︎

  654. “१. ‘अविक्षन्’ इति राजतरङ्गिण्याम्.” ↩︎

  655. " २. ‘अविषयत्वं’ ख.” ↩︎

  656. “१. ‘वदनसौरभ’ क. " ↩︎

  657. “२. ‘वलितया’ क.” ↩︎

  658. “१. ‘एकलक्षणीयतया’ क.” ↩︎

  659. “२. ‘एषा’ क.” ↩︎

  660. “३. पुस्तकद्वयेऽप्यत्र च्छन्दोभङ्गो दृश्यते.” ↩︎

  661. “४. पुस्तकद्वयेऽपि प्रतीकमेतन्न गृहीतम्,” ↩︎

  662. “१. ‘अपेक्षत्वात्’ ख. " ↩︎

  663. “२ ‘श्लेषमन्तरेणापि’ ख.” ↩︎

  664. “१. ‘ते’ क.” ↩︎