अलङ्कारमहोदधिः

[[अलङ्कारमहोदधिः Source: EB]]

[

[TABLE]

[TABLE]

Printed by Sheth Devchand Damji at the Anand Printing Press, Bhavnagar and Published on behalf of the Government of His Highness the Maharaja Gaekwad of Barodaby B. Bhattacharyya at the Oriental Institute, Baroda.

अलङ्कारमहोदधि (प.)–प्रति–प्रारम्भप्रतिकृतिः।

<MISSING_FIG href="../books_images/U-IMG-173372441909122024.png"/>

—वटपद्रीयप्राच्यविद्यामन्दिरीया।

अलङ्कारमहोदधि (अ.)–प्रति–प्रान्तप्रतिकृतिः।

<MISSING_FIG href="../books_images/U-IMG-173372467109122024.png"/>

—वटपद्रीयप्राच्यविद्यामन्दिरीया।

प्रस्तावना

<MISSING_FIG href="../books_images/U-IMG-1731411845Screenshot(25"/>१.png)

साहित्यामृतरसपानसतृष्णाः काव्यालङ्कारप्रियाः प्राज्ञा!

सुप्रसन्नता प्राप्नुवन्तु प्रातिभवन्तो भवन्तो गूर्जरेश्वरमन्त्रीश्वरवस्तुपालप्रेरणाप्रादुर्भूतस्य चोलुक्यनरेन्द्रसन्मानितनरचन्द्रसूरिशिष्यनरेन्द्रप्रभसूरिप्रतिभानिष्पन्नस्य स्वोपज्ञविवरणविभूषितस्य परिश्रमसम्पादितस्यप्रस्तुतस्यालङ्कारमहोदधेरवलोकनावगाहनेन प्रतिभाप्रकर्षात्।

साहित्यसमृद्धिवृद्ध्यैगूर्जरेश्वर–मन्त्रीश्वरादिप्रोत्साहनम्।

साहित्यावगाहिना सुविदितमेतत्–प्राच्यैर्गूर्जरेश्वरैस्तन्मन्त्रीश्वरप्रभृत्यधिकारिभिश्च प्रोत्साहिता जैनाचार्यप्रभृतयो नैके विद्वन्मूर्धन्या विद्वन्मनोविनोदकान् लोकोपकारकान् विविधविषयकान् नवीनान् ग्रन्थान् जग्रन्थुः प्राचीनान् ग्रन्थांश्च व्याख्या–विवरणादिभिर्व्याचख्युः, प्राच्यसाहित्यलेखन–परिरक्षण–प्रथनादौ च विविधप्रकारेण प्रयेतिरे। गायकवाडप्राच्यग्रन्थमालाप्रकाशित–पत्तन–जेसलमेरुदुर्गादिपुस्तकागारसूचिपत्रसमीक्षकानां सुज्ञानां किमिव नाम बहु विज्ञपनीयमस्मिन् विज्ञाते विषये? दुर्लभराजराजसभायां चैत्यवासिवादिविजेत्रा जिनेश्वरसूरिणा सिद्धराजराजसभाया च दिगम्बरवादिकुमुदचन्द्रविजेत्रा वादिदेवसूरिणा तदनुयायिभिश्च विरचिता नैके ग्रन्थास्तत्रास्माभि. सूचिताः।

सिद्धराज–कुमारपालप्रेरणा।

गूर्जरेश्वरसिद्धराज–जयसिंह–परमार्हतकुमारपालभूपालप्रार्थनाप्रेरिताः सुप्रसिद्ध-

हेमचन्द्राचार्याः प्रणीतवन्तः सिद्धहेमचन्द्रशब्दानुशासन–नामलिङ्गानुशासन–काव्यानुशासन–च्छन्दोऽनुशासन–नाममालाद्वयानेकार्थ–निघण्टु–चौलुक्यवंशद्वयाश्रयमहाकाव्य–योगशास्त्र–वीतरागस्तव–द्वात्रिंशिकाद्वय–त्रिषष्टिशलाकापुरुषचरित–परिशिष्ट-पर्वार्हन्नीतिप्रमुखान् नैकान् ग्रन्थान्। तत्पट्टविभूषकं–प्रबन्धशतकर्तृ–कुमारविहारशतक-कविरामचन्द्राचार्यादयश्च निर्मितवन्तो नाट्यदर्पण–नलविलासादीन् नाट्यशास्त्रादिनैपुण्यनिर्मापकान् ग्रन्थान्। एकाहनिष्पन्नमहाप्रबन्ध–सिद्धराजप्रतिपन्नबन्धु–कविचक्रवर्ती श्रीपालः, कुमारपालप्रीतिपात्र तत्पुत्रः कविसिद्धपालः, भीमदेवराज्ये द्रौपदीस्वयंवरप्रणेता तत्पुत्रो विजयपालश्च प्राग्वाटवंशीया राजमान्याः सुप्रसिद्धाः कवयः। विद्ववत्सलतया विख्यातविद्यानुरागेभ्यो मालवेश्वर–मुञ्जभोजादिमहाराजेम्यो न काऽपि न्यूनता न्यदर्शि, प्रत्युत गूर्जरगौरवं प्राकाशि मालवराजादिविजेतृभिगूर्जरश्वरैः साहित्यप्रदेशेऽपि।

महामात्यसम्पत्करः।

लाटदेशमण्डलानुशासकेनानेनाणहिल्लपाटके शान्त्युत्सवदेवगृहे श्रीआदीश्वरयात्रामहोत्सवे प्रवर्तिते समुत्सुकसामन्तजनदर्शनाय कविबिल्हणेन कर्णसुन्दरीनाटिकाप्रयोगो रचित आसीत्।

मन्त्रीश्वरपृथ्वीपाल–प्रेरणा।

पृथ्वीपालप्रभृतिभिस्तत्सचिवादिभिः प्रेरिताश्च हरिभद्रसूरिप्रमुखा नैके कवयो निजमतिंनियोजयामासुः प्राकृतापभ्रंशादिभाषाभूषिते चतुर्विंशतिजिनचरितादिरचने।

सोमेश्वरः।

वि.सं.१२१४ वर्षे आश्विनव.७ बुधे सिद्धियोगे कुमारपालभूपालसुराज्येऽ-णहिल्लपाटकपत्तने राजमान्य–प्राग्वाटवंशीयसचिवकर्पूरपट्टाधिपपत्नीसीतासुपुत्रसोमेश्वरस्य प्रार्थनया चन्द्रगच्छीय-सर्वदेवसूरिसन्तानीय–देवेन्द्रसूरिशिष्येण श्रीचन्द्रसूरिणा नत्कुमारराजर्षिचरितं (प्रा.) रचितम्।

महत्तमदुर्लमराजसुत–जगद्देवः।

राजमान्यप्राग्वाटवंशीयो जाहिल्लो नृपतेर्भीमदेवस्य व्ययकरणपदामात्य आसीत्। तदङ्गजराजपालसुतनरसिंहस्य सुत दुर्लभराजं कुमारपालभूपालो महत्तमंकृतवान्। शरीरविद्या–राज(गज)तुरग–शकुनादिप्रबन्धविज्ञेन येनोपज्ञातं पुरुष

स्त्री–लक्षणं तत्सुतेन जगद्देवेन सुललितार्याणामष्टशत्या समर्थितं सामुद्रिकतिलकसज्ञयोपलभ्यते। तत्कृतः स्वप्नचिन्तामणिस्तु प्रसिद्धः।

मन्त्री यशःपालः।

जयदेवस्य मन्त्रिणाऽनेन राजनीतिज्ञेन परमार्हतेन सुकविना निजप्रतिभाप्रकर्षः प्रादर्शि मोहराजपराजयनामनि नाटके। यदत्रैव गायकवाडप्राच्यग्रन्थमालायाम् (क्र.९) प्राकाशि।

सज्जनपौत्रः।

दि.मुनिश्रीचन्द्रकविकृतोऽपभ्रंशभाषायां त्रिपञ्चाशत्सन्धिसङ्कलितः कथाकोशो मूलराज–धर्मस्थानगोष्ठिकप्राग्वाटवंशीयसज्जनसुतकृष्णसन्तानेन व्याख्यापित आसीत्।

मन्त्री बालकविर्जगद्देवः।

राजमान्यस्य श्रीश्रीमालकुलीनकोशाधिपयशोधवलसूनोरस्य प्रार्थनया वि.स.९२२५ (५२) वर्षे पत्तने मुनिरत्नसूरिर्विनिर्ममेऽममस्वामिचरितम्, यत् समशोधि कुमारकविप्रभृतिराजसभ्यैः। [पीटर्सनरि. ३, पृ.९०-९९]

सोममन्त्री।

एतस्य वचनेन वि.सं.१२५५ वर्षे पूर्णभद्रसूरिणा नृपतिनीतिविवेचनाय जीर्ण विशोधितं पञ्चतन्त्रं डॉ.हर्टलद्वारा प्रसिद्धिमागतम्।

मन्त्री जयन्तसिंहः।

स्तम्भतीर्थ–पेटलापद्राद्यधिकारिणो मन्त्रीश्वरवस्तुपालसुपुत्रस्यास्यैव प्रेरणया सुकविना जयसिहसूरिणा विरचित हम्मीरमदमर्दनं नाटकम्, यदत्रैव **गा.**ग्रन्थमालायां (क्र.१०) प्रसिद्धम्। जैत्रसिंहापराभिधस्यास्यैव च मनोविनोदाय बालचन्द्रसूरिणा रचित वसन्तविलासमहाकाव्यमत्रैव (गा.ग्र.क्र.७) प्रकाशितम्। एतत्पठनार्थमेका प्रबन्धावली वि.स. १२९० वर्षे उदयप्रभसूरिशिष्येण जिनभद्रेण रचिता ज्ञायते।

पद्ममन्त्री।

विश्वल(वीसल) देव (वि.सं.१२९८ [१३०२]–१३१८) राजमान्येन वायवशोद्भवेन राजभाण्डागाराध्यक्षेण राजविश्वासपात्राधिकारिणा द्मेनाम्यर्थितो वायटगच्छीयामरचन्द्रकविर्जिनेन्द्रचरितं पद्मानन्दापरसंज्ञकं वीराङ्कं महाकाव्य निर्ममे, यदत्र गायकवाडप्राच्यग्रन्थमालाया (५८ क्रमाङ्के) प्रसिद्धम्।

आह्लादनो दण्डनायकः।

थारापद्र–सत्यपुर–वॅटसर सङ्गमखेटक (संखेडा) प्रभृतिषु जिनचैत्य–बिम्बा दिधर्मकार्यकर्त्राऽनेन ल्लककुलीननाणहिल्लनगरे वासुपूज्यप्रभुप्रासादस्य जीर्णोद्धारोऽकारि, एतस्यैव चाम्यर्थनया नागेन्द्रगच्छीयेन वर्धमानसूरिणा वि.सं.१२९९ वर्षे५४९४ श्लोकपरिमितमाह्लादनाङ्कं वासुपूज्यचरितं महाकाव्यं व्यरचि, यद् भावनगरस्थया जैनधर्मप्रसारकसभया प्राकाशि।

मन्त्रीश्वरवस्तुपाल

परिचायकाः।

“यः स्वीयमातृ–पितृ–पुत्र–कलत्र–बन्धुपुण्यादिपुण्यजनये जनयाञ्चकार।
सद्दर्शनव्रजविकासकृते च धर्मस्थानावली–वलयिनीनवनीमशेषाम्॥”

—नरनारायणानन्दे [सर्गे १६, श्लो.३७]

“तेन भ्रातृयुगेन या प्रतिपुर–ग्रामाध्व–शैल–स्थलं
वापी–कूप–निपान–कानन–सरः–प्रासाद–सत्रादिका।

धर्मस्थान–परम्परा नवतरा चक्रेऽथ जीर्णोद्धृता
तत्सङ्ख्याऽपि न बुध्यते यदि परं तद्वेदिनी मेदिनी॥”

—अर्बुदगिरौ वस्तुपालान्वयप्रशस्तौ [श्लो.६६] सोमेश्वरः।

यस्य प्रार्थना–प्रेरणयाऽस्यालङ्कारमहोदधेः प्रणयनमजनि, तस्य सुप्रसिद्धस्य विद्वद्वत्सलस्य गूर्जरेश्वरभीम

महाराणकवीरधवल–मन्त्रीश्वरवस्तुपालस्य सचिव

तेजःपालाग्रजस्य समुज्ज्वलकीर्ति–प्रशस्तिप्रबन्धास्तत्समकालीनैरनेकैः प्रैाढेः कविभिरनेकैश्चानन्तरैर्विद्यदद्भिर्विहिता अत्र तेषां नामनिर्देशमात्रेणैव सन्तुष्यते।

नर-नारायणानन्दमहाकाव्यम्–गायकवाडप्राच्यग्रन्थमालायामितः [क्र.२] प्रागेव प्रकाशिते गुर्जरेश्वरमहामात्यवस्तुपालविरचितेऽस्मिन् महाकाव्ये षोडशे सर्गे तेन स्वयं निजवंश–प्रशस्तिपरिचयोऽकारि। प्रतिसर्गप्रान्तेऽन्यकविकृतप्रशंसया महामात्यप्रतिकृत्या च साकं तत् प्रकाश आगतम्। तत्परिशिष्टादिनिरीक्षकाणां तत्कृतस्तोत्र–सूक्तादिकमपि विदितम्।

कीर्तिकौमुदी

गुर्जरेश्वरपुरोहितेन सोमेश्वरेण सुकविना सन्दर्भिता प्रस्तुतस्य महामात्यस्य कीर्तिर्विलसति कीर्तिकौमुदीसज्ञके नवसर्गात्मके महाकाव्ये, प्रशस्तिश्च

वि.सं. १२८७, ८८ वर्षेषु अर्बुदगिरि–गिरिनारजैनमन्दिर–शिलालेखादौ, सुरथोत्सवप्रान्तसर्गे, उल्लाघराघवादौ च प्रतिसर्गप्रान्ते।

**सुकृतसङ्कीर्तनम्–**कविरत्नारिसिहेन निर्मितमेतदेकादशसर्गमय महाकाव्यम्, यत्र च प्रतिसर्गप्रान्ते श्लोकचतुष्टय निर्ममे तत्सहचरेण सुकविनाऽमरेण।

वसन्तविलासमहाकाव्यम्–सिद्धसारस्वताचार्यबालचन्द्रकविरचित महामात्यस्व-गगमनादनन्तर तत्पुत्रजयन्त(जैत्र)सिहसचिवमनोविनोदकृते चतुर्दशसर्गात्मकमेतदपीत एव (गा. प्रा ग्रं. क्र. ७) प्रकाशितम्, येन कविना वस्तुपालनिर्मितशत्रुञ्जयतीर्थेन्द्रमण्डपेऽभिनयार्थं करुणावज्रायुधरूपकमपि रचितम्।

धर्माभ्युदयमहाकाव्यम् (सङ्घपतिचरितम्)–लक्ष्म्यङ्कमेतत् पण्डितपुण्डरीकेण नागेन्द्रगच्छीयविजयसेनसूरिपट्टधरेणोदयप्रभसूरिणा रचितम्। इतः प्रकाशिते प्राचीनगूर्जरकाव्यसग्रहे (गा. प्रा. ग्र. १३) यस्य पञ्चदशः सर्गः प्रकाशितः, सम्पूर्णमिदं पुण्यविजयमुनिराजप्रयत्नादचिरात् प्रकाशतामागमिष्यति।

** सुकृतकीर्ति–कल्लोलिनी–**पूर्वोक्तस्यैत्रोदयप्रभसूरेः कृतिरेषा अत्रैव ग्रन्थमालायां हम्मीरमदमर्दन–प्रान्ते तृतीयपरिशिष्टरूपेण प्रकाशिता।

हम्मीरमदमर्दनं नाटकम्–मन्त्रीश्ववरवस्तुपालप्रशस्त्या साकमेतत् सुकविना जयसिंहसूरिणा निर्मित स.१२८६ वर्षीयताडपत्रपुस्तकादित एव (गा. प्रा. ग्रं. १०) प्रकाशितम्।

वस्तुपाल–प्रशस्तिः ( १ )–येनास्य महामात्यस्य प्रार्थनया कथारत्नसागरो निर्मितः, येन चायमलङ्कारमहोदधिर्निजशिष्यात् कारितस्तेन नरचन्द्रसूरिणा रचितेषा प्रशस्तिरत्र चतुर्थे परिशिष्टे प्रकाश्यमाना प्रमदावहा भविष्यति।

**वस्तुपाल–प्रशस्तिद्वयम्–( २–३ )–**अलङ्कारमहोदधिकर्त्राऽनेनैव ग्रन्थकारेण नरेन्द्रप्रभसूरिणैकत्र प्रशस्तौ १०४ पद्येषु मन्त्रीश्वरवस्तुपालविहितानि विविधस्थानी-यानि विविधानि सुकृत्यानि सस्मृतानि। अन्यस्या च ३७ पद्यपरिमिताया प्रशस्तौ तदीय सुयशः प्राकाशि। एतच्चात्र प्रान्ते परिशिष्ट (५–६) रूपे प्रकाशितं समुप-युक्त ज्ञास्यते। एतदन्तर्गतानि कानिचित् पद्यानि गिरिनारगिरिशिखरस्थे वि.स.१२८८ वर्षीये मन्त्रीश्वरबन्धुकारितजिनालयप्रशस्ति–शिलालेखे नरेन्द्रसूरिनाम्नोट्ट-ङ्कितान्यपि दृश्यन्ते॥

अर्बुद–गिरिनारप्रभृतितीर्थ–धर्मस्थानप्रतिष्ठापक–वस्तुपाल–तेजःपालधर्माचार्यश्रीविजयसेनसूरिनिर्मितो रेवन्तगिरिरासोऽत्रैव (गा. प्रा. ग्रं. १३) प्राचीनगूर्जरकाव्यसंग्रहे प्रकाशितः। तत्र निम्ननिर्दिष्टेष्वनन्तरेष्वितरेष्वपि च वस्तुपाल–संस्मरणान्युपलभ्यन्ते।

वि. सं. १३६१ वर्षे मेरुतुङ्गसूरिणा प्रबन्धचिन्तामणौ(वस्तुपाल–प्रबन्धः),

पुरातनप्रबन्धसङ्ग्रहे ”

वि. सं. १३८९ वर्षे जिनप्रभसूरिणा तीर्थकल्पे (वस्तुपाल–तेजःपाल–कल्पः),
वि. सं. १४०५ वर्षे राजशेखरसूरिणा प्रबन्धकोशे (वस्तुपाल–प्रबन्धः),
वि. सं. १४९७ वर्षे जिनहर्षगणिना रचिते वस्तुपाल–चरितकाव्ये।
वि. स. १५०३ वर्षे पं. सोमधर्मगणिना उपदेशसप्ततौ।
वि. सं. १५१७ वर्षे रत्नमन्दिरगणिना उपदेशतरङ्गिणीप्रभृतौ।
वि. स. १५२१ वर्षे शुभशील गणिना प्रबन्धपञ्चशती–कथाकोशे।

वि. सं. १४८४ वर्षे हीरानन्दसूरिणा षोडश–सप्तदशाष्टादशशताब्दीसम्भवैश्चेतरैर्लक्ष्मीसागरसूरि–पार्श्वचन्द्रसूरि–समयसुन्दर–मेरुविजयाद्यनेकैः कविभिर्गुर्जरा-विदेशभाषायां वस्तुपाल–तेजःपालरासकाव्यानि रचितानि।

उपर्युक्तांश्च ग्रन्थादीनाश्रित्याधुनिकैरप्यनेकैर्भिन्नभिन्नरचनाऽकारि। वि. सं. १९८२-८३ वर्षे ‘जैन’साप्ताहिकपत्रे ‘सिद्धराज अने जैन’संज्ञिकायां लेखमालायाम्, ‘तेजपालनो विजय’ नामनि निबन्धेऽपि च मया किञ्चि तत्परिचये सूचितम्।

हर्षपुरीयगच्छाचार्याः।

“राजानः प्रतिबोधिताः कति कति ग्रन्थाः स्वयं निर्मिताः !
वादीन्द्राः कति निर्जिताः कति तपांस्युग्राणि तप्तानि च?।

श्रीमद्हर्षपुरीयगच्छमुकुटैःश्रीसूरिसुत्रामभिः
सच्छिप्यैर्मुनिभिश्च वेत्ति नवरं वागीश्वरी तन्मितम्॥”

–सुधाकलशः सङ्गीतोपनिषत्सारोद्धारे [ अ. ६, लो, ४८ ]

प्रस्तुतालङ्कारमहोदधिकारेणात्र निजपरिचये हर्षपुरीयगच्छस्योल्लेखोऽकारि। तस्य प्रादुर्भावःपर्युषणा कल्पसूत्र–स्थविरावल्यां निर्दिष्टात् कोटिकगण–ध्यमाशाखा-सम्बद्धप्रश्नवाहनकुलात् ज्ञायते। जयमेरुनिकटवर्तिसुभटपालपारितहर्षपुरतोऽस्य

गच्छस्य प्रसिद्धिः। मध्यमाशाखाप्रभवस्य प्रभावकस्य प्रियग्रन्थसूरे· परिचय उपलभ्यते वि. सं. १६२८ वर्षे धर्मसागरगणिविहितायां ल्पसूत्र**–**

किरणावल्याम् (पृ. १६९), स. १६९६ वर्षे विनयविजयगणिविरचितायां कल्पसूत्र–सुबोधिकायाम् [पृ. १६७**–**

१६८] च वृत्तौ। एतद्गच्छीययसिहसूरिः शाकम्भरीदेशे सन्मानित आसीत्। एवं च तदनुयायिनो गूर्जरेश्वराणां हर्षपूरका आसन्। राजमान्यैरधिकारिमान्यैः प्रजाप्रियैर्विद्वभिः सद्गुणिभिः सच्चरितैश्चैतैराचार्यैर्गूर्जरादिदेशेष्वपि बहूपकृतमिति तदीयग्रन्थाद्यवलोकनेन विज्ञायते। नरेन्द्रप्रभसूरिरप्यत्र तद्गच्छीयपूर्वजगुरुपरम्परां समसूचयत्। प्रमाणान्तरसंवादेनात्रैव क्रमेण सा निर्दिश्यते—

<MISSING_FIG href="../books_images/U-IMG-1729523998११.png"/>

प्रश्नवाहनकुलोद्भूतहर्षपुरीयगच्छीयजयसिहसूरेः शिष्योऽयं निःस्पृहनिर्ग्रन्यशिरोमणिः प्रशस्तगुणगणशाली राजमान्यः समभूत्। अलङ्कारमहोदधिकारेणात्र निरदेशि यदय गुरुर्गूर्जरेश्वरकर्णराजकृत ‘मलघारी’ इति नामान्तरमधारयत्^(१)।

____________________________________________________________

१.“गच्छे हर्षपुरीये गुणसेवधिरभयदेवसूरिरभूत्।
मलधारीत्यभिधाऽन्तरमधत्त य. कर्णभूपकृतम्॥”

—अलङ्कारमहोदधि

प्रशस्तौ (श्लो. १)

गोपगिरि (ग्वालियर) शिखरस्थितमहावीरजिनायतनस्य चिरकालमवरुद्धं द्वारं येन तत्र गत्वा भुवनपालभूपालं भणित्वा प्रोद्घटितमकारि। यस्य सदुपदेशाद्गूर्जरेश्वरः सुप्रसिद्धराजाधिराजसिद्धराजजयसिहोऽखले स्वदेशे पर्युषणादितिथिषु, एकादशीमुख्य(८०)दिनेषु शासनदानपूर्वाममारिमकारयत्। येन वरणगसुतं संतूयसचिवमुपदिश्य भृगुकच्छे शकुनिकाविहारे जिनचैत्येसुवर्णमयाः कलशासमारोपिताः। यस्य च सन्देशकेनापि शाकम्भरीनरेन्द्रेण पृथ्वीराजेन भूभुजा रणस्तम्भपुरे (रणथंभोर)–जिनालये सुवर्णकुम्भाः स्थापिताः। संयममार्गप्रकाशकेन सदुपदेशकेन येन लोको दान–तपः–पूजा–कल्याणकमहोत्सवाष्टाह्निकादिधर्मकार्येषु प्रवर्तितः; तस्योपदेशात् प्रद्यम्नो राजसचिवः चतस्रः प्रियाः परित्यज्य चारित्रं प्रत्यपद्यत,

____________________________________________________________

एतदनुसारि वच उपलभ्यते हर्षपुरीयगच्छ–सद्गुरुपद्धतौ— [पि. रि. ५, ९६]

“हरिसउरगच्छतिलओ गुणनिलओ विहियसयलदुहविलओ।
सिरिअभयदेवसूरी सुविहियचूडामणी जयउ॥

कालवसेण अवहे अहिणवपहियस्स पुव्वसाहुपहे।
जस्स मलहारिनाभदिन्न कन्नेण नरवइणा॥”

सं. १३८७ वर्षे एतदनुसरति स्म राजशेखरसूरिः प्राकृतद्वयाश्रयवृत्ति–प्रशस्तौ श्लो० ७ [पत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूच्याम् २], न्यायकन्दली–वृत्ति–पञ्जिकाप्रशस्तौ च [श्लो. ५ पी. रि. ३, पृ. २७४]

“श्रीगुर्जरेश्वरो दृष्ट्वा तीव्रं मलपरीषहम्। श्रीकर्णो बिरुदं यस्य मलधारीत्यघोषयत्॥” स. १३८०, १४०६ वर्षे स्रुधाकलशश्च सङ्गीतोपनिषत्सारोद्धार–प्रान्ते(पत्तनीयग्रन्थसूच्याम् २)—

“तद्गच्छेऽभयदेवसूरिसुगुरोः श्रीकर्णभूपेन यः
संज्ञा सन्मलधारिणीति स्वयं निर्मिता।”

जिनप्रभसूरिणा सं.१३८९ वर्षे विरचिते तीर्थकल्पे ‘मलधारि’नाम जयसिहनरेन्द्रा न्निरदेशि, किन्तु तद्गच्छीयाना पूर्वोक्तानुसारेण कर्णराजात् तत्प्रख्यातिरधिकप्रामाणिका प्रतिभाति।

वि. सं. १७१५ वर्षे भावविजयगणिरप्यन्तरिक्षपार्श्वनाथमाहात्म्ये (श्लो.८६, ८७,९८)—

“श्रूयतेऽभयदेवाख्यः सर्वशास्त्रविशारदः। मान्यो बहुषु भूपेषु सूरिः सुरीबलान्वितः॥
गुर्जरदेशियो राजा कर्णः कर्णेव विक्रमः। स ददौ श्रीमति सूरौ मलवारिमहापदम्॥

X X प्रतिष्ठाविधिना सूरिः प्रतिष्ठापितवास्तदा।

द्विचत्वारिशदुत्तरैकादशशत [१९४२] विक्रमे। माघसितपञ्चम्यर्केमुहूर्ते विजयागते॥”

निर्ग्रन्थानां तिलकं लक्षावधिश्लोकविनिर्माता स हेमचन्द्रसूरिरस्य सुशिष्यः समजनि^(१)।गूर्जरेन्द्रनगरेऽणहिल्लपाठकपत्तनेऽन्तिमानशनस्थितस्यास्य चाभयदेसूरेर्दर्शन वन्दनाद्यर्थ राजप्रभृतिजनानां ग्राम–नगर–देशनिवासिश्राद्धानां च सम्मर्दः समजनि। परभवं प्राप्तस्य च यस्य शरीरस्य श्रीखण्डविमानारोपणादि–श्मशानयात्राऽग्निसंस्कारमहोत्सवोऽपूर्वः श्रद्धा–भक्तिनिर्भरैरकारि। तत्कालीनं दृश्यंप्राकारपश्चिमाट्टालके स्थितेन जयसिहराजेन निजपरिजनेन सह प्रैक्षि। तस्य चितास्थानरक्षा–मृत्तिकाऽऽद्यपि लोकाना रोगादिबाधाहरमजनि। वणितमेतत् समकालीनेः साक्षिश्रीचन्द्रसूरिप्रभृतिभिः सुकविभिः।

हेमचन्द्रसूरिः।

पूर्वोक्तस्याभयदेवसूरेः पट्टधरोऽयमत्र (पृ. ३३९) प्रान्तप्रशस्तिद्वितीयपद्ये सस्मृतः—

“शिष्यस्तदीयोऽजनि हेमसूरि^(१)रपारविद्याऽर्णव

कर्णधार।
श्रीसिद्धराजः किल यस्य वाच बभार शेषामिव मूर्ध्नि शश्वत्॥”

एतेन भगवती जिह्वाग्रे कृताऽऽसीत्, अर्धलक्षश्लोकपरिमिता मूलग्रन्थ—विशेषावश्यकलक्षण–प्रमाणादिग्रन्थाश्च पठिता आसन्। राजामात्यादिबहुलाया सभायां गम्भीरध्वनिनाऽनेन उपमितभवप्रपञ्चादि भूरि भूरि व्याख्यातमासीत्।

वि. स. ११६४ वर्षेऽणहिलपाटके जयसिहराज्ये एतल्लिखिता ६६२७ श्लोकपरिमिता निजनिर्मिताया जीवसमासवृत्तेस्ताडपत्रीयपुस्तिकोपलभ्यतेऽद्यावधि स्तम्भतीर्थ(खंभात)जैन पुस्तकभाण्डागारे [वि. रि. १, १८], एतेन १४००० श्लोकपरिरिमिता स्वोपज्ञोपदेशमाला–सूत्र–वृत्तिः, वि. स. ११७० वर्षे १३००० श्लोकपरिमिता स्वोपज्ञभवभावनासूत्रवृत्तिर्व्यरचि, अनुयोगद्वारसूत्रस्य वृत्तिः ६०००, शतक-

____________________________________________________________

१. “त(य) स्योपदेशान्निर्मुच्य चतस्रश्चपलेक्षणा। प्रद्युम्नो राजसविवश्चारित्रं प्रत्यपद्यत॥
श्रीहेमचन्द्र इत्यासीत् सूरिर्भूरिगुण. स तु। ग्रन्थलक्ष–विनिर्माता निर्ग्रन्थाना विशेषकम्॥

विशत्यूनमभारिपत्रलिखितं प्रत्यन्दमह्लाशत
क्षोणौजात्यसुवर्णदण्ड-कलशैश्चैत्याग्रशृङ्गारणम्।

भ्याख्यानावसरे स्वयं जिनगृहास्थामण्डपे वाचनं
श्रीसिद्धाधिपतिर्व्यधात् स्व… मिदं यत्पादपूजापदे॥”

–प्राकृतद्व्याश्रय-वृति-प्रशस्तौ श्लो० ९-११ [पत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूच्याम् २]

प्रतिबोध्य सिद्धभूषवमुद्दण्डै. कनकदण्डकलशैर्थः।उत्तंसितवान् परित ‘स्वदेश-परदेशचैत्यानि॥
प्रतिवर्ष जीवरक्षामशीत्य हमशीत्यहम्। यस्योपदेशात् सिद्धेशस्ताम्रपत्रेप्ली लिखत्॥”’

–म्यायकन्दलीपञ्चिकाप्रशस्तौ [ श्लो. ९, १० पी. रि. ३, ६७४, २७५ ]

(कर्मग्रन्थ)स्य वृत्तिः ४०००, मूलावश्यकवृत्तेष्टिप्पन ५०००, नन्दिटिप्पनकम्, तथा वि. सं. ११७५ वर्षे जयसिहराजराज्ये २८००० श्लोकपरिमिता विशेषावश्यक-सूत्र–भाप्यविवृतिरपि व्यधायि।

एतस्य व्याख्यानगुणप्रसिद्धि श्रुत्वा गूर्जरनरेन्द्रो जयसिहः परिवारसंयुक्तः स्वयमेव जिनमन्दिरे आगत्योपयुक्तचित्तो धर्मकथा सुचिरं शृण्वन्नासीत्, कदाचित्तद्दर्शनोत्कण्ठितमानसश्च वसतावागत्य चिरं सलापं कुर्वन्नासीत्। निजे धवलगृहे आगमनायामन्त्रितोऽय सूरिवर्यो यदा तत्र गतस्तदा तेन महाराजेन सुवर्णभाजनस्थितार्घादिना भूरिभक्त्या पूजितः सत्कृत आसीत्।

एतेनैव हेमचन्द्रसूरिणा जयसिहराजमुक्त्वा तस्य सकले मण्डले जिनमन्दिरेषु मनोहरसुवर्णमयाः कलशाः समारोपिताः। धंधुक्कक–सत्यपुरप्रभृतिषु स्थानेष्वन्यतीर्थिभिः क्रियमाणा जिनशासनस्य पीडा सुराष्ट्रप्रभुराजखड्गारप्रबोधकेनानेन निवारिता, तेष्वन्यस्थानेष्वपि च रथपरिभ्रमणं कारितम्। देवदायस्य रक्षा–वृद्धिकृते सङ्घेन सह शत्रुञ्जयोज्जयन्ततीर्थयात्रादिकृते जिनशासनोन्नतये च बहु प्रयतितम्। एतस्य श्मशानयात्रायामनुगमनेनान्तिमसम्माननं कृतमासीत् सिद्धराजेनेत्यादि ज्ञायते तत्कालीनकविना तदीयपट्टधरेण वि. सं. ११९१ वर्षे विजयसिहसूरिणा विरचिताया धर्मोपदेशमाला-विवृतेः, श्रीचन्द्रसूरिणा च वि. सं. ११९३ वर्षे रचितस्य ११००० पद्यपरिमितस्य प्राकृतमुनिसुव्रतचरितस्य प्रान्तप्रशस्तितः, याऽस्माभिः पत्तनस्थप्राच्यजैनभाण्डागार-ग्रन्थसूच्याम् [गा. प्रा. ग्रं. ७६, पृ.३११-३२३] प्रादर्शि*।

विजयसिंहसूरिः। अत्र प्रान्ते (पू. ३३९) तृतीये पद्येऽस्य स्मरणमकारि। एतस्य कृतिरूपं १४४७१ श्लोकपरिमित धर्मोपदेशमाला–विवरणं वि. स. ११९१ वर्षे निष्पन्न तत् समसूच्यस्माभिः पत्तनभां० सूच्याम् [गा. प्रा. प्र. ७६, पृ. ३११]

** श्रीचन्द्रसूरिः।** अत्र प्रान्ते (पृ. ३३९) चतुर्थपद्ये संस्मृतस्य संग्रहणीरत्न–क्षेत्रसमासादिकर्तुरस्य ११००० श्लोकपरिमित संवत् ११९३ वर्षे निष्पन्न प्राकृत मुनिसुव्रतचरितं पत्तनभा० सूच्याम् [गा. प्रा. ग्रं. ७६ पृ. ३१४] ऐतिहासिकप्रशस्त्या समं समसूच्यस्माभिः। वि. सं. ११९९ वर्षे विरचिते प्रा. सुपार्श्वनाथ**–**

_____________________________________________________________

*अत्र पीटर्सनरि. ४, ५ प्रमृतौ जातं स्खलन ‘जैन’ साप्ताहिके समशोधि ‘सिद्ध-राज अने जैनो’ संज्ञिकाया लेखमालयामस्माभिः सं. १९८२-८३ वर्षेषु।

चरिते लक्ष्मणगणी निजं सतीर्थ्यमेनं पूर्वावस्थायां लाटदेशमुद्रा पालकमधिकारिणमुपालक्षयते।

लक्ष्मणगणी। वि. सं. ११९९ वर्षे माघशु. १० गुरुवासरे मण्डलिपुर्याकुमारपालराज्ये पूर्वोक्तहेमचन्द्रसूरिशिष्येणानेन दशसहस्रश्लोकपरिमित सप्तमतीर्थनाथस्य सुपार्श्वनाथस्य प्राकृत चरित रचितमासीद् यत् प्रसिद्धम्।

मुनिचन्द्रसूरिः

अन्न प्रारम्भ [पृ. १, श्लो.६] प्रान्ते च (पृ. ३३९) पञ्चमपद्यसूचितस्य नरश्चन्द्रसूरिगुरोरस्य पार्श्वे चौलुक्य आनलनृपः सगर्भमृग्या वधतो विषण्णीभूय प्रवब्राज इत्युलेख उपलभ्यतेऽन्यत्र। देवानन्दसूरिरस्य मुख्यः पट्टधरो ज्ञायते।

देवभद्रसूरिः। श्रीचन्द्रसूरिशिष्येण मुनिचन्द्रसूरिभ्यो लब्धप्रतिष्ठेनानेन वि. स. १२३३ वर्षे निजगुरुरचितस्य संग्रहणीरत्नस्य, क्षेत्रसमासस्य च वृत्ती विहिते। न्यायावतार–वृत्तिटिप्पनमप्येतेन व्यरचि।

देवप्रभसूरिः। अलङ्कारमहोदधिकारेणात्र प्रारम्भे षष्ठे पद्ये प्रान्तेऽष्टमपद्ये चास्य प्रसादोऽस्मारि, एतदरचित पाण्डवचरितमहाकाव्य—धर्मसारशास्त्र—मृगावतीचरित्रादि प्रसिद्धम्। एतत्कृतोऽनर्धराघवरहस्यादर्शोऽस्माभिः पत्तन—ग्रन्थसूच्यां [पृ. ३०१] सूचितः।

_____________________________________________________________

१**“दुइओ अमुद्दविजासमुद्द—संपुन्नपुन्निमाइंदो।
जिणपचयण—कुमुय वियासगो य सिरिश्चंदसुरिति॥**

पालतेण सिरिलाडदेसमुदं न केवलं जेण ।
जिणपचयणस्स विहिया पभावणा समणमुद्द पि ॥

जस्स य मुणिसुन्वयचरिथ—रंगसालाए विलसिया वाणी।
छंदानुगालंकारसालिनो लेखयवहु व्व॥”

—तदनुयायी राजशेखरसूरिश्चेत्थ निरदिशत्—

“श्रीश्रीचन्द्रमुनीन्द्रो विबुधेन्दुमुनिश्च तस्य वंश्यौ द्वौ।
यौ लाटदेशमुद्रामुज्झित्वा जगृहतुर्दीक्षाम्॥”

न्यायकन्दली पञ्जिका—प्रशस्तौ श्लो ११, प्रा द्वया. वृत्ति-प्रशस्तौ च।

“श्रीचन्द्रसूरिशिष्यो मुनिचन्द्रप्रभु शुचिचरित्रः।
चौलुक्यमानलटर वाम्ग्मी प्रवाजयामास॥"‘

राजशेखरसूरिन्ययिकन्दली—पश्चिका प्रशस्तौ (पि.रि. ३, २७५)

तदन्वयेऽभून्मुनिचन्द्रसूरिर्यत्पादमूले चरणं प्रपेदे।
श्री आनल. श्री चुलुवंशजन्मा सगर्भमृग्या वधतो विषण्ण॥”

—सं, १३८७ वर्षे प्रा द्वयाश्रयमहाकाव्य —वृत्ति—प्रशस्तौ

च।

नरचन्द्रसूरिः।

सन्माननीयोऽयं सूरिमंन्त्रीश्वरवस्तुपालप्रार्थनया समुल्लासिते स्वकीये कथारत्नसागरे यत्र पद्ये स्वपरिचये समसूचयद् हर्षपुरीयगच्छसवितृमुनिचन्द्रसूरि शिष्यत्वम्, देवानन्दसूरिहस्तात् प्रतिष्ठोदयम् (निजं सूरिपदम्), देवप्रभसूरिवचनाच्च प्रबोद्धृत्वम्; तदेव पद्यं प्रान्तांशपरिवर्तनेन समवतारयदत्रलङ्कारमहोदधि**–**

प्रारम्भे षष्ठपद्यतया तदीयशिष्यो नरेन्द्रप्रभसूरिः^(१)। एवं नरचन्द्रसूरेरमृतसदृशा वाचश्ची लुक्यराजसभायां सभासद हर्षकारिण्यो बभूवुरित्यादिसूचकं पद्यमपि ग्रन्थयेऽपि दृश्यते^(२)। वस्तुपालविज्ञप्तिसूचकं यत् पद्यं कथारत्नसागरे प्रयुक्तं तदेवात्रालङ्कारमहोदधावप्यवतारितमवलोक्यते।

नरचन्द्रसूरिर्निजरचनायां निमित्तभूतां निरदिशादित्थं मन्त्रिवस्तुपालस्याम्यथेनाम्—

“अन्येद्युर्भक्तितो मौलौ निधाय करकुड्मलम्।
तेन विज्ञपितः श्रीमान् नरचन्द्रो मुनीश्वरः॥”

—कथारत्नसागरे [श्लो. ८], अलङ्कारमहोदधौ [श्लो. १६]

“युष्माभिः स्वकराम्बुजस्य शिरसि न्यस्तस्य माहात्म्यतःप्राप्त जम्भजितोऽपि दुर्लभतर साधिपत्यं मया।

धर्मस्थानशतानि दानविधयस्ते ते च सन्तेनिरे चेतः सम्प्रति जैनशासनकथाः श्रोतुं समुत्कण्ठते॥

इत्यभ्यर्थनया चकुर्वस्तुपालस्य मन्त्रिणः।
नरचन्द्रमुनीन्द्रास्ते श्रीकथारत्नसागरम्॥”

___________________________________________________________

१ नरचन्द्रसूरिः कथारत्नसागरे (श्लो.४)—

“शिष्यो हर्षपुरीयगच्छखवितु. श्रीमन्मुनीन्दुप्रभो—
देवानन्दमुनीन्द्रपाणिकमलोन्मीलत्प्रतिष्ठोदयः।

श्रीदेवप्रभसूरिवाहमय महागैषज्यशात्यन्मन—
स्तन्द्रः श्रीनरचन्द्रसूरिरुदयी प्रीणाति विश्वम्भराम्॥”

एव च नरेन्द्रप्रभसूरिरलङ्कारमहोदधौ ( श्लो. ६)—

“+ + + स्तन्द्र. श्रीनरचन्द्रसूरिश्वनीचन्द्रश्विरं नन्दतात्॥”

२ नरचन्द्रसूरि कथारत्नसागरे ( श्लो. ५ ), नरेन्द्रप्रभसूरिश्वालङ्कार महोदधौ (छो. ७)—

“पीयूषवन्धुरतरास्त ( सु ) रसा निहत्य हालाहलं समदवादमयं बुधानाम् ।
चौलुक्य भूमिपतिसंसदि यस्य वाचः केषां न चेतसि मुदं म(—दमु)दयाम्बभूवुः?॥”

कथारत्नसागरे [पत्तनभां.सूच्याम् १, पृ. १४, श्लो. ८–१०] सूचयति स्म।

गूर्जरेश्वरपुरोहितकविसोमेश्वरः [वस्तुपाल] प्रशस्तिकर्तारं कवीन्द्रमेनं मुनीन्द्र प्रशंसति स्म कीर्तिकौमुद्याम् [श्लो. २२]

“कवीन्द्रश्च मुनीन्द्रश्च नरचन्द्रो जयत्ययम्।
प्रशस्तिर्यस्य काव्येषु सङ्क्रान्ता हृदयादिव॥”

अरिसिहकविर्वर्णयति स्म वस्तुपालतीर्थयात्रासङ्घ सहचरमेनं सुकृतसङ्कीर्तने [सं.५,श्लो,१०]

“अथानुचेलुर्नरचन्द्रसूरयो लसत्त्र सस्तोमविलोकनच्छलात्।
दृशैव सिञ्चन्त इवाद्भुतक्लमां प्रयाति सङ्के वसुधां सुधान्तया॥"

देवप्रभसूरिः प्रकटयति स्म पाण्डवचरिते [प्रश. श्लो. ११ पि. रि. ३, १३४] यशोभद्रसूरिस्मरणेन सह तत्संशुद्धिकारिणी तदीया प्रज्ञाम्—

“ज्ञानैकमयमूर्त्त (र्त्ती) नामस्मिन्नवरसान्विते।
श्रीनरचन्द्रसूरीणां प्रज्ञया कतकायितम्॥”

वि.सं.१२९१ वर्षे नागेन्द्रगच्छनायक उदयप्रभसूरिः स्वकीयमहाकाव्यसंशोधकमेनं समस्मरद्र धर्माभ्युदये सङ्घपतिचरिते महाकाव्ये [स ११, श्लो.६०–६१]—

“कि़ञ्चश्रीमलधारिगच्छजलधिप्रोल्लासशीद्युतेस्तस्यश्रीनरचन्द्रसूरिसुगुरोर्माहात्म्यमाशास्महे।

यत्पाणिस्मितपद्मवासविकसत्किञ्जल्कसंवासिताः सन्तःसन्ततमाश्रिताः किल मया भृड्रग्येव भान्ति क्षितौ॥

श्रीधर्माभ्युदयावयेऽत्र चरिते श्रीसङ्घभर्तुर्मयादधे काव्यदलानि सङ्घटयितुं कर्मान्तिकत्वं परम्।

किन्तु श्रीनरचन्द्रसूरिभिरिदं सशोध्य चक्रे जगत्पावित्र्यक्षमपादपङ्कजरजःपुञ्जे प्रतिष्ठाऽऽस्पदम्॥”

संस्मरति स्म विबुधचन्द्रकविर्विवेकपादपे सूक्तसमुच्चये [श्लो. ४२१; पत्तनस्पप्राच्य जैनभाण्डागारीयग्रन्थसूच्याम् १, पृ. १८७]—

“यस्मै प्रसादविवशो दिशति स्म शास्त्र–तत्त्वामृतं स भगवान् नरचन्द्रसूरिः।
सोऽयं कृती विबुधचन्द्रकविः स्वहेतोः सूक्तानि कानिचिदमूनि समुज्जगार॥"

नरेन्द्रप्रभसूरिः स्वीयायामन्यत्र कृतौ विवेककलिकायामपि समस्मरद् गुरुमेनम्—

“श्रीदेवप्रभसूरिपादकमलद्वन्द्वद्विरेफोपमा

धन्यः श्रीनरचन्द्रसूरि जलदोपास्तिक्रियाचातकः।

आचार्यो मलधारिगच्छसरसीराजीव मूर्तिर्व्यधा

देतामात्मकृते^(१)विवेककलिकां श्रीमनरेन्द्रप्रभः॥”

वि. सं. १३२४ वर्षे समरादित्यसंक्षेपे [श्लो.२३] भूरिकविकाव्यसंशोधकः प्रद्युम्नसूरिरुत्तराध्ययनवाचनादातृत्वेन विद्यागुरुबुद्ध्याऽस्मै नमस्कारं प्रकटीचकार—

“श्रीमते नरचन्द्राय नमोऽस्तु मलधारिणे।

ददे मेऽनुत्तरा येनोत्तराध्ययनवाचना॥”

हर्षपुरीय(मलधारि) गच्छगौरवकारिणां सद्गुरूणां पद्धतौ नमनीय–वन्दनीयत्वेन संस्मरणमुपलभ्यते सूरिवर्यस्यैतस्य—

“दंसणनिज्जियससहरसिरीण गुणरयणरोहणगिरीण।

नमिमो खंतिमहि–महाकिरीण नरचंदसूरीण॥

लच्छीमयं च विज्जामय च नीसेसगुणगणमयं च।

चरणारविदरेणुं वंदे नरचंदसूरीण॥”

वि. सं. १३८९–१४०५ वर्षे राजशेखरसूरिर्निजपूर्वजगुरु–परम्पराविभूषकमेनमित्थं परिचाययति स्म न्यायकन्दली–पञ्जिका–प्रशस्तौ [१४–१५]–

“तदीयसिंहासनसार्वभौमसूरीश्वरः श्रीनरचन्द्रनामा।

सरस्वतीलब्धवरप्रसादस्त्रैविद्यमुष्टिन्धयधीर्बभूव॥

टिप्पनमनर्ध्यराघवशास्त्रे किल टिप्पनं च कन्दल्याम्।

सारं ज्योतिषमदृभद् यः प्राकृतदीपिकामपि च॥

वि. सं. १३८०–१४०६ वर्षे वाचनाचार्यसुधाकलशो निजपूर्वज गुरुपरम्परायां सस्मरति स्म सूरिमेन ^(२)सङ्गीतोपनिषत्–सारे [अ. ६,श्लो. ४९]—

_________________________________________________________________________________

१ ‘मलधारिधीनरेन्द्रप्रमसूरीणा बिवेकपादपो नाम सुक्तसमुचयः’ इत्युलेखानन्तर विवेककलिकायाम् [श्लो. ११०, पत्तन–सूच्याम् १, पृ. १८७]

२ “सङ्गीतोपनिषद्ग्रन्थं खाष्टानि–शशि [१३८०] वत्सरे।
ऋतु–शून्य–युगेन्द्वब्दे [ १४०६ ] तत्सार चापि निर्ममे॥”

–सङ्गीतोपनिषत्सारोद्धारे [अ. ६, छो. ५१ ]

“तदूवंशे नरचन्द्रसूरिरभवत् सच्छास्त्रसङ्गीतभृत्।
तस्माच्छ्रीतिलकाभिघो गुरुरभू यद्दत्तदीक्षस्त्वहम्॥”

वि. स. १४०५ वर्षे राजशेखर सूरिर्मन्त्रिवस्तुपाल मातृपक्षगुरुत्वेन राजशेखरसूरिमंन्त्रिवस्तुपालमातृपक्षगुरुत्वेन सुरत्राणसन्मानित नागपुरीयसाधुपूनडस्य वन्दनीयकुलगुरुत्वेन च सूरिमेन समसूचयत्–

“इतश्च नागपुरे साधुदेल्हासुतः साधुपूनडः श्रीमोजदीनसुरत्रानपत्नो–

बीवी–[चन्द्रकला] प्रतिपन्नबान्धवोऽश्वपति–गजपति–नरपतिमान्यो विजयते। तेन प्रथमं शत्रुञ्जये यात्रा त्रिसप्तत्यधिकद्वादशशत [१२७३] वर्षे बब्बेरपुराद् विहिता। द्वितीया सुरत्राण देशात् षडशीत्यधिकद्वादशशत सङ्ख्ये [१२८६] वर्षे नागपुरात्कर्तुमारब्धा। × × [धवलक्कके] सरस्तीरे स्थितः पूनडः कुलगुरुमलधारिश्रीनरचन्द्रसूरिपाशन् ववन्दे।”
मन्त्रोश्वरवस्तुपालस्वर्गारोहणसमय प्रकाशकस्य चैतस्य नरचन्द्रसूरेः स्वर्गगमनं वि. सं. १२८७ वर्षे समजनि, इति राजशेखरसूरिरेवेत्य निर्दिशति स्म—

“अथ विक्रमादित्यात् १२९८वर्ष प्राप्तम्। श्रीवस्तुपालो ज्वररुक्क्लेशेम पीडितः तेजःपालं सपुत्र-पौत्र स्वपुत्रं च जयन्तसिहमभाषत–”वत्साः! श्रीनरचन्द्रसूरिभिर्मलधारिभिः १२८७ वर्षे भाद्रपदवदि १० दिने दिवगमनसमये वयमुक्ताः–“मन्त्रिन्! भवता १२९८*****वर्षे स्वर्गारोहो भविष्यति। तेषा च वचासि न
चलन्ति, गीः सिद्धिसम्पन्नत्वात्।”—प्रबन्ध कोषे [ वस्तुपालप्रबन्धे ]

नरेन्द्रप्रभसूरिः।

अलङ्कारमहोदधिविधातुरस्य स्मरण प्राप्यतेऽन्यत्र प्राकृतभाषायां सद्गुरुपद्धतौ [गा १९–२१ पो.रि. १, ९८] इत्थम्—

__________________________________________________

किन्तु नैतद् यथास्थित ज्ञायते, यतो मन्त्रीश्वरवस्तुपालयम कालीनम ह। कविबालचन्द्रसूरिणा वस्तुपालपुत्रजयन्तसिह मनोविनोदाय विरचिते वसन्तविलाससंज्ञके महाकाव्ये (गा. प्रा. प्र.) १४ सर्गे, श्लो. ३७ नं. बस्तुपाल–स्वर्गवासो वि. सं. १२९६ वर्षे माघे शु. ५ रविवासरे इथं व्यावर्णि—

“वर्षे हर्षनिषण्ण–षण्णवतिके श्रीषिक्रमोर्वीमृत.कालाद् द्वादशसङ्ख्यद्दायनशतात् मासेऽत्र माघाह्वये।
पचम्या च तिथौ दिनादिसमये वारेच भानोस्तवोद्घोढुं सद्गतिमस्ति लग्नमसम तत् त्वर्यता स्वर्यताम्॥”

“पणमह भवभयहरणं पयकमलजय नरिंदपहगुरुणो।
जाण तव–चरणरेहा न लंघिया दुटुसत्तेहि॥”

वि. सं. १३८९–१४०५ वर्षे राजशेखरसूरिर्नरेन्द्रप्रभसूरिमेतद्ग्रन्थकर्तुत्वेन संस्मरति स्म न्यायकन्दली पञ्जिका–प्रशस्तौ [ श्लो. १६, पी. रि. ३, २७१]—

“तस्य गुरोः प्रियशिष्यः प्रभुर्नरेन्द्रप्रभः प्रभावाढ्यः।
योऽलङ्कारमहोदधिमकरोत् काकुत्स्थकेलि च॥”

इतः सप्तशत्या वर्षेभ्यः प्राक् तादृश सन्तोषकरं काव्यरहस्यनिर्णायक कविकलासर्वस्वज्ञापकं शास्त्रमुपलभ्यमानं नासीदिति मन्त्रीश्वरवस्तुपालस्याम्यर्थनया तत्प्रमोदाय साहित्यतत्त्वज्ञ–कविकलाविद्–गुरुनरचन्द्रसूरिनिदेशेन नरेन्द्रप्रभसूरिणाऽष्टतरङ्गविभक्तोऽयमलङ्कारमहोदधिर्निर्ममे। प्राच्यैरलङ्कारकारैः प्रकाशितानां वचसां सारसङ्ग्रहरूपेथं कृतिः। स्वानि काव्यालङ्कारसूत्राणि स्वय वितानि इत्यत्र स्पष्टं समसूचि। वि. सं. १२८२ वर्षे निष्पन्नाया अस्य वृत्तेश्च प्रमाणं सार्धचतुष्टय सहस्र–

________________________________________________

१ कथारत्नसागर ( छो. ८), अलङ्कारमहोदधौ च (श्लो. १६)—
“अन्येयुर्भक्तितो मौलौ निघाय करकुड्मलम्। तेन विज्ञपितः श्रीमान् नरचन्द्र (न्द्रो) मुनीश्वरः॥

“केचिद् विस्तर दुस्तरास्तदितरे संक्षेपदुर्लक्षणाः
सन्त्यन्ये सकलाभिधेयविकलाः क्लेशावसेयाः परे।
इत्थं काव्यरहस्य निर्णय वहिर्भूतैः प्रभूतैरपि
मन्थः श्रोत्रगतेः कदर्थितमिदं कामं मदीयं मनः॥

तम्मे मातिसविस्तरं कविकला सर्वस्वगर्वोद्धरं
शास्त्रं ब्रूत किमप्यनन्यसदृशं बोधाय दुर्मेधसाम्।
इत्यभ्यर्थनया प्रतीतमनसः श्रीषस्तुपालस्य ते
श्रीमन्तो नरचन्द्रसूरिगुरवः साहित्यतत्वं जगुः॥

तेषा निदेशादथ सद्गुरूणा श्रीवस्तुपालस्य मुदे तदेतत्।
चकार लिप्यक्षरसंनिविष्टं सूरिर्नरेन्द्रप्रभनामधेय॥”

काव्यालङ्कारसूत्राणि स्वानि किञ्चिद् विवृण्महे।
तन्मनस्तन्मयीकृत्य विभाव्यं कोविदोत्तमैः॥

नास्ति प्राच्यैरलङ्कारकारैराविष्कृतं न यत् ।
कृतिस्तु तद्वचःसारसङ्ग्रहव्यसनादियम्॥

—अलङ्कारमहोदधि–प्रारम्भे [टो. १७-१ ]”

श्लोकपरिमितमित्यादि महोदधिकारेणात्र स्वयं स्फुट निरदेशि। रचनास्थानस्य निर्देशस्तु नाकारि, गूर्जरराजधान्यां पत्तनेऽथवा वीरधवलपालिते मन्त्रीश्वरवस्तुपालप्रतिष्ठाबहुले स्थले धवलकके रचना सम्भावयितुं शक्यते।
अत्र मूले काव्यप्रयोजन–कारणस्वरूपभेदनिर्णय–शब्दवैचित्र्य–ध्वनिनिर्णय–गुणीभूतव्यङ्ग्यगतार्थवैचित्र्य–दोषव्यावर्णन–गुणालङ्कार–शब्दालङ्कारार्थलङ्कारप्रतिपादकेष्वष्टसु तरङ्गेषु क्रमशः १८, ३९, ६६,

९, २४, ३२, २५, ९९ सख्याकानि ३०४ प्रमितानि सुललितानि पाठ्यानि पद्यानि विद्यन्ते। प्रतितरङ्गं प्रान्ते चैकैक विशिष्टमुपसंहारक पद्ये विस्तृते वृत्तेऽन्यानि चानुष्टुप्सु। विवरणे च प्राचीनमहाकविप्रयुक्तानि रसमयानि रम्याणि ९८२ परिमितानि पद्यानि विविधकाव्य–नाटकादिसाहित्यग्रन्थेभ्य उद्धृत्योदाहृतानि साहित्यकलामर्मज्ञानामाकर्षकाणि भवेयुर्येषा मूलस्थलादिज्ञापिका सूची प्राकृतगाथानां च सस्कृतच्छाया भूरिपरिश्रमेणात्रास्माभिः सङ्कलितोपयुक्ता ज्ञास्यते। एव ग्रन्थकृद्–ग्रन्थादिनामज्ञापिकोपयुक्तानामैतिहासिकनाम्नां सूची प्रदर्शिता, विस्तरेण च विषयानुक्रमोऽपि पृथक् प्रदर्शित इति नेह विशेषेण प्रयत्यते।

‘प्रस्तुतग्रन्थकृत्कृतं’काकुत्स्थकेलिसंज्ञकं नाटकं १५००’ परिमितं सूचितं गणिकान्तिविजयलिखितायां प्रायः शतत्रयवर्षेभ्यः प्राचीनायां ग्रन्थसूच्याम् [पुरातत्त्वे पु. २, पृ. ४२६] ग्रन्थकर्तुरन्ये ग्रन्थास्तूपरि ज्ञापिताः।

आचार्य भावदेवसूरिः।

कालिकाचार्यसन्तानीयस्य खण्डिगच्छीयस्य विक्रमीयपश्ञ्चदशशताब्दीप्रारम्भे

_____________________________________________________________

" ततो गुणानामधिदैवतं परं जयन्त्यमी श्रीनरचन्द्रसूरयः।
यद्वाचि विन्यस्तभराऽद्य भारती विभर्ति भासुखसङ्गमं चिरात्॥

एते काव्यकलारहस्यमतुल शिष्यप्रकाण्डेषु यद्व्याचक्षुर्नरचन्द्रसूरिगुरवो वात्सल्यकल्लोलिताः।
तत्किञ्चित्सुधिया चमत्कृतिकृते व्युत्पत्तये चारमनस्तत्पादद्वयपङ्कजालिरलिखत् सूरिर्नरेन्द्रप्रभ॥

“नयन–वसु–सूर १२८२ वर्षे निष्पन्नायाः प्रमाणमेतस्या।
अजनि सहस्रचतुष्टयमनुष्टुभामुपरिपञ्चशती॥”

—अलङ्कारमहोदधि-प्रान्ते ( छो० ९-११ )

पत्तनादौ ^(१)पार्श्वनाथचरितमहाकाव्य(वि. सं. १३(४)१२)–कालिकाचार्यकथा(प्रा.)— ^(२)साधुदिनचर्यादिकर्तुरस्य विदुषः सङ्क्षिप्तोऽप्युपयोगी काव्यालङ्कारसारोऽप्यत्रालङ्कारमहोदधिपरिशिष्टे प्रकाशितो जिज्ञासूनां प्रमोदावहः सम्पत्स्यते।

जैनसिद्धान्ते काव्यालङ्काराः।

गद्य–पद्यमयप्राकृतप्रचुरेषु विशालेपु प्राचीनजैनसिद्धान्तसूत्रग्रन्थेषूपमादिविविधालङ्काराणामुपयोगः कृतो ज्ञायते। अनुयोगद्वारसूत्रे सप्तस्वराष्टवचनविभक्ति–नव–काव्यरसादिनिर्देशो वर्तते। तत्रैव च गेयगीतसूत्रनिबन्धविशेषणेषु—

^(३)“निद्दोसं सारमंतं च हेउजुत्तमलं कियं । उवणोयं सोवयारं च मिअं महुरमेव य॥”

[—अनुयोगद्वारसूत्रे आ. समिति, ऋ. के. प्र.]

‘इत्यादावलङ्कृतमपि समसूचि। विक्रमीयाष्टमशताब्दीतः प्राचीनैजिनदासगणिमहत्तर–“हरिभद्रसूरिप्रभृतिभिस्तस्य चूर्णि–व्याख्याकारैस्तत्पदम् ‘कव्वालंकारेर्हि जुत्तं अलं–कियं

’ [काव्यालङ्कारैर्युक्तम् अलङ्कृतम्] इति, मलधारिहेमचन्द्रसूरिणा च–‘उपमाऽऽद्यलड़कारयुक्तम् ’इति च व्याख्यायि।

प्राचीनैः पुष्पदन्त(दि)प्रभृतिकविभिर्निजकवित्वे रुद्रटादीनां काव्यालङ्कारिकाणां स्मरणमकारि। वि. सं. १९६७ वर्षे स्वर्गभाग् जिनवल्लभगणी रुद्रटोद्भट–दण्डि–वामन–भामहाद्यलङ्कारेषु निष्णात आसीदिति सुमतिगणिवचो गणधरसार्धशतकबृहद्वृत्तितो मया समसूचि ‘अपभ्रंशकाव्यत्रयी’ (गा. प्रा. ग्रं. ३७)–भूमिकायाम् पृ. २०

काव्यालङ्कारशास्त्रे जैनविदुषां प्रयत्नाः।

अलङ्कारदर्पणकारः। यस्य प्रकटं नाम न परिज्ञातम्, तथापि तस्य प्राचीनं

____________________________________________________________

१ “आसीत् स्वामिसुधर्मसन्ततिभवो देवेन्द्रवन्यक्रम.
श्रीमान् कालिकसूरिरद्भुतगुणप्रामाभिरामः पुरा।
जीयादेष तदन्वये जिनपति–प्रासाद–तुङ्गाचल–
भ्राजिष्णुर्मुनिरत्नगौरव निधि खण्डिल्लगच्छाम्बुधिः॥*

“तेषां विनयविनयी बहु भावदेवसूरिः प्रसन्नजिन देवगुरुप्रसादात्।
श्रीप

त्त

नाख्यनगरे रवि–विश्व (१४१२) वर्षे पार्श्वप्रभोश्चरितरत्नमिदं ततान॥

—पार्श्वनाथचरितमहाकाव्य–प्रशस्तौ (४, १४ य. वि. प्रं

.)

२ “मिरिका लिकरीणं वसुव्भवभावदेवसूरीहि।
सकलिया दिनचरिया एसा थोवमइजण(ई)जोग्गा॥”

—यतिदिनचर्या–प्रान्ते (गा. १५४)

३"निर्दोषं साम्यच्च हेतुयुक्तम् अलङ्कृतम्। उपनीत सोपचारं च मितं मधुरमेव च॥”

प्राकृतभाषामयं संक्षिप्तमप्युपयोगि ‘अलङ्कारदर्पणम्’विज्ञायते, यदस्माभिर्जेसलमेरुदुर्गभाण्डागारीयग्रन्थसूच्याम् (गा. ओ. सि. २१, पृ. २४, अप्रसिद्ध० पृ. ६२) सूचितम्।

वाग्भटः (१)। गूर्जरेश्वरसिद्धराजजयसिहसमकालीनस्य तत्प्रशंसकस्य सोमसूनोरस्य महामतिमहामात्यस्य कृतिः ‘वाग्भटालङ्कार’ नाम्ना विख्यातिं गता सिंहदेवगणिविहितया व्याख्यया साकं प्रकाशिता (नि. सा. काव्यमालायाम्), जिनवधनसूरि(ख.)–क्षेमहंसगणि—ज्ञानप्रमोदगणि(ख.)–वादिराज(दि)–राजहसोपाध्याय—समयसुन्दरादिर्जैनविबुधैरितरैरपि च–कृष्णशर्मगणेशादिभिस्तदूव्याख्या विरचिता ज्ञायन्ते।”

काव्यानुशासनम् (१)

“हेमचन्द्राचार्यः। सिद्धहेमचन्द्रशब्दानुशासनादिलष्टत्वेन सुप्रसिद्धस्य गूर्जरेश्वरसिद्धराज जयसिहमहाराजसन्मानितस्य परमार्हतकुमारपालभूपालधर्माचार्यस्यास्यालङ्कारचूडामणिवृत्ति–विवेकादिविभूषितं स्वोपज्ञमष्टाध्यायमय काव्यानुशासनं सुप्रख्यातम् (नि. सा., महावीरजैनविद्यालयतश्च)

(२)

वाग्भटः(२)। प्रायो विक्रमीय चतुर्दशशताब्द्यां विद्यमानस्य छन्दोऽनुशासन—ऋषभदेवचरितादिकर्तुर्महाकवेः मेदपाटादिप्रसिद्धनेमिकुमारनन्दनस्य राहडलघुबन्धोरस्य ‘अलङ्कारतिलक’ व्याख्याऽलङ्कृतं काव्यानुशासनं निर्णयसागरीयकाव्यमालायाम् (४३) प्रसिद्धम्।

कविशिक्षा (१)

जयमङ्गलाचार्यः। अद्यावधि प्रसिद्धि नाधिगता प्रस्तुतकविकृतासमीचीना कविशिक्षा स्तम्भतीर्थ (खंभात) स्थाने श्री शान्तिनाथीयप्राचीनजैनभाण्डागारे ताडपत्रीयपुस्तिकायामुपलभ्यतेऽस्या आद्यन्तांशोल्लेखः पिटर्सनरिपोर्ट–प्रथमपुस्तके (पृ. ७८–८०) समजनि। गूर्जरेश्वरजयसिंहस्तुत्युदाहरणादिना विक्रमीयद्वादशशताब्दीसन्निहितः कविसमयो विज्ञायते।

(२)

अमरचन्द्रसूरिः। वायटगच्छीय–विवेकविलासादिविधातृजिनदत्तसूरिशिष्येणानेन मन्त्रीश्वरवस्तुपाल–सुकृतसङ्कीर्तन कारकविरत्नारिसिहात् कवितारहस्य विज्ञाय

तत्कृत–निजकृतसूत्रा काव्यकल्पलताऽऽख्या कविशिक्षा प्रतानचतुष्के स्तबकैरेकविंशत्या कल्पलता–पल्लव–विवेक–मञ्जरी–परिमलादिना च विभूषिता त्वरितकविताकामुकानां चेतोहराऽकारि। सं. १९४२ वर्षे काश्यां वृत्तिसहिता प्रकाशिता। प्रागस्या महाराष्ट्रीयभाषान्तरमपीतो राज्यात् प्रकाशितम्। गुर्जरेश्वरवीसलदेवराजसभा–कविसभारञ्जकेन समस्यापूरकशीघ्रकविनाऽनेनालङ्कार प्रबोधोऽप्यकारि। येन बालभारतपद्मानन्द (जिनेन्द्रचरित) महाकाव्य–स्यादिशब्दसमुच्चय–छन्दोरत्नावल्यादीनि नैकग्रन्थरत्नानि निष्पादितानि।

वि. सं. १६६५ वर्षेऽहम्मदावादे शुभविजयेन विदुषा एतत्काव्यकल्पलतावृत्तेरुपरि मकरन्दोऽपि विस्तारितः। यस्य सूचनमस्माभिः जेसलमेरुभा.ग्रन्थसूच्याम (गा. प्रा. अं. २१, पू. ६३, पृ. १७) अकारि।

(३)

आचार्यविनयचन्द्रः। बप्पभट्टिगुरुवागनुसारिणी रविप्रभगणीश्वरगदितशिक्षाशतशिक्षिका विनयाङ्काऽस्य कविशिक्षा विक्रमीयत्रयोदशशताब्दीप्रान्तसम्भवा कृतिरस्माभिः पत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूच्याम् (गा. प्रा. पं. ७६, पृ. ४६-१०) सूचिताऽद्यावधि प्रसिद्धि न प्राप्ता।
मन्त्रिमण्डनः। विक्रमीयपञ्चदशशताब्द्यां विद्यमानः श्रीमालवंशीयोऽयं ग्रन्थकारो मालवदेशीयमण्डपदुर्गवासी आलम्मसाहिराजप्रसादभाग् मन्त्री। काव्यमण्डन–चम्पूमण्डन–शृङ्गारमण्डन–सङ्गीतमण्डन–सारस्वतमण्डन–कादम्बरीमण्डन–(दर्पण)–चन्द्रविजयादिकर्त्राऽनेन पञ्चपरिच्छेदात्मकोऽलङ्कारमण्डनग्रन्थोऽपि व्यरचि। यदबन्धुना धनदराजेन शृङ्गार–नीति–वैराग्यधनदशतकत्रयं व्यधायि। कविमहेश्वरेण काव्यमनोहरेऽस्य मण्डनस्य प्रशस्त चरितं रचितम्।

जिन(?अजित)सेनः–यत्कृतः कविशिक्षाप्ररूपण–चित्रा(शब्दा)लङ्कारप्ररूपण–यमकादिवचनार्थालङ्कारविवरण–रसादिनिरूपणसंज्ञकपरिच्छेदपञ्चकविभक्तोऽलङ्कारचिन्तामणिरुपलभ्यते*****।

__________________________________________________

*सोलापुर निवासि–दोसी सखाराम नेमिचन्द्रद्वारा कोल्हापुरस्थ अनेन्द्रमुद्रणालयातू १८२९ शकाब्देषु प्रकाशितः।

रुद्रटीयकाव्यलङ्कारे।

(१)

नमिसाधुः- वि. सं. ११२५ वर्ष एतत्कृतंरुद्रटीयकाव्यालङ्कारस्यटिप्पनं सुप्रसिद्धम्‌ (नि. सा. काव्यमालायाम्)

(२)

** आशाधरः**। सपादलक्षदेशान्निर्गत्यमालवमण्डले धारायामुषित्वा विद्यांसमुपार्ज्यजैतुगिदेवराज्ये वि.सं. १२९६-१३०० वर्षेषु नलकच्छपुरे सटीकधर्मामृत (सागारानगार) प्रभृतिविविधग्रन्थकर्त्राऽनेन विदुषा रुद्रटीयकाव्यारङ्करस्य निबन्धन विहितमासीत्^(१)।

काव्यादर्शे।

आचार्यश्रीवादिसिंहनामाङ्कितेन त्रिभुवनचन्द्रेण दण्डिनः काव्यालङ्कारकाव्यादर्शस्य टीकां विवेचिता सहस्रद्वयश्लोकपरिमिता बङ्गलिप्यामुपलभ्यते (सं.१७५८ वर्षेलि.)

काव्यप्रकाशे ।

(१)

** माणिक्यचन्द्रसूरिः**। सुप्रसिद्धस्य मम्मटीयकाव्यपरकाशस्य सङ्केतसंज्ञिका व्याख्याऽनेन विदुषा वि.सं.१२४(?)६ वर्ष विरचिताऽऽसीद्‌ या पुण्यपत्तने आनन्दाश्रमसं. ग्रन्थावल्याम्‌ [८९], मैसूरराजकीयसं.ग्रन्थमालायां(६०) च प्रसिद्धि नीता।

(२)

गुणरत्नगणी। खरतरगच्छाधीशश्रीजिनमाणिक्यसूरिशिष्यविनयसमुद्रगणिशिष्येणानेन वाचकविदुषा काव्यप्रकाशस्यदशसहस्रश्लोकपरिमिता सारदीपिकासज्ञिका टीका विविधा टीकाविकोक्य विरचिता, सा चात्र प्राच्यविद्यामन्दिरे [सं.१७४२ वर्षीय] प्राचीन-नवीनप्रतिद्वयेविद्यते।

(३)

** उ.भानुचन्द्र-सिद्धिचन्द्रौ**। अकब्बरपातशाहिना महोपाध्याय- ‘खुष्फहम’

—————————————————————————————————————————————

१ “रौद्रटस्य व्यधात्‌ काव्यालङ्कारस्य निबन्धनम्‌।”—

सागारधर्मासृते(मा.दि. ग्रं. २, प्रशस्तौ श्लो.१४)

प्रभृतिबिरुदसन्मानिताभ्यामनेकोपयुक्तग्रन्थकर्तव्यकारकाभ्यां कादम्बरी-वासवदत्ता-वसन्तराजशकुनशास्त्र-विवेकविलास-शोभनस्तुति-जिनशतक-सप्तस्मरणादिविविधग्रन्थ- व्याख्यातृभ्यामेताभ्यांकाव्यप्रकाश-विवृति (दूषणखण्डन) प्रणयनमपि चक्रे।

विशेषार्थिना सिद्धिचन्द्ररचितं श्रीयुतमोहनलालदेशाईसम्पादितंसिंधीजैन-ग्रन्थमाला [ग्रं.१५] द्वारा प्रकाशितं भानुचन्द्रगणिचरितं द्रष्टव्यम्‌।

(४)

विक्रमीयाष्टादशशताब्द्याःप्रारम्मे सुप्रसिद्धन्यायविशारदोपाध्याययशोविजयादिकृताऽपि वृत्तिःश्रयते।

सरस्वतीकण्ठाभरणे।

आजडः। सुप्रसिद्धभोजराजकृतस्यसरस्वतीकण्ठाभरणस्य विषमपदोपनिबन्धरूपःपदप्रकाशो भाण्डशालिपार्श्वचन्द्रसूनुनाऽनेन विहितः पत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूच्यां (पृ.३७-३९) सूचितोऽस्माभिरद्यावधि प्रसिद्धि नाधिगतः।

विदग्धमुखमण्डने।

अवचूर्णि(रि)कारस्य नाम न परिज्ञातम्‌, जिनेन्द्रमङ्गलादि दर्शितमन्यत्र जिनप्रभसूरिरचिताऽवचूर्णिःसूच्यते (वेबर, बों.ब्रां. री.ए.सो.पु.सूचिपत्रे भा. १, पृ.१५६) ‘जिनप्रभसूरि अने सुलतान महम्मद’ संज्ञके ग्रन्थे मया तत्परिचयोऽकारि।

शिवचन्द्र (ख.सं.१६६९)-विनयरत्न-विनयसागर (सं.१६९९)- प्रभृतिभी रचित अप्येतद्व्याख्याःश्रुयन्ते।

अलङ्कारमहोदधि-पुस्तिकात्रय-परिचयः।

१अ.

प्रकाशितस्य प्रस्तुतस्यालङ्कारमहोदधेःप्रतिः(अ.), अहम्मदावादनगरे ‘डेहला’ संज्ञकोपाश्रयस्थजैनग्रन्थभाण्डागारे स्थिता ३९ पत्रात्मिका, १० १/२×४ १/२मनोहरसूक्ष्मवर्णनयो नागरीलिपिलिखिता प्रायः पञ्चशतवर्षप्राचीना परिपूर्णा प्रायःशुद्धा स्व.केशवलल प्रे. मोदी बी.ए.एल्एल्.बी.महाशयद्वारा ता.१४-५-३० वर्षेस्वल्पसमयार्थ प्राप्ताऽऽसीत्‌, ततः ‘फोटोस्टेट’ राजकीयसाधनद्वारा शीघ्रं कारिताप्रतिकृतिरत्र विशेषेण समुपयुक्ता समजनि, पाठ-भेद-प्रदशनेऽत्र सा अ. संज्ञया निरदेशि। एतस्याःस्वरूपपरिज्ञानाय प्रान्तपत्रस्यप्रतिकृतिरत्रप्रारम्भे प्रदर्शिता।

जैनग्वे.काॅ.प्र.जैनग्रन्थावल्याम्‌ ३१४ तमे पृष्ठे ‘अर्थालङ्कारवर्णन’नाम्नाऽसुचि सेषैव ज्ञायते।

२प.

पत्तने गूर्जरदेशीयप्राचीनराजधान्यामेतद्राज्यान्तर्गते नगरे ‘फोफलियावाडा आगली शेरी’ सज्ञके स्थले तपागच्छीयग्रन्थभाण्डागारे स्थिता २१ (१७+४) पत्रात्मिका अमरकविकृतसावचृरिकस्यादिशब्दसमुच्चयसहिता द्वितीया प्रतिःता.२२-३-३० वर्षे प्रवर्तककान्तिविजयगुनिराजद्वारा कियत्कालप्राप्ताऽऽसीत्‌ यदाऽह वटपद्रराज्यपुस्तकालयपरिपत्प्रदर्शनप्रसङ्गेतत्रगत आसम्‌। ‘१०१/२

× ४१/२’ तत्पुस्तिकायां मध्ये मूलम्‌‚ परितश्च विभागचतुष्टये सुक्ष्माक्षरलिप्या व्याख्यावर्ततेऽन्तिमद्वादशपत्रद्वयस्य चन्यूनता। सं.१४९३ वर्षे लिखिता चैषा सूचिता सहचरे ग्रन्थे। पाठान्तरप्रदर्शेनेऽत्र प.सङ्केतेनोपलक्षिता। ‘फोटोस्टेट’ रानकीयसाधनत एतस्या द्विगुणाबृहती (एन्लार्ज) कारिता प्रतिकृतिः प्राच्यविद्यामन्दिरेऽत्रसंस्थापिता।एतस्याः स्वरूपप्रबोधो भविप्यत्यत्रप्रारम्भपत्रस्य प्रतिकृतेर्दशनेन।

३ व.

वटपद्रिऽयेत्र प्राच्यविद्यामन्दिरे प्रागेव सङ्गृहीता ६२ पत्रात्मिकाऽपूर्णाऽशुद्धाच प्रतिरत्र व.सज्ञयाऽसूचि। एषा प्रतिःप्राक्सम्पादनार्थंमि.ए.पी.बानर्जीशास्त्रिमहाशयायेतः ता.१-५-२५वर्षे प्रेषिताऽऽसीत्, किन्तु तस्मादशुद्धिबहुलादेकस्मादेवादर्शात्‌ तत्सम्पादन दुःशक विचार्यतेन पश्चात्‌ प्रेषिता ता.२४-२-२८ वर्षेततः प्रत्यागता। तदनन्तरं प्रयत्नवता मया गवेषणातः पूर्वोक्तं प्रतिद्वयसम्प्राप्तम्‌।

एव प्राचीनादर्शपुस्तकत्रयाधारेण भूरिपरिश्रमेण पाठान्तरादिभिःपरिष्कृत्य यथामति यथाशक्यं सावधानतयाऽस्य महतो ग्रन्थस्य सम्पादनमकारि।

आचार्यभावदेवीयकाव्यालङ्कारसारसङ्ग्रहस्य प्रतित्रयम्‌।

१ प.संज्ञितापत्रत्रयात्मिका प्राचीना प्रतिरितिहाससंशोधकश्रीविजयेन्द्रसूरिणोपदीकृताऽत्र प्राच्यविद्यामन्दिरे१३७६६ क्रमाङ्केविद्यते।

२ अ.संज्ञितापत्रत्रयात्मिका प्रतिःस. १९५३ वर्षेऽहम्मदावादे नूतना लेखिताऽत्रत्यजैनज्ञानमन्दिरात्‌ प्रवर्तककान्तिविजयमुनिराजीयशास्त्रसङ्ग्रहात्‌ (ऋ ४८) प्राप्ताऽऽसीद्।एषा प्रायशः पूर्वामनुकरोति।

३ का.संज्ञोपलक्षिता कान्तिविजयमुनिराजीयपूर्वोक्तशास्त्रसङ्ग्रहात् (क्रं.११४९) पञ्चपत्रात्मिकाऽपूर्णाऽष्टमाध्यायप्रारम्भं यावन्नूतना लेखिताऽपि प्रायःशुद्धाऽधिगताऽऽसीत्।

एवं शुद्धाशुद्धादर्शपुस्तकत्रयाधारेण पाठान्तरादिपरिष्कारेणैतत् प्रयोजितं परिशिष्टं शिष्टानां परितुष्टिकरं प्रभविष्यतीत्याशासे।

मन्त्रीश्वरवस्तुपालस्य प्रशस्तित्रयम्।

अत्र चतुर्थे परिशिष्टे प्रयोजिता मलधारिनरचन्द्रसूरिकृता २६ पद्यमयो मन्त्रीश्वरवस्तुपालस्य प्रशस्तिः, तथा पञ्चम-पष्ठपरिशिष्टयोःस्थापिते १०४+३७ पद्यपरिमिते द्वे प्रशस्ती प्रस्तुतालङ्कारमहोदधिविधातुर्नरेन्द्रप्रभसूरेः कृती एतासामावश्यकेतिहासप्रकाशिकाना तिसृणामपि प्रशस्तीनां प्रतिस्तु अहम्मदावादनगरे ‘डेहला’ सज्ञकोपाश्रयस्थितजैनभाण्डागारे ज्ञायते, ततो लेखिता प्रतिकृतिरस्मत्प्रार्थनया पुण्यप्रज्ञमुनिराजपुण्यविजयेनपत्तनात् सप्ताहकृते प्रेपिताऽऽसीत्, तदाधारेणात्र
सम्पादन-प्रकाशनं विशेषप्रकाशकरं संजज्ञे।

अत्र कार्ये पुस्तिकादिप्रदानेन साहाय्यकर्तॄणां तेषां सर्वेषामप्युपकारमत्र प्रकटं संस्मरामि। किञ्च प्रत्यन्तरपाठसम्मेलने पद्यादिसुच्यादौ चात्रान्यकार्यव्यापृतेनापि श्रीमदनन्तज्योतिषिकसुपुत्रेण येन प्रासङ्गिकं साहाय्यमकारि स श्रीमहादेवः स्मरणार्हः।

एवं विनाऽन्यविशेषसाहाय्यं भृरिपरिश्रमेण सावधानतया सम्पादितेऽगाधे दुस्तरेऽस्मिन् नाम्ना स्वरूपेणापि च महोदधौ मदीयमतिमान्द्येन प्रमादाद् दृष्टिदोषाद्वा याः काश्चन स्खलनाः स्थिता जाता वा भवेयुस्ताः प्रकृतिकृपालवः परिश्रमवेदिनः शास्त्राम्नायविदः सज्जना. संशोधयिष्यन्ति, संसूचयिष्यन्ति च माम्। अधिकारिणश्च पाठ्यपुस्तकत्वेन पठन-पाठनादौ प्रथयिष्यन्ति, सस्थापयिष्यन्ति च समुचितासु
संस्थासु गूर्जरेश्वरमन्त्रीश्वरप्रेरणानिष्पन्नं गूर्जरेश्वरमन्त्रीश्वरप्रोत्साहनप्रकाशितं च गूर्जरगौरवकर सुदुर्लभमुपयुक्तमिमं ग्रन्थमित्याशास्ते—

श्रीमन्महाराजप्रतापसिंहगायकवाड-राज्यारोहणपुण्याहे [४]
विद्वदनुचरः
ता. ७-२-४२ वटपदे}
गान्धीत्युपाह्वभगवान्श्रेष्ठितनुजःलालचन्द्रः।

अलङ्कारमहोदधेः

विषयानुक्रमः।

विषयः विषयः
अलङ्कारमहोदधि (अ. प.) प्रति- प्रतिकृतिः
सम्पादकस्य प्रस्तावना शब्दस्वरूपम्
विषयानुक्रमः प्रतिज्ञातनिर्वाहः
प्रथमस्तरङ्गः-काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयः
मङ्गलम् सर्वमताभ्युपगमः
अभिधेयम् काव्याङ्गं वैचित्र्यम्
शास्त्र-प्रस्तावना शब्दस्य वैचित्र्यम् (अभिधामूलम्)
किम्प्रयोजनं काव्यम्? प्रकृतेः प्रत्ययोद्भवं वैचित्र्यम्
काव्यस्य कारणम् धातुरूपाया आख्यातप्रत्ययाद्
विशेषतः प्रतिभास्वरूपम् धातुरूपायाकृत्प्रत्ययाद्
व्युत्पत्तिः नामरूपायाः स्यादिप्रत्ययाद्
अभ्यासः नामरूपायाःडीप्रत्ययाद्
शिक्षा नामरूपायाः तद्धितप्रत्ययाद्
शिक्षाऽधिकारिणः नामरूपायाः अन्यप्रत्ययोद्भवम्
काव्यशरीरम् विशेषणस्फीत्या विशेष्यप्रतिपत्तिजम्
वैचित्र्यहेतवः सर्वनामादिसंस्थाप्यसंवृतिस्थापितम्
काव्यत्वादपवादः प्रातिपदिकोदाहरणम्
ध्वनिकाव्यम् भिन्नसङ्ख्यान–लिङ्गयोः सामानाधिकरण्ये स्त्रीलिङ्गविधिजम्
गुणीभूतव्यङ्ग्यम् अमुख्ये कारके मुख्याध्यारोपाध्यासि
अवरं काव्यम् धातुयोगे कारकान्यत्वजम्
सशब्दगुणालङ्कारम् उपसर्गयोगेकारकान्यत्वजम्
सार्थगुणालङ्कारम् उभययोगेकारकान्यत्वजम्

[TABLE]

[TABLE]

विषयः विषयः
(६) वैवर्ण्यम् (९) अपस्मारः
(७) अश्रु (१०) शङ्का
(८) प्रलयः (११) जाड्यम्
अङ्गजाः [३] (१२) मदः
(१) भावः (१३) विषादः
(२) हाव (१४) ग्लानिः
(३) हेला (१५) आलस्यम्
स्वाभाविकाः [१०] (१६) दैन्यम्
(१) लीला (१७) आवेगः
(२) विलासः (१८) चापलम्
(३) विच्छित्तिः (१९) उन्मादः
(४) विभ्रमः (२०) व्याधिः
(५) किलिकिश्चितम् (२१) औत्सुक्यम्
(६) मोट्टायितम् (२२) वितर्कः
(७) कुट्टभितम् (२३) मृतिः
(८) विव्वोकः (२४) धृतिः
(९) ललितम् (२५) चिन्ता
(१०) विहृतम् (२६) त्रासः
व्यभिचारिणः [३३] (२७) असूया
(१) हर्षः (२८) निद्रा
(२) व्रीडा (२९) सुप्तम्
(३) श्रमः (३०) स्मृतिः
(४) अमर्ष (३१) निर्वेदः
(५) प्रबोधः (३२) मोहः
(६) मतिः (३३) गर्वः
(७) उग्रता रसस्य प्रक्रियाः [७]
(८) अवहित्थम्

[TABLE]

विषयः विषयः
चतुर्थस्तरङ्गः (गुणीभूनव्यङ्ग्यगतमर्थवैचित्रयम्) दुर्वृत्तम्
अगूढत्वेन गुणीभूतत्वम् सन्धिविश्लेषः
अस्फुटत्वेनगुणीभूतत्वम् सन्धिकष्टत्वम्
असुन्दरतयागुणीभूतत्वम् सन्ध्यश्लीलता
वाच्यसिद्ध्यङ्गत्वेनगुणीभूतत्वम् अनिष्टान्यार्थम्
काक्वाक्षिप्ततयागुणीभूतत्वम् अस्थानसमास-पद-दुःस्थितम्
सन्दिग्धप्राधान्यतयागुणीभूतत्वम् पतत्प्रकर्षम्
तुल्यप्राधान्यतयागुणीभूतत्वम् अप्रोक्तवाच्यम्
वाच्यार्थस्यानुरणनरूपमड्गम् त्यक्तप्रसिद्धिकम्
ध्वनेः स्वरूपान्तरम् पुनरुक्तपदन्यासम्
पश्चमस्तरङ्गो दोषव्यावर्णनः अतिरिक्तपदम्
सामान्येन दोषलक्षणम् पद-वाक्योभयदोषाः
पददोषाः नेयार्थलक्षणम्
वाक्यदोषाः पदम्
रसाद्यनुचिताक्षरम् वाक्यम्
लुप्त-ध्वस्तविसर्गान्तम् निहतार्थलक्षणम्
इष्टसम्बन्धवञ्चितम् अन्यदोषाणां सामान्येन लक्षणम्
समाप्तपुनरारब्धम् ग्राम्य-पद-वाक्यम्
भग्नप्रक्रमम् सन्दिग्ध-पद-वाक्यम्
अक्रमम् दुःश्रव-पद-वाक्यम्
न्यूनम् अप्रतीत-पद-वाक्यम्
अर्घान्तस्यैकपदम् अयोग्यार्थ-पद-वाक्यम्
सङ्कीर्णम् अप्रयुक्त-पद-वाक्यम्
गर्भितम् अवाचक-पद-वाक्यम्
अश्लीलम्
जुगुप्साकृत्पद-वाक्यम्
अमङ्गलकृत्पद-वाक्यम्
विषयः विषयः
व्रीडाकृत्पद-वाक्यम् प्रकाशितविरुद्धः
विरुद्धमतिकृत्पद-वाक्यम् दुष्टविध्यनुवादभाक्
अविमृष्टविधेयाश-पद-वाक्यम् (१) सामान्यपरिवृत्तः
क्लिष्टपद-वाक्यम् (२) विशेषपरिवृत्तः
अनर्थकम् (३) नियमपरिवृत्तः
सन्दिग्धम् (४) अनियमपरिवृत्तः
दुःश्रवम् साकाङ्क्षः
अवाचकम् ग्राम्यः
नेयार्थम् निर्हेतुः
निहतार्थम् सहचरभिन्नः
अर्थदोषाः विमुक्तपुनरादृतः
अर्थदोषाणां सामान्यलक्षणम् आधिक्यदोषनिषेधः
पुष्टतारहितः सार्वत्रिकप्रसङ्गनिषेधः
कष्टः दोषाणामपवादः
दुष्क्रमः क्वापि दोषस्यापि गुणत्वम्
व्याहतः असंस्कारस्यगुणत्वम्
सन्दिग्धः निरर्थकस्यगुणत्वम्
अपदमुक्तः भग्नक्रमस्यगुणत्वम्
पुनरुक्तः अक्रमस्यगुणत्वम्
अनवीकृतः न्यूनस्यगुणत्वम्
विद्याविरुद्धः सङ्कीर्णस्यगुणत्वम्
धर्मशास्त्रेण गर्भितस्यगुणत्वम्
अर्थशास्त्रेण सन्धिकष्टत्वस्यगुणत्वम्
कामशास्त्रेण पतत्प्रकर्षस्यगुणत्वम्
प्रसिद्धिविरुद्धः त्यक्तप्रसिद्धिकस्यगुणत्वम्
देशविरुद्धः पुनरुक्तपदन्यासस्यानुकम्पायाम्गुणत्वम्
कालविरुद्धः लाटानुप्रासे गुणत्वम्
कविसमयविरुद्धः अर्थान्तरसङ्क्रान्तवाच्ये ध्वनौगुणत्वम्
अश्लीलः

[TABLE]

[TABLE]

विषयः विषयः
पादमध्ये, पादमध्ययोः, पादमध्येषु अष्टमस्तरङ्गः अर्थालङ्कारवर्णनः
पादान्ते, पादान्तयोः, पादान्तेषु अर्थालङ्कारप्रस्तावना
श्लोकार्धयोः, श्लोकयोः [१] अतिशयोक्तिः
चित्रम् भेदेऽभेदः
खड्गरूपता, पद्मरूपता अभेदे भेदः
श्लेषः सम्बन्धेऽसम्बन्धः
(१) वर्णश्लेषः असम्बन्धे सम्बन्धः
(२) पदश्लेषः गुणानाम्, क्रियाणाम्
(३) लिङ्गश्लेषः [२] सहोक्तिः
(४) भाषाश्लेषः क्रियारूपधर्मा
(५) प्रकृतिश्लेषः दीपकोपस्कृता
(६) प्रत्ययश्लेषः दीपकरहिता
(७) विभक्तिश्लेषः गुणरूपधर्मा
(८) वचनश्लेषः औपम्यगर्भिता
सभङ्गश्लेषः [३] उपमा
अभङ्गश्लेषः (१) पूर्णा [श्रौती]
वक्रोक्तिः [१] वाक्ये[२] समासे
(१) काक्वा [३] प्रत्यये
(२)सभङ्गश्लेषेण (१) पूर्णा [आर्थी]
(३) अभङ्गश्लेषेण [१] वाक्ये[२] समासे
पुनरुक्तवदाभासः (२) लुप्ता
द्वयोरपि सभङ्गत्वे शब्दालङ्कारः [१] वा. ये साधारणधर्म[द्योतक] लोपे
सभङ्गाभङ्गत्वे शब्दार्थालङ्कारः द्विलोपे (धर्मोपमानयोर्लोपे)
(१) स्याद्यन्तापेक्षया [२] समासे‚द्विलोपे
(२) त्याद्यन्तापेक्षया
विषयः विषयः
त्रिलोपे (धर्मोपमान-द्योतकलोपे ) [८] भ्रान्तिमान्
[३] प्रत्यये द्योतकलोपे, द्विलोपे (१) अतत्त्वे तत्त्वबुद्धिः
उपमाभेदाः (२) तत्त्वेतत्त्वबुद्धिः
धर्मस्यैकत्वम् मालारूपः
धर्मस्य पृथग् विनिर्देशः [९] उल्लेखः
बिम्ब-प्रतिबिम्बमनोज्ञता [१०] रूपकम्
अनेकद्योतका, सर्वद्योतका रूपकभेदाः
द्योतकोज्झिता (१) साङ्गं समस्तम्, असमस्तम्
धातुद्योत्या साङ्गं समस्तासमस्तम्
विपर्यासवती, वैधर्म्यशालिनी श्रौतारोपणीयस्थमेकदेशविवर्ति
नियमोपेता, अनियमोपेता आर्थारोपणीयस्थमेकदेशविवर्ति
विक्रियाऽङ्किता, अतिशयाङ्किता (२) निरङ्गम्
प्रतिषेधाश्लिष्टा [१] केवलम्
अद्भुताश्लिष्टा [२] मालागुम्फितम्
श्लेषवती, उत्प्रेक्षितवती (३) परम्परितम्
असाधारणोपमा [१] श्लिष्टनिबन्धनं केवलम्
कल्पिता, धातुद्योत्या [२]श्लिष्टनिबन्धनं मालारूपम्
[४] अनन्वयः [३] अश्लिष्टशब्दनिबन्धनंकेवलम्
[५] उपमेयोपमा [४] अश्लिष्टशब्दनिबन्धनंमालारूपम्
[१] साधारणधर्मप्रयोगात् सालङ्कारान्तरोल्लेखं रूपकम्
[२] साधारणधर्माप्रयोगात् रूपकरूपकम्रूपकम्
[६] स्मरणम् वैधर्म्याङ्कम्रूपकम्
[७] संशयः व्यतिरेकाङ्कम्रूपकम्
(१) शुद्धः रशनारूपकम्रूपकम्
(२) निश्चयगर्भः हेतुरूपकम्रूपकम्
(३) निश्चयान्तः
विषयः विषयः
[११] अपह्नुतिः गुण-क्रियाभ्यां षोडशात्मिका
(१) सादृश्यवती गुण-क्रिया-प्रयोगाप्रयोगाभ्यांद्वात्रिशद्विधा
[१] आरोपपूर्वापह्नवा फल-स्वरूप-हेतूनामुत्प्रेक्षणात् षण्णवतिभेदाः
[२] अपह्नवपूर्वारोपा फलोत्प्रेक्षा, स्वरूपोत्प्रेक्षा
[३] छलादिशब्दैर्विषयापह्नवा हेतूत्प्रेक्षा
[४] वपुरादिशब्दैर्विषयापह्नवा निकषेऽशीतिभेदा
(२) सादृश्यरहिता उत्प्रेक्षाया भेदान्तराणि
[१] वाच्यापह्नोतव्या उपमोत्प्रेक्षा, सापह्नवा
[२] प्रतीयमानापह्नोतव्या मालारूपा, श्लिष्टशब्दजन्या
[१२] परिणामः [१४] तुल्ययोगिता
(१) सामानाधिकरण्येन (१) प्रस्तुतानां तुल्यगुणयोगः
(२) वैयधिकरण्येन (२) अप्रस्तुतानांतुल्यगुणयोगः
[१३] उत्प्रेक्षा (३) प्रस्तुतानां तुल्यक्रियायोगः
उत्प्रेक्षाभेदाः (४) अप्रस्तुतानांतुल्यक्रियायोगः
(१) वाच्या,(२) प्रतीयमाना [१५] दीपकम्
उत्प्रेक्षाप्रभेदाः (१) आदिदीपकम्
[१] भावे जात्युत्प्रेक्षा (२) मध्यदीपकम्
[२] भावे क्रियोत्प्रेक्षा (३) अन्तदीपकम्
[३]भावे गुणोत्प्रेक्षा (४) क्रियादीपकम्
[४] भावेद्रव्योत्प्रेक्षा मतान्तरेण दीपकम्
[५] अभावे जात्युत्प्रेक्षा [१६] निदर्शना
[६] अभावे क्रियोत्प्रेक्षा (१) उपमारूपा
[७] अभावे गुणोत्प्रेक्षा (२) उत्प्रेक्षारूपा
[८] अभावे द्रव्योत्प्रेक्षा (३) मालारूपा
विषयः विषयः
[१७] प्रतिवस्तूपमा (२) असत्त्वविपर्यया
मालारूपाऽपि [२२] परिकरः
[१८] दृष्टान्तः [२३] समासोक्तिः
(१) विशेषवती वाक्ये धारयत् (१) श्लिष्टतया
(२) सामान्यवतीवाक्ये धारयत् (२) औपम्यगर्भत्वेन
वैधर्म्येणापि (३) साधारण्येन
[१९] अर्थान्तरन्यासः (४) कार्यसाम्येन
(१) सामान्यं विशेषेण साधर्म्यवता (५) उभयसाम्येन
(२) सामान्यं विशेषेण वैधर्म्यवता (६) लौकिके वस्तुनि लौकिकस्य वस्तुनः व्यवहारसमारोपः
(३) सामान्यं सामान्येन साधर्म्यवता (७) शास्त्रीये शास्त्रीयस्य व्यवहारसमारोपः
(४)सामान्यं सामान्येनवैधर्म्यवता (८)लौकिके शास्त्रीयस्य व्यवहारसमारोपः
(५) कार्यं कारणेन (९) शास्त्रीये लौकिकस्यव्यवहारसमारोपः
(६) कारणं कार्येण उपमोपस्कृता,उत्प्रेक्षाऽलङ्कृता
(७) श्लेषाविद्धः अर्थान्तरन्यासान्तर्गता
[२०] व्यतिरेकः [२४] अप्रस्तुतप्रशंसा
(१) वाच्योपमायाम् (१) कार्ये प्रस्तुते कारणस्य
(२) आक्षिप्तोपमायाम् (२) कारणे प्रस्तुते कार्यस्य
(३) श्लेषोपमायाम् (३) सामान्येप्रस्तुते विशेषस्य
(४) श्लेषे (४) विशेषे प्रस्तुते सामान्यस्य
(५) वाच्यरूपके (५) तुल्ये प्रस्तुते तुल्याभिधानं साधर्म्येण
(६) प्रतीयमानरूपके (६) तुल्ये प्रस्तुते तुल्याभिधानंवैधर्म्येण
(७) प्रसिद्धिविपर्यासः (७) तुल्ये प्रस्तुते तुल्याभिधानंस्तुतिरूपम्
(८) सादृश्ये (८) तुल्ये प्रस्तुते तुल्याभिधानंनिन्दारूपम्
(९) आक्षिप्तोपमायां हीनत्वव्यतिरेकः (९) तुल्ये प्रस्तुते तुल्याभिधानंउभयरूपम्
[२१] विनोक्तिः (१०) तुल्ये प्रस्तुते तुल्याभिधानंअनुभयरूपम्
(१) सत्त्वविपर्यया अप्रस्तुतप्रशंसायां वाच्यार्थस्वरूपम्
विषयः विषयः
सम्भवेन, असम्भवेन (२) अनुक्तनिमित्ता
सम्भवासम्भवेन (३) अचिन्त्यनिमित्ता
[२५] पर्यायोक्तम् कार्याभावस्वरूपम्
[२६] आक्षेपः विशेषोक्तेः प्रकारान्तरम्
(१) वस्तुनिषेधः [३२] विभावना
(२) वस्तुकथननिषेधः (१) जात्यभावे
वक्ष्यमाणकथननिषेधः (२) गुणाभावे
(१) सामान्योक्तौ विशेषभणनीयस्य निषेधः (३) क्रियाऽभावे
(२) अंशोक्तावंशान्तरस्यनिषेधः (४) द्रव्याभावे
प्रकारान्तरेण आक्षेपः नैसर्गिकसौन्दर्यविभावनम्
[२७] व्याजस्तुतिः मालारूपा विभावना
(१) स्तुत्या निन्दाया गम्यता विभावनायाः स्वरूपान्तरम्
(२) निन्दया स्तुतेर्गम्यत्वम् [३३] विषमम्
[२८] श्लेषः ( १ ) गुणैः, क्रिययाऽननुरूपत्वम्
विरोधमूला अलङ्काराः (२) द्वितीयम्,(३) तृतीयम्
[२९] विरोधः [३४] समम्
विरोधभेदाः [३५] अधिकम्
(१) जातेर्जात्या विरोधः (१) आधाराधिक्यम्
(२) गुणस्य गुणेन विरोधः (२) आधेयाधिक्यम्
(३) क्रियायाः क्रियया विरोधः विचित्रम्
(४) द्रव्यस्य द्रव्येण विरोधः [३६] पर्यायः
श्लेषजन्मा, भिन्नविषये विरोधः (१) असंहत एकस्मिन्नाधारे
[३०] असङ्गतिः (२) संहतःएकस्मिन्नाधारे
[३१] विशेषोक्तिः (३) असंहतः अनेकाधारे
विशेषोक्तिभेदाः (४) संहतः अनेकाधारे
(१) उक्तनिमित्ता [३७] विकल्पः
विषयः विषयः
[३८] व्याघातः [४७] यथासङ्ख्यम्
व्याघातस्य लक्षणान्तरम् (१) पदगतः शाब्दः सम्बन्धः
[३९] अन्योऽन्यम् (२) वाक्यगतः शाब्दः सम्बन्धः
प्रतीयमानोपकारम् (३) आर्थः सम्बन्धःमतान्तरेण
[४०] विशेषः [४८] परिवृत्तिः
(१) आधाराभावेऽप्यवस्थानम् (१) समस्य समेन
(२) एकस्यापि नैकत्रावस्थानम् (२) न्यूनस्याधिकेन
(३) एकस्य सर्गेणान्यसर्गः (३) अधिकस्य न्यूनेन
शृङ्खलाक्रमालङ्काराः— (४) व्यत्ययेऽपि
[४१] कारणमाला (५) उभयवत्यपि
[ ४२ ] सारः [४९] परिसङ्ख्या
[ ४३ ] एकावली परिसङ्ख्याभेदाः
(१) स्थापनम् (२) अपोहनम् (१) अप्रश्नपूर्विका शाब्दव्यवच्छेद्या
[४४] मालादीपकम् (२) अर्थे परित्याज्या
(१) पूर्वपूर्व दीपकम् (३) प्रश्नपूर्विका शाब्दव्यवच्छेद्या
(२) उत्तरोत्तरदीपकम् (४) प्रश्नपूर्विकाआर्थव्यवच्छेद्या
[४५] काव्यलिङ्गम् [५०] अर्थापत्तिः
(१) एकपदार्थोहेतुः (१) प्रस्तुतादर्थादर्थान्तरापातः
(२) अनेकपदार्थोहेतुः (२) अप्रस्तुतादर्थादर्थान्तरापातः
(३) एको वाक्यार्थोहेतुः श्लेषनिर्दिष्टे
(४) अनेकोहेतुः [५१] समुच्चयः
[४६] अनुमानम् (१) सदावेशात्
(१) कारणात् कार्यस्य प्रतीतिः (२) असदावेशात्
(२) कार्यात् कारणस्यप्रतीतिः (३) सदसदुभयावेशात्
अविनाभावेन समुच्चयस्य प्रकारान्तरम्
(३) वस्त्वन्तराद्वस्त्वन्तरस्य विशिष्टवाक्यसंनिवेशोपेता अलङ्काराः-
विषयः विषयः
(१) गुणयोः समुच्चयः ** [६३] भाविकम्**
(२) क्रिययोःसमुच्चयः (१) भूतार्थविषयम्, (२) भाव्यर्थविषयम्
(३) गुण-क्रिययोःसमुच्चयः (३) उभयार्थविषयम्
क्रियासमुच्चयः [६४] उदात्तम्
गुणसमुच्चयः उदात्तस्य भेदान्तरम्, अङ्गगतम्
चकारद्योतित-समुच्चयः रसवदादयोऽलङ्काराः
(१) सर्वपदस्थितेन [६५] रसवद् [६६] प्रेयः
(२) उत्तरपदस्थेन [६७] ऊर्जस्वि [६८] समाहितम्
[५२] समाधिः [६९] संसृष्टिः
लोकन्यायाश्रिता अलङ्काराः- (१) शब्दालङ्कारसंसृष्टिः
[५३] प्रत्यनीकः (२)अर्थालङ्कारसंसृष्टिः
[५४] प्रतीपम् (३) उभयसंसृष्टिः
(१) उपमानग आक्षेपः [७०] सङ्करः
(२) उपमानोपमेयव्यत्ययः सङ्करप्रकाराः
[५५] मीलितम् (१) अङ्गाङ्गिभावः
(१) सहजेन धर्मेण शब्दालङ्कारसङ्कर;
(२) औत्पत्तिकेन धर्मेण अर्थालङ्कारसङ्करः
[५६] सामान्यम् शब्दार्थालङ्कारसङ्करः
[५७] तद्गुणः अलङ्कारदोषाः-
[५८] अतद्गुणः अनुप्रासदोषाः
[५९] उत्तरम् (१-२) (१) प्रसिद्धयभावः
[६०] सूक्ष्मम् (२) वैफल्यम्, (३) वृत्तिविरुद्धता
(१) आकारेण, (२) इङ्गितेन यमकदोषाः
[६९] व्याजोक्तिः उपमादोषाः-
[६२] स्वभावोक्तिः (१) जातिन्यूनत्वम्
(१) संस्थानाश्रया, (२) मुग्धाङ्गनाश्रया (२) प्रमाणन्यूनत्वम्
(३) तिर्यगाश्रया, (४) देशाश्रया

[TABLE]

<MISSING_FIG href=”../books_images/U-IMG-1733829501Screenshot2024-12-10164744.jpg”/>

<MISSING_FIG href="../books_images/U-IMG-1730469183Screenshot2024-11-01192153.png"/>

नरेन्द्रप्रभसूरिनिर्मितः स्वोपज्ञविवरणसमेतः

अलङ्कारमहोदधिः।

<MISSING_FIG href="../books_images/U-IMG-1731918203Screenshot2024-11-18135140.png"/>

आनन्दैकपदं1 यस्य प्रकाशो यत् प्रकाशवत्।
चकास्ति विश्वतस्तस्मै परस्मै महसे2 नमः॥१॥

जयन्तु कल्पद्रुमजैत्रविक्रमा गुरुक्रमाम्भोरुहरेणवश्चिरम्।
इहैव मर्थ्यव्यतिवत्ति वैबुधं पदं तदारोप्यत मादृशोऽपि यैः॥२॥-

नन्दन्तु सौजन्यसुधापयोधयः किमप्यपूर्वस्थितयो महाशयाः।
गुणौघरत्नानि तरन्ति येष्वहो ! निर्नाम3 मज्जन्ति तु दोषदारवः॥३॥

गुणावदातेष्वपि दोपदृष्टयो न निन्दनीयाः खलु ते खला अपि।
दूरेण दोषानपहाय यद्भयान्मुहुर्गुणेष्वेव जनः प्रवर्त्तते।४॥

यदि वा दुर्जनः कश्चिन्नास्त्येव विमलात्मनाम्।
ज्वलितोऽपि दद्दत्त्यग्निर्न नाम क्वचिदभ्रकम्॥५॥

शिष्यो हर्षपुरीयगच्छसवितुः श्रीमन्मुनीन्द्रप्रभो4
र्देवानन्दसुनीन्द्रपाणिकमलोन्मीलत्प्रतिष्ठोदयः।
श्रीदेवप्र भसूरिवाङ्मयमहाभैषज्यशाम्यन्मन
स्तन्द्रः5 श्रीनरचन्द्रसूरिश्वनीचन्द्रचिरं नन्दतात्॥६॥

पीयूषबन्धुरतरास्तरसा6 निहत्य हालाहलं समदवादमयं बुधानाम्।
चौलुक्यभूमिपतिसंसदि यस्य वाचः केषां न चेतसि मुदं मदयाम्बभूवुः॥७॥

जाने सम्प्रति गोस्तनीफलभराहारैकवैरङ्गिका
मस्तेऽपि सुधान्धसो नवसुधागण्डूषविद्वेषिणः।
यत्काव्योक्तिरसोर्मिनिर्मितमुदस्तिष्ठन्ति7 सुष्ठूच्छ्रित
प्रेमाणः सुरभिप्रभञ्जनपरी भोगे च कुम्भीनसाः8॥८॥

इतश्च—

प्राग्वाटान्वयमण्डनं समजनि श्रीचण्डपो मण्डपः
श्रीविश्रामकृते तदीयतनयश्चण्डप्रसादाभिधः।
सोमस्तत्प्रभवोऽभवत् कुवलयानन्दाय तस्यात्मभू
राशाराज इति श्रुतः श्रुतरहस्तच्चावबोधे9 बुधः॥९॥

वजन्मावस्तुपालःसचिवपतिरसौसन्ततंधर्मकर्म्मा10–ऽलङ्कम्मणैकबुद्धिर्विबुधजनचमत्कारिचारित्रपात्रम्।
प्राप्तः सङ्घाधिपत्वं दुरितविजयिनीं सूत्रयन् सङ्घयात्रां
धर्मस्यौज्ज्वल्यमाधात् कलिसमयमयं कालिमानं विलुप्य॥१०॥

यस्याग्रजो मल्लदेव उतथ्य इव वाक्पतेः।
उपेन्द्र इव चेन्द्रस्य तेजःपालोऽनुजः पुनः॥११॥

त्यागाः कुड्मलयन्ति कल्पविटपित्यागक्रियापाटवं
कामंकाव्यकलाऽपि कोमलयति द्वैपायनीयं11 वचः।
बुद्धिर्धिकुरुते च यस्य धिषणां चाणक्यचिन्तामणेः
सोऽयं कस्य न वस्तुपालसचिवोत्तंसः प्रशंसास्पदम्॥१२॥

प्रासादान् दत्तवादानखिलशिखरिभिः12 पुण्यपालीं प्रपालीं
वापीः साम्भोजतापी विभवविजयिनीःस्तुत्यरूपांश्च कूपान्।
आरामांश्चाभिरामान् कमलवलयितक्रोड भागांस्तडागान्
स्थाने स्थाने वितन्चन्नकृत सुकृतभूर्यः पवित्रां धरित्रीम्॥१३॥

यः कश्चित् पांशुपूरं गणयति कणशःस्वर्धनीसैकतानां
यः पाथोनाथपाथः कलयति चुलुकैरप्रपश्चैरुदञ्श्चत्13
यो वा इस्तैः समस्तं गगनतलगतं मानमादातुमीष्टे
सङ्ख्यानं कीर्त्तनानां स खलु यदि विभ्रुर्वस्तुपालस्य कर्तुम्॥१४॥

केचित् कोचिंझलज्झलायितपदव्युत्पादिनः14 केचन
प्रत्यग्रप्रतिभावभात भणित्तिव्युत्पत्तिवैहासिकाः।
वैदग्धीं दधते रसेष्वपि परे सर्वाभिसारोवेंणे15
काव्यस्याध्वनि वस्तुपालसचिवस्यैव प्रतिष्ठा पुनः॥१५॥

अन्येद्युर्भक्तितो मौलौ निधाय करकुड्मलम्।
तेन विज्ञपितः श्रीमान् नरचन्द्रमुनीश्वरः॥१६॥

केचिद् विस्तरदुस्तरास्तदितरे संक्षेपदुर्लक्षणाः
सन्त्यन्ये सकलाभिधेयविकलाः क्लेशावसेयाः परे।
इत्थं काव्यरहस्यनिर्न (र्ण) यवहिर्भूतैः प्रभूतैरपि
ग्रन्थैः श्रोत्रगतैः कदर्थितमिदं कामं मदीयं मनः॥१७॥

तन्मे नातिसविस्तरं कविकला सर्वस्वगर्वोद्धुरं
शास्त्रं ब्रूत किमप्यनन्यसदृशं बोधाय दुर्मेधसाम्।
इत्यभ्यर्थनया प्रतीतमनसः श्रीवस्तुपालस्य ते
श्रीमन्तो नरचन्द्रसूरिगुरवः साहित्यतचं जगुः॥१८॥

तेषां निदेशादथ सद्गुरूणां श्रीवस्तुपालस्य मुदे तदेतत्।
चकार लिप्यक्षरसंनिविष्टं सुरिर्नरेन्द्रप्रभनामधेयः॥१९॥

काव्यालङ्कारसूत्राणि स्वानि किञ्चिद् विट्टण्महे16
तन्मनस्तन्मींकृत्य विभाव्यं कोविदोत्तमैः॥२०॥

नास्ति प्राच्यैरलङ्कारकारैर्राविःकृ17 (ष्कृ) तं न यत्।
कृतिस्तु18 तद्वचःसारसङ्ग्रहव्यसनादियम्॥२१॥

अथ शास्त्रारम्भे शास्त्रकारः सकलप्रत्यूहव्यूहव्यपोहाय शास्त्रस्य19 तत्प्रभावनिर्माप्यत्वात् समुचितामात्मनोऽभीष्टां च भगवतीं वाग्देवतां नमस्करोति—

शब्दब्रह्ममयीं वन्दे देवीमानन्दकन्दलीम्।
चातूरूप्यनिभाद् यस्याः कोऽपि स्तम्बादिडम्बरः॥१॥

शब्दब्रह्ममयीं20 शब्दब्रह्मशरीरां देवीं दिव्यस्वरूपां21 वन्दे प्रणौमि। शब्द एव ब्रह्म विश्वव्यापी22 कश्चित् परमज्योतिर्विवर्चः स23प्रकृतो यस्यामिति मयटि शब्दब्रह्ममयी ताम्। समर्थविशेषणमाहात्म्याच्च विशेष्यप्रतीतिरिति ‘वाग्देवता’ गम्यते। तां च कीदृशीम् ? आनन्दकन्दलीमानन्दरूपाङ्कुरप्रादुर्भावस्य कन्दली लताविशेषस्ताम्। ‘परादिमूर्तिमत्या हि भारत्याः परमानन्दोद्गमः’ इत्यागमः। अत्र देव्याः कन्दलीत्वरूपैणादानन्दस्य24। ङ्कुरत्वरूपणमित्येकदेशविवर्त्तिं25 परम्परितं रूपकम्। यस्याः कोऽप्यनिर्वचनीयः स्तम्बादिडम्बरः स्तम्ब–पत्र26–पुष्पादिरूपपरिस्पन्दो ‘वर्त्तते’ इति क्रियाध्याहारः। कस्माच्चातूरूप्यनिभात्। भगवती भारती हि परा १ पश्यन्ती २ वैखरी ३ मध्यमा ४ इत्यभिधानाज्जात्यादिरूपत्वाद् वा चतूरूपा तस्या भावश्वातूरूप्यं तन्निर्भात्27 तच्छलादित्यर्थः। यथा हि स्तम्बादिशालिनी लता पुष्पादिप्राप्तिहेतुत्वाज्जनानामानन्दयित्री28 तापादिव्यपगमं च29करोति; तथा भगवत्यपि चातूरूप्यवती विशेषप्रतिभोला सहेतुत्वाल्लोकानामानन्दयित्रीदुरितादिविध्वंसं च सूत्रयतीति नमस्कार्यैवेयमिति॥१॥

अथाभिधेयमाह—

वाच्य–वाचकवैचित्र्यरत्नसम्भारनिर्भरः।
कीर्त्यते कृतिनां सोऽयमलङ्कारमहोदधिः॥२॥

सोऽयं30 स इत्यनिर्वाच्यस्वरूपोऽयमित्यनुभूयमानोऽलङ्कार31 महोदधिरलङ्काररूपामृतस्य महोदधिः सागर इत्यन्वर्थनामा ग्रन्थविशेषः कृतिनां कोविदानां कीर्त्यते कथ्यते इति। कृतिनो हि शास्त्राणामन्तस्तच्चनिकषः। स च कीदृश?

वाच्या अर्था वाचकाः शब्दास्तेषां वैचित्र्याणि लोकोत्तरचारुताकारणानि तान्येव रत्नानि तेषां सम्भारः समूहस्तेन निर्भरः परिपूर्णः32। सागरो हि रत्नपरिपूर्णो भवत्ययं ग्रन्थः शब्दार्थवैचित्र्यपूरित इत्यनयोः साम्यमिति॥२॥

अथ शास्त्रप्रस्तावना माह—

हेमहर्याङ्गणक्रीडत्कलभाः सुलभाः श्रियः।

दुर्लभास्तद्विदानन्दकाद‌म्बिन्यो गिरः पुनः॥३॥

काञ्चनमन्दिराजिरविलसत्करिपोता33 अपि श्रियः सम्पदः सुलभाः सुप्रापा34एव। गिरो वाचः पुनर्दुर्लभा दुःखसमासाद्याः। कीदृश्यः? तद्विदां भारतीसौरभ्यवेदिनामानन्दः प्रमोदः स एव पीयूषवर्ष तस्य कादम्बिन्यो35 नवमेधपङ्क्तयः। अत्राप्येकदेशविवर्त्ति36 परम्परितमेव रूपकम्।यथा कादम्बिन्यैः37 सुधावर्षिण्यो दुर्लभास्तथा तद्विदानन्दद। यिन्यो गिरोऽपि।तथाविधवाग्विलासालङ्कृतानामल्पीयसामेव दृश्यमानत्वात्।विश्वश्रेयःश्रियस्तु राजादयो भूयांस एव दृश्यन्ते इत्यर्मृदृशीनां38 गिरां दुर्लभत्वमेवेति॥३॥

तत् किमित्याह—

ताश्च39 सम्भाव्य भूयोभिः प्राक्तनैर्भाग्यवैभवैः।
काव्ये बद्धादरैर्भाव्यमजस्त्रमपरिश्रमैः॥४॥

ताश्च सहृदयानन्दिनीर्वाचो भूयोभिरनल्यैः प्राक्तनैः प्राच्यैर्भाग्यवैभवैः पुण्यप्राग्भारैः40 सम्भाव्य प्राप्य। प्राग्जन्मार्जितसुकृतसम्भारमन्तरेण तादृशीनांगिरामनासाद्यत्वात्41।यदुक्तम्—

“न नाम्नामावृत्त्या परिचयवशाच्छन्दसि न वा
न शब्दव्युत्पच्या निभृतमुपदेशान्न च गुरोः।
अपि त्वेताः स्वैरं जगति सुकवीनां मधुमुचो
विपच्यन्ते वाचः सुकृतपरिणामेन महता॥१॥”

तत् किं कर्तव्यमित्याह—काव्ये कविव्यापारे बद्धा दरैर्यत्नपरैर्भाव्यं भवितव्यं ‘विद्वद्भिः’ इति गम्यते। कथमजस्रम विश्रान्तम्। कीदृशैर्विद्वद्भिरपरिश्रमैः परिश्रमं42 विमुच्येत्यर्थः। तद्विधा हि वाचः काव्यव्यापृता एव साफल्यं भजन्तीति भावः

॥४

अथ किम्प्रयोजनं काव्यमित्याह—

अमन्दोद्गतिरानन्दस्त्रिवर्गश्च निरर्गलः।
कीर्तिश्च कान्तातुल्यत्वेनोपदेशश्च तत्फलम्॥५॥

तस्य काव्यस्य फलं प्रयोजनं यथौचित्यं कवेः सहृदयस्य43च किमित्याह—सकलप्रयोजनतिलकभूता तत्कालमेव रसपीयूषपानप्रादुर्भूता44 कत्रलितवेद्यान्तरा परमब्रह्मास्त्रादसोदरा प्रीतिरानन्दः। सोऽप्यमन्दोद्गतिरूर्जस्वलोदयः। तथा निरर्गलः सातिशयो धर्मार्थकामरूपस्त्रिवर्गः45। यतो देवता–मुनिस्तुति46–विशेषात् सर्वसुखसम्पत्तिहेतुर्धर्मः प्रादुर्भवत्येव। सरस काव्यपरितोषितेभ्यः पृथिवीपतिप्रमुखेभ्योऽर्थोऽपि47 पुरस्सर एव। काव्यरसपरवशीभूताः कामिन्योऽपि48 कामं कामरसामृतनिस्स्यन्दिन्यो49 भवन्तीति। तथा शरदिन्दुसुन्दरा कीर्तिश्च। कालिदासादीनां50 महाकवीनामद्य यावत् काव्यप्रकर्षादश्रुताः कीर्तयः। तथा कान्तासंमिततयोपदेशश्च51। काव्यमुद्रया हि शब्दार्थौ गुणीकृत्य रसाविष्कारकारणं व्यापारमूरीकुर्वत्या प्रभुप्रायेभ्यः शब्दप्रधानेभ्यो वेदागमादिशास्त्रेभ्यश्च मित्रतुल्येभ्योऽर्थप्रधानेभ्यः52 पुराण-प्रकरणादिभ्यश्च किमप्यात्मनो वैलक्षण्यमुन्मीलयन्त्या कान्तयेव रसपारवश्याध्यारोपात् संमुखीकृत्य ‘रामादिवद् वर्त्तितव्यम्53, न रावणादिवद्’ इत्युपदेशः प्रदीयते। यदाह हृदयदर्पणका—

“शब्दप्राधान्यमाश्रित्य54 तत्र शास्त्रं पृथग् विदुः।
अर्थे तवेन युक्ते तु वदन्त्याख्यानमेतयोः ॥ २ ॥

द्व55योर्गुणत्वे56 व्यापारप्राधान्ये काव्यगीर्भवेत्।”इति॥५॥

अथ57 काव्यस्य कारणमाह—

कारणं प्रतिभैवास्य व्युत्पत्त्यभ्यासवासिता।
बीजं नवाङ्कुरस्येव काश्यपी–जलसङ्गतम्॥६॥

अस्य काव्यस्य प्रतिभैव नवनवोल्लेखप्रेङ्खितः प्रज्ञाविशेष एव कारणं निमित्तम्। कथम्भूता प्रतिभेत्याह–व्युत्पत्तिः शास्त्रादिप्रागल्भ्यम्, अभ्यासः पुनः पुनः प्रवृत्तिस्ताभ्यां वासिता संस्कृता। किमिव? बीजमिवे58। कस्य? नवारस्य प्रथमाङ्कुरस्य। बीजस्य ह्युत्तरोत्तरानङ्करान् प्रत्यकारणत्वात्। किंविशिष्टम्? काश्यपी–जलसङ्गतं पृथिवी–पाथःसमागतम्59। किमुक्तं भवति। यथा बीजमेवाङ्कुरोत्पत्तिहेतुर्भूम्यम्भसी तु तदुपष्टम्भबीजके। तथा प्रतिभैव काव्यकामधेनुर्व्युत्पत्त्यभ्यासौ तु तामेवोपस्कुरुतस्तद्वारेणैर्वे60 काव्योपकारिणौ। विद्यमानयोरपि तयोर्निप्र (निष्प्र ) तिभस्य कान्योत्पत्त्यनुपलम्भादिति॥६॥

अथ विशेषतः प्रतिभास्वरूपमाह—

जगच्चेतश्चमत्कारि कविकर्मनिबन्धनम्।
काचिदप्यात्मनः शक्तिः प्रतिभेत्यभिधीयते॥७॥

काचिदप्यशक्या निर्वक्तुमात्मनः क्षेत्रज्ञस्य शक्तिः स्फूर्त्तिविशेषः प्रतिभेति नाम्नाऽभिधीयते व्यपदिश्यते ‘बुधैः’ इति शेषः। कीदृशी? जगच्चेतश्चमत्कारि विश्वमनोविस्मयोत्पादि। न पुनस्तद्विपरीतम्। यल्लोकोत्तरं कविकर्म कविव्यापारःकाव्यमित्यर्थः। यदुक्तम्—

“प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता।
तदनुप्राणनाजीव वर्णनानिपुणः कविः ॥३॥

** तस्य कर्म्म स्मृतं काव्यम्” इति।**

तस्य काव्यस्य निबन्धनं कारणम्। न खलु प्रतिभामन्तरेण काव्यमुन्मीलति।कथञ्चिदुन्मीलति चेत् तत् सर्वस्यापि61 हास्यपात्रतां गच्छेदिति ॥७॥

व्युत्पत्तिं व्याचष्टे—

लोके शब्दादिशास्त्रेषु काव्य–नाट्य–कथासु च।
आगमादिषु च प्रौढियुत्पत्तिरिति कथ्यते॥८॥

लोके स्थावर–जङ्गमात्मनो62 लोकस्य वृत्ते, शब्दादिशास्त्रेषु व्याकरणच्छन्दोऽनुशासनाभिधानकोश–गजाश्वलक्षण–भरत—चाणक्य—वात्स्यायनाध्यात्मप्रभृतिग्रन्थेषु63, काव्येषु रघुवंशादिषु, नाट्येष्वभिज्ञानशकुन्तलादिषु, कथासु च कादम्बरीप्रमुखासु, आगमादिष्वागम—श्रुति–स्मृति–पुराणेतिहासप्रभृतिषु धर्मशास्त्रेषु च प्रौढिः सम्यक्तच्ववेदित्वं व्युत्पत्तिरिति कथ्यतेऽभिधीयते64 इति। लोकवृत्तादिनैपुण्य संस्कृतप्रतिभस्य हि काव्यं तदनतिक्रमेणोपनिबद्धं65 द्विदावर्जकं भवतीति ॥८॥

अथाभ्यासं विवृणोति—

केवलेऽथ प्रबन्धस्थे काव्ये काव्यज्ञशिक्षया।
पुनः पुनः प्रवृत्तिर्या सोऽभ्यासः परिकीर्तितः॥९॥

सोऽभ्यासः परिकीर्तितः कथितः। केवले विशकलितरूपेऽथ प्रबन्धस्थे परस्परापेक्षपङ्क्तिस्थापिते हारप्रोतमौक्तिककल्पे काव्ये या पुनः पुनर्भूयो भूयः प्रवृत्तिः66 प्रवर्तनम्। कथम्? काव्यज्ञशिक्षया काव्यं कर्तु विचारयितुं च67 ये जानन्ति ते काव्यज्ञाः कविसहृदयास्तेषां शिक्षयोपदेशेनेत्यर्थः। न खल्पदेष्टारमन्तरेण68 शिखण्डिताण्डवमिव स्वभ्यस्ताऽपि कला चेतनचमत्कारिणी भवति॥९॥

काव्यज्ञशिक्षयेत्युक्तमिति शिक्षां लक्षयति—

सतोऽप्यबन्धः कस्यापि बन्धोऽन्यस्यासतोऽपि हि।
शिक्षा स्यान्नियमश्छायाद्यपहारादयस्तथा॥१०॥

शिक्षा स्यादुपदेशो भवेत्। केयमित्याह—सतोऽप्यबन्धः कस्यापीति। कस्यापि जाति–द्रव्य–गुण–क्रियाऽऽदेः सतोऽपि69 विद्यमानस्याप्यवन्धो गुम्फाभावः। तत्र

जातेर्यथा–मालत्त्या वसन्ते, पुष्पफलस्य70चन्दनद्रुमे71, फलस्याशोके। द्रव्यस्ययथा72–कृष्णपक्षे सत्या अपि ज्योत्स्नायाः, शुक्लपक्षे त्वन्धकारस्य। गुणस्य यथा–कुन्दकुङ्मलानां कामिदन्तानां च रक्तत्वस्य, कमलादीनां च हरितत्वस्य73, प्रियङ्गुपुष्पाणां च पीतत्वस्य। क्रियाया यथा–दिवा नीलोत्पलानां विकाशस्य, शेफालिकाकुसुमानां विश्रंसस्य च। तथा74 बन्धोऽन्यस्यासतोऽपि हि। अन्यस्य जात्यादेरेवासतोऽपि ह्यविद्यमानस्यापि बन्धो गुम्फनम्। तत्र जातेर्यथा–नदीषु पद्म नीलोत्पलादीनाम्75, जलाशयमात्रेऽपि76 हंसादीनाम्, यत्र तत्र पर्वतेऽपि सुर्वर्ण77–रत्नादीनां च। द्रव्यस्य यथा-तमसि मुष्टिग्राह्यत्वस्य सूचीभेद्यत्वस्य च, ज्योत्स्नायां च कुम्भोपवाह्यत्वादेः। गुणस्य‌यथा–यशो–हासादौ शौक्ल्यस्य, अयशः–पापादौ कार्ण्यस्य, क्रोधानुरागयो रक्तत्वस्य च। क्रियाया यथा–चकोरेषु चन्द्रिकापानस्य, चक्रवाकमिथुनेषु निशि भिन्नतटाश्रयणस्य च।नियमो जात्यादेरेवैकत्रावधारणम्।जा–तेर्यथा–सम्मुद्रेष्वेव मकराः, ताम्रपण्र्ष्यामेव मौक्तिकानि।द्रव्यस्य यथा–मलय एव चन्दनस्थानम्, हिमवानेव भूर्जोत्पत्तिपदम्।गुणस्य यथा–सामान्योपादाने माणिक्यानां शोणतैव, पुष्पांणां78 शुक्लतैव, मेघानां कृष्णतैव क्रियाया यथा–कोकिलरूतं वसन्त एव मयुराणां वर्षास्वव विरुतं नृत्तं चेति अथवा नियमः कविसमयः यथा–कृष्ण–नीलयोः, कृष्ण–हरितयोः, कृष्ण–श्यामयोः, पीत–रक्तयोः, शुक्ल–गौरयोः, चन्द्रे शश–मृगयोः, कामकेतने मकर–मत्स्ययोः, अत्रिनेत्र–समुद्रोत्पन्नयोश्चन्द्रयोः, द्वादशानामप्यादित्यानाम्, कमला–सम्पदोः, क्षीर–क्षारसमुद्रयोः, दैत्य–दानवासुराणां चैक्थम्79।तथा चक्षुरादेरनेकवर्णोपवर्णनं बहुकालजन्मनोऽपि शिवचन्द्रमसो80 बालत्वम्, कामस्य मूर्त्तत्वममूर्त्तत्वं चेत्यादिः81।छायाद्यपहारादयस्तथा।छायायाः परकाव्यात् सादृश्यमात्रस्यादिशब्दात् पद–पादादीनां चापहारः सम्प्नुपजीवनम्।पुनरादिपदात् समस्यापूरणाद्या शिक्षा।तथेति सम्मुच्चये इति ॥१०॥

अथ शिक्षाधिकारिणः कथयति—

केऽप्यरोचकिनः केऽपि सतृणाभ्यवहारिणः।
तेषु पूर्वे विवेकित्वादेतामर्हन्ति नापरे ॥११॥

अत्रारोचकि–सतृणाभ्यवहारिशब्दावुपचरितार्थौ क्रमाद् विचारचतुरान् विचार–रहितांश्चलक्षयतः82। तेषु द्वितयेषु मध्ये पूर्वे ये केचिदरोचकिनस्ते83 विवेकित्वाद् विचारैकनिष्ठत्वादेतां पूर्वोक्तां शिक्षामर्हन्ति तद्योग्या भवन्ति, नापरे न त्वितरे सतॄणाभ्यवहारिणस्तद्विपरीतत्वादिति॥११॥

अथ काव्यशरीरं निर्दिशति—

काव्यं शब्दार्थवैचित्र्ययोगः सहृदयप्रियः।

यस्मिन्नदोषत्व-गुणालङ्कृति-ध्वनयः स्थिताः॥१२॥

काव्यं निपुणकविकर्म। किमित्याह शब्दार्थवैचित्र्ययोगः। शब्दो वाचकोऽर्थश्च वाच्यस्तयोर्वैचित्र्यं विच्छित्तिवैशिष्ट्यं84 तच्च प्रत्येकमभिसम्बध्यते। शब्दवैचित्र्यमर्थवैचित्र्यं चेति तयोर्योगः सम्पर्कः। न खलु शब्दार्थावेव काव्यम्85, गोरपत्यं बलीवर्द इत्यादेरपि काव्यत्वप्रसङ्गात्। नाप्येकवैचित्र्यमपि चमत्करोति, पुरो दूषयिष्यमाणत्वात्। तस्मादुभयवैचित्र्ययोग एव काव्यम्।गोरपत्यं बलीवर्द इत्यादेरपि काव्यत्वप्रसङ्गात्। नाप्येकवैचित्र्यमपि चमत्करोति, पुरो दूषयिष्यमाणत्वात्। तस्मादुमयवैचित्र्ययोग एव काव्यम् ।

सोऽपि सहृदयप्रियः86। प्रीणातीति प्रियः सहृदयानां प्रियः सहृदया ह्लादक इत्यर्थः। नहि वैचित्र्ययोगेन तद्विदः प्रीयन्ते87। अथाभिधेयतया88 वैचित्र्यस्य89 हेतूनाह—यस्मिन्नित्यादिः। यस्मिन् यत्र शब्दार्थयोर्वैचित्र्येऽदोषत्वं गुणा अलङ्कृतयो ध्वनिश्च वक्ष्यमाणाः स्थिताः कृतावस्थानांस्तैरेव90 च शब्दार्थयोर्वैचित्र्यमुन्मील्यत इति ॥१२॥

कुतस्तर्दुन्मील्यत91 इत्याह—

निर्दोषः सगुणः सालङ्कृतः92सव्यञ्जनस्तथा।
शब्दश्चार्थश्च93 वैचित्र्य पात्रतां हि विगाहते॥१३॥

हिर्यस्मात् कारणान्निर्दोषत्वाद्यलङ्कृत एव वाचको वाच्यश्च विचित्रतां चुम्बतिीति। दोषाभावादयो वैचित्र्यहेतव इति स्थितम्॥१३॥

अथ काव्यत्वादपवादमाह—

स्फुटालङ्कारवैचित्र्यवञ्चितोऽप्यपरत्रये।
चमत्कारिणि काव्यत्वं न परिम्लायति क्वचित्॥१४॥

स्फुटेत्यभिधानाभिरलङ्कारं नाम नास्त्येव काव्यम्। क्वचित् पुनः स्फुटत्वंमलङ्कारस्य94 क्वाप्यस्फुटत्वम्। यत्राप्यस्फुटत्वं तत्रापि95 चमत्कारिण्यपरत्रये निर्दोषत्व–सगुणत्त्व–सव्यञ्जनत्वलक्षणे सति न काव्यता परिहीयते। यथा—

“गेयं श्रोत्रैकपेयं बकुलवलयितं मल्लिकादाम दत्त–
र्प्रातिः कर्पूरपूरः सुरयुवतिजितो वारसारङ्गनेत्राः।
अस्त्येवैतत् समस्तं तदपि वसुमतीवर्णिनीकर्णपूर!
प्रेक्ष्यन्ते ते विपक्षा भृशमरतिपरीभोगदौस्थित्यभाजः॥४॥”

अत्र गेयादीनां रतिकारणानामरतिरूपविरुद्ध कार्योत्पादेनारतिरूपस्य कार्यस्य गेयादिविरुद्धकारणसमावेशेन च96 सन्देहसङ्करे विशेषोक्ति–विमावनयोरस्फुटत्वम्॥१४॥

अथ ध्वनिकाव्यमाह—

वाच्यवाचकयोरन्यद् विचित्रत्वं तिरो दधत्।
व्यञ्जकत्वं स्फुरेद् यत्र तत् काव्यं ध्वनिरुत्तमम्॥१५॥

यत्र यस्मिन् शब्दार्थयोरन्यन्निदर्दोषत्व–सगुणत्व–सालङ्कारत्वरूपं वैचित्र्यं तिरस्कुर्वाणो व्यञ्जकीभावः प्रदीप्येत तत् काव्यमुत्तमं ध्वनिरित्युच्यते। यतः उच्चरितप्रध्वंसिनां वर्णानामर्थप्रत्यायकत्वाभावात्। संहृतक्रममन्त्यबुद्धिनिग्राह्यं ध्वनिसंज्ञं शब्दब्रह्मापरनामधेयं घण्टानुरणनप्रतिमं तदीयं स्वरूपमेव किश्चिदर्थप्रतीतिं जनयति।तञ्च स्फुटत्यथर्थोऽस्मादिति स्फोट इत्यभिधीयते।स च शब्देनैव व्यज्यते इति तद्व्यञ्जनक्षमः शब्दोऽप्युपचाराद् वैयाकरणैर्ध्वनिरित्युच्यते। ततस्तन्मतानुगामिभिरानन्दवर्द्धनाद्यैरपि तिरस्कृतवाच्यवाचकमहिम्नो व्यकुग्यार्थस्य व्यञ्जनसमर्थ शब्दार्थद्वितयमपि97 व्यञ्जकत्वसामान्यात् ध्वनिरिति व्यपदिश्यते सर्वोत्तमत्वं च लभते98। यथा—

वल्मीकः किमुतोद्धृतो99 गिरिस्थित् कस्य स्पृशेदाशयं?
त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता?

सर्वंसाध्वथवा रुणत्सि विरहक्षामस्य रामस्य चेत्
त्वद्दन्ताङ्कितवालिकक्षरुधिरक्लिन्नाग्रपुङ्खं100 शरम्॥५॥

इयं रावणं प्रति रामस्योक्तिः। अत्र दन्ताङ्कितपदेन वालिन101तस्य विजयः, कक्षप्रक्षेपणं तथैव चतुरम्भोधिभ्रमणं कृपयैव च परित्यागस्तत्राप्रतीकारस्तथाप्य—भिमानदर्प इत्यादिः। रामस्येति पदेन जगत्प्रतीतेनापि रामेण स्वयमुक्ते—नानुपयुज्यमानत्वाद् बाधितस्वार्थेन पौरुषोत्कर्षं लक्षयता भार्गवप्रत्यादेशादि, येन त्वं बद्धः सोऽपि वाली मया हत इत्यादि च। विरहक्षामस्य102 रामस्येत्यनेन चासतां पुष्टाङ्गस्य कृशस्यापि दुर्निवारा एव मम शरा इत्यादि व्यज्यते ॥ १५॥

अथ गुणीभूतव्यङ्ग्यमाह—

तयोर्यत्रान्यवैचित्र्याद् व्यञ्जकत्वस्य103 गौणता।
तन्मध्यमं गुणीभूतव्यङ्ग्यं काव्यं निगद्यते॥१६॥

तत् काव्यं मध्यमं गुणीभूतव्यङ्ग्यमिति कथ्यते। यस्मिन् शब्दार्थयोरन्येषां निर्दोषत्वादीनां वैचित्र्याद् व्यञ्जनव्यापारस्य गुणीभावः। यथ—

*“वाणीरकुडंगोड्डीणसउण कोलाहलं सुणंतीए।
घरकम्मवावडाए वहुए सीअंति104 अंगाई॥६॥”

अत्र वाच्यादङ्गसादाद् रसविशेषपरत्वेन सुन्दरात् स सङ्केतस्थानमागच्छ दहं तु न गतेति व्यङ्ग्यमसुन्दरमित्यस्य गुणीभूतत्वम्॥१६॥

अथावरं काव्यमाह—

यत्र व्यञ्जनवैचित्र्यचारिमा कोऽपि नेक्ष्यते105
काव्याध्वनि सदाऽध्वन्यैस्तत् काव्यमवरं स्मृतम्106॥१७॥

काव्यमार्गे सततपान्थैस्तत् काव्यमधममाम्नातम्। यस्मिन् व्यञ्जनव्यापाररूपविचित्रत्वसौन्दर्य किमपि नावलोक्यते। अन्यन्निर्दोषत्वादिवैचित्र्यं त्वस्त्येव। तच्च द्विविधं सशब्दगुणालङ्कारं सार्थगुणालङ्कारं चेति। तत्राद्यं यथा—
___________________________________________________________

* वानीरकुडङ्गोड्डोनशकुनकोलाहलं शृण्वत्याः। गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि॥

भ्रश्यद्विश्वम्भराणि भ्रमित भुवनभृत्कुम्भिकुम्भीनसानि
त्रुट्यत्ताराणि तुङ्गद्धरणिधरशिरःश्रेणिशीर्यद्दृषन्दि107
दिग्दीर्णोदन्वदाम्पि भ्रमदमरचमूचक्रचञ्चद्वियन्ति
व्यस्यन्तु व्यापदं वस्त्रिपुरविजयिनस्ताण्डवाडम्बराणि॥७॥”

द्वितीयं यथा—

प्रेङ्खद्भिश्चन्द्रपादैर्विहितपरिकरः108 स्फाटिकारानुकारै-
रव्याज्जूटः पुरारेः शिरसि सुरसरित्तीरदेशारघट्टः।
बन्धादेः श्वासवातैः शुषिरकवलितोद्वान्तवारि भ्रमन्ती
कापाली यत्र माला रयचलितघटीचक्रलीलां तनोति॥८॥”

यद्यपि प्रायः शब्दार्थालङ्काराणां नान्तरीयकत्वं तथापि प्राधान्येन निर्देश इति॥१७॥109

शब्दार्थवैचित्र्यसुधातरङ्गिते सरस्वतीस्रोतसि मांसलश्रियम्।
करोति यः काव्यकला मृणालिनीं स एव कश्चित् कविवासरेश्वरः॥

इत्यलङ्कारमहोदधौ काव्यस्य प्रयोजन—कारणस्वरूपभेर्दे निर्णयो नाम प्रथमस्तरङ्गः॥१॥

<MISSING_FIG href=”#”/><MISSING_FIG href=”../books_images/U-IMG-1731737656Screenshot_16-11-2024_114320_www.ebharatisampat.in.jpeg”/>

अथ द्वितीयस्तरङ्गः।

!#110

अथ पूर्वोक्तस्मारणपूर्वमुत्तराभिधेयमुपक्रमते111

पूर्वं शब्दार्थवैचित्र्ययोगः काव्यमुदीरितम्।
तत्र धमिच्चमत्कारि शब्दवैचित्र्यमुच्यते॥१

तदेव हि वैचित्र्यं यत्र धीमन्तश्चित्रीयन्ते इति॥१॥

प्रथमं तावत् शब्दस्वरूपमाह112

शब्दः स्याद् वाचकश्चौपचारिको व्यञ्जकस्तथा।
अर्थैर्वाच्यादिभिस्तत्र तावन्निर्वच्मि वाचकम्॥२॥

वाच्यादिभिरर्थैर्वाच्योपचरित–व्यङ्ग्यैर्हेतुभिर्वाचकश्चकारस्य भिन्नक्रमत्वादौपचारिकश्च तथा व्यञ्जक इति त्रयः शब्दाः। तत्र तेषु मध्ये वाचकं विचारयामीति॥२॥

अथ यत् प्रतिज्ञातं तन्निर्वाहयति—

शब्दः सङ्केतितः पूर्वैर्जात्याद्यर्थचतुष्टये।
तद्वशाद् दृश्यते तस्य चतुर्द्धैव प्रवर्त्तनम्॥३॥

यद्यप्यर्थक्रियाकारितया सङ्केतयोग्या व्यक्तिरेव, तथापि व्यक्तीनामानन्त्यात् प्रत्यहं नवनवोत्पादेन व्यभिचाराच्च तत्र सङ्केतः कर्तु न युज्यते। तथा यदि व्यक्तावेव सङ्केतः स्यात्, तदा गौः शुक्लश्चलतीत्यादीनां113 विषयविभागो न प्राप्नोति। तावद्विशेषणविशिष्टाया एव गोव्यक्तेः सङ्केतपात्रीकृतत्वेनैकेनैव शब्देनाभिधीयमानत्वादन्यथा शृङ्ग—सास्नादिवैशिष्ट्येऽपि पृथक् पृथक् शब्दाभिधेयत्वं स्यात्। यदि च विषयविभागं विनाऽप्येकस्मिन्नेव विषये युगपद् भूयसां शब्दानां प्रवृत्तिः स्यात् तदानीमिन्द्रः शक्रः पुरन्दर इत्यादयोऽपि शब्दाः समकालमेकस्मिन्नेव विषये प्रवर्त्तेरन्। तस्मान्न व्यक्तौ सङ्केतः, किन्तु तदुपाधावेवेत्युपपन्नम्। उपाधिश्च वस्तुधर्मो वक्तृयद्दच्छासन्निवेशितश्च।

वस्तुधर्मः सिद्धः १ साध्यश्व २। सिद्धोऽपि पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च। प्राणप्रदो जातिः। नहि जातिं विना पदार्थः सत्तामात्रमप्यासादयति। यदुक्तं वाक्यपदीये—‘गौः स्वरूपेण न गौर्नाप्यगौर्गोत्वाभिसम्बन्धात् तु गौः’ इति द्वितीयो गुणः शुक्लादिना हि लब्धसत्ताकं वस्तु विशेष्यते। साध्यः पूर्वापरीभूतावयवक्रियारूप114:। डित्थादिशब्दानामन्त्यबुद्धिनिग्राह्यं संहृतक्रमं स्वरूपं वक्त्रा यदृच्छया115 डित्थादिष्वर्थेषूपाधित्वेन संनिवेश्यत इति स संज्ञारूपयदृच्छात्मक इति। ‘गौः शुक्लश्चलति डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः’ इति116 महाभाष्यकारः। परमाणुत्वादीनां तु117 न जातित्वं पार्थिवत्वादिना परापरव्यवहारानुपपत्तेः। यदि हि परमाणुत्वं परं पार्थिवत्वमपरं तत् सर्वाऽपि पृथ्वी परमाणुरूपैव स्यात्। यदि च पार्थिवत्वं परं परमाणुत्वमपरं तत् सर्वेऽपि परमाणवः पार्थिवा एव स्युरपरसामान्य व्यापकत्वात् परसामान्यस्येति। नापि गुणत्वं लब्धसत्ताकस्य वस्तुनो विशेषको गुण इति गुणलक्षणायोगात्। गुणस्य हि द्रव्यं समवायिकारणम्, गुणस्तु कार्यः। कारण–कार्ययोश्च पूर्वापरकालभावित्वं नियतमेव। तच्च नित्ययोः परमाणु–परमाणुत्वयोर्नोपपद्यत एवेति विशेषाधान हेतुत्वाभावान्न गुणत्वमित्युभयभ्रंशे कणादमुनिना चतु विंशतिगुणमध्येऽणु118 महद् दीर्घं ह्रस्वं च परिमाणमित्यणुपरिमाणेऽन्तर्भावितत्वात् पारिभाषिकं गुणत्वम्। ननु ‘नित्यमेकमनेकवृत्ति सामान्यम्’ इति सामान्यलक्षणादयं गौरयं गौरित्यनुवृत्तप्रत्ययाच्च119 यथा गवादीनां जातिशब्दत्वं तथा सामान्यलक्षणादयं शुक्लोऽयं शुक्ल इत्याद्यनुवृत्तप्रत्ययाच्च शुक्लादीनां कथं न जातिशब्दत्वम्? अत्रोच्यते–गुण–क्रियायदृच्छानां वस्तुत एकव्यक्तिकत्वादेकस्वरूपाणामप्याश्रयभेदाद्120 भेद एव लक्ष्यते, न तु वास्तवो भेदः। यथैकस्य मुखस्य खड्ग–मुकुर–तैलाद्यालम्बन भेदादिति। सामान्यलक्षणायोगात् पूर्वैर्वैयाकरणैर्जात्याद्यर्थचतुष्टये शब्दः सङ्केतितः, तद्वशेन शब्दस्य चतुर्द्धा प्रवृत्तिर्दृश्यते। जातिर्गुणः क्रिया द्रव्यं चेति॥३॥

अथ मतान्तराण्याह—

शब्दस्य जातिमेवार्थमाहुरन्ये विपश्चितः।

हिम–पयः—शङ्खाद्याश्रितेषु तत्त्ववृत्त्यैव भिन्नेषु शुक्लादिषु गुड–तन्दुलादिपाकादिषु च प्रतिक्षणं भिद्यमानेषु डित्थाद्यर्थेषु बाल–वृद्ध–शुक–सारिकाद्युच्चरितेषु डित्थादिशब्देषु च यद्वशादनुवृत्तप्रत्ययोत्पत्तिस्तां शुक्लत्वादिकां121 पाकत्वादिकां डित्थत्वादिकां च जातिमेव शब्दार्थमाहुर्मीमांसकाः।

तथा—

केचिज्जातिमतीं व्यक्तिम्

जातेर्वाह—दोहादावनुपयुज्यमानत्वात् केवलव्यक्तेः पूर्वमेव दूषितत्वाच्च जातिमतीं व्यक्तिमेव शब्दार्थ वदन्ति नैयायिकाः।

तथा—

अपोहमपरे पुनः॥४॥

अपरे बौद्धाः पुनर्जातेर्विचारासहत्वात् व्यक्तौ तु क्षणिकत्वेन सङ्केतस्य कर्तुमशक्यत्वाच्चापोहमगोव्यवृत्तो गौरित्यादिरूपामितरव्यावृत्तिमेव शब्दार्थ—मिच्छन्तीति॥४॥

अथ सर्वमताभ्युपगमेनाह—

तैरुक्तो यः स मुख्योऽर्थः शब्दस्तस्याभिधायकः।
व्यापारस्त्वभिधैवास्य तमर्थमभिधास्यतः122॥५॥

तैर्महाभाष्यकारादिभिः। तमर्थेति तं मुख्यमर्थमभिधातुकामस्यास्य शब्दस्याभिधेति नाम्ना व्यापारः क्रिया। न हि क्रियां विना कर्त्ता कर्म निर्मा तुमीष्टे इति॥५॥

अथ सामान्यतः123 शब्दस्य स्वरूपमुक्त्वा व्यतिरेकोक्तिपूर्व काव्याङ्गं वैचित्र्य मुपदिशति—

किन्त्वेकार्थप्रवृत्तेषु शब्देष्वन्येषु सत्स्वपि।
अभीष्टार्थाभिधायी यस्तस्य वैचित्र्यचारुता॥६॥

किन्त्विति व्यतिरेके सन्त्येव तुल्यार्था भूयांसः शब्दाः। किं पुनस्तेषु मध्ये यस्य विवक्षितार्थाभिधायित्वं तस्यैव वैचित्र्यरामणीयकम् स एव च काव्याङ्गम्124। यथा—

“द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी॥९॥”

अत्रैकार्थाः पिनाकिप्रभृतयः शब्दाः सन्त्येव परं तानपाकृत्य कविना कपालिशब्द एवोपनिबद्ध इति विवक्षितार्थाभिधायित्वात् तस्यैव वैचित्र्यम्। शम्भुनिन्दा चात्र कविना विवक्षिता, तां चायमेव परिपूर्णा ब्रूते इति॥६॥

अथ शब्दगेतस्य125 कस्यचिद् वैचित्र्यस्यातिदेशमाह—

दोषहान—गुणाधान—भूषणन्यासनिर्मितम्।
यत्126 तु शब्दस्य वैचित्र्यं तत् पुरः127 प्रथयिष्यते128॥७॥

पुर इति स्वस्व प्रस्तावे प्रथयिष्यते कथयिष्यत इति॥७॥

अथ बहुप्रकारं शब्दस्य वैचित्र्यमाह—

** तस्यान्यदपि वैचित्र्यमस्ति प्रकृतिसम्भवम्।**

तस्य शब्दस्य प्रकृतिसम्भूतं वैचित्र्यमन्यदप्यस्ति। वैचित्र्यमित्युत्तरत्रापि सर्वत्र योज्यम्। यथा—

*“ रइकेलिहियनियंर्संणकरकिसलयरुद्ध129 नयणजुअलस्स।
रुद्दस्स तइअनयणं पव्त्रइपरिचुंबिअं जयइ॥१०॥”

अत्र न नन्दतीत्याद्युक्तम्, किन्तु जयतीति इतरस्मान्नयनद्वयादुत्कर्षेण वर्तते लोकोत्तरेण प्रकारेण स्थगितत्वादिति जिरूपप्रकृतिजनितं वैचित्र्यम्।__________________________________________________________

*रतिकेलिहृतनिवसनाकर किसलयरुद्धनयनयुगलस्य।
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति॥

यथा वा—

“क्रीडारसेन रहसि स्मितपूर्वमिन्दोर्लेखां विकृष्य विनिवध्य च मूर्ध्नि गौर्या।
किं शोभिताऽहमनयेति पिनाकपाणेः पृष्टस्य पातु परिचुम्बनमुत्तरं वः॥११॥”

अत्र चुम्बनादन्यन्न समर्थमुत्तरमिति चुम्बिप्रकृतेरेव वैचित्र्यावहत्वम्। तथा प्रकरणादिसहाया काचिन्नामप्रकृतिरपि वैचित्र्यकारिणी। यथा—

“नाभियोक्तुमनृतं त्वमिष्यसे130 केस्तपस्विविशिखेषु131 चादरः।
सन्ति भूभृति हि नः शराः परे ये पराक्रमवसूनि वज्रिणः॥१२॥

अत्र सत्यपि वज्रे शक्रस्य त एव पराक्रमवसूनीति शराणामुत्कर्षं द्योतयन् वज्रशब्दो वैचित्र्यकृत्।

तथा—

धातु—नामात्मनस्तस्याः किमपि प्रत्ययोद्भवम्॥८॥

प्रकृतिर्द्विधा धातुरूपा नामरूपा च। तस्या द्विरूपाया अपि किमपि किञ्चित् प्रत्ययादुद्भवतीति। तत्र धातुरूपाया आख्यातप्रत्यया यथा—

“असम समरसम्पल्लम्पटानां भटानामवधिरवधि युद्धे येन हम्मीरवीरः।
स किल सकलदृप्तक्षत्र नक्षत्र लक्ष्मीहरणकिरणमाली कस्य न स्यान्नमस्यः?॥१३॥

यथा वा—

“सोपवादमुपशान्तविचारं सानुतर्षमनुतर्षपदेन।
ते मुहूर्तमथ मूर्त्तमपीप्यन् प्रेममानमवधूय वधूः स्वाः॥१४॥”

अनयोर्द्वयोरपि हन्तेः पाययतेश्चाद्यतन्यां वधि—पीप्यादेशौ।

कृत्प्रत्ययाद् यथा—

“दिशः प्रियाः स्वा इव कान्तिमद्भिरलङ्करिष्णुर्नवमौक्तिकौधैः।
देवः प्रभाणामधिभूर्विवेश नीरेशितुर्मध्यमुदग्ररागः॥१५॥”

यथा वा—

समूलघातमघ्नन्तः परान् नोद्यन्ति मानिनः।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः॥१६॥”

अनयोरिष्णु–णम्प्रत्ययौ।

नामरूपायाः स्यादिप्रत्ययाद् यथा—

पद्भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसूताः।
दृष्टाः सुतास्तत्तनयप्रसूतिं द्रष्टुं पुनर्वाञ्छति मेऽन्तरात्मा॥१७॥”

अत्र पद्भ्यामिति तृतीया।

यथा वा—

** “**

आराद्धो132 मूर्द्धभिर्यत् तुहिनकरकलालङ्कृतिर्विशतिर्यद्133
दोष्णामुष्णांशु मित्रं भुवनपरिभवी यत्प्रतापप्ररोहः।
यत् तत् कैलाश (स) शैलोद्धरणमपि मृषा तत् समस्तं तवाभूत्
बिभ्रल्लुण्टाकलीलां यदपहरसि नः पङ्कजाक्षीं परोक्षे॥१८॥”

अत्र दोष्णामिति षष्ठी।

ङीप्रत्ययाद् यथा—

कन्या काचिदिहापि कर्मणि पणः स्यादित्यसूयाचलत्134-
सीतापाङ्गमयूखमांसल मुखज्योत्स्नाविलुप्तीं दिवम्।
कुर्वाणेन रघूद्वहेन चकृषे नारायणीयं धनुः
सन्धायाथ शरश्च भार्गवगतिच्छेदादमोघीकृतः॥१९॥

यथा च—

** “**

मुनिरपि गुरुर्दिव्यास्त्राणां बभूव दिवौकसा—
मजगवधनुर्भङ्गे तावानहो ! स महोत्सवः।

रघुपतिगुणक्रीतीमेतामवेहि जगत्त्रयीं
विपरिणमते दौर्जन्यं तु प्रभुत्वपदेन नः॥२०॥

अनयोर्विलुप्ती-क्रीतीति च विशेषलक्षणात् स्त्रियां ङीप्रत्ययान्तौ।

तद्धितप्रत्ययाद् यथा—

“उत्तालतालीचन सम्प्रवृत्त समीर सीमन्तित केतकीकाः।
आसादिरे लावणसैन्धवीनां सेनाचरैः कच्छेभुवां135 प्रदेशाः॥२१॥

अत्र लावणसैन्धवीनामित्यत्रेदमर्थेऽण्।

यथा वा—

“विन्ध्यस्य संस्तम्भयता महाद्रेर्निःशेषपीतोज्झितसिन्धुनाथः।
प्रीत्याऽश्वमेधावभृथार्द्रमूर्तेः136 सौस्नातिको यस्य भवत्यगस्त्यः॥२२॥”

अत्र पृच्छतीत्यर्थ इकण्॥८॥

एवमन्यप्रत्ययोद्भवमपि137 बोद्धव्यं तद् यथा—

कर्तृत्यागात्138 क्रियानिष्ठैः कृतमन्यद् विशेषणैः।

तादृग्विच्छ्न्यिभावात् कर्तारं परिहृत्य क्रियामाश्रितैर्विशेषणैरन्यद् विहितम्।

यथा—

क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुम्।
सस्मार वारणपतिर्विनिमीलिताक्षमिच्छावीहारवनवास139 महोत्सवानाम्॥२३॥

यथा वा—

इत्युद्गते शशिनि पेशलकान्तंदूतीसंलापसंचलितलोचनमानसाभिः140
अग्राहि मण्डनविधिर्विपरीतभूषाविन्यासहासितसखीजनमङ्गनाभिः

२४

यथा—

किञ्चिद्विशेषणस्फीत्या विशेष्यप्रतिपत्तिजम्॥९॥

किञ्चिदन्यद्विशेषणस्य स्फीत्या सामर्थ्येन विशेष्यप्रतीतिं141 करोतीति। यथा—

“वि (व) शिष्टो (ष्ठो) क्तैर्मन्त्रैर्दधति जगतामाभ्युदयिकीं
धुरं सम्प्रत्येते दिनकरकुलीनाः क्षितिभुजः।
गृहे येषां रामादिभिरपि कलाभिश्चतसृभिः
स्वयं देवो लक्ष्मीस्तनविषमवारी गजपतिः॥२५॥”

अत्र च लक्ष्मीस्तनेत्यादिविशेषणं स्वसामर्थ्यान्नारायणप्रतीतिं तनोतीति॥९॥

तथा—

सर्वनामादिसंस्थाप्यसंवृतिस्थापितं परम्।

परं किञ्चित् सर्वनाम्नाऽऽदिशब्दात् प्रातिपदिकेन वा संस्थाप्याऽवस्थापनीया याऽसौ142 संवृतिः संवरणं तया स्थापितं निर्मितम्। यथा—

“याते द्वारवतीं तदा मधुरिपौ तद्दत्तझम्पानतां
कालिन्दीतट रूढवञ्जुललतामालम्ब्य सोत्कण्ठया।
तद् गीतं गुरुवाष्पगगगगलत्तारस्वरं राधया
येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम्॥२६॥”

अत्र राधायाः प्रेमोत्कण्ठाभरस्तच्छब्देन संवृत्य कार्यद्वारेण प्रकाशितश्वारुत्वमुन्मीलयति।

यथा च—

“निद्रानिमीलितदृशो मदमन्थराया नाप्यर्थवन्ति न च यानि निरर्थकानि।
अद्यापि मे वरतनोर्मधु143राणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति॥२७॥”

अत्र स्वानुभवसंवेद्यमपि वस्तु वक्तुमशक्यमपि किमपीति पदेन संवृतं चमत्कुरुते।

यथा वा—

“नृत्तारम्भाद् विरतरभसस्तिष्ठ तावन्मुहूर्त

यावन्मौलौ श्लथमचलतां भूषणं ते नयामि।”

“इत्याख्याय प्रणयमधुरं कान्तया योज्यमाने

चूडाचन्द्रे जयति सुखिनः कोऽपि शर्वस्य गर्वः॥२८॥”

अत्र शर्वगर्वस्य वचनागोचरोत्कर्षशालित्वं कोऽपीत्यनेन संवृतं सौन्दर्यमधिरोहति।

प्रातिपदिकोदाहरणं यथा—

“दुर्वचं तदथ मा व (च) भून्मृगस्त्वय्यसौ यदकरिष्यदोजसा।

नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्रिणा॥२९॥”

अत्र स्वामहनिष्यदिति महापातकमिव वक्तुमयुक्तमेत्रेति दुर्वचपदेन संवृतं नितरां कमनीयम्।

यथा च—

“तत् तादृशं कथमुदेति मनुष्यलोके तेजोऽद्भुतं निरभिसन्धि न तावदेतत्।
तान्येव चास्य चरितानि दशाननस्य हा वत्स ! शान्तमथवा दशकन्धरोऽसि॥३०॥”

अत्र हा वत्सेत्यादिना किमप्यमङ्गलं वक्तुमारभ्य शान्तमथवेत्यादिप्रातिपदिकैः संवृतं वैचित्र्यमुन्मुद्रयति।

सामानाधिकरण्येऽन्यद् भिन्नसङ्ख्यान–लिङ्गयोः॥१०॥

अन्यदपरं सङ्ख्यान–लिङ्गयोभिने सङ्ख्याने लिङ्गे च सङ्ख्यान–लिङ्गे वा ययोः शब्दयोस्तौ तथा तयोः सामानाधिकरण्ये तुल्याधिकरणत्वे। यथा—

“द्विरुक्तिः क्षीरोदः स्फुरति पुनरुक्तं हिमगिरिः
समस्या कैलाश (स) स्तुहिनरुचिरोचींषि यमकम्।
तवारा तिव्रातद्विरदकुलशार्दूल ! यशसा
मनुप्रासः काशत्रिपु144रहरहासप्रभृतयः॥३१॥”

अत्र पूर्वत्रये लिङ्गयोरुत्तरद्वये145 तु वचनयोर्भेदः146

यथा147वा—

“तेरत्नाकरसीमभूतलमिलद्भूपालभालस्थल

स्वेदक्षालितपादपद्मरजसस्तस्थान्ववायेऽभवन्।
दुर्वारासुरचक्रविक्रमकथासम्भ्रान्तजम्भान्तक
प्राणत्राणपवित्रपौरुपकलापात्रं धरित्रीभुजः॥३२॥”

अत्र लिङ्गसङ्ख्ययोर्द्वयोरपि भेदः॥ १०॥

तथा—
सम्भवेऽप्यन्यलिङ्गस्य स्त्रीलिङ्गविधिजं परम्।

परं किञ्चित् सम्भवत्यप्यन्यस्मिन्148 लिङ्गे स्त्रीलिङ्गविधानजनितं स्त्रीति नाम्नोऽध्यानन्ददायित्वात्। यथा—

“प्रवृद्धतापाश्चिरविप्रयोगतो मुहुर्वहन्ती जनशोचनीय149ताम्।

श्लिष्यन्ति सर्वाङ्गममी महीभृतां तटीरिदानीमुचितं पयोमुचः॥३३॥”

अत्र सत्यपि त्रिलिङ्गत्वे तटशब्दस्य स्त्रीलिङ्गनिर्देशो नायकव्यवहारव्यञ्जकत्वाच्चमत्कारी।

यथा च—

“मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन् माम् ।

व्यापारयन्त्यो150 दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि॥३४॥”

अत्र मृगाश्चेति सम्भवत्यपि कृपामयत्वख्यापनाय मृग्यश्चेत्युक्तम्।

तथा—

अमुख्ये कारके मुख्याध्यारोपाध्यासि किञ्चन ॥११॥

परममुख्ये कारके करणादौ मुख्यस्य कर्तुरध्यारोपस्तत्त्वव्यपदेशस्तमध्यास्त इत्येवंशीलम्। यथा—

“चापाचार्यस्त्रिपुरविजयी कार्त्तिकेयो विजेयः
शस्त्रव्य151स्तः सदनमुदधिर्भूरियं हन्तकारः।
अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्द्धस्तव परशुना लज्जते चन्द्रहासः॥३५॥”

यथा वा—

“याच्या दैन्यपरिग्रहप्रणयिनीं नेक्ष्वाकवः शिक्षिताः

सेवासंचलितः कदा रघुकुले मौलौ निबद्धा152ञ्जलिः।
सर्व तद् विहितं तदप्युदधिना नैवोपरोधः कृतः
पाणिः सम्प्रति मे हठा153त् किमपरं स्प्रष्टुं154 धनुर्वाञ्छति?॥३६॥”

अनयोश्चन्द्रहासस्य पाणेश्च करणभूतस्यापि कर्तृत्वाध्यारोपः॥११॥

तथा—

धातूपसर्गयोर्योगात् कारकोन्यत्व155जं परम्।

परं किश्चिद् धातुयोगादुपसर्गयोगादुभययो156गाच्च कारकेभ्योऽन्यः सम्बन्धादिस्तस्य भावस्तत्त्वं तस्माज्जातम्, यदि वा कारकस्यान्यत्वं कारकान्तरत्वं तस्माज्जातम्। तत्र धातुयोगे यथा—

“प्रवृत्त एव स्वयमुज्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसे।

तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः॥३७॥”

अत्र पिष्धातुयोगे कर्मत्वाभावाद्157 भुवनद्विषामित्यत्र सम्बन्धे षष्ठी।

यथा च—

“मनःसमाधिस्थिरतामुपे158त्य किमङ्ग ! तस्याः स्मरसि प्रियायाः?।

एवं हि लक्ष्मी(क्ष्यी159) भवसि प्रकामं स्मरस्य चापार्पित सायकस्य॥३८॥”

अत्र स्मृधातुयोगे प्रियाया इत्यत्र पूर्ववत् षष्ठी।

उपसर्गयोगे यथा—

“भीष्म ग्रीष्मप्रगुणितवपु160स्तापनिर्वापहेतो
र्वृक्षं वृक्षं प्रतिविनिहिता दृष्टयः पान्थसार्थैः।
छायाभोगात् कवलितवता चण्डरोचिः प्रचारं
किन्तु ध्वस्तो वटविटपिना क्लेशलेशोऽप्यभीषाम्॥३९॥”

अत्र वृक्षे वृक्षे विनिहिता इत्यधिकरणप्राप्तौ प्रत्युपसर्गयोगे वीप्सायां द्वितीया। प्रतेश्चात्र योग्यतयोपसर्गत्वम्।

उभययोगे यथा—

अध्यासामासुरुत्त (त्तु) ङ्गहेमपीठानि यान्यमी।

तैरूहे केसरिक्रान्त त्रिकूटशिखरोपमा161॥४०॥

अत्र धातुपसर्गयोगे हेमपीठानीत्याधारस्य कर्मत्वम्162। एवमन्यदपि ज्ञेयम्।

तथा—

किञ्चिदप्यव्ययीभावसमासग्रथितोदयम्॥१२॥

किञ्चिदप्यपरमव्य163यीभावसमासेन रचितोदयम्। यथा—

पारेजलं नीरनिधेरपश्यन् मुरारिरानीलपलाशराशीः। वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभा॥४१॥”

मध्येसौधमग्रेवणमित्याद्यप्यनुसर्तव्यम्॥१२॥

तथा—

किमप्यलुप्समासोत्थम्

किमप्यन्यदलुप्समासादुत्तिष्ठति। यथा—

“त्वं तास्ताः स्मृतवान् ऋचो दशतयीस्त्वत्प्रीतये यज्वभिः
स्वाहाकारमुपाहितं हविरिह त्रेताग्निराचामति।
त्वां क्षीरोदजलेशयं164 क्रतुलिहः पृथ्वीमवातीतरन्

दुर्वृत्ता दशकन्धरप्रभृतयो निग्राहितारस्त्वया॥४२॥”

एवमन्तेवासि165–वनेवासि–प्रावृषिज–पश्यतोहरप्रभृतयोऽपि द्रष्टव्याः।

तथा—

अन्यदन्यसमासजम् ।

अन्यत् किमप्यन्ययीभावादेरन्यस्मात् तत्पुरुषप्रमुखात् समासाज्जातम्।

यथा—

“यः क्षत्रदेहं परितक्ष्य टङ्कैस्तपोमयैर्ब्राह्मणमुच्चकार।
परोरजोभिः स्वगुणैरगाधः स गाधिपुत्रोऽपि गृहानुपैति166 ॥४३॥”

अत्र परोरजोभिरिति तत्पुरुषसमासः167

यथा च—

“उभौ भुवनजङ्घालतेजसौ तौ रघोः कुलम्।
मण्डयामासतुर्व्योम सूर्याचन्द्रमसाविव॥४४॥”

अत्र द्वन्द्वसमासे सूर्यशब्दस्यात्वम्। एवं वृषस्कन्धाविव स्कन्धौ यस्य स वृषस्कन्ध इति बहुव्रीह्यादयो168ऽपि बोद्धव्याः।

तथा—

विपर्यासवशं किञ्चित् सङ्ख्यायाः पुरुषस्य च ॥१३॥

किश्चिदितरत् सङ्ख्यान्यथाभावस्य पुरुषान्यथाभावस्य च वशंवदम्।

यथा—

“कपोले पत्राली करतलनिरोधेन मृदिता

निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुः कण्ठे लग्नस्तरलयति बाष्पस्तनतटं
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम्॥४५॥”

अत्रामिति वक्तव्ये वयमिति169 बहुवचनमनन्तरङ्गत्वख्यापनेन ताटस्थ्यद्योतनार्थम्।

पुरुष विपर्यासो यथा—

“कौशाम्बी परिभूय नः कृपणकैर्विद्वेषिभिः स्वीकृतां
जानास्येव तथा प्रमादपरतां पत्युर्नयद्वेषिणः।

स्त्रीणां च प्रियविप्रयोगविधुरं चेतः सदैवात्र मे
वकुं नोत्सहते मनः परमतो जानातु देवी स्वयम्॥४६॥

अत्र जानीहि त्वमिति मध्यमपुरुषे प्रयोक्तव्ये ‘जानातुदेवी’170 इति प्रथमपुरुषप्रयो171गश्चमत्कारी॥१३॥

तथा—

किञ्चित् काले परनैव कालान्तरविभक्तिजम्।

किञ्चिदपरं परस्मिन् काले तदन्यकालोद्भवविभक्तिसम्भवम्। यथा—

“स्मरस्यदो दाशरथिर्भवन् भवाननुं वनान्त [।]द् वनिताऽपहारिणम्।
पयोधिमाविद्धचलज्जलाविलं विलङ्घय लङ्कां निकषा हनिष्यति॥४७॥”

अत्र स्मृधातावुपपदस्थे यच्छन्दाप्रयोगे हनिष्यतीत्यतीतकाले भविष्यन्ती ।

तथा—

अन्यद् विडम्बिप्रमुखधातुस्थाप्योपमानजम्॥१४॥

अन्यत् किमपि विडम्बिप्रनुखैर्धातुभिः स्थाप्यं यदुपमानं तस्माज्जातम्। यथा—

“तमेवमुत्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम्।
अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः॥४८॥”

प्रमुखशब्दात् सन्धत्तेप्रभृतयोऽपि। यदुक्तम्—

“विडम्बयति सन्धत्ते द्रुह्यति प्रतिगर्जति।

आक्रोशत्यवजानाति कदर्थयति निन्दति॥४९॥

स्पर्धते जयति द्वेष्टि हसतीत्यस्यति।
तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति॥५०॥

तेन सार्द्धं विगृह्णाति तुलां तेनाधिरोहति।
तत्पदव्यां पदं धत्ते तस्य लक्ष्मीं विगाहते ॥५१॥

तमन्वेत्यनुबध्नाति तच्छीलं च निषेवते।
तस्य चानुकरोतीति धातवः साम्यसूचिनः॥५२॥”॥ १४॥

तथा—

अपरं प्रत्ययान्तेभ्यः प्रत्ययान्तरनिर्मितम्।

अपरं किमपि प्रत्ययान्तेभ्यः172 शब्देभ्यः परं यत् प्रत्ययान्तरं तेन निर्मितम्।

यथा—

“लीनं वस्तुनि येन सूक्ष्मसुभगं तत्रं गिरा कृष्यते
निर्मातुं प्रभवेन्मनोहरमिदं वाचैव यो वा वहिः।
वन्दे द्वापि तावहं कविवरौ वन्देतरां तं पुनर्यो विज्ञातपरिश्रमोऽयमनयोर्भारावतारक्षमः॥५३॥”

अत्र वन्देतरामिति त्यादिप्रत्ययात् तराम्प्रत्ययः।

यथा वा—

“पदं सपदि कस्य न स्फुरति शर्करापाकिमं
रसालरससेकिमं भणितिवैभवं कस्य न ?।
तदेतदुभयं किमप्यमृत173 निर्झरोद्गारिमै—
स्तरङ्गयति यो रसैः174 स पुनरेक एव क्वचित्॥५४॥”

अत्र भावप्रत्ययान्तेभ्य इमप्रत्ययः। एवं व्यात्युक्षी–सांराविणादयोऽपि ज्ञेयाः॥

तथा—

मागमोन्मीलितं किञ्चित्

किश्चिदन्यन्मागमोन्मीलितमाविष्कृतम्। यथा—

“जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा
दित्थम्भूतां प्रथमविरहे तामहं तर्कयामि।
वाचालं मां न खलु सुभगम्मन्यभावः करोति
प्रत्यक्षं ते निखिलमचिराद् भ्रात175रुक्तं मया यत्॥५५॥”

यथा च—

“भुजविटपमदेन व्यर्थमन्धम्भविष्णुर्धिगपसरसि चौरङ्कार माक्रुश्यमानः।
त्वदुरसि विदधातु स्वा176मपस्कारकेलीं कुटिलकरज कोटिक्रूरकर्मा जटायुः॥५६॥”

अत्रापस्कारेति177 वैचित्र्यान्तरमप्यस्ति। ‘दाहोऽम्भः प्रसृतिं पच’इत्याद्यन्यदपि स्वयमम्यूह्यम्178

तथा—

समासान्तकृतं परम्॥१५॥

परं किञ्चन179 समासान्तेन कृतं विहितम्। यथा—

“पुरुषायुपजीविन्यो निरातङ्का निरीतयः।
यन्मदीयाः प्रजास्तत्र हेतुस्त्वद्ब्रह्मवर्चस180म्॥५७॥”

अत्र पुरुषायुषे181–ब्रह्मवर्चसशब्दयोः समासान्तः।

यथा च—

“कौन्तेयादिपुराण पार्थिव कथासङ्कीर्तनप्रक्रमे
वैरञ्चे सदसि त्वदीययशसि ब्रह्मर्षिभिः संस्तुते।
सृष्टिं कीटमुखार्पितां182 लिपिमिवानैदयुगीनां तव
ध्यात्वाऽन्तर्मनसं विशुः स मुमुदे राजेन्द्रराजो बभूः॥५८॥”

अत्र चान्तर्मनसमित्यत्र, अनैदयुगीनामित्यपि वैचित्र्यान्तरम्॥१५॥

तथा—

किमप्यचेतनस्यापि चेतनव्यवहारजम्।

किमप्यपरमचेतनस्यापि वस्तुन वेतनव्यवहाराध्यारोपसम्भवम्। यथा—

“स्तनद्वन्द्वं मन्दं स्नपयति बलाद् वाष्पनिवहो
हठादन्तः कण्ठं लुठति सरसः पञ्चमरवः।
शरज्ज्योत्स्नापाण्डुः पतति च कपोलः करतले
न जानीमस्तस्याः क इव हि विकारव्यतिकरः॥५९॥”

यथा च—

“त्वं रक्षसा भीरु ! यतोऽपनीता तं मार्गमेताः कृपया लता मे।
अदर्शयन् वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः॥६०॥”

अनयोरचेतनानामपि बाष्पनिवहादीनां च लतानां च चेतनव्यवहाराध्यारोपाद् विरहव्यथाऽतिशयेन नायिकायाः स्वयमकिञ्चित्करत्वं लतानां च कृपार्द्रत्वं क्रमात् प्रतीयते।

तथा—

सुप्—तिव्युत्पत्तिजं किञ्चित्

किञ्चिदितरत् सुपां स्यादीनां तिङां त्यादीनां च या व्युत्पत्तिर्विशेषविधिरूपा तस्याः सकाशाजातम्।

तत्र सुपां यथा—

“तवार्हतो नगमनेन183 तृप्तं मनो नियोगक्रिययोत्सुकं मे।
अप्याज्ञया शासितुरात्मनो वा प्राप्तोऽसि सम्भावयितुं वनान्माम्॥६१॥”

अत्र नियोगक्रिययेत्युत्सुकशब्दयोगादधिकरणे तृतीया।

तिङां यथा—

पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः।
विगृह्य चक्रे नमुचिद्विषा वशी य इत्थमस्वास्थ्यमहेर्निशं184 दिवः॥६२॥”

अत्रचक्रेरूपसामान्यौर्थधातुसम्बन्धिधात्व185र्थानांसमुच्चयेऽतीतकाले हिप्रत्ययः।

यथा च—

“जहातुनैनं186 कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः।
असाधुयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि॥६३॥”

अत्र स्थेयोपदिष्टनिर्णयवृत्तेस्तिष्ठतेरात्मनेपदम्। एवमन्याऽपि सुप्-तिव्युत्पत्तिर्ज्ञेया।

तथा—

किञ्चिद् बन्धनिबन्धनम्॥१६॥

किञ्चिदन्यद् बन्धो गुम्फविशेषः स निबन्धनं कारणं यस्य तद् बन्धनिबन्धनं शब्दस्य वैचित्र्यम्। वन्धस्वरूपं चानन्तरमेव वक्ष्यते॥१६॥

अथ बन्धमाह—

शाणोल्लिखित माणिक्यकान्तिकेलिपदं पदम्।
अर्धनारीश्वरस्पर्द्धा यत्र संघट्टनक्रमः॥१७॥

गिरां किमपि लावण्यं तरङ्गयति यः परम् ।
वस्तु किञ्चिदिवाभाति न किञ्चिदपि यद्वशात्॥१८॥

मज्जतीव क्षणं चेतः स्नातीव सुधया187 क्षणम् ।
माद्यतीव क्षणं यत्र विलीयत इव क्षणम्॥१९॥

अमन्दतद्विदानन्दकन्दकन्दलनाम्बुदः।
कोऽप्यसौ वाक्यविन्यासः कवेर्बन्ध इति स्मृतः॥२०॥

असौ कोऽप्यनिर्वाच्यमहिमा कवेः प्रतिभापल्लवितवर्णनानिपुणस्य वाक्यविन्यासो वाक्यस्य पदसमुदायरूपस्य यो विन्यासो विशिष्टमितरवैलक्षण्येनन्यसनं स बन्ध इति स्मृतः पूर्वैराम्नातः। कीदृशो188 वाक्यविन्यासः? अमन्देति अमन्द उल्लाघो लक्षणया स्फूर्तिमान् यस्तद्विदानन्दस्तद्विदां बन्धसौन्दर्यवेदिनामानन्दः स एव कन्दः प्रथमं स्तम्बादिकारण। तस्य कन्दलनमङ्कुरोद्भेदस्तस्याम्बुदः पयोदः। वाक्यविलासो हि सहृदयाह्लादक एव काव्योपकारी। पुनः कीदृश इत्याह—‘शाण’ इति यत्र यस्मिन् पदं वर्तते। कीदृशं शाणायामुल्लिखितमुत्तेजितं यन्माणिक्यं प्रधानरत्नं तस्य कान्तिरौज्ज्वल्यं तस्याः केलिपदं क्रीडाऽऽस्पदम्। काव्ये हि पदमुज्ज्वलमेव कार्यम्। तथा यत्र संघट्टनक्रमः पदसन्दर्भक्रमः। कीदृशः?अर्धनारीश्वरस्पद्ध अर्धनारीश्वरेण स्पर्द्धते नितरामलक्ष्यसन्धित्वात्। पदयोजना ह्येकपदवत् प्रतिभातीय189 विधेया। तथा यः परं प्रकृष्टं गिरां वाचां लावण्यं कान्तिविशेषः किमप्यपूर्व तरङ्गयति पुष्णाति। तथा यद्वशाद् यत्पारतन्त्र्याद् वस्तु काव्यार्थरूपं न किञ्चिदप्यकाम्यमपि किश्चिदिन काम्यमिवाभाति शोभते। यदाह—

“किन्त्वस्ति काचिदपराऽपि पदानुपूर्वी यस्यां न किश्चिदपि किञ्चिदिवावभाति।
आनन्दयत्यथ च कर्णपथं प्रयान्ती चेतः सताममृतदृष्टिरि190व प्रकृष्टा॥६४॥”

तथा यत्र यस्मिन्नानन्दामृतकसरसि सहृदयानां मनः क्षणं मज्जतीव मग्नमिव। क्षणं सुधया स्नातीव पीयूषारब्धस्नानमिव। क्षणं माद्यतीवात्मविस्मृत्याजातोन्मादमिव। क्षणं विलीयत इव निःस्पन्दत्वाद् विलीनमिव भवतीत्येवम्भूतो हि कवेर्वाक्यविन्यासो बन्धशब्दाभिधेयः कवितामलङ्करोति। तदपि शब्दवैचित्र्यमेव। अत्रोदाहरणं यथा—

“नेत्रेन्दीवरिणी मुखाम्बुरुहिणी भ्रूवल्लिकल्लोलिनी
बाहुद्वन्द्वमृणालिनी यदि पुनर्वापी भवेत् सा प्रिया।

तल्लावण्यजलावगाहनजडैरङ्गैरनङ्गानल—
ज्वालाजालमुचस्त्यजेयमसमाः प्राणच्छिदो वेदनाः॥६५॥”इति॥२०॥191

एवमभिधामूलं शब्दवैचित्र्यमभिधायोपचारमूलमाह—

कथञ्चिल्लब्धबाधस्य तत्प्रत्यासत्तिशालिनि।
मुख्यस्यार्थस्य सामान्यमन्यार्थेऽतिशयाय यत्॥२१॥

शब्देनारोप्यते सेयमुपचारविचित्रता।
रूपकादीनलङ्कारान् या प्रसूते रसोत्तरान्॥२२॥192

गङ्गायां घोष इत्यादौ गौर्वाहीक इत्यादौ च मुख्यस्यार्थस्य प्रवाहादेगोंपिण्डादेश्च कथञ्चिद् घोषाद्यधिकरणत्वासम्भवादिना सास्नादिमत्वाद्यदर्शनाच्चप्रत्यक्षादिप्रमाणादिना केनापि प्रकारेण193 लब्धबाधस्य शब्देनाभिधातुमशक्यत्वाद् बाधितस्वरूपस्य यत् सामान्यं गङ्गात्वादिलक्षणं गोत्वादिलक्षणं च तदन्यस्मिन्नर्थे तटादिरूपे वाहीकादिरूपे च शब्देन गङ्गादिना गवादिना च यदारोप्यते समुपचर्यते। कीदृशे पुनरन्यस्मिन्नर्थे तत्प्रत्यासत्तिशालिनि तस्य मुख्यस्यार्थस्य या प्रत्यासत्तिः सम्बन्धादिरूपा निकटता तया शालमाने शोभमाने।न ह्यप्रत्यासन्ने क्वाप्युपचारः प्रवर्तते, यत्र तत्राप्युपचारप्रसङ्गात्। किमर्थमारोप्यत

इत्याह–अतिशयाय पावनत्वादिधर्मप्रतिपत्तिरूपं ताद्रूष्यप्रतिपत्तिरूपं च कंमप्य194तिशयमाविष्कर्तुम्। एतदेवोपचारस्य फलम्, न हि निष्फला प्रवृत्तिः प्रेक्षावतामिति। सेयं प्राप्तप्रसिद्धिरुपचार विचित्रता। उपचरणमन्यस्मिन्नन्यस्यारोपणसुपचा195रः स च लक्षणाऽपरपर्यायः शब्दस्य196 व्यापारविशेषस्तेन विचित्रता। तत्स्वरूपान्तरमाह–‘रूपकेति’ या रूपकप्रभृतीनलङ्कारान् जनयति। रूपकापह्नुत्यतिशयोक्तिप्रभृतयो ह्यलङ्कारा उपचारमूला इति। रूढिलक्ष197णा त्वभिधातुल्यैव, तेनात्र नोदाह्रियत इति॥२१–२२॥198

अथ प्रत्यासत्तिभेदानाह—

अभिधेयेन सम्बन्धात् सादृश्याद् वैपरीत्यतः199

क्रियायोगाच्च तामाहुः प्रत्यासत्तिं चतुर्विधाम्॥२३॥

अभिधेयेन मुख्यार्थेन सम्बन्धात् समीप–समीपिभाव–धार्य–धारकभाव–कार्यकार200णभाव–तादर्थ्य–स्व–स्वामिभावादिरूपात्। यथा गङ्गायां घोष इत्यादिषु समीपसमीपिभावादिसम्बन्धः। तथाऽभिधेयेनैव सादृश्याद् गुणसाम्यरू201पात्। यथा गौर्वाहीक इत्यादिषु जोदयमा202न्द्यादिगुणसाम्यम्। तथाऽभिधेयेनैव वैपरीत्यतो विपर्ययरूपात्। यथा अभद्रमुखे भद्रमुख इत्यादिषु प्रत्यक्षादिप्रमाणसिद्धं वैपरीत्यमस्त्येव। तथाऽभिधेयेनैव क्रियायोगात् संदृशव्यापारसम्बन्धात्। यथा अतक्षा तक्षा इत्यादिषु काष्ठतक्षणरूपसंदृशव्या203पारसम्बन्धः।

यथा वा—

“पृथुरसि गुणैर्मूर्त्या रामो नलो भरतो भवान्

महति समरे शत्रुघ्नस्त्वं तथा जनकैः204 स्थितेः।

इति सुचरितैर्मूर्तीर्विभ्रश्चिरन्तनभूभृतां

कथमसि न मान्धाता देव ! त्रिलोकविजय्यपि॥६६॥”

अत्र पृथुप्रभृतिशब्देषु श्लेषसमुद्दीपितेन गुणसाम्यनिबन्धनेनोपचारेण वर्ण्यमानस्य पुराणभूपालरूपधारकत्वम्। शत्रुघ्न–जनकशब्दयोस्तु घात–जनन

लक्षणसदृशव्यापारजन्येनैवोपचारेण ताद्रूप्यप्रतिपत्तिरिति सम्बन्धादिभ्यश्वतुस्तां पूर्वोक्तां प्रत्यासतिं चतुर्विधां चतुःप्रकारमाहुः कथयन्तीति॥२३॥

अथोपचारविचित्रता भे205दानाह—

सारोपा लक्षणाऽऽरोपेवि206षयारोप्यभेदभृत्।

आरोप्यापह्नुतेऽन्यस्मिन् सैव साध्यवसानिका॥२४॥

लक्षणा प्रस्तुतोपचारविचित्रता। आरोपविषयो वाहीकादिरारोप्यं च मुख्यवृच्या गोत्वादिसामान्यम्। तच्चाश्रयविनाभूतत्वा207दाश्रयं गोपिण्डादिकमाक्षिपतीति गुणवृच्या स एवारोप्यस्तयोर्भेदं सामानाधिकरण्येन पृथक् पृथक्208 प्रयोगं या विभर्त्ति सासारोपेत्युच्यते। यथा गौर्वाहीकः, आयुर्धृतं च। तथा आरोप्येण गोत्वादिसामान्याश्रयेणापह्नुते निगीर्णेऽन्यस्मिन्नारोपविषये चाहीकादौ सति सैवोपचारविचित्रता साध्यवसानेति कथ्यते। यथा गौरेवायम्, आयुरेवेदम्॥२४॥

द्विप्रकाराऽपि209 सादृश्याद् या सा गौंणीति210 गीयते।
प्रत्यासत्तेस्तु याऽन्यस्याः सा शुद्धेति प्रकीर्तिता॥२५॥

द्विप्रकाराऽपि सारोपा साध्यवसाना च या सादृश्याद् गुणसाम्याज्जायते सा गुणेभ्य आगतत्वाद् गौणीति गीयते कथ्यते। यथा गौर्वाहीकः, गौरेवायम्। जाड्यमान्द्यादिगुणसादृश्यादुपचारः। ते च स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा211 अपि गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तत्वमुपयान्तीति केचित्। अत्र गोशब्दस्य गोत्वं स्वार्थस्तेन सह गोपिण्डे चरन्तीति स्वार्थसहचारिणः। तांश्च गोपिण्डगतान् गुणान् लक्षयित्वा तत्सादृश्याद्वाहीकगुणान् लक्षयन् गोशब्दो वाहीकं लक्षयतीत्यर्थः। अत्र गोशब्दप्रवृत्त्या गोत्वसहचराणां212 गुणानां लक्ष्यमाणत्वम्। लक्ष्यमाणानां213 च गोशब्दप्रवृत्तिनिमित्तत्वभित्यन्योन्याश्रयमाशङ्कमानाः स्वार्थसहचारिगुणाभे214देन परार्थगता गुणा एव लक्ष्यन्ते। न तु परार्थोऽभिधीयते’ इत्यन्ये। अत्र गोशब्देनेति शेषः। तथाऽभिधीयते लक्षणाव्यापारेणेति शेषः। गौणलक्षणायां गुणानां

निमित्तत्वमेव, न पुनर्लक्ष्यत्वमित्यभिसन्धाय साधारणगुणाश्रयणेन परार्थ एव लक्ष्यत इत्यपरे। अस्माकमप्ययमेव पक्षः। अत्र भेद215द्वयेऽपि क्रमात् ताद्रूप्यप्रतीतिरूपः सर्वथैवाभेदावगमरूपञ्चातिशयो व्यङ्ग्यः। या पुनर्द्विप्रकाराऽपिसादृश्यादन्यस्याः सम्बन्ध–वैपरीत्य–क्रियायोगरूपायाः प्रत्यासत्तेः प्रवर्त्तते सा शुद्धेति216 प्रकीर्तिता कथिता। यथा217 आयुर्धृतमायुरेवेदमित्यादि। अत्र कार्यकारणभावादिलक्षणात् सम्बन्धात् शुद्धा। इह द्वयोरपि भेदयोः क्रमादन्यवैलक्षण्येनाव्यभिचा218रेण च कार्यकारित्वादिरतिशयो व्यङ्गयः। क्वचित् तादर्थ्यादुपचारो यथा–इन्द्रार्था स्थूणा इन्द्रः१। क्वचित् स्वस्वामिभावाद् यथा–राजकीयः पुरुषो राजा २। क्वचिदवयवावयविभावाद् यथा–अग्रहस्त इत्यत्राग्रमात्रेऽवयवे हस्तः। सर्वाऽप्येषा शुद्धा। एवं वैपरीत्यक्रियायोगाभ्यामपि शुद्धैव॥ २५॥

शुद्धाया एव पुनर्भेदद्वयमाह—

स्वार्थसिद्ध्यै पराक्षेपे साऽप्युपादानजा क्वचित्।
परस्मै चार्पणे स्वस्य क्वापि लक्षणलक्षिता॥२६॥

साऽपि शुद्धा कुन्ताः प्रविशन्ति, यष्टयः प्रविशन्ति, मश्चाः क्रोशन्ति, गिरिर्दह्यत इत्यादौ कुन्तादिभिः स्वार्थसिद्ध्यै आत्मनः प्रवेशादिलक्षणस्वार्थसिद्धये परेषां स्वसंयुक्तपुरुषवृक्षादीनामाक्षेपे स्वीकारे सति कचिदुपादानजा, उपादानात् स्वसंयोगिग्रहणाज्जातेत्यन्वर्थाश्रयणात्। अत्र भयङ्करत्व–मनुष्य–निचितत्व-वह्वयेकमयत्वादिप्रतिपत्तिरतिशयः। गौरनुवन्ध्य219 इत्यादौ श्रुतिनोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते, न तु शब्देनोच्यते। ‘विशेष्यं नाभिध220 गच्छेत् क्षीणशक्तिर्विशेषणे।’इति न्यायादित्युपादानलक्षणातु221 नोदाहर्तव्या। न ह्यत्र कश्चिदतिशयः स्थाप्योऽस्ति। व्यक्त्यविनाभावित्वत्त्222तुजात्यो223 व्यक्तिराक्षिप्यते। यथा क्रियतामित्यत्र कर्ता, कुर्वित्यत्र कर्म, प्रविश, पिण्डीमित्यादौ गृहं भक्षयेत्यादि च। तथा ‘पीनो देवदत्तो दिवा न भुङ्क्ते’इत्यत्र रात्रिभोजनं लक्ष्यते224, तस्यार्थापत्तिविषयत्वादिति। तथा शुद्वैव गङ्गायां घोष इत्यादौ गङ्गादिशब्देन225 स्वस्य स्वकीयस्य226 गङ्गात्वादि

सामान्यस्य परस्मै तटप्रभृतये यदर्पणं दानं तस्मिन् सति लक्षणलक्षिता लक्षणेनोपलक्षणीभूतगङ्गादिशब्देन लक्षिता ज्ञापितेत्यन्वयात्। अनयोर्भेदयोर्लक्ष्यस्य लक्षकस्य चाभेदप्रतीतिरेव। यत् तु–‘तटस्थे लक्षणां227 शुद्धा’ इति मुकुलेनोक्तं व्याख्यातं च यथा—‘तटस्थे228 लक्षकार्थानुपरक्तत्वेन प्रतीयमाने लक्षणीये229 शुद्धा लक्षणा तदसत्, यतोऽभेद एव श्रेयान्। तटादीनां हि गङ्गादिशब्दैः230 प्रतिपादने तच्चप्रतीतौ प्रतिपिपादयि231षितातिशयसम्प्रत्ययः। भेदे तु गङ्गासम्बन्धमात्रप्रतीतौ गङ्गातटे घोष इति मुख्यशब्दाभिधानादुपचारस्य को विशेष इति। इदं च भेदद्वयं कैश्चिन्यूनगुणाधिकगुणयोस्यरन्यस्मिन्नन्य232 साधर्म्यप्रतिपत्यर्थमारोप उपचार इति लक्षणाक्रान्तेनोपचारेणमिश्रत्वादेव233 शुद्धमिति कथ्यते। अस्माभिः पुनरन्यस्मिन्नन्य234स्यारोप उपचार इत्येतावदेवोपचारलक्षणमङ्गीकृतम्। स चोपचारः सर्वत्राप्यस्तीति सादृश्यात् प्रत्यासन्यन्तरेण युक्तत्वादेवास्य भेदद्वयस्य शुद्धत्वमभिहितम्। एवं च द्विभेदा गौणी चतुर्भेदा च शुद्धेति षट्कारो235पचार विचित्रता॥२६॥

उपचारव्यापारे वाच्यार्थस्य काव्यावस्थेत्याह—

वाच्यार्थस्याविवक्षैव लक्षणायां भवेद् ध्रुवम्।
स चार्थान्तरसङ्क्रान्तो यद्वाऽत्यन्तं तिरस्कृतः॥२७॥

लक्षणायामुपचारवैचित्र्ये गङ्गायां घोष इत्यादौ वाच्यार्थस्य प्रवाहादेर्ध्रुवमविवक्षैव न वक्तुमिच्छा भवेत्। ततः स कथं स्यादित्याह ‘स चेति’ स च वाच्योऽर्थोऽनुपयुज्यमानत्वादर्थान्तरे236 तटादिरूपे सङ्क्रामति स्वात्मानं तस्यां237 अर्पयतीत्यर्थः। यद्वाऽनुपयुज्यमानत्वादत्यन्तं तिरस्कृतरूप एव भवतीति। तत्राद्यो यथा—

*“ताला जायंति गुणा जाला ते सहिअएहिं धिप्पंति।
रविकिरणाणुग्गहिआई हुति238 कमलाई कमलािइं॥६७॥”

अत्र द्वितीयकमलशब्दः239 पौनरुक्तयेनानुपयु240ज्यमानत्वाद् बाधितस्वार्थः

___________________________________________________________

*तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि॥

समाधाराधेयभावरूपात् सम्बन्धाञ्जगद्विलक्षण श्रीनिवासित्वरूपमतिशयमाविष्कर्तुंस्ववाच्यं241 विकासकमनीयत्वे सङ्क्रमयति।

द्वितीयो यथा—

“भुवनश्रियमङ्कु242रयति सहैव सहकारकाननैः सुरभिः।
जागरयति कुसुमशरं सममेव243 च मधुकरकणितैः॥६८॥”

अत्राङ्कुरणं244 लतादिधर्मो जागरणं च विशिष्टचेतनधर्मस्ते च भुवनश्रियां मधुकरक्वणिते च न सम्भवत इत्यनुपयुज्यमानत्वाद्245 बाधितस्वार्थे246 छायातिशयधारित्वात् सङ्कोचपरित्यागाच्च सादृश्यान्निखिलजन विलासोल्लासकत्वं जगतामप्यतिदुःसहत्वं चातिशयमाविष्क247र्तु प्रवृद्धिं कार्य–कारणाभिमुखत्वं च लक्षयन्ती वाच्यमत्यन्तं तिरस्कुरुतः। एवं द्विप्रकार एवोपचारः॥२७॥

अथार्थान्तरसङ्क्रान्तस्यात्यन्ततिरस्कृतस्य248 च वाच्यस्य विषयविभागमाह—

सादृश्ये वैपरीत्ये च वाच्यस्यातितिरस्क्रिया।
सम्बन्धेऽन्यार्थसङ्क्रान्तिः क्रियायोगे249तु तद् द्वयम्॥२८॥

सादृश्ये गुणसाम्यरूपायां वैपरीत्ये वाच्यविपर्ययरूपायां च प्रत्यासत्तौ सत्यां वाच्यस्याभिधेयस्यार्थस्यातिशयेन तिरस्कारः। तत्र सादृश्ये यथा—

मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं

समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः।
उरो मुकुलितस्तनं जघनमंसबन्धोध्धुरं

तेन्दुवदना250तनौ तरुणिमो मो मोदते॥६९॥

दलविघटनरूपस्य पुष्पधर्मस्य विकसितत्वस्य स्मिते, वशीभूतत्वस्य चेतनधर्मस्य वक्रिमणि, ऊर्ध्वोल्लसनरूपस्य251 मूर्तधर्मस्य समुच्छलितत्वस्य विभ्रमेषु, मूर्त्तवस्तूचितस्यापास्तत्वस्य संस्थायाम्, अविकासरूपस्ये252 कलिकाधर्मस्य मुकुलितत्वस्य स्तनयोः, स्कन्धबलावलि253प्तत्वरूपस्य पुरुषधर्मस्यांसंबन्धोधुरत्वस्य254जघने

इन्दुत्वस्य प्रत्यक्षतो वदनेऽङ्कुरादिनवोद्भेदरूपस्योद्गमस्य255 तरुणिम्नि, मोदत इति क्रियावाच्यस्य चेतनधर्मस्य प्रमोदस्योद्गमे सम्भवाभावात् बाधितस्वार्थैर्विकसितादिशब्दै रामणीयकप्रसरणादीनां तदेकनिष्ठत्वादीनामकस्मादुल्लसनादीनां दूरव्यवहितत्वादीनामभिनवोद्भिद्यमानतादीनामुन्नतत्वानमन वृच्यादीनां नेत्रानन्दनत्ववृत्तत्वादीनामभिनवप्रभव256त्वादीनामुत्कर्षवच्चादीनां च गुणानां क्रमेण सादृश्यात् स्मितादीन् पदार्थान् लक्षयद्भिः स्वसामान्यं विकसितत्वादिरूपं तेष्वेव समारोप्यते257। अत्र च ताद्रूप्यप्रतिपत्तिद्वारेण स्पृहणीयत्व–सुरभित्वादयः सदा सन्निहितत्व–निदेशवर्तित्वाद258यः सविस्मयजनविलोकनी259यत्वादयः पुनरस्वीकारादयः काठिन्यर्वृत्तित्व260–वर्द्धिष्णुत्वं261–स्मरोद्दीपनत्वादयां जगजेतृत्व–स्मरसेनापुरस्सरत्व–जनमनःक्षोभकत्वादयः सन्तापापहारित्व–जगदाह्लादकत्वादयो मनोज्ञत्व–प्रसुमरत्वादयः स्फारत्वोच्छृङ्खलत्व–स्पृहणीयत्वादयश्च क्रमादतिशया ध्वन्यन्ते। इयं च सर्वत्र विकसितस्मितमित्यारोप्यारोपविषययोरुक्तत्वात्सादृश्यनिबन्धना सारोपोपचारविचित्रता। अस्यां चोपमानवाचिनां विकसितादिशब्दानां स्वार्थोपर्मितस्मिता262दिवस्तुपरत्वाद् वाच्यस्यात्यन्ततिरस्कारः। उपमेयानां च स्मितादीनामुपमानीभूतविकसितंपुष्पाद्यर्थ263सारूप्यप्रतिपत्तिद्वारेण सकलतद्धर्मध्वननं फलमवसेयम्।

वैपरीत्ये यथा—

“ उपकृतं बहु य (त)त्र किमुच्यते सुजनता प्रथिता भवता परम्264
विदधेदीदृशमे265व सदा सखे ! सुखितमास्स्त्र ततः शरदां शतम्॥७०॥”

अत्र साक्षात्प्रतिकूलवर्त्तित्वदर्शनाद् बाधितस्वार्था उपकृतोदयः266 शब्दा वैपरीत्यात् ‘त्वं सर्वदैवस्माकं267 शत्रुत्वमाचरसि’ इत्यादिप्रकाशनरूपमतिशयं द्योतयितुमपकृतादीन् लक्षयन्ति। तैरेव चामीषां वाच्यमत्यन्तं तिरस्क्रियते। तथा सम्बन्धे268 कार्य–कारणभावादिरूपायां प्रत्यासत्तौ सत्यां वाच्यस्यान्यार्थसकान्तिरर्थान्तरसङ्क्रमणम्। यथा—

“ततः प्रहस्याह269 पुनः पुरन्दरं व्यपेतभीर्भूमिपुरन्दरात्मजः।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान्॥७१॥”

जगत्प्रतीतस्यापि रघोः स्वनामोच्चारणस्यानु270पयुज्यमानत्वेन मुख्यार्थबाधादाधाराधेयभावरूपाच्च सम्बन्धात् त्रिजगद्विजेतृत्वप्रतीतये रघुशब्दः271 पौरुपातिशयं लक्षयति। तत्रैव च स्वैवाच्यं272 सङ्क्रमयतीति। क्रियायोगे तु क्रियासम्बन्धरूपायां प्रत्यासत्तौ सत्यां पुनस्तत् पूर्वोक्तं द्वयं कचिदत्यन्ततिरस्कृतत्वं क्वचिदन्यार्थसङ्क्रान्तत्वमित्यर्थः। क्रियायोगे हि शब्दगतावयवशक्त्यनुसरणात् शब्दशक्तिमूलत्वं लक्ष्यमाणस्या273र्थस्य। तत्र च274 वाच्यस्यार्थस्यात्यन्ततिरस्क्रिया। यथा पुरुषः पुरुष इति। अत्र हि द्वितीयः पुरुषशब्दः पौनरुक्याद् वाधितस्त्रार्थो विशिष्टजातीयं स्वमर्थमत्यन्तं तिरस्कुर्वन् क्रियायोगनिबन्धनेनोपचारेण पूरथितृत्वं लक्षयति। यत्र तु निमित्तसद्भावाद् वाच्यस्यार्थस्यापि275 विवक्षा स्यात्तत्रार्थान्तरसङ्क्रान्तत्वम्। यथा तक्षाऽयं मैत्रः। अत्र तक्षशब्दो मुख्यया वृत्त्या काष्ठतजातीयवाची। मैत्रस्य276च तज्जातीयत्वाभावाद् बाधितस्वार्थः सदृशक्रियायोगात् सकलतद्धर्मप्रतिपत्तये मैत्रं लक्षयति। तत्र तक्षन्शब्दो यद्यपि तक्षणक्रियाकर्तृत्वं क्रियायोगनिबन्धनया लक्षणयाऽवगमयति, तथापि काष्ठतड्जातीयं स्वार्थमप्युपमानतया प्रतिपादयतीति स्वार्थस्य विवक्षितत्वमेव। ततो यद्युपमानस्योपमेयपरत्वाद् वाच्यस्यात्यन्ततिरस्कृतत्वं पूर्वाचार्यैरुक्तम्। तथापि क्रियायोगविषये शब्दशक्तिमूलत्वेन लक्षणाप्रवृत्तौ काष्टतलक्षणो वाच्योऽर्थो विवक्षामपरित्यजन् विज्ञानातिशयशालित्वेऽर्थान्तरे सङ्क्रामतीत्यर्थान्तरसङ्कान्तत्वमेव। एवं ‘महति समरे शत्रुघ्नस्त्वम्’ इत्यादिष्वपि ज्ञेयम्॥२८॥

अथ यः फलभूतः कोऽप्यतिशयः प्रोक्तस्तत्प्रतिपत्तिस्वरूपमाह—

शब्दरत्रोपचारेण विषयः प्रतिपाद्यते।
क्रियान्तरस्यासद्भावात् व्यक्त्यैवा277तिशयः पुनः278॥२९॥

अत्रास्यानुपचारविचित्रतायामारोपस्य विषयस्तटादिः शब्दैर्गङ्गादिभिरु

चारेणोपचाराख्यव्यापारेण प्रतिपाद्यते प्रतिपत्तिगोचरतां नीयते। पावनत्वादिधर्मप्रतीतिरूपस्त्वतिशयो व्यक्त्यैव व्यञ्जनव्यापारेणैव प्रतिपाद्यते। कुतः क्रियान्तरस्य व्यापारान्तरस्यासद्भावादसत्वात्। यतः पावित्र्यादिधर्माणां प्रतीतौ नाभिधा प्रवर्तते। गङ्गादिशब्दानां तेष्वसङ्केतितत्वात्। नाप्युपचारस्तनिमित्तानां मुख्यार्थबाध–तत्प्रत्यासत्यतिशयप्रतीतीनामभावात्। न ह्यत्र लक्षणीयं तटादि मुख्योऽर्थः। नाप्यत्र प्रवाहादिवत् कश्चिद् बाधः। न चास्य पावित्र्यादिनाऽतिशयेन काऽपि प्रत्यासत्तिः। न चाप्यतिशये लक्ष्ये किश्चिदतिशयान्तरारोपणमस्ति । नाप्यत्र तटादाविव गङ्गादिशब्दाः स्खलद्गतयः, तत् कथं पावित्र्यादयो लक्ष्याः? एवं स्थितेऽपि यद्यतिशयभू279तास्ते लक्ष्यन्ते, तत् केनाप्यतिशयेन सोऽप्यतिशयान्तरेणेत्यनवस्थाप्रसङ्गः। नापि पावित्र्याद्यतिशयरूपफलयुक्तमेव तटादिलक्षणाया विषय इति युक्तं विषय–फलयोरत्यन्तं भेदात् प्रत्यक्षादेः प्रमाणस्य घटादिर्विषयः फलं त्वर्थाधिगतिः प्राकट्यं संवित्ति280र्वा। तदेवं फलविशिष्टेषु लक्षणलक्षि281तानामेव फलविशिष्टत्वप्रतीतिरिति पावनत्वाद्यतिशयो गङ्गादिशब्दैरभिधोपचाराभ्यां विलक्षणेन केनापि व्यापारेण प्रतिपाद्यत इति स्थितम्। स च व्यञ्जन282–ध्वननादिशब्दवाच्योऽवश्यं मन्तव्यः। तत्प्रतिपाद्यश्चातिशयोऽत्र वस्तुमात्ररूप एव न रसालङ्काररूपः। स च क्वचिद् गूढः, क्वचिदगूढः। तत्र गूढो यथा—

“यथा लीलामभ्यस्यति गतिरुरः स्मेरति वचोऽ
प्यधीते वैदग्धीं परिचरति लज्जामपि वपुः।
स्मितश्रीरप्यास्यं तिलकयति ताराऽपि283 च तर
त्यप्राङ्गाङ्के शङ्के विकसति तथाऽस्यां मनसिजः॥७२॥”

अत्र पुनः पुनः प्रवृत्तिरूपस्याभ्यासस्य चैतन्यशून्यायां गतौ, पुष्पधर्मस्य दलविघटनरूपस्य स्मेरत्वस्योरसि, प्राज्ञधर्मस्याध्ययनस्य वचसि चेतनारहितां284लज्जां प्रतिसेवारूपस्य परिचरणस्य वपुषि, निपुणकार्यस्य तिलकस्य स्मितश्रियाम्, पयसि विधेयस्य तरणस्यापाङ्गाङ्के, कमलादिधर्मस्य विकासस्य मनोजन्मनि च सम्भवाभावात् मुख्यार्थबाधे285 क्रमशस्तल्लाभवच्चे त्रिशालीभवने क्रमात्

क्रमात् तद्ग्रहणशालित्वे मिथः संङ्ग286तत्वे शोभाकारित्वे तत इतः संवरणे प्रसरणे च यथाक्रमं सादृश्यरूपे प्रत्यासत्तिविशेषे सत्यभ्यासादिसामान्यानां गत्यादिष्वारोपः। सम्यग्ग्रहणं सस्पृहकाभिजनावलोकनमखिललोकग्राह्य287त्वमाभिजात्यं झटिति कामिजनमनोवशीकरणं प्रागल्भ्यप्रकटनं क्रमात् प्रौढीभवनं चेत्याद्यतिशया व्यङ्ग्याः। अगूढो यथा—

“दुर्मेधसोऽपि भूधवशरौघताण्डवनचण्डपाण्डित्यम्।
अध्यापयति धनुस्तव विरोधिनो नतिविधीन् सहसा॥७३॥”

अत्र विद्वत्कार्यस्याध्यापनस्य288 विचेतने धनुष्यसम्भवात् मुख्यार्थबाधे289कार्यनिर्मापकत्वे सादृश्ये चाध्यापकत्वं सामान्यं धनुष्यारोप्यते। अक्लेशेनैव ते नतिं कारिता इत्यतिशयो व्यङ्ग्यः। स च सद्यःप्रतीतिविषयत्वादगूढ एव। काव्यद्वयेऽप्यस्मिन् सारोपा गौणी चोपचार290विचित्रता। वाच्यश्चार्थः स्वोपमेय291भूतलक्ष्यार्थपरत्वादत्यन्ततिरस्कृतः। तदेवं यद्यपि भेदभूयस्त्वमुपचारस्य, तथापि तन्मूलस्यातिशयध्वनेः क्रोडीकृतापरप्रभेदमर्थान्तरसङ्क्रान्तवाच्यात्यन्ततिरस्कृतवाच्यरूपं भेदद्वयमेवेति॥२९॥

तदेवं शब्दस्योंपचारिकत्वमभिधाय व्यञ्जकत्वं स्थापयति—

तेन व्यञ्जनवैचित्र्यमप्यास्ते शब्दगोचरम्।
विदग्धत्वं कवीन्द्राणां यस्मिन् परिसमाप्यते॥३०॥

यतो292 व्यञ्जनेनातिशयं शब्दः प्रत्याययति। तेन कारणेन शब्दगोचरं शब्दाश्रयं न केवलमभिधोपचारवैचित्र्यं व्यञ्जनवैचित्र्यमप्यास्ते इति प्रतीयते। यस्मिन् व्यञ्जनवैचित्र्ये कवीन्द्राणां विदग्धत्वं नैपुण्यं परिसमाप्यते परां काष्ठामधिरोहति। व्यञ्जनव्यापारभूषिता293 हि भारती कवीनां महन्माहात्म्यमुन्मुमुन्द्रयति294

यदाह—

“सरस्वती स्वादु तदर्थवस्तु निःस्यन्दमाना295 महतां कवीनाम्।
अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ॥७४॥”

अत्र तदिति प्रतीयमानम्॥३०॥

एवमुपचरा296न्मूलव्यङ्ग्यप्रस्तावात् शब्दस्य297 सामान्यतो व्यञ्जनवैचित्र्यमवस्थाप्य तदेवेदानीमभिधामूलमाह298

वस्त्वलङ्कारयोर्मुख्यशब्दतो व्यञ्जनाद्299 ध्वनिः।
शब्दशक्तिभवो द्वेधा

शब्दशक्तिभवः शब्दशक्तिसमुत्थो ध्वनिर्द्वेधा द्विप्रकारो भवति वस्तुध्वनिरलङ्कारध्वनिश्च। कुत इत्याह–वस्त्वलङ्कारयोरित्यादि। मुख्यादनुपचारात्शब्दाद् वस्तुनोऽलङ्कारस्य च व्यञ्जनात् परिभासनात्300। तत्र वस्तुध्वनिर्यथा—

“शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र ! यस्मै त्वम्।
यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च॥७५॥”

अत्र त्वदनुवर्त्तनाय विरुद्धावप्येकं कार्य कुरुत इति वस्तु ध्वन्यते301

अलङ्कारध्वनिर्यथा—

“अमित्रक्षेत्रेषु प्रसभमसिधेनुस्तव नवं
चिरं चीर्णा भूमीतलतिलकपत्राङ्कुरवनम्।
यशोदुग्धं स्निग्धं किमपि तदसूत प्रतिमुहुः.
प्रतेने येनायं त्रिभुवनपुटीपूरणविधिः॥७६॥”

अत्रैकार्थः कृपाणीवाचकोऽसिधेनुशब्दो मध्यानुप्रविष्टधेनुशब्दमाहात्म्यात्सुरभ्या सार्द्धमौपम्यं व्यनक्ति।

यथा च—

“तिग्मरुचिरप्रतापो विधुरनिशाकृद् विभो ! मधुरलीलः।
मतिमानतत्त्ववृत्तिः प्रतिपदपक्षाग्रणीर्विभाति भवान् ॥७७॥”

तिग्मो रुचिरप्रतापो यस्य, विधुराणां वैरिणां निशामुपचारात् मूर्च्छान्धकारं करोति। मधुरा लीला यस्य। मतौ सद्बुद्धौ माने पूज्यपूजने302 तत्त्वे परमार्थे चवृत्तिर्यस्य। प्रतिपदं स्वपक्षेऽग्रणीःएतेषां च पदानां द्विपदत्वे तिग्मरुचिः

अप्रतापः। विधुः अनिशाकृत्। मधुः अलीलः। मतिमान् अतत्त्ववृत्तिः। प्रतिपत्अपक्षाग्रणीरिति विरोधाभासो व्यङ्ग्यः।

चतस्रोऽस्य भिंदास्ततः॥३१॥

ततः कारणादस्य शब्दशक्तिमूलस्य303 ध्वनेरर्थान्तरसङ्क्रान्तवाच्यात्यन्ततिरस्कृतवाच्यभेदाभ्यां सह चत्वारो भेदाः॥३१॥

ननुसंयोगाद्यैर्नियमितादप्यनेकार्थात् शब्दाद् या काचिदर्थान्तरप्रतीतिस्तस्यांकिं शब्दस्याभिधैव304 व्यापारः? किं वाऽपरः कश्चिदित्याह—

या च शब्दादनेकार्थात् संयोगाद्यैर्नियन्त्रितात्।
अपरार्थमतिः काचित् व्यञ्जनादेव सा मता॥३२॥

संयोगो विप्रयोगश्च साहचर्यं विरोधिता।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः॥३३॥

सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः305॥३४॥

इत्युक्तानुसारेण शब्दानामेकस्मिन्नर्थे नियमनं यथा—

‘वनमिदमभयमिदानीं यत्रास्ते लक्ष्मणान्वितो रामः।’इति
‘विना सीतां रामः प्रविशति महामोहसरणिम्।’

इति च संयोगाद् विप्रयोगाच्च दाशरथौ २।

‘बुधो भौमश्चतस्योच्चैरनुकूलत्वमागतौ।’ इति साहचर्याद् ग्रहविशेषे ३।

‘रामर्जुनव्यतिकरः साम्प्रतं वर्तते तयोः।’इति विरोधाद् भार्गव–कार्तवीर्ययोः ४।

‘स्थाणुं भज भवच्छिदे’इत्यर्थात् प्रयोजनादीश्वरे ५।
‘सर्व जानाति देवः’इति प्रकरणाद् युष्मदर्थे ६।

‘कोदण्डं यस्य गाण्डीवं स्पर्द्धते कस्तमर्जुनम् १।’इति लिङ्गाच्चिह्नात् पार्थे ७।

‘देवस्य पुरारातेः’ इति शब्दान्तरसन्निधानात् पशुपतौ ८।
‘मधुना मत्तः कोकिलः’ इति सामर्थ्याद् वसन्ते ९।
‘तन्व्या306 यत् सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये। तत् त्वां पातु’ इत्यौचित्यात् प्रसादसाम्मुख्ये पालने १०।
‘भात्यत्र परमेश्वरः’इति राजधानीरूपाद् देशाद् राजनि ११।
‘चित्रभानुर्विभात्यत्र307’इति कालविशेषाद् दिने रवौ, रात्रौ च वह्नौ १२।

‘मित्रं भाति’इति ‘मित्रो भाति’ इति च व्यक्तिविशेषाल्लिङ्गविशेषात् सुहृदि रवौ च प्रतीतिः १३।

उदात्तादेः स्वरविशेषात् पुनर्वेद एव विशेषार्थप्रतिपत्तिर्न काव्यमार्गे। तथाहि–‘मन्त्रोहीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न308तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्॥’इति कय्यटोक्तन्यायान्मिथ्या प्रयुक्तो मन्त्रः प्रयोक्तारमेव हन्ति। यथेन्द्रशत्रुरिति मन्त्रः। पूर्व हि इन्द्रस्याभिचारो वृत्रेणारब्धस्तत्रेन्द्रशत्रुर्वर्धस्वेति मन्त्र ऊहितः। तत्र चेन्द्रस्य शमयिता शातयिता309 वेति क्रियारूपः शत्रुशब्दः समाश्रितो न तु रूढिशब्दः। तदाश्रयणे हि बहुव्रीहि–तत्पुरुषयोरर्थाभेदः। ततश्चेन्द्रशत्रुरित्यन्त्योदात्ते षष्ठीतत्पुरुषे प्रयोक्तव्ये आद्योदात्तो बहुव्रीहिर्ब्राह्मणेन प्रयुक्तस्तेनेन्द्र310स्तस्यैव शमयिता311 जात इति स्वरो वेद एवोपयोगी, न काव्यमार्ग इति १४।

आदिशब्दादभिनयादिभ्यो यथा—

* इद्दह312मित्थणिया313 इद्दहमित्तेहिं अच्छिवत्तेहिं।
इद्दहमित्तावत्था इद्दहमित्तेहिं दिअहेहिं314 ॥७८॥

एवं संयोगादिभिर्नियन्त्रितादप्येकस्मिन्नर्थे स्थापितादप्यनेकार्थात् शब्दाद्

__________________________________________________________

*

एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम्। एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः॥

या काचिदपरस्यार्थस्य मतिर्बुद्धिर्भवति सा315 नाभिघातस्तस्या नियमितत्वात्316, नाप्युपचारात् तन्निमित्तानामभावादपि317 तु व्यञ्जनव्यापारादेव। यथा—

“स सैन्यसैन्धवोद्धूतैः318 पांशुभिः319 पूरयन् दिशः।
न सेहे मिहिरस्यापि पृथिव्यां पततः करान्॥७९॥”

अत्र मिहिरशब्दप्रत्यासत्तेः किरणेषु नियमितोऽपि करशब्दो दण्डरूपमर्थान्तरं व्यञ्जयन्‘एकछत्रां धरित्रीं स भुक्तवान्’इति वस्तु प्रकाशयति।

तथा320

“यदीयोऽसि कालः प्रतिकरटिसिन्दूररुचिभि—
र्व्यधात् सन्ध्यां मुक्तास्तदनु किल ताराः समुदगुः।यशःश्वेतज्योतिस्तदथ समभूद् येन जयिना
चिरं चक्रे राकार321जनिमयमेव त्रिभुवनम्॥८०॥

अत्र काल–तारा–श्वेतज्योतिःशब्दा असि–मुक्ता–यशःशब्दानां सन्निधानात्कृष्णगुण–नैर्मन्य-विशदद्युतित्वेषु नियन्त्रिता अप्यनेहो–नक्षत्र–शीतांशून्व्यञ्जयन्तस्तैः सार्धमुपमानोपमेयतां ध्वनयन्ति॥३२-३४॥

न शब्दवैचित्र्यमिदं विनाऽश्नुते श्रियं कवीनां भणितिर्महत्यपि।
मरीचयश्चण्डरुचो हि दर्पणे निपेतिवांसो विकसन्ति नाश्मनि॥

इत्यलङ्कारमहोदधौ शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः॥२॥

<MISSING_FIG href=”../books_images/U-IMG-1732873200Screenshot2024-11-29at12-41-24EditBookE-Bharatisampat.png”/>

अथ तृतीयस्तरङ्गः।
<MISSING_FIG href=”../books_images/U-IMG-1729761318d4.png”/>

अथ पूर्वोक्तानुवादपूर्वमु322त्तराभिधेयमुपक्रमते—

इत्युक्तं शब्दवैचित्र्यमर्थवैचित्र्यमुच्यते।
महाकविरिति ख्यातिं लभन्ते कवयो यतः॥१॥

इति पूर्वोक्तप्रकारेण शब्दवैचित्र्यमुक्तं प्रतिपादितम्। इदानीमर्थवैचित्र्यमुच्यते। यतो यस्मादर्थवैचित्र्यात् कवयो महाकविरिति ख्यातिं प्रसिद्धिं लभन्ते प्राप्नुवन्ति। न ह्यद्भुतार्थवैचित्र्यमन्तरेण महाकवित्वलाभः॥१॥

अथ यत् प्रतिज्ञातं तदेवाह—

अक्लिष्टप्रतिभादृष्टः सौकुमार्य323मनोरमः।
रससंवलितानेकभङ्गी324सर्वाङ्गभूषितः॥२॥अयोनिरपरच्छायायोनिर्वा परभागभाक्।
स चेतनचमत्कारी धत्तेऽर्थः कविताङ्गताम् ॥३॥325

अर्थोऽभिधेयं वस्तु कविताङ्गतां काव्यकारणत्वं326 धत्ते धारयति। कीदृशः? आक्लेष्टप्रतिभादृष्टः अक्लिष्टा कदर्थनारहिता या प्रतिभा नवनवोल्लेखशाली प्रज्ञावि-शेषस्तया327 दृष्टो विभावितोऽत एवसौकुमार्यमनोरमः। सुकुमारसम्भूतं हि वस्तु सुकु-मारमेव भवति। पुनः कीदृशः?। रसैः शृङ्गारादिभिः संवलिता मिश्रीभावशालिनी याऽनेका भङ्गी विच्छित्तिस्तया सर्वाङ्गमामूलचूलं भूषितः समलङ्कृतः। अर्थो हि रसकल्लोलिनीं नवनवां विच्छित्तिमूरीकुर्वन्नेव चारिमाणमारोहति328। यथा—

“आराद्धं किमु दैवतं कुवलयैस्तेपे तपश्चन्द्रमाः
किन्नामाऽयमिदं च काञ्चनरुचां किं भाग्यमुज्जृम्भते?।दैवं वाऽद्य329किमानुकूलिकमभूद् बालप्रवालश्रिया—
मस्याः स्मेरदृशो दधत्यवयवौपम्यं यदेतान्यपि ॥८१॥”

पुनः कथम्भूतः? अयोनिः न विद्यते योनिरुत्पत्तिभूमिर्य330स्य स तथा। पूर्वकविभिरस्पृष्ट इत्यर्थः। यथा—

“किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः331 स्वयं
वाच्यः किं महिमापि यस्य332 हि किल द्वीपं महीति श्रुतिः।
त्यागः कोऽपि स तस्य बिभ्रति जगद् यस्यार्थिनोऽप्यम्बुदाः
शक्तेः कैव कथाऽपि333 यस्य भवति क्षोभेण कल्पान्तरम्॥८२॥”

किमयोनिरेवायमुतास्य प्रकारान्तरमप्यस्तीत्याह–अपरच्छायायोनिर्वाऽपरस्य काव्यार्थस्य334 या छाया सादृश्यमात्रं सा योनिर्यस्य स335तथा। वाऽथवार्थे। किमुक्तं भवति। यदपूर्व एव336तावदर्थः काव्ये निबन्धनीयस्तदसम्पत्तावपर337च्छायाप्रभवोऽपि विशेषं कमप्युन्मेपयन् न विरुद्ध्यते। अत एवोक्तं परभागभाक् पूर्वस्माद्गुणोत्कर्षवान् इति। यथा—

“मानिनीजनविलोचनपातानुष्णबाष्पकलुषान् प्रतिगृह्लन्।
मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः॥८३॥”

अयमेवार्थः कविप्रतिभाविशेषितो यथा—

“क्रमादेक–द्वि–त्रिप्रभृतिपरिपाट्याप्रकटयन्
कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः।
पुरन्ध्रीणां प्रेयो338विरहदहनोद्दीपितदृशां
कटाक्षेभ्यो विभ्यन्339 निभृतमिव चन्द्रोऽभ्युदयते॥८४॥”

सोऽयमपरच्छायायोनिः। युग्मम्॥२-३॥

अर्थवैचित्र्यस्य कियतोऽप्यतिदेशमाह—

विचित्रत्वमदोषत्व

गुणालङ्कारनिर्मितम्340
यदर्थस्यास्ति तत् सर्वं पुरस्तादभिधास्यते॥४॥

यत् किमप्यर्थस्य निर्द्दोषत्वादिजनितं वैचित्र्यं विद्यते तत् समग्रमग्रे वक्ष्यते इति॥४॥

सम्प्रति यद् वक्तव्यं तदाह—

यत् तु वैचित्र्यमर्थस्य व्यञ्जकत्वमुपेयुषः।
व्यङ्ग्यार्थप्रत्ययाधायि तदत्रैव प्रतन्यते॥५॥

यत् पुनरर्थस्य व्यञ्जकत्वं प्राप्तवतः प्रतीयमानार्थप्रतीतिकारि विचित्रत्वं तदत्रैव प्रतन्यते विस्तरेण कथ्यते॥५॥

अथ व्यङ्ग्यार्थस्वरूपाण्याह—

यद्यप्य341नेकधा व्यङ्ग्यं व्यञ्जकादि342विभेदतः।
तथापि वस्त्वलङ्कार–रसात्मत्वात् त्रिधैव तत्॥६॥

यद्यपि व्यञ्जका343नामादिशब्दाद् व्यञ्जनीयानामपि विभेदादनेकरूपं व्यङ्ग्यं व्यङ्ग्योऽर्थः। सामान्यविवक्षयाऽत्र नपुंसकत्वम्। तथापि वस्तु किमप्यर्थमात्रमलङ्काराश्चोपमाऽऽदयो रसाश्चशृङ्गारादयस्तदात्मत्वात् तद्रूपत्वात्344 तद्व्यङ्ग्यंत्रिविधमेव,न चतुर्थः प्रकारोऽस्तीति॥६॥

कथितं व्यङ्ग्यार्थस्वरूपम्। अथ मुख्याद्यर्थानां व्यञ्जकत्वमाह—

वक्तृ–बोद्धव्य–काकूनां वाक्य–वाच्यान्यसन्निधेः345
प्रस्ताव–देश–कालादेर्वैशिष्ट्यात् प्रतिभाजुषाम्॥७॥

मुख्योपचरित–व्यङ्ग्याः क्वचिदर्थास्त्रयोऽप्यमी।
बिभ्रति व्यञ्जकीभावं निजप्रागल्भ्यसम्पदा॥८॥346

मुख्याद्यास्त्रयोऽप्यर्थाः प्रतिभाजुषां वैदग्ध्यशालिनां विदग्धान् प्रतीत्यर्थः व्यञ्जकत्वं धारयन्ति। कया? निजप्रागल्भ्यसम्पदा। तत् किञ्चित् सन्निवेशनै-

पुण्यमुन्मीलति येन ते व्यञ्जका जायन्ते। परं क्वचित्, न सर्वत्र। कुत एतदित्याहवक्त्रादीनां वैशिष्ट्यादिति। किमुक्तं भवति? यत्र वक्त्रादीनां वैशिष्ट्यं प्रागल्भ्यशालिनोऽपि त्रयोऽप्यर्थास्तत्रैव व्यञ्जका नान्यत्र। तत्र वक्ता प्रतिपादकस्तस्य वैशिष्ट्याद् यथा—

* “माए ! घरोवयरणं अज्ज हु नत्थि त्ति साहिअं347 तुमए।
ता भण किं करणिज्जंएमेव न वासरो ठाइ॥८५॥”

अत्र विज्ञातस्वैरिणी348त्वरूपाद् वक्तृवैशिष्ट्यात् काचित् स्वैरविहारार्थिनी तटस्थेन प्रतिभावता व्यज्यते। तदस्थेनेत्यादिकं चोत्तरेष्वपि ज्ञेयम्।

प्रतिपाद्यो बोद्धव्यस्तद्वैशिष्ट्याद् यथा—

+ “उन्निद्दं दोबल्लं चिन्ता अलसत्तणं सनीससिअं349
मह मंदभाइणीए केरं सहि! तुह वि अहह! परिहवइ॥८६॥”

महकेरं मम सम्बन्धि। तुह वि त्वामपि। अत्र दूत्यास्तत्कामुकोपभोगो350 व्यज्यते। तथाविधदूतीत्वं च बोद्धव्यस्य वैशिष्ट्यम्।

काकुवैशिष्ट्याद्यथा—

“तथाभूतां दृष्ट्वा नृपसदसि पञ्चालतनयां
वने व्याधैः सार्द्धं सुचिरमुषितं वल्कलधरैः
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु॥८७॥”

अत्र मयीत्यत्र प्रयत्नविशेषोच्चारणे कोपोपालम्भपरत्वेन काकोर्वैशिष्ट्याद्मयि न योग्यः खेदः, कुरुषु तु योग्य इति भीमाभिप्रायः प्रतीयते। न च

___________________________________________________________

*

मातर्गृहोपकरणमद्य खलु नास्तीति कथितं त्वया।
तद् भण किं करणीयमेवमेव न वासरस्तिष्ठति॥

+

औनिद्यंदौर्बल्यं चिन्ताऽलसत्वं सनिःश्वसितम्।
मम मन्दभागिन्याः सखि! त्वामप्यहह ! परिभवति॥

वाच्यसिद्ध्यङ्गं काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्कनीयम्, भजतीत्यत्र प्रयत्नविशेषोच्चारणे काकुमात्रेणापि प्रश्नमात्रनिष्ठश्लोकार्थोपपत्तौ मयीति विशिष्टकाक्कनुसरणस्य विशिष्टव्यङ्ग्यार्थप्रतीतिहेतुत्वात्।

वाक्यवैशिष्ट्याद् यथा—

“प्राप्तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्यात्
निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि।
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात-
स्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयोधेः॥८८॥

अत्र प्राप्तश्रीरित्यादीनां वाक्यानां वैशिष्ट्यान्नारायणरूपता राज्ञः प्रतीयते।

वाच्य351वैशिष्ट्याद् यथा—

उद्देशोऽयं सरसकदलिश्रेणिशोभाऽतिशायी
कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः।
किं चैतस्मिन् सुरतसुहृदस्तन्वि ! ते वान्ति वाता
येषामग्रे सरति352 कलिताकाण्डकोपो मनोभूः॥८९॥

कदलीति बाहुलकाद् ह्रस्वः। अत्र कदली353–कुञ्जयोर्जनालोकवारण–रविकर-निग्रहप्रकाशनं वायोः सुरतखेदच्छेदित्वं सर्वेषामपि च मदनोद्दीपनत्वं चेति रतसामग्रीप्रकाशकवाच्यार्थवैशिष्ट्यात् ‘सम्भोगक्रीडार्थमत्र प्रविश’ इति युज्यते।

अन्यसन्निधिवैशिष्ट्याद् यथा—

*

“णुल्लेइ354 अणुल्लमणा अत्ता में घरभरंभि सयलम्मि355
खणमित्तं356 जइ संझाइ होइ न व होइ वीसामो॥९०॥”

अत्र कयाचित् सखीं प्रति वदन्त्या प्रच्छन्नकामुकस्य सन्ध्या सङ्केतकालो ज्ञाप्यत इति प्रतीयते। तथाविधपुरुषकृतत्वं च सन्निधिवैशिष्ट्यम्।

___________________________________________________________

* नुदत्यनार्द्रमनाः श्वश्रूर्मा गृहभरे सकले।
क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रामः॥

प्रस्ताववैशिष्ट्याद् यथा—

*

“सुव्वइ समागमिस्सइतुज्झ पिओ अज पहरमितेण।
एमेव357किं ति चिट्ठसि ता सहि ! सज्जेसु358 करणिज्जं॥९१॥”

अत्रोपपतिं प्रत्यभिमर्तु प्रस्तुता काचिन्न युक्तमिति सख्या निवार्यत इति व्यज्यते। सर्वदाऽभिसरण359द्वारेण हेतुत्वेन प्रतीतत्वं च प्रस्तावस्य वैशिष्ट्यम्।

देशवैशिष्ट्याद् यथा—

“अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः।
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः॥९२॥”

अत्र विविक्तोऽयं देशस्ततः प्रच्छन्नकामुकस्त्वया प्रस्थाप्य इति विश्वस्तां प्रति कयाचिन्निवेद्यते इति ध्वन्यते। उद्देशोऽयमित्यत्र सकलस्यापि वाच्यस्य वैशिष्ट्यमिह तु सङ्केतयोग्यत्वं देशमात्रस्यैवेति वाच्यवैशिष्ट्याद् भेदः।

कालवैशिष्ट्याद् यथा—

÷“गुरुअणपरवस! पिय360! किं भणामि तुह मंदभाइणी अहयं।
अज्ज पवासं वच्चसि वच्च सयं चेव मुणसि करणिज्जं॥९३॥”

अत्र मधुसमये यदि व्रजसि तदहं तावत्र भवामि। तत्र तु न जानामि गतिमिति पतिं प्रति कस्याश्चिदभिप्रायः प्रतीयते। विरहिप्राणापहारित्वं च कालवैशिष्ट्यम्।

आदिग्रहणाच्चेष्टादीनां परिग्रहः। तत्र चेष्टावैशिष्ट्याद्361 यथा—

___________________________________________________________

*

श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण।
एवमेव किमिति तिष्ठसि? तत् सखि ! सज्जय करणीयम् ॥

÷

गुरुजनपरवश ! प्रिय ! किं भणामि त्वा मन्दभागिनी अहम्।
अद्य प्रवासं व्रजसि व्रज स्वयमेव जानासि करणीयम्॥

“द्वारोपान्तनिरन्तरे मयि तथा सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समापादितम्।
आनीतं पुरतः शिरोंऽशुकमधः क्षिप्ते चले लोचने
वाचस्तञ्चनिवारितं प्रसरणं सङ्कोचिते दोलते॥९४॥”

अत्र चेष्टाभिः प्रच्छन्नकान्त362विषया सानुरागता ध्वन्यते। अनुरागकल्लोलितैलज्जाजनितत्वं363 च चेष्टानां वैशिष्ट्यम्।

एवं वक्त्रादीनां द्विकादियोगेऽपि व्यञ्जकत्वमवसेयम्। तत्र वक्तृ–बोद्ध-व्ययोगे यथा—

*

“अत्ता इत्थ णुमज्जइ इत्थ अहं पिय364सयं पलोएसु।
मा पहिअ365 ! रत्तिअंधय! सिज्जाइ महं णुमज्जिहसि॥९५॥”

अत्ता श्वश्रूः। णुमज्जइ निषीदति। महं आवयोः, ममेति व्याख्यायमाने व्यङ्ग्यप्रतीतिर्न स्यात्। अत्र स्वैरिण्यां तथाविधपुरुषं प्रति वदन्त्यां द्वयवैशिष्ट्याद्मेति निषेधेन मम शय्यायामेव त्वया समागन्तव्यमिति विधिः प्रतीयते।

एवमन्यदपि द्विक–त्रिकयोगे स्वयमभ्यूह्यम्।

इदानीमुपचरितार्थस्य व्यञ्जकत्वमुच्यते। तत्र वक्तृवैशिष्ट्याद्366 यथा—

“दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि
प्रायो नास्य शिशोः पिताऽतिविरसाः कौपीरपः पास्यति।
एकाकिन्यपि यामि तद् वरमितः स्रोतस्तमालाकुलं
नीरन्ध्राः पुनरुल्लिखन्तु जरठच्छेदा नलग्रन्थयः॥९६॥

अत्र स्वैरिण्याः पत्यर्थ सरसजलानयनाय तत्त्ववृत्त्यागमनं न सम्भवतीति मुख्यार्थबाधादसत्येन यामीत्यनेन वैपरीत्यप्रत्यासत्त्यालोकेषु सतीत्वख्यापनरूपे

___________________________________________________________

* श्वश्रूरत्र निमज्जत्यत्राहमपि च (प्रिय !) स्वयं (दिवसं) प्रलोकय।
मा पथिक ! रात्र्यन्धक ! शय्यायामावयोर्निमङ्क्ष्यसि॥

फले सति सत्यं परपुरुषान्तिकगमनं लक्ष्यते। तेन च रतोपमर्द्दजनितनखक्षतादि367गोपनं ध्वन्यते। विदितस्वैरिणीत्वं चात्र वक्तुर्वैशिष्ट्यम्।

बोद्धव्यवैशिष्ट्याद् यथा—

* “साहंती368 सहि ! सुहयं खणे खणे दूमिआ369 सि मज्झ कए।
सब्भाव–नेह–करणिज्ज370सरिसयं दाव विरइयं371 तुमए॥९७॥”

साधयन्ती मदनुकूलं कुर्वती, यदि वा प्रतिपादयन्ती युक्तायुक्तं बोधयन्ती। अत्र प्रत्यक्षदृष्टप्रियोपभोगचिह्नाया दूत्याः सद्भावस्नेहरूपं मित्रत्वं न सम्भवतीति मुख्यार्थबाधे वैपरीत्यरूपायां प्रत्यासत्तौ त्वमसद्भावपरा निःस्नेहा च सदाप्यभूरिति372 गुप्तासत्यार्थ373प्रतिपादने च फले शत्रुत्वं लक्ष्यते। तेन च तस्याः स्नेहपात्रमियं सद्य एव तत्पार्श्वं यास्यतीतिजानन्नपि यस्त्वां दूतीमपि कामयते तेनातिघृष्टेन किं कार्यमिति कामुकविषयं सापराधत्वं व्यज्यते। एवं काक्कादिवैशिष्ट्यादपि लक्ष्यार्थव्यञ्जकत्वं ज्ञेयम्।

अथ व्यङ्ग्यार्थव्यञ्जकत्वम्। तत्र वक्तृवैशिष्ट्याद् यथा—

÷“भम धम्मिअ ! वीसत्थो सो सुणओ अज्ज मारिओ तेण।
गोलाणइकच्छकुडंगवासिणा दरिअसीहेण374॥९८॥”

अत्र भ्रमेत्यादिविधिना गोदावरीतीरे सिंहसद्भावाद् धार्मिकस्य भ्रमणनि-षेधो व्यज्यते। तेन च तत्रोपपतिना सह निष्प्रत्यूहसुरतव्यापाराभिलाषित्वं कस्याश्चित् प्रतीयते।

बोद्धव्यवैशिष्ट्याद् यथा—

___________________________________________________________

* साधयन्ती सखि ! सुभगं क्षणे क्षणे दूनाऽसि मम कृते।
सद्भाव–स्नेह–करणीयसदृशं तावद् विरचितं त्वया॥

÷ भ्रम धार्मिक ! विश्वस्तः स श्वाऽद्य मारितस्तेन।
गोदानदीकच्छकुडङ्गवासिना दृप्तसिंहेन॥

“निःशेषच्युतचन्दनं स्तनतटं निर्मृष्ट375रागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तथेयं तनुः।
मिथ्यावादिनि ! दूति ! बान्धवजनस्याज्ञातपीडागमा
वापीं स्नातुमितो गताऽसि न पुनस्तस्याधमस्यान्तिकम्?॥९९॥

अत्र न पुनरिति निषेधेन निःशेषच्युतादिपदसमूहसहायाऽधमपदबलात् तदन्तिकमेव रन्तुं गताऽसीति विधिर्व्यज्यते। तथाहि–च्युतं भ्रष्टं, क्षालितमित्युक्ते तु व्यङ्ग्यार्थप्रतीतिर्न स्यात्, क्षालनस्य वाप्यामेव भावात्। नितरां मृष्टरागो न तु किञ्चित्। दूरमनञ्जने, निकटे तु साञ्जने। पुलकिता तन्वीत्युभयं विधेयम्। व्यङ्ग्य-पक्षे इत्येकं व्यङ्ग्यम्। तेन च त्वमिव सोऽधमस्तावत् यस्त्वां कामयते। स इव त्वमप्यधमा या प्रीतिपात्रभूताऽपि मम प्रियोपभोगं कुरुषे। तत् तेन च त्वयाऽपि च न मे कार्यमित्याद्युपमेयोपमागर्भं बहु ध्वन्यते। एवं काक्वादिवैशिष्ट्या-दपि व्यङ्ग्यार्थव्यञ्जकत्वमुदाहार्यम्॥७-८॥

अथ व्यञ्जकत्वमापन्नस्य मुख्यार्थस्य का वार्तेत्याह—

व्यज्यतेऽर्थान्तरं यत्र मुख्यार्थेन स्वनिह्नवात्।
तस्मिन् विवक्षितस्यापि तस्यान्यपरता भवेत्॥९॥

मुख्यार्थस्य हि परोपकारित्वे सति क्वाप्यविवक्षितत्वं क्वापि विवक्षितत्वम्। तत्रवि376वक्षितस्य377स्वरूपमुपचारप्रस्तावे कथितमेव। विवक्षितस्य तु कथ्यते। यत्र यस्मिन् काव्ये मुख्यार्थेन स्वनिह्नवादात्मानं निह्नुत्य पश्चात्कृत्य किमप्यर्थान्तरं व्यज्यते तस्मिन् काव्ये तस्य मुख्यार्थस्य विवक्षितस्यापि वक्तुमिष्टस्याप्यन्य378परता व्यङ्ग्यार्थनिष्ठता भवेत्। न स्वातन्त्र्यमित्यर्थः॥९॥

कथितं मुख्यार्थस्वरूपम्। अथ व्यङ्ग्यार्थस्य भेदान् वक्तुकामः प्रथमं द्वैविध्यमाह—

तत्सङ्गते ध्वनौ काव्ये क्वाप्यसंलक्षितक्रमः।
संलक्षितक्रमः क्वापि व्यङ्ग्योऽर्थः प्रकटीभवेत्॥१०॥

तत्सङ्गते व्यङ्ग्यार्थनिष्ठमुख्यार्थयुक्ते ध्वनाविति ध्वनिसंज्ञे काव्ये व्यङ्ग्योऽर्थो द्विधा स्फुटीभवति। क्वचिदसंलक्षितक्रमः न संलक्षितः सन्नपि न सम्यग्ज्ञातः क्रमो यस्य। रसादयो379 हि विभावानुभाव–व्यभिचारिभिः प्रथममाविर्भूतैरनन्तरमाविष्क्रियन्ते इत्यस्ति क्रमः। स चाशुभावित्वान्न लक्ष्यते, विभावादिसमकालमेव380 रसादीनां प्रतीयमानत्वात्। क्वचिच्च संलक्षितक्रमो मुख्यार्थप्रतीत्यनन्तरं हि घण्टानुर381नप्रतिमः सहृदयप्रतिभासमर्पितो वस्त्वलङ्कारवपुर्व्यङ्ग्योऽर्थः प्रतिभातीति॥१०॥

अथासंलक्षितक्रममाह—

तयोराद्यो रसा भावाः स्थायि–सञ्चारिमूर्तयः।
तदाभासास्तथाभावस्थिति–शान्त्युदयादयः॥११॥

तयोः पूर्वोक्तयोर्द्वयोर्मध्ये आद्यः382 प्रथमोऽसंलक्षितक्रमः। स च किंस्वरूप इत्याह–रसाः शृङ्गारादयो भावा द्विधा स्थायि–सञ्चारिमूर्तयः स्थायि–सञ्चारि-रूपाः स्थायिनो रत्यादयः, संचारिणो हर्षादयश्च। तदाभासास्तेषां रसानांभावानां चाभासास्तथा भावानां स्थिति–शान्त्युदयादयोऽवस्थाविशेषा आदि-शब्दात् सन्धिशबलत्वपरिग्रहः॥११॥

अथ रसस्वरूपमाह—

विभावैरनुभावैश्च व्यक्तोऽथ व्यभिचारिभिः।
स्थायी रत्यादिको भावो रसत्वं प्रतिपद्यते॥१२॥

स्थायिनां विभावानुभाव—व्यभिचारिणां च स्वरूपं वक्ष्यते। विभावै रत्यादेरुन्मीलनकारणैरनुभावैस्तस्यैव कार्यैर्व्यभिचारिभिरस्यैव सहकारिभिर्व्यक्तः प्रादुष्कृतः स्थायी सर्वेषामपि वासनात्मतया स्थितो रत्यादिको रतिप्रभृतिर्भावो रसत्वं शृङ्गारादिरसरूपतां प्रतिपद्यते समाश्रयति। यदुक्तं भरतमुनिना—“विभावानुभाव–व्यभिचारिसंयोगाद् रसनिष्पत्तिः”इति। तदेतट्टीकाकृतोव्याकुर्वते। तथाहि— “विभावैर्ललनोद्यानादिभिरलम्बनोद्दीपनकारणैर्जनितोऽ-

नुभावैः कटाक्ष–भुजाक्षेपप्रभृतिभिः कार्यैः प्रतीतिविषयं नीतो व्यभिचारिभिर्हर्षप्रमुखैः सहकारिभिरुपचितः383 स्थायी रत्यादिको भावो मुख्यया वृत्त्यारामादावनुकार्ये तद्रूपताऽनुसन्धानान्नर्तकेऽपि प्रतीयमानो रसः।”इति भट्टलोल्लटप्रभृतयः।

“तदिदमत्यन्तं रसवीथी384पृथग्भूतमेव, सामाजिकानाम385वलोकनागमनादि-प्रयासवैयर्थ्यात्।”इति शङ्कुकोऽन्यथा व्याचष्टे।

“राम एवायमयमेव राम इति सम्यक्प्रतीतेर्न रामोऽयमित्यौत्तरकालिकेबाधके रामोऽयमिति मिथ्याप्रतीते रामः स्याद् वा न वाऽयमिति संशयप्रतीते रामसदृशोऽयमिति सादृश्यप्रतीतेश्च विलक्षणया चित्रतुरगादिन्यायेन386 रामो-ऽयमिति प्रतिपत्त्याग्राह्ये नटे

“मुखमहह ! मृगाक्ष्याः कोऽप्यहो ! भ्रूविलासः
कटिरि387 ! कुचकिशोरौ साधु मध्यस्य भङ्गिः।
जयति जगदशेषं शेषमङ्गं पुनस्तद्
ध्रुवमभवदमुष्याः कश्चिदन्यो विधाता॥१००॥”

इतो विपिनपङ्क्तयस्तिलकिता रसालाङ्कुरै–
र्मरुन्मलयभूरितः कलमितः पिकीनां रुतम्।
इतश्च नवचम्पकैः सुरभिताः समन्ताद् दिश-
स्तदद्य मयि तां विना भजतु घस्मरत्वं स्मरः॥१०१॥”

इत्यादिकान्यानुसन्धानबलादालम्बनोद्दीपनरूपैः कारणैस्तद्विदां शिक्षया पुनः पुनरभ्यासात् सप्रेमावलोकन–स्तम्भ–स्वेद–रोमाञ्चादिभिः कार्यैः सत-ताभ्यासनिर्वर्तिततत्कार्यप्रकटनेन सहकारिभिश्च नटेनैव प्रकाशितैः कृत्रिमैरपि तथाऽनभिसंवेद्यमानैर्विभावादिशब्दव्यपदेश्यैः संयोगाद् गम्यगमकभावरूपात्सम्बन्धादनुमीयमानोऽपि वस्तुतस्तत्र नटे सत्त्वेन वस्तुसौन्दर्यबलाद् रसनीयत्वेन च दूरमन्यानुमीयमानविलक्षणः स्थायित्वेन सम्भाव्यमानो रत्यादिर्भावः सामाजिकानां चर्व्यमाणो रसः।”इति श्रीशङ्कुकः।

एतदपि न समीचीनम्। रसस्य ह्यनुमीयमानत्वं युक्तिविरुद्धम्, ‘त्रिरूपाल्लिङ्गाल्लिङ्गिविज्ञानमनुमानम्388’इति वचनाद् वेद्यान्तरसम्पर्कशून्यत्वेनैव च तस्य भाव्यमानत्वाद् इति भट्टनायकोऽन्यथा व्याकुरुते–“न ताटस्थ्येन रसः प्रतीयते, स्वव्यतिरिक्ता389श्रयप्रतीतौ रसनीयत्वाभावात्। नाप्यात्मगतत्वेन सीतादावपि कामित्वप्रसङ्गात्। नाप्युत्पद्यते विभावादिकारणानां निवृत्तावपि घटादिवत् तस्यावस्थान390प्रसङ्गात्391। न च व्यज्यते प्रदीपाद्यभिव्यङ्ग्यघटादिवत् पूर्वसिद्धत्वाभावात्। किन्तु काव्ये नाट्ये वाऽभिधानान्तरोद्भवेन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सत्त्वोद्रेकप्रकाशितपरमानन्दसंवलितसंविद्विश्रान्तिस्वरूपेण भोगेन भुज्यते।”इति भट्टनायकः।

अत्रापि भावकव्यापारस्य व्यञ्जनव्यापारादाधिक्यममृष्यन् श्रीमानभिनवगुप्तः प्राह–“लोके प्रमदाद्यैः कारणादिभिः स्थाय्यनुमानेऽभ्यासपाटववतां काव्ये नाट्ये च तैरेव कारकत्वादिपरिहारेण विभावनादिव्यापारवच्चादलौकिकविभावादिशब्दव्यवहार्यैर्ममैवैते परस्यैवैते न ममैते न परस्यैते इति सम्बन्धविशेषस्वीकार392परिहारनियमानवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनाऽऽत्मतया स्थितः स्थायी रत्यादिकः कतिपयविदग्धसरसप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृतावशादुल्लसितं वेद्यान्तरसम्पर्कशून्यं प्रमातॄणामपरिमितभावमनुभवता प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतश्रर्व्यमाणतैकप्राणो विभावादिजीवितावधिःपानकरसन्यायेन चर्वणीयः पुर इव393परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन्नन्यत् सर्वमिव तिरोदधद् ब्रह्मास्वादमिवानुभावयनलौकिकचमत्कारकारी शृङ्गारादिको रसः। स च न कार्यो विभावादिविनाशेऽपि तस्य सम्भवप्रसङ्गात् नापि ज्ञाप्यः सिद्धस्य तस्याभावादपि तु प्रदीपघटाद्यपरव्यञ्जकव्यङ्ग्यवैलक्षण्येन विभावादिभिर्व्यञ्जितश्चर्बणीयतागोचरः। कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेन्न क्वचिद् दृष्टमित्यलौकिकत्वसिद्धेर्भूषणमेतन्न दूषणम्। चर्वणानिष्पत्त्यातस्य निष्पत्तिरुपचरितेति कार्योऽप्युच्यताम्। लौकिक-प्रत्यक्षादिप्रमाणेभ्यः स्वात्मव्यतिरिक्तपदार्थप्रकटनेन ताटस्थ्यावबोधशालिनः

परिमिताद् योगिज्ञानात्394 तत्त्वविषयोपरागविरहाद् वेद्यसंस्पर्शरहितत्वेन स्वात्ममात्रपर्यवसितात् जगद्व्यापकत्वेन परिमितेतराद् योगिसंवेदनाच्च विलक्षणस्य लोकोत्तरसंवेदनस्य गोचर इति प्रत्य (त्ये) योऽप्यभिधीयताम्। तद्ग्राहकं च395न निर्विकल्पकं विभावादिपरामर्शनप्रधानत्वात्। नापि विकल्पश्चर्व्यमाणस्य सदोल्लेखरहितत्वेनालौकिकानन्दमयस्य तस्य स्वसंवेदनासिद्धत्वात्। उभयाभावरूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामवगमयति, न तु विरोधम्।” इति श्रीमानभिनवगुप्तः।

विभावादीनां च समस्तानामेव व्यञ्जकत्वम्, न व्यस्तानां व्यभिचारात्। व्याघ्रादयो हि विभावा भयानकस्येव वीराद्भुतरौद्राणाम्। अश्रुपातादयोऽनुभावाः करुणस्येव शृङ्गार–वीरभयानकानाम्। चिन्तादयो व्यभिचारिणः शृङ्गारस्येव वीर–करुण–भयानकानाम्, यत्रापि व्यस्तानामुपादानम्। यथा—

“माकन्दालीमरन्दप्रसरभरनमन्मञ्जरीमञ्जुलश्री-
र्वायुर्वात्येष योषित्प्रणयकलिभिदादक्षिणो दाक्षिणात्यः।
नादः श्रोत्रैकपेयः परिलुठति कुहूकण्ठकण्ठोदरेषु
ज्योत्स्ना स्वच्छन्दमिन्दोः स्फुरति च मयि तद् देवि ! दासे प्रसीद॥१०२॥”

इत्यादौ विभावानामेव।

यथा च—

“परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः396 क्रियासु।
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीमभिनवकरिदन्तच्छेदपाण्डुः कपोलः॥१०३॥”

इत्यादावनुभावानामेव।

यथा वा397

“एष्यत्युत्सुकमागते विवलितं398 सम्भाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने किञ्चाकिञ्चित्भ्रूलतम्।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णं क्षणा-
च्चक्षुर्जातमहो ! प्रपञ्चचतुरं जातागसि प्रेयसि॥१०४॥”

इत्यादौ च औत्सुक्य–व्रीडा399-हर्ष–कोपासूया–प्रसादानां व्यभिचारिणामेव। तत्राप्येतेषामसाधारणत्वादन्यतमद्वयापेक्षत्वे400 सति न व्यभिचार इति॥१२॥

उक्तं सामान्येन रसस्वरूपमिदानीं तद्भेदानाह—

शृङ्गार–हास्य–करुणा401रौद्र–वीर-भयानकाः।
बीभत्साद्भुत–शान्ताश्च नव नाट्ये रसा अमी॥१३॥

तत्र सकलप्राणिगणप्रीणकत्वात् पूर्वं शृङ्गारः। तदनुगामी च हास्यः। तद्वि-परीतः करुणः। तन्निमित्तमर्थप्रधानो रौद्रः। कामार्थयोर्धर्ममूलत्वाद् धर्मप्रधानोवीरस्तस्य भीतामयप्रदायित्वात्। दुर्विनीतघातोत्थरुधिरास्थिपिच्छिलित-रणाङ्गणत्वाच्च तदनन्तरं भयानक–बीभत्सौ। वीरस्य पर्यन्तफलभूतत्वादद्भुतः। ततः सर्वरसप्रतिपक्षभूतो निर्वृतिधर्मात्मकः402 शिवफलः शान्तः। इत्येते **नवैव403**नाट्यप्रसिद्धा रसाः। ये तु कैश्चिदार्द्रतादिस्थायिनः स्नेहादयो रसाः प्रोक्तास्तेसर्वेऽपि रत्यादिष्वेवान्तर्भवन्तीति न पृथक् प्रतिपादिताः॥१३॥

अथ शृङ्गारं लक्षयति—

व्यक्ता स्त्री–पुंस–माल्यादिविभावैराश्रिता रतिः।
व्यभिचारिभिरालस्य–जुगुप्सौग्र्यविवर्जितैः॥१४॥

सम्भोगविप्रलम्भात्मा शृङ्गाराख्यो रसो भवेत्।

स्त्री–पुंसाभ्यां परस्परमालम्बन-विभावाभ्यां404माल्यादिभिर्माल्यर्तु–शैल–हर्म्यतल–मलयानिल– कौमुदी405–कानन दीर्घिका–जलक्रीडाऽऽदिभिरु-द्दीपनविभावैर्व्यक्ता व्यञ्जिता। तथा क्वचित् कैश्चिदालस्य–जुगुप्सौम्यरहितै–र्व्यभिचारिभिराश्रित406 परिवृता कामिनोः परस्परास्थावन्धात्मिका रतिः स्थायी भावश्चर्वणागोचरं गतः शृङ्गारनामा रसः। स च कीदृशः? सम्भोग407–विप्रलम्भात्मां408सम्भोग–विप्रलम्भावात्मा यस्य, न त्वात्मानौ तेन नैतौ तस्य

भेदौकिन्तु द्वयात्मकं स्वरूपमेव। ततः सम्भोगे विप्रलम्भे च ग्रामैकदेशे ग्रामशब्दवदुपचारेण शृङ्गारशब्दस्य प्रवृत्तिस्तत्त्वतो द्वयात्मकत्वमेवास्य। तथाहिसम्भोगे यदि न विरहाशङ्का तदा स्वाधीनेऽनुकूले चानादर एव स्याद् वामत्वात्कामस्य। विप्रलम्भेऽप्यनवच्छिन्न एव सम्भोगमनोरथो निराशत्वे करुण एव स्यादत एव तद्दशाद्वयमीलने सातिशयश्चमत्कारः। यथा—

“एकस्मिन् शयने409 पराङ्मुखतया वीतोत्तरं ताम्यतो-
रन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम्।
दम्पत्योः शनकैरपाङ्गमिलनामिश्रीभवच्चक्षुषो-
र्भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहम्॥१०५॥

अत्र व्यभिचारिपङ्क्तौ स्थायिन्या जुगुप्सायाः सन्निवेशः क्वापि स्थायिनामपि410 व्यभिचारित्वख्यापनार्थो यथाऽस्या एव शान्ते, रोषस्य भयस्य च शृङ्गारे, तयोर्द्वयोरप्यनुभावास्त्वनन्तरमेव पृथक् पृथग् दशाद्वयलक्षणे वक्ष्यन्ते॥१४॥

तत्र सम्भोगमाह—

सौख्यैकमयधृत्यादिसञ्चारी पुलकादिकृत्॥१५॥ सम्भोगः

यत्र कामिन्यामिष्टानि दर्शनादीनि सम्यग् भुज्यन्ते स सम्भोगः। स च कीदृशः? सौख्यैकमया आनन्दैकमया411 धृत्यादयो धृति–व्रीडा–जाड्यादयः सञ्चारिणो व्यभिचारिणो यत्र स तथा। स च पुलकादीन् पुलक–स्वेद–कम्पादी-ननुभावान् करोतीति। अनुभावाः412पुरो वक्ष्यन्ते। स च परस्परावलोकनालिङ्गन-चुम्बन–पानाद्यनन्तभेदः413। यथा—

“शून्यं वासगृहं विलोक्य शयनादुत्थाय किश्चिच्छनै-
र्निद्रान्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्।
विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानमुखी प्रियेण हसता बाला चिरं चुम्भ्रिता॥१०६॥”

यथा वा—

“सन्दष्टाधरपल्लवा414 सचकितं हस्ताग्रमाधुन्वती
मा मा मुञ्चशठेति कोपवचनैरानर्त्तित्भ्रूलता।
सीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी
प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः॥१०७॥”॥१५॥

अथ विप्रलम्भमाह—

विप्रलम्भस्तु शङ्कादिव्यभिचारिमान्।

तापादिकृत् स्पृहा–शाप–वियोगेर्ष्या–प्रवासजः॥१६॥

सम्भोगसुखलोभेन विशेषेण प्रलभ्यते आत्मात्रेति विप्रलम्भः। स च पुनः शङ्कादयः शङ्कौत्सुक्य-मद

ग्लानिप्रभृतयस्ते च ते व्यभिचारिणश्च ते विद्यन्ते यस्य स तद्वान्। तापादीन् ताप–जागर–कार्श्य–प्रलापादनिनुभावान् करोतीति। स च स्पृहा–शाप–वियोगेर्ष्या–प्रवासेभ्यो415 जायते। तत्र स्पृहा प्रथमाभिलाष-स्तत्सकाशाद् यथा—

“स्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभि-
र्यदपि विधृता दुःखं तिष्ठन्त्यपूर्णमनोरथाः।
तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयननलिनीनालानीतं पिबन्ति रसं प्रियाः॥१०८॥”

शापाद् यथा—

“तिष्ठेत् कोपवशात् प्रभावपिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयिपुनर्भावार्द्रमस्या मनः।
तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्त्तिनीं
सा चात्यन्तमगोचरं नयनयोर्यातेति416 कोऽयं विधिः!॥१०९॥”

इदं च शापतिरस्कृतायामुर्वश्यां पुरूरवसो वचनम्।

वियोगाद् यथा—

“अन्यत्र व्रजतीति का खलु कथा नैवास्य तादृक् सुहृद्
यो मां नेच्छति नागतश्च स हहा417! कोऽयं विधेः प्रक्रमः?।
इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे
बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि॥११०॥”

ईर्ष्यातो यथा—

“सा पत्युः प्रथमेऽपराध418समये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलना—वक्रोक्तिसंसूचनम्।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलोदकैरश्रुभिः॥१११॥”

सख्युर्भावः सख्यं सौहार्द तेनोपदेशः419

प्रवासाद् यथा—

“प्रस्थानं वलयैः कृतं प्रियसखैस्रैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः।
यातुं निश्चितचेतसि प्रियतमे सर्वैः समं प्रस्थितं
गन्तव्ये सति जीवित! प्रियसुहृत्सार्थः किमु त्यज्यते॥११२॥”

एवं च यद्यपि चुम्बनालिङ्गनादिभिः सम्भोगस्यानन्त्यमुक्तम्, तथापि पञ्चप्रकारविप्रलम्भानन्तरभावित्वात् तस्यापि पञ्चविधत्वमेव। तत्र420स्पृहानन्तरं सम्भोगो यथा—

* “लीलाइ तुलिअसेलो421 रक्खउ422वो राहियाइ423 थणवट्ठे।
हरिणो पढमसमागमसज्झसवसवेविरो हत्थो॥११३॥”

___________________________________________________________

* “लीलया तुलितशैलो रक्षतु वो राधिकायाः स्तनपृष्ठे।
हरेः प्रथमसमागमसाध्वसवशवेपमानो हस्तः॥

शापानन्तरो यथा वियुक्त–संयुक्तयोः शकुन्तला–दुष्यन्तयोः424

यथा वा—

“शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
मासानेतान् गमय चतुरो लोचने मीलयित्वा।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं
निर्वेक्ष्यावेः425 परिणतशरच्चन्द्रिकासु क्षपासु426॥११४॥”

अत्र भविष्यतोऽपि सम्भोगस्य शापानन्तरत्वमेव।

वियोगानन्तरो यथा—

* “रमिऊण पयं पि गओ जाहे अवगूहए पडिनियत्तो427
अहयं पउत्थवैअ428व्व तक्खणं सो पवासि व्व॥११५॥”

ईर्ष्यानन्तरो यथा—

“ग्रन्थिमुद्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः।
भ्रूयुगेन सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः429॥११६॥”

प्रवासानन्तरो यथा—

“चिरविरहिणोरुत्कण्ठार्त्य श्लथीकृतगात्रयो-
र्नवमिव जगज्जातं भूयश्चिरादभिनन्दतोः।
कथमपि दिने दीर्घे याते निशामधिरूढयोः
प्रसरति कथा बह्वीयूनोर्यथा न तथा रतिः॥११७॥”

करुणविप्रलम्भस्तु करुण एव। यथा—

___________________________________________________________

* रत्वा पदमपि गतो यदाऽवगूहते प्रतिनिवृत्तः।
अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीव॥

“हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम्।
उपचारपदं430 न चेदिदं त्वमनङ्गः कथमक्षता रतिः?॥११८॥”

इत्यादि रतिप्रलापेषु॥१६॥

अथ हास्यमाह—

व्यक्तो विकृतवेषाद्यैर्नासास्पन्दादिजन्मकृत्।
निद्रादिव्यभिचारी च हासो हास्यत्वमाश्रयेत्॥१७॥

देश–काल–वयो–वर्णवैपरीत्याद् विकृतवेषेणाद्यशब्दान्नर्तनान्यगत्याद्यनुकर-णादिभिर्विभावैर्व्यक्तो नासौष्ठ–कपोलस्पन्दन–दृष्टिव्याकोशाकुञ्चनादीनामनु-भावानां जन्मकृत्। निद्राऽवहित्थ–त्रपा–ऽऽलस्यादिव्यभिचारी431 च हासः स्था-यिभावो हास्यत्वमाश्रयेत्। स चात्मस्थः परस्थश्च। तत्राद्यो यथा—

“पाणौ कङ्कणमुत्फणः फणिपतिर्नेत्रं ज्वलत्पावकं
कण्ठः कूटितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम्।
गौरीलोचनलोभनाय सुभगो वेषो वरस्यैष मे
गण्डोल्ला432सविभावितः पशुपतेहस्योद्गमः पातु वः॥११९॥”

परस्थो यथा—

“कनककलशस्वच्छे राधापयोधरमण्डले
नवजलधरश्यामामात्मद्युतिं433 प्रतिबिम्बिताम्।

असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन्
जयति जनितव्रीडा–हासः प्रियाहसितो हरिः॥१२०॥”॥१७॥

अथ करुणः—

इष्टनाशादिभूर्दैवोपालम्भाद्यनुभावभाक्।
दुःखैकमयसञ्चारी शोकः करुणतां भजेत्434॥१८॥

इष्टनाशानिष्टसंयोगादिभ्यः प्रादुर्भूतो दैवोपालम्भ–निःश्वासाश्रुक्रन्दादीना-मनुभावानां भजनशीलः, निर्वेद–ग्लानि–दैन्यादिदुःखैकमयव्यभिचारी शोकःकरुणत्वं श्रयेत्। यथा—

“यस्याः कुसुमशय्याऽपि कोमलाङ्ग्या रुजाकरी।
साऽधिशेते कथं देवी हुताशनवतीं चिताम्॥१२१॥”॥१८॥

अथ रौद्रः—

स्म(स्मे)रन् दारापहाराद्यैर्नेत्ररागादि435कारणम्436
औग्र्यादिव्यभिचारी च क्रोधो रौद्ररसो437 भवेत्॥१९॥

दारापहार–देशादिनिन्दा–स्वभृत्याधिक्षेप–स्वोपहासादिभिर्विकसन् नेत्र-राग438–भ्रुकुटीकरणौष्ठपीडनादीनां जनकः। औग्र्यावेगामर्षादिव्यभिचारी439 च क्रोधो रौद्ररसो440 भवति।

यथा—

“अद्राक्षुर्ये नरेन्द्रा द्रुपदतनुभुवः केशपाशावकृष्टिं
चक्रुर्वाऽकारयन् वा मनसि किमपरं येऽन्वमन्यन्त मोहात्।सर्वेषामेव तेषां समरमखभुवि क्रोधवह्नौ जुहोति
द्वित्रैर्हुङ्कारमन्त्रैरभिजनसमिधो मध्यमः पाण्डवेयः॥१२२॥”॥१९॥

अथ वीरः—

न्यायादिबोध्यः स्थैर्यादिहेतुर्धृत्यायुपस्कृतः।
उत्साहो दान–युध्–धर्मभेदो वीररसः स्मृतः॥२०॥

प्रतिनायकस्थितन्याय–विक्रम–बलासंमोहादिजागरणीयः स्थैर्य–धैर्य–शौर्यादीनां हेतुर्धृति–स्मृत्यौग्र्य–गर्वादिभिः संस्कृतश्च कोऽप्युत्साहो वीरः स्मृतः। स च दान–युद्ध–धर्मैस्त्रिभेदः। तत्र441 दानभेदो यथा—

“पात्रे पुरोवर्त्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलये च देये।
व्रीडा स्मितं तस्य तदा तदासीच्चमत्कृतो येन स एव देवः॥ १२३॥”

अत्र तस्येति बलेः।

युद्धभेदो यथा—

“क्षुद्राः सन्त्रासमेते विजहत हरयः ! क्षुण्णशक्रेभकुम्भा
युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः।
सौमित्रे ! तिष्ठ पात्रं त्वमपि न हि रुषांनन्वहं मेघनादः
किञ्चित्संरम्भलीलानियमितजलधिं राममन्वेषयामि॥ १२४॥”

धर्मभेदो यथा—

“सेयं स्वदेहार्पणनिष्क्र442येण न्याय्या मया मोचयितुं भवतः।
न पारणा स्याद् विहता443 तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः॥१२५॥”

इयमाक्रान्त444धेनुं सिंहं प्रति दिलीपस्योक्तिः।

त्रिभेदोऽपि यथा—

“अजित्वा सार्णवामुर्वीमनिष्ट्वाविविधैर्मखैः।
अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम्?॥१२६॥”॥२०॥

अथ भयानका—

कम्पादिकारणं क्रूरस्वर445श्रुत्याद्युदञ्चितम्।
भयं भवति शङ्कादिव्यभिचारि भयानकः॥ २१॥

पिशाचादिक्रूरश्रवण–तद्दर्शन–स्वजनबन्ध–वधादिभिरुदञ्चितमुल्लासितं446 कम्प–स्वेद–बलनिरीक्षणादीनां कारणं शङ्काऽपस्मार–मरण–त्रासादिव्यभिचारि447 भयं भयानको भवति। यथा—

“ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम्।
शष्पैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवम
पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकमुर्व्यां प्रयाति॥१२७॥”२१॥

अथ बीभत्सः—

अरम्यालोकनाद्युत्था सङ्कोचादिनिबन्धनम्।
बीभत्सः स्याज्जुगुप्साऽपस्मारादिव्यभिचारिणी॥२२॥

अरम्याणामुद्धतादीनामालोकन–श्रवणादिभ्य उत्तिष्ठन्ती गात्रसङ्कोच-हृल्लास–नासा–मुखविकूणनादीनां448 निबन्धनमपस्मारौग्र्य–मोहव्यभिचारिणी जुगुप्सा बीभत्सः। यथा—

“उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथुच्छोफभूयांसि मांसा—
न्यंस–स्फिक्–पृष्ठ–पिण्ड्याद्यवयवसुलभान्यन्त्रपूतीनि449 जग्ध्वा।
आत्तस्नाय्वन्त्रनेत्रात् प्रकटितदशनः प्रेतरङ्कः करङ्का—
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति॥१२८॥२२॥

अथाद्भुतः—

दिव्यरूपावलोकादिस्मेरो हर्षाद्यलङ्कृतः।
दूरं नेत्रविकासादिकारणं विस्मयोऽद्भुतः॥२३॥

दिव्यरूपदर्शनेप्सितप्राप्ति–रम्यकाननाद्यवलोकनादिभिः स्मेरः सविकासो450 नेत्रविकास– रोमाञ्च–साधुवादादीनां कारणं हर्षावेग–जडताऽऽदिभिरलङ्कृतश्च451 चित्तविस्तारात्मा विस्मयोऽद्भुतः। यथा—

कृष्णेनाम्ब! गतेन रन्तुमधुना मृद् भक्षिता स्वेच्छया
सत्यं कृष्णक एवमाह मुशली मिथ्याऽम्ब ! पश्याननम्।
व्यादेहीति विकासिते शिशुमुखे माता समग्रं जगत्
दृष्ट्वा यस्य जगाम विस्मयपदं पायात् स वः केशवः॥१२९॥”२३॥

अथ शान्तः—

वैराग्यादिविभावोत्थो यमप्रभृतिकार्यकृत्।
निर्वेदप्रमुखोर्जस्वी शमः शान्तत्वमनुते॥२४॥

वैराग्य–संसारभय–तत्त्वज्ञानादिविभावेभ्य उत्तिष्ठन् यम–नियमाध्यात्म-शास्त्रचिन्तादिकार्यकारी452 निर्वेद–धृति–स्मृति–मत्यादिभिरूर्जस्वी तृष्णाक्षयरूपः शमः शान्तत्वमाप्नोति। यथा—

“गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य।
किं तैर्भाव्यं मम सुदिवसैर्येषु ते निर्विशङ्काः
कण्डूयन्ते जरठहरिणाः शृङ्गकण्डूं विनेतुम्॥१३०॥”२४॥

अथ स्थायिभावानाह—

रतिर्हासश्च शोकश्च क्रोधोत्साह–भयानि च।
जुगुप्सा–विस्मय–शमाः स्थायिभावाः प्रकीर्तिताः॥२५॥

कामिनोर्मिथस्तुल्यः प्रेमबन्धो रतिः। सा च नैसर्गिक्यादिभिः प्रकारैरनेकधा शृङ्गारत्वं स्पृशति। तत्र नैसर्गिकी यथा—

इयं महेन्द्रप्रभृतनिधिश्रियश्चतुर्द्दिगीशानवमत्य मानिनी।
अरूपहार्य मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति॥१३१॥”

अत्र जन्मान्तरवासना निसर्गः।

सांसर्गिकी यथा—

“भित्त्वा सद्यः किशलयपुटान् देवदारुमाणां
ये तत्क्षीरसुतिसुरभयो दक्षिणेन453 प्रवृत्ताः।
आलिङ्ग्यन्ते गुणवति !मया ते तुषाराद्रिवाता

पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति॥१३२॥”

अत्रोद्दीपनविभावत्वादप्रिया अपि प्रेयसीसंसर्गात् प्रिया वायवः।

औपमानिकी यथा—

“अपि जनकसुतायास्तच्च तच्चात्ररूपं
स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो-
रभिनवशतपत्रश्रीमदास्यं प्रियाय॥१३३॥”

सेयं सीताविषया रतिस्तदुपमानदर्शनेन रामं रमयति।

आध्यात्मिकी यथा—

“कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम्।
बलवत् तु दूयमानं प्रत्याययतीव मां चेतः॥१३४॥

अत्र शापाज्जाविस्मृतेर्दुष्यन्तस्य454 शकुन्तलायामाध्यात्मिकी रतिः।

आभियोगिकी यथा—

“अलसलुलित–मुग्ध–स्निग्ध–निःस्पन्द–मन्दै—
रधिकविकसदन्तर्विस्मै455यस्मेरतारैः।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षै—
रपदृतमपविद्धं पीतमुन्मूलितं वा456॥१३५॥”

अत्रानुरक्तमालतीकटाक्षाभियोगात् माधवस्य रतिरतीवोद्द्योतते

साम्प्रयोगिकी यथा—

“उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हूं हूमुञ्चम म मेति च मन्दं जल्पितं जयति मानवतीनाम्॥१३६॥”

अत्र मानिन्याः सम्प्रयोगे रत्युल्लासः प्रतीयते।

आभिमानिकी यथा—

“इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो-
रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।

अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः॥१३७॥

अत्र रुचिविशेषोऽभिमानः।

वैषयिकी तु शब्दादिविषयोद्भवा। तत्र शब्दाद् यथा—

विलासमसृणोल्लसन्मुसललोलदोः कन्दली-
परस्परपरिस्खलद्बलयनिःस्वनोद्दन्तुराः।
हरन्ति457 कलहूंकृतिप्रसभकम्पितोरुस्तन-
त्रुटद्गमकसङ्कुलाः कलमकण्डनीगीतयः॥१३८॥”

स्पर्शाद् यथा—

“बध्नन्नङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्वृतिम्।
नेत्रे चामीलयत्रेष प्रियास्पर्शः458 प्रवर्त्तते॥१३९॥”

रूपाद् यथा—

“ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि।
तथा हि सर्वेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिवप्रविष्टा॥१४०॥”

रसाद् यथा—

“कस्य न कुरुते मुग्धे ! पिपासाकुलितं मनः?।
अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः॥१४१॥”

गन्धाद् यथा—

*

रंधणकम्मसु निउणे ! मा जूरसु रत्तपाडलसुअंधं459
मुहमारुअं460 पिअन्तो धूमाइसिही न पज्जलह॥१४२॥”

एवं हासादीनामपि स्मित–विहसितापहसितादयः कतिचिद् भेदाः सम्भ-

__________________________________________________________

*

रन्धनकर्मसु निपुणे ! मा खिद्यस्व रक्तपाटलसुगन्धम्।
मुखमारुतं पिबन् धूमायते शिखी न प्रज्वलति॥

वन्ति। ग्रन्थगौरवभयान्नोदाह्नियन्ते। स्वस्वरसादन्यत्रानभिगामित्वात् सर्वकालमात्मनः सब्रह्मचारित्वाच्च रत्यादीनां स्थायित्वम्, हर्षादीनां तु तद्विपरीतत्वाद्व्यभिचारित्वम्॥२५॥

अथ स्थायिनां रसत्वाभिव्यक्तिहेतूनालम्बनोद्दीपनविभावाननुभावान् व्यभिचारिणश्च विभणिषुरालम्बनविभावानाह—

आलम्बनविभावाः स्युः पुंस्पुरन्ध्रिपुरःसराः।
यानालम्ब्य क्षणाद् बद्धस्फातिर्भावो विभाव्यते॥२६॥

परस्परं पुंस्पुरन्ध्रयो नर–नार्यः पुरःसरशब्दाद् विकृतवेषेष्टनाशादयः स्थायिनां, प्रियागमादयश्च व्यभिचारिणामालम्बनविभावाः। कुत इत्याह–यानालम्ब्येति। यानवलम्ब्य भावः स्थायि–व्यभिचारिरूपः क्षणाद् बद्धप्रकर्षो विभाव्यते संवेद्यते॥२६॥

अथोद्दीपनविभावाः—

उद्दीपनविभावास्तु कौमुदी–काननादयः।
समृद्धिं संश्रयन् भावः काममुद्दीप्यते हि तैः॥२७॥

कौमुदी–केलिकानन–माल्यर्त्तु–हर्म्यतल–दीर्घिका–जलक्रीडाऽऽदयः पुनरुद्दीपनविभावाः। कृत इत्याह–समृद्धिमित्यादि। हि यस्मात् कारणात् भावःस्थायी सञ्चारी वा समृद्धिमुत्कर्षमाश्रयन् काममत्यर्थं तैरुहीप्यते॥२७॥

अथानुभावः—

ये कटाक्ष–भुजाक्षेप461–भ्रू–मुखभ्रमणादयः।
स्तम्भाद्याः सात्त्विका ये च भावलीलादयश्च ये॥२८॥

ते सर्वेऽप्यनुभावाः स्युर्येन सामाजिकाः किल।
तैर्भावाननुभाव्यन्ते स्थायि–सञ्चारिसंज्ञकान्॥२९॥

कटाक्ष–भुजाक्षेप–भ्रूभ्रमण–मुखभ्रमण–मेखलास्खलन–श्वसित–सन्ताप—जागरादयो नासास्पन्दन–दैवोपालम्भादयश्च ये ते सर्वेऽप्यनुभावाः स्युरित्यु-त्तरेण योगः॥२८-२९॥

तथा—

‘स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः।
वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः॥३०॥’

इत्युक्तन्यायेन येऽष्टौ सात्त्विका462 भावास्तेऽप्यनुभावाः। तत्र स्तम्भो यथा—

* तं ताण हयच्छायं निच्चललोअणसिहं पउत्थपयावं।
आलिक्खपईवाण व निययं पयइचडुलत्तणं पि विअलिअं॥१४३॥

स्वेदो यथा—

“स्नेहनिर्भरमदत्त463 वधूनामार्द्रतां वपुरसंशयमन्तः।
यूनि गाढपरिरम्भणि वस्त्रक्नोपमम्बु464 ववृषे यदनेन॥१४४॥”

रोमाञ्चो यथा—

“+ करिमरि465 ! अयालगज्जिअजलयासणिपडणपडिवो एसो।
पइणो धणुरवकांखिरि466 ! किं रोमंचं मुहा वहसि?॥१४५॥”

अत्र करिमरी467 बन्दी। सा च स्वमोचनार्थं भर्तुरागमनाकाङ्क्षिणी।

स्वरभेदो यथा—

“पि पि प्रिय ! स स स्वयं मु मु मुखासवं देहि मे
तत त्यज दुदु द्रुतं भ भ भाजनं काञ्चनम्।

__________________________________________________________

* तत् तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम्।
आलेख्यप्रदीपानामिव निजकं प्रकृतिचटुलत्वमपि विगलितम्॥

+ बन्दि ! अकालगर्जितनलदाशनिप्रगुणप्रतिरव एषः।
पत्युर्धनूरवकाङ्क्षिणि ! कि रोमाञ्चं मुषा वहसि?॥

इति स्खलितजल्पितं मदवशात् कुरङ्गीदृशः
प्रगेहसितहेतवे सहचरीभिरध्यैयत॥१४६॥”

वेपथुर्यथा—

“मा गर्वमुद्वह कपोलतले468 चकास्ति
कान्तस्य469 हस्तलिखिता मम मञ्जरीति।
अन्याऽपि किं नसखि470 ! भाजनमीदृशीनां
वैरी न चेद् भवति वेपथुरन्तरायः॥१४७॥”

वैवर्ण्यं यथा—

*

सहि ! साहसु तेण समं अहं पि किं निग्गया पभायंमि471
अन्न च्चिय472दीसइजेण दष्पणे का वि सा473न (सु) मुही॥१४८॥”

अश्रु यथा—

“उत्पक्ष्मणो474र्नयनयोरुपरुद्धवृत्तिं बाष्पं475 कुरु स्थिरतया विहितानुबन्धम्।
अस्मिन्नलक्षितनतोन्नतभूमिभागे476मार्गे पदानि खलु ते विषंमीभवन्ति477॥१४९॥”

प्रलयो यथा—

“तीव्राभिषङ्गप्रभवेन वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम्।
अज्ञातभर्तृव्यसना मुहूर्त्तं कृतोपकारेव रतिर्बभूव॥१५०॥”

एते478च शरीरोद्भवा एवानुभावतां भजन्ते। ये तु प्राणभूमिप्रसृतरत्यादिसंवेदनवृत्तयो बाह्यजडरूप479भौतिकनेत्रजलादिविलक्षणा480विभावेन रत्यादिगतेनैवाति-

___________________________________________________________

* सखि ! कथय तेन सममहमपि किं निर्गता प्रभाते?।
अन्यैव दृश्यते येन दर्पणे काऽपि सा सुमुखी॥

चर्बणागौरवेणाहृता481 अनुभावैश्च गम्यमानास्ते भावा एव भवन्ति। तथाहि482पृथ्वीविभागप्रधाने प्राणे सङ्क्रान्तश्चित्तवृत्तिगणः स्तम्भो विष्टब्धचेतनत्वं जलप्रधाने तु बाष्पः। तेजसस्तु प्राणनैकट्यादुभयथा तीव्रातीव्रत्वेन प्राणानुग्रह इति। स्वेदो वैवर्ण्य च तद्धेतुत्वाच्च तथा व्यवहारः। आकाशानुगतचेतनत्वं प्रलयः। वायुस्वातन्त्र्ये तु तस्य मन्दमध्योत्कृष्टावेशात् त्रिधा। रोमाञ्च–वेपथु–स्व-रभेदभावेन स्थितिरिति भरतविदः। तथा ये च भावादयो ये च लीलादयस्तेऽप्यनुभावास्तेषु शैशवात्ययेऽल्प483–बहु–भूयोविकारात्मका भावादयो भाव-हात्र–हेलास्त्रयोऽङ्गजाः। तत्र भावो यथा—

“दृष्टेः484 सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा
श्रोत्रं प्रेषयति485 प्रवर्त्तितसखीसम्भोगवार्तास्वपि।
पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग् यथा
बाला नूतनयौवन486व्यतिकरावष्टभ्यमाना शनैः॥१५१॥”

हावो यथा—

“स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः
परिस्पन्दो वाचामभिनवचिलासोक्तिसरसः।
गतीनामारम्भः किसलयित487लीलापरिकरः
स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः?॥१५२॥

हेला यथा—

“तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ488
प्रथिम्नः प्रागल्भ्यं स्तन–जघनमुन्मुद्रयति च।
दृशो लीलारम्भाः स्फुटमपवदन्ते सरलता-
महो ! सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः॥१५३॥”

अथ लीलाऽऽदयो दश स्वाभाविकास्तत्र प्रेम्णा प्रियचेष्टानु489कृतिर्लीला यथा—

* “जं जं करेसि जं जं च जंपसे जह तुमं नियंसेसि490
तं तमणुसिखिरीए दीहो491 न संबडइ॥१५४॥”

ऊर्ध्वतादिस्थानादीनां वैशिष्ट्यं विलासो यथा—

“अत्रान्तरे किमपि वाग्विभवातिवृत्त-
वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः।
तद् भूरिसात्त्विकविकार492विशेषरम्य493-
माचार्यकं विजयि494 मान्मथमाविरासीत्॥१५५॥”

सौभाग्यगर्वादल्पस्य भूषणादेर्विन्यासो विच्छित्तिर्यथा—

“अङ्गानि चन्दनरजः495परिधूसराणि ताम्बूलरागसुभगोऽधरपल्लवथ।
अच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं विभवस्तु शेष॥१५६॥”

विभूषणादीनामस्थानविन्यासो विभ्रमो यथा—

“चकार काचित् सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे।
प्रियं प्रति प्रेषितचित्तवृतिर्नितम्बबिम्बे च बबन्ध हारम्॥१५७॥”

स्मित- हसित - रुदित-भय- शेषादीनां सङ्करः किलिकिञ्चितं यथा—

“रतिक्रीडाद्यूते कथमपि समासाद्य समयं
भया लब्धे तस्याः क्वणित496कलकण्ठार्द्रमधरे।
कृतभ्रूभङ्गाऽसौ प्रकटितविलक्षार्द्धरुदित-
स्मितक्रुद्धोद्भ्रान्तं क्षणमपि विदध्यान्मयि497 मुखम्॥१५८॥”

___________________________________________________________

* यद् यत् करोषि यद् यच्च जल्पति यथा त्वं निवससि।
तत् तदनुशिक्षयित्र्या दीर्घो दिवसो न सम्पतति॥

प्रियकथादौ तद्भावनोत्था चेष्टा मोडायितं यथा—

“स्मरदवथुनिमित्तं गूढमन्वेतुमस्याः
सुभग ! तव कथायां प्रस्तुतायां सखीभिः।
हरति वितत498पृष्ठोदग्रपीनस्तनाग्रा
ततबलयितबाहुजृम्भितैः499 साऽङ्गभङ्गैः॥१५९॥”

केश-स्तनाघरादिग्रहणाद् दुःखेऽपि हर्षः कुट्टमितं यथा—

“ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य।
अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत्॥१६०॥”

सौभाग्यवदिष्टेऽपि वस्तुन्यनादरो बिब्बोको यथा—

“निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा।
शैलराजतनया समीपगामाललाप विजयामहेतुकम्॥१६१॥”

सुकुमारतया कर–चरणाद्यङ्गन्यासो ललितं यथा—

“सभ्रूभङ्गं कर किसलयावर्तनैरालपन्ती
सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन।
विन्यस्यन्ती चरणकमले लीलया स्वैरपातै-
र्निःसङ्गीतं प्रथमवयसा नर्तिता पङ्कजाक्षी॥१६२॥”

वक्तव्यसमयेऽपि वचसाऽनभिलाप्य500 क्रियानुष्ठानं विहृतं यथा—

“पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्।
सा रञ्जयित्वाचरणौ कृताशीर्माल्येन तां निर्वचनं जघान॥१६३॥”

एते च भावादयो विंशतिरलङ्काराः स्त्रीणामित्युक्तमन्यैः। अस्माभिस्तु तेष्वाद्यास्त्रयोदश अप्राप्तसम्भोगतायामपि सम्भवन्तीत्यनुभावत्वेनापि प्रतिपा-

दिताः। शोभा–कान्ति–दीप्ति–माधुर्य–धैर्यौदार्य–प्रागल्भ्यना501मानस्तु सप्त प्राप्तसम्भोगतायामेव भवन्तीत्य502लङ्कारा एव नानुभावतां भजन्तीति। कथमेतेऽनुभावा इत्याह येनेत्यादि। येन कारणेन तैः कटाक्षादिभिः सामाजिकाः सभ्याः स्थायिनः सञ्चारिणश्च भावांश्चित्तवृत्तिविशेषाननुभवन्तोऽनुभाव्यन्ते ज्ञाप्यन्ते किलेति पूर्वाचार्योक्तौ तेनानुभावा इति॥३०॥503

अथ व्यभिचारिणः—

हर्ष–व्रीडा–श्रमामर्षाः प्रबोधो मतिरुग्रता।
अवहित्थमपस्मारः शङ्काऽथ जडता मदः॥३१॥

विषादो ग्लानिरालस्यं दैन्यमावेग–चापले।
उन्मादो व्याधिरौत्सुक्यं वितर्क–मरणे धृतिः॥३२॥

चिन्ता त्रासस्तथाऽसूया निद्रा सुप्तमथ स्मृतिः।
निर्वेद–मोहौ गर्वश्चेत्युदिता व्यभिचारिणः॥३३॥504

इत्यमुना प्रकारेण विविधमाभिमुख्येन स्थायिधर्माणामुपजीवनेन स्वध-र्माणां समर्प्पणेन च चरन्तीति व्यभिचारिण उदिताः कथिताः॥३१-३३॥505

अथ तान् प्रत्येकं विभावानुभावविभूषितानाह। तत्र हर्षस्य सर्वाभिलषणीय-त्वात् प्रथमं निर्देशः—

इष्टप्राप्त्यादिभिर्जन्यो हर्षोऽङ्गपुलकादिकृत्।

इष्टप्राप्ति–राजप्रसादादिभिर्जननीयश्चित्तप्रसादात्मको हर्षः। स चाङ्गपुलक–नयन–वदनप्रसादादीनि करोति। यथा—

“जातस्य ते पितुरपीन्द्रजितो निहन्तुर्वत्सस्य वत्स ! कति नाम दिनान्यमूनि।
तस्याप्यपत्यमनुतिष्ठति वीरधर्मं दिष्ट्या गतं दशरथस्य कुलं प्रतिष्ठाम्॥१६४॥”

अथ506 व्रीडा—

वैवर्ण्यादिकरी व्रीडा दुष्कृत्यकरणादिजा॥३४॥

दुष्कृत्यकरण–प्रतिज्ञाभङ्गादेर्जायमानश्चित्तसङ्कोचो व्रीडा। सा च वैवर्ण्याधोमुखत्व–भूविलेखनादीनि करोति। यथा—

“अक्षत्रारिकृताभिमन्युनिधनप्रोद्भूततीव्रक्रुधः
पार्थस्याकृत शात्रवप्रतिकृतेरन्तः शुचा मुह्यतः।
कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो
हा ! वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद् बहिः॥१६५॥३४।”

अथ भ्रमः—

व्यायामादिभवो गात्रभङ्गादिजनकः507श्रमः।

व्यायाम–मार्गगत्यादिप्र508भवः श्रमो मनः–शरीरखेदः। स च गात्रभङ्ग509मन्दक्रमणास्यविक्कणितादीनां जनकः। यथा—

अलसलुलितमुग्धान्यध्वसम्पात510खेदा511-
दशिथिलपरिरम्भैर्दत्तसंवाहनानि।
मृदुमृदितमृणालीदुर्बलान्यङ्गकानि
त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता॥१६६॥”

अथामर्षः—

क्षेपादिप्रभवोऽमर्षः स्वेद–कम्पादिकारणम्॥३५॥

विद्यैश्वर्य–बलाधिकविहितक्षेपावमानादिजनितोऽमर्षः प्रतिचिकीर्षा। स च स्वेद–कम्प–ध्यानोपायान्वेषणादीनां कारणम्। यथा—

“लाक्षागृहानल–विपान–सभाप्रवेशैः प्राणेषु चित्तनिचयेषु च नः प्रहृत्य।
आकृष्टपाण्डववधूपरिधान–केशाः स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः॥”

अथ प्रबोधः—

शब्दश्रुत्यादिसञ्जन्यः प्रबोधो जृम्भणादिकृत्।

शब्दश्रुति–स्पर्शादि–निद्रापगमहेतुसञ्जन्यश्चेतनागमः प्रबोधः। स च जृम्भणाक्षिमर्द्दनाङ्गभङ्गादीनि512 करोति। यथा—

“प्रत्यग्रोन्मेष513–जिह्माक्षणमनभिमुखी रत्नदीपप्रभाणा-
मात्मव्यापारगुर्वी जनितजललवा जृम्भणैः साङ्गभङ्गैः।
नागाङ्कं मोक्तुमिच्छोः शयनगुरुफणाचक्रवालोपधानं
निद्राच्छेदाभिताम्रा चिरमवतु हरेर्हष्टिराकेकरा वः॥१६८॥

अथ मतिः—

शास्त्रचिन्तादिभूः शिष्योपदेशादिकरी मतिः॥३६॥

शास्त्रचिन्तनोहापोहादिभ्योऽर्थनिश्चयो मतिः। सा च शिष्योपदेशार्थविकल्पन–संशयच्छेदादीनि करोति। यथा—

“असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देह514पदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥१६९॥”३६॥

अथोग्रता—

चौर्यादिजन्मा वाग्–दण्ड–पारुष्यादिकृदुग्रता।

चौर्य–द्रोहादिसम्भवं चण्डत्वमुग्रता। सा चापकारिणं प्रति वाग्

–द

ण्डपा-रुष्य–वधादीनि करोति। यथा—

“प्रणयिसखीसलीलपरिहासरसा515धिगतै-
ललितशिरीषपुष्पहननैरपि ताम्यति यत्।

वपुषि वधाय तत्र तव516 शस्त्रमुपक्षिपतः
पतति शिरस्यकाण्डयमदण्ड इवैष भुजः॥१७०॥

अथावहित्थम्—

लज्जादेरवहित्थं स्यादन्यथाकथनादिकृत्॥३७॥

लज्जा–भयादिभ्यो मुखरागाद्याकारगोपनमवहित्थम्। तच्चान्यथाकथनवलोकित–कथाभङ्ग–कृतकधैर्यादीनि करोति। यथा—

एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी।
लीलाकमलपत्राणि गणयामास पार्वती॥१७१॥”३७॥

अथापस्मारः—

ग्रहादिजन्माऽपस्मारः प्रकम्पप्रमुखावहः।

ग्रह–भूत–पिशाच–शून्यारण्य–स्मशानसेवनादिसम्भूतिरावेशरूपोऽपस्मारः। स च प्रकम्प–स्फुरित–श्वसित–भूमिलुठनादीन्यवहति517। यथा—

“आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम्।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के॥१७२॥”

अथ शङ्का—

चौर्यादिभूर्निजान्येभ्यः शङ्का पाश्र्वेक्षणादिकृत्॥३८॥

चौर्य–पारदार्यादिजन्या स्वकीयेभ्यः परेभ्यो वाऽनिष्टोत्प्रेक्षा शङ्का। सा च पार्श्वेक्षण–मुखौष्ठ–कण्ठशोषादीनि करोति। यथा—

“दूराद् दवीयो धरणीधराभं यस्ताडकेयं तृणवद् व्यधूनोत्।
हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाधते माम्॥१७३॥”

कुत्रचित् प्रियत्वेनापि जायते। यथा—

*

“सहसा मा साहिज्जउ पिअ518गमो तीइ विरहाकिसिआए519
अच्चंतपहरिसेणावि जा मया सा मयचैव520॥१७४॥” ३८॥

अथ जाढ्यम्—

तूष्णीम्भावादिकृज्जाड्यमिष्टानिष्ठेक्षणादिजम्।

इष्टानिष्टदर्शन–श्रवण–स्मरण–व्याध्यादिजातं क्रियास्वपाटवं जाड्यम्। तच्च तूष्णीम्भावानिमिषनयननिरीक्षणादीनि करोति। यथा—

“शिथिलशिथिलं न्यस्य स्वैरं धनुःशिखरे शिरो
नयनसलिलैः कुर्वन् मौर्वीलतामपरामिव।
अहह! विकलः श्रुत्वा श्रुत्वा घनस्तनितध्वनिं
किमपि किमपि ध्यायन्नार्यो न याति न तिष्ठति॥ १७५॥”

अथ मदः—

मदो मद्यादिसम्भूतिः स्वाप–हास्यास्मृतादिकृत्॥३९॥

मद्य–मदनादिसम्भवः सम्मोहानन्दसम्पर्करूपो मदः। स च स्वाप–हास्यास्मरणासम्बद्धप्रलाप–गीत–नृत्तादीनि521 करोति। यथा—

“घूर्णमाननयनं स्खलत्कथं स्वेद चिन्दुमदकारण स्मितम्।
आननेन न तु तावदीश्वरचक्षुपा चिरमुमामुखं पपौ॥१७६॥” ३९॥

अथ विषादः—

विषादः कार्यभङ्गादेः सहायान्वेषणादिकृत्।

* सहसा मा कथ्यता प्रियागमस्तस्यै विरहकृशितायै।
अत्यन्तप्रहर्षेणापि या मृता सा मृतैव॥

उपायाभाव–नाशादिभ्यः संजातात् कार्यभङ्गादेर्मनःपीडा विषादः। स व सहायान्वेषणोपायचिन्तनोत्साहभङ्गादीनि करोति। यथा—

“व्यर्थं यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा
प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि।
मार्ग यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः
सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे॥१७७॥”

अथ ग्लानिः—

व्याध्यादिविहिता ग्लानिर्वैवर्ण्यप्रभृतिप्रसूः॥४०॥

व्याधि–निद्राच्छेदोपवासाध्वलङ्घनादिभिर्विहिता बलापचयरूपा ग्लानिः। च वैवर्ण्य–क्षामनेत्र–कपोलोक्ति–श्लथाङ्गत्वादीनि प्रसूते522। यथा—

“किसल523यमिव मुग्धं बन्धनाद् विप्रलूनं
हृदयकुसुमशोषी दारुणो दीर्घशोकः।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं
शरदिज इव धर्मः केतकीगर्भपत्रम्524॥१७८॥” ४०॥

अथालस्यम्—

निद्रादिकरमालस्यं श्रमादिरचितोदयम्।

श्रम–सौहित्य–मदादिजनितोदयं क्रियासु शिथिलत्वमालस्यम्। तच्च निद्रा–सर्वकर्मविद्वेष–शयनासनादीनि करोति। यथा—

*“घरिणिघणत्थणपेल्लणसुहिल्लिपडिअस्स होंतपहियस्स525
अवसउणंगारय–वार–विट्ठिदिअहा सुहायंति॥१७९॥”

* गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भवत्पथिकस्य।
अपशकुनाङ्गारक–वार–विष्टिदिवसाः सुखायन्ते॥

अथ दैन्यम्—

दौर्गत्यादिभवं दैन्यमसंस्कारादिकारणम्॥४१॥

दौर्गत्य–मनस्तापादिभ्योऽनोजस्वित्वं दैन्यम्। तच्च शरीरासंस्कार–वाक्यालुत्कर्षादीनां कारणम्। यथा—

“अस्मान् साधु समीक्ष्य संयमधनानुच्चैः कुलं चात्मन-
स्त्वय्यस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्ति च ताम्।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्याधीनमतः परं न खलु तत् स्त्रीबन्धुभिर्याच्यते526॥१८०॥”४१॥

अथावेगः—

विस्मयादिकृदावेगः527 स्यादुत्पातादि528सम्भवः।

उत्पात–वान–वर्षाग्नि–प्रियाप्रियश्रवण-दर्शनादिसम्भवः सम्भ्रम आवेगः। स च विस्मयावगुण्ठन–च्छन्नश्रयण– धूमान्ध्य–पुलकविलोप–त्वराऽऽदीनि करोति। यथा—

“अलमलमतिमात्रं साहसेनामुना ते
त्वरितमयि ! विमुश्च त्वं लतापाशमेनम्।
चलितमिव निरोद्धुं जीवितं जीवितेशे529!
क्षणमिह मम कण्ठे बाहुपाशं निधेहि॥१८२॥”

अथ चापलम् —

रागादेश्चापलोद्भेदः स्वात्मप्रकटनादिकृत्॥४२॥

राग–द्वेष–मात्सर्यादिभ्यश्चेतोऽनवस्थानरूपस्य चापलस्योद्भेदः। स च स्वात्मप्रकटन-निर्भर्त्सनादीनि करोति। यथा—

“कश्चित् कराभ्यामुपगूढनालमालोलपत्राभिहत530द्विरेफम्।
रजोभिरन्तःपरिवेषवन्धि लीलारविन्दं भ्रमयाञ्चकार॥१८२॥” ४२॥

अथोन्मादः—

उन्मादो विप्रयोगादेरनिमित्तस्मितादिसूः।

इष्टविप्रयोग–धननाश–ग्रहादेश्चित्तविप्लव उन्मादः। स चानिमित्तस्मित–रुदित–गीत–नृत्तासम्बद्धप्रलापादीनि सुते। यथा—

“श्यामां श्यामलिमानमानयत भोः531! सान्द्रैर्मषीकूर्चकै–
मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम्।
चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके
येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः॥१८३॥”

अथ व्याधिः—

विरहादेर्मनस्तापो व्याधिः स्रस्ताङ्गताऽऽदिकृत्॥४३॥

विरहाभिलाषादिभ्यो मनस्तापो व्याधिः। स च स्रस्ताङ्गता–मुखशोष–गात्रविक्षेपादीनि करोति। यथा—

“स्थितमुरसि विशालं पद्मिनीपत्रमेतत्
कथयति न तथाऽन्तर्मन्मथोत्थामवस्थाम्।
अतिशयपरितापस्तापिताभ्यां यथाऽस्याः
स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति॥१८४॥” ४३॥

अथौत्सुक्यम्—

त्वरादिकरमौत्सुक्यमिष्टानुस्मरणादिजम्।

इष्टानुस्मरण–दर्शनादेर्विलम्बसहत्वमौत्सुक्यम्। त्वरा–निःश्वसितोच्छ्वसित–कार्यादीनि करोति। यथा—

“द्वित्रैः पाणिसरोरुहं त्रिचतुरैर्धम्मिल्लमाल्यस्रजः
कण्ठान्मौक्तिकवल्लरीस्तदनु च क्षिप्ताः पदैः पञ्चषैः।
हित्वा532 भारपरम्परामिति जवात् त्वां देव! संवीक्षितुं
तन्वङ्गी निरपायमध्वनि मुहुः श्रोणीभरं निन्दति॥१८५॥”

अथ वितर्कः—

वितर्कः संशयादिभ्यः शिरःकम्पादिकारणम्॥४४॥

संशय–विमर्श–विप्रतिपन्यादिभ्य ऊहविशेषो वितर्कः। स च शिरःकम्प–भ्रूत्क्षेपादीनां कारणम्। यथा—

“चित्ते निवेश्य परिकल्पित सत्त्वयोगाद्
रूपोच्चयेन घटिता मनसा कृता नु।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः॥१८६॥”४४॥

अथ मृतिः—

जाता व्याध्यभिघाताभ्यां कृशतादिकरी मृतिः।

व्याधिर्ज्वरादिः, सर्प–विष–शस्त्र–गजादिसम्भवोऽभिघातस्ताभ्यां जाता मृतिर्मृत्योः प्रागवस्था; साक्षान्मृतौ त्वनुभावाभावात्। सा च व्याधिजा हिक्का–श्वासादीन्यभिघातजा तु कार्श्य–वेपथु–दाहादीनि करोति। तत्र व्याधिजायां न तथा चमत्कार इतीयं नोदाहृता। अभिघातजा यथा—

“स गतः क्षितिमुष्णशोणितार्द्रा खुरदंष्ट्राग्रनिपातदारिताश्मा।
असुभिः क्षणमीक्षिनेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे॥१८७॥”

शृङ्गारे तु मरणाध्यवसायो मरणादूर्ध्व झटिति पुनर्योगो वा निबध्यते। अन्यत्र533तु स्वेच्छा। तत्र मरणाध्यवसायो यथा—

“सम्प्राप्तेऽवधिवासरे क्षणममुं तद्धर्म्यवातायनं
वारं वारमुपेत्य निष्क्रियतया निश्चित्य किश्चिच्चिरम्।
सम्प्रत्येव निवेद्य केलिकुररीः साश्रुः सखीभ्यः शिशो–
र्माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः॥१८८॥”

पुनर्योगो यथा–

“तीर्थे तोयव्यतिकरभवे जह्नुकन्या–सरखो–
र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः।
पूर्वाकाराधिकतररुचा सङ्गतः कान्तयाऽसौ
लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु॥१८९॥” ४५॥

अथ धृतिः–

इष्टलाभादिजनिता धृतिरव्यग्रभोगदा॥४५॥

इष्टलाभ–ज्ञान–बाहुश्रुत्यादिभिर्जनिता ससन्तोषता धृतिः। सा च लब्धानामुपभोगेन नष्टानामननुशोचनेन534च योऽव्यग्रो भोगस्तं ददाति। यथा–

“यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले
सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया।
देवी प्रीतिमुपागता च भगिनीलामाज्जिताः कोशलाः
किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि535 स्पृहाम्॥”४५॥

अथ चिन्ता–

दारिद्र्यादिकृता चिन्ता सन्तापाद्युदयैकभूः।

दारिद्येष्टबियोगैश्वर्यभ्रंशादिकृतो ध्यानविशेषश्चिन्ता। सा च स्मृतेरन्या ग्रसनाददनवत्। इयं च वितर्कात् ततो वा वितर्क इति वितर्काप्यपरैव। सा च सन्ताप–शून्यचित्तत्व–कारर्य536–श्वासादीनामुदयैकभूमिः। यथा—

*“चिंता णियदेइयसमागमंमि537 कयमन्नुआइ भरिऊण।

सुन्नं कलहायंती सहीहिं रुन्ना न उण हसिआ॥१९२॥”

अथ त्रासः—

निर्घातादिभवस्त्रासो गात्रसङ्कोचनादिकृत्॥४६॥

निर्घात–गर्जित–भू–पर्वतकम्प–विद्युत्पातादिभ्यश्चित्तचमत्काररूपत्रासो भयात् पूर्वापरविचारवतो भिन्न एव। सर्वाङ्गसङ्कोच–स्तम्भ–गद्गद–प्रलापो538कम्पादीनि करोति। यथा—

“परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनात्रासविलोलदृष्टयः।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम्॥१९२॥”४६

अथासूया—

परोत्कर्षादिजाऽसूया स्यादवज्ञाऽऽदिकारिणी।

परस्य सौभाग्यैश्वर्य–विद्याऽऽदिभिरुत्कर्षादपराध–मुहुर्देषादिभ्यश्च जायमानाऽक्षमारूपाऽसूया। सा चावज्ञा–भ्रकुटि–क्रोध–सेर्ष्यक्तिविलोकित–दोषापवर्णनादीनि करोति। यथा—

“वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु539हुं वर्त्तते
सुन्दखीदमनेऽप्यखण्डयशसो लोके महान्तो540हि ये।
यानि त्रीणि541 कुतो मुखान्यपि पदान्यासन् खरायोधने
यद्वा कौशलमिन्द्रसूनु निधने तत्राप्यभिज्ञो जनः॥१९३॥”

अथ निद्रा—

* चिन्ता निजदयितसमागमे कृतमन्युकया भृत्वा।
शून्यं कलहायन्ती सखीभी रुदिता न पुनर्हसिता॥

क्लमाद्युन्मीलिता निद्रा जृम्भादीनां कृतोदया॥४७॥

क्लम–मदालस्य–चिन्ताऽत्याहार–स्वभावादिभिरुन्मीलिता निद्रा सकलेन्द्रियनिमीलनम्। सा च जृम्भा–शिरोलोलन–नेत्रघूर्णनोच्छुसित–निःश्वसिताक्षिनिमीलनादीनामुदयं करोति। यथा—

*“निद्दालसपरिघुम्मिरतंसवलंतद्भूतारयालोया।
कामस्स वि दुव्विसहा दिडिनिवाया ससिमुहीए॥१९४॥” ४७॥

अथ सुप्तम्—

निद्रयोन्मुद्रितं सुप्तमथोत्स्वप्नायितादिकृत्।

अथानन्तरं निद्रयोन्मुद्रितमुन्मीलितं सुप्तं निद्राया एव गाढावस्था। तच्चोत्स्वप्नायितोच्छ्वसित–निःश्वसित–संमोहनादीनि करोति। यथा—

+ “ओसु542यह दिनेपडिवक्ख543वेयणं पसिटिलेहिं अंगेहिं।
निव्वचिअसुरयरसाणुबंधसुहनिग्भरं सुन्हा॥१९५॥”

अथ स्मृतिः—

वस्त्वन्तरावलोकादेर्भूत्क्षेपादिकरी स्मृतिः॥४८॥

वस्त्वन्तरं किञ्चिदेकं वस्तु दर्शन–स्पर्शन–श्रवणेभ्योऽभिज्ञानावलोकन–प्रणिधानादिभ्यश्च पूर्वानुभूतार्थ544प्रतिभासः स्मृतिः। सा च भ्रूत्क्षेप–शिरःकम्प–मुखोन्नमनादीनि करोति। यथा—

“अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातैरपनीतखेदः।

*निद्राऽलसपरिघूर्णमानत्र्यस्रवलदर्घतारकालोकाः।
कामस्यापि दुर्विषहा दृष्टिनिपाताः शशिमुख्याः॥

+उत्स्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः।
निर्वर्तितसुरतरसानुबन्धसुखनिर्भरं स्नुषा॥

रहस्त्वदुत्संङ्गनिषण्णमूर्द्धा स्मरामि वानीरगृहेषु सुप्तम्॥ १९६॥

अत्र वानीरगृहदर्शनाद् रामस्य पूर्वानुभूतसुप्तस्मृतिः। इह545 च वस्त्वन्तरमसदृशमेव गृह्यते। सदृशदर्शनाद् वस्त्वन्तरस्मृतौ हि स्मरणालङ्कारो वक्ष्यते। प्रणिधानाद् यथा–‘अहो! कोपेऽपि कान्तं मुखम्’ इति। एवमन्यदपि ज्ञेयम्॥४८॥

अथ निर्वेदः—

निर्वेदस्तत्त्वबोधादिजन्यः सङ्गोज्झनादिकृत्।

तच्चज्ञान–रोगाधिक्षेप–ताडन–दारिद्र्यादिप्रसूतिर्निर्वेदो मनः खेदः। स च सङ्गत्याग–निःश्वसित–रुदितादीनि करोति। यथा—

“जरा–मरण–दौर्गत्य–व्याधयस्तावदासताम्।
मन्ये जन्मादि (पि) धीराणां भूयो भूयस्त्रपाकरम्॥१९७॥”

अथ मोहः–

प्रहारादिप्रसूतात्मा मोहोऽङ्गभ्रमणादिकृत्॥४९॥

प्रहार–मत्सर–भय–दैवोपघातादिदुःखहेतुभिः प्रियसङ्गमादिसुखहेतुभिश्व जनितस्वरूपो मोहञ्चित्तस्य मूढत्वम्। स चाङ्गभ्रमण–घूर्णन–पतन–सर्वेन्द्रिय–प्रलयादीनि करोति। यथा–‘तीत्राभिषङ्गप्रभवेन वृत्तिम्’ इत्यादि।

यथा वा—

“कान्ते तन्पमुपागते विगलिता नीवी स्वयं बन्धनात्
तद्वासः श्लथमेखलागुणधृतं किश्चिन्नितम्बे स्थितम्।
एतावत् सखि! वेद्मि साम्प्रतमहं तस्याङ्गसङ्गे पुन546
काऽस्मि रतं नु किं कथमिति स्वल्पाऽपि मे न स्मृतिः॥”

अथ गर्वः—

असूयादिप्रसूर्गव विद्यादिविहितोन्नतिः।

विद्या–बल–कुलैश्वर्य–वयो–रूप–धनादिभिः कृतोन्नतिः परावज्ञा547 गर्वः। स चासूयाऽमर्षोपहासाधिक्षेपादीनि प्रसुते548
यथा—

“धृतायुधो यावदहं549 तावदन्यैः किमायुधैः?।
यद्वा न सिद्धमस्त्रेण मम तत् केन सेत्स्यति?॥१९९॥

अथैतेषा550मुपसंहारमाह—

त्रयस्त्रिंशदमी भावा यथावदिह लक्षिताः॥५०॥

अमी कथितस्वरूपास्त्रयस्त्रिंशत्सङ्ख्या व्यभिचारिणो भावा यथावत्551पूर्वाचार्यानतिक्रमेणास्मिन् शास्त्रे लक्षिताः कृतलक्षणव्यक्तयः॥५०॥

अथ विभावानुभाव–व्यभिचारिणां रसस्य कार्य–कारणसहकारिभूतानां स्वरूपमभिधाय तस्यैव प्रक्रियाविशेषानाह–

भावोजन्मानुबन्धोऽथ निष्पत्तिः पुष्टि552–सङ्करौ।
ह्रासश्चेति बुधैः सप्त रसस्य प्रक्रियाः स्मृताः॥५१॥

इत्यमुना प्रकारेण रसस्य553 भावादिरूपतया सप्त प्रक्रियाः प्रपञ्चाः स्मृताः कथिता बुधैः पूर्वसूरिभिः। तत्र सात्त्विकाद्यनुभावान् विना कुतश्चिन्निमित्तमात्रात्554 लोचनव्यापारणादे रत्यादिभावानामुन्मीलनानुमानेऽपि परिस्फुटत्वाभावाद्भावरूपतामत्यजन्तो रसा एव भावा इत्यभिधीयन्ते। यथा555

“हरस्तु556 किञ्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
उमामुखे विम्बफलाधरोष्ठे व्यापारयामास विलोचनानि॥२००॥”

अत्र लोचनव्यापारेण गिरिशस्य रतिमात्रोन्मीलनानुमानेऽपि शृङ्गारस्य भावत्वमेव।

अथ जन्म—

रत्यादिभावानामेव सान्त्रिकाद्यनुभावैर्व्यभिचारिभिश्वाविर्भावमात्रेण रसस्य जन्मेत्युच्यते। यथा—

“अभूद् वरः कण्टकितप्रकोष्ठः स्विन्ना557ङ्गुलिः संववृते कुमारी।
अस्मिन् द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन॥२०१॥”

अत्र स्वेद–रोमोद्गमाभ्यां रत्याविर्भावेन रसस्य जन्म।

यथा वा—

“ततः सुनन्दावचनावसाने558 लज्जा मृदुकृत्य नरेन्द्रकन्या।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत् सा वरणस्रजेव॥२०२॥”

अत्र तु559 प्रसाददृष्टिप्रेषणेन।

यथा वा—

“तयोरपाङ्गप्रविचारितानि किञ्चिद्व्यवस्थापितसंहृतानि।
हीयन्त्र560णामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि॥२०३॥”

अत्र पुनर्व्रीडासमुल्लासेन।

अथानुबन्धः—

अनुभावादिना कचिदनेकेन क्काप्येकेन वा पुनःपुनरुत्पन्नेन561वा स्थायिनामनुगमनमनुबन्धः। तत्रानेकेन यथा—

“विवृण्वती शैलसुताऽपि भावमङ्गैः स्फुटद्वालकदम्बकल्पैः।
माचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन॥२०४॥”

अत्र पार्वत्या स्मरारौ पूर्वमुन्मीलिता, रति562ः पुलकावहित्थाम्यामनुबध्यमाना रसत्वाय कल्पते।

एकेनैव पुनःपुनरुत्पन्नेन यथा—

“यान्त्या मुहुर्वलितकन्धरमाननं त–
दावृत्तवृन्तशतपत्रनिभं वहन्त्या।

दिग्धोऽमृतेन च विषेण च पक्ष्मलक्ष्या563
गाढं निखात इव मे हृदये कटाक्षः॥२०५॥

अत्र मालत्या माधवं प्रत्युल्लसिता रतिः पुनःपुनरुत्पन्नेन वलितग्रीव–कटाक्षविक्षेपलक्षणेनानुभावेनानुवध्यमाना रसत्वमाश्रयति। माधवस्य तु मालतीं प्रति तदात्वोत्पन्ना रेतिः564। धृति–स्मृति–हर्षादिभिर्व्यभिचारिभिर्वचनरूपेणानुभावेन चानुवध्यमाना।

अथ निष्पत्तिः—

विभावादिसंयोगाद् रसस्य पर्याप्तता निष्पत्तिः। यथा—.

“तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि–
र्निक्षेप एव पदमुद्धृतमुद्वहन्ती।
मार्गाचलव्यतिकराकुलितेव सिन्धुः
शैलाधिराजतनया न ययौ न तस्थौ॥२०६॥

अत्र जन्मान्तर565संस्काराद् गिरिभुवः प्रतिकूलवर्त्तिन्यपि शूलिनि सर्वदाऽप्य566विच्छिन्ना रतिर्दुश्चरेणापि तपसा567 प्रार्थनीयस्य तस्याकस्मिकदर्शनेन सद्यःसञ्जातस्तम्भ–स्वेद–वेपथुभिर्धृतिहर्षावेगे–साध्वसादिभिश्च तत्रैव पदनिक्षेपलक्षणेन. शरीरानुभावेन च संसृज्यमाना रसत्वेन निष्पद्यते।

अथ पुष्टिः—

रसस्य प्रकर्षः पुष्टिः। यथा—

“पीनश्रोणि गभीरनाभि निभृतं मध्ये भृशोच्चस्तनं
पायाद् वः परिरब्धमब्धिदुहितुः कान्तेन कान्तं वपुः।
स्वावासानुपघातनिर्वृतमनास्तत्कालमीलदृशे
यस्मै सोऽच्युतनाभिपद्मवसतिर्वेधाः शिवं ध्यायति॥२०७॥

अत्र लक्ष्मीपतेर्लक्ष्मीं प्रति तैस्तैर्गुणैरुन्मीलितां तदवयवकामनीयकावलोको रतिमुद्दीपयन् ब्रह्मणः समक्षमप्यालिङ्गनलक्षणश्च शरीरानुभावो लज्जाप्र–

णाशलक्षणां प्रेम्णोऽष्टमीमवस्थां प्रकाशयन् रसं पुष्णाति। अत्र चानुक्ता अप्यन्येऽनुभाव–व्यभिचारिणः प्रतीयन्ते। श्रियोऽपि समग्रगुणाश्रये विष्णौ तथाभूतां तदभ्यधिकां वा रतिमुद्दीपयन् प्रियाऽऽलिङ्गन–नयननिमीलनाद्यनुभावाश्च परां रसपुष्टिं जनयन्ति।

अथ सङ्करः—

स्थायिनो भावस्य रसत्वं प्रतिपद्यमानस्य रसभावमाश्रयद्भिर्भावान्तरैः संसर्गः सङ्करः। यथा—

“राहोरचन्द्रकलामिवाननचरीं दैवात् समासाद्य मे
दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम्।
आतङ्काद् विकलं द्रुतं करुणया विक्षोभितं विस्मयात्
कोपेन ज्वलितं मुदा विकसितं चेतः कथं वर्त्तते?॥२०८॥”

अत्र माधवस्य मालत्यां पूर्वमुन्मीलिता रतिस्तद्दीनदशावि568लोकनादिभिरुद्दीपनविभावैरुद्दीप्यमाना मनो–वाग्–बुद्धि–शरीरानुभावैरलङ्कृता परां रसकाष्ठामारोहन्ती भय–शोक–विस्मय–क्रोध–हर्षेर्भावान्तरैः पृथक् पृथग् विभावानुभावव्यभिचारिसंयोगादुत्कर्षमाश्रयद्भिः सङ्कीर्य569माणा विशेषातिशायिनी प्रतीयते। अत्र च चेतसो वैकल्यादिविभावनं मनोऽनुभावः। वाक्योच्चारणं वागनुभावः। राहोरिवदस्योश्चन्द्रकलामिवप्रेयसीमित्यादिर्बुद्ध्यनुभावः। आच्छिन्दत इत्यादिः शरीरानुभावः।

अथ ह्रासः—

रसप्रकर्षस्यापगमो ह्रासः। यथा—

“कोपो यत्र भ्रकुटिघटना निग्रहो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं
त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः॥२०९॥”

अत्र योषिति रोषाख्यभावान्तरतिरस्कारात् पुरुषे चान्यानुरक्तत्वाद्570रतिप्रकर्षस्य ह्रासोऽवसीयते॥५१॥

अथालङ्कारकृतं रस्रोपकारमाह—

तत्परैर्नातिनिर्व्यूढैर्निर्वाहेऽप्यङ्गतां गतैः।
समये चादृतत्यक्तैरलङ्कारैः स चीयते॥५२॥

स इति रसोऽलङ्कारैरनुप्रासोपमाद्यैश्रीयते काममुपचेयं571 याति। कीदृशैस्तस्परैस्तत्परत्वेन रसोपकारकत्वेन निवेशितैर्न बाधकत्वेन नापि ताटस्थ्येन। यथा—

“चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकगतः।
करौ न्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तच्वान्वेषा572न्मधुकर! हतास्त्वं तु573 सुकृती॥२१०॥”

अत्र भ्रमरस्वभावोक्तिरलङ्कारो रसोपकारकत्वेन निबद्धो रसतत्परः।

बाधकत्वेन यथा—

“स्रस्तः स्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः
क्षीबाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ।
व्यस्तः574कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः
क्रीडन्त्याः पीडयेव स्तनभरविनमन्मध्यमङ्गानपेक्षम्॥२१९॥”

अत्र पीडयेवेत्युत्प्रेक्षाऽलङ्कारस्तदनुग्राहकश्चार्थश्लेषः करुणोचितान् विभावानुभावानाविष्कुर्वन् बाधकत्वेन भाति।

ताटस्थ्येन यथा—

“लीलावधूतपद्मा प्रथयन्ती पक्षपातमधिकं नः।
मानसमुपैति575 केयं चित्रगता राजहंसीव

२१२

अत्र फलकगतसागरिकाप्रतिबिम्बदर्शनाज्जाताभिलाषमात्रस्य वत्सराजस्य तथाविधसङ्गमेच्छाविरहात् तटस्थस्येवेयमुक्तिरिति576। श्लेषानुगृहीतोपमाप्राधान्येन प्रस्तुतो रसो गुणीकृतः।

तथा नातिनिर्व्यूढैर्नात्यन्तं निर्वाहं गतैर्यथा—

“कोपात् कोमललोलबाहुलतिकापाशेन बध्ध्वा दृढं
नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः।
भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नुतिपरः प्रेयान् रुदत्या हसन्॥२१३॥

अत्र रूपकमारब्धमप्यनिर्व्यूढं रसोपकाराय।

न त्वेवं यथा—

“स्वञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन।
उद्घाढ्यमे प्रविष्टा देहगृहं सा हृदयचौरी577॥२१४॥”

अत्र चौरी नैय578नद्वारमित्येतावदेव सुन्दरं न त्वपरं579 रूपणम्।

तथा निर्वाहेऽप्यङ्गतां गतैः अङ्गतां रसपोषकत्वं प्राप्तै580र्यथा—

“श्यामास्वङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातान्
गण्डच्छायां शशिनि शिखिनां बर्हभारेषु केशान्।
उत्पश्यामि प्रतनुषु नदीवीचिषु भूविलासान्
हन्तैकस्थं क्वचिदपि न ते भीरु! सादृश्यमस्ति॥२१५॥”

अत्र तद्भावाध्यारोपरूपनि581दर्शनानुप्राणकं सादृश्यं यथोपक्रान्तं तथा निर्वाहि582तमपि रसोपचयाय।

न त्वेवं यथा—

“न्यञ्चत्कुञ्चितमुत्सुकं हसितवत् साकूतमाकेकरं
व्यावृत्तं प्रसरत् प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम्।

उद्भ्रुभ्रान्तमपाङ्गवृत्ति विकचं मज्जत् तरङ्गोत्तरं
चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम्॥२१६॥

अत्र रावणनेत्रविंशतिस्वभावोक्तिर्निर्वाहिताऽपि रसाङ्गत्वेन न योजिता।

तथाऽङ्गत्वेऽपि समये काले आदृतैर्गृहीतैर्यथा—

“उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा–
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम्॥२१७॥”

अत्रोपमा583 तदनुग्राहकश्च श्लेप ईर्ष्याविप्रलम्भस्य भाविनश्वर्वणाभिमुख्यं कुर्वन्तौ समये रसस्यारम्भदशायां निबद्धत्वादुपकारिणौ।

आहतैरप्यवसरे त्यक्तैर्यथा584

“रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै-
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे585! मामपि।
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्व तुल्यमशोक ! केवलमहं धात्रा सशोकः कृतः॥२९८॥”

अत्र प्रबन्धप्रवृत्तोऽपि श्लेषानुगृहीतोपमालङ्कारो व्यतिरेकविवक्षया त्यज्यमानो रसोपकारी॥५२॥

अथ रसाभास586–भावाभासानाह—

आभासा रस—भावानामनौचित्यप्रवर्त्तनात्

रसानां587 भावानां चाऽऽभासा भवन्ति। कस्मादनौचित्येन प्रवर्तनात् परवनितादिष्वभिलापादिप्रवृत्तिरनौचित्यं तेन प्रवृत्तो रसो रसाभासो भावस्तु भावाभासः।

तत्र रसाभासो यथा—

*

“पुलयं जणंति दहकंवरस्स राहवसरा सरीरंमि।
जणयसुआ फंस महग्घस्यलाय अविमुका॥२१९॥”

भावाभासो यथा—

“निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी
कान्तिः प्राव (ग) रणं तनोर्मधुमुचो यस्याश्च चाचः किल।
विंशत्या रचिताञ्जलिः करतलस्त्वां याचते रामण–
स्वां द्रष्टुं जनकात्मजां हृदय हे। नेत्राणि मित्रीकुरु॥२२०॥”

अत्रौत्सुक्यम्।

अथ प्रकारान्तरेण तानेवाह—

आरोपात् तिर्यगायेषु वर्जितेष्विन्द्रियैरपि॥५३॥

तिर्यगादिष्विन्द्रियवर्जितेष्वपि च नायकत्वारोपात् रसाभास–भावाभासाः। तत्र तिर्यक्षु सम्भोगाभासो यथा—

मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्त्तमानः \।
शृङ्गेण संस्पर्शनिमीलिताक्षी मृगीमकण्ड्यत कृष्णसारः॥२२१॥

विप्रलम्भाभासो यथा—

* पुलकं जनयन्ति दशकन्धरस्य राघवशराः शरीरे।
जनकसुतास्पर्शमहार्घकरतलाकृष्टविमुक्ताः॥

“आपृष्टासि व्यथयति मनो दुर्बला वासरश्री–
रेह्यालिङ्ग क्षपय588 रजनीमेकिका चक्रवाकि!।
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा
दैवायत्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि॥२२२॥”

भावाभासो यथा—

“त्वत्कटाक्षावलीलीलां विलोक्य सहसा प्रिये!।
वनं प्रयात्यसौ व्रीडाजडदृष्टि589र्मृगीजनः॥२२३॥”

अत्र व्रीडा।

आदिशब्दान्निशा–शशिनोः सम्भोगाभासो यथा—

“अङ्गुलीभिरिव केशसञ्चयं सन्निगृह्य तिमिरं मरीचिभिः।
कुड्मलीकृत सरोजलोचनं चुम्बतीव रजनीमुखं शशी॥२२४॥”

दिवस–सन्ध्ययोर्विप्रलम्भाभासो यथा—

“अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः।
अहो! दैवगतिश्चित्रा तथापि न समागमः॥२२५॥”

हीनजातिषु मनुष्येष्वपि केऽपि रसाद्याभासं मन्यन्ते। यथा—

* “विक्किणह माहमासंमि पामरो बोरथं बइल्लेण।
निष्धूममुम्मुरे590 सामलीए591 थणए निअच्छंतो॥२२६॥”

अथेन्द्रिय वर्जितेषु सम्भोगाभासो यथा—

“पर्याप्तपु592ष्पस्तचकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः।
लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि॥२२७॥”

*विक्रीणाति माघमासे पामरो बदरं बलीवर्देन।
निर्धूममुर्मुरौ श्यामायाः स्तनौ पश्यन्॥

विप्रलम्भाभासो यथा—

“वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः
पाण्डुच्छायातटरुहतरुभ्रंशिभिः शीर्णपर्णैः593
सौभाग्यं ते सुभग! विरहावस्थया व्यञ्जयन्ती
काश्य येन त्यजति विधिना स त्वयैवोपपाद्यः॥२२८॥”

भावाभासो यथा—

“गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः।
अचलाधित्यकोत्सङ्गमिमाः समधिशेरते॥२२९॥”

अत्र ग्लानिः। इदं च तिर्यगादिगतमाभासत्वं शृङ्गार594विषयमेव, नान्य595रसविषयम्, ‘ग्रीवाभङ्गाभिरामम्’ इत्यादावप्याभासत्वप्रसङ्गात्॥५३॥

अथ व्यभिचारिभावानामवस्थाविशेषानाह—

स्थितिस्तथोदयः शान्तिः सन्धिः शबलता तथा।
इत्येताः सर्वभावानामवस्थाः पञ्च कीर्तिताः॥५४॥

इत्येताः स्थित्युदय –शान्ति–सन्धि–शबलता लक्षणाः सर्वव्यभिचारिभावानां पश्वसङ्ख्या दशाः सूरिभिः प्रकीर्तिताः।

तत्र स्थितिर्यथा—

‘तिष्ठेत् कोपवशात् प्रभावपिहित–’इत्यादि। अत्र वितर्कस्य।

उदयो यथा—

“एकस्मिन् शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यः कोपपराङ्मुखग्लपितया चाटूनि कुर्वन्नपि।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणात्
मा भूत् सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः॥२३०॥”

अत्रौत्सुक्यस्य।

शान्तिर्यथा—

“दृष्टे लोचनवन्मनाम् मुकुलितं पार्श्वे596 स्थिते वक्त्रवत्
न्यग्भूतं बहिराशितं पुलकवत् स्पर्श समातन्वति।
नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे ततो
मानेनापसृतं हियेव सुदृशः पादस्पृशि प्रेयसि॥२३१॥

अत्र ही–रोषयोः।

सन्धिर्यथा—

श्रुत्वा दाशरथी सुवेलकटके साटोपमर्दे धनु–
ष्टङ्कारैः परिपूरयन्ति ककुभः प्रोच्छन्ति597 कौक्षेयकान्।
अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस्तत् पुन–
र्वैदेहीकुचपत्रवल्लिरचना चातुर्यमद्धे कराः॥२३२॥

अत्रावेगावहित्थयोः।

शबलता यथा—

“क्वाकार्य शशल598क्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो ! कोपेऽपि कान्तं मुखम् \।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः! स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं599 धास्यति ?॥२३३॥”

अत्र वितर्कौत्सुक्य–मति–स्मरण–शङ्का–दैन्य–धृति–चिन्तानाम्॥५४॥

ननु सर्वत्र रसानामेव मुख्यत्वम्, तत् किं भाव–स्थित्यादयोऽत्र600 मुख्यत–याऽभिहिता इत्याह—

यद्यपि ध्रुवमेतेषां रसाङ्गत्वं तथापि ते।
स्पृशन्ति क्वचिदङ्गित्वमङ्गभावं रसाः पुनः॥५५॥

एतेषां भाव–स्थित्यादीनां यद्यपि ध्रुवं निश्चितं रसान् प्रत्यङ्गत्वमनुगामित्वं तथापि क्वचित् काव्यविशेषे ते कविव्यापारवशादङ्गित्वं प्रधानत्वं स्पृशन्ति, रसाः पुनरङ्गभावमप्रधानत्वम्। यथा601 हि विवाहप्रवृत्तः कश्चिदत्यन्तवल्लभो भृत्यः पृथ्वीपतिनाऽप्यनुगम्यते, तथैतेऽपि रसैरिति॥५५॥

पुनर्भावानां स्वरूपविशेषमाह—

रतिर्देवादिसङ्क्रान्ता व्यभिचारी तु सर्वतः।
युक्तावपि विभावाद्यैर्न भावत्वं602 विमुञ्चतः॥५६॥

देवादिषु देव–मुनि–माता–पितृ–नृप–पुत्रादिषु सङ्क्रान्ता रतिर्व्यभिचारी603 पुनः सर्वत्रापि स्वैः स्वैर्विभावादिभिर्व्यञ्जितावपि भावरूपतां न परित्यजतः।

तत्र देवविषया रतिर्यथा—

“उदञ्चन्तां वाचो मधुरिमधुरीणाः खलु न मे
604 चाप्युज्जृम्भन्तां नवभ्रणितयो भङ्गिसुभगाः।
क्षणं स्तोत्रव्याजादपि यदि भवन्तं हृदि नये
तदात्मा पावित्र्यं नियतमियतैवाञ्चति605 मम॥२३४॥”

मुनिविषया यथा—

“गृहाणि नाम तान्येव तपोराशिर्भवादृशः।
पवित्रयति यान्येवं पवित्रैः606 पादपांशुभिः॥२३५॥”

पुत्रविषया यथा—

“आलक्ष्यदन्तमुकुलाननबद्धहासानव्यक्तवर्णरमणीयवचःप्रवृत्तीन्।
अङ्कागतान् प्रणयिनस्तनयान् वहन्तो धन्यास्तदङ्गरजसा पुरुषीभवन्ति॥”

व्यभिचारी यथा—

“जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया
मा मां संस्पृश607पाणिनेति रुदती गन्तुं प्रवृत्ता ततः।

नो यावत् परिरभ्य चाटुकशतैराश्वासयामि प्रियां
भ्रात608स्तावदहंशठेन विधिना निद्रादरिद्रः कृतः॥२३७॥”

अत्र विधिं प्रत्यसूया। रतिरेव कान्ताविषयतां परित्यजन्ती कैश्चित् प्रीतिरित्युच्यते, कान्तासङ्क्रान्ता तु शृङ्गारः॥५६॥

अथ पूर्वोक्तमुपसंहरन् उत्तरभणितव्यमुपक्रमते—

इत्यलक्ष्यक्रमः प्रोक्तो लक्ष्यो लक्ष्यक्रमोऽधुना।
शब्दार्थोभयमूलत्वात् स च त्रैविध्यमक्षुते॥५७॥

इति प्रागभिहितप्रकारेणालक्ष्यक्रमो व्यङ्ग्योऽर्थः प्रतिपादितः। साम्प्रतं609 लक्ष्यक्रमो610 लक्ष्यो लक्षणीयः क्रमो व्यञ्जकव्यङ्ग्यस्वरूपो यस्य स तथा लक्ष्यो लक्षयितव्यः। स च लक्ष्यक्रमस्त्रैविध्यं त्रिविधत्वमंश्नुते व्याप्नोति। कस्मात्? शब्दार्थोभयमूलत्वात्611 शब्दशक्तिमूलत्वादर्थ612शक्तिमूलत्वादुभयशक्तिमूलत्वाच्च॥

तत्र शब्दार्थ613शक्तिमूलयोः स्वरूपमाह—

चतुर्द्धा शब्दवैचित्र्ये शब्दभूरुदितः पुरा।
अर्थमूले पुनर्व्यङ्ग्ये व्यञ्जकोऽर्थः स्मृतो द्विधा॥५८॥

स्वतःसिद्धः कविप्रौढिनिर्मितस्तावपि द्विधा।
वस्त्वलङ्काररूपत्वात्614 तदेष स्याच्चतुर्विधः॥५९॥

व्यनक्ति वस्त्वलङ्कारौ स च तेनायमष्टधा।

शब्दवैचित्र्ये शब्दवैचित्र्यकथनप्रस्तावे शब्दभूः शब्दशक्तिर्मूलो615 व्यङ्ग्योर्थश्चतुर्धाः616 चतुष्प्रकारः पुरा पूर्व प्रतिपादितः। सम्प्रत्यर्थशक्तिमूलो वाच्यस्तस्मिन् पुनरर्थशक्तिमूले व्यङ्ग्ये व्यञ्जकोऽर्थो द्विधा द्विविधः स्मृतः। स्वतः सिद्धः कविप्रौढिनिर्मितश्च। तत्र स्वतः सिद्धो न केवलं भणितिमात्रनिष्पन्नो

बहिरण्यौचित्येन सम्भाव्यमानः। कविप्रौढिनिर्मितस्तु617 कविना प्रतिभावैभवेन बहिरसन्नपि निर्मितः कविनिबद्धवक्त्र(क्तृ)प्रौढि618निर्मितस्तु कविप्रौढिनिर्मितान्नातिरिच्यत इति पृथग् नोक्तः। तावपि स्वतःसिद्ध–कविप्रौढिनिर्मितावपि द्विधा। कस्मात्? वस्त्वलङ्काररूपत्वात्। स्वतःसिद्धोऽपि वस्तुरूपोऽल619ङ्काररूपश्च। कविप्रौढिनिर्मितोऽप्येवमेव। तत् तस्मादेषोऽर्थशक्तिमूलश्चतुर्विधचतुष्प्रकारः। स च वस्तु वाऽलङ्कारं620 वा व्यनक्ति। तेनायमर्थशक्तिमूलो ध्वनिरष्टधा। स च पुरस्तादुदाहरिष्यते621॥५८-५९॥

अथोभयशक्तिमूलमाह—

एक एवो622भयोद्भूतस्तद्भेदास्तच्चतुर्दश॥६०॥623

उभयोद्भूतशब्दार्थरूपोभयशक्तिमूलः पुनरेक एव। अत्र हि वस्तुनाऽलङ्कार एव व्यज्यते, न वस्तुमात्रम्। तत् तस्मात् कारणात् तद्भेदास्तस्य व्यङ्ग्यार्थस्य भेदाः शब्दशक्तिमूलत्वादिसङ्कलने चतुर्दश॥६०॥

ननु रसादीनां624 भूरिभेदत्वे कथं चतुर्दशेत्याह—

एकैव हि रसादीनामगण्यत्वाद् भिदा भवेत्।

हि यस्मात् कारणाद् रसादीनां रस–भाव–तदाभासादीनामेकैव भिदा भवेदेक एव भेदः स्यात्। कस्मादगण्यत्वात्। तथाहि–नव रसाः। तत्र शृङ्गारस्य द्वौ भेदौ सम्भोगो विप्रलम्भश्च। सम्भोगस्यापि परस्परदर्शनालिङ्गन625–परिचुम्बनादयः कुसुमोच्चय्–जलकेलि–सूर्यास्तमय- चन्द्रोदय626–ऋतु-षट्क627वर्णनादयश्च भूयांसो भेदाः। विप्रलम्भस्यापि स्पृहाऽऽदयः प्रोक्ता एव। तयोरपि विभावानुभाव–व्यभिचारिवैचित्र्यम्। तत्रापि नायकयोरुत्तम–मध्यमाधमप्रकृतित्वम्628। तत्रापि देश–कालावस्थाभेद इत्येकस्यैव रसस्या-

गण्यत्वम्, का गणन त्वन्येषाम्?। अलक्ष्यक्रमत्वं तु सामान्यमाश्रित्य रसादिध्वनिरेकभेद एव गण्यते॥

अथास्य विषयविभागमाह—

वाक्य एवोभयोत्थः स्याद्

उभयशक्तिमूलो वाक्य एव स्यान्न पदादिषु। यथा—

“अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा।
तारकातरला629 श्यामा साऽऽनन्दं न करोति कम्?॥२३८॥”

अत्र चन्द्रः शशी स्वर्ण च। तारका नक्षत्रं कनीनिका च। तरला भासुरा चटुला च। श्यामा रात्रिः कामिनी च। इह चन्द्रादिशब्दाः परावृत्तिं न सहन्त इति शब्दशक्तेः प्राधान्यम्। समुद्दीपितमन्मथेति पदं तु सहते इत्यर्थशक्तेः प्राधान्यम् इत्युर्भय630शक्तिभूर्वनिता– रजन्योरुपमानोपमेयभावो व्यङ्ग्यः।

अन्ये तु पद–वाक्ययोः॥६१॥

अन्ये तु पुनस्त्रयोदश ध्वनयः पदे वाक्ये च सम्भवन्ति। तत्र शब्दशक्तिमूलश्चतुर्दश631भेदः पदे यथा—

यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा।
अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति॥२३९॥”

अत्र द्वितीयमित्रादिशब्दैरनुपयोगित्वाद् बाधितस्वार्थैराधाराधेयरूपे सम्बन्धे विश्वास्यतां नितरां यन्त्रणीयत्वं स्नेहपात्रतां च क्रमालक्षयद्भि सर्वरहस्य प्रकाशनस्थानत्वादि निरुच्छ्वासकरणादि सम्पत्सम्पादनादि च क्रमशो ध्वन्यते। अत्रार्थान्तरसङ्कान्तवाच्यः।

+ “गयणं च मत्तमेहं धारालुलिअञ्जणाइंअ वणाइं।
निरहंकारमिअंका हरंति नीलाओ अ निसाओ॥२४०॥”

___________________________________________________________

+ गगनं च मत्तमेघं धारालुलिताञ्जनानि च वनानि।
निरहङ्कारमृगाङ्का हरन्ति नीलाश्च निशाः॥

अत्र मत्त–निरहङ्कारशब्दौ मेघ–मृगाङ्कयोरसम्भवेन बाधितस्वार्थौस्वेच्छाव्यापारवत्त्वे व्यापाररहितत्वे च सादृश्ये सति मेघं मृगाङ्कं च लक्षयन्तौ प्रकर्षशालित्वं हतप्रकर्षत्वं च व्यञ्जयतः। अत्रात्यन्ततिरस्कृतवाच्यः।

“मुक्ति–भुक्तिकृदेकान्तसमादेशन तत्परः।
कस्य नानन्दनिस्यन्दं632 विदधाति सदागमः633?॥२४१॥

मुक्तिरुद्वेगव्यापारादपि। भुक्तिः कान्तोपभोगोऽपि। एकान्तः सङ्केतस्थान634मपि। सतः सुन्दरस्यागमनम्, शोभनागमश्च। काचित सङ्केतदायिनं प्रति ससिद्धान्तविषयमर्थमेवं मुख्यया वृत्या शंसतीति। तेन वस्तुना सदागमपदसहायेन सतः सुन्दरस्यागमनरूपं वस्तु प्रकाश्यते।

X “देव्वायत्तंमि फले किं कीरउ इत्तिअं पुण भणामि।
किंकिल्लिपल्लवा पल्लवाण अन्नाण635ण सरिच्छा॥२४२॥”

अत्र नञ् रूपनिपातपदप्रकाश्यो व्यतिरेकः।

असंलक्ष्यक्रमः पदे यथा—

“मुग्धे ! मुग्धतयैव नेतुमखिलः कालः किमारभ्यते?
मानं धत्स्व धृतिं वधान ऋजुतां दूरे कुरु प्रेयसि !।
सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति॥२४३॥”

अत्र भीताननपदेनभयस्याकृत्रिमत्वप्रकाशनान्नीचैः शंसनविधानस्य636 युक्तता गम्यते।

अथार्थशक्तिमूले ध्वनौ स्वतःसिद्धश्चतुर्विधः पदे यथा—

___________________________________________________________

x दैवायत्ते फले किं क्रियतामियत् पुनर्भणामि।
किङ्किल्लिपल्लवाः पल्लवानामन्येषा न सदृशा

*

तं ताण सिरिसहोअररयणाहरणंमि हिययमेकरसं।
बिंबाहरे पिआणं निवेसिअं कुसुमबाणेण637॥२४४॥”

अत्र कुसुमबाणेनेति पदवस्तुना कामस्य मृदूपायसौन्दर्यरूपं वस्तु व्यज्यते।

÷“धी (वी)राणं638 रमइ घुसिणारुणंमि न तहा पिआथणुच्छंगे639
दिट्ठी रिउगयकुंभत्थलंमि जह बहलसिंदूरे॥२४५॥”

अत्र धीराणमिति पदार्थरूपं वस्तु कुचयोः कुम्भस्थलस्य640 चोपमालङ्कारं ध्वनति।

+

“चूअंकुरा641वयंसं छणपसरमहग्घमणहरसुरामोअं642
अपणामिअं पि गहिअं कुसुमसरेण महुलच्छीए मुहं॥२४६॥”

अत्रापणामिअमसमर्पितमपीति विरोधालङ्कारेण ‘मधुमासप्रौढिम्नि भाविनि किं भविष्यति?’ इत्येवम्भूतं वस्तु द्योत्यते।

# “तुहवल्लहस्स गोसंमि आसि अहरो मिलाणकमलदलो।
इय643 नववहुआ सोऊण कुणइ वयणं महीसमुहं644॥२४७॥”

___________________________________________________________

*

तत् तेषां श्रीसहोदररत्नाभरणे हृदयमेकरसम्।
बिम्बाधरे प्रियाणा निवेशितं कुसुमबाणेन॥

÷ घी(वी)राणां रमते घुसणारुणे न तथा प्रियास्तनोत्सङ्गे।
दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे॥

+ चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदम्।
अर्पितमपि गृहीतं कुसुमशरेण मधुलक्ष्म्या मुखम्॥

#

तव वल्लभस्य प्रातरासीदधरो म्लानकमलदलः।
इति नववधूः श्रुत्वा करोति वदनं महीसम्मुखम्॥

अत्र म्लानकमलदलमिति रूपकेण म्लानत्वान्यथानुपपत्तेः ‘त्वयाऽस्य मुहुर्मुहुः परिचुम्बनं कृतम्’ इति काव्यलिङ्गं ध्वन्यते।

अथ कविप्रौढिनिर्मितश्चतुष्प्रकारः पदे यथा—

+ “राईसु चंदधवलासु ललिअमप्फालिऊण जो चावं।
एक्कच्छत्तं645 चिअकुणइ भ्रुवणरजं विअंभंतो॥२४८॥”

अत्र भुवनराज्यपदसहायेन वस्तुना ‘सर्वैरप्युपभोगरूपस्मरादेशपरैरेवनिशाऽतिवाह्यते’ इति वस्तु प्रकाश्यते।

* “सहि ! नवनिहुअणसमरंमि अंकपालीसहीइ निविडाए।
हारो निवारिउ च्चिअ646 उव्वरयंतो647 तदो कहं रमिअं?॥२४९॥”

अङ्कपाली आलिङ्गनं सैव सखी। निविडा घना, अन्तरङ्गा च। उव्वरयंतो द्वयोस्तृतीयतयाऽधिकीभवन्। अत्र वस्तुना हारच्छेदादन्यतरमन्यदेव रतमवश्यमभूत्। तत् कथय कीदृगिति व्यतिरेकः कथम्पदप्रकाश्यः648

÷“विहलं खलं649तुवं सहि ! दट्ठूण कुडेण तरलतरदिट्ठिं।
वारष्फंसमिसेणं अप्पा गुरुउ त्ति पाडिअ विभिन्नो॥२५०॥”

अत्र नदीकूले लतागहने कृतसङ्केतमप्राप्तं गृहप्रवेशे च तत्र गच्छन्तं दृष्ट्वा पुनर्नदीगमनाय द्वारघातव्याजेन त्वया घटः स्फोटित इति मया ज्ञातम्।

___________________________________________________________

+ रात्रिषु चन्द्रधवलासु कलितमास्फाल्ययश्चापम्।
एकच्छत्रमेव करोति भुवनराज्यं विजृम्भमाणः॥

* सखि ! नवनिधुवनसमरेऽङ्कपालीसख्या निविडया।
हारो निवारित एव, उद्वरन् ततः कथं रमितम् ?॥

÷ विह्न (फ) ला खलां त्वा सखि ! दृष्ट्वा कुटेन तरलतरदृष्टिम्।
द्वारस्पर्शमिषेण आत्मा गुरुक इति पातयित्वा विभिन्नः॥

तत् किमिति ताम्यसि? व्रज समीहितसिद्धये। अहं ते श्वश्रूपुरस्तात् सर्वं समर्थयिष्ये’ इति सखीवाक्यरूपं वस्तु द्वारस्पर्शव्या650जेनेत्यपह्नुत्या व्यज्यते।

* “सो सु(मु)द्धसामलंगो धम्मिल्लो कलिअललिअनिअ651देहो।
तीए खंधाउ बलं लहिअ सरो सुरयसंगरे जयइ॥२५१॥”

अत्र धम्मिल्लः स्मर इति रूपकेण मुहुराकर्षणे तथा केशपाशः स्कन्धयोः प्राप्तो यथा रतिविरतावप्यनिवृत्ताभिलाषः कामुकोऽभूदिति स्कन्धपदद्योत्या विशेषोक्तिः।

अथ वाक्यप्रकाशस्त्रयोदशभेदस्तत्र शब्दवैचित्र्यप्रस्तावे शब्दशक्तिमूलस्य चत्वारो भेदाः पूर्वस्मिन्नसंलक्ष्यक्रमः पुनरिहैव तरङ्गे प्रतिपादितः। साम्प्रतं त्वर्थशक्तिमूलोऽष्टप्रकारः कथ्यते। तत्र स्वतःसिद्धचतुर्भेदः क्रमाद् यथा—

» “अरससिरमणी धुत्ताण अग्गिमो पुत्ति ! धणसमिद्धिमओ।
इयभणिए तणुअंगी पप्फुल्लविलोअणा जाया॥२५२॥”

अत्र वस्तुना ममैव भोग्य इति652 वस्तु ध्वन्यते।

+ “सिहि653पिच्छकण्णऊरा जाया वाहस्स654नं गव्विरी भमइ।
मुत्ताहलरइ655अपसाहणाण मज्झे सवत्तीण॥२५३॥”

अत्र वस्तुना यदा भवतीष्वसक्तचेताः प्रेयानासीत् तदा तथाविधनिधु-

_________________________________________________________

* स शुद्ध (मुग्ध) श्यामाङ्गो घम्मिल्लः कलितललितनिनदेहः।
तस्याः स्कन्धाद् बलं लब्ध्वा स्मरः सुरतसङ्गरे जयति॥

» अरसशिरोमणिधूर्तानामग्रिमः पुत्रि ! धनसमृद्धिमयः।
इति भणिते तन्वङ्गीप्रफुल्ल्विलोचना जाता॥

+ शिखिपिच्छकर्णपूरा जाया व्याधस्य नु गर्विणी भ्रमति।
मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम्॥

वनव्यापाराभावाद् बलवान् करिविदारणसमर्थोऽभूत्, ततो भवत्यो मुक्ताफलभूषणाः, इदानीं तु मदेकानुरागी निरन्तररतिव्यापाराद् दुर्बलीभूतो मयूरानेव हन्तुमीश्वरस्ततो मयूरपिच्छाभरणैवाहमिति भवतीभ्यो ममैव सौभाग्यातिशय इति व्यतिरेकः प्रकाश्यते।

“दर्पान्धगन्धगजकु656म्भकपाटकूटसङ्क्रान्तनिघ्नघनशोणितशोणशोचिः।
वीरैर्व्यलोकियुधि कोषकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः॥”

अत्रोपमालङ्कारेण सकलरिषुबलक्षयःक्षणात् करिष्यत इति वस्तु व्यज्यते।

“गाढकान्तदशनक्षतव्यथासङ्कटादविधूजनस्य यः।
ओष्ठविद्रुमदलान्यमोचयन्निर्देशन्657 युधि रुषानिजाधरम्॥२५५॥”

अत्र विरोधालङ्कारेणाधरनिर्देशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता658 द्योत्यते।

अथ कविप्रौढिनिर्मितः—

“तापी नेयं नियत659मथवा तानि नैतानि नूनं
तीराण्यस्याः सविधविचलद्वीचिवाचालितानि।
अन्यो वाऽहं किमथ नहि660 तद् वारि वेल्लद्बलाकं
यत् तत् पल्लीपतिदुहितरि स्नातुमभ्यागतायाम्॥२५६॥”

अत्र वस्तुना स्पृहणीयजनकृतमेव भावानां सौन्दर्यं, न स्वत इति वस्तु प्रकाश्यते।

“लावण्य–कान्तिपरिपूरितदिङ्मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि!।
क्षोभं यदेति न मनागपि तेन मन्ये गुव्यक्तमेव जलराशिरयं पयोधिः॥”

अत्र वस्तुना मुख इत्यत्र मुखचन्द्रमसीति रूपकं ध्वन्यते।

* “गाढालिंगणरहसुज्ज661यंमि दइए लहु समोसरइ।
माणंसिणीण माणो पीलणभीउ व्व हिययाहिं662॥२५८॥”

___________________________________________________________

* गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति।
मनस्विनीना मानः पीडनभीत इव हृदयात्॥

अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि तत्र जृम्भत इति वस्तु द्योत्यते।

“स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान्।
योऽम्बु कुम्भैः परिच्छेदं कर्तु663 शक्तो महोदधेः॥२५९॥”

अत्र निदर्शनया हयग्रीवगुणानामव664र्णनीयताप्रतिपादनरूपोऽसाधारणत-द्विशेषप्रकाशनपर आक्षेपः प्रकाश्यते। दीपक–रूपकादिषु या काचिदुपमाद्यल-ङ्कारान्तरप्रतीतिस्तत्र न व्यङ्ग्यव्यवहारः कविव्यापारसंरम्भाभावात्665। यत्र हि कविर्विशेषतः संरभते666 तत्र व्यङ्ग्यव्यपदेशः। तत्कृतश्च काव्यचारिमा दीपकादिषु पुनरुपमादीन् प्रति न कविसंरम्भो न च तत्कृतश्चारिमा667, किन्तु दीपकादिकृत एव। यथा—

* “चंदम668ऊहेहिं निसा नलिणी कमलेहिं669 कुसुमगुच्छेहिं लया।
हंसेहिं सरयसोहा कव्वकहासज्जणोहिं670कीरइ गुरुई॥२६०॥

अत्र दीपकेनैव काव्यव्यवहारो नौपम्येन॥६१॥

अथार्थशक्तिमूलस्य रूपान्तर671माह—

पदे वाक्ये प्रबन्धे च भवत्यर्थोद्भवः पुनः।

अर्थोद्भवोऽर्थशक्तिमूलानुरणनरूपो ध्वनिः पदे वाक्ये प्रबन्धे च भवति672। तत्र पद–वाक्ययोः पूर्वमुदाहृत673 एव। प्रबन्धे यथा गृध्र–गोमायुसंवादादौ। तथा320 च—

“अलं स्थित्वा स्मशाने674ऽस्मिन् गृध्र–गोमायुसङ्कुले।
न चेह जीवितः कश्चित् कालधर्ममुपागतः॥२६१॥”

इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम्।

___________________________________________________________

* चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छैर्लता।
हंसैः शरच्छोभा काव्यकथा सज्जनैः क्रियते गुर्वी॥

“आदित्योऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम्।
बहुविघ्नो मुहूर्त्तोऽयं जीवेदपि कदाचन॥२६२॥”

अमुं कनकवर्णाभं बालमप्राप्तयौवनम्।
गृध्रवाक्यात् कथं बालास्त्यक्षध्व675मविशङ्किताः?॥२६३॥”

त्यक्षध्वमित्यार्षम्। इति निशि विजृम्भमाणस्य गोमायोर्जव्यावर्त्तननिष्ठं चेति प्रबन्धप्रतिपाद्येन676 वस्तुना गृध्र–गोमाय्वो677र्भक्षणाभिप्रायरूपं वस्तु व्यज्यते। एवमन्योदाहरणान्यपि ज्ञेयानि।

अथ678 रसादीनां व्यञ्जनास्पदान्याह—

रसादयः पदे वाक्ये प्रबन्धेऽन्तः679 पदस्य च॥६२॥
रचनासु680 च वर्णेष्वप्यभिव्यञ्जन681गोचरः।

रसादयो रस–भावादयः पदादिष्वभिव्यञ्जनस्य682 व्यजनव्यापारस्य गोचरो विषयो भवति। तत्र तेषां पद–वाक्यव्यङ्ग्यत्वं पूर्वमुदाहृतम्। प्रबन्धव्यङ्ग्यत्वं तु शकुन्तलादिप्रबन्धेषु683 ज्ञेयम्। पदान्तर्व्यङ्ग्यत्वे तु प्रकृतेर्व्यञ्जकत्वम्684। यथा—

“प्रेयान् सायमपाकृतः685 सशपथं पादानतः कान्तया
द्वित्राण्येव पदानि वासभवनाद् यावन्न यात्युन्मनाः।
तावत् प्रत्युत पाणिसम्पुट686लसभीवीनिबन्धं धृतो
धावित्वैव कृतप्रणामकमहो! प्रेम्णो विचित्रा गतिः!॥२६४॥”

अत्र पदानीति, न तु द्वारादीनि। एवं हि रसविशेषप्रतीतिर्न स्यात्।

प्रत्ययस्य यथा—

“लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः।

परित्यक्तं सर्व हसित–पठितं पञ्जरशुकै—
स्तवावस्था चेयं विसृज कठिने ! मानमधुना॥२६५॥”

अत्र न लिखतीति किन्तु लिखन् प्रसादपर्यन्तमास्ते। तथाऽऽस्त इति,न त्वासितः। भूमिमिति, न तु भूमौ। न हि बुद्धिपूर्वकं रूपकं किञ्चिल्लिखति, किन्तु चिन्ताशून्यतया निरभिप्रायं भूमिमेवोल्लिखतीति कर्मत्वेन प्रतीयते।

वचनस्य यथा—

*“ताण गुणग्गहणाणं ताणुक्कंठाण तस्स पेमस्स।
ताण भणियाण687 सुंदर ! एरिसयं जायमवसाणं॥२६६॥”

अत्र ‘ताण त्ति’तत्तद्भावगर्भितत्वेन मम प्रसिद्धानां गुणग्रहणानामु-त्कण्ठानां च बहुवचनेन688बहुत्वं ‘तस्स त्ति’तस्य वचनानभिधेयस्य प्रेम्णश्चैकवचनेनैकरूपत्वं रसप्रकर्षकारि द्योत्यते।

पूर्वनिपातस्य यथा—

“येषां दोर्बलमेव दुर्बलतया ते सम्मतास्तैरपि
प्रायः केवलनीतिरीतिशरणैः कार्यं किमुर्वीश्वरैः?।
ये क्ष्माशक्र ! पुनः पराक्रम–नयस्वीकारकान्तक्रमा–
स्ते स्युर्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम्॥२६७॥”

अत्र पराक्रमस्य प्राधान्यम्।

उपसर्गस्य यथा—

“परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते॥२६८॥”

__________________________________________________________

* तेषा गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्णः।
तेषा भणितानां सुन्दर ! ईदृशं जातमवसानम्॥

अत्र प्रशब्दस्य।

विभक्तिविशेषस्य यथा—

“प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम्।
दिवसेन तु नरप! भवानयुद्ध विधिसिद्धसाधुवादपदम्॥२६९॥”

अत्र दिवसमित्यनेन सर्व दिनमभिव्याप्य वैरिभिरयोधि, फलं तु न प्राप्तमिति। दिवसेनेत्यनेन च दिवसव्याप्तौ689 सत्यामपि “सिद्धौ तृतीया”[हैमश० २।२।४३] इति तृतीयाविधानात् फलसिद्धिर्गम्यते।

सर्वनाम–वचनादीनां यथा—

“रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा–
मस्मद्भाग्यविपर्ययाद् यदि परं देवो न जानाति तम्।
वन्दीवैष यशांसि गायति मरुद् यस्यैकबाणाहति–
श्रेणीभूतविशालतालचिवरोद्गीर्णैः690 स्वरैः सप्तभिः॥२७०॥”

अत्रासावित्येकः। भुवनेष्विति त्रिष्वपि जगत्सु। गुणैरित्यसङ्ख्यैर्न त्वेकेनेत्येकवचन– बहुवचनः। अस्मदिति सर्वेषामप्यस्मत्कुलोद्भवानां691 न तवैकस्य, न ममैकस्य। भाग्यविपर्ययादिति भाग्यानां विपर्ययात् क्षयहेतुत्वेनान्य692थाभावरूपान्न त्वभावमात्रात्। भाग्याभावे हि प्रभुत्वं न स्यात्, ननु प्रत्युत क्षयः स्यादिति सर्वनाम–प्रातिपदिकयोः693। एवमन्येषामपि बोद्धव्यम्। रचनावर्णाभि694व्यञ्जकत्वं गुणस्वरूपनिरूपणे695 वक्ष्यते।

अथ व्यङ्ग्यभेदानां सर्वसङ्ख्यामाह—

व्यङ्ग्यार्थस्य तदेकोनचत्वारिंशद् भिदाः स्मृताः॥६३॥

तत् तेन पूर्वोक्तप्रकारेण व्यङ्ग्यार्थस्यैकोनचत्वारिंशद् भिदा भेदाः स्मृता

कथिताः। तत्र शब्दशक्तिमूलस्य ध्वनेः पद–वाक्यव्यङ्ग्यत्वेनाष्टौ भेदाः। पद-वाक्य–प्रबन्धव्यङ्ग्यत्वेनार्थशक्तिमूलस्य चतुर्विंशतिः। पद–वाक्य–प्रबन्ध–पद-मध्य–रचना–वर्णव्यङ्ग्यत्वेन रसादीनां च षट्। एकश्चोभयोत्थस्य। तदेवमेकोनचत्वारिंशद् भेदाः॥६३॥

अथ696 व्यङ्ग्यभेदानां संसृष्टि–सङ्कराभ्यां परस्परसम्पर्के शुद्धभेदमीलने च सर्वसङ्ख्यामाह—

संसृष्टेरेकरूपायास्त्रिरूपात् सङ्करादपि।
सिद्धभिन्मीलनाच्च स्युस्ता विश्वार्क–रसौर्मिताः॥६४॥

व्यङ्ग्यभेदानां मिथो निरपेक्षाणामेकत्र काव्येऽवस्थानं697 संसृष्टिस्तस्याश्चैतदेवैकं रूपम्। सङ्करस्य तु त्रीणि रूपाणि संशयास्पदत्वमनुग्राह्यानुग्राहकत्वमेकव्यञ्जकानुप्रवेशश्चेति। तत्र संसृष्टेरेकैको भेद एकोनचत्वारिंशता भेदैः698 सह संयुज्यमानः प्रत्येकमेकोनचत्वारिंशतं भेदान् लभते। ततश्चैकोनचत्वारिंशदेकोनचत्वारिंशता गुणिता सत्येकविंशत्यधिक699 पश्चदशशतप्रमाणा जाता १५२१। एवं त्रिरूपात्सङ्करादपि भेदसंयोगे प्रतिरूपं तावत्येव भेदसङ्ख्या। ततश्च राशिचतुष्टयमीलने जातानि चतुरशीत्यधिकानि षट् सहस्राणि ६०८४। तेषु च शुद्धभेदानामेको-नचत्वारिंशतो मीलनात् ता व्यङ्ग्यभिदा विश्वार्क–रसैर्मितास्त्रयोविंशत्यधिकैक-षष्टिशतप्रमाणा ६१२३ जायन्ते। तत्र दिङ्मात्रमुदाहियते—

“स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना700
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे701
वैदेही तु702 कथं सहिष्यति703 हहा हा ! देवि ! धीरा भव॥२७१॥”

अत्र लिप्तेति पयोदसुहृदामिति चात्यन्ततिरस्कृतवाच्ययोः संसृष्टिः। तथाहि–लिप्त–सुहृत्शब्दाभ्यां कान्तेः कुङ्कुमादिवल्लेपसाधनत्वाभावात् मयूराणां विशिष्टचैतन्य704शून्यत्वेन मैत्रीभाजनत्वाभावाच्च बाधितस्वार्थाभ्यां स्वार्थ-

गतेषत्तिरोधीयमानत्वाद्705 रभसोन्मुखत्वरूपाच्च सादृश्याद् गगन–मयूराश्च लक्ष्यन्ते। अत्र च कुङ्कुमादिलिप्त706मुखादिसारूप्यद्वारेण रामणीयक–मदनोद्दीपकत्वादिस्तुल्योत्कर्षापकर्षाश्रयत्वादिश्च क्रमादतिशयौ व्यङ्ग्यावनयोश्च सादृश्यहेतुत्वेन वाच्यस्यानुपपद्यमानत्वादत्यन्ततिरस्कृतवाच्यत्वम्। ताभ्यां सह रामोऽस्मीत्यर्थान्तरसङ्क्रान्तवाच्यस्यानुग्राह्यानुग्राहकभावेन सङ्करः। तथा च रामशब्देन प्रतीतत्वाद् बाधितमुख्यार्थेनाधाराधेयरूपात् सम्बन्धाद् राज्यभ्रंश–प्रवासपितृमरण–सीताहरणादिदुःखपात्रत्वं लक्ष्यते। निःसामान्यनिर्वेदादिप्रकटनमतिशयो व्यङ्ग्यः। अयं चवाच्यस्य707 रामरूपस्य राज्यभ्रंशादिदुःखपात्ररूपे708ऽर्थान्तरे सङ्क्रान्तत्वादर्थान्तरसङ्कान्तवाच्य एव, न त्वत्यन्ततिरस्कृतवाच्यो मुख्यार्थ-स्यापि कथञ्चिदुपयुज्यमानत्वादिति। सोऽयमनुंग्राह्यः, पूर्वौ चानुग्राहकौ। तथा रामपदरूपैकव्यञ्जकव्यञ्जनीयत्वेनार्थान्तरसङ्क्रान्तवाच्यरस–ध्वन्योरेकव्यञ्जकत्वा709-नुप्रवेशरूपः सङ्करः। तथा—

+ “छणपाहुणिया710 देयर ! जायाए सुहय ! किं पि दे भणिआ।
रुयइ711 पडोहरवलहीहरंमि अणुणिज्जउवराई712॥२७२॥”

अत्र पंडोहरं गृहपश्चाद्भागस्तत्र वलंभी गोमयपिण्डंसमूहस्तदुपलक्षिते गृहे। अत्र च स्वभार्यया कोपितत्वादनुनये लब्धेऽनुनीयतामित्यस्यानुपयुज्यमानत्वाद् बाधितार्थेन कार्यकारणभावरूपे सम्बन्धे सत्यनुनयेनोपभोगरूपमर्थान्तरं लक्षयता तोषोत्पादनादिं व्यज्यत इत्यनुनयः। सुभगशब्देन दत्तवकाशे किमुपभोगरूपेऽर्थान्तरे सङ्क्रान्तः किं वाऽनुरणनंन्यायेनोपभोग एव व्यङ्ग्ये व्यञ्जक इति संशयास्पदत्वेन सङ्कर इति। नतु भोः ! क एष व्यञ्जनव्यापारो नाम? किं च तदवगम्यं व्यङ्ग्यं व्यङ्ग्यमिति कथ्यते, यदाकाशकुसुमप्रायं किञ्चिदङ्गीकृत्यं स्ववासनासम्भावितप्रमोदभरनिर्भरैरलीकविदग्धतामुकुलितलोचनैर्भवद्भिरुन्मत्तैरिव नित्यमेवं नृत्यते। यतः शब्दार्थशरीरे काव्ये केऽप्यनुप्रासादयः शब्द-

___________________________________________________________

+ क्षणप्राघूर्णिका देवर ! जायया सुभग !किमपि ते भणिता।
रोदिति गृहपश्चाद्भागवलभीगृहेऽनुनीयता वराकी॥

मलङ्कुर्वन्तः, केचिदुपमादयः पुनरर्थ माधुर्यादयश्च गुम्फधर्मा रसानुसारिणः। केचन तदात्मवृत्तयोऽप्युपनागरिकाद्याः काश्चित् प्रतीयन्ते। नान्यत् किमपि। तत् कोऽयं नूतनः713काव्यप्रभेदो ध्वनिर्नाम? न ह्यस्य क्षोदक्षमं किमपि स्वरूपमुपलभामहे यदुक्तं केनचित्—

“यस्मिन्नस्ति न वस्तु किञ्चन मनःप्रह्लादि सालङ्कृति
व्युत्पन्नै रचितं च यन्न वचनैर्वक्रोक्तिशून्यं च यत्।
काव्यं तद् ध्वनिना समन्वितमिति प्रीत्या प्रशंसन् जडो
नो विद्मोऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः॥२७३॥”

पूर्वाचार्यप्रसिद्धप्रस्थानव्यतिरेकिणश्च काव्यप्रकारस्य काव्यत्व714मपि हीयेत715। भूयांसश्च भणितिप्रकाराः कवीनां कविताकामनीयत्वहेतवः716 सम्भवन्ति। तेषां च कियतामपि पूर्वाचार्यैः कृतान्येव लक्षणानि, न सर्वेषामानन्त्यात्। ‘सचेतनचमत्कारि काव्यम्’इत्यस्मिन् काव्यलक्षणे तेषामप्यन्तर्भावात्। ततो यदि कश्चिदयमपि प्रकारलेशः सम्भवति। सोऽपि717 तत्रैवान्तर्भविष्यति तल्लक्षणक्रोडीकृतत्वादिति। तस्य ध्वनिरिति पृथग्नामधेयकरणमुपपन्नमेवेति718। ‘न किञ्चिदभिधोपचारख्यापाराभ्यामतिरिक्तं व्यञ्जनव्यापारं तदवसेयं च व्यङ्ग्यमपि न किञ्चन मन्यामहे’ इति यदुक्तं कैश्चिद् देवानांप्रियैस्तदविचारितवचनमेवः यस्मात्सकलकालिदासप्रभृतिमहाकविकाव्येषु सहृदयहृदयसंवेद्यं परिस्फुरत्येव वाच्याद719र्थादधिकं किमप्यर्थान्तरं तच्च वस्त्वलङ्कार–रसरूपत्वात् त्रिविधमपि तावन्नाभिधाव्यापारप्रकाश्यं वाच्यादर्थादत्यन्तभिन्न720त्वात्। तथाहि–क्वचिद् वाच्ये विधि-रूपे प्रतिषेधरूपं वस्तु प्रतीयते। यथा— ‘मम721 धम्मिय722! वसिद्धो’ इत्यादि गाथा। अत्र विश्रब्धो भ्रमेति विधिवाक्ये, तत्र निकुञ्जे सिंहस्तिष्ठति, त्वं च शुनोऽपि विभेषि, तस्मात् त्वया तस्मिन्न गन्तव्यमिति निषेधः प्रतीयते। क्वचिन्निषेधे विधिरूपं यथा—‘अत्ता723 इत्थ णुमज्जइ724’ इत्यादि गाथा। अत्र ‘मा725 पहि’इत्यादि निषेधे वाच्ये इमां श्वश्रूशय्यां परित्यज्य रात्रौ त्वया

मच्छय्यायामागन्तव्यमिति विधिः प्रतीयते।

क्वचिद् विधौ विध्यन्तररूपं यथा—

× “बहलतमा हयराई अज्ज पउत्थो पई घरं सुन्नं।
तह जग्गिज्ज सयज्ज य न जहा अम्हें726 मुसिजामो॥२७४॥”

अत्र जागृहीति विध्यभिधाने त्यया निःशङ्केनात्रागन्तव्यमिति विध्यन्तरं प्रतीयते।

क्वचिन्निषेधे निषेधान्तररूपं यथा—

* “आसाइअं727 अणाएग जितिअं तित्तिएण बंध दिहिं।
ओरमसु वसह ! इह रक्खिज्जइ गहवई728 छित्तं॥ २७५॥”

अत्रोपरमेति वृषभनिषेधे वाच्ये उपपतिनिवारणं निषेधान्तरं प्रतीयते।

क्वचिद् विधावनुभयरूपं यथा—

+ “सणिअं वच्च729किसोअरि ! पए पयत्तेण ठवसु महिवट्टे।
भजिहिसि730 वित्थयत्थाणे731 विहिणा दुक्खेण निम्मविआ॥२७६॥”

अत्र शनैर्व्रजेति विध्यभिधाने न विधिर्नापि निषेधोऽपि तु वर्णनामात्रं प्रतीयते।

क्वचित् निषेधेऽनुभयरूपं यथा—

___________________________________________________________

x बहलतमा हतरात्रिरद्यप्रोषितः पतिर्गृहं शून्यम्।
तथा जागृहि स्वपीहि च न यथा वयं मुष्यामहे॥।

* आस्वादितमज्ञातेन यावत् तावता बधान धृतिम्।
उपरम वृषभ ! इदानीं रक्ष्यते गृहपतिना क्षेत्रम्॥

+ शनैर्व्रज कृशोदरि ! पदौ प्रयत्नेन स्थापय महीपृष्ठे।
भङ्क्ष्यसि विस्तृतस्थानान् विधिना दुःखेन निर्मितान्॥

X “दे आ732पसिअ निअतसु733मुहससिजुण्हाविलुत्ततमनिवहे !।
अहिसारिआण734 विग्धं करेसि अन्नाण वि हयासे !॥२७७॥”

अत्र निवर्तस्वेति निषेधाभिधाने735 न निषेधो नापि विधिरपि तु मुखेन्दुकान्तिवर्णनामात्रं प्रतीयते।

क्वचित् संशये निश्चयरूपं यथा—

“मात्सर्यमुत्सार्य विचार्य कार्यमार्याः ! समर्यादमुदा736हरन्तु।
सेव्या नितम्बाः किमु भूधराणां किमु स्मरस्मेरविलासिनीनाम्?॥२७८॥”

अत्र शान्त–शृङ्गार्यन्यतरवक्तृविशेषन्निश्चयो737गम्यते।

क्वचिनिन्दायां स्तुतिरूपं यथा—

“सर्वदा सर्वोऽसीति मिथ्या संस्तूयंसे बुधैः।
नारयो लेभिरे पृष्टं न वक्षः परयोषितः॥२७९॥”

अत्र त्वं सङ्ग्रामेषु न कदाचित् पराङ्मुखो भुर्न च परस्त्रीर्मनसाऽपि जातुचित् कामयस इति स्तुतिर्गम्या। इत्यादौ विधि–निषेधाद्यात्मतया स्वरूपस्य पूर्व–पश्चाद्भावेन प्रतीतेः कालस्य प्रत्यर्थिजयाय प्रस्थातुकामो देव इत्यादौवाच्योऽर्थः सर्वान् प्रत्येकरूप एव, व्यङ्ग्यस्तु दन्तिनः साङ्ग्रामिकं कर्म ग्राह्यन्तामिति, सांन्नाह्या वीथीषु सञ्चार्यन्तामश्वा इति, वृषभां दम्यन्तामिति, पटकुट्यः प्रगुणीक्रियन्तामिति, स्वस्वस्वामिनां विज्ञाप्यन्तामिति, शुद्धान्तानि संवाह्यन्तामिति, वारविलासिन्यः सज्जीक्रियन्तामिति, क्रयाणकानि सङ्गृह्यन्तामिति, शकटानि समारच्यन्तामित्यादिरनेकविध इति सङ्ख्यायाः।

“कस्स व न होइ रोसो दट्ठूण पियाइ738 सव्वणं अहरं।
सभमरपउमग्याइरि739 ! वारिअवामे740 ! सहसु इण्हिं॥२८०॥”

____________________________________________________________

X प्रार्थये तावत् प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे !।
अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे !॥

* कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमघरम्।
सभ्रमरपद्मघ्राणशीले ! वारितवामे ! सह (शोभ) स्वेदानीम्॥

अत्र वाच्योऽर्थः सखीं प्रत्येव। व्यङ्ग्यस्तु अद्य मया समर्थितं पुनः शङ्काः स्थानं त्वया रक्षणीयमिति। अयं किमपि वदति, त्वं तु कुप्यसि, पश्चात्पादपतनेन प्रसाद्यसे। ततः ‘सहसु’शोभस्वेति च तामेव प्रति। निरपराधैवेयमिति कान्तं प्रति। अनया विना त्वं न भवसि, ततोऽपराधेऽपि मा स्माधिकं किमपि कार्षीरिति वैदग्ध्ये सति तमेव प्रति। भवताऽपि प्रकटाङ्गेषु नख–दन्तक्षतादिकं न कार्यमित्युपपतिं प्रति। प्रियाया एव व्यलीके रोषो भवति;अप्रिया-यास्तु परित्यागवासनया प्रीतिरेव स्यादिति। मा भूद्741 युष्माकं मनसि तोष इति सपत्नीः प्रति। अस्याः साधु मयाऽपराधो गोपित इति तटस्थां विदग्धसखीं प्रति वेति विषयस्यापि भेदेन भिन्नमेव वाच्याद् व्यङ्ग्यं वस्तु। तदेवमपि यदि तयोरैक्यं तदा नीलानीलादौ क्वचिदपि भेदो न स्यात्। उक्तं हि–‘अयमेव हि भेदो742 भेदहेतुर्वा यद् विरुद्धधर्माध्यासः कारणभेद्रश्चेति।’ यदप्यभिधीयते–‘यत्परः शब्दः स शब्दार्थस्तथाहि–‘यथा समरसीम्नि कार्मुक743निर्मुक्तपत्री तनुत्राणं भित्वा सुमटलक्षणं744 लक्ष्यं भिनत्ति, तदर्थमेव तस्य मुक्तत्वात् तथा शब्दोऽपि मुख्यमर्थमभिधाय तदर्थान्तर745मभिधास्यति, तदर्थमेव तस्य प्रयुक्तत्वादिति। तदतीव तात्पर्योक्तिपर्यालोचनशून्यमभिहितं यतः सिद्धसाध्यसमुच्चारणे सिद्धं साध्यायोपदिश्यत इति पदसमुदायमये वाक्ये कारकपदार्थाः क्रियापदार्थाश्च परस्परान्विता यावदसिद्धं भवति तावदर्थं प्रवर्तन्ते। यथा–‘लोहितोष्णीषा ऋत्विजः प्रचरन्तु’ इत्यत्र ऋत्विक्प्रचरणे प्रमाणान्तरसिद्धे लोहितोष्णषित्वमात्रं विधेयम्, तस्यैवासिद्धत्वात्। दुघ्ना जुहोतीत्यादौ च हवनस्यान्यतः सिद्धेध्यादेः करणत्वमात्रं विधेयम्। तत्र हि तस्यैवासिद्धत्वम्। एवं क्वचिदुभर्यविधिः746, क्वचित् त्रिविधिरपि। यथा–‘रक्तं पटं वय’ इत्यादावेकविधिर्द्विविधिस्त्रिविधि-र्वा। ततश्च यदेव747 विधेयम्, तत्रैव पदानां तात्पर्यमिति प्रयुक्तशब्दार्थ एव तात्पर्यं न प्रतीयमानमात्रे। एवं हि पूर्वो विद्वानित्यादावपरार्थेऽपि748 तात्पर्यं स्यात्। यदि च शब्दश्रुतेरनन्तरं यावाऩर्थः749 प्रतीयते, तावन्तं सर्वमप्यभिधा-व्यापारेणैव शब्दोवक्ति, तत् कथं प्रियाप्रियवाक्यश्रवणादुत्तरकालं हर्षशोकयोरपि न वाच्यत्वम्। कस्माच्च लक्षणालक्षणीयस्याप्यर्थस्याभिधाव्यापारे-

णैव प्रतीतिसिद्धेरिति750 सिद्धं शब्दार्थव्य751तिरेकिणः प्रतीयमानस्य वस्तुनोऽभिधातो व्यापारान्तरगम्यत्वम्।

“भद्रात्मनो दुरधिरोहतनोर्विशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य।
यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत्॥”

इत्यादौत्वनेकार्थानां शब्दानां प्रकरणादिना नियमितेऽभिधाव्यापारे या काचित्752 कुञ्जरादेरर्थान्तरस्य तेन सार्द्धमुपमाऽऽ753देरलङ्कारस्य754च प्रतीतिः सा सर्वाऽपि व्यापारान्तरविषयाऽभिधाया नियमितत्वात्। रसादयस्तु यदि कथमपि वाच्याः स्युस्तद्विभावादिप्रयोगं विनाऽपि रसादिशब्दैः शृङ्गारादिशब्दैर्वा प्रतिपाद्येरन्, न च प्रतिपाद्यन्ते। तत्प्रयोगेऽपि रसादीनामप्रतीतेर्विभावादिप्रयोगे तु तान् विनाऽपि प्रतीतेश्चेत्यन्वय–व्यतिरेकाभ्यां विभावादिविभान्या एव रसादयोऽपि नाभिधेया इति। अथेत्थमभिधास्यते यदुपचारव्यापारेणैव तत्सर्वमपि प्रकाशयिष्यते, किं व्यञ्जनव्यापारेणेति तदप्यश्वारूढोऽश्वमेव न पश्यतीति दृष्टान्तकवलितमेव विना व्यञ्जनव्यापारमुपचारस्याप्यभावात्। गङ्गायां घोष इत्यादौ हि तटादि लक्ष्यं पावित्र्यादयस्तु व्यञ्जनीया एवेति पूर्वप्रतिपादितमेव। अथ ‘तेऽपि लक्षणाक्रोडीकृताः सन्तु755’इति मतम्, तदपि प्राक्प्रत्यादिष्टमेव अथ यद्येवमप्यभ्युपगम्यते, तथापि क्वचिदपि नोपचारप्रवेशः। तस्य756हि मुख्यार्थबाधादित्रयं हेतुस्तच्च व्यङ्ग्ये न सम्भवति। यद्यपि क्वचिद् ‘मम धम्मिय757’ इत्यादौ विध्यादेरनुपपद्यमानत्वेन मुख्यार्थबाधो वैपरीत्यं च प्रत्यासत्तिर्निषेधश्च लक्ष्यः स्वच्छन्दक्रीडा च फल सम्भवति, तथापि न सर्वत्र निर्वाहः। यतः–‘अत्ता इत्थ’ इत्यादौ मुख्यार्थबाधो नास्ति। तत् कथमुपचारेणापि साध्यसिद्धि?। किं च लक्षणीयोऽर्थो नियतप्रत्यासत्तिरेव, प्रत्यासत्तिशून्यस्य लक्षयितुमशक्यत्वात्758। प्रतीयमानः पुनः प्रकरणादिविशेषवशेन नियतप्रत्यासत्तिरनियतप्रत्यासत्तिः प्रत्यासन्नप्रत्यासन्नश्चेति। तत्र ‘अत्ता इत्थ’ इत्यादौ नियतप्रत्यासत्तिः। ‘कस्स व न होइ रोसो’इत्यादावनियतप्रत्यासत्तिः।

*“विवरीयरए759 लच्छी बंभं दट्ठूण नाहिकमलत्थं।
हरिणो दाहिणनयणं रसाउला झत्ति ढक्केइ॥२८२॥”

इत्यादौ प्रत्यासन्नप्रत्यासन्नः। अत्र760हि हरिपदेन दक्षिणनयनस्य सूर्यात्मता व्यज्यते, तन्निमीलनेन सूर्यास्तमयस्तेन पद्मसङ्कोचस्ततो ब्रह्मणः स्थगनं तत्र सति गोप्याङ्गस्यादर्शनेनानियन्त्रणं निधुवनमित्यभिधोपचाररूपव्यापारद्वयातिरिक्तो761 व्यञ्जनव्यापारोऽवश्यमेषितव्यस्तत्प्रकाश्यं च व्यङ्ग्यमपि मन्तव्यमेवेति। व्यक्तिविवेककारस्तु व्यङ्ग्य–व्यञ्जकभावस्य सर्वस्याप्यनुमाना762न्तर्भावमाह। तथाहि– वाच्याद्यसम्बद्धं तावत् किञ्चिदपि न प्रतीयते। यतः कुतश्चिद् यस्य कस्यचिदर्थस्य प्रतीतिप्रसङ्गात्। सम्बन्धे च नियतधर्मनिष्ठत्वेन763‘त्रिरूपाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानम्’इत्येवंरूपता पर्यवस्यति। तथा च– ‘भम

धम्मिय’इत्यत्र गृहे श्वनिवृत्या भ्रमणं विहितम्। गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति। तद्यथा–धार्मिकभ्रमणं भयकारणनिवृत्त्युपलब्धिपूर्वकम्, भीरुभ्रमणत्वात्। यद् यद् भीरुभ्रमणं तत् तद् भयकारणनिवृत्त्युपलब्धिपूर्वकं दृष्टम्। यथोभयसंमतस्त्र्यादिभ्रमणम्, भीरुभ्रमणं चेदं तस्मात् तथा। गोदावरीतीरे च सिंहोपलब्ध्या व्यापकविरुद्धोपलब्धिर्व्यापकं च भयकारणेत्यादि साध्यम्। यदाहुः–‘साध्यं व्यापकमित्याहुर्व्याप्यो हेतुरुदाहृतः।’ इति। तद्विरुद्धा च भयकारणसद्भावोपलब्धिस्तया धार्मिकाभ्रमणं सिद्धमिति। तदप्ययुक्तमेव764, वाच्यस्य प्रतीयमानेन765 तादात्म्यतदुत्पत्यभावात्। तथाहि– गोदावरीतीरे सिंहसद्भावः। प्रत्यक्षादनुमानाद् वा न निश्चितोऽपि766 तु वचनात्,न767च वचनस्य प्रामाण्यमस्ति, अर्थेनाप्रतिबन्धादित्यसिद्धोऽयं हेतुः। शुनो विभ्यदपि धीरत्वेन सिंहान्न बिभेतीति768 विरुद्धोऽपि। भीरुरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेणान्येन वा केनाप्येवम्भूतेन हेतुना सत्यपि भयकारणे भ्रमतीत्यनैकान्तिकश्च। तत् कथमेवंविधाद् हेतोः साध्यसिद्धिरित्याद्यन्यत्राप्यूह्यमिति॥६३॥

_________________________________________________________________

*विपरीतरते लक्ष्मीर्ब्रह्माणं दृष्ट्वा नाभिकमलस्थम्।
हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति॥

अथ ध्वनौ निर्णीते रसादिध्वनेः कैश्चिद् रसवदाद्य769लङ्कारत्वमुक्तं तन्निराकर्तुं श्लोकद्वयमाह–

शब्दार्थसौन्दर्यतनोः काव्यस्यात्मा ध्वनिर्मतः।
तेनालङ्कार्य एवायं नालङ्कारत्वमर्हति॥६४॥
स्वस्याङ्गित्वे रसाद्याः स्युर्न तद् रसवदादयः।
यत्रैते तु गुणीभूतास्तत्र तानपि मन्महे॥६५॥

काव्यस्य निपुणकविकर्मणो ध्वनिरात्मा जीवितव्यं मतः कथितः।यदुक्तम्– ‘काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वः’इति। कीदृशस्य काव्यस्य? शब्दार्थसौन्दर्यतनोः शब्दार्थयोर्यत् सौन्दर्यं रामणीयकं तदेव तनुः शरीरं यस्येति। यथा शरीरमात्मानं विना770 न किञ्चिदिव, तथा शब्दार्थसौन्दर्यमयमपि काव्यमकिञ्चित्करमेव ध्वनिं विना। तेनावसीयते771ध्वनिरेवात्मा काव्यस्येति। तेन कारणेनायं ध्वनिरलङ्कार्य एव, न क्वचिदप्यलङ्कारत्वमर्हति सर्वत्राप्यात्म772नोऽलकार्यत्वात्। तद् ततः पूर्वोक्तकारणात् स्वस्याङ्गित्वे प्राधान्ये सति रसादयो रसवदादयोऽलङ्कारा ये कैश्चिदुक्तास्ते न भवन्ति, रसादीनां ध्वनिरूपत्वात्। तत् किं सर्वत्राप्येतेषां नालङ्कारत्वमित्यपवादमाह–यत्र यस्मिन्नेते रसादयः पुनर्गुणीभूता अपराङ्गत्वेन गौणतां प्राप्तास्तत्र तस्मिन् काव्ये तानपि रसवदाद्यलङ्कारानपि मन्यामहे। तत्स्वरूपं चालङ्कारप्रस्तावे वक्ष्यते773॥६४-६५॥

इत्यर्थवैचित्र्यपवित्रवाचो न कस्य चेतः कवयो हरन्ति?।
उद्यानदेशा मधुमासबद्धसमृद्धयो774 विश्वमुदे भवन्ति॥६६॥

इत्यलङ्कारमहोदधौ775 ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः॥३॥

<MISSING_FIG href=”../books_images/U-IMG-1731421282Screenshot2024-11-12194616.jpg”/>

अथ चतुर्थस्तरङ्गः।

<MISSING_FIG href=”../books_images/U-IMG-1732626371Screenshot2024-11-26183523.jpg”/>

अथ ध्वनिगतम776र्थवैचित्र्यमभिधाय गुणीभूतव्यङ्ग्यगतमाह–

अगूढत्वास्फुटत्वाभ्यामसुन्दरतया तथा।777
सिद्ध्यङ्गत्वेन वाच्यस्य काक्वाक्षिप्ततयाऽपि च॥१॥

सन्दिग्धतुल्यप्राधान्यतयाऽन्याङ्गतयाऽपि च।
गुणीभूतमपि व्यङ्गयं यत् किञ्चिच्चारिमास्पदम्॥२॥

याति च ध्वनिवद् भेदमीलनाद् भूरिभेदताम्।
तदप्यर्थस्य वैचित्र्यं किमप्यत्र प्रचक्षते778॥३॥779

अत्रास्मिन्नलङ्कारशास्त्रे तदप्यर्थस्या780भिधेयस्य किमप्यद्भुतं वैचित्र्यं विचित्रतां प्रचक्षते कथयन्ति। यत् किञ्चिद् गुणीभूतमप्यगूढत्वास्फुटत्वाभ्यामित्यादिहेतुभिर्गौणभावं प्राप्तमपि व्यङ्गयं चारिमास्पदं मनोज्ञतामन्दिरम्। तथाऽष्टानामपि गुणीभूतव्यङ्ग्यभेदानां प्रत्येकमर्थान्तरसङ्क्रान्तवाच्यादयः शुद्धा एकोनचत्वारिंशद् भेदाः। तेषां च संसृष्टि-सङ्करैमीलनं तस्मिंश्चशुद्धभेदप्रक्षेप इति सर्वभेदमीलनाद् ध्वनिरिव भूरिभेदताम781नेकभेदत्वं याति गच्छतीति। अत्र ध्वनिकारसम्प्रदायाद् यत्र वस्तुनाऽलङ्कृतिर्व्यज्यते782, तस्याः क्वापि न गुणीभूतत्वम्। यदाह–

**“व्यज्यन्ते वस्तुमात्रेण यदाऽलङ्कृतयस्तदा।
ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात्॥२८३॥”**इति।

अत्र ध्वन्यङ्गता ध्वनिरूपता।

तत्रागूढत्वेन783 गुणीभूतत्वं यथा–

“श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम्।
उपदिशति कामिनीनां यौवनमद एव ललितानि॥२८४॥”

अत्रोपदेशेन कलाचार्यकार्यत्वाभावाद् बाधितस्वार्थेन ज्ञापकत्वसादृश्याद् यौवनमदं लक्षयताऽनायासेन शिक्षादानं784 ध्वन्यते। तच्चोपदिशतीत्युक्तेऽभिधेयवत् झगित्यवगमकत्वाद785गूढं व्यङ्गयं च गूढं चमत्करोति नागूढम्। यदुक्तम्–

“अनुद्घुष्टः शब्दैरथ च घटनातः स्फुटतरः
पदानामर्थात्मा रमयति न तूत्तानितरसः।
यथा दृश्यः किञ्चित् पवनचलवीनांशुकतया
कुचाभोगः स्त्रीणां हरति न तथोन्मुद्रितमुखः॥२८५॥”

अस्फुटत्वेन यथा–

*“अहयंउज्जुअरूआ786 तस्स वि उम्मंथराइंपिम्माइं।
सहिआअणो अ निउणो अलाहि किं पायराएण?॥२८६॥”

अत्र स मां787 पुरुषायिताया788र्थयते, निषेद्धुं चाहमशक्ता। तत्सख्यः प्रातः पादमुद्रया789तर्कयित्वा मा मां हसिषुरिति व्यङ्ग्यमस्फुटम्।

असुन्दरतया यथा–

“ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम्।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया॥२८७॥”

अत्र वञ्जुललतागृहे दत्तसङ्केता नागतेति व्यङ्ग्यं स्वरूपमात्रप्रकाशनपरत्वेन चमत्कारित्वाभावादसुन्दरम्। मुखच्छायामालिन्यरूपं तु790 वाच्यं रसविशेषप्रतीति—

————————————————————————————————————

*अहं ऋजुकरूपा तस्यापि उन्मन्थराणि प्रेमाणि।
सखिकाजनश्च निपुणोऽलं किं पादरागेण ?॥

परत्वाच्चमत्कारित्वेन कमनीयमिति व्यङ्ग्यात् तदेव सुन्दरम्।

वाच्यसिद्ध्यङ्गत्वेन यथा—

“भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छा तमः शरीरसादम्।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्791॥२८८॥”

अत्र हालाहलं व्यङ्ग्यंभुजगरूपणस्य792 वाच्यस्य सिद्धिकृत्।

काक्वाक्षिप्ततया यथा—

“मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य793 रुधिरं न पिबाम्युरस्तः।
सञ्चूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन॥”

अत्र794काक्वाक्षिप्तं मथ्नाम्येवेत्यादि व्यङ्गयं वाच्यस्य निषेधस्यापि स्वातन्त्र्येण स्थितस्य तिरस्कारत्वा795भावात् तत्सहभावेन स्थितम्। यदि वा काकुं विना व्यङ्ग्यमेव न स्यादिति काकुमात्राक्षिप्तत्वाद् गुणीभूतत्वम्, विशिष्टकाक्वाक्षिप्तत्वे तु ध्वनिरेव।

सन्दिग्धप्राधान्यतया यथा—

*“महिलासहस्सभरिए तुह हियए796 सुहय! सा अमायंती।797
अणुदिणमणन्नकम्मा अंगं तणुअं पि तणुएइ॥२९०॥”

अत्राङ्गं तनुकमपि तनूकरोतीति वाच्यं किं वा798 तनूभावप्रकर्षाधिरोहेण यावदत्याहितं नाप्नोति तावदुज्झित्वां799 दौर्जन्यं साऽनुनीयतामिति800 व्यङ्ग्यं प्रधानमिति सन्दिग्धम्।

तुल्यप्राधान्यतया यथा—

_________________________________________________________________

*महिलासहस्रभृते तव हृदये सुभग! सा अमान्ती।
अनुदिनमनन्यकर्माऽङ्कं तनुकमपि तनयति॥

“पङ्कतौविशन्तु गणिताः801 प्रतिलोमवृत्त्या पूर्वे भवेयुरियताऽप्यथवा त्रपेरन्।
सन्तोऽप्यसन्त इव चेत् प्रतिभान्ति मानोर्भासावृते नभसि शीतमयूखमुख्याः”

अत्र प्राकरणिकाप्राकरणिकयोः समं प्राधान्यम्।

तथाऽन्याङ्गतयाऽन्यस्यापरस्य रसादेर्वाच्यार्थस्य वा802क्रमेण रसादिरनुरण803नरूपं चाङ्गं यथा–

“अयं स रशनोत्कर्षी पीनस्तनविमर्दनः।
नाभ्यूरु–जघनस्पर्शी नीवीविस्रसनः करः॥२९२॥”

अत्र शृङ्गारः करुणस्याङ्गम्।

यथा वा-

“कैलासालयभाललोचनरुचा निर्वर्त्तितालक्तक–
व्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम्।
स्पर्द्धाबद्ध804समिद्धयेव सुदृढं रूढा यया नेत्रयोः
कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते॥२९३॥”

अत्र स्तोतृगत805रत्याख्यभावस्य रसः ।

यथा च–

“अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाऽम्भोधय–
स्तानेतानपि विभ्रती किमपि न क्लान्ताऽसि तुभ्यं नमः।
आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद् भुव–
स्तावद् विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः॥२९४॥”

अत्र भूविषयो806 रत्याख्यो807 भावो राजविषयस्य रतिभावस्य।

वाच्यार्थस्यानुरणनरूपमङ्गं यथा–

“जनस्थाने भ्रान्तं कनकमृगतृष्णाऽन्धितधिया
वचो वै देहीति प्रतिपदमुदश्रु प्रलपितम्।
कृतालंकाभर्तुर्वदनपरिपाटीषु घटना
मयाऽऽप्तं रामत्वं कुशलवसुता न त्वधिगता॥२९५॥”

जनस्थाने808 ग्राम-नगरादावाश्रमविशेषे च। कनकस्य मृगतृष्णाऽतिलुब्धत्वम्, कनकमृगस्य च तृष्णा लिप्सा। वै इति स्फुटत्वे देहीति,809 वैदेहीति च। अलमत्यर्थ काभर्तुरल्पभर्तुर्लङ्काभर्तुश्च वदनपरिपाटीषु810 वचनपङ्क्तिषु घटना सम्पादनम्, वदनपरिपाट्यामिषुघटना च। कुशलं कार्यक्षमं वसु यस्य तस्यभावः, कुश-लवौ सुतौ यस्याः सीतायाः। अत्र शब्दशक्तिमूलाऽनुरणनमूर्तिरुपमानोपमेयभावो रामत्वमिति वाच्यस्याङ्गतां नीतः।१-३॥811

पुनर्ध्वनेः स्वरूपान्तरमाह–

अलङ्कारैर्गुणीभूतव्यङ्गयभेदैः पृथक् पृथक्।
सङ्गतैश्च812 युतः प्राग्वद् ध्वनिः स्फूर्जत्यनेकधा॥४॥

ध्वनिरनेकधा विशेषतो बहुधा स्फूर्जति।813 कीदृशोऽलङ्कारैर्गुणीभूतव्यङ्ग्यभेदैश्च सह पृथक् पृथक् प्रत्येकं प्राग्वत् पूर्ववत् संसृष्टि–सङ्कराभ्यां युतः संयुक्तो न केवलं पृथक् पृथक् सङ्गतैश्चालङ्कार–गुणीभूतव्यङ्गयभेदैर्मिथो मिलितैश्च समं814 युक्तः। यदाह–

“स गुणीभूतव्यङ्गयैः सालङ्कारैः सह प्रभेदैः स्वैः।
सङ्कर–संसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा॥२९६॥”

तत्र दिङ्मात्रमुदाह्रियते यथा-

“नेत्राम्भोरुहविभ्रमेषु पवनप्रेङ्खोलि नीलोत्पलं
कादम्बा गतिडम्बरेषु कवरीभङ्गे815 तरङ्गावलिः।

दीर्घाक्ष्या गृहदीर्घिकामनु मुहुः सङ्गीतकारम्भिणी
भृङ्गाली कलकाकलीषु च किमप्याचार्यकं पुष्प(ष्य)ति॥२९७॥”

अत्राचार्यकं पुष्प(ष्य)तीत्यसम्बन्धे816 सम्बन्ध इत्यतिशयोक्त्याऽनुग्राह्यानुग्राहकत्वेन रसध्वनेः सङ्करः।

यथा च–

“कर्त्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः।
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं
क्वास्तेदुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः॥२९८॥”

अत्र कर्त्ता द्यूतच्छलानामित्यादिपदानामसूयोपहासादिना व्यङ्गयेन गूढत्वाभावाद् गुणीभूतेन पूर्ववद् वीररसस्य सङ्करः।

यथा च–

“दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटित817कमलामोदमैत्रीकषायः।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः।२९९॥”

अत्र मैत्रीशब्देन चेतनविषयाभावाद् बाधितस्वार्थेन नैकट्यसम्बन्धात् संश्लेषं लक्षयता उपकार्योपकारकत्वादि ध्वन्यते। तेन मैत्रीफलभूतकषायपदसन्निधेरगूढत्वाद् गुणीभूतेन प्राग्वद् रसध्वनेः सङ्करः। प्रियतम इवेत्युपमाऽलङ्कारेण818 संसृष्टिः। एवमन्येऽपि भेदाः स्वयमुत्प्रेक्षणीयाः॥४॥

व्यङ्ग्यं गुणीभूतमपीत्थमन्वहं819 यः काव्यवीथीपथिको निषेवते।
तस्यापि विश्वे कविसंकथाविधौ महाकवित्वं न पराङ्मुखं क्वचित्

इत्यलङ्कारमहोदधौ गुणीभूतव्यङ्ग्यप्रदर्शनो नाम चतुर्थस्तरङ्गः॥४॥

अथ पञ्चमस्तरङ्गः।

<MISSING_FIG href=”../books_images/U-IMG-1733136654Screenshot2024-12-02162022.jpg”/>

अथ निर्दोषत्वादिना शब्दार्थवैचित्र्यमिति प्रथमं दोषानभिधित्सुः सामान्येन दोषलक्षणमाह–

वैचित्र्यव्याहतिर्दोषः सा च भूम्ना रसक्षतेः।
तद् ध्रुवं रस एवैष भक्त्या शब्दार्थयोः पुनः॥१॥

वैचित्र्यस्य सहृदयानन्दिनः सौन्दर्यविशेषस्य या व्याहतिर्विलोपः सैव दोषः। सा च कथं भवेदित्याह–सा चेत्यादि। सा च वैचित्र्यव्याहतिर्भूम्ना बाहुल्येन रसक्षते रसहानेः सकाशाज्जायते। ततः किं सिद्धमित्याह–तद् ध्रुवमित्यादि। तत् तस्मात् कारणाद् ध्रुवं निश्चितमेष दोषः केवलं रस एव नान्यत्र। यतोऽन्वयव्यतिरेकाभ्यां रसधर्मा एव गुणदोषास्तथाहि–यत्रैव दोषास्तत्रैव गुणा रसविशेषे च दोषा न तु शब्दार्थयोः। यदि820हि तयोर्भवेयुस्तदा शृङ्गारादिष्विव बीभत्सादिषु कष्टत्वादयो गुणा821न भवेयुर्हास्यादौ वाऽश्लीलत्वादयः। शब्दार्थयोस्तत्रापि भूतत्वात्। ततो यस्याङ्गिनः शृङ्गारादेस्ते दोषास्तदभावे न दोषास्तद्भावे822 तु दोषा इत्यन्वय-व्यतिरेकाभ्यां गुण-दोषयो रस एवाश्रयस्तदुपकारिणोः शब्दार्थयोः पुनर्भक्त्या उपचारेण न तु मुख्यया वृच्येति॥१॥

अथ पददोषानाह–

दुष्टं पदमसंस्कारमसमर्थमनर्थकम्।

पदं दुष्टं भवति। कथम्भूतमसंस्कारादिकम्। तत्रासंस्कारं व्याकरणसंस्काररहितम्। यथा–

“भूरिभारभराक्रान्त! बाधति स्कन्ध एष ते।
न तथा बाधते स्कन्धो यथा823 बाधति बाधते॥३००॥”

अत्र वाधतिरात्मनेपदी, न तु परस्मैपदी।

अथासमर्थ यत्रार्थे प्रयुक्तं तं वक्तुं नास्य शक्तिः। यथा–

“तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतः।
सुरस्रोतस्विनीमेष हन्ति सम्प्रति सादरम्॥३०१॥”

अत्र हन्तीतिं गत्यर्थ वक्तुमशक्तम्।

अथानर्थकं पादपूरणायैव यत् प्रयुज्यते। यथा–

“बिभर्ति यश्च देहार्धे प्रियाममुं(मिन्दुं) हि मूर्धनि।
स वै देवः खलु त्वां तु पुनातु मदनान्तकः॥३०२॥”

अत्र च हि वै खलु824 तु इत्येतानि पादपूरणार्थान्येव।

अथ वाक्यदोषानाह–

वाक्यमप्युदितं तद्वद् रसाद्यनुचिताक्षरम्॥२॥
लुप्त–ध्वस्त–विसर्गान्तमिष्टसम्बन्धवञ्चितम्।
समाप्तपुनरारब्धं भग्नप्रक्रममक्रमम्॥३॥
न्यूनमर्द्धान्तरस्थैकपदं सङ्कीर्ण–गर्भिते।
दुर्वृत्तं सन्धिविश्लेष–कष्टत्वाश्लीलतास्पदम्825॥४॥
अनिष्टान्यार्थमस्थानसमास–पददुःस्थितम्।
पतत्प्रकर्षमप्रोक्तवाच्यं त्यक्तप्रसिद्धिकम्॥५॥
पुनरुक्तपदन्यासमतिरिक्तपदं तथा।

वाक्यमपि तद्वद् दुष्टम्मुदितं826 कथितम्। किंविशिष्टं? रसाद्यनुचिताक्षरादि।

तत्र रसाद्यनुचिताक्षरं रसाद्यनुगुणत्वमक्षराणां वक्ष्यते, तद्विपरीताक्षरं वाक्यं दुष्टम्। यथा–

“अकुण्ठो827त्कण्ठया पूर्णमाकण्ठं कलकण्ठि! माम्।
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर॥३०३॥”

अत्र टवर्गस्य शृङ्गाराननुगुणत्वम्।

रौद्रे यथा–

“देशः सोऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः
क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः।
तान्येवाहितशस्त्रघ828स्मरगुरूण्यस्त्राणि भास्वन्ति नो
यद् रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः॥३०४\।\।”

रौद्रे हि विकटवर्णत्वं दीर्घसमासत्वं च कथितं तदत्र नास्ति।

अथ लुप्तध्वस्तविसर्गान्तं लुप्तः सत्त्वात् त्याजितो ध्वस्तो वा उच्चारादिना रूपान्तरं प्रापितो विसर्गो येषां ते तथा तादृशा अन्ताःपदान्ता यत्र।829 यथा–

“यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः।
वीरो विनीतो निपुणो वराकारो नृपोऽत्र सः॥३०५॥”

अथेष्टसम्बन्धवञ्चितमिष्टोऽभिमतो यः सम्बन्धः परस्परं पदार्थानामन्वयस्तेन वञ्चितं रहितम्। यथा–

“येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभि–
र्लीलापानभ्रुवश्च नन्दनतरु830च्छायासु यैः कल्पिताः।
येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां
तैः किं त्वत्परितोपकारि विहितं किञ्चित् प्रवादोचितम्?॥३०६॥”

अत्र गुणप्रधानयोरेव सम्बन्धो न पुनः परस्परं गुणानां समकक्ष831त्वादिति। यच्छब्दनिर्द्देश्यानां गुणभूतानामर्थानामन्योन्यमसम्बन्धे यैरित्यत्र विशेष्यस्याप्रतीतेरनिष्टः सम्बन्धः। क्षपाचारिभिरिति पाठे सर्वेषामपि यदर्थानां तच्छन्दार्थेन समन्वयादिष्ट एव सम्बन्धः स्यादिति।832

यथा च–

“त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः
कलानां सीमान्तं परमिह युवामेव भजथः।
अयि!द्वन्द्वं दिष्ट्या तदिह सुभगे! संवदति वा–
मतः शेषं यत् स्याञ्जितमिह तदानीं गुणितया॥३०७॥”

अत्र यदिति पदं तदिति पदमपेक्षते, तदानीमिति पदं च यदेति पदम्; तच्च नास्तीत्यनिष्टः सम्बन्धः। ‘चेत् स्यात्’इति पाठे पुनरिष्ट एव स्यात्।

यथा च–833

“चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः
सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता।
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं
राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः॥३०८॥”

अत्राध्वरशब्दः समासे न्यग्भूत इति तदर्थः सर्वैर्न834 संयुज्यत इति सम्बन्धानिष्टत्वम्।

अथ समाप्तपुनरारब्धं यत् समाप्य पुनरारभ्यते। यथा–

“ज्योत्स्नां लिम्पति चन्दनेन स पुमान् सिञ्चत्यसौ मालती–
मालां गन्धजलैर्मधूनि कुरुते स्वादून्यसौ फाणितैः।
यस्तस्य प्रथितान् गुणान् प्रथयति श्रीवीरचूडामणे–
स्वारत्वं स च शाणया मृगयते मुक्ताफलानामपि॥३०९॥”

अत्र श्रीवीरचूडामणोरित्यत्र वाक्यं समाप्य तारत्वमित्यादि पुच्छप्रायं पुनरुपात्तं न चमत्करोति।

अथ835भग्नप्रक्रमं भग्नः प्रक्रमः प्रक्रान्तत्वं यत्र। यथा–

“उदन्वच्छिन्ना भूः स च निधिरुपां योजनशते
सदा पान्थः पूषा गगनपरिमाणं कलयति।
इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः
सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते॥३१०॥”

अत्र पर्यायान्यत्वेन क्रमभङ्गः ‘मिता भूः पत्याऽपां स च पतिरपां योजनशतम्’इति तु युक्तम्। ननु ‘नैकं पदं द्विः प्रयोज्यं प्रायेण’इत्यन्यत्र, ‘पुनरुक्तपदन्यासं वाक्यं दुष्टम्’इति चात्रैवाभिहितत्वात् कथमेकस्य पदस्य द्विःप्रयोगः?। युक्तमुक्तम्, किं पुनरुद्देश्य–प्रतिनिर्देश्यव्यतिरिक्ते विषये द्विर्न प्रयोक्तव्यमेकं पदम्; तद्वति तु विषये प्रत्युत तस्यैव पदस्य सर्वनाम्नो वा प्रयोगं विना दोषः। तथाहि-

“उदेति सविता ताम्रस्ताम्र एवास्तमेति च।
सम्पत्तौ च विपत्तौ च महतामेकरूपता॥३११॥”

अत्र रक्त एवास्तमेतीति यदि क्रियेत तत्पदान्तरप्रतिपादितः स एवार्थोऽर्थान्तरतयेव प्रतिभासमानः प्रतीतिं स्थगयति।

यथा वा-

“धैर्येण विश्वास्यतया महर्षेस्तीत्रादरातिप्रभवाच्च मन्योः।
वीर्य च विद्वत्सु सुते836 मघोनः स837 तेषु न स्थानमवाप शोकः॥३१२॥”

अन्न सुप्व्यत्ययेन। ‘तीव्रेण विद्वेषिभुवाऽऽगसा च’838इति तु युक्तम्।

यथा च-

“गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्भकदम्बकं मृगकुलं रोमन्थम839भ्यस्यतु।
विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षितिः840 पल्वले
विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः॥३१३॥”

अत्र कारकोक्तत्वपरावृत्तया‘विश्रब्धाः कलयन्तु सूकरवरा841ः’इत्यदुष्टम्।

यथा वा–

“सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्विसंधृतविकासिबिसप्रसूनाः।
सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादमसृजन् वननिम्नगानाम्॥”

अत्र तिङ्प्रत्ययाभावेन। ‘विकचमस्य दधुः प्रसूनम्’इति तु युक्तम्।

यथा वा–

“यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्त्तितुं वा।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः॥३१५॥”

अत्र तुम्प्रत्ययत्यागेन। ‘सुखमीहितुं च’इति तु युक्तम्।

“बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखर श्रीः।
उपान्तभागेषु842 च रोचनाङ्कः सिंहाजिनस्यैव दुकूलभावः॥३१६॥”

अत्र यथाऽऽरब्धरूपकानिर्वाहेण। ‘मृगेन्द्रचर्मैव दुकूलमस्य’इति युक्तम्।

“तरङ्गय दृशोऽङ्गणे(ने!) पततु चित्रमिन्दीवरं
स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम्।
क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिका–843
मुदञ्चय मनाग् मुखं भवतु च द्विचन्द्रं नभः॥३१७॥”

अत्रोपमेयानामतिशयं वक्त्तुमुपमानानां निन्दा प्रारब्धा, सा च चतुर्थपादे

सादृश्यमात्राभिधाने न निर्व्यूढेति भग्नप्रक्रमत्वम्। ‘भवतु तद् द्विचन्द्रं नभः’इति तु844युक्तम्।

अथाक्रमं न विद्यते क्रमो यत्र। यथा–

“तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम्।
कान्ति-प्रतापौ भवतः सूर्याचन्द्रमसोः समौ॥३१८॥”

अत्र ‘मातङ्गमथ तुरङ्गम्’इति वक्तव्ये ‘कान्ति–प्रतापौ भवतः समौ चन्द्र–विवस्वतोः’इति च वाच्ये विपरीतमुक्तम्।

यथा च845–‘द्वयं गतं सम्प्रति शोचनीयताम्’इत्यादि846

अत्र त्वंशब्दादनन्तरश्चकारो युक्तः, स च न कृत इति क्रमलोपः।

यथा च–

“शक्तिर्निस्त्रिशजेयं तव भुजयुगले नाथ! दोषाकरश्री–
र्वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टिनी खङ्गयष्टिः।
आज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया ते?
प्रोच्येवेत्थं847 प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम्॥३१९॥”

अत्रेत्थंशब्दः प्रोच्येवेत्यस्मात् पूर्व वाच्यो न तु पुरस्तादिति क्रमत्यागः।

अथ न्यूनमवश्यवाच्यपदस्या848नभिधाने न्यूनम्। यथा–

“नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः
सुरधनुरिदं दूराकृष्टं न नाम शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरम्परा I
कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥३२०॥”

अत्र जलधरादिपदानामिव विद्युतोऽपि ध्रुवमिदंपदपरामर्शो वाच्यः ।

अथार्धान्तरस्थैकपदमर्धान्तरे द्वितीयस्मिन्नर्थे स्थितमेकं पूर्वार्द्धसम्बद्धं849 पदं यत्र। यथा–

“यावदर्थपदां850 वाचमेवमादाय माधवः।
विरराम महीयांसः प्रकृत्या मितभाषिणः॥३२१॥”

अत्र विररामेति पदं पूर्वार्द्ध निवेशयितुमुचितम् ‘नार्द्धे किञ्चिदसमाप्तवाक्यम्’इति851 हि कविसमयः।

अथ सङ्कीर्ण यत्र वाक्यान्तरपदानि वाक्यान्तरे प्रविशन्ति। यथा–

“किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणैनम्।
ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरूपम्॥३२२॥”

अत्र पादगतं बहुगुणं हृदयनाथं किमिति न पश्यसि? एनं कण्ठे गृहाण। मनसः कोपं तमोरूपं मुञ्चेत्यन्वयः। एकवाक्यतायां852 तु श्लिष्टमिति तस्मादस्य भेदः।

अथ गर्भितं यत्र वाक्यस्य मध्ये समग्रं वाक्यान्तरमनुप्रविशति।853 यथा–

“योग्यो यस्ते पुत्रः सोऽयं दशवदन! लक्ष्मणेन मया।
रक्षैनं यदि शक्तिर्मृत्युवशं नीयते विवशः॥३२३॥”

अत्र रक्षैनं यदि शक्तिरिति वाक्यान्तरं सोऽयं दशवदनेत्यादिवाक्ये प्रविष्टम्।

अथ दुर्वृत्तं दुष्टं लक्षणच्युतं यतिभ्रष्टं च लक्षणानुसरणेऽप्यश्रव्यं चाप्राप्तगुरुभावान्तलघु च रसाननुगुणं च वृत्तं यत्र। यथा–

“अयि! पश्यसि सौधमाश्रितामविरलशुमनोमालभारिणीम्।”

अत्र वैतालीययुग्मपदे लघ्वक्षराणां षण्णां नैरन्तर्य निषिद्धमिति लक्षणच्युतम्। यथा च–‘एतासां राजति सुमनसां दाम कण्ठावलम्बि’

अत्र चतुर्थवर्णान्ते यतिर्न कृतेति यतिभ्रष्टम्।

यथा वा–

“अमृतममृतं कः सन्देहो मधून्यपि नान्यथा
मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम्।
सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो
वदतु यदिहान्यत् स्वादु स्यात् प्रियादशनच्छदात्॥३२५॥”

अत्र यदिहान्यत् स्वादु स्यादित्यश्रव्यम्।

यथा च–

“विकसितसहकारतारहारिपरिमलपुञ्जितगुञ्जितद्विरेफः।
नवकिसलय854चारुचामरश्रीर्हरति मुनेरपि मानसं वसन्तः॥३२६॥”

अत्र हारीत्यत्र पादान्ते855 गुरुर्न कृतः। हारिप्रमुदितसौरमेति856 तु पाठो युक्तः।

यथा वा–

“अन्यास्ता गुणरत्नरोहणभुवः कन्या मृदन्यैव सा
सम्भाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा।
श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां नितम्बस्थलात्
दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च॥३२७॥”

अत्र वस्त्राण्यपीति पाठे लघोरपि गुरुवद्भावः पाश्चात्यस्य महाप्राणत्वात् ।

यथा च–

“हा नृप! हा बुध! हा कविबन्धो! विप्रसहस्रसमाश्रय देव!।
मुग्धविदग्धसभान्तररत्न! क्कासि गतः क्व वयं च तवैते॥३२८॥”

इदं हास्यरसानुरूपं वृत्तं करुणाऽननुगुणम्।

अथ सन्धिविश्लेष-कष्टत्वाश्लीलताऽऽस्पदं सन्धेः स्वरसंहितारूपस्य विश्लेषः स्वराणां स्वावस्थायामेव स्थापनं स च द्विधा लाक्षणिको यादृच्छिकश्च। तत्र लाक्षणिकोऽसकृद्विहितो दोषः। यादृच्छिकस्तु सकृदपि दोष एव ‘संहिता ह्येकपदवत् पादेष्वर्द्धान्तवर्ज कार्या’इति काव्यसमयः । तथा सन्धेर्व्यञ्जनानां मिथः सम्पर्करूपस्य कष्टत्वमश्रव्यत्वम्। तथा सन्धैर्व्य857ञ्जनसम्पर्करूपस्य पदप्रत्यासत्तिरूपस्य चाश्लीलता858 व्रीडादिरूपा तासामास्पदम्।

तत्र सन्धिविश्लेषो यथा–

“कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः।”

यथा वा–

“तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः।
निजवंश उदात्तकान्तकान्तिर्बत मुक्तामणिवच्चकास्त्यनर्घ्यः॥३३०॥”

अत्रोभयत्रापि लाक्षणिको विश्लेषः।

यथा वा-

“मेघानिलेन अमुना एतस्मिन्नद्रिकानने।
मञ्जर्युद्ममगर्भाऽसौ तर्वाल्युर्वी विधूयते॥३३१॥”

अत्र पूर्वार्द्धे यादृच्छिकः सन्धिविश्लेषः, उत्तरार्द्धे तु सन्धिकष्टत्वम्।

सन्ध्यश्लीलता यथा–

“वेगादुड्डीय गगने चलण्डामरचेष्टितः859
अयमुत्तपते पत्री ततोऽत्रैव रुचिङ्कुरु॥३३२॥”

यथा वा–

“चकासे पनसप्रायैः पुरी खण्डमहाद्रुमैः।”

अत्र ‘चलण्डामर’860इत्यत्र व्यञ्जनसम्पर्के ‘रुचिं कुरु चकासे पनस–पुरी–खण्डशब्देषु तु पदप्रत्यासत्तौ व्रीडा-जुगुप्सयोः स्मरणादश्लीलता।

अथानिष्टान्यार्थमनिष्टः प्रकृतविरुद्धोऽन्योऽर्थो यत्र। यथा–

“राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा॥३३४॥”

अत्र प्रकृते बीभत्सरसे विरुद्धस्य शृङ्गारस्य व्यञ्जकोऽपरोऽर्थः861I

अथास्थानसमासपददुःस्थितमस्थाने समासेन पदेन च दुःस्थितम्। यथा–

“अद्यापि स्तनशैलदुर्गविषमे862 सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः।
प्रोद्यद्दूरतर863प्रसारितकरः कर्षत्यसौ तत्क्षणात्
फुल्लत्कैरवकोशनिस्सरदलि864श्रेणीकृपाणं शशी॥३३५॥”

अत्र क्रुद्धस्योक्तौ समासो न कृतः, कवेरुक्तौ तु कृत इत्यस्थानसमासः865

“लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे
मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्तःकपोलस्थलम्।
पार्वत्या नखलक्ष्मशङ्कितसखीनर्म866स्मितह्रीतया
प्रोन्मृष्टः करपल्लवेन कुटिलाऽऽताम्रच्छविः पातु वः॥३३६॥”

अत्र नखलक्ष्मेति पदात् कुटिलाऽऽताम्रेति पदं वाच्यम्।

अथ पतत्प्रकर्ष पतन् प्रकर्षो867 यत्र। यथा–

“कस्कः कुत्र न घुर्घरायितघुरीघोरो घुरेच्छूकरः
कस्कः कं कमलाकरं विकमलं कर्तु करी नोद्यतः?।
के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्त्तते॥३३७॥”

अत्र यथोत्तरमनुप्रासः प्राप्तप्रौढिर्निबन्धनीयः, पतत्प्रौढिस्तु निबद्धः।

अथाप्रोक्तवाच्यमप्रोक्तमनभिहितं वाच्यमवश्यवक्तव्यं यत्र। यथा–

“अप्राकृतस्य चरितातिशयैश्च दृष्टैरत्यद्भुतैर्मम हृतस्य तथाप्यनास्था।
कोऽप्येष वीरशिशुकाकृतिरप्रमेयमाहात्म्यसारसमुदायमयः पदार्थः।३३८॥”

अत्र मम हृतस्येत्यत्रापहृतोऽस्मीति विधिर्वाच्यः। तथापीत्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः।

अथ त्यक्तप्रसिद्धिकं त्यक्ता प्रसिद्धिर्येन। यथा–

“रणन्ति पक्षिणः क्ष्वेडं868 चक्रीवन्तोवितन्वते।
इदं बृंहितमश्वानां ककुद्मानेष हेषते॥३३९॥”

अत्र मञ्जीरादिषु रणितप्रायं पक्षिषु869 च कूजितप्रभृति स्वनित870मणितादि सुरते मेघादिषु गर्जित प्रमुखमित्यादि प्रसिद्ध्यतिक्रान्तत्वात् त्यक्तप्रसिद्धिकम्।

अथ पुनरुक्तपदन्यासं पुनरुक्तः पदन्यासो यत्र। यथा–

“अधिकरतलतल्पं कल्पितस्वापलीला परिमलननिमीलत्पाण्डिमा गण्डपाली।
सुतनु! कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम्॥”

अत्र लीलेति पुनरुक्तम्।

अथातिरिक्तपदमतिरिक्तमधिकं पदं यत्र। यथा–

“इदमनुचितमक्रमश्च पुंसां यदिह जरस्यपि मान्मथा विकाराः।
यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा॥३४१॥”

अत्र कृतमित्यधिकम्, तदेतत् कृतं प्रत्युत प्रक्रमभङ्गमावहति। यथा च, यदपि च न कुरङ्गलोचनानामिति पाठे निराकाङ्क्षैव प्रतिपत्तिः।

यथा वा—

“स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया।
अतनुमानपरिग्रहया स्थितं रुचिरया चिरयाऽपि दिनश्रिया॥३४२॥”

अत्र समासोक्तिवशादेव निदाघदिनश्रियः प्रतिनायिकात्वे प्रतीते दयितयेवे871त्यधिकम्।

“जगाद मधुरां वाचं विशदाक्षरशालिनीम्।”इत्यादौ तु जगादेत्यादि क्रिययैव वाक्शब्दार्थेऽभिहितेऽपि विशेषणदानार्थं वाक्शब्दप्रयोग इत्यस्य नाधिक्यमित्यनुचितं क्रियाविशेषणत्वेनैव वाञ्छितार्थसिद्धेः। यदि वा विशेषणदानार्थ विशेष्यं प्रयोक्तव्यमिति मतं तथापि ‘चरणत्रपरित्राणरहिताभ्यामपि द्रुतं पादाभ्यां दूरमध्वानं व्रजन्नपि न खिद्यते।’इत्युदाहार्यम्।

अथ पद872-वाक्ययोः प्रत्येकं दोषानभिधायोभयदोषानाह—

अथ द्वयमिदं दुष्टं ग्राम्यं सन्दिग्ध-दुःश्रवे॥६॥

अप्रतीतमयोग्यार्थमप्रयुक्तमवाचकम्।
जुगुप्साऽमङ्गल-व्रीडाकृदश्लीलं भवेत् त्रिधा॥७॥

नेयार्थं निह873तार्थं च विरुद्धमतिकृत् पुनः।
अविमृष्टविधेयांशं संक्लिष्टं874 स्यात्875समासगम्॥८॥

तेषु नेयार्थलक्षणमाह—

यत् कल्पनाप्रणीतार्थं नेयार्थमिति तद् विदुः।

—————————————————————————————————————————————

१ अयथा। २ प. व. यदि तयेव।

कल्पनया स्वप्रक्लृप्तसङ्केतेन प्रणीतो निर्मितोऽर्थो यस्य तन्नेयार्थमिति विदुः जानन्ति। तच्च पदं यथा—

“तवाननमिदं पूर्णं हरिद्राजीवितेश्वरम्।
किङ्करीकुरुते तन्वि! किमन्यद् वर्णयामि ते?॥३४४॥”

अत्र हरिद्रा रजनी तया च निशोपलक्ष्यते। तस्या जीवितेश्वरश्चन्द्रः।

वाक्यं यथा—

“मुखांशवन्तमास्थाय विमुक्तपशुपङ्क्तिना।
पङ्क्त्यनकेगनामधृत्तुका जित उलूकजित्॥३४५॥”

अत्र पङ्क्तिरित्यनेन दशसङ्ख्या अनेकगा द्वन्द्वचराश्चक्रास्तेषां नाम यस्य तच्चक्रं रथाङ्गं तद् घरति यः स रथः पङ्कयो दश रथा यस्येति दशरथः। तत्तुक्लक्ष्मणः। तेन जित् उलूकजित् कौशिकजिदिन्द्रजिदित्यर्थः। किं कृत्वा?आस्थाय। कं मुखांशवन्तं हनूमन्तम्। किम्भूतेन? विमुक्तपशुपङ्क्तिना मुक्तेषुपद्धतिनाऽत्र पशुशब्देन गोशब्दो लक्ष्यते। तेनेषवः। तदिदं स्वसङ्केतेन कल्पितार्थं नेयार्थमुच्यते।

अथ निह876तार्थलक्षणमाह—

निहतार्थं पुनर्द्व्यर्थमप्रसिद्धार्थगुम्फितम्॥९॥

द्व्यर्थमुभयार्थ सद् यदप्रसिद्धेऽर्थे गुम्फितं निबद्धं तन्निहतार्थं पदम्।यथा—

“यावकर877सार्द्रपादप्रहारशोणितकचेन दयितेन।
मुग्धा साध्वसतरला विलोक्य परिचु878म्बिता सहसा॥३४६॥”

अत्र शोणितशब्दस्यारुणीकृतरूपोऽर्थो रुधिरलक्षणेनार्थेन व्यवधीयते। एवं वाक्यमपि ज्ञेयम्॥९॥

अथान्यदोषाणां सामान्येन लक्षणमाह—

शेषाः पुनरमी दोषाः879स्वनामार्थैकलक्षणाः।

शेषा लक्षितदोपद्वयादतिरिक्ता ये पुनरमी ग्राम्यादयो दोषास्ते सर्वेऽपि स्वनाम्नः स्वसंज्ञाया यः कश्चिदर्थः स एवैकं लक्षणं येषाम्880।तत्र ग्राम्यं यत् केवले लोके स्थितम्। तच्च पदं यथा—

“राकाविभावरीकान्तसङ्क्रान्तद्युति ते मुखम्।
तपनीयशिलाशोभा कटिश्चहरते मनः॥३४७॥”

अत्र कटिरिति ग्राम्यम्।

वाक्यं यथा—

“ताम्बूलभृतगल्लोऽयं भल्लंजल्पति मानुषः।
करोति खादनं पानं सदैव तु यथा तथा॥३४८॥”

अत्र गल्लादयः शब्दा ग्राम्याः।

अथ881 सन्दिग्धं यस्मिन्नर्थनिश्चयो नास्ति तत्पदं यथा—

“नीललोहितमूर्तिर्योदहत्यन्ते जगन्त्यपि।882
स एष हि महादेवस्त्रिषु883लोकेषु पूज्यते॥३४९॥”

अत्र वह्निरर्कःशिवो वेति न निश्चीयते।

वाक्यं यथा—

“सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः।
मार्गणप्रवणो भास्ववद्भूतिरेष विलोक्यताम्॥३५०॥”

अत्र किं सुरादिशब्दा देव-सेना-शेर884-विभूत्यर्थाः?, किं मदिराद्यर्था इति सन्देहः।

अथ दुःश्रवं श्रुतिकटु तत्पदं यथा—

“अनङ्गमङ्गलगृहापाङ्गभङ्गि885तरङ्गिते(तैः)।
आलिङ्गितः स तन्वङ्गया कार्तार्थ्यं लभते तदा886॥३५१॥”

अत्र कार्तार्थ्य887मिति दुःश्रवम्।

वाक्यं यथा—

“सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट888 पितॄनतार्प्सीत् सममंस्त बन्धून्।
व्यजेष्ट षड्वर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्च॥३५२॥”

अत्राध्यैष्टादीनि क्रियापदानि दुःश्रवाणि।

अथाप्रतीतं यत् केवले शास्त्रे प्रसिद्धम्। तत्पदं यथा—

“सम्यग्ज्ञानमहाज्यो889तिर्दलिताशयताजुषः।
विधीयमानमप्येतन्न भवेत् कर्म बन्धकम्890॥३५३॥”

अत्राशयशब्दो वासनापर्यायो योगशास्त्रादावेव प्रयुक्तः।

वाक्यं यथा—

“किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः।
गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः॥३५४॥”

अत्र रूपस्कन्ध-नान्तरीयकशब्दौ शास्त्रमात्रप्रसिद्धत्वादप्रतीतौ।

अथा891योग्यार्थमयोग्योऽनुचितोऽर्थो यस्य तत्पदं यथा—

“तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्य892ते च या।
प्रयान्ति तामाशु गतिंयशस्विनो रणाश्वमेधे पशुतामुपागताः॥३५५॥”

अत्र पशुपदं कातरतामभिव्यनक्तीत्ययोग्यार्थम्।

वाक्यं यथा—

“कुविन्दस्त्वं तावत् पटयसि गुणग्राममभितो
यशो गायन्त्येते दिशि दिशि वनस्थास्तव विभो!।
ज(श)रज्ज्योत्स्नागौर! स्फुटविकटसर्वाङ्गसुभगा
तथापि त्वत्कीर्तिर्भ्रमति893विगताच्छादनमिह॥३५६॥”

अत्र कुं पृथ्वीं विन्दति प्राप्नोती894ति कुविन्दो राजाऽभिधानकोशोक्तत्वात् तन्तुवायश्च। पटयसीति पटुंपटं च करोषि गुणानां शौर्यादीनां तन्तूनां च ग्रामम्। वनस्थास्तपस्विनः पुलिन्दादयश्च। विगताच्छादनं ग895ततिरस्कारं वस्त्ररहितं चेति। तन्तुवायाद्यर्थाः स्तूयमानस्य तिरस्कारजनकत्वादनुचिताः।

अथाप्रयुक्तं शास्त्रप्रतीतमपि कविभिर्यन्न प्रयुज्यते तत् पदं यथा—

“यथाऽयं दारुणाचारः सर्वदैव विभाव्यते।
तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथवा॥३५७॥”

अत्र दैवतशब्दः पुंनपुंसकलिङ्गोऽपि कविभिः पुल्लिङ्गे न प्रयुक्तः।

वाक्यं यथा—

“स रातु वो दुश्च्यवनो भावुकानां परम्पराम्।
अनेलमूकताऽऽद्यैश्च द्यतु दोषैरसम्मतान्॥ ३५८॥”

अत्र रातु ददातु, दुश्च्यवनः शक्रः, भावुकानां मङ्गलानाम्, अनेलमूको मूकबधिर इत्येते शब्दाः प्रायः केनापि नप्रयु896ज्यन्ते।

अथावाचकं विवक्षितमर्थं यन्नवक्ति तत् पदं यथा—

“अवन्ध्यकोपस्य निहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः।
अमर्षशून्येन जनस्य जन्तुना न जातु(त)हार्देन न विद्विषाऽऽदरः॥३५९॥”

अत्र जन्तुपदमदातर्यर्थे विवक्षितं तस्य च नाभिधायकम्।

वाक्यं यथा—

“प्राभ्रभ्राड् विष्णुधामप्यविषमाश्वः करोत्ययम्।
निद्रां सहस्रपर्णानां पलायनपरायणाम्॥३६०॥”

अत्र प्राभ्र-विष्णुधाम-विषमाश्व-निद्रा-पर्णशब्दाः प्रकृष्टजलद-गगन-सप्ताश्व-सङ्कोच-पत्राणामवाचकाः।

अथाश्लीलं तच्च जुगुप्साऽमङ्गल-व्रीडाकारित्वात् त्रिधा भवति। तत्र जुगुप्साकृत् पदं यथा—

“लीलातामरसहतोऽन्यवनितानिःशङ्कदष्टाधरः
कश्चित् केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः।
मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा
भ्रान्त्या धूर्ततयाऽथ वा नतिमृते897 तेनानिशं चुम्बिता॥३६१॥”

अत्र वायुपदमधोवातं स्म(स्मा)रयति।

वाक्यं यथा—

“तेऽन्यैर्वान्तं898 समश्नन्ति परोत्सर्ग च भुञ्जते।
इतरार्थग्रहे येषां कवीनां स्यात् प्रवर्तनम्॥३६२॥”

अत्र वान्तोत्सर्ग-प्रवर्तनशब्दा जुगुप्साकारिणः।

अमङ्गलकृत् पदं यथा—

“मृदुपवनविभिन्नो899 मत्प्रियाया विनाशाद् घनरुचिरकलापो निःसपत्नोऽस्य जातः।
रतिविलुलितबन्धे केशपाशे सुकेश्याः सति कुसुमसना900थे कं हरेदेष बर्ही?॥”

अत्र विनाशपदम्।

वाक्यं यथा—

“प्रवासयति या901कान्तं वसन्ते गृहसंस्थितम्।
विनाशपथदानेन पिशा902ची सा न साङ्गना॥३६४॥”

अत्र प्रवासयति**–**

संस्थित**–**

विनाशपथ**–**

पिशाच्यादिशब्दानाममङ्गलकारित्वम्।

व्रीडाकृत् पदं यथा—

“साधनं सुमहद् यस्य यन्नान्यस्य विलोक्यते।
तस्य घीशालिनः कोऽन्यः सहेता903रालितां भ्रुव904म्?॥३६५॥”

अत्र साधनशब्दः।

वाक्यं यथा—

“भूपतेरुपसर्पन्ती कम्पना वामलोचना।
तत्तत्प्रहण905नोत्साहवती मोहनमादधौ॥३६६॥”

अत्रोपसर्पण-प्रहणन-मोहनशब्दा व्रीडाकारिणः।

विरुद्धमतिकृदादित्रयं पुनः समासस्थितमेव भवति। तत्र विरुद्धमतिकृत्पदं यथा—

“सहस्राक्षैरङ्गैर्नमसि906तरि नीलोत्पलमयी–
मिवात्मानं मालामुपनयति पत्यौ दिविषदाम्।
जिघृक्षौ907 च क्रीडारभसिनि कुमारे सह गणै–
र्हसन् वो908 भद्राणि द्रढयतु मृडानीपरिवृढः॥३६७॥”

अत्र मृडानीपरिवृढ इति पदं मृडान्याः पत्यन्तरे प्रीति909ं करोति। सह गणैरित्येतदपि जुगुप्साऽश्लीलम्।

वाक्यं यथा—

“अनुत्तमानुभावस्य परैरपिहितौजसः।
अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः॥३६८॥”

अत्र अनुत्तम उत्कृष्टोऽपकृष्टोऽपि910। अपिहितमनाच्छादितमाच्छादितं च। अकार्यसुहृत् कार्यं विना सुहृदकार्ये वा सुहृद्।अपूर्वा अद्भुताः कीर्तयोऽकीर्तयश्चेति द्वितीयो वाक्यार्थो विरुद्धमतिकृत्।

अथावि911मृष्टविधेयांशम्।अविमृष्टः प्राधान्येन निर्दिष्टो विधेयोऽशो912 यत्र तत्913 पदं यथा—

“स्रस्तां नितम्बादवलम्बमा914नां पुनः पुनः केसरपुष्पकाञ्चीम्।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य॥३६९॥”

अत्र मौर्वी द्वितीयामिति युक्तः पाठो द्वितीयात्वमा915त्रस्यैवोत्प्रेक्षणीयत्वात्।

यथा वा—

“वपुर्विरूपाक्षमलक्ष्यजन्मता916दिगम्बरत्वेन निवेदितं वसु।
वरेषु यद् बालमृगाक्षि! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने917?॥३७०॥”

अत्रालक्षितं जनुरिति वाच्यं जन्मनोऽलक्ष(क्ष्य)त्वस्यैव प्राधान्येन निर्देष्टुमिष्टत्वात्।918

यथा वा—

“आनन्दसिन्धुरतिचापलशालिचित्तसन्दाननैकसदनं क्षणमप्यमुक्ता।
या सर्वदैव भवता तदुदन्तचिन्तातन्ति919ं तनोति तव सम्प्रति धिग् धिगस्मान्920॥”

अत्र‘न मु921क्ता’इति निषेधो विधेयः।

यथा— ‘नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः’इत्यत्र निषेधो विधेयतां नीतः।

यत्र तु निषेधो विधेयो न भवति, किन्तु तदनुवादेन किमप्यन्यद् विधीयते तस्मिन्नेवमपि प्र922युज्यते। यथा—

“जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः।
अगृध्नुराददे सोऽर्थानसक्तः सुखमन्वभूत्॥३७२॥”

अत्रात्रस्तताऽऽद्यनुवादेनात्मनो गोपनादि विधेयम्।

वाक्यं यथा—

“किं लोमेन विलङ्घितः स भरतो येनैतदेवं कृतं?
मात्रा स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा?।
मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु–
र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम्॥३७३॥”

अत्रार्यस्येति तातस्येति च923 वाच्यम्, न त्वनयोः समासेन गुणीभावः कार्यः।

यथा वा—

“शय्या शाड्वलमासनं924 शुचिशिला सद्म द्रुमाणामधः
शीतं निर्झरवारिपानमशनं कन्दाः सहाया मृगाः।
इत्यप्रा925र्थितलभ्यसर्वविभवे दोषो926ऽयमेको वने
दुष्प्रापार्थिनि यत् परार्थघटनावन्ध्यैर्वृथा स्थीयते॥३७४॥”

अत्र शाड्वलाद्यनुवादेन शय्याऽऽदीनि विधेयानि। ततश्च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो न927तु वाक्यार्थस्य।

एवं हि विध्यनुवादौ कर्तव्यौ। यथा—

“त्वक् तारविनिवसनं मृगचर्म शय्या कुञ्जो गृहं विपुलपत्रपुटा घटाश्च।
मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते॥३७५॥”

“संरम्भः करिकीटमेघसकलोद्देशेन सिंहस्य यः
सर्वस्यापि स जातिमात्रविहितो हेवाकलेशः किल928
इत्याशाद्विरदक्षयाम्बुदघटाबन्धेऽप्यसंरब्धवान्
योऽसौकुत्र चमत्कृतेरतिशयं यात्वम्बिकाकेसरी?॥३७६॥”

इत्यत्र तु न संरब्धवानिति निषेधो विधेयः, स च समासेन स्थगित एव। योऽसाविति पदद्वयं चास्मिन्ननुवाद्यविधेयार्थतया विवक्षितमनुवाद्यमात्रप्र929तीतिकृत्930। यच्छब्दप्रत्यासत्त्याऽदःश931ब्दस्य निगीर्णत्वात्। तथाहि-यत्-तदोरेकतर-निर्देशेनोपक्रमस्तत्र तदितरेणोपसंहारो न्याय्यस्तयोः परस्परापेक्षया नित्यसम्बन्धशालित्वात्। यदाहुः–‘यत्तदोर्नित्यमभिसम्बन्धः’इति। स चायमनयोरुपक्रमो द्विविधः शाब्द आर्थश्चेति। तत्र द्वयोरुपादाने सति शाब्दो यथा—

“यदुवाच न तन्मिथ्या यद् ददौ न जहार तत्।
सोऽभूद् भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन्॥३७७॥”

एकतरोपादाने त्वार्थस्तदितरस्यार्थसामर्थ्येनाक्षिप्यमाणत्वात्। यत्र तु प्रक्रान्त932प्रसिद्धानुभूतार्थविषयतया केवलस्यैव तच्छन्दस्योपादानं तत्र यच्छन्दं प्रति सापेक्षत्वाभावात् न शाब्दो नाप्यार्थः। यथा933

“कातर्य केवला नीतिः शौर्यं श्वापदचेष्टितम्।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः॥३७८॥”

अत्र प्रक्रमे तच्छब्दः।

‘द्वयं गतं सम्प्रति’ इत्यादि। अत्र तु प्रसिद्धार्थः।

“उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती।
क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षिताऽसि॥”

अत्र पुनरनुभू934तार्थः।

यत्र पुनरुत्तरवाक्यगतत्वेन यच्छन्दः प्रयुज्यते; तत्रार्थसामर्थ्याधिगतस्य तच्छन्दस्योपादानं नापेक्षते। यथा—

“साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताऽधिके।
उद्यता जयिनि935 कामिनीमुखे936 तेन साहसमनुष्ठितं पुनः॥३८०॥”

पूर्ववाक्योपात्तस्तु यच्छब्दस्तच्छब्दोपादानं937 विना साकाङ्क्षः। यथाऽत्रैव श्लोके पूर्वार्द्धपादद्वयव्यत्यासे।

क्वचिदनुपात्तमपि सामर्थ्याद् द्वयमपि गम्यते। यथा—

“ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः।
उत्पत्स्यते तु मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी॥”

अत्र यः कोऽप्युत्पत्स्यते तमेव प्रति ममैष यत्न इत्युभयोरप्यर्थाद् गम्यत्वम्। एवं च स्थिते ‘संरम्भः करिकीट-’इति श्लोके तच्छब्दोपादानं विना यच्छब्दस्य साकाङ्क्षत्वम्।

न चासाविति पदं तच्छब्दार्थमभिधत्ते। यतः—

“असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः।
वियुक्तरामाऽऽतुरदृष्टिवीक्षितो वसन्तकालो हनुमानि938वागतः॥३८२॥”

इत्यत्रापि तच्छन्दार्थप्रतीतिः स्यात् न चास्ति।

यद्यदःशब्दोऽपि तच्छन्दार्थप्रतीतिं कुर्यात् तदा—

“यस्य प्रकोपशिखिना परिदीपितोऽभूदुत्फुल्लकिंशुकतरुप्रतिमो939मनोभूः।
योऽसौ जगत्रयलय-स्थिति-सर्गहेतुः पायात् स वः शशिकलाकलितावतंसः॥”

इत्यादिषु तच्छब्दस्य पौनरुक्त्यं भवेत्।

अथेदमुच्यते—

“यो940ऽविकल्पमिदमर्थमण्ड941लं पश्यतीश! निखि942लं भवद्वपुः।
स्वात्मपक्षपरिपूरि943ते जगत्यस्यनित्यसु944खिनः कुतो भयम्?॥३८४॥”

इत्यादिष्विदंशब्द इवादःशब्दोऽपि तच्छब्दार्थममिदधात्येवेति साधूक्तम्, किं पुनरत्रैव व्यव945हितस्यैव तस्योपादानं न्याय्यमव्यवहितस्तु प्रसिद्धिमेवायं परामृशति।

“यत् तदूर्जितमत्यु946ग्रं क्षात्रं तेजोऽस्य भूपतेः।
दीव्यताऽक्षैस्तदाऽनेन नूनं तदपि हारितम्॥३८५॥”

इत्यादौ हि यच्छब्दनिकटस्थस्य947 तच्छब्दस्यापि प्रसिद्धिद्योतकत्वं किं पुनरदःशब्दस्य?।

अथ स्मृतिभूः ‘स्मृतिभृर्विहितो येनासौ रक्षतात्948 क्षताद् युष्मान्’इत्यादावव्यवहितोऽपि दृश्यते। सत्यमत्रेव यच्छब्देन भिन्नविभक्तिकस्तर्हि कार्यः।

अथ क्लिष्टं949 यस्मिन्नर्थप्रतीतिर्व्यवहिता तत् पदं यथा—

“अत्रिलोचनसम्भूतज्योतिरुद्गमभासिभिः।
सदृशं शोभतेऽत्यर्थ भूपाल! तव चेष्टितम्॥३८६॥”

अत्रात्रिलोचनसम्भूतं ज्योतिश्चन्द्रस्तदुद्गमभासिभिः कुमुदैः।

वाक्यं यथा—

“दण्डे चुम्बति पद्मिन्या हंसः कर्कशकण्टके950
मुखं वल्गुरवं कुर्वस्तुण्डेनाङ्गानि घट्टयन्॥३८७॥”

अत्र कर्कशकण्टके दण्डेऽङ्गानि घट्टयन् तुण्डे951न वल्गुरवं कुर्वन् हंसः पद्मिन्या मुखं चुम्बतीति वक्तव्ये यथोक्तपदविन्यासेन क्लिष्टत्वम्। समासगतत्वं चैषां प्रायः पदापेक्षयैव, न वाक्यापेक्षया। पदैकदेशोऽपि पदमेव, तत्रानर्थकं यथा—

“आदावञ्जनपुञ्जलिप्तवपुषां श्वासानि952लोल्लासित–
प्रोत्सर्प्पद्विरहानलेन च ततः सन्तापितानां दृशाम्।
सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो
भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा॥३८८॥”

अत्र दृशामिति बहुवचनमनर्थकम्, कुरङ्गेक्षणाया एकस्या एवोपादानात्। न च—

“अलसचलि953तैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्लञ्जालोलैर्निमेषपराङ्मुखैः।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे! त्वयाऽद्य विलोक्यते?॥३८९॥”

इत्यादिवद् व्यापारभेदाद् बहुत्वं व्यापाराणामनुपात्तत्वात् न च व्यापारेऽत्र दृक्शब्दो वर्ततेऽत्रैव कुरुते इत्यात्मनेपदमनर्थकम्, तस्या विरहिणीत्वेन कर्त्रभिप्रायक्रियाफलाभावात्।

सन्दिग्धं यथा954

“कस्मिन्955 कर्मणि सामर्थ्यमस्य नोत्तपतेतराम्?।
अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह॥३९०॥”

अत्र किं पूर्वं साधुरु956त साधुषु चरतीति सन्देहः।

दुःश्रवं यथा—

“अलमतिचपलत्वात् स्वप्नमायोपमत्वात्
परिणतिविरसत्वात् सङ्गमेन प्रियायाः957
इति यदि शतकृत्वस्तत्त्वमा958लोचयाम–
स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा॥३९१॥”

अत्र त्वादिति दुःश्रवम्।

अवाचकं यथा—

“चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः
शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः।
अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्धस्तव परशु959ना लज्जते चन्द्रहासः॥३९२॥”

अत्र विजेय इत्यत्र कृत्य960प्रत्ययः क्तप्रत्ययार्थेऽवाचकः।

नेयार्थ यथा—

“किमुच्यतेऽस्य भूपालमौलिमालाशिरोमणेः।
सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते॥३९३॥”

अत्र वचःशब्देन गीःशब्दो लक्ष्यते। अत्र न केवलं पूर्वपदं यावदुत्तरपदमपि पर्यायपरिवर्त्तनं न क्षमते। जलध्यादौ तूत्तरपदमेव, वडवानलादौ च पूर्वपदमेव।

निहतार्थ यथा—

“यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभर्ति।
वलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्ताम्॥३९४॥”

अत्र मत्ताशब्दः क्षीबार्थेन तिरोधीयते। एवमन्यदपि पदैकदेशे बोद्धव्यमिति।

अथार्थदोषानाह—

अथ धीमद्भिरर्थोऽपि दुष्टोऽयमभिधीयते॥१०॥

अथ पद-वाक्योभयदोषकथनानन्तरमयं वक्ष्यमाणोऽर्थोऽपि961 धीमद्भिः सहृदयैर्दुष्टो दोषवानभिधीयते॥१०॥

अथ कीदृशोऽर्थो दुष्ट इत्याह—

पुष्टतारहितः कष्टो दुष्क्रम-व्याहतावपि।
सन्दिग्धोऽपदमुक्तश्च पुनरुक्तोऽनवीकृतः॥११॥

विद्यया च प्रसिद्ध्या च विरुद्धोऽश्लील एव च।
प्रकाशितविरुद्धश्च दुष्टविध्यनुवादभाक्॥१२॥

ससामान्य962विशेषाच्च नियमानियमद्वयात्।
परिवृत्तोऽथ साकाङ्क्ष-ग्राम्य-निर्हेतवोऽपि च॥१३॥

भिन्नः सहचरेभ्योऽथविमुक्त963पुनरादृतः।

अथैषां सामान्यलक्षणमाह—

एतेषा964मपि विज्ञेयं निजनामैव ल965क्षणम्॥१४॥

एतेषामपि पुष्टतारहितादीनामपि निजनामैव966 स्वकीयसंज्ञैव लक्षणं विज्ञेयम्। तत्र पुष्टतारहितः प्रकृतोपयोगित्वमर्थस्य पुष्टता तयारहितो यथा—

“तमालश्यामलं क्षारमत्यच्छमतिफे967निलम्।
फालेन लङ्घयामास हनूमानेषसागरम्॥३९५॥”

—————————————————————————————————————————————

६ प त्रयोदशभिः कुलकं।

अत्र तमालश्यामलत्वाद968योऽर्था अनुपादानेऽपि प्र969कृतमर्थ न बाधन्त इत्यपुष्टः970॥१॥

अथ कष्टः कष्टावगम्यो यथा—

“सदा मध्ये यासामियममृतनिःस्यन्द971सरसं
सरस्वत्युद्दामा वहति बहुमार्गा परिमलम्।
प्रसादं ता एता घनपरिचयाः केन महतां
महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु972 रुचयः॥३९६॥”

अत्र यासां कविरुचीनां कविप्रतिभाविशेषाणां मध्ये बहुमार्गा सुकुमार-विचित्र-मध्यमात्मक-त्रिमार्गा सरस्वती भारत्यमृतनिःस्यन्दसरसं पीयूषद्रवसुभगं परिमलं चमत्कारं वहति ता घनपरिचया निविडाभ्यासशालिन्यो महाकाव्ये कथमितरकाव्यवत् प्रसन्ना भवन्तु। यासामादित्यप्रभाणां च मध्ये बहुमार्गा सरस्वती गङ्गा जलनिःस्यन्द973सुन्दरं चमत्कारं व्योम्नि वहति ता मेघपरिचिताः कथं प्रसन्ना भवन्तु इति दुरधिगमार्थद्वयवाचित्वात् कष्टत्वम्॥२॥

अथ दुष्क्रमो दुष्टो विपरीतक्रमो यत्र974 यथा—

*“काराविऊण खउरं गामउडो मज्जिओ अ जिमिओ अ।
नक्खत्तं तिहि-वारे जोइसिअं पुच्छिउं चलिओ॥३९७॥”

अत्र नक्षत्रादिप्रश्नानन्तरं क्षुरकर्मेति क्रमः, स चात्र विपरीतः॥३॥

अथ व्याहतः पूर्वापरयोर्विरोधो यत्र यथा—

—————————————————————————————————————————————

*कारयित्वा क्षौरं ग्रामकूटः स्नातश्च जिमितश्च।
नक्षत्रं तिथि-वारौ ज्योतिषिकं प्रष्टुं चलितः॥

“जगति जयिनस्ते ते भावा नवेन्दुकलाऽऽदयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका
नयनविषयं जन्मन्येकः स एव महोत्सवः॥३९८॥”

अत्रेन्दुकलाऽऽदयो यं प्रत्यवस्तुभूताः स एवोन्कर्षार्थं चन्द्रिकात्वमारोपयतीति व्याहत975त्वम्॥४॥

अथ सन्दिग्धो यः संशयस्य हेतुर्यथा—

“मनोरथप्रियालोकर976सलोलेक्षणे सखि!।
आराद् धृतिरियं माता न क्षमा द्रष्टुमीदृशम्॥३९९॥”

अत्राराच्छब्दस्य दूरान्तिकवाचित्वात् न क्षमा द्रष्टुमीदृशमिति किं न द्रक्ष्यति977, किं वा तवेदृशं चेष्टितं न सहिष्यत इति सन्दिग्धत्वम्॥५॥

अथापदमुक्तोऽपदेऽस्थाने मुक्तो यथा—

“आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं
भक्तिर्भूतपतौपिनाकिनि पदं लङ्केति दिव्या पुरी।
उत्पत्तिर्द्रुहिणान्वये च तदहो! नेदृग् वरो लभ्यते
स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः?॥४००॥”

अत्र ‘स्याच्चेदेष न रावणः’इत्यत्रैव समाप्तिर्युक्ता, अर्थान्तरानुसन्धानं तु धर्मवीरस्य जनस्य978 प्रत्युत म्लानिमुन्मीलयति॥६॥

अथ पुनरुक्तो यत्स एवार्थः पुनरुच्यते।यथा—

“अस्नज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे
सेनानाथे स्थितेऽस्मिन् मम पितरि गुरौ सर्वधन्वीश्वराणाम्।
कर्णालं सम्भ्रमेण व्रज कृप! समरं मुञ्च हार्द्दिक्य! शङ्कां
ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः?॥४०१॥”

अत्र चतुर्थपदवाक्यार्थः पुनरुक्तः।

यथा वा—

“पायात् स शीतकिरणाभरणो भवो वः॥४०२॥

अत्र979 विशेषणाद् विशेष्यप्रतीतौ भवशब्दः।

यत्र तु विशेषणान्न विशेष्यमात्रस्य प्रतीतिरपि तु980 तद्विशेषस्य। तत्र न पौनरु981क्त्यम्। यथा—

“तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा।
कुर्या हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के982 मम धन्विनोऽन्ये?983॥४०३॥”

अत्र पिनाकपाणेरित्यस्य पिनाकसान्निध्यख्यापकत्वात् न हरशब्दस्य पौनरुक्त्यम्॥७॥

अथान984वीकृतो यः परावृत्त्यानवतां न नीयते। यथा—

“प्राप्ताः श्रियः सकलकामदुघास्ततः किं?
दत्तं पदं शिरसि विद्विषतां ततः किम्?।
सन्तर्पिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितं तनुभृतां तनुभिस्ततः किम्?॥४०४॥”

अत्र ततः किमिति न नवतां नीतम्॥८॥

नवीकृतं तु यथा—

“यदि दहत्यनलोऽत्र किमद्भुतं985 यदि च गौरवमद्रिषु किं ततः?।
लवणमम्बु सदैव महोदधेः986 प्रकृतिरेव सतामविषादिता॥४०५॥”

अथ विद्याविरुद्धो विद्यया शास्त्रेण विरुद्धः। तत्र धर्मशास्त्रेण यथा—

“असावनुपनीतोऽपि वेदानधिजगे गुरोः
स्वभावशुद्धः स्फटिको न संस्कारमपेक्षते॥४०६॥”

अत्रानुपनीतस्य वेदाध्ययनं विरुद्धम्।

अर्थशास्त्रेण यथा—

“कामोपभोगसाफल्य987फलो राज्ञां महीजयः।
अहङ्कारेण जीयन्ते द्विपन्तः किं नयश्रिया988?॥४०७॥”

अत्र महीजयस्य धर्मफलस्य कामोपभोगफलत्वेनान989नुमतत्वात्। विपक्षविज990ये चाहङ्कारस्य हेतुत्वाभावादर्थशास्त्रविरोधः।

कामशास्त्रेण यथा—

“विधाय दूरे केयूरमनङ्गाङ्गनमङ्गना।
बभार कान्तेन कृतां करजोल्लेखमालिकाम्॥४०८॥”

अत्र केयूरपदेन नख991क्षतं न क्वापि भणितम्॥९॥

अथ992प्रसिद्धिविरुद्धः प्रसिद्ध्या देश-काल-कविसमयादिजनितया विरुद्धः। तत्र देशविरुद्धो यथा—

“सुराष्ट्रेष्वस्ति993 नगरी मथुरा नाम विश्रुता।
अक्षोट-नालिकेराङ्का994यदुपान्ताद्रिभूमयः॥४०९॥”

अत्र सुराष्ट्रेषु मथुरायास्त995त्पर्यन्ताद्रिषु चाक्षोटादीनामभावाद् देशविरुद्धः।

कालविरुद्धो यथा—

“पद्मिनी नक्तमुन्निद्रा स्फुटत्यह्नि कुमुद्वती।
मधुरुत्फुल्लनिचुलो निदाघो मेघदुर्दिनः॥४१०॥”

अत्र पद्मिन्या नक्तं कुमुद्वत्या अह्नि मधौ निचुलानामुन्निद्रताऽऽद्यभावान्निदाघस्य मेघदुर्दिनत्वाभावाच्च कालविरुद्धः।

कविसमयविरुद्धो यथा—

“इदं ते केनोक्तं कथय कमलातङ्कवदने!
यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम्।
इदं तद्996 दुःसाधाक्रमणपरमास्त्रं स्मृतिभ्रुवा
तव प्रीत्या चक्रं करकमलमूले विनिहितम्॥४११॥”

अत्र कामस्यास्त्रंचक्रं कविसमये न प्रसिद्धम्॥१०॥

अथाश्लीलो यो व्रीडाऽऽदीनि व्यनक्ति। यथा—

“उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः।
पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः॥४१२॥”

अत्र पुंव्यञ्जनस्यापि प्रतीतिः॥११॥

अथ प्रकाशितविरुद्धः प्रकाशितं व्यञ्जितं विरुद्धं येन। यथा—

“लग्नं रागावृताङ्गया सुदृढमिह ययैवासियष्ट्याऽरिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा997पतन्ती।
तत्सक्तोऽयं न किञ्चिद् गणयति विदितं तेऽस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद् गदितुमिव गतेत्यम्बुधिं तस्य कीर्तिः॥”

अत्र वि998दितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसर्तुकामेति विरुद्धं प्रकाश्यते। अनेनैव वाक्यस्य गर्भितत्वमप्यस्ति। इति श्रीनियो999गादिति वाच्ये गतेत्यस्मिन्नितिशब्दस्यास्थानपदत्वं च॥१२॥

अथ दुष्टविध्यनुवादभाग् यो दुष्टौ विध्यनुवादौ भजते । यथा—

“प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा–
मकेशवमपाण्डवं भुवन1000मद्य निःसोमकम्।
इयं परिसमाप्यते रणकथाऽद्यदोःशालिना–
मपैतु1001 रिपुकाननातिगुरुरद्य भारो भुवः॥४१४॥”

अत्र ‘शयितः स्तुतिभिः प्रयत्नेन बोध्यसे’ इति शयनानुवादेन बोधो विधेयस्ततश्चानुवादो विधिश्चात्र वैपरीत्येन कृतौ।

अथ परिवृत्तः ससामान्य1002विशेषात् सामान्येन विशेषेण च सहितान्नियमानियमद्वयान्नि1003यमादनियमाच्च परिवृत्तो विनियमितस्ततश्च सामान्यपरिवृत्तो विशेषपरिवृत्तो नियमपरिवृत्तोऽनियमपरिवृत्तश्चेति चतुर्धा। तत्राद्यो यथा—

“कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकराकर! मावमंस्थाः।
किं कौस्तुभेन विहितो भवतो न नाम यांच्ञा1004प्रसारितकरः पुरुषोत्तमोऽपि॥”

अत्रैकेन किं न विहितो भवतः स नामेति सामान्ये वाच्ये कौस्तुभेनेति विशेष उक्तः।

द्वितीयो यथा—

“श्यामां श्यामलिमानमानयन1005 भोः! सान्द्रैर्मपी कूर्चकै
र्मन्त्रं तन्त्र1006मथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम्।
चन्द्रं चूर्णयत क्ष1007णाच्च कणशः कृत्वा शिलापट्टके
येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्र1008मुद्राऽङ्किताः॥४१६॥

अत्र1009 ज्यौत्स्नीमिति विशेषे वाच्ये सामान्यमुक्तम्।

तृतीयो यथा—

“यत्रा1010नुल्लिखिताक्षमेवनिखिलं निर्मा1011णमेतद् विधे–
रुत्कर्षप्र1012तियोगिकल्पनमपि न्यत्कारको1013टिः परा।
याताः प्राणभृतां मनोरथगतीरुल्लङ्घय यत्सम्पद स्तस्याभासमणीकृताश्मसुमणेरश्म1014त्वमेवोचितम्॥४१७॥”

अत्र छायामात्र मणीकृताश्मसुमणेस्तस्याश्म1015तैवोचितेति नियमे वाच्ये तस्याभासेत्यनियम उक्तः।

चतुर्थो यथा—

“वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते
बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः।
वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं
स्वच्छे1016ऽन्तर्मानसेऽस्मिन् कथमवनिपते! तेऽम्बुपानाभिलाषः?॥”

अत्र शोण इत्यनियमे वाच्ये शोण एवेति नियम उक्तः।

अथ साकाङ्क्षो यः पदान्तरसापेक्षः। यथा—

“अर्थित्वे1017 प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत
द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया।
उत्कर्षं च परस्य मान—यशसोर्विस्रंसनं चात्मनः
स्त्रीरत्नं च जगत्पतिदेशमुखो देवः कथं मृष्यति?॥४१९॥”

अत्र स्त्रीरत्नमिति कर्मपदमुपेक्षितुमिति क्रियापदसापेक्षम्।

अथ ग्राम्यो वैदग्ध्यवश्चितो यथा—

“स्वपिति यावदयं निकटो जनः स्वपिमि तावदहं किमपैति ते1018?।
तदयि!1019 साम्प्रतमाहर रूपकं(कूर्परं) त्वरितमूरुमुदश्चय कुश्चितम्॥”

अथ निर्हेतुर्यस्य हेतुर्निमित्तं नास्ति। यथा—

“गृहीतं येनासीः परिभवभया1020न्नोचितमपि
प्रभावाद् यस्याभून्न खलु तव कश्चिन्न विषयः।
परित्यक्तं तेन त्वमसि सुतशोकान्न तु भयाद्
विमोक्ष्ये शस्त्र! त्वामहमपि यतः स्वस्ति भवते॥४२१॥”

अत्र1021 स्वयं शस्त्रमोचने हेतुर्नोपात्तः, यतइति1022 च तत इत्यर्थे।

अथ सहचरभिन्नो योग्यसहचारिभ्यः पृथग्भूतः। यथा—

“श्रुतेन बुद्धिर्व्यसनेन1023 मूर्खता मदेन नारी सलिलेन निम्नगा।
निशा शशाङ्केन धृतिः समाधिना नयेन चालङ्क्रियते नरेन्द्रता॥४२२॥”

अत्र श्रुत-बुद्ध्यादिभ्यः प्रकृष्टेभ्यः सहचारिभ्यो व्यसन-मूर्खतयोरप1024कृष्टत्वाद् भिन्नत्वम्।

अथ विमुक्तपुनरादृतः। यो विमुच्य पुनराद्रियते। यथा—‘लग्नं रागावृताङ्ग्या’ इत्यादि। अत्र ‘विदितं तेऽस्तु’ इत्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः। यत्रैको दोषस्तत्र दोषान्तराण्यपि सन्ति तथापि तेषामप्रकृ1025तत्वात् तत्र प्रकाशनं न कृतम्॥११-१४॥

अथ1026कियतामपि शब्दानामाधिक्यदोषं निषेद्धुमाह—

कर्णादिश्रुतयः कर्णावतंसादिपदस्थिताः।
सन्निधानादि जल्पन्त्यो वैचित्रीं तन्वते पराम्1027॥१५॥

कर्णावतंसादिषु पदेषु स्थिताः कर्णादि[श्रुतयः] शब्दाः सन्निधानादि प्रत्यासत्त्यादिकं जल्पन्त्यो1028 ब्रुवाणाः काव्ये परां वैचित्रीं सौन्दर्य तन्वते विस्तारयन्ति।

अवतंसादीनि हि कर्णाद्याभरणान्येव तत्र कर्णादिप्रयोगो नौचितीं चुम्बत्वाधिक्यदोषात्। सन्निधानादिकं तु ब्रुवाणः प्रत्युत वैचित्र्यावह एव1029। यथा—

“अस्याः कर्णावतंसेन जितं सर्वं विभूषणम्।
तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम्॥४२३॥”

यथा वा—

“अपूर्वमधुरामोदप्र1030मोदितदिशस्ततः।
आययुर्भुङ्गमुखराः शिरःशेखरशालिनः॥४२४॥

अनयोः कर्ण-श्रवण-शिरःशब्दाः सन्निधानप्रतीत्यर्थाः।

यथा च1031

“विदीर्णाभिमुखारातिकराले सङ्गरान्तरे।
धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव॥४२५॥

अत्र धनुःशब्द आरू1032ढत्वप्रतीतिकृत्। यथा वा—

“प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः।
मुक्ताहारेण लसता1033 हसतीव स्तनद्वयम्॥४२६॥

अत्र मुक्तानामन्यरत्नामिश्रितत्वबोधकृत् मुक्ताशब्दः।

यथा च—

“सौन्दर्यसम्पत् तारुण्यं यस्यास्तत् ते च विभ्रमाः।
पट्पदान् पुष्पमालेव कान्1034 नाकर्षति सा सखे!॥४२७॥”

अत्र मालाशब्दः पुष्पदामन्येव सङ्केतित इत्युत्कृष्टपुष्पप्रतीत्यर्थं पुष्पशब्दः। तर्हि कथं रत्नमालेत्यादि, तत्रोपचारात् तत्प्रयोगः।

यथा वा—‘त्यज करिकलभ! त्वं प्रेमबन्धं करिण्याः।’

अत्र करिशब्दस्ताद्रुप्यप्रतीतिकृत्।

यत्र1035तु न सन्निधानादि1036प्रतिपत्तिर्यथा—

“ज्याबन्धनिःस्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रप1037रम्परेण।
कारागृहे निर्जितवासवेन1038 दशाननेनोषितमाप्रसादात्॥४२८॥”

तथा—

“पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन।
आभाति बालातपरक्तसानुः सनिर्झरोद्गारमिवाद्रिराजः॥४२९॥”

इत्यादिः। तत्र केवला एव ज्यादिशब्दाः प्रयुज्यन्ते॥१५॥

अथानन्तरोक्तस्यार्थस्य सार्वत्रिकप्रसङ्गनिषेधार्थमाह—

समर्थनमिदं किन्तु1039 स्थितेष्वेवापरेषु नो।

किन्तु किं पुनरिदं पूर्वोक्तं समर्थनं स्थितेष्वेव प्राचीनकविनिषद्धेष्वेव, नापरेषु नितम्ब-काञ्ची-उष्ट्र-करमप्रभृतिषु तेषां प्राक्कविभिरनादृतत्वात्।

अथोक्तदोषाणां किञ्चिदपवादमाह—

प्रसिद्धिस्पर्शिनः क्वापि निर्हेतोरप्यदुष्टता॥१६॥

हेतुरहितस्याप्यर्थस्य क्वाप्यदुष्टता। कथम्भूतस्य?प्रसिद्धिस्पर्शिनः प्रसिद्धस्येत्यर्थः। यथा—

“चन्द्रं गता पद्मगुणान्न भुङ्क्ते1040 पद्माश्रिता चान्द्रमसीमभिख्याम्।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः॥४३०॥”

अत्र रात्रौ पद्मसङ्कोचो दिवा चन्द्रमसश्च निष्प्रमत्वं लोकप्रसिद्धमिति ‘न भुङ्क्ते’ इति पदं हेतुं नापेक्षते॥१६॥

** अन्यस्याप्यनुकारे तु**

अनुकारे त्वनुकरणे पुनर्न केवलं निर्हेतोरन्यस्याप्यसंस्कारत्वादिदोषस्यादुष्टता दोषत्वाभावः। यथा—

“पश्यतैष गवित्याह सुत्रामाणं यजेति च।
मृगचक्षुषमद्राक्षीद् इत्यादि च वदत्ययम्॥४३१॥”

अत्रासंस्कारप्रयुक्तः। दुःश्रवाण।मदोषत्वम्।

वक्त्राद्यौचित्यतः पुनः।

दोषोऽपि स्याद् गुणः क्वापि

वक्त्रादीनां वक्तृ-प्रतिपाद्य-व्यङ्ग्य-वाच्य-प्रकर1041णादीनामौ1042चित्यात् परिस्पन्दविशेषात् पुनरसंस्कारत्वादिर्दोषोऽपि क्वापि काव्ये गुणो भवेत्। तत्रासंस्कारस्य गुणत्वं पदे यथा—

“उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हुं हु मुञ्च म म मेति च मन्दं जल्पितं जयति मानवतीनाम्॥४३२॥”

अत्र हुं हु म म मेति पदद्वयं सकोपस्त्रीरूपवक्तृविशेषादसंस्कारमपि गुणत्वं भजते।

निरर्थकस्य1043 यथा—

“योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम्।
क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम्॥४३३॥”

अत्र खलुशब्दस्य निरर्थकत्वेऽपि यमकत्वाद् गुणत्वम्।

भग्नक्रमस्य यथा—

“अभिनववधूरोष1044स्वादुः करीषतनूनपा–दसरलजनाश्लेषक्रूरस्तुषारसमीरणः।
गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवे–
र्विरहिवनितावक्त्रक्लैब्यं बिभर्ति निशाकरः॥४३४॥”

अत्र ‘उपमानं सामान्यैः’ [हैम ३।१।१०८] इति समासविशेषस्य प्रक्रान्तस्याज्ञे1045वेत्य1046स्मिन्निवशब्दप्रयोगात् क्लैव्यमित्यत्र तद्धितप्रयोगाच्चानि1047र्वाहेऽपि1048 भणितिविच्छित्त्युत्कर्षाद् गुणत्वम्।

अक्रमस्य यथा—

“जुगुप्सत स्मैनमदुष्टर्भावं मैवं1049 भवानक्षतसाधुवृत्तः।
इतीव वाचो निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः॥४३५॥”

अत्र ‘मा स्म जुगुप्सत’ इति वक्तव्ये ‘जुगुप्सत स्मैनमदुष्टभावं मा’इति क्रमलोपस्यापि व्यस्तेऽपीच्छन्ति केचिदिति विशेषलक्षणत्वाद् गुणत्वम्।

न्यूनस्य यथा—

“मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा।
वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्षः॥४३६॥”

अत्र दहत्वित्यादिभिः क्रियाभिर्न्यून1050स्याप्यति1051प्रसिद्ध्या तासां प्रतीयमानत्वाद् गुणत्वम्।

सङ्कीर्णस्य यथा—

“बाले! नाथ! विमुञ्चमानिनि!रुषं रोषान्मया किं कृतम्?
खेदोऽस्मासु, न मेऽपराध्यति भवान्, सर्वेऽपराधा मयि।
तत् किं रोदिषि गद्गदेन वचसा?, कस्याग्रतो रुद्यते1052?
नन्वेतन्मम का तवास्मि! दयिता, नास्मीत्यतो रुद्यते॥४३७॥”

अत्र यूनोरुक्ति-प्रत्युक्तौ वाक्यसङ्करस्यापि गुणत्वम्।

गर्भितस्य यथा—

“दिग्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यस्मादाविरभूत् कथाऽद्भुत1053मिदं यत्रैव चास्तं गतम्॥४३८॥”

अत्र यथोक्ता मही साध्यते, सिद्धा सा च विप्राय प्रतिपाद्यते इत्यस्य वाक्यस्य वीराद्भुतरसवशात् प्रवृत्तेन वदन्त एव हीत्यादिवाक्यान्तरेण गर्भितस्यापि गुणत्वम्।

सन्धि1054कष्टत्वस्य यथा—

“जयन्ति वर्षास्विव1055 भर्ग-दुर्गयोः सुदुर्वचा दुर्वचकप्रयुक्तयः1056
अभेङ्ग्वगेड्जे! खमपोग्रभोग्ररुग्द्रुडभ्रमब्रुण्मुखि! सध्र्यगेधि नः॥४३९॥”

अत्रोत्तरार्द्धव्याख्या तत्र शम्भुराह-हे अगेड्जे! अगानां पर्वतानामिष्टे यः सोऽयमगेट्शैलराजः तस्माज्जाता अगेड्जा पार्वती तस्याः सम्बोधनम्। खंनमो वर्त्तते कीदृशम्? अभेड्गु न1057विद्यन्ते भेषश्चन्द्रस्य गावः किरणान्य1058त्र मेघाच्छादितत्वात् तदभेड्गु। अपकृष्टात्युग्रभस्य तरणैरुग्रावण्डा या रुचस्ताभ्यो द्रुह्यन्तीत्येवम्भूतानि चाभ्राणि यत्र तत् तथा। अप्सु रोहतीत्यब्रुट् कमलं तद्वन्मुखं यस्यास्तस्याः सम्बोधनमब्रुण्मुखि!।अथ गौरी प्राह-यद्येवं तर्हि नोऽस्माकं सध्यगेधि स1059हचरो भव। अत्र—

“शुक-स्त्री-बाल-मूर्खाणां मुखसंस्कारसिद्धये।
प्र1060हासाय च गोष्ठीषु वाच्या दुर्वचकादयः॥४४०॥”

इत्युक्तद(दि)शा दुर्वचके सन्धिकष्टत्वस्य गुणत्वम्।

पतत्प्रकर्षस्य यथा—

“प्रागप्राप्तनिशुम्भशाम्भवधनुर्द्वेधाविधाऽऽविर्भवत्–
क्रोधप्रेरितभीम-भार्गवभुजस्तम्भापविद्धः क्षणम्।
उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि–
र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते॥४४१॥

अत्रान्त्यपादे क्रोधाभावाद् बन्धदाढ्यस्य पतत्प्रकर्षत्वमपि गुणः।

त्यक्तप्रसिद्धिकस्य यथा—

“आशुलङ्घितवतीष्टकराग्रे नीवीमर्द्धमुकुलीकृतदृष्ट्या1061
रक्तवैणिकहताधरतन्त्री मण्डलक्वणितचारु चुकूजे1062॥४४२॥”

अत्र कूजितस्य पक्षिभ्योऽन्यत्राप्रसिद्धत्वेऽपि कामशास्त्रेऽनुमतत्वाद् गुणत्वम्।

पुनरुक्तपदन्यासस्यानुकम्पायां यथा—

“हन्यते सा वरारोहा स्मरेणाका1063ण्डवैरिणा।
हन्यते चारुसर्वाङ्गी हन्यते मज्जुभाषिणी॥४४३॥”

लाटानुप्रासे यथा–

“जयति क्षुण्णतिमिरस्तिमिरान्धैकवल्लभः।
वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः॥४४४॥”

अर्थान्तरसङ्क्रान्तवाच्ये ध्वनौ यथा—

<MISSING_FIG href=”../books_images/U-IMG-17303554696.JPG”/>“ताला जायंति गुणा जांलाते सहियंए1064हिं घिप्पंति।
रविकिरणाणुग्गहियाइं1065 हुंति कमलाइंकमलाइं॥४४५॥”

विहितानुवादे यथा–

जितेन्द्रियत्वं विनयस्य1066 कारणं गुणप्रकर्षो विनयादवाप्यते।
गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा1067 हि सम्पदः॥४४६॥”

अति1068रिक्तपदस्य यथा—

“यद्वञ्चनाहितमतिर्ब1069हुचाटुगर्भं कार्योन्मुखः खल1070जनः कृतकं ब्रवीति।
तत् साधवो न न विदन्ति विदन्ति किन्तु कर्तुं वृथा प्रणयमस्य न पारयन्ति”॥४४७॥

अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेदपरम्।

“वद वद जितः स शत्रुर्न हतो जल्पंश्च तव तवास्मीति।
चित्रं चित्रमरोदीद् हा हेति परं मृते पुत्रे1071॥४४८॥”

इत्येवमादौ हर्ष-भ1072यादियुक्ते वक्तरि द्विरुक्तौ पदाधिक्यमपि गुणः।

ग्राम्यस्य यथा—

<MISSING_FIG href=”../books_images/U-IMG-17303561377.JPG”/>“फुल्लुकरं कलमकूरसमं1073 वहन्ति जे सिन्दुवार1074विडवा मम बल्लहा ते।
जे गालिदस्स महिसीदहिणोसरिच्छा ते किं च मुद्धवियइल्लपसूणपुंजा॥”


<MISSING_FIG href=”../books_images/U-IMG-17303554696.JPG”/>तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि॥

<MISSING_FIG href=”../books_images/U-IMG-17303561377.JPG”/>पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्दुवारचिटपिनो मम वल्लभास्ते।
ये गालितस्य महिषीदध्नः सदृशास्ते किं च मुग्धविचकिलप्रसूनपुञ्जाः?॥

अत्र विदूषकोक्तत्वात् कलमकूर–महिषीदधिशब्दानां ग्राम्याणामपि गुणत्वम्।

सन्दिग्धस्य यथा—

“पृथुकार्त्तस्वरपात्रं भूषितनिःशेषपरिजनं देव!।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्॥४५०॥”

अत्र सन्दिग्धत्वमपि व्याजस्तुतिपर्यवसायित्वाद् गुणः1075

दुःश्रवस्य यथा—

“दीधीङ्-वेवीङ्समः कश्चिद् गुण-वृद्ध्योरभाजनम्।
कृत्प्र1076त्ययनिभः कश्चिद् यत्र सन्निहिते न ते॥४५१॥”

यथा च—

“यदा1077 त्वामहमद्राक्षं पद्यविद्याविशारद!।
उपाध्यायं तदाऽस्मार्ष समस्प्राक्षं च सम्मदम्॥४५२॥”

इत्यादौ वक्तृ-बोद्धव्ययोर्वैयाकरणत्वाद् गुणत्वम्।

यथा वा—

“अन्त्रप्रोतबृहत्कपालनल1078कक्रूरक्वणत्कङ्कण
प्राय1079प्रेङ्खितभूरिभूषणवैराघोषयन्त्यम्बरम्।
पीतच्छर्दितरक्तकर्द्दमघनप्राग्भर1080घोरोल्ललद्व्–
व्यालोलस्तनभारभैरववपुर्द1081पोद्धतं1082 धावति॥४५३॥”

अत्रतु रौ1083द्ररसाश्रयित्वात्।

यथा च—

“रक्ताशोक! कृशोदरी क्व नु गता त्यक्त्वाऽनुरक्तं जनं
नो दृष्टेऽपि1084 मुधैव धूनयसि किं वाताभिभूतं शिरः?।
उत्कण्ठाघट1085मानषट्पदघटासङ्घट्टदष्टच्छद–
स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः?॥४५४॥”

अत्र पुनरुत्तरार्द्धे वक्तुः प्रकुपितत्वात्।

अप्रतीतस्य यथा—

“सर्वकार्यशरीरेषु मुक्त्वाऽङ्गस्कन्धपश्चकम्।
सौगतानामिवात्माऽन्यो नास्ति मन्त्रो महीभृताम्॥४५५॥”

यथा वा—

“आत्मारामा विहितरतयो निर्विकल्पे समाधौ
ज्ञानोत्सेकाद् विघटिततमोग्रन्थयः सत्त्वनिष्ठाः।
यं वीक्षन्ते कम1086पि तमसां1087 ज्योतिषां वा परस्तात्1088
तं मोहान्धः कथंमयममुं वेत्तिदेवं पुराणम्?॥४५६॥”

अनयोः शास्त्रमात्रप्रसिद्धस्याप्यर्थस्य त1089द्विद्यसंवादे गुणत्वम्।

अयोग्यार्थस्य यथा—

“चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन।
निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः॥४५७॥”

अत्र चन्द्रस्यानुचितमपि चण्डालोपमानं निन्दायां गुणः।

अप्रयुक्त-निहिता1090र्थयोर्यथा—

“येन ध्वस्तमनोभवेन वलिजित्कायः पुरास्त्रीकृतो
यथोर्द्धृत्त1091भुजङ्गहारवलयो गङ्गां च योऽधारयत्।
यस्याहुः शशिमच्छिरोह1092र इति स्तुत्यं च नामामरा1093
पायात् स स्वयमन्धकक्षयक1094रस्त्वां सर्वदो माघवः॥४५८॥”

व्याख्या-स त्वां सर्वदा नित्यमुमाधवः शङ्करः पायादन्धकस्य दैत्यविशेषस्य क्षयं विनाशं क1095रोतीति। येन ध्वस्तमनोभवेन क्षपितस्मरेण बलिजितः कृष्णस्य का1096यः पुरा पूर्वं कुर्वता त्रिपुरदाहमस्त्रीकृतो बाणीकृतः। यश्च दुष्टभोगिहारवलयो यश्च गङ्गां सुरसिन्धुमधारयत्। यस्य शिरः शशिमन्मृगा1097ङ्कयुक्तं हर इति च नाम स्तुत्यं स्तोतव्यममरा आहुः कथयन्ति। माधवोऽपि पायात्। सर्वदः सर्वप्रदस्तथाऽन्धकेषु वृष्णिषु क्षयं निवासं1098 करोतीति1099। येनाभवेन संसारमुक्तेन ध्वस्तं भग्नमनः शकटं बलिजित् स्वकीयः कायश्च पुरा मुर1100वधे स्त्रीकृतो नारीत्वं प्रापितः। यश्चोद्धृत्तभुजङ्गहा कालिकाख्यं नागं हतवान्। खल1101यो खेशब्दब्रह्मणि लयो लीनता यस्य तथाऽगं पर्वतं गोवर्द्धनाख्यं गां पृथिवीं च कूर्मादिरूपेण यो धृतवान्। यस्य च शशिमच्छिरोह1102र इति शशिनं मध्नातीतिशशिमत् सैंहिकेयस्तस्य शिरो हरतीत्येवं नाम सुरा आहुः। अत्र माधवपक्षे शशिमत्-क्षयशब्दावप्रयुक्त-नि1103हता1104र्थो श्लेषाश्रयेण गुणभूतौ।1105

जुगुप्साऽश्लीलस्य यथा—

“पद्मान्यर्काशुनिष्ट्यूताः पीत्वा पावकविप्रुषः।
भूयो वमन्तीव मुखैरुद्गीर्णारुणरेणुभिः॥४५९॥”

अत्र निष्ट्यूतोद्गीर्ण-वान्तीनां जुगुप्साहेतूनामप्युपचाराश्रयणाद् गुणत्वम्।

यथा वा—

“उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे।
क्लेदिनि स्त्रीव्रणे सक्तिरक्रमेः कस्य जायते?॥४६०॥”

अत्र वक्तुः शमैकनिष्ठत्वाद् गुणत्वम्।

अमङ्गलाश्लीलस्य यथा—

“भद्रे! मारि! प्रशस्तं वद सदसि मुदा नृत्य कृत्ये! मुहूर्तं
मृत्यो! रत्नै1106श्चतुष्कं विरचय रचयारात्रिकं कालरात्रि!
चामुण्डे! मुण्डमालामुपनय विनय स्वायतां भैरवीर्ष्या–
मेवं देवे भवानीं वहति परिजनव्याहृतिस्त्रायतां वः॥४६१॥”

अत्र मारी-कृत्याऽऽदीनां पदानाममङ्गलानामप्यखिलमङ्गलाश्रयस्य देवस्य पुरारेः सम्बन्धित्वेनोक्तत्वाद् गुणत्वम्1107

संवीत-गुप्त-लक्षितस्य व्रीडाऽश्लीलस्यापि गुणत्वम्। तत्र संवीतं लो1108कसंवृत्तम्। गुप्तं तु यस्योभयार्थस्य प्रसिद्धेनार्थेनाप्र1109सिद्धोऽसभ्योऽर्थस्तिरोधीयते। लक्षितं पुनर्यल्लक्षणयाऽसभ्यार्थ न तु मु1110ख्यया वृच्या। तेषु संवीतं यथा—

“तस्मै हिमाद्रेः1111 प्रयतां तनूजां यता1112त्मने रोचयितुं यतस्व।
योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम्॥४६२॥”

अत्र तद्वीर्यनिषकभूमिरित्यस्य संवीतत्वाद्1113 गुणत्वम्।

यथा वा—

“ब्रह्माण्डकारणं योऽप्सु निदधे वीर्यमात्मनः।
उपस्थानं करोम्येष तस्मै शेषाहिशायिने॥४६३॥”

तथा—

“सते1114ऽनुनेयः सुभगोऽभिमानी भगिन्ययं नः प्रथमोऽभिस1115न्धिः॥४६४॥”

अत्र पूर्वस्मिन् श्लोकेऽपरस्मिन् वृत्तार्द्धे च ब्रह्माण्डोपस्थान-सुभग-भगिनीशब्दानामेकदेशेनासभ्यार्थस्मृतिहेतुत्वेऽपि संवीतत्वाद् गुणत्वम्। यदाह—

“संवीतस्य हि लोकेन न दोषान्वेषणं कृतम्।
शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावनम्?॥४६५॥”

गुप्तं यथा—

‘गजैरसंम्बाधमया1116म्बभूवे।’ अत्र ‘सम्बाधः1117 सङ्कटे भगेऽप्युक्तः’ इति वचनादुभयार्थस्य सम्बाधशब्दस्यासभ्योऽर्थः प्रसिद्धेन सङ्कटार्थेन तिरोहितः।

लक्षितं यथा—

‘सुदुस्त्यजा यद्यपि जन्मभूमिः।’ अत्र जन्मभूमिशब्दस्य प्रतीयमानोऽसभ्योऽर्थोऽलाक्षणिक इत्यसभ्यस्मारकत्वेऽपि न दोषत्वम्। एवं दोहदाभिप्रेतकुमारीप्रभृतिशब्देष्वपि ज्ञेयम्।

विरुद्धमति1118तो यथा—

“अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः।
भवतोऽभि1119मनाः1120 समीहते सरुषः1121 कर्तुमुपेत्य माननाम्॥४६६॥”

अत्र विपक्षदूतोक्तिः प्रथमं सन्धिविषयाऽपि द्व्यर्थत्वात् पर्यन्ते विरुद्धस्य विग्रहस्य मतिं करोतीति वक्तृवैदग्ध्यप्रकाशकत्वाद् तस्या गुणत्वम्।

क्लिष्टस्यगुणत्वं य1122था—

“अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः।
रत्नाकरं वीक्ष्य मिथः सजायं1123रामाभिधानो हरिरित्युवाच॥४६७॥”

अत्र शब्दगुणमात्मनः पदमित्यनेन झगित्याकाशप्रतीतौ गुणत्वम्।

अथार्थदोषाणां गुणत्वमाह। तत्र दुष्क्रमस्य यथा—

“पश्चात् पर्यस्य1124 किरणानुदीर्ण1125चन्द्रमण्डलम्।
प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः॥४६८॥”

अत्र कारण-कार्ययोः पौर्वापर्यक्रमभ्रंशस्यातिशयोक्तिपर्यवसायित्वाद् गुणत्वम्।

पुनरुक्तस्य यथा—

“असारं संसारं परिमुषितरत्नं त्रिभुवनं
निरालोकं लोकं मरणशरणं बान्धवजनम्।
अदर्प कन्दर्प जननयननिर्माणमफलं
जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः?॥४६९॥

अत्रासारं संसारमित्यस्यैव प्रकारान्तराऽभिहितः शेषेष्वप्यर्थ इत्यर्थपौनरुक्त्यस्यापि वक्तुः1126 शोकरसाक्षिप्तत्वेन गुणत्वम्। अत्रैव1127 च ‘मरणशरणं बान्धवजनम्’ इति वाक्यं सुन्दरत्वादन्यवाक्यपङ्क्तेरनर्हइति सहचरभिन्नत्वं ‘विधिमपि विपन्नाद्भुतविधिम्’ इति तु युक्तः पाठः।

अश्लीलस्य यथा—

“अद्यापि तत् कनककुण्डलघृष्टगण्ड1128
मास्यं1129 स्मरामि विपरीतरताभियोगे।
अन्दोलनश्रमजलस्फुटसान्द्रबिन्दु–
मुक्ताफलप्रकरविच्छुरितं प्रियायाः॥४७०॥”

अत्राश्लीलस्याप्यर्थस्य कविभिरादृतत्वाद् गुणत्वम्।

विमुक्त पुनरादृतस्य यथा—

“शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं
संप्लुष्यन्त्यथ1130 कालकूटपटलीसंवाससंदूषिताः।
किं प्राणान् न हरन्त्युत प्रियतमाः संजल्प1131मन्त्राक्षरै
रक्ष1132न्ते कि मोहमेमि हह1133हा! नो वेद्मि का मे गतिः॥४७१॥”

अत्र सन्देहालङ्कारस्य1134 त्यक्त्वा त्यक्त्वा पुनरुपात्तस्यर1135सपोषकत्वाद् गुणत्वम्।

न दोषो न गुणः क्वचित्1136॥१७॥

क्वापि काव्ये पुनरसंस्कारादीनां न दोषत्वं न गुणत्वम्। तत्र समाप्तपुनरारब्धस्य यथा—‘प्रागप्राप्तनिशुम्भशाम्भव—’ इत्यादि। यत्र हि विशेषणमात्रं तच्छब्दालङ्कृतं वाक्यान्तरं वा पुनरुपादीयते तत्र दुष्टत्वम्। यत्र तु यच्छब्देन स्वरूपमात्रकथनाय पुनर्वाक्यान्तरमारभ्यते तत्र न दोषो नापि गुणः कश्चित्।

न्यूनस्य यथा—

‘तिष्ठेत् कोपवशात् प्रभावपिहित-’ इत्यादि। अत्र ‘पिहित’ इति पदाद् ‘भवेद्’ इति पदाच्चानन्तरं ‘नैतद् यते’ इत्येतेः पदैर्न्यूनैर्विशेषबुद्धेरकरणान्न गुणः।‘पूर्वा प्रतिपत्तिमुत्तरा प्रतिपत्तिर्वाधते’ इति न दोषः।

दुःश्रवस्य यथा—

“शीर्णघ्राणांद्रि-पाणीन् घृणिभिरपघनैर्घर्घराव्यक्तघोषान्1137
दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः।
धर्मांशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्ते
दत्तार्घाः सिद्धसङ्घैर्विदधतु घृणय शीघ्रमहोविघातम्॥४७२॥”

अत्र नीरसत्वादेव दोष-गुणत्वाभावः॥१७॥

अथ रसदोषानाह—

रसादीनां स्वशब्दोक्तिर्विना सञ्चारिभिः क्वचित्।
या च क्लेशकृता व्यक्तिरनुभाव-विभावयोः॥१८॥

विभावादिप्रतीपत्वं भूयो भूयश्च दीपनम्।
अप्रस्तावे प्रथा-च्छेदौ क्वचिदङ्गातिविस्तृतिः॥१९॥

नाङ्गिनोऽप्यनुसन्धानं प्रकृतिव्यत्ययस्तथा।
अनङ्गोपनिबन्धश्च दोषा इत्यादयो रसे॥२०॥

इत्यादयः स्वशब्दोक्त्यादयो रसे रसाश्रया दोषाः। तेषु रसादीनां स्वशब्दोक्तिः। रसादीनां रस-स्थायि-व्यभिचारिणां स्वशब्देनोक्तिः1138 कथनम्। तत्र रसस्य स्वशब्देन शृङ्गारादि1139शब्देन वाऽभिधेयत्वम्। यथा—

“शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे
बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूर्त्याऽद्भुतस्तुङ्गया।
रौद्रो दक्षविमर्दने च हसकृन्नग्नः प्रशान्तश्चिरा
दित्थं सर्व1140रसात्मकः पशुपतिर्भूयात् सतां भूतये॥४७३॥”

अत्र रसश1141ब्दस्य शृङ्गारादिशब्दानां च प्रयोगः।

स्थायिनां यथा—

“सम्प्रहा1142रे प्रहरणैः प्रहाराणां परस्परम्।
टणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत्॥४७४॥”

अत्रोत्साहस्य यत्रापि स्वशब्देनाभिधानमस्ति‚1143 तत्रापि विभावादिप्रतिपादनमुखेनैव रसादीनां प्रतीतिः। स्वशब्देन तु सा केवलमनूद्यते। यथा—‘याते द्वारवतीम्’ इत्यादि।

अत्र विभावानुभावव1144लादेवोत्कण्ठा गम्यते। सोत्कण्ठशब्दस्त्वनुवादक एव। उक्तमित्यस्यावकाशदानाय च सोत्कण्ठशब्दप्रयोग इ1145त्यनुवादस्यापि नानर्थक्यम्।

व्यभिचारिणां यथा—

“सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रास भुजगे सविस्मयरसा चन्द्रे सुधास्यन्दिनि।

सेर्ष्या जह्नुसुताऽवलोकनविधौ दीना कपालोदरे
पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः॥४७५॥”

अत्र व्रीडादीनां ‘व्यानम्रा दयितानने मुकुलितामातङ्गच1146र्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रे सुधास्यन्दिनि। मीलद्भूः1147सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे’ इत्यादिपाठो युक्तः।

विना सञ्चारिभिः क्वचित्इति वचनात् कचिन्न दोषः। यथा—

^(“)औत्सुक्येन कृतत्वरा सहभुवा व्यावर्त्तमाना ह्रिया
तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताऽऽभिमुख्यं पुनः।
दृष्ट्राऽग्रे वर1148मात्तसाध्वसरसा गौरी नवे सङ्गमे
संरोहत्पुलका हरेण हसता1149 श्लिष्टा शिवायास्तु वः॥४७६॥”

अत्रौत्सुक्यशब्द इवतदनुभावो न तथा प्रतीतिकृत्।

अत एव ‘एष्यत्युत्सुकमागते विचलितम्’ इत्यादौ व्रीडाद्यनुभावानांविचलितत्वादीनामिवोत्सुक1150त्वानुभावस्य सहसा प्रसरणादिरूपस्य तथाप्रतीतिकारित्वाभावादुत्सुकमिति कृतम्।

या च क्लेशकृता व्यक्तिरनुभाव-विभावयोः। तत्रानुभावानां यथा—

“कर्पूरधूलिधवलद्युतिपूरधौतदिग्मण्डले शिशिररोचिषि तस्य यूनः।
लीलाशिरोऽशुकनिवेशविशेषक्लृप्तिव्यक्तस्तनोन्नतिरभून्नयनावतंसा1151॥”

अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावापर्यवसायि1152नः स्थिता इत्यनुभावानां1153 क्लेशव्यक्तिः1154

विभावानां यथा—

“परिहरति रतिंमतिं लुनीते1155 स्खलतितरां परिवर्त्तते च भूयः।
इति वत विषमा दशाऽस्य देहं परिभवति1156 प्रसभं किमत्र कुर्मः?॥”

अत्र रतिपरिहारादीनामनुभावादीनां करुणादावपि सम्भवात् कामिनीरूपो विभावो यत्न1157प्रतिपाद्यः।

विभावादिप्रतीपत्वं प्रातिकूल्यं यथा—

“प्रसादे वर्त्तस्व प्रकटय मुदं सन्त्य1158ज रुषं
प्रिये! शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं
न मुग्धे! प्रत्येतुं प्रभवति गतः कालहरिणः॥४७९॥”

अत्र कालो हरिण इव शीघ्रं गच्छति, न च पुनर्निवर्तत इत्यनित्यताप्रकाशनरूपः शृङ्गारप्रतिकूलस्य शान्तस्य विभाव इति विभावप्रतीपत्वं तत्प्रकाशितो निर्वेदश्व स्वदत इति व्यभिचारिप्रतीपत्वं च। एवं शृङ्गार-बीभत्सयोर्वीर-भयानकयोः शान्त-रौद्रयोरप्युदाहार्यम्।

भूयो भूयश्च दीपनम्। यथा कुमारसम्भवे रतिप्रलापेषु। रसो हि स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमानः परिम्लानकुसुमकल्पः कल्पत इति।

अप्रस्तावे प्रथा-च्छेदौ। तत्राकाण्डे प्रथा प्रथनम्। यथा वेणीसं1159हारेद्वितीयेऽङ्के वीरलक्षक्षयकारिणि समरसंरम्भे प्रवृत्ते वीरोद्धतस्यापि दुर्योधनस्य भानुमत्या सह1160 शृङ्गारवर्णने1161

अकाण्डे च्छेदो यथा वीरचरिते द्वितीयेऽङ्के राघव–भार्गवयोर्धाराधिरूढे वीररसे कङ्कणमोचनाय गच्छामीति राघवस्योक्तौ।

क्वचिदङ्गातिविस्तृतिः। क्वाप्यस्याप्रधानस्या1162तिविस्तरेण वर्णनम्। यथा हयग्रीववधे1163 हयग्रीवस्य। यथा वा शिशुपालवधे शिशुपालं हन्तुं सर्वाभिसारेणाभ्युद्यतस्य हरेर्वीररसानुबन्धेऽपि तदनङ्गभूतानामपि ऋतूपवन– विहार-पुष्पावचयादीनां तदित्थमप्रस्तुतवस्तुविस्तृतिः प्रस्तुततिरस्कारिण्यपि1164 महाकविलक्ष्येषु1165 भूयसा दृश्यते इति तत्त्वं त एव जानन्ति।

नाङ्गिनोऽप्यनुसन्धानम्। अङ्गिनोऽपि प्रधानस्यापि नानुसन्धानं1166 न स्मरणम्। यथा1167 रत्नावन्यां चतुर्थेऽङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः।

प्रकृतिव्यत्ययस्तथा। प्रकृतयो1168 दिव्या अदिव्या दिव्यादिव्याश्च। वीर–रौद्र–शृङ्गार–शान्तरसप्रधाना धीरोदात्त—धीरोद्धत—धीरललित—धीरप्रशान्ता उत्तमाधम–मध्यमाश्च। तत्र रति–हास–शोकाद्भुता अदिव्योत्तमप्रकृतिवद् दिव्येष्वपि वर्णनीया’; किन्तु रतिः सम्भोगशृङ्गाररूपा उत्तमदेवताविषया न वर्णनीया। तद्वर्णनं हि पित्रोः सम्भोगवर्णनमिवात्यन्तमनुचितम्। क्रोधोऽपि भ्रुकुट्यादिविकारवर्जितः सद्यः फलदो निबन्धनीयः। यथा—

“क्रोधं प्रभो! संहर संहरेति यावद् गिरः खे मरुतां चरन्ति।
तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार॥४८०॥”

स्वः–पातालगमन–समुद्रोल्लङ्घनादावुत्साहश्च दिव्येष्वेव। अदिव्येषु तु यावदवदानं प्रसिद्धमुचितं वा तावदेवोपनिबन्धव्यम्। अधिकं तु निवध्यमानमसत्यं प्रतिभासेत। नायकवद् वर्त्तितव्यम्, न प्रतिनायकवद् इत्युपदेशेन1169 च पर्यवस्येत्। दिव्यादिव्येषु तूभयथापि। एवमुक्तौवित्यानां दिव्यादीनां1170 धीरोदात्तादीनां च प्रकृतीनामन्यथा वर्णनं व्यत्ययः। तत्र भवन्भगवन्नित्युत्तमेन नाधमेन, मुनिप्रभृतौ1171 न राजादौ, भट्टारकेति न राजादौ, परमेश्वरेति न मुनिप्र–

भृतौ प्रकृतिव्यत्ययापत्तेर्वाच्यमेवं देश–काल–वयो–जात्यादीनामुचितमेव वेषव्यवहारादिकमुपनिबन्धव्यम्।

अनङ्गोपनिबन्धवानङ्गस्य रसानुपकारकस्योपनिबन्धो वर्णनम्। यथा कर्पूरमञ्जर्या नायिकया1172 स्वात्मा च वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य1173 तस्य राज्ञा प्रशंसनमित्यादयः। इत्यादिशब्दान्नायिकापादप्रहारादिना नायककोपादिवर्णनं ग्राह्यमनुचितत्वेन तस्य रसभङ्गकारित्वात्। यदुक्तं ध्वनिकृता—

“अनौचित्याद् ऋते नान्यद् रसभङ्गस्य कारणम्।
प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत् परा॥४८१॥”इति॥१८-२०॥

अथामीषां क्वचिददोषत्वमाह–

विरुद्धस्यापि सञ्चारिप्रमुखस्य क्वचिद् गुणः।1174
बाध्यत्वेनाभिधानं यत् तदत्यन्तमनोहरम्1175॥२१॥

क्वचित् पुनर्विरुद्धस्यापि व्यभिचारिप्रभृतेर्यदन्यवाध्यत्वेनाभिधानं तत्र केवलं न दोषः, प्रत्युतात्यन्तमनोहरं प्रकृतरसपरिपोषकारित्वात्। यथा—

‘क्वाकार्य शशलक्ष्मणः क्व च कुलम्’इत्यादौ।

अत्र वितर्कौत्सुक्य–मति–स्मरण–शङ्का–दैन्य–धृति–चिन्तानामुत्तरोत्तरबाध्यत्वेनोपात्तानामपि पर्यन्ते चिन्तायामेव विश्रान्तिरिति तद्वाध्यत्वेन तेषां प्रकृतरसपरिपोषकत्वम्।

“पाण्डुक्षामं वक्त्रं हृदयं सरसं तवालसं च वपुः।
आवेदयति नितान्तं क्षेत्रियरोगं1176 सखि! हृदन्तः॥४८२॥”

इत्यादौ तु पाण्डुताऽऽदीनां1177साधारणत्वेन1178 प्रतिकूलत्वमिति1179 द्वयोरपि सखिपरिहासाङ्गत्वमिति वा न विरुद्धत्वम्।

अत्र क्षेत्रियो1180 राजयक्ष्मा उपपत्तिश्च।

“सत्यं मनोरमा रामाः1181 सत्यं रम्या विभूतयः।
किन्तु मत्ताङ्गना1182पाङ्गभङ्गलोलं हि जीवितम्॥४८३॥”

अत्राद्यमर्द्ध बाध्यत्वेनैवोक्तं द्वितीयं तु प्रसिद्धास्थिरत्वा1183पाङ्गभङ्गोपमानेनापि1184 जीवितस्यास्थिरत्वं प्रतिपादयद् वाधकत्वेनोपात्तं शान्तमेव पुष्णाति; न पुनः शृङ्गारस्यात्र प्रतीतिस्तदङ्गानाम1185प्रतिपत्तेः। ध्वनिकारस्तु—

चिनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा।
तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति॥४८४॥

इति विरोधपरिहारमाह। तदयुक्तम्, शान्त–शृङ्गारयोर्नैरन्तर्यस्याभावात्। काव्यशोभा तु रसान्तराद् अनुप्रासमात्राद् वा स्यादेवेति॥२१॥

भिन्नाश्रयत्वं कर्तव्यमाश्रयैक्ये विरुद्धयोः।
नैरन्तर्ये तु रसयोरन्तः कार्यं रसान्तरम्॥२२॥

आश्रयैक्येऽभिन्नाश्रयत्वे सति विरुद्धयो रसयोर्मिनाश्रयत्वं कर्तव्यम्। तथाहि–वीर–भयानकयोरेकाश्रयत्वे विरोध इति प्रतिपक्षगतत्वेन भयानको निवेशयितव्यः। यथाऽर्जुनचरिते’—1186

“समुत्थिते भयावहे धनुर्ध्वनौ किरीटिनः।
महानुपप्लवोऽभवत् पुरे पुरन्दरद्विषाम्॥४८५॥”

एकस्मिन्नेवाश्रये विरुद्धयो रसयोर्निरन्तरत्वे1187 पुनरन्तर्मध्ये रसान्तरं कार्यम्। यथा नागानन्दे शान्तरसैकमयस्य जीमूतवाहनस्य ‘अहो! गीतमहो! वादितम्’ इत्यद्भुतमन्तरे निवेश्य मलयवतीं प्रति शृङ्गारो निबद्धः। न केवलं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधानेन विरोधो निवर्त्तते। यथा—

भूरेष1188 (णु) दिग्धान्1189 नवपारिजातमाला1190रजोवासितबाहुमध्याः।
गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्टभुजान्तराला॥४८६॥”

संशोणितैः1191 क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान्।1192
संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः॥४८७॥

विमानपर्यङ्कतले1193 निषण्णाः कुतूहलाविष्टतया तदानीम्।
निर्द्दिश्यमानाल्ललनाङ्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन्॥४८८॥”

अत्र बीभत्स–शृङ्गारयोरन्तरे वीरा इत्यनेनाविष्कृतस्य वीररसस्य1194 निवेशान्नविरोधः। कर्तृकारकस्य च स्वातन्त्र्येण सकलवाक्यव्यापकत्वमिति प्रान्ते स्थितमपि वीरा इत्येतत् पदमादौ1195 मध्ये च द्रष्टव्यम्। स्वदेहानित्यनेनैकत्वाभिमानादाश्रयैक्यम्॥२२॥

विरोधपरिहारान्तरमाह—

विरुद्धोऽपि स्मृतिं प्राप्तो वक्तुं साम्येन वा मतः।
अङ्गिन्यङ्गत्वमायातौ न विरुद्धौ रसौ मिथः॥२३॥

प्रकृतरसविरुद्धोऽपि रसः स्मृतिमारोहन्न1196 विरुद्धो यथा—

“अयं स रशनोत्कर्षी पीनस्तनविमर्दनः।
नाभ्यूरु–जघनस्पर्शी नीवीविस्रंसनः करः॥४८९॥”

इदं भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वधूनामनुशोचनम्। अत्र करस्य पूर्वावस्थास्मरणं शृङ्गाराङ्गमपि करुणं पुष्णाति। प्रकृतिरम्या हि पदार्थाः शोच्यां दशां गताः स्मर्यमाणपूर्वस्वरूपाः कामं शोकावेगमुन्मीलयन्ति।

तथा साम्येन वक्तुमिष्टोऽपि न विरुद्धः। यथा—

“दन्तर्क्षतानि1197 करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे।
दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि॥४९०॥”

अत्र यथा कस्यचिन्मनोरथ1198शतप्रार्थितप्रेयसीसम्भोगावसरे पुलको जायते, तथा तवापि परार्थसम्पादनाय स्वशरीरदानावसर इति साम्यविवक्षा।

तथा कस्मिन्नप्यङ्गिन्येङ्गभावं1199 प्राप्तौ रसौ मिथः परस्परं न1200विरुद्धौ । यथा—

“कामन्त्यः क्षतकोमलाङ्गुलि1201गलद्रक्तैः सदर्भाः स्थलीः
पादैः पातितयावकैर(रि)व पतद्वाष्पाम्बुधौताननाः।
भीता भर्तृकरावलम्बितकरास्त्वच्छत्रुनार्योऽधुना
दावाग्नि परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव॥४९१॥”

अत्र राजविषयाया1202 रतेः करुण इव शृङ्गारोऽप्यङ्गमिति1203 न विरोधः ।

पराङ्गत्वेऽपि विरोधिनोः कथं न विरुद्धत्वमिति चेत्, उच्यते–विधौ विरुद्धसमावेशस्य दुष्टत्वं नानुवादे। यथा—

“एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः॥४९२॥”

न ह्यत्र तदैव एहि, तदैव गच्छेति विधिः, किं पुनरेहीति क्रीडन्ति, गच्छेति क्रीडन्तीत्यागमन–गमनानुवादेन1204क्रीडैव विधेयेति क्रीडाऽङ्गयोस्तयोर्न विरोधः।

एवं रसेष्वपि द्रष्टव्यम्। यथा वा—

“ क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण।
आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः॥४९३॥”

अत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम्, तस्यापि शृङ्गारः, तर्थापि1205

करुणे विश्रान्तिरित्यस्य शम्भुप्रभावातिशयं प्रत्यङ्गतैव । यदि वा प्राग् यथा कामुकस्तास्वाचरति स्म तथेदानीं शराग्निरिति स्मर्यमाणेन शृङ्गारेण परिपोषितः करुणोऽङ्गतामाश्रयन् सुतरामीश्वरप्रभावातिशयमुपचिनोति। यदुक्तम्–

“गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते।
प्रधानस्योपकारे1206हि तथा भूयसि वर्तते॥॥४९४॥”

इति1207 न कश्चिद् विरोध इति॥२३॥

इत्युक्तदोषाहिविषोर्मिविक्लवां सरस्वतीं स्वस्थतनूं1208 तनोति यः।
स एव धत्ते कविमण्डले ध्रुवं जगच्चमत्कारकरीं नरेन्द्रताम्1209॥२४॥

इत्यलङ्कारमहोदधौ दोषव्यावर्णनो नाम पश्चमस्तरङ्गः॥५॥

<MISSING_FIG href=”../books_images/U-IMG-1731089067sunn.jpg”/>

अथ गुणालङ्कारविवेकमाह—

शौर्यादय इवात्मानं रसमेव श्रयन्ति ये।
गुणास्ते सहजाः काव्ये नित्यवैचित्र्यकारिणः॥१॥

यथा शौर्य–स्थैर्य–सम्वादयो गुणा आत्मानमेव श्रयन्ति, नाकारं तथा माधुर्यादयोऽपि रसमेव श्रयन्ति रसस्यैव धर्मा न वर्णसन्निवेशस्य ते गुणा इत्यलङ्कारेभ्यो भेदः। क्वचित् पुनर्यथा शौर्योचितस्याकारमहत्त्वादेर्दर्शनात् क्वचिदशूरेऽपिशूर इति। क्वचित् तु मूर्तिलाघवदर्शनात् शूरेऽप्यशूर इत्यतत्वदर्शिनां व्यवहारस्तद्वन्मधुर–रसोचित सुकुमारवर्णश्रवणात् क्वाप्यमाधुर्येऽपि माधुर्यमिति, क्वचित् तु माधुर्येऽप्यसुकुमारवर्णश्रवणादमाधुर्यमिति या व्यवहृतिः सा रसपर्यन्तविश्रान्तिज्ञानशून्यानामेव। अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैर्व्यज्यन्ते, न तु वर्णमात्रैस्तच्च पुरो वक्ष्यते। कीदृशाः सहजा अनाहार्यस्वरूपाः। अत एव काव्ये नित्यं सदाऽवस्थितं वैचित्र्यमुत्कर्षं कुर्वन्ति। तान् विना हि सालङ्कारस्यापि काव्यस्य काव्यत्वहानिर्यदाह—

“यदि भवति वचश्च्युतं गुणेभ्यो वपुरपि1210 यौवनवन्ध्यमङ्गनायाः।
अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते॥४९५॥”

श्रयन्तोऽपि रसं सन्तं जातु तेभ्यो विपर्ययम्।
ये तु बिभ्रत्यलङ्कारास्तेऽनुप्रासोपमादयः॥२॥

ये पुनस्तेभ्यो गुणेभ्यो विपर्ययं विपरीततां विभ्रति, तेऽनुप्रासोपमादयोऽलङ्काराः। गुणा हि शौर्यादिवत् सहजा नित्यवैचित्र्यकारिणश्च। अलङ्कारास्तु हारादिवदाहार्याः। अत एव नित्यं वैचित्र्यं न कुर्वते। कदाचित् तेषामभावेऽपि गुणैकशोभिनः काव्यस्य दर्शनादिति गुणेभ्योऽलङ्काराणां वैपरीत्यमयमेव च मेदः।

कीदृशाः सन्तो गुणेभ्यो वैपरीत्यं विभ्रतीत्याह–सन्तं विद्यमानं रसं जातु कदाचित् श्रयन्तोऽपि। यथा—

“अपसारय घनसारं कुरु हारं दूर एव किं कमलैः?।
अलमलमालि ! मृणालैरिति वदति दिवानिशं बाला॥४९६॥

अत्रानुप्रासो रसपर्यवसायी।

यथा वा—

“मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं1211
प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव।
हिनस्ति प्रत्यङ्कं ज्वर इव बलीयानित इतो
न मां वातस्त्रातुं प्रभवति न चाम्बा न भवती॥४९७॥

अत्र मालोपमा रसैकनिष्ठा।

जात्विति वचनात् कदाचित् सन्तमपि न श्रयन्ति। यथा—

+ “चित्ते चहुट्टदि न खुट्टदि सा गुणेसुं
सेज्जाइ लुट्टदि विसट्टदि1212दिग्मुहेसुं।
वोल्लंमि वट्टदि पयट्टदि कव्वबंधे
झाणे न तुट्टदि चिरं तरुणी तरु(र) ट्टी॥४९८॥”

इत्यादौ शब्दमेवानुप्रासः श्रयति, न तु विद्यमानमपि रसम्
___________________________________________________________________

+ चित्ते श्लिष्यति न क्षीणाति सा गुणेषु
शय्यायां लुठति विसर्प ( कस ) ति दिंड्मुखेषु।
वचने वर्तते प्रवर्तते काव्यबन्धे
ध्याने न त्रुट्यति चिर तरुणी प्रगल्भा॥

“मित्रे कापि गते सरोरुहवने बद्धानने ताम्यति
क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नां पुरः सारसीम्।
चक्राङ्के1213 (ङ्गे) न वियोगिना बिसलता नास्वादिता नोज्झिता
वक्त्रे केवलमर्गलेवनिहिता जीवस्य निर्गच्छतः॥४९९॥”

इत्यादौ त्वर्थमेवोपमालङ्कारः । बिसलता जीवस्य सूक्ष्मत्वात् तं निरोद्धुं न क्षमते इति प्रकृताननुगुणोपमा।

सन्तमिति वचनाच्च यत्र नास्ति रसस्तत्र शब्दार्थवैचित्र्यमात्रपर्यवसायिनोऽलङ्कारास्तच्च प्रथमतरङ्गे दर्शितमेव। एवं च यथा समवायवृत्त्या शौर्यादयः संयोगवृत्त्यातु हारादयस्तथैव माधुर्यादयोऽनुप्रासोपमादयश्चेत्यस्तु गुणालङ्कारविवेकः। यत् पुनरुक्तम्—“काव्यशोभायाः कर्त्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्काराः”इति तन्न युक्तम्। यतः किं समस्तैर्गुणैः काव्यव्यवहारः?,किं वा कतिपयैः?न तावद् समस्तैरसमस्तगुणाया गौर्डायायाः पाञ्चाल्याश्च रीतेः काव्यात्मकत्वभावात्1214। अथ कतिपयैः—

‘अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूम.’
इत्यादावप्योजः प्रभृतिषु गुणेषु सत्सु कान्यव्यवहारप्राप्तेः।

किं च—

“स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी।
अस्या रदच्छदरसो न्यत्करोतितरां सुधाम्॥५००॥”

इत्यादौ तु विशेषोक्ति–व्यतिरेकौ गुणनिरपेक्षावपि काव्य व्यवहारमात्रं प्रवर्तयतः। अत्र तथाविधव्यञ्जकवर्णाभावाद् गुणरहितत्वमिति॥२॥

अथ गुणालङ्कारविवेकं कृत्वा गुणसङ्ख्यामाह—

गुणांश्चान्ये जगुः शब्दगतान् दश दशार्थगान्।
माधुर्यौजः–प्रसादास्तु संमतास्त्रय एव नः॥३॥

अन्ये वामनादयः केचिदाचार्या दश शब्दगतानर्थगतांश्च दश गुणान् जगुरूचिरे। नोऽस्माकं माधुर्यौजः–प्रसादास्त्रय एव गुणाः सम्मता अभिमताः॥३॥

कुत इत्याह—

यतः1215 पृथक्पदन्यासमूर्ति माधुर्यमत्र यत्।
क्रोधादावप्यतीव्रत्वरूपं यच्चैतदिष्यते॥४॥

बन्धस्याजरठत्वं यत् सौकुमार्यामिति स्मृतम्।
यच्च वाचामपारुष्यं सौकुमार्यमुदीर्यते॥५॥

यः कश्चिदर्थदृष्ट्याऽऽत्मा समाधिरभिधीयते।
अर्थस्य घटनारूपो यश्च श्लेषः प्रकीर्तितः॥६॥
तान्यग्रे वक्तुमिष्टस्य माधुर्यस्य प्रसूतयः।

यतो यस्मादत्रैतेषु विंशतौ गुणेषु यत् पृथक्पदन्यासमूर्ति असमासाल्पसमास–पदनिवेशशरीरं माधुर्यंवर्तते। यथा—

“ अस्त्युत्तरस्यां दिशि देवताऽऽत्मा हिमालयो नाम नगाधिराजः।
पूर्वापरौ तोयनिधी वगाह्य1216 स्थितः पृथिव्या इव मानदण्डः॥५०१॥”

यच्चैतन्माधुर्यं क्रोधादावपि हेतौ सत्यचण्डत्वस्वरूपमिष्यते। यथा—

“भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता–
मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।
अन्तर्वाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं
कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः॥५०२॥”

बन्धस्य पदगुम्फस्याजरठत्वमनिष्ठुरत्वं सौकुमार्यमिति यत् स्मृतं यथा—

“मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि॥५०३॥”

वाचां वाणीनामपारुष्यमकठोरत्वं यत् सौकुमार्यमुदीर्यते कथ्यते। यथा ‘मृतं यशः शेषमित्याहुः। एकाकिनं देवताद्वितीयमिति, गच्छेति साधयेति।

अर्थदृष्ट्याऽऽत्मा यः कश्चिदर्थदर्शनंस्वरूपः1217 समाधिरभिधीयते कथ्यते।
यथा—

‘आश्वपेहि मम सीधुभाजनाद् यावदग्रदशनैर्न दश्यसे।
चन्द्र! मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात्॥५०४॥”

अर्थस्याभिधेयस्य कौटिल्यानुल्बणत्वोपपत्तियोगमूर्तिर्या घटना सैव रूपं यस्य तादृग्विधो यः श्लेषः प्रकीर्तितः कथितो यथा—

“दृष्ट्वैका1218सनसस्थिते1219 प्रियतमे पश्चादुपेत्यादरा–
देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः।
ईषद्वक्रितकन्धरः1220 सपुलक[:]स्वैदोल्लसन्मानसा1221
मन्तर्द्धासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥५०५॥”

अत्र पश्चादागमनादेः क्रमस्य कौटिल्यस्य वैदग्ध्यस्य चानुल्बणत्वेनाग्राभ्यत्वेनोपपत्तियोगोऽस्ति॥६॥

तानि माधुर्यादीनि सर्वाण्यप्यग्रे पुरतो वक्तुमिष्टस्यास्माभिर्विवक्षितस्य माधुर्यस्य प्रसूतयोऽपत्यानि तत्परतन्त्राण्येवेत्यर्थः॥

अथौजः परिस्पन्दमाह—

बन्धगाढत्वमोजो यदर्थप्रौढिमयं च यत्॥७॥
श्लेषो यश्चैकवद्भावः पदानां भूयसामपि।
समाधिर्योऽयमारोहावरोहक्रमलक्षणः॥८॥

या च प्रकटिताबन्धविकटत्वमुदारता।
बन्धौज्ज्वल्यं च या कान्तिः प्रदीप्तरसता च याः॥९॥
पुरोऽभिधास्यमानस्य परिस्पन्दोऽयमौजसः।

बन्धगाढत्वं गुम्फनिबिडत्वं यदोजो यथा—

“जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दुस्रवदमृतनिवृत्तप्रेतभावैः कपालैः।
विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरारेःपरिणतबहुकल्पब्रह्मणां ब्रह्मघोषः॥५०६॥”

अर्थस्य प्रौढिरुत्कर्षो यदाह—

“पदार्थे वाक्यवचनं वाक्यार्थे च पदार्थता ।
प्रौढिर्व्यास—समासौ च साभिप्रायत्वमस्य च॥५०७॥”

तन्मयं यदोजस्तत्र पदार्थवाक्यवचनं यथा—

“अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठयूतमैशम्।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः॥५०८॥”

अत्र चन्द्रपदवाच्येऽर्थे नयनसमुत्थं ज्योतिरत्रेरिति वाक्यमुक्तम्।

वाक्यार्थे पदार्थता यथा—

दिव्येयं न भवति किन्तु मानुषीति वक्तव्ये निमिषतीत्याह। एवं व्यासादयोऽप्यभ्यूह्याः। न चैतेषु वैचित्र्यमन्तरेणातिप्रसङ्गः कार्यों वैचित्र्यैकजीवितत्वाद् गुणानाम्।

बहूनामपि पदानामेकपदवद्भावो यश्च श्लेषो यथा—

“उभौ यदि व्योम्नि पृथक्प्रवाहाकाशगङ्गापयसः पतेताम्
तेनो (तदो) पमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥५०९॥”

“आरोहावरोहपरिपाटीरूपो योऽयं समाधिर्यथा—

“निरानन्दः कौन्दे मधुनि विधुरो बालबकुले
न साले सालम्बो लवमपि लवङ्गे न रमते।”

प्रियङ्गौ नासङ्गं रचयति न चूते विचरति
स्मरॅलक्ष्मीलीलाकमलमधुपानं मधुकरः॥५११॥”

अन्ये पुनरन्यधर्माणामन्यत्राधिरोपणं समाधे(धि)रित्याहुः। यथा—

“प्रतीच्छत्याशोकीं किशलयपरावृत्तिमधरः
कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम्।
परिम्लानप्रायामनुवदति दृष्टिः कमलिनी–
मितीयं माधुर्य स्पृशति च तनुत्वं च भजते॥५१२॥”

अस्मन्मते त्वपमुपचार1222विचित्रतैव।

बन्धविकटत्वं यत्र पदानि नृत्यन्तीवेति प्रतीतिस्तद्रूपा या चेयमुदारता प्रकटिता। यथा—

“आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्द्धते
खं व्यालेढि विचेष्टते क्षितितले कुञ्जोदरे लीयते।
अन्तर्भ्राम्यति कोटरस्य विरसत्यालम्बते वीरुधः
कि तद् यन्न करोति मारुतवशं यातः कृशानुर्वने॥५९३॥”

या च बन्धौज्ज्वल्यलक्षणा कान्तिर्यौ बिना पौराणी छायेत्युच्यते। यथा—

“ ग्रामैरक्रमलूयमानकलमैर्गोठैररण्योदरै–1223
द्रोणीकोणवितन्यमानवृतिभिः सार्थैस्त्वरावाहिभिः।
दुर्गैरर्गलगोपुराट्टघटनानिर्विण्णविज्ञानिकै–
र्यद्यात्रासमयं वदन्ति परितः प्रत्यर्थिनां भूमयः॥५१४॥

या च प्रदीप्तरसत्तारूपा कान्तिर्यथा—

“उत्तिष्ठन्त्या रतान्तेभरमुरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विग(लु )लितकबरीभारमंसं1224 वहन्त्याः।
भूयस्तत्काय1225कान्तिद्विगुणितसुरतप्रीतिना सौरिणा वः
शय्यामालिङ्ग्यनीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु॥५१५॥”

एवं रसान्तरेष्वप्युदाहार्यम्। अयं बन्धगाढत्वमोज इत्यादिकः सर्वोऽपि पुरोऽस्माभिरभिधास्यमानस्यौजस एव परिस्पन्दो विस्फूर्जितम्।

अथ प्रासादान्तर्भावमाह—

ओजोमिश्रश्लथत्वात्मा यः प्रसाद इति स्मृतः॥१०॥

यश्चायमर्थवैमल्यवपुषा विदुषां मतः।
या झगित्यर्थसंवित्तिरर्थव्यक्तिरुदाहृता॥११॥

वस्तुस्वभावस्फुटतारूपा या चेयमुच्यते।
तेऽस्मत्प्रसादप्रासादकक्षालक्ष्मीविडम्बिनः॥१२॥

ओजोमिश्रं श्लथत्वमात्मा यस्य स यः कश्चित् प्रसाद इति स्मृतो यथा—

“अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवारणम्।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलितवयसामिक्ष्वाकूणामिदं हि कुलत्रतम्॥५१६॥”

यश्चायं प्रसादोऽर्थवैमल्यवपुषार्थस्फुटतारूपेण शरीरेण विदुषां कोविदानां मतोऽभिमतो यथा—

“अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम्।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि॥”

वाक्यस्य सम्पूर्णत्वात् झटित्यर्थसंवित्तिरूपा1226 याऽर्थव्यक्तिरुदाहृता कथिता। यथा—

“वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वती–परमेश्वरौ॥५१८॥”

वस्तूनां भावानां स्वभावस्य सूक्ष्मस्वरूपस्य या स्फुटता व्यक्तिस्तद्रूपा तदात्मिका या चेयमर्थव्यक्तिरुच्यते। यथा—

“स्पृष्टेषु शङ्खशकलच्छविषु1227च्छ्दानां राजीभिरङ्कितमलक्तकलोहिनीभिः।
गोरोचनाहरितवस्तुबहिः पलाशमामोदते कुमुदमम्भसि पल्वलस्य॥५१९॥”

ते प्रसादादयो गुणा अस्मत्प्रसादोऽस्माभिवक्तुमीष्टो यः प्रसादः स एव प्रासादस्तस्य कक्षालक्ष्मीविडम्बिनः प्रदेश विशेषसम्पदनुकारिणस्तदन्तर्भूता इत्यर्थः ॥१०-१२॥

अथ कियतामपि दोषत्यागेन स्वीकारमाह—

या तु मार्गापरित्यागस्वरूपा समता मता।
या च सा प्रक्रमाभेदरूपा वैषम्यविग्रहा॥१३॥
अग्राम्यत्वशरीरा च या काऽपि स्यादुदारता।
ता भग्नप्रक्रम–ग्राम्यदोषत्यागक्रियात्मिकाः॥१४॥

मार्गापरित्यागः प्रक्रान्तपदबन्धवर्त्मापरिहारः स्वरूपं यस्यास्तादृशी या च समताऽभीष्टा। यथा—

“यच्चन्द्रकोटि1228करकोरकभारभाजि बभ्राम वभ्रुणि जटापटले हरस्य।
तद् वः पुनातु हिमशैलशिलानिकुञ्जझात्कारडम्बरविराजिसुरापगाऽम्भः॥”

अत्रारम्भादापरिसमाप्ति पदबन्धस्यैकरूपतानिर्वाहात् समता ।

प्रक्रमाभेद एव रूपं यस्य तदेवंविधं यद् वैषम्यं तद्विग्रहः शरीरं यस्यास्तादृशी या च सा1229मता।यथा—

“अग्रे स्त्रीनखपाटलं कुरबकं1230 श्यामं द्वयोर्भागयो–
बलाशोकमुपोढ1231रागसुभगं भेदोन्मुखं तिष्ठति।

ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी
मुग्धत्वस्य च यौवनस्य च सखे! मध्ये मधुश्रीः स्थिता॥५२१॥”

अत्र मधुश्रियो मौग्ध्यत्याग–यौवनारम्भकृतानां विशेषेण1232नामारम्भनिर्वाहः।

न पुनरेवं यथा—

“च्युतसुमनसः कुन्दाः पुष्पोद्रमेष्वलसा द्रुमा
मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः।
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो
न च जरठतामा1233लम्बन्ते क्रमोदयदायिनीम्॥५२२॥”

अत्र ऋतुसन्धिवर्णने मलयमरुतामुभयसाधारणत्वाभावात् प्रक्रमभेदः ।

अग्राम्यत्वं ग्राम्यत्वाभावः शरीरं यस्यास्तथाविधा या काप्युदारता स्यात्। यथा—

“त्वमेवसौन्दर्या स च रुचिरतायाः परिचितः
कलानां सीमान्तं परमिह युवामेव भजथः।
अपि1234! द्वन्द्वं दिष्ट्या तदति1235 सुभगे ! संवदति वा—
मनः(तः)शेषं चेत् स्याज्जितमथ तदानीं गुणितया॥५२३॥”

तास्तिस्रोऽपि भग्नप्रक्रम—ग्राम्ययोर्दोषयोर्या त्यागक्रिया परिहारविधिस्तदात्मिकास्तत्स्वरूपास्ततश्च माधुर्यौजः—प्रसादास्त्रय एव गुणाः। ये च कैश्चिच्चतु र्विंशत्यादयोऽप्युक्तास्तेऽप्येष्वेवान्तर्भवन्तीति॥१३—१४॥

अथ माधुर्यस्वरूपमाह—

सर्वप्रह्लादि माधुर्यं चेतसो द्रुतिकारणम्।
मूलायतनमेतस्य शृङ्गारः स्मरजीवितम्॥१५॥

सर्वेषामवला–बाल–गोपालादीनामान्दकारि माधुर्य माधुर्याख्यो गुणः। कृत

इत्याह—चेतसो मनसो द्रुतिकारणं गलितत्वहेतुरयं च विशेषणद्वारेण हेतुरुक्तः। एतस्य माधुर्यस्य शृङ्गारोऽर्थाद् भोगरूपो मूलायतनं कुलभवनम्। कीदृशः स्मरजीवितं शृङ्गारप्रसक्त्या हि पञ्चेपुर्जीवति। हास्याद्भुतादयस्तु शृङ्गाराङ्गत्वादेवास्यास्पदानीति पृथग् नोक्ताः ॥१५॥

अथास्य विशेषमाह—

शान्ते सातिशयं विप्रलम्भे च करुणे च तत्।

तन्माधुर्यं शान्ते1236 विप्रलम्भे च सातिशयमत्यन्तद्रुतिहेतुत्वात्।

अथास्य व्यञ्जकानाह—

तत्र वर्गा निजैरन्त्यैराक्रान्तशिरसः स्मृताः॥१६॥ ·
टवर्गपरिहारश्च ह्रस्वव्यवहितौ रणौ।
असमासः पदन्यासः समासाल्पवानथ॥१७॥

तत्र माधुर्ये माधुर्यव्यञ्जका इत्यर्थः। वर्गाः कवर्गादयो1237 निजैरन्त्यैर्ङकाराद्यैराक्रान्तशिरसोऽधिष्ठितमूर्द्धानः स्मृताः कथिताः। यथा—

“ अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानतायाः।
कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि॥५२४॥”

टवर्गस्य परिहारस्त्यागो न पुनरेवं यथा—

“अकुण्ठोत्कण्ठया1238 पूर्णमाकण्ठं कलकण्ठि ! मामू।
कम्बुकण्ठ्याः क्षणं1239 कण्ठे कुरु कण्ठार्त्तिमुद्धर॥५२५॥”

तथा रेफ–णकारौ ह्रस्वान्तरितौ—

“दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते।
रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः॥५२६॥”

समासरहितः स्वल्पसमासो वा पदन्यासो यथा—

“मनीषिताः सन्ति गृहेऽपि देवतास्तपः क्व वत्से ! क च तावकं चपुः !\।
पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः॥५२७॥”

न त्वेवं यथा—

“वाले । मालेयमुच्चैर्न भवति गगनव्यापिनी नीरदानां
किं त्वं पक्ष्मान्तवान्तैर्मलिनयसि सुधा वक्त्रमश्रुप्रवाहैः।
एषा प्रोद्धृत्तमत्तद्विपकटकषणक्षुण्णविन्ध्योपलाभा
दावाग्रेर्व्योग्नि लग्ना मलिनयति दिशां मण्डलं धूमरेखा॥५२८॥”

अत्र दीर्घः समासः स च विप्रलम्भानुचितः1240 ॥ १६—१७ ॥

अथास्मिन् विशेषव्यञ्जिकां रचनामाह—

सहजप्रातिभोन्मीलद्वाच्य–वाचकचारिमा।
अक्लेशकल्पितखल्पतद्विदाह्लादिभूषणा॥१८॥
भावस्वाभाविकौदार्यतर्जिताहार्यकौशला।
अमन्दरसनिः स्यन्दसुधोद्गारतरङ्गिता॥१९॥
कविकर्मैकमर्मज्ञमनस्ताण्डवनाट्यभूः।
अलक्ष्यावयवा तस्मिन् रचना काचिदीदृशी॥२०॥

सहजं स्वाभाविकं यत् प्रातिभं प्रतिभैव तेनोन्मीलन्नाविर्भवन् वाच्य—वाचकयोरर्थ—शब्दयोश्चारिमा हृदाह्रादीनि सहृदयचमत्कारीणि भूषणान्यलङ्कारा यस्यां सा। तथा भावानां पदार्थानां स्वाभाविकं यदौदार्य परिस्पन्दविशेषस्तेन तर्जितं न्यत्कृतमाहार्य कृतकं कौशलं कविवैदग्ध्यं यस्यां सा। तथा अमन्दः स्तोकेतरो यो रसनिः स्यन्दः स एव सुधोद्गारः पीयूषोल्लासस्तेन तरङ्गिता रसामृतकल्लोलमयीत्यर्थः। कविकर्मणः काव्यस्य यदेकमद्वितीयं मर्म रहस्यं तद् ये जा—

नन्ति तेषां मनसो यत्ताण्डवमानन्दनृत्यं तस्य नाट्यभूर्नाट्यागारमलक्ष्यावयवा गुम्फविशेषवशादविज्ञातपदविभागा काचिदीदृशी रचना वन्धविच्छित्तिस्वस्मिन्निति तस्य माधुर्यस्य व्यञ्जिकेत्यर्थः॥१८–२०॥

अथौजो लक्षयति—

दीप्तत्वेनात्मविस्तारहेतुरोजो निगद्यते।
वीरो नाम रसस्तस्य केलिचङ्क्रममकुट्टिमम्॥२१॥

दीप्तत्वेन दीप्तरूपतया योऽयमात्मनश्चित्तस्य विस्तारस्तस्य हेतुरोजोनिगद्यते कथ्यते। तस्य वीरो नाम वीराख्यो रसः केलिचङ्क्रमस्य लीलाविहारस्य कुट्टिमं स्फटिकादिबद्धा भूमिस्तत्रेदं विलसतीत्यर्थः॥२१॥

अस्य स्वरूपान्तरमाह—

आधिक्यं तस्य पूर्वस्मात् क्रमाद् बीभत्स–रौद्रयोः।

तस्यैौजसः पूर्वस्माद् वीररसाद् बीभत्स–रौद्रयोः क्रमादाधिक्यम्। वीराद्बीभत्से ततोऽपि रौद्रे तेषामङ्गभूतेऽप्यधिकमोजः कार्यमित्यर्थः।

अथास्य व्यञ्जकानाह—

तत्र योगस्तदाद्याभ्यां स्याद् द्वितीय—चतुर्थयोः॥२२॥

यस्य कस्यापि रेफेण मिथश्च सदृशोयुतिः।
कार्यौ श–षौ टवर्गश्च तथा दीर्घसमासता॥२३॥

तत्र तस्मिन्नोजसि द्वितीय–चतुर्थयोर्वर्गाक्षरयोस्तदा द्वा(द्या)भ्यां प्रथम–तृतीयाभ्यां योगः शिरसि सम्बन्धस्तथा यस्य कस्यापि वर्णस्याथ उपरि उभयत्र वा रेफेण युतिस्तथा सहशोरेकरूपयोर्वर्णयोश्च युतिस्तथा शकार–षकारौ कार्यौ टवर्गश्चार्थाण्णकारवर्जःकार्यः। तथा दीर्घः समासश्च व्यञ्जकःकार्य इति ॥२३॥

अथास्य1241 व्यञ्जकं1242 गुम्फमाह—

परस्परं परिस्यूतपद्रढिमबन्धुरः।
व्युत्पन्नप्रतिभोत्पन्नवाच्यवैचित्र्य चुम्बितः॥२४॥

उल्लसन्नवलावण्यभङ्गिकहोललालितः।
सूत्रयन् नवतामुच्चैरनवस्यापि वस्तुनः॥२५॥

वितन्वन् मनसः कामं दीप्तिसंवलितां मुदम्।
निसर्गकलितौद्धत्यस्तत्र गुम्फः किलोदितः॥२६॥

त्रिभिर्विशेषकम्।

परस्परं मिथः परिस्थूतान्यलक्ष्यसन्धिबन्धानि यानि पदानि तेषां द्रढिम्ना’निविडत्वेन बन्धुरो रमणीयः। व्युत्पन्ना विदग्धा या प्रतिभा तया यदुत्पन्नं वाच्यवैचित्र्यमभिधेयप्रागल्भ्यं तेन चुम्बितः स्पृष्टः।उल्लसन्ती नवा नूतना या लावण्यभङ्गिः कान्तिविच्छित्तिस्तस्याः कल्लोलास्तरङ्गास्तैर्लालितः खेलितः। अनवस्यापि पूर्वकविस्पृष्टस्यापि वस्तुनः काव्यार्थस्योश्चैरतिशयेन1243नवतामचुम्बितत्वं सूत्रयन् कुर्वन्। तथा मनसश्चेतसो ‘रसिकानामिति गम्यम्’ दीप्तिसंवलितामुत्साहकरम्बितां मुदं प्रीतिं वितन्वन्विस्तारयन्। निसर्गेण स्वभावेन कलितौद्धत्यः सहजोद्धतस्तत्र तस्मिन् ओजसि गुम्फः पदबन्धः कलेति पूर्वाचायैरुदितो व्यञ्जकत्वेन कथितः। यथा वा—

“यस्या ( अद्या )वस्कन्दलीलाचलितबलपरिस्पन्दखर्वीकृतोर्वी–
संरम्भोत्तम्मनाग्रो (यो) न्नमितभर [नमत्] कन्धरासन्धिरासीत्।

शेषो विस्कारफुल्लस्फुटपृथुलफणास्फूत्कृताग्निस्फुलिङ्ग–
स्फूर्जा \र्जत्) सन्दोहसन्देहितविकटशिखामण्डलीरत्नखण्डः॥५२९॥”

न पुनरेवं यथा—‘देशः सोऽयमरातिशोणितजलै :’इत्यादि ।
अत्र यथोक्तवर्णाभावोऽनुद्धतो गुम्फः समासदैर्ध्याभावश्च विरुद्धः॥२३॥

अथ प्रसादं विवृणुते—

शब्दश्रवणमात्रेण दुर्विगाहगभीरिमा।
रसपर्यन्तविश्रान्तिर्नानाऽऽकूतमनोरमः॥६७॥

विदाह्लादको यत्र झगित्यर्थः प्रतीयते।
सर्वसाधारणात्मानं तं प्रसादं गुणं विदुः॥२८॥

यत्र यस्मिन् सति शब्दश्रवणमात्रेणार्थोऽभिधेयो विमर्शमन्तरेणापि झगित्येव प्रतीयते। किम्भूतोऽर्थः? दुर्विगाहो दुःखविज्ञेयो गभीरिमाऽगाधत्वं यस्यस तथा। रस एव पर्यन्ते निकषे विश्रान्तिरवस्थानं यस्य स तथा। नानाकूतमनोरमो विविधाभिप्रायसुन्दरः। सर्वत्राप्यपिशब्दो द्रष्टव्यः। अत एव विद्वदाह्लादकः सचेतनचमत्कारी तं सर्वेषां रस–समास–गुम्फानां साधारणत्मानं सामान्यखरूपं प्रसादं नाम गुणं विदुः कथयन्ति। यथा—

“परिम्लानं पीनस्तन–जघनसङ्गादुभयत–
स्तनोर्मध्यस्यान्तः परिमलनमप्राप्य हरितम्।
इदं व्यस्तन्यासं श्लथभुजलता क्षेपवलनैः
कृशाङ्गयाः सन्तापं वदति विसिनीपत्रशयनम्॥५३०॥”

अथ माधुर्यादीनां मतान्तरेण संज्ञान्तरमाह—

माधुर्यं सुकुमाराख्यं मार्ग केऽप्यवदन् बुधाः।
विचित्र मोजस्तन्मिश्रीभावजं मध्यमं पुनः॥२९॥

उपनागरिकां वृत्तिं परुषां कोमलां परे।
रीतिकेचित् तुवैदर्भी गौड–पञ्चालजे अपि॥३०॥

माधुर्य सुकुमारा[मिघ1244मोजो विचित्राभिधं तदुभयमिश्रत्वसम्भवं मध्यमंनाम मार्ग केऽपि वुधाः कुत्तु(त्त)कादयोऽवदन् उक्तवन्तः। यदाहुः—

“सन्ति तत्र त्रयो मार्गाः कविप्रस्थानहेतवः।
सुकुमारो विचित्रश्च मध्यमचोभयात्मकः॥५३१॥”

परे केचिदुपनागरिकां परुषां कोमलां च वृत्तिमवदन्। यदूचुः—

“माधुर्यव्यञ्जकैर्वणैरुपनागरिकेष्यते।
ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः॥५३२॥”

केचित् पुनर्वैदर्भी गौड–पञ्चालजे अपीति गौडीयां पाञ्चालीं च रीतिमवदन्। यदुचिरे—

‘वैदर्भी1245 गौडीया1246 पाञ्चालीति1247 रीतयस्तिस्रः’ इति॥३०॥

अथ गुणविशेष नियतवर्णादीनामपवादमाह—

वक्तृ–वाच्य–प्रबन्धानामौचित्येन क्वचित् पुनः।
वर्ण–सङ्घटनाऽऽदीनां वैपरीत्यं न दोषकृत्॥३१॥

क्वचित् पुनर्वक्तृवाच्यस्य प्रबन्धस्य वौचित्येन वर्णानामक्षराणां सङ्घटनानां गुम्फाना1246मादिशब्दाद् वृत्तीनां च वैपरीत्यमन्यथात्वं न दोषकृत् न दुष्टमित्यर्थः।

तत्र वौचित्येन यथा—

“मन्थायस्तार्णवाम्भःप्रतिकुहरचलन्मन्दरध्यानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटाऽन्योन्यसङ्घङ्घचण्डः।
कृष्णाक्रोधाग्रदूतःकुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम्?॥५३३॥”

अत्र यद्यपि न वाच्यं कोपादिव्यञ्जकं काव्यं1247 चाभिनेयं तथापि भीमसे- नस्य वक्तुरौचित्यादुद्धता वर्णादयः।

वाच्यौचित्येन यथा—

“प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघात
त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणनेक्ष्यमाणम्।
कुर्वत् काकुत्स्थवीर्यस्तुतिमित्र मरुतां कन्धरारन्धभाजां
भाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम्॥५३४॥”

अत्र वक्तृप्रबन्धानपेक्षं1248 वाच्यमेवोद्धतं तदनुरूपा वर्णादयः।

प्रबन्धौचित्येन यथा—आख्यायिकायां शृङ्गारेऽपि न मसृणा वर्णादयःकथायां नात्यन्तमुद्धताः। नाटकादौ रौद्रेऽपि न दीर्घसमासादयः। एवमन्यदप्यौचित्यमनुसर्तव्यमिति॥३१॥

गिरो गुणैरित्यधिकां विचित्रतां दधत्यलङ्कारविवर्जिता अपि।
हरन्ति हारप्रमुखैर्विभूषणैर्विनाऽपि सौभाग्यजुषो हि योषि1249तः॥

इत्यलङ्कारमहोदधौ गुणनिर्णयो नाम षष्ठस्तरङ्गः॥६॥

तुल्यस्थानभवैर्वर्णैरावृत्तेः श्रुतिहारिभिः।
विश्रुतः श्रुत्यनुप्रासः सर्वस्वं कविकर्मणः॥३॥

तुल्यमेकमेव स्थानमुत्पत्तिक्षेत्रमुरः–कण्ठादि। यदुक्तम्—

“अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा।
जिह्वामूलं च दन्ताश्र नासिकोष्ठौ च तालु च॥५३६॥”

तद्भवैस्तदुत्पन्नैः श्रुतिहारिभिः श्रवणानन्दिभिर्वर्णैरैरावृत्तेः पुनरुच्चारितैःश्रुत्यनुप्रासो नामानुप्रासो विश्रुतः प्रथितः। स च कीदृश इत्याह–कविकर्मणःकाव्यस्य सर्वस्वं रहस्यम् \। यदुक्तम्—

“निवेशयति वाग्देवी प्रतिभानवतः कवेः।
पुण्यैरमनुप्रास सुसमाधिनि चेतसि॥५३७॥”॥३॥

अथास्य भेदानाह—

स एष त्रिविधः शुद्धः1250 सङ्कीर्णो1251 नागरस्तथा।

तत्र शुद्धस्य स्वरूपमाह—

शुद्धस्तत्रोदितः पूर्वैः शुद्धपूर्वोक्तलक्षणः॥४॥

पूर्वैः पूर्वसूरिभिः शुद्धं केवलं पूर्वोक्तं तुल्यस्थानेत्यादि सूत्रभणितं लक्षणंयस्य। यथा—

“एष राजा यदा लक्ष्मी प्राप्तवान् ब्राह्मणप्रियः।
तदा प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत्॥५३८॥”

अत्र प्रथम–तृतीययोः पादयोर्मूर्धन्य–तालव्य–दन्त्यौष्ट्यवर्णानां निरन्तराऽऽवृत्तिर्द्वितीय–चतुर्थयोस्तु सान्तरा॥४॥

अथ सङ्कीर्णमाह—

ज्ञेयोऽन्तरान्तरा हृद्यछेकानुप्रासलाञ्छितः।
सङ्कीर्णः पाटलाबन्धकाम्यस्त्रग्दामसोदरः॥५॥

श्रुत्यनुप्रास एवान्तरान्तरा मध्ये1252 मध्ये हृद्येन मनोज्ञेन वक्ष्यमाणेन छेकानुप्रासेन लाछतोऽङ्कितः सङ्कीर्णनामा ज्ञेयः। स च कीदृशः ?पाटलाबन्धेन पाटलायाः पुष्पविशेषस्य बन्धेन1253निवेशेन काम्यं यत् स्रग्दाम तस्य सोदरस्तद्वत्कमनीय इत्यर्थः। यथा—

“स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः।
चलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभि प्रथमोदविन्दवः॥५३२॥”

अत्र दन्त्यौ मूर्धन्यावोष्ठ्यौ ड-लगोरैक्येन दन्त्यपञ्चकं मूर्धन्य इत्यादिनाक्रमेण पूर्ववद् आवृत्तिस्तत्र च1254 क्षणं पक्ष्मसु1255 धराः पयोधरा वली स्खलिताःदिरे चिरेण1256दबिन्दवः। इति छेकानुप्रास1257 प्रवेशः।

यथा वा—

“विमुच्य साहारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दनम्।
बबन्ध बालाऽरुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्ण संहतिः॥५४०॥”

अत्रापि सर्व पूर्ववत्॥५॥

अथ नागरमाह—

भेदेऽप्येकमतौ भेदबुद्धावैक्येऽपि जायते।
ड-लयोरैक्यमित्यादिवाक्यैरैक्ये च नागरः॥६॥

भेदेऽपि कथञ्चिदेकत्वबुद्धावेको नागर ख्यः श्रुत्यनुप्रासो जायते। तथा1258कथञ्चिदैक्येऽपि भेदबुद्धौ द्वितीयः। तथा ड–लयोरैक्यमित्यादिवाक्यैरेकत्वेसति1259 च तृतीयः। तत्राद्यस्तुल्यस्थानानां यथा—

“हरेर्लङ्गितधर्मांशुन्यग्नि दीर्घेण रंहसः।
बलिबन्धन घोरद्दिरंहःसङ्घ निहन्तु वः॥५४१॥”

अत्र वैश्याद् भेदेऽपि तुन्यस्थानानां हकार–घकाराणां तुल्यश्रुतित्वादेकत्वबुद्धिः

अतुल्यस्थानानां यथा—

“उच्छलन्मत्स्य पुच्छाग्रदण्डपातहतार्णसि ।
जगदुद्यानमम्भोधावुन्ममज ममज च॥५४२॥”

अत्र स्यकारस्य च्छकाराभ्यां सह तुल्यस्थानत्वाभावाद् भेदेऽपि तुल्यश्रुतित्वादैक्यमिति।

द्वितीयो यथा—

“कोडे मा डिम्भमादाय चण्डि ! पीडय वक्षसा।
कर्णे ब्रूहि वयस्याया युवा यदयमुच्यते॥५४३॥”

अत्र डकार–वकार–यकाराणामेकत्वेऽपीषत्स्पृष्टताऽऽदिभिर्भेदावभासः।

तृतीयो यथा—

“शयने यस्य शेषाहि । सनीडे वडवानलः।
महासाहसिनामय्यं तमीडे जलशायिनम्॥५४४॥”

अत्र ड-लयोरैक्येनानुप्रासः।

न–णयोरैक्येन यथा—

“बाणैः क्षुण्णेषु सैन्येषु त्वया देव ! रणाङ्गणे।
हतशेषाः श्रयन्तीमे शून्यारण्यानि विद्विषः॥५४५॥”

अत्र क्षुण्णेषु सैन्येषु शून्यारण्यानीति न–णयोरैक्यम्।

र–लयोरैक्येन यथा—

“विभिन्नवर्णा गरुडाग्रजे1260न सूर्यस्य रथ्याः परितः स्फुरन्त्या।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः॥५४६॥”

अत्र करीरनीलैरिति र–लयोरैक्येन पादचतुष्टयेऽप्यनुप्रासनिर्वाहः। एवंदन्त्य–तालव्यादिभेदेऽप्यैक्येन नागरो विज्ञेयः॥६॥

अथ छेकानुप्रासमाह—

यत्रावृत्तिरनेकस्य वर्णस्य सकृदीक्ष्यते।
सच्छेकानामनुप्रासश्चतस्रस्तद्भिदांस्त्विमाः॥७॥

यत्र यस्मिन्ननेकस्य द्विप्रभृतेर्वर्ण1261स्य सकृदेकवारमावृत्तिरीक्ष्णते स छेकानामनुप्रासस्तदभीष्टत्वादिमास्तु वक्ष्यमाणाश्चतस्रस्तद्भिदार्थत्वारस्तद्भेदाः॥७॥

ता एवाह—

कर्मशाली विपर्यस्तो वेणिको गर्भितस्तथा।

तत्र क्रमशालिनमाह—

क्रमशाली क्रमोपेतः


यथापूर्वमुत्तरो वर्णनिवेशः क्रमस्तेन युक्तः क्रमशाली। यथा—

“नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्र1262तिमेन तेन।
चकार सा मच चकोरनेत्रा लज्जावती लाजविमोक्षमग्नौ॥५४७॥”

नत्र गुर्वी गुरुणेत्यादिवर्णानां क्रमावृत्तिः।

यथा वा—

“ततोऽरुणपरिस्पन्दम1263न्दीकृतरुचिः शशी।
दधे कामपरिक्षाम कामिनीगण्ड1264पाण्डुताम्॥५४८॥”

विपर्यस्तमाह—

विपर्यस्तः क्रमात्ययी॥८॥

क्रमोलङ्घी1265 विपर्यस्तो यथा—

“प्रणवः प्रवणो1266 यत्र प्रथमः प्रमथे1267षु यः।
रणवान् वारणमुखः स वः पातु विनायकः॥५४९॥”

अत्र क्रमाभावो व्यक्त एव॥८॥

अथ वेणिकामाह—

आवाक्यान्तगतानेकवर्णावृत्तिस्तु वेणिका।

आवाक्यान्तं वाक्यपरिसमाप्ति यावद् गता स्थिताऽनेका भूयसी वर्णावृत्तिर्यस्यां सा वेणिका। यथा—

“विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिण ध्वस्तवजे
जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे।
वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी॥५५०॥”

अथ गर्भितमाह—

गर्भितस्त्वपरो वर्णस्तोमो यत्रान्यगर्भितः॥९॥

अपरो वर्णसमुदायो यत्रान्येन वर्णेन गर्भितः स्यात् स गर्भितः। यथा—

“कालं कपालमालाङ्कमेकमन्धकसूदनम्।
वन्दे वरदमीशानं शासनं पुष्पधन्वनः॥५५१॥”

अत्र कालं कपालेत्यादिषु द्वितीयो वर्णस्तोमः पकारादिभिर्गर्भितः॥९॥

अथ वृत्यनुप्रासमाह—

उपनागरिकाऽऽदीनां वृत्तीनामनुरोधतः।
त्रैविध्यजुषि वर्णानामेकताऽनेकतावताम्॥१०॥

यस्मिन्नसकृदावृत्तिर्दृश्यते तं विपश्चितः।
वृत्त्यनुप्रासमिच्छन्ति त्रिविधोऽपि द्विधा च सः॥११॥1268

उपनागरिकाऽऽदयस्तिस्रो वृत्तयः पूर्वमुक्तास्तासामनुरोधात् त्रैविध्यजुषि त्रिविध1269त्वभाजि यत्र यस्मिन्नलङ्कारविषये क्वचिदेकत्वभाजां कचिदनेकत्वभाजांवा वर्णानामसकृदनेकवार1270मावृत्तिर्दृश्यते, तमलङ्कारं विपश्चितो विद्वांसो वृषयनुप्रासाख्यमिच्छन्ति मन्यन्ते वृत्याऽऽश्रितत्वात्।

तत्रोपनागरिकाऽनुप्रासो यथा—

“न मालतीदाम विमर्द्दयोग्यं न प्रेम नव्यं सहतेऽपराधान्।
म्लानाऽपि न म्लायति केसरस्रक् देवी न खण्ड्यप्रणयां कथश्चित्॥५५२॥”

अत्र प्रथमपादे मकारस्यासकृदावृत्तिः।

परुषानुप्रासो यथा—

“नीते निर्व्याजदीर्घामघवति मघवद्वज्जलज्जानिदाने
निद्रां द्रागेव देवद्विषि मुषितरुषः संस्मरन्त्याः स्वभावम्।
देव्या दृग्भ्य1271स्तिसृभ्यस्त्रय इव गलिता राशयो रक्तताया
रक्षन्तु त्वां त्रिशुलक्षति1272कुहरमुचो लोहिताम्भःसमुद्राः॥५५३॥”

अत्र दीर्घामघवदित्यादिरसकृद1273नेकवर्णावृत्तिः।

कोमलानुप्रासो यथा—

“लोलल्लवङ्ग–लवलीवलया निकुञ्जकूजत्कपिञ्जलकुला वकुलावनद्धाः।
अभ्यषिरे कनकचम्पकराजिकान्ता येनापरान्तविजये जलधेरुपान्ताः॥५५४॥”

यथा वा—

“अपसारय घनसारं कुरु हारं दूर एव किं कमलैः?।
अलमलमालि ! मृणालैरिति वदति दिवानिशं बाला॥५५५॥”

स चैवं त्रिविधोऽपि प्रत्येकं द्विप्रकारच भवति॥१०-११॥

तावेव प्रकारावाह1274

चित्रो विचित्रश्च तयोराद्यो यमकसन्निभः।
द्वितीयस्त्वाय एवानुप्रासान्तरतरङ्गितः॥१२॥

व्यक्त एव श्लोकार्थः। तत्रोपनागरिकानुप्रासश्चित्रो यथा—

सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धकुधि
क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकुन्दहूदि (दुहि)।
शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि
ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ! व्रजन् जीवसि?॥५५६॥”

अत्र स्फुटैव यमकच्छाया।

विचित्रो यथा—

“उद्यद्बर्हिषि1275 दुर्दुरारखपुषि प्रक्षीणपान्थार्युषि1276
इच्योतद्विषि चन्द्ररुग्मुषि1277 सखे ! हंसद्विषि प्रावृषि।
मा मुश्वोचकुचान्तसन्तत्तगलदुष्पाकुलां1278 बालिकां
काले कालकालनीलजलदव्या लुप्त भास्वश्विषि॥५५७॥”

अत्र मा श्वोच्चकुचान्तेत्याद्यनुप्रासान्त1279रानुप्रवेशः। एवं परुष1280–कोमला–नुप्रासावपि द्रष्टव्यौ॥१२॥

अथ प्रकारान्तरेण विचित्रमाह—

आवृत्तेरेकवर्णाया वाक्यव्यापकताजुषः।
यद् वर्णान्तरवैचित्र्यं तं विचित्रं वदन्ति वा॥१३॥

एक एव वर्णो यस्यां सा तथा तस्याः समग्रवाक्यव्यापकता भाजआवृत्तेर्यदन्तरान्तरा वर्णान्तरवैचित्र्यं तं वा विचित्राख्यं वृभ्यनुप्रासं वदन्ति। अत्र वाशब्दोऽथवार्थे। यथा—

“चश्च1281त्काश्वनकान्तयो लयचलच्चेलाञ्चलैरश्चिता–
श्वारीसश्चरणैकचारुचरणाः सिचन्ति चित्तं मम।
लीलाचञ्चु1282रचश्चरीकरुचिभिश्चूडालकैश्चचिताः
किश्चिचन्दन-चन्द्र- चम्पकरुचां चौर्यो मृगलोचनाः॥५५८॥”

अत्र समग्रेऽपि वाक्ये ककारादिवर्णान्तरिता चकारावृत्तिः॥१३॥

अथास्यैव प्रभेदान्तरमाह—

यदि वा यत्र वर्ग्याणां वयैरावर्त्तनं निजैः।
वृत्त्यनुप्रासमिच्छन्ति तं कवित्वैकजीवितम्॥१४॥

यदि नेति प्रकारान्तरसूचनार्थः। यत्र यस्मिन् वर्याणां कवर्गादिवर्गाक्षराणां निजैरेव वर्गाक्षरैरवर्त्तनं वृत्तीनां कार्णा1283टीप्रभृतीनामनुप्रास तं कवितायाएकैचै1284तन्यभूतमिच्छन्ति। तत्र कवर्गावृत्या कार्णा1285टी यथा—

“कान्ते ! कुटिलमालोक्य कर्णकण्डूयनेन किम्?।
कामं कथय कल्याणि ! किङ्करः करवाणि यत् ॥५५९॥”

चवर्गाच्या कौन्तली यथा—

“ज्वलज्जटिलदीपार्चिरञ्जनोच्चयचारवः।
चम्पकेषु चकोराक्षि ! चश्वरीकाश्चकासति॥५६०॥”

टवर्गावृष्या कौमी यथा—

“कुम्भकूटाट्टकुट्टाककु1286टिलोत्कटपाणिरुट्।
हरिः करटिपेटेन न द्रष्टु1287मपिचेष्टयते॥५६१॥”

तवर्गावृत्या कौङ्कणी यथा—

“मधुर्मधूनि गान्धर्व मन्दिरं मदिरेक्षणा।
इन्दुरैन्दी1288वरं दाम काममानन्दयन्ति नः॥५६२॥”प

एवं पवर्गाच्या वानवासिका। अन्तःस्थावृत्या श्रावणी। ऊष्मावृष्यामाधुरी। द्वित्रि1289वर्गाच्या मात्सी। एकवर्गोत्थवर्ग्यद्वयावृत्या मागधी। स्वान्त्यसंयोगिववर्ग्या1290वृत्या तामलिप्तिका। सरू1291पसंयुक्ता वृथ्या ऊंड्री। असरूपसंयुक्ताश्या पौण्ड्री वृत्तिरिति द्वादशधा वृत्यनुप्रासः॥१४॥‌

अथ लाटानुप्रासमाह—

एकवृत्ति—पृथक्वृत्ति—वृत्त्यवृत्तिस्थितिस्पृशाम्।
भूयः साम्ये1292ऽपि तात्पर्यमात्रतो भेदशालिनाम्॥१५॥

नाम्नां यदियमावृत्तिर्वृत्तिवर्ज पदस्य च।
पदानां1293 च स लाटानामनुप्रासः प्रकीर्त्यते॥१६॥

एकस्मिन् समासे पृथगू विभिन्ने समासे समासासमासे वा स्थितिमतां भूयो बाहुल्येन साम्येऽपि तात्पर्यमात्रत1294ऐदम्पर्यमात्राद् भेदवता1295नाम्नां तथासमासं विना पदस्य विभक्त्यन्तस्य पदानां च तादृशानामेव यदियमावृत्तिः सलाटानां देशविशेषसम्भूतनराणामनुप्रासस्तदभीष्टत्वात् प्रकीर्त्यते कथ्यते।तत्र क्रमेण नाम्नां यथा—

“सितकर कररुचिरविभा विभाकराकार ! धरणिधव ! कीर्तिः
पौरुषकमला कमला सापि तत्रैवास्ति नान्यस्य॥५६३॥”

अत्र सितकरकरेत्येकः समासः, विभा विभाकरेति पृथक् समासः। कमलाकमलेति समासासमासः1296॥१५-१६॥

अथ पदस्थस्यास्य भेदानाह—

स्वभावादुपचाराच्च वीप्सयाऽऽभीक्ष्ण्यतोऽपि वा।
कषादिभ्यश्च धातुभ्यः स्वात्मन्युपपदस्थिते॥१७॥

आवृत्तिर्दृश्यते या च या च काचन सम्भ्रमात्।
अनुप्रासं तमप्याहुलटीयं कविपु1297ङ्गवाः॥१८॥

या च काचिदावृत्तिः स्वभावात् निसर्गात् दृश्यते । यथा—

“कुर्वन्तोऽमी कलकलं मारुतेन चलाचलाः।
** मातर्गु1298**

गुलायन्ते गजा इव घनाघनाः॥५६४॥”

अत्र स्वाभाविकी सर्वाऽप्यावृत्तिः।

या चोपचारात् यथा—

“अमृतममृतं चन्द्रश्चन्द्रस्तथाऽम्बुजमम्बुजं
रतिरपि रतिः कामः कामो मधूनि मधून्यपि।
इति न भजते वस्तु प्रायः परस्परसङ्करं
तदियमबला धन्ते लक्ष्मीं कथं सकलात्मिकाम् ?॥५६५॥”

अत्रार्थान्तरसङ्क्रान्तवाच्य उपचारः।

या च वीप्सया यथा—

“शैले शैले न माणिक्यं मौक्तिकं न गजे गजे।
देशे देशे1299 न विद्वांसश्चन्दनं न वने वने॥५६६॥”

अत्र वीप्सया द्विरुक्तिः।

यथा वाऽऽभी1300क्ष्ण्यतो यथा—

“श्लेष श्लेषं मृगदृशा दत्तमानन–पङ्कजम्।
मया मुकुलिताक्षेण पायं पायमदृश्यत॥५६७॥”

अत्राभीक्ष्ण्य1301तो द्विरुक्तिः।

तथा कषादिम्यो धातुभ्यः सकाशात् तेषामेव धातूनां स्वात्मन्येवोपपदस्थिते प्रत्यासत्तिस्थे या च काचिदावृत्तिर्यथा—

“निमूलकापं कपति स्वान्तमन्तः स्मरज्वरे।
लाजस्फोटं स्फुटन्त्यस्या हृदये हारयष्टयः॥५६८॥”

या च सम्भ्रमावू यथा—

“अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दु–
र्गङ्गा गङ्गोरग उरग इत्याकुलाः सम्भ्रमेण।
भूषा-वेषोपकरणगणप्रापणव्यापृतानां
नृत्तारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम्॥५६९॥”

एवं भक्तिप्रहृताद्या वृत्तिरपि गृह्यते। यथा—

“जयति जयति देवः श्यामकण्ठः पिनाकी
जयति जयति देवी लोकमाता भवानी।
जयति जयति धन्यः को1302ऽपि भक्तस्तयोर्यः
किमपरमिह वन्द्यं वन्द्यमेतावदेव॥५७०॥”

तमप्यनुप्रास लाटीयं लाटसम्बन्धिनमा हुनुवते कविपुङ्गवाः कवीश्वराः1303। एवं गजोऽयमागच्छतीत्यादिवाक्येषु पदानामपि द्रष्टव्यः1304॥१७-१८॥

अथावृत्तिसाधर्म्याद् यमकमाह—

सत्यर्थे पृथगर्थानां वर्णानां सस्वरात्मनाम्।
पुनरावर्त्तनं स्थाननियमे यमकं विदुः॥१९॥

वर्णानां पुनरावर्तनं यमकं विदुः। स्थाननियमाभावे सस्वरनियमाभावे चानुप्रास एव स्यात्, तद्व्यवच्छेदार्थमाह-स्थाननियमे इति, सस्वरात्मनामितिच। इह च क्वचिदुभयत्रापि सार्थकत्वम्। क्वचिदेकत्र सार्थकत्वम्, अपरत्रनिरर्थकत्वम्। क्वचिदुभयत्राप्यनर्थकत्वम्। यथा—

“नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम्।
मृदुलतांतलतांतमलोकयत् स सुरभिं सुरभिं सुमनोभरैः॥५७१॥”

अत्र प्रथमपादे उभयत्रापि सार्थकत्वम्। द्वितीय–तृतीयपादयोरेकत्र सार्थकत्वमपरत्रानर्थकत्वम्। चतुर्थपादे सुरभिं सुरभिं स्वित्यत्रोभयो1305रप्यनर्थकत्वमित्याह—सत्यर्थे पृथगर्थानां यद्यर्थो भवति तदा भिन्नार्थानामेवावृवृत्तिरर्थाभावे त्वन्यथापि॥१९॥

अथैतस्य भेदानाह—

पाद–पादादि–मध्यान्त–श्लोकार्थ–श्लोकवर्त्तिनीम्।
मनोज्ञां दधदावृत्तिं भिद्यते तदनेकधा॥२०॥

तद् यमकमनेकधा बहुभिः प्रकारैर्भिद्यते। कीदृशं सदित्याह–पादयोः–श्लोके1306 तुर्यभागयोः समग्रयोः पादानां वा सर्वेषां पादादौ पादाद्योः पादादिषुच पादमध्ये पादमध्ययोः पादमध्येषु च। पादान्ते पादान्तयोः पादान्तेषु च।श्लोकार्द्धयोः श्लोकयोश्च समग्रयोर्वर्त्तमानां मनोज्ञामावृत्तिं दधद् धारयदिति1307

तत्र पादयोर्यथा—

“या विभर्ति कलवलकी गुणस्वानमानमति कालिमालया।
नात्र कान्तमुपगीतया तया स्वानमानमतिकालि मालया॥५७२॥”

एवं प्रथमादिपादानामपि द्वितीयादिपादेषु चतुर्णां वा मिथो यमनं ज्ञेयम्।

पादादौ यथा—

“राजीवराजीवशलोलभृङ्गं मुष्णन्तमुष्णं तातभिस्तरूणाम्।
कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम्॥५७३॥”

पादाद्योर्यथा—

“उच्चारणज्ञोऽथ गिरां दधानमुच्चारणत्पक्षिगणास्तटीस्तम्।
उत्कन्धरं द्रष्टुमवेक्ष्य शौ1308रिमुत्कन्धरं दारुक इत्युवाच॥५७४॥”

पादादिषु यथा—

“काञ्चिप्रतोलीमनु कामिनीनां काश्चिस्रवन्तीचनमातरिश्वा।
काञ्चि1309प्रभृत्याभरणोज्झिनीनां काञ्चिन्लुनीते सुरतश्रमार्तिम्॥५७५॥”

पादमध्ये यथा—

“दधतमाकरिभिः करिभिः क्षतैः समवता1310रसमैरसमैस्तटैः।
विविधकामहिता महिताम्भसः स्फुटसरोजचना जवना नदीः1311॥५७६॥”

पादमध्ययोर्यथा—

“बभुर्वसन्ते रमणीषु विभ्रमं विनि1312द्रयन्त्यो रमणीयतागुणैः।
जगजिगीषोः सहकारितां गताः सङ्कल्पसूतेः सहकारपङ्क्तयः॥५७७॥”

पादमध्येषु यथा—

“मदनदारुण उत्थित उच्छिखो मधुमदारुण हूणिमुखच्छविः।
तरुणि ! दारुण1313एष दिशः समं मम हृदारुणदाश्रवणनिलः1314॥५७८॥”

पादान्ते यथा—

“व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूज1315घनैर्घनैः।
फणभृतामभितो विततं ततं प्रियलवङ्गलता–बकुलैः कुलैः॥५७९॥”

पादान्तयोर्यथा—

“इह मुहुर्मुदितैः कलभैरवः प्रतिदिशं क्रियते कलभैरवः।
स्फुरति चानुवनं चमरीचयः कनकरत्नभ्रुवां च मरीचयः॥५८०॥”

पादान्तेषु यथा—

“तब प्रिया सच्चरिताप्रमत्त ! या विभूषणं धार्यमिहांशुमत्तया।
रतोत्सवामोदविशेषमत्तया न मे फलं किश्चन कान्तिमत्तया1316॥५८१॥”

व्याख्याऽस्य यथा—काचिद् विभूषणार्पणे गोत्रस्खलितं प्रियमेवमाह–हेसच्चरिताप्रमत्त ! हे सदाचारनिपुण ! या काचित् तव प्रिया1317इह तया रतोत्सवामोदविशेषमत्तया अंशुमत् कान्तियुक्तं विभूषणं धार्यम्। मम पुनस्तव प्रसादबहिष्कृताया विभूषणसमुद्भवया कान्तिमत्तया न किञ्चन फलमिति सम्बन्धः।अत्रामोदो हर्षः॥१०॥

श्लोकार्द्धयोर्यथा—

“अयशोभिदुरालोके कोपधामरणाद् ऋते।
अयशोभिदुरालोके कोपधा मरणाद् ऋते?॥५८२॥”

श्लोकयोर्यथा—

“सत्वारंभव (र) तोऽवश्यमवलंबिततारवम्।
सर्वदा1318 रणमानैषीदवानलसमस्थितः॥५८३॥
सभ्वारम्भव (र)तोवश्यमवलम्बितताखम्।
सर्वदारणमानैषी दवानलसमस्थितः॥५८४॥”1319

एवमाद्यन्त–मध्याद्यंशानां मिथो यमने भूयांसो यमकप्रकाराःस्युः1320। ते चप्रायः काव्यस्य व्याधिभूता इति साकल्येन नोदाहृताः, दिङ्मात्रं तु दर्शितमेवेति॥२०॥

अथ1321चित्रमाह—

लिप्यक्षराणां विन्यासे खड्ग–पद्मादिरूपता।
यस्मिन्नालोक्यते चित्रा तच्चित्रमिति गीयते॥२१॥

यस्मिन् यत्र लिप्यक्षराणां लिपिवर्णानां न तूचार्यमाणानां, जिह्वापाटनादिप्रसङ्गात् विन्यासे पत्रादिलेखने सति खड्ग–पद्मादिरूपता खड्ग–पद्मादीनामाकृतिश्चित्राऽवलोक्यते। तश्चित्रमित्यलङ्कारो गीयते।

तत्र खड्गरूपता यथा—

“मारा रिशक्ररामेभमुखैरासाररंहसा।
सारारब्धस्तवा नित्यं तदर्त्तिहरणक्षमा॥५८५॥”

माता नतानां संघट्टः श्रिया बाधितसम्भ्रमा।
मान्याथ सीमा रामाणां शं मे दिश्यादुमाऽऽदिजा॥५८६॥”1322

स्थापना चेयम्—

[खड्गबन्धः।]
<MISSING_FIG href=”../books_images/U-IMG-1731485498khadgbandh.jpg”/>

पद्मरूपता यथा—

“याश्रिता पावनतया यातनच्छिद1323नीचया।
यांचनीया धिया. मायायामायासं श्रिता श्रिया॥५८७॥”

यातनं पीडां छिनत्तीति क्विपि यातनच्छित्। मायाया अविद्याया आयामोदैर्ध्य तस्यायासं विनाशमनीचयाधिया याचनीयेति देवीस्तुतिः।

स्थापना चेयम्1324
[पद्मबन्धः।]
<MISSING_FIG href=”../books_images/U-IMG-1731487637khadgbandh.jpg”/>

आदिशब्दान्मूरज-चक्रादिरूपता गृह्यते। सा च शिशुपालवध–रुद्रटा–दिष्वालोकनीया। शक्तिमात्रप्रकाशन फलैवेयं कविता न भूम्ना महाकविभिरादृतारसवीथी बहिष्कृतत्वादिति ज्ञापनाय न प्रपञ्च्यते॥२१॥

अथ श्लेषमाह—

शब्दानां भिन्नवाच्यानां भङ्गाभङ्गविधिस्पृशाम्।
एकप्रयत्नोच्चार्यत्वं श्लेषो वर्णादिरष्टधा॥२२॥

भिन्नवाच्यानां पृथगर्थानां भङ्गवि1325धिचुम्बिनामभङ्गविधिचुम्विनां च1326 शब्दानांयदेकेनैव प्रयत्नेन तान्वोष्ठपुटादिव्यापारेण तुल्यकालमुच्चारणीयत्वं स श्लेषालङ्कारः।

स च वर्णादिः व1327र्ण—प1328द—लिङ्ग1329—भा1330षा—प्रकृ1331ति—प्र^(६)त्यय—विभ^(७)क्ति—वत्त^(८)नमयोऽष्टधा भवति। तत्र वर्णश्लेषो यथा—

“अलङ्कारः शङ्काकरनरकपालं परिजनो
विशीर्णाङ्गो भृङ्गी वसु च वृष एको गतवयाः।
अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो—
विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी?॥५८८॥”

अत्र विधावित्यत्र वर्णश्लेषो विधोर्विधेश्चव्यवस्थापकः॥१॥

पदश्लेषो यथा—

“दोषाकरेण सम्बध्नन् नक्षत्रपथवर्तिना।
राज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते?॥५८९॥”

लिङ्गश्लेषो यथा—

“भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्द्धिनी
ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये।
लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्त्तिशमनं नेत्रे तनुर्वा हरेः॥५९०॥”

वचनश्लेषोऽप्येष एव॥४॥

भाषाश्लेषो यथा—

“महदेसुरसंधंमे तमवसमासंगमागमाहरणे \।
हरबहुसरणं तं चित्तमोहमवहरउमे सहसा॥५९१॥”

अत्र संस्कृत—प्राकृतयोः श्लेषः। एतद्वयाख्या यथा—महदे उत्सवप्रदे सुरैः सह सन्धानं यस्य तं समासङ्गं मे ममाव पालय आगमाहरणे आम्नायग्राह्ये बहुसरणं भूरिसरणं तं प्रसिद्धं चित्तमोहमवसर

काले हरापनय हे उमे!गौरि! सहसा बलेन। तथा मह मम धंमे धर्मे रसमासक्तिंदेसु देहि। गमागमात् संसारात् तमोवशामाशां णे नोऽस्माकं हर। हे हरवधु! त्वं शरणं मे मम चित्तमोहोऽपसरतु सहसा झगिति। मोहमित्यत्र न1332पुंसकत्वं प्राकृतत्वात्। एवं भाषान्तराणामपि बोद्धव्यः॥५॥

प्रकृतिश्लेषो यथा—

“अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति।
सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः॥५९२॥”

प्रत्ययश्लेषो यथा—

“रजनिरमणमौलेः पादपद्मावलोकक्षणसमयपराप्तापूर्वसम्पत्सहस्रम्।
प्रमथ1333निवहमध्ये जातुचित्1334 तत्प्रसादादहमुचितरुचिः स्यान्नन्दिता सा तथा मे”

अत्राहमुचितरुचिः सन्नन्दिता प्रमोदवान् स्याम्, तथा तेन प्रकारेण मे मम सा नन्दिता नन्दिकेश्वरत्वं स्यादिति प्रत्ययश्लेषः।

विभक्तिश्लेषो यथा—

“विषं निजगले येन बभ्रे च भुजगप्रभुः।
देहे येनाङ्गजो दधे जाया च स जयत्यजः॥५९४॥”

अत्र येन विषं निजगले गिलितं भुजगश्च निजगले कण्ठे बभ्रेघृतः। अनङ्गो देहे दग्धः। जाया च देहे वपुषि दध्रेधृतेति। त्यादि—स्याद्योर्विभक्त्योः श्लेषः। सर्वेष्वप्येषु1335 सभङ्गश्लेषोऽयम्। अभङ्गश्लेषोऽप्यष्टधैव यथासम्भवं ज्ञेयः। अत्र केचिदभङ्गश्लेषत्व1336मिच्छन्ति। एकस्मिन् वृन्ते फलद्वयवदेकस्मिन् शब्देऽर्थद्वितीयस्यावलग्नत्वात्। तदयुक्तम्। दोष—गुणालङ्काराणां हि शब्दार्थाश्रयत्वेऽन्वयव्यतिरेकावेव व्यवस्थापकौ। यो यस्यान्वयं व्यतिरेकं वाऽ(चा) नुविधत्ते स तदीय इति व्यवस्था। ततश्च—

“असावुदयमारूढः कान्तिमान् रक्तमण्डलः।
राजा हरति लोकस्य हृदयं मृदुभिः करैः॥५९५॥”

इत्यादावभङ्गश्लेषोऽपि सभङ्गश्लेष इव शब्दपरावृत्तौ न भवत्येवेत्ययमपि शब्दालङ्कार एव। स पुनरर्थश्लेषस्य विषयो यत्र शब्दपरावर्तनेऽपि न श्लेषत्वहानिः। यथा—

“स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम्।
अहो! सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च॥५९६॥”

श्लेषश्चायमप्रा1337प्तो विधीयते इति निरवकाशत्वादलङ्कारान्तराणां बाधक इति न1338वाच्यमलङ्कारान्तरविविक्तविषयस्याप्यस्य1339 दर्शनात्। यथा—

“योऽसकृत्परगोत्राणां पक्षच्छेदक्षणक्षमः।
शतकोटितां बिभ्रद् विबुधेन्द्रः स राजते॥५९७॥”

यत्राप्यलङ्कारान्तरसहचरस्तत्रापि न खलु स एव तत्प्रतिभोत्पत्तिहेतुः। किन्तु तान्येवास्य प्रतिभोत्पत्तिहेतव इति तद्वयपदेशेनैव व्य1340वहारः। सौन्दर्यस्य तेष्वेव विश्रान्तत्वात्। सौन्दर्यंचालङ्कारः। तथाहि—

“सकलकलं पुरमेतज्जातं स1341म्प्रति सितांशुबिम्बमिव।

अत्र श्लेषप्रतिभोत्प1342त्तिहेतुरुपमैव।

नन्वर्थालङ्कारत्वमेवोपमायास्तत् कथं शब्दसाम्येऽप्येषैव तस्मादुपमा प्रतिभोत्पत्तिहेतुरत्र श्लेष इत्युच्यताम्। साधूक्तम्, किन्तु पूर्वाचार्यैरस्याः क्वापि शब्दालङ्कारत्वमप्यङ्गीकृतम्। यदुक्तम्—

“स्फुटमर्था1343लङ्कारावेतावुपमा—समुच्चयौ किन्तु \।
आश्रित्य शब्दमात्रं सामान्यमिहापि सम्भवतः॥५९९॥”इति।

एवं च—

‘अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका’इत्यादौ विरोधः। ‘सद्वंशमुक्तामणिः’इत्यादावेकदेशविवर्त्ति रूपकम्। ‘नाल्पकरिव स्वन्यश्लोको देव! महान् भवान्।’ इत्यादौ व्यतिरेकः।

“अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः।
अहो! दैवगतिश्चित्रा तथापि न समागमः॥६०३॥”

इत्यादौ समासोक्तिः।

“आदाय चापमचलं कृत्वा हीनं गुणं1344 विषमदृष्टिः।
यश्चित्रमच्युतशरो1345 लक्ष्य1346मभाङ्क्षीन्नमस्तस्मै॥६०४॥”

इत्यादौ विरोधश्च श्लेषप्रतिभोत्पत्तिहेतुरिति बोद्धव्यम्। एष च श्लेषः ‘प्राकरणिकयोरप्राकरणिकयोर्वा विशेषण—विशेष्यसाम्ये सत्येव भवति’ इति यदुक्तं केनचित् तन्नातिसमीचीनं प्राकरणिकयोस्तावदुभयथाऽपि दर्शनात्। तथाहि—

“मधुरागविवर्द्धिन्यः कोमला : कोकिलागिरः।
आकर्ण्यन्ते मदकलाः श्लिष्यन्ते वा(चा) सितेक्षणाः॥६०५॥”

अत्रासिते अन्तःप्रमोदानुभवान्निश्चलीकृते ईक्षणे यकाभिः लोकानां ताःकोकिलागिर आकर्ण्यन्ते। तथा कोकिलातुल्यगिरोऽसितेक्षणाः श्लिष्यन्ते इति विशेष्यसाम्यम्। विशेषणसाम्यं तु स्फुटमेवात्र।

तथा—

“स्वभावमधुराः स्निग्धाः शंसन्त्यो रागमुल्बणम्।
दृशो दूत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान्॥ ६०६॥”

अत्र दृशां दूतीनां च प्राकरणिकानामपि विशेष्याणां साम्यं नास्ति। एवमप्राकरणिकयोरपि क्वापि द्रष्टव्यम्। प्राकरणिकाप्राकरणिके1347 तु विशेषणविशेष्यसाम्ये यत्र प्रकरणादि1348नियमनं तत्र ध्वनेर्विषयः। यथा—

‘असावुदयमारूढः’इत्यादि। अत्र प्रकरणादिनियमिता राजादिशब्दा ध्वनिनैव चन्द्राद्यर्थान्तरं प्रतिपादयन्ति। केवलं1349 विशेषणसाम्ये पुनरस्यैव विषयः। यथा—

“स्वेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखम्।
मोहात् समाक्षिपति जीवनमप्यकाण्डे कष्टो मनोभव इवेश्वरदुर्विदग्धः॥६०७॥

अथ वक्रोक्तिमाह—

वाक्यं यत्रान्यथैवोक्तमन्यो व्याकुरुतेऽन्यथा।
काक्वाश्लेषेण वा तस्मात् सा वक्रोक्तिर्द्विधा मता॥२३॥

यत्र यस्यामन्यथैव प्रकारान्तरेणैव केनचिद् वाक्यमुक्तम्। अन्यः कश्चिदन्यथा पूर्वस्मात् प्रकारान्तरेण व्याकुरुते समर्थयति। कया हेतुभूतया? काका ध्वनिविशेषेणाथवा श्लेषेण समङ्गाभङ्गात्मना। तस्मात् काकु—श्लेषलक्षणहेतुद्वयात् सा वक्रोक्तिनामाऽलङ्कृतिर्द्विधा मता। तत्र काक्वायथा—

“गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम्।
अलिकुलकोकिले ललिते1350 नैष्यति सखि!सुरभिसमयेऽसौ॥६०८॥”

एतद् वाक्यं नायिकया पत्युरागमननिषेधपरत्वेनोक्तम्। तत्सख्या नञ्शब्दस्थितकाकुप्रयोगेण विधिपर्यन्ततां प्रापितम्।

सभङ्गश्लेषेण यथा—

“त्वं हालाहलभृत् करोषिसहसा मूर्छांसमालिङ्गितो
हालां नैव बिभर्मि नैव च हलं मुग्धे! कथं हालिकः?।
सत्यं हालिकतैव ते समुचिता सक्तस्य1351 गोवाहने
वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद् वः शिवः॥६०९॥”

अभ1352ङ्गश्लेषेण यथा—

“अहो! केनेदृशी बुद्धिर्दारुणा तव निर्मिता?।
त्रिगुणा श्रूयते बुद्धिर्नतु दारुमयी क्वचित्॥६१०॥”

अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषेण तृतीयान्तं सम्पादितमिति॥२३॥

अथ1353 पुनरुक्तवदाभासमाह—

शब्दानामामुखे यस्मिनेकार्थत्वावभासनम्।
पुनरुक्तवदाभासं शब्द—शब्दार्थगामि तत्॥२४॥

यस्मिन् यत्र शब्दानामेकार्थत्वेनावभासनमेकार्था इव शब्दाः1354 प्रतिभासन्तेइत्यर्थः। क्व? आमुखे प्रथमप्रतिपत्तौ न तु पर्यवसानेऽपि दोषप्रसङ्गेनालङ्कारत्वाभा1355वात् तत् पुनरुक्तवदाभासनामाऽलङ्कारः। नपुंसकत्वेन संस्कारो लौकिकालङ्कारवैलक्षण्येन1356 काव्यालङ्काराणामलङ्कार्यपारतन्त्र्यध्वननार्थः। तच्च किम्भूतम्?शब्द—शब्दार्थगामि शब्दगामि शब्दार्थगामि च शब्दालङ्कारः शब्दार्थालङ्कारश्चेत्यर्थः। तत् द्वयोरपि सभङ्गत्वे शब्दालङ्कारो यथा—

“अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः।
भाति सदानत्यागः स्थिरतायामवनितलतिलकः॥६११॥”

सभङ्गाभङ्गत्वे शब्दार्थालङ्कारौ1357 यथा—

“अहीन भुजगाधीशवपुर्वलयकङ्कणम्।
शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम्॥६१२॥

वृषपुङ्गवलक्ष्माणं शिखिपावकलोचनम्।
स सर्वमङ्गलं नौमि पार्वतीसखमीश्वरम्1358॥६१३॥युगली”

इदं स्याद्यन्तापेक्षया।

त्याद्यन्तापेक्षया यथा—

“भुजङ्गकुण्डली व्यक्तः1359 शशिशुभ्रांशुशीतगुः।
जगन्त्यपि सदा पायादव्याच्चेतोहरः शिवः॥६१४॥”

इत्यादावेकस्मिन् पदे परिवर्तिते नालङ्कार इति शब्दनिष्ठोऽपरस्मिंस्तु परिवर्तितेऽप्यलङ्कार1360इत्यर्थाश्रय इत्युभयालङ्कारोऽयम्। अत एव शब्दालङ्काराणामर्थालङ्काराणां चान्तराले निवेशित इति॥२४॥

इति शब्दगतामलङ्कृतिं दधती भात्यरसापि भारती।
कटकादिविभूषणाङ्किता हरते कृत्रिमपुत्रिकाऽप्यलम्॥

इत्यलङ्कारमहोदधौ शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः॥७॥

<MISSING_FIG href=”#”/><MISSING_FIG href=”../books_images/U-IMG-1733112037Screenshot(8”/>.png)

अथाष्टमस्तरङ्गः।

<MISSING_FIG href=”../books_images/U-IMG-1733204016SAMSKRIT.png”/>

अथार्थालङ्कारप्रस्तावनामाह—

शब्दालङ्कृतिभिः कामं सरस्वत्येककुण्डला।
द्वितीयकुण्डलार्थं तद् ब्रूमोऽर्थालङ्कृतीरिमाः॥१॥

शब्दालङ्कृतिभिः पूर्वप्रतिपादितैः शब्दनिविष्टा1361लङ्कारैरेककुण्डलैव1362देवी सरस्वती। तादृश्याश्च तस्यास्तथाविधं न शोभाशालित्वम्। तत् तस्मात् कारणाद् द्वितीयकुण्डलार्थं द्वितीयताडङ्कहेतोरिमा वक्ष्यमाणस्वरूपा अर्थालङ्कृतीरर्थावस्थितालङ्कारान् ब्रूमः कथयाम1363 इति॥१॥

अथ सर्वालङ्कारचैतन्यभूतत्वात् प्रथममतिशयोक्तिं1364विशेषतो लक्षयति—

भेदे वा सत्यभेदे वा प्रस्तुताप्रस्तुतात्मनाम्।
सम्बन्धे वाऽप्यसम्बन्धे यो भवेत् तद्विपर्ययः॥२॥

गुणानां च क्रियाणां च लोकसीमातिवर्तिनी।
प्रगल्भ1365प्रतिभोल्लासादुत्कर्षभणितिश्च या॥३॥

पौर्वापर्यविपर्यासो यश्च कारण—कार्ययोः।
वदन्त्य1366तिशयोक्तिं तां सर्वालङ्कारजीवितम्॥४॥

प्रस्तुतानि वर्ण्यमान1367वस्तूनि अप्रस्तुतानि तत्प्रति1368योगीनि आत्मशब्दोऽत्र स्वरूपवाची। तेषां भेदे मिथः पृथक्त्वे सति यस्तद्विपर्ययः कश्चिद1369भेदो निब1370द्धो भवति। यथा—

“कमलमनम्भसि कमले चं^(१०)कुवलये तानि कनकलतिकायाम्।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्?॥६१५॥”

अत्र मुखादीनां कमलाद्यैर्मेदेऽप्यभेदाध्यवसायः। इयं चातिशयोक्तिः साध्यवसानोपचारमूलेति। तथाऽभेदे वस्त्वैक्येऽपि तद्विपर्ययो भेदभणनम्। यथा—

*“अन्नं लडहत्तणयं1371 अन्न च्चिअ (य) का वि वत्तणच्छाया।
सामा सामन्नपयावइस्स रेह च्चिअ न होइ॥६१६॥”

अत्र लटभत्वादीनामभेदेऽप्यन्यत्वेन भेदः।

यथा वा—

+“नारायणो त्ति परिणयवयाहिं1372सिरिवल्लहो त्ति तरुणीहिं।
बालाहिं पुण कोऊहलेण एमेव सच्चविओ॥६१७॥”

अत्र विष्णोरेकस्यैव विषयविभागाद् भेदेनोपनिबन्धः।

तथा सम्बन्धे योगेऽपि तद्विपर्ययोऽसम्बन्धनिबन्धो यथा—

“अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तद्युतिः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥६१८॥”

अत्र पुराणप्रजापतिनिर्माणसम्बन्धेऽप्यसम्बन्धो निबद्धः।

तथाऽसम्बन्धे योगाभावेऽपि सति तद्विपर्ययः सम्बन्धो यथा—

“उभौ यदि व्योम्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतताम्।
तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥६१९॥”

———————————————————————————————————————————————————–

अत्र व्योम्नो गङ्गाप्रवाहद्वयस्य च सम्भावितः सम्बन्धः।

यथा वा—

“चन्द्रास्तत्र चलन्ति खेलति यतस्तन्व्यामुखं चेष्टते
दृष्टिर्यत्र ततोऽपि कन्दलयति प्रस्तारमिन्दीवरम्।
यत्रोन्मीलति दन्तदीधितिरितोऽप्यामोदते कौमुदी
यस्मिन् बाहुलताऽपि वल्गति ततो वेल्लन्ति कङ्केल्लयः॥६२०॥

अत्र मुखादिखेलनस्थानानां चन्द्रभूयस्त्वादिभिरसम्बन्धे सम्बन्धारोपः। तथा गुणानां क्रियाणां च लोक1373मर्यादोल्लङ्घिनी सातिशयप्रतिभोन्मीलनाद् या काचिदुत्कर्षभणितिरति1374प्रौढिख्यापनम्।

तत्र गुणानां यथा—

“निपीतः पातालैः पशुपतिकपालैः कवलितः
समन्तादाचान्तस्तुहिनगिरिपर्यन्तकुहरैः।
निमग्नो दिग्नागश्रुतिषु1375 च तनोति स्म तदपि
प्रभो! शब्दाद्वैतं जगति तव कीर्तेः कलकलः॥६२१॥”

अत्र कीर्तिकोलाहलमहत्त्वस्योत्कर्षः।

यथा वा1376

“स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये! तव।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते॥६२२॥”

अत्र तु मध्यतानवस्य।

यथा वा—

“अत्युच्चाः परितः स्फुरन्ति गिरयः” इत्यादि। अत्र पुनर्भूपालभुजबलस्य।

क्रियाणां यथा—

“भ्रातः!कोक! विमुञ्च शोकमसमं कान्तावियोगोद्भवं
यश्यागप्रणयी तथाऽयमभवद् देवश्चुलुक्येश्वरः।

शैलः सोऽपि यथा हिरण्म1377यवपुः स्मर्तव्यतामेष्यति
व्यक्तं तन्न चिराद् भविष्यति दिनाद्वैतावदातं जगत्॥६२४॥”

अत्र त्यागक्रियोत्कर्षः। तत्र कारणस्य प्राक्कालभावित्वं कार्यस्य चोत्तरकालभावित्वमित्यस्ति पौर्वापर्यक्रमनियमस्तस्य1378च यो विपर्यासः कालव्यत्यासात् तुल्यकालत्वाद्1379 वा विध्वंसो यथा—

“हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन।
चरमं रमणीवल्लभ! लोचनविषयं त्वया भजता॥६२५॥”

अत्र कामुकाधिष्ठानस्य कारणस्य1380कामबाणाधिष्ठानस्य च कार्यस्य पूर्वापरकालव्य1381त्यासः।

यथा वा—

“सममेव समाक्रान्तं द्वयं द्विरदगामिना।
तेन सिंहासनं पैत्र्यमखिलं चारिमण्डलम्॥६२६॥”

अत्र सिंहासनाक्रमणस्य कारणस्यारिचक्राक्रमणस्यकार्यस्य च काल1382तुल्यत्वमुक्तम्।

तामेतां सर्वामप्यतिशयोक्तिंवदन्ति विद्वांसो ब्रुयते। कीदृशीम्?सर्वालङ्कारजीवितम्।अलङ्कारा हि सर्वेऽप्यनयैव स्फुरद्रूपाः क्रियन्ते। एतां विना तु प्रमीतकल्पा एव। अत एवोक्तं केनापि—

“सैषा सर्वाऽपि वक्रोक्तिरनया1383ऽर्थो विभाव्यते।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना?॥ ६२७॥”

अपरोऽप्याह—

“अलङ्कारान्तराणामप्याहुरेकं1384 परायणम्।
वागीशमहितामुक्तिभिमामतिशयाह्वयाम्॥६२८॥”

अत एवास्याः सर्वेभ्यः प्रथमं लक्षणारम्भः। देवता—मुनि—मन्त्रादिप्रभावोत्कर्षोऽपि गुणोत्कर्ष एवेति। त्रिभिर्विशेषकम्॥२—४॥

अथातिशयोक्तिसब्रह्मचारिणीं सहोक्तिमाह—

सहार्थयोगे या मुख्यामुख्ययोरेकधर्मता।
क्रोडस्थातिशयोक्तिः सा सहोक्तिरिति विश्रुता1385॥५

सहार्था1386नां सह साकं सार्धं प्रभृतिशब्दानां योगे सम्बन्धे सति मुख्यं वर्ण्यमानत्वेन प्रधानका1387रणभूतममुख्यं तु तदनुगामितया वर्ण्यमानत्वादप्रधानं कार्यभूतं तयोर्या काचिदेकधर्मता एकः क्रियारूपो गुणरूपो वा धर्मो ययोस्तौ तथा तयोर्भावः। या चेयमेकधर्मता सा सहोक्तिरिति विश्रुता विख्याता। तत्र क्रियारूपधर्मो यथा—

“कोकला1388लापमधुराः सुगन्धिवनवायवः।
यान्ति सार्द्धं जनानन्दैर्वृद्धिं सुरभिवासराः॥६२९॥”

अत्र वासराणां जनानन्दानां च कर्तृभूतानां वृद्धिंयान्तीति क्रियारूपमेकधर्मत्वम्। धर्मसम्बन्धथ वासराणां शाब्दो जनानन्दानां पुनरार्थः।

यथा वा—

*“उज्झसि पियाइ समयं तह वि अरे1389! भणसि कीस किसिअ त्ति1390।”
1391 अरिभरेण अयाणुअ! मुयइ1392बइल्लोवि अंगाइं॥६३०॥”

अत्रापि युष्मदर्थप्रिययोः कर्मभूतयोरुह्यस इति क्रियारूपं धर्मैक्यम्। मालारूपात्वे1393का दीपकोपस्कृता तद्रहिता च दृश्यते। यथा—

+“धीरेण समं जामा1394 हिअएण समं अणिट्ठिआ उवए1395सा।
उत्सा(च्छा)हेण सह भुआ1396 वाहेण समं गलंति से उल्लावा॥६३१॥”


अत्र गलन्तीति क्रियारूपं सर्वान् प्रत्येकधर्मत्वमिदमेव दीपकं च।

तद्रहिता च1397 यथा—

“उत्क्षिप्तंसह कौशिकरय पुलकैः साकं मुखैर्नामितं
भूपानां जनकस्य संशयधिया सार्ध समास्फालितम्।
वैदेहीमनसा समं च सहसा कृष्टं ततो भार्गव—
प्रौढाहंकृतिकन्दलेन च समं भग्नं तदैशं धनुः॥६३२॥”

गुणरूपधर्मायथा—

सहदीर्घा मम श्वासैरिमाः सम्प्रति रात्रयः।
पाण्डुराश्च ममैवाङ्गैः सह ताश्चन्द्रभूपणाः॥६३३॥”

अत्र रात्रीणां श्वासाङ्गानां च दैर्घ्यगुणेन पाण्डुरत्वगुणेन चैकधर्मत्वम्। इय च सहोक्तिः प्रायः क्रोडस्थातिशयोक्तिरेवोपनिबद्धव्या। यथाऽत्रैव कोकिलालापेत्यादौ। अत्र हि वासरवृद्धिः कारणम्, जनानन्दवृद्धिश्च कार्यम्। तयोः समकालोक्तौ1398 पौर्वापर्यविध्वंसेनातिशयोक्तिः स्फुरन्ती प्रतिभातीत्वेयं सर्वत्र विचार्यम्। तत्परिमलमन्तरेण पुनः—

‘अनेन सार्द्धंविहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु।’

इत्यादावपि सहोक्तिप्रसङ्गः।

‘अस्तं भास्वान् प्रयातः सह रिपुभिरयं संहियन्तां बलानि।’

इत्यत्र पुनरस्तं प्रयात इत्यस्तै1399कक्रियायोगोऽस्ति च भेदेऽप्यभेद इत्येवंरूपाऽतिशयोक्तिरस्तमित्यस्योभयार्थत्वादिति॥५॥

अथैतस्या एव स्वरूपान्तरमाह—

सहार्थानां परित्यागादिवादीनां परिग्रहे।
गर्भीकृतोपमारूपा सेयमौपम्यगर्भिता॥६॥

प्रत्यये यथा—

“गाम्भीर्यगरिमा तस्य सत्यं गङ्गाभुजङ्गवत्।
दुरालोकः स समरे निदाघाम्बररत्नवत्॥६३९॥”

एवमादाविवादिद्योतकशब्देभ्य एव साक्षादौपम्यप्रतीतिरिति श्रौती पूर्णोपमा।

आर्थी वाक्ये यथा—

“चकितहरिणलोललोचनायाः क्रुधि तरुणारुणता1400रहारिकान्ति।
सरिसजमिदमाननं च तस्याः समभिति चेतसि संमदं1401 विधत्ते॥६४०॥

समासे यथा—

“अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः।
सुरतरुसदृशः स भवान1402भिलषणीयः क्षितीश्वर! न कस्य?॥६४१॥”

इत्यादिषु तु समादिद्योतकशब्दसद्भावेऽपि तात्पर्यार्थपर्यालोचनेनौपम्यप्रतीतिरित्यार्थी पूर्णोपमा॥९॥

अथ लुप्तामाह—

लुतैकद्वित्रिलोपे स्यात् तद्वद् धर्मादिषु स्थिते।

धर्मादिषु धर्मोपमानोपमेयद्योतकेष्वेकस्य द्वयोस्त्रयाणां वा लोपे स्थिते सञ्जाते सति लुप्ता नामोपमा। साऽपि तद्वत् पूर्णोपमावद् वाक्ये समासे प्रत्ययेऽपि च भवति।

तत्र वाक्ये यथा—

“राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव।
रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ॥६४२॥”

अत्र साधारणधर्मलोपः।

यथा वा—

“त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी।
कोमलापाटलौ तन्वि! पल्लवश्चाधरच ते॥६४३॥”

अत्र द्योतकलोपः।

द्विलोपे यथा—

“*ढुंढुल्लंतु मरीहिसि कंटयकलिआइंकेअइअ1403वणाइं।
मालइकुसुमेण समं भमर! भमंतो न पाविहिसि॥ ६४४॥”

अत्र धर्मोपमानयोर्लोपः।

समासे यथा—

“मुखमिन्दुसुन्दरं ते बिसकिसलयकोमले भुजालतिके।
जघनस्थली च सुन्दरि! तव शैलशिलाविशालेति॥ ६४५॥”

अत्र द्योतकलोयः।

द्विलोपे यथा—

‘ढुंढुल्लंतु मरीहसि’ इत्यादि गाथायां ‘मालइकुसुमसरिच्छं’इति समासे कृते धर्मोपमानयोर्लोपः।

त्रिलोपे यथा—

“तरुणिमनि कृतावलोकना ललितविलासविलब्धविग्रहा।
स्मरशरविशरारितान्तरा मृगनयना नयते मुनेर्मनः॥ ६४६॥”

———————————————————————————————————————————————————–

अत्र मृगनयने इव नयने यस्या इति समासे धर्मोपमानद्योतका1404नां लोपः।

प्रत्यये यथा—

“सूर्यीयति सुधारश्मिमनाथति मृताय1405ते।
मृतस्तु कान्ताविरहे स्वर्गेऽपि नरकायते॥६४७॥”

अत्र द्योतकलोपः। अनाथतीत्यत्र तु द्योतकसामान्ययोर्द्वयोर्लोपः।

यथा वा—

“हंसो ध्वाङ्क्षविरावी स्यादुष्ट्रक्रोशी च कोकिलः।
खरनादी मयूरोऽपि त्वं चेद् वदसि वाग्ग्मिनि!॥६४८॥”

अत्रापि ‘कर्तुर्णिन्’ [हैम ५ \। १ \। १५३] इति णिनि प्रत्यये द्योतकलोपः।

यथा वा1406

“मृधे निदाघघर्मांशुदर्शंपश्यन्ति तं परे।
स पुनः पार्थसञ्चारं सञ्चरत्यवनीपतिः॥६४९॥”

अत्र द्योतकलोपः।

यथा वा—

“पूर्णेन्दुकल्पवदना मृणालीदेश्यदोर्लता।
चक्रदेशीयजघना सा1407 स्वप्नेऽपि न दृश्यते॥६५०॥”

अत्र धर्मलोपो द्योतकार्थस्तु कल्पत्वादिभिः साक्षादभिहितः। ईषदपरिसमाप्तः पूर्णेन्दुरिति पूर्णेन्दुसदृशमित्यर्थः। न तु पूर्णेन्दुरेवेति रूपकं1408 नाशङ्कनीयम्।

द्विलोपे यथा—

“गङ्गीयत्यसितापगा फणिगणः शेपीयति श्रीपतिः
श्रीकण्ठयति कैरवीयति दलनीलोत्पलानां वनम्।

कर्पूरीयति कज्जलं पिककुलं लीलामरालीयति
स्वःकुम्भीयति कुम्भिनामपि घटा यत्कीर्तिसम्पर्कतः॥६५१॥”

अत्र गङ्गामि1409वात्मानमाचरत्यसितापगेत्यादिष्वात्म1410नो द्योतकस्य च लोपः। इयं लुप्तोपमाऽपि यथायोगं श्रौती चार्थी च ज्ञातव्या।

अथोपमाया एव भेदानाह—

धर्मस्य तस्यामेकत्वं सर्वानुगतया क्वचित्॥१०॥

तस्यामुपमायां क्वचित् कस्मिंश्चित् कविप्रौढिनिर्मिते काव्ये सर्वानुगतया सर्वोपमानानामुपमेयस्य चानुगामित्वेन धर्मस्यैकत्वमेकरूपत्वम्। यथा—

“प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च॥६५२॥”

अत्र पूतश्चविभूषितश्चेत्येक एव धर्मः सर्वाननुगच्छति। इयमेव मालोपमा॥१०॥

तथा—

क्वचित् पृथग्विनिर्देशः प्रतिवस्तूपमानवत्।

यथा प्रतिवस्तूपमाय तथा क्वचित् कस्यांचि1411त् उपमायामुपमाने उपमेये च धर्मस्य पृथक् पृथग् निर्देशः। यथा—

“यान्त्या मुहुर्वलितकन्धरमाननं त—
दावृत्तवृन्तशतपत्रनिभं वहन्त्या।
दिग्धोऽमृतेन न विषेण च पक्ष्मलाक्ष्या
गाढ निखात इव मे हृदये कटाक्षः॥६५३॥”

अत्र वलितव्यावृ1412त्तत्वे द्वयोरप्युपमानोपमेययोरेकार्थौपृथक् पृथग्धर्मौनिबद्धौ।

तथा—

दृष्टान्तवत् क्वचिद् बिम्ब—प्रतिबिम्बमनोज्ञता॥११॥

यथा दृश्यन्ते तथा कस्मिंश्चिदुपमाभेदे द्वयोरप्युपमानोपमेययोर्धर्मद्वयस्य बिम्ब—प्रतिबिम्बमनोहरत्वम्। यथा—

“पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥६५४॥”

अत्र हाराङ्गराग1413योर्धर्मयोर्निर्झर—बालातपौ प्रतिबिम्बत्वेन निबद्धौ॥११॥

पुनःकांश्चिदुपमाभेदानाह—

साऽनेकद्योतका सर्वद्योतका द्योतकोज्झिता।
धातुद्योत्या विपर्यासवती वैधर्म्यशालिनी॥१२॥

नियमानियमोपेता विक्रयातिशयाङ्किता।
प्रतिषेधाद्भुता श्लिष्टा श्लेषोत्प्रेषितवत्यपि॥१३॥1414

अनेकं द्विप्रभृति1415द्योतकं पदं यस्यां सा। यथा1416

“दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीच लेखा।
पुपोष लावण्यमयान् विशेषान् ज्योत्स्नान्तराणीव कलान्तराणि॥६५५॥”

अत्रैक^(६)वाक्येऽपि द्योतकद्वयस्य प्रयोगः।

तथा सर्वंसर्वोपमानगतं द्योतकं यस्यां सा। यथा—

“अलिवलयैरलकैरिव कुसुमस्तचकैः स्तनैरिव वसन्ते।
भान्ति लता ललना इव पाणिभिरिव किसलयैरधिकम्॥६५६॥”

अत्र सर्वोपमानेषु द्योतकनिवेशः।

तथा1417 द्योतकेनोज्झिता त्यक्ता। यथा—


“दिवो जागर्ति रक्षायै पुलोमारिर्भुवो भवान्।
असुरास्तेन हन्यन्ते सावलेपा नृपास्त्वया॥६५७॥”

तथा धातुना द्योतकीभूतेन द्योत्यते या सा। यथा—

“पूर्णेन्दोस्तव संवादि वदनं वनजेक्षणे!।
पुष्णाति पुष्पचापस्य जगत्रयजिगीषुताम्॥६५८॥”

यथा वा—

“निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलपालपल्लवा।
विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननम्॥६५९॥”

तथोपमानोपमेययोर्विपर्यासो व्यत्ययो यस्यां सा। यथा—

“यत् त्वनेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये! तव मुखच्छायाऽनु1418कारी शशी।
येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता—
स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥६६०॥”

अत्रेन्दीवरादीनां नेत्रादीन्युपमानानी1419ति विपर्यासः। न चात्र वक्ष्यमाणप्रतीपालङ्कारशङ्का कार्या विपर्यासस्योपमान तिरस्कारहेतुत्वाभावात्।

तथा साधर्म्यविपक्षभूतं वैधर्म्यं तेन शालते या सा। यथा1420

“प्रहितः प्रधनाय माधवानहमाकारयितुं महीभुजा।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव॥६६१॥”

अत्रापकुर्वन्तीत्यस्य विपक्षभूतं नापकुर्वन्तीति वैधर्म्यम्।

नियमोऽन्यसाम्यनिवृत्तिरतेनोपेता। यथा—

“मुखं ते शशिनैवेदं तुल्यं नान्येन केनचित्।
मृगाक्षि! समतामेति सुधयैव वचः पुनः॥६६२॥”

अनियमस्तद्विपर्ययस्तदुपेता। यथा—

“मुखमम्भोरुहं तावत् तवान्वेति कृशोदरि!।
यदीदृगन्यदप्यस्ति तदप्यायातु तुल्यताम्॥६६३॥”

विक्रिया वस्तुविकारस्तदङ्किता। यथा—

“इन्दुबिम्बादिवोत्कीर्ण पद्मगर्भादिवोद्धृतम्।
वदनं तव तन्वङ्गि! विमृशद्भिर्विभाव्यते॥६६४॥”

अतिशयः प्रकर्षस्तदङ्किता। यथा—

“त्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः।
इयानेवानयोर्भेदो मृगशावाक्षि! नापरः॥६६५॥”

प्रतिषेध औपम्यनिषेधस्तेनाश्लिष्टा। यथा—

“कलङ्किनः प्रिये! दोषाकरस्य च जडस्य च।
न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम्॥६६६॥”

अद्भुतमाश्चर्यं

तेनाश्लिष्टा। यथा—

“यदि किञ्चिद् भवेत् पद्ममुद्भ्रुविश्रान्तलोचनम्।
तत् ते मुखश्रियं धर्तुमिदमुत्सहतां प्रिये!॥६६७॥”

अर्थानामेकशब्दप्रतिपाद्यत्वं श्लेषस्तद्वती। यथा—

“शिशिरांशुप्रतिद्वन्द्वि श्रीमत् सुरभिगन्धि च।
अम्भोजमिव रम्भोरु! विभाति वदनं तव॥६६८॥”

यत् किञ्चिदसद् वितर्क्यते तदुत्प्रेक्षितं तद्वती। यथा—

“मय्येवास्या मुखश्रीरित्यलमिन्दोर्विकत्थनैः।
विकस्वरे सरोजेऽपि यद्वत् सत्येव साऽन्वहम्॥६६९॥

एवमन्याऽपि—

“चन्द्रारविन्दयोः कक्षामतिक्रम्य मुखं तव।
आत्मनैव कुरङ्गाक्षि! तुल्यतां कलयत्यदः॥६७०॥”

इत्यसाधारणोपमाऽऽदयः कविभणितिभङ्गयः सम्भवन्ति। तास्त्वनन्तत्वादुदाहर्तुं न शक्यन्ते इति॥१२—१३॥

अथोपमाया एव वास्तवं स्वरूपमाह—

एषा च लौकिकी लोकप्रसिद्धेरनुरोधतः।

एषा च सर्वाऽप्युपमा लोकप्रसिद्धेरनुरोधाल्लौकिकी कोऽर्थो लोकप्रसिद्धमुपमानं लोकप्रसिद्धमुपमेयं च यस्यां सा लौकिकी। यथा—‘कमलमिव मुखम्’ इत्यादि। न पुनः ‘कुमुदमिव मुखम्’ इत्यादि। यदि वा लोकाचरिता लौकिकी। यथा—

“स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्ध1421धीरः।
जलाभिलाषी जलमाददानां छायेव तो भूपतिरन्वगच्छत्॥६७१॥”

अथ कल्पितामाह—

या कविप्रतिभोन्मेषकल्पिता कल्पिता तु सा॥१४॥

सा पुनः कल्पिता या कवेः प्रतिभोन्मेषेण नवनवोल्लेखशालिप्रज्ञाविशेषोल्लासेन कल्पिता निष्पादिता। यथा—

“हंसानां निनदेषु यः1422कवलितैरासाद्यते कूजता—
मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः।

ते सम्प्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्द्धिनो
निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः॥६७२॥”

अत्र धातुद्योत्यापि। यथा च—

“सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरु—
र्गौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः।
सद्योमार्जितदाक्षिणात्यतरुणीदन्तावदातद्युति—
श्चन्द्रः सुन्दरि! दृश्यतामयमितश्चण्डीशचूडामणिः॥६७३॥”

यथा वा—

“उद्गर्भहूणतरुणीरमणो1423पमर्दभग्नोन्नतिस्तननिवेशनिभं हिमांशोः।
बिम्बं कठोरबिसकाण्डकडारगौरैर्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति॥६७४॥”

यथा वा1424—‘सद्योमुण्डि1425तमत्तहूणचिबुकप्रस्पर्द्धि नारङ्गकम्’। इति।

एवमुक्तानुसारेणान्यापि काचिद् रसनोपमाप्रभृतिरुपमा स्वयमभ्यूह्या। अत्र सर्वत्राप्यसम्बन्धे सम्बन्ध इत्यादिरूपः कोऽप्यतिशयोक्तिपरिमलो विद्यत एवेति॥१४॥

अथौपम्यप्रस्तावादनन्वयमाह—

एकस्यैवोपमानोपमेयत्वे स्यादनन्वयः।

एकस्यैव प्रकृतस्यैवोत्कर्षदानाय सदृशवस्त्वन्तरनिवृत्यर्थ यदुपमानत्वमुपमेयत्व च कल्प्यते। तस्मिन् सति द्वितीयसदृशानुगमाभावादनन्वयः स्यात्। यथा—

“त्वन्मुखं त्वन्मुखमिव त्वद्दृशौ त्वद्दृशाविव।
त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि!॥६७६॥”

अत्र त्वमेवेदृशी नापरेत्यनन्वयेन प्रकाश्यते। इहाभेदे भेद इत्येवंरूपाऽतिशयोक्तिर्द्रष्टव्या। एवमुत्तरत्रापि सर्वत्र यथासम्भवं क्वचित् कदाचिदतिशयोक्तिर्ज्ञातव्या1426

अथोपमेयोपमामाह—

उपमेयोपमा भिन्नवाक्यस्थे व्यत्यये तयोः॥१५॥

तयोरुपमानोपमेययोर्व्यत्यये विपर्यये1427 भिन्नवाक्यस्थे द्वितीयवाक्यस्थिते सत्युपमेयोपमा। इयं साधारणधर्मस्य प्रयोगा1428दप्रयोगाच्च द्विधा। तत्राद्या यथा—

“सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः।
वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः॥६७७॥”

अत्र सच्छायेति साधारणधर्मः।

द्वितीया यथा—

“खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः।
कुमुदाकारास्तारास्ताराऽऽकाराणि कुमुदानि॥६७८॥”

अत्र भिन्नवाक्यत्वभणनादेकवाक्यत्वं पूर्वस्मिन्नन्वये सिद्धमेव॥१५॥

अथ सादृश्य प्रस्तावादेव स्मरणमाह—

स्मरणं या1429स्मृतिस्तुल्यदर्शनात् प्रतिवस्तुनः।

तुल्यदर्शनात् सदृशावलोकनात् प्रतिवस्तुनोऽनुभूतवस्त्वन्तरस्य या स्मृतिस्तत् स्मरणम्। यथा—

“अदृश्यन्त पुरस्तेन खेलाः खञ्जनपङ्कयः।
अस्मर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः॥६७९॥”

सदृशावलो1430कनं विना तु स्मृ1431तिर्नायमलङ्कारः। यथा—

“अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन1432 विनीतखेदः।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम्॥६८०॥”

इत्यादौ1433 प्रागुदाहृते व्यभिचारिणि अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मर्तुर्दशाभावित्वमसमीचीनमिति।

अथ सादृश्यहेतुकत्वेनैव स्मरणानुयायिनं संशयमाह—

संशयः स तु सन्दिह्यमानत्वं प्रकृतस्य यत्॥१६॥

स पुनः संशयाख्योऽलङ्कारो यत् प्रकृतस्य वर्ण्यमानस्य सदृशप्रस्तावादप्रकृतेन केनापि सदृशवस्तुना सन्दिह्यमानत्वं सन्देहविषयत्वं स च संशयः शुद्धो निश्चयगर्भो निश्चयान्तश्च।

तत्र शुद्धो यत्र संशय एव पर्यवसानम्। यथा—

“सेयं किं कालरात्रिः किमुत पितृपतिप्रह्वजिह्वालतेयं
किं वा कालीकटाक्षद्युतिरियमथवा देहिनी दुर्दशेयम्।
इत्थं सङ्ग्रामरङ्गाङ्गणभुवि नटनापाटवं नाटयन्तीं
दृष्ट्वा यस्यासियष्टिं प्रतिनृपतिभटैः स्वैरमूहाम्बभूवे॥६८१॥”

अत्र रूपकृतं सादृश्यम्।

यथा वा—

“आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा
नासाग्रे नयनं यदेतदपरं यच्चैकनिष्ठं मनः।
मौनं चेदमिदं च शून्यमखिलं यद् विश्वमाभाति ते

[]1434तद्1434 ब्रूयाः सखि! योगिनी किमसि भोः! किं वा वियोगिन्यसि?॥६८२॥”

अत्रार्थसादृश्यम्।

निश्चयगर्भो यथा—

“अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो नैष1435नियतम्।
कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं
समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः॥६८३॥”

निश्चयान्तो यथा—

“मैनाकः किमयं रुणद्धि गमने1436 मन्मा1437र्गमव्याहतं
शक्तिस्तस्य कुतः स वज्रप1438तनाद् भीतो महेन्द्रादपि।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं
आः! ज्ञातं स जटायुरेषजरसा क्लिष्टो वधं वाञ्छति॥६८४॥”

अत्र1439 च कविप्रतिभोन्मीलितः संशयो ग्राह्यो न पुनः स्थाणुर्वा पुरुषो वेति। सादृश्यव्यतिरिक्तविषयं तु सन्देहं वितर्काख्यमलङ्कारान्तरमन्ये मन्यन्तेऽस्मन्मते तु विना सादृश्याधिकारमनेनैव सङ्गृहीतत्वान्न पृथग् लक्षणारम्भः।तथाहि—यत् प्रकारान्तरेणापि प्रकृतिविषयं सन्दिह्यमानत्वं स संशय इति। यथा ‘अस्याः सर्गविधौ प्रजापतिरभूत्’ इत्यादिः। अत्रातिशयोक्त्या संशयस्य संकरः।

यथा च1031

“अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना।
समधिरूढमनेन तु जिष्णुना स्यादिति वेगवशान्मुमुहे गणैः॥६८५॥”

क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेनापि दृश्यते। यथा—

“रञ्जिता तु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु?।
पूरिता तु विषमेषु धरित्री संहृता नु ककु1440भस्तिमिरेण॥६८६॥”

अत्रारोपवि1441षये तिमिरे सत्यपि रागादिकं तर्वादिभिन्नाश्रयत्वे1442नारोपितम्। केचित् तु तिरस्कृतत्वरूपविषयनिगरणेनेमं सन्देहभेदमतिशयोक्तिप्रकारमाहुः। अन्ये तु नुशब्दस्य सम्भावनाद्योतकत्वं मत्वोत्प्रेक्षाप्रकारमिममाचक्षते॥१६॥

अथ सादृश्याश्रयत्वादेव भ्रान्तिमन्तमाह—

भ्रान्तिमान् वैपरीत्येनाप्रतीतिः सदृशेक्षणात्।

सदृशवस्त्वन्तरदर्शनात् वैपरीत्येन विपर्ययेण या प्रतीतिः स भ्रान्तिमान् भ्रन्तिर्विद्यते यत्रेति कृत्वा। सा च भ्रान्तिरतत्त्वे तत्वबुद्धिस्तत्त्वेऽप्यतत्वबुद्धिश्रोतिद्विविधा। तत्रातत्त्वेतत्त्वबुद्धिर्यथा—

“कपाले मार्जारः पय इति करान् लेढि शशिन—
स्तरुच्छिद्रप्रोतान् बिसमिति करी1443 सङ्कलयति।
रतान्ते तल्पस्थान् हरति दयिताऽप्यंशुकमिति
प्रभामत्तश्चन्द्रो जगदिदमहो! विभ्रमयति॥६८७॥”

अत्रेन्दुमरीचिषु क्षीरप्रभृतिभ्रान्तिः।

यथा वा—

*“हसियं सहत्थयालं सुक्कवडं1444 आगएहिं पहिए1445हिं।
पत्त—प्फलसारिच्छे उड्डणे पूसवंदम्मि॥६८८॥”

अत्र दूरस्थानां न्यग्रोधस्थे शुकवृन्दे पत्र—फलभ्रान्तिः।

तत्त्वेऽप्यतत्त्वबुद्धिर्यथा


“समर्थये यत् प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा।
अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभावितप्रियः॥६८९॥”

अत्र प्राप्तलतारूपोर्वशीपरिष्वङ्गसुखनिमीलिताक्षस्य पुरूरवसः शापान्ताविर्भूतसत्यरूपायामपि तस्यां वस्त्वन्तरभ्रान्तिः।

यथा वा—

+“सो मुद्धमओ1446 मायण्हिआहिं1447 तह दूमिओ हयासाहिं।
जह सम्भावमईण वि नईण वि परंमुहो जाओ ॥६९०॥”

अत्र सत्यनदीष्वपि मृगतृष्णाभ्रान्तिः।

मालारूपोऽप्येष यथा—

“नीलेन्दीवरशङ्कया नयनयोर्वन्धूकबुद्ध्याऽधरे
पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः।
लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा
दुर्वारा मधुपाः1448 कियन्ति भवती स्थानानि रक्षिष्यति1449?॥६९१॥”

अत्र युवत्यवयवेषु नयनादिषु मधुपानां नीलोत्पलादिभ्रान्तिः। गाढमर्मप्रहारादिना तु भ्रान्तिर्नास्य विषयः। यथा—

“दामोदरकराघातचूर्णिताशेषयक्षसा।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम्॥६९२॥”

सादृश्यहेतुकाऽपि भ्रान्तिर्विच्छित्त्यर्थं कविप्रतिभोत्थापितैव गृह्यते, नापराशुक्तिकायां रजतभ्रान्तिवत्।

अथैकस्याप्यनेकरूपताऽऽरोपाद् भ्रान्तिमत्सब्रह्मचारिणमुल्लेखमाह—

उल्लेख विविधाद् हेतोरेकस्यानेकधा ग्रहः॥१७॥

विविधादनेकरूपाद् हेतोः कारणात्यः कश्चिदेकस्यानेकधा बहुप्रकारो ग्रहणं स एष रूपबाहुल्योल्लेखनादुल्लेखः। अत्र च रुच्यर्थित्व—व्युत्पत्तयो यथासम्भवं हेतवः। यदुक्तम्—

“यथारुचि यथार्थित्वं1450 यथाव्युत्पत्ति भिद्यते।
आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः॥६९३॥”

अत्रोदाहरणं यथा श्रीहर्षचरिते श्रीकण्ठजनपदवर्णने यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, सङ्गीतशालेति लासकैरित्यादि। अत्रैक एव श्रीकण्ठस्तत्तद्गुणयोगात् तपोवनाद्यनेकरूपतया निरूपितः। नन्वेतन्मध्य
एव वज्रपञ्जरमिति शरणागतैः, असुरविवरमिति वातिकैरित्यादौ रूपकयोग एवास्ति; तदिहापि स एवास्तु, किमुल्लेख मणनेनेत्यत्रोच्यते—अस्ति तावद् यस्तपोवनमित्यादौरूपकादुल्लेखस्य विविक्तो विषयो यत्र धार्मिकजनाकी1451र्णत्वादिना वस्तुवृत्त्यैव जनपदस्य तपोवनादिरूपतायाः सम्भवः। यत्र पुनर्वज्रपञ्जरमित्यादावतद्रूपस्य तद्रूपताऽऽरोपाद् रूपकस्यातादृशस्य तादृशत्वप्रतीतेर्भ्रान्तिमतश्च सम्भवस्तत्राप्येषा भङ्गिः सम्भवत्येव। ततस्ताभ्यामस्तु सङ्करः। सर्वथाऽप्यस्याभा1452वे वस्तु न शक्यते वक्तुमेवमभेद1453रूपायामतिशयोक्तावप्येष नान्तर्भवत्यनेकधात्वोट्टङ्कनस्याधिकृ1454तत्वात्। सङ्करस्तु तयाऽप्यस्त्येव। यथा—‘नारायणु त्ति परिणयवयाहिं’ इत्यादौ। ‘गुरुर्वचसि पृथुरुरसि, अर्जुनो यशसि’ इत्यादौ तु रूपकप्रतिभोत्पत्तिहेतुः श्लेष एव बहुधोट्टङ्कनमात्रात्। पुनर्यद् यस्यापि [क]श्चिदंशः सम्भवति, तदनेनापि सङ्करोऽस्तु। ‘युधिष्ठिरः सत्यवचसि’ इत्यादौ रूपकमेवेति॥१७॥

अथ सादृश्यप्रक्रमे भेदप्रधानानलङ्कारानभिधायाभेदप्रधानानभिधित्सुः प्रथमं रूपकमाह—

भेदाभावेऽप्यसम्पन्नापह्नवे विषये निजम्।
रूपमारोपयेद् यत्र विषयी रूपकं तु तत्॥१८॥

रूपकं पुनस्तद् यत्र मुखेन्दुरित्यादौ मुखमिन्दुरित्यादौ च शब्दप्रयोगे विषयी चन्द्रादिरारोपणीयो निजं स्वकीयं रूपं सर्वाकारं परिस्पन्दविशेषं विषये आरोपाधारे सुखादावारोपयेन्निवेशयेत्। कीशे विषये मेदाभावेऽप्यभेदप्राधान्येऽपि सत्यसम्पन्नापहूनवेऽसज्जातापलापे। यदि हि भेदप्राधान्यं स्यात् तदा विषयिणःसौन्दर्यातिशयादयो धर्मा विषये न प्रतीयेरन्। तदर्थं च रूपकस्य प्रवृत्तत्वात्, यदि च विषयापह्नवोऽपि स्यात्, तदाऽतिशयोक्त्यपह्नुत्याद्यलङ्कारान्तरमाविर्भवेत्। तस्मादभेदप्राधान्ये विपयापह्नवे वाऽयमलङ्कारः॥१८॥

अथास्य भेदानाह—

सा^(१)ङ्गं निर^(२)ङ्गं च परम्प^(३)रितं चेति तत् त्रिधा।

तत्र साङ्गमाह—

समस्तवस्तुविषयं श्रौतारोप्यस्थमादिमम्॥१९॥

श्रौता आरोपविषया इव श्रुत्या शब्देनोपात्ता ये आरोप्या आरोपयोग्याः समस्ता अप्यर्थाः तेषु यत् तिष्ठति तत् समस्तवस्तुविषयं नामादिमं साङ्गं रूपकम्। तदपि स^(१)मस्तमसमस्तं^(२)समस्ता^(३)समस्तं चेति त्रिधा।

तत्र समस्तं यथा—

“ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी—
न्यन्तर्धानव्यसनरसिका रात्रि—कापालिकीयम्।
द्वीपाद् द्वीपं भ्रमति दधती चन्द्रमुद्रां कपाले,
न्यस्तं सिद्धाञ्जनपरिमल लाञ्छनस्य च्छलेन॥६९४॥”

इह परिमलो विमर्द्दनम्। अत्र पादत्रय आरोपविषयारोप्ययोः समासस्थितत्वात् समस्तं रूपकम्। अन्त्यपादे त्वपह्नुतिः। अन्तर्धानरसिकत्वं च कापालिक्या एव धर्मो न रात्रेरचेतनत्वेन रसिकत्वाभावादतस्तेन रूपकमेव साध्यते, नोपमेति सन्देहसङ्कराशङ्का न कार्या।

असमस्तं यथा—

“अङ्गुल्यः पल्लवान्यासन् कुसुमानि नखार्चिषः।
बाहू लते वसन्तश्रीरत्वं नः प्रत्यक्षचारिणी॥६९५॥”

अत्र द्वयोरप्यसमासस्थितत्वम्।

समस्तासमस्तं यथा—

“स्मितं मुखेन्दौ ज्योत्स्ना ते प्रभाऽम्बु कुच—कुम्भयोः।
दोर्लता—पल्लवे पाणौपुष्पं सखि! नखार्च्चिषः॥६९६॥”

अत्र मुखेन्दावित्यादौ समासः, स्मितं ज्योत्स्नेत्यादौ त्वसमासः।

यथा वा—

“नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे॥६९७॥”

अथ साङ्गस्यैव भेदान्तरमाह—

श्रौतार्थारोपणीयस्थमेकदेशविवर्ति च।

श्रौताः केचित् शब्दोपात्ताः केचिदप्यार्था अर्थसामर्थ्यलभ्या ये आरोपणीयास्तेषु तिष्ठति यत् तदेकस्मात् कस्मादप्यारोपविषयाद् विवर्त्तते व्यावर्तते यदि वाऽन्यान् परित्यज्यैकस्मिन्नप्यारोपविषये विशेषेण वर्तते इति एकदेशविवर्ति च साङ्गं रूपकं भवति। तत्रा1455स्याद्यो भेदो यथा—

“अकस्मादेव ते चण्डि! स्फुरिताधरपल्लवम्।
मुखं मुक्तारुचो1456 धत्ते धर्माम्भःकण—मञ्जरी॥६९८॥”

अत्र मुखस्य लतादित्वेन रूपणं नास्ति।

यथा वा—

“विद्युवलयकक्षाणां बलाकामालभारिणाम्।
पयोमुचां ध्वनिर्धीरो दुनोति मम मानसम्॥६९९॥”

अत्र पयोमुचो दन्तित्वेन रूपिताः। अवय1457वरूपकमप्येतद्1458

द्वितीयो यथा—

“उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम्।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद् गलितं न लक्षितम् ॥७००॥”

अत्र तिमिरस्यैवांशुकत्वेन रूपणम्। शेषं रूपणं त्वर्थसामर्थ्यगम्यम्॥१९॥

अथ निरङ्गमाह—


निरङ्गंकेवलं मालागुम्फितं चेति तद् द्विधा॥२०॥

निरङ्गं नाम रूपकं केवलमसहायं मालागुम्फितं चेति द्विविधम्। तत्र केवलं यथा—

“कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्
सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत्।
अनिद्रं यच्चान्तः स्वपिति तदहो! वेद्भ्यभिनवां
प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्॥७०१॥”

यथा वा—

“वल्गितभ्रु गलद्धर्मजलमालोहितेक्षणम्।
विवृणोति मदावस्थामिदं वदनपङ्कजम्॥७०२॥”

इदमवयविरूपकमपि।

मालागुम्फितम्। यथा—

“ध्वान्तानां दण्डधारः कुमुदपरिषदां जागराकेलिकारः
शृङ्गारस्याङ्गरक्षः सरसिरुहवनी

सम्पदां स्थूललक्षः।
प्रस्थास्नोर्दिग्जयाय स्मर—धरणिपतेर्मङ्गलारम्भकुम्भः
संरम्भः सिन्धुवारामयमुदयगिरेर्मौलिमारोहतीन्दुः॥७०३॥”

अथ परम्परितमाह—

द्वे परम्परिते श्लिष्टाश्लिष्टशब्दनिबन्धने।
केवले मालया दृब्धे चेति ते द्वे अपि द्विधा॥२१॥

श्लिष्टशब्दनिबन्धनमश्लिष्टशब्दनिबन्धनं चेति द्वे परम्परिते। एकस्य रूप

णादन्यस्य रूपणमिति परम्परया जातत्वात्। ते च द्वे अपि केवलत्वेन मालागुम्फितत्वेन च प्रत्येकं द्विविधे। तत्र श्लिष्टनिबन्धन केवलं यथा—

“किं पद्मस्य रुचिंन हन्ति नयनानन्दं विधत्ते न किं1459?
वृद्धिं वा झषकेतनस्य कुरुते नालो1460कमात्रेण किम्?
वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो
दर्प्पःस्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे॥७०४॥”

अत्र वक्त्रस्येन्दुत्वेन रूपणादधरामृतस्य पीयूषपर्यायामृतत्वेन रूपणम्।

मालारूपं यथा—

“विद्वन्मानसहंस! वैरिकमलासङ्कोचदीप्तद्युते!
दुर्गामार्गणनीललोहितसमित्स्वीकारवैश्वानर!।
सत्यप्रीतिविधान—दक्षविजयप्राग्भावभीम! प्रभो!
साम्राज्यं वरवीर! वत्सरशतं वैरञ्चमुच्चैः क्रियाः॥७०५॥”

अत्र मानसमेव मानसम्। कमलायाः सङ्कोच एव कमलानामसङ्कोचः। दुर्गाणाममार्गणमेव दुर्गाया मार्गणम्। समितां स्वीकार एव समिधां स्वीकारः। सत्ये प्रीतिरेव सत्यामप्रीतिः। विजयः परपराभव एव विजयोऽर्जुनः। एवमाद्यारोपणं हंसाद्यारोपणपूर्वकमिति श्लिष्टशब्दं मालापरम्परितम्।

अश्लिष्टशब्दनिबन्धनं केवलं यथा—

“यामि मनो—वाक्—कायैः शरणं करुणात्मकं जगन्नाथम्।
जन्म—जरा—मरणार्णवतरणतरण्डं हरांहियुगम्॥७०६॥”

मालारूपं यथा—

“ज्योत्स्नावल्लिनवाङ्कुरः स्मरमहाभूपाललीलालता—
शृङ्गारद्रुममञ्जरीप्रियतमामानद्विपेन्द्राङ्कुशः।
भास्वत्कामुकभुक्तवारुण1461ककुप्कान्तानखाङ्कः स्फुटः
कस्यैपः प्रतिपत्तुषारकिरणस्तोपाय नो जायते?॥७०७॥”

यथा1462 वा—

“आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्—वारिधेः
पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः।
सङ्ग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो
राजन्! राजति वीरवैरि1463वनितावैधव्यदस्ते भुजः॥७०८॥”

अत्र त्रिष्वपि तरण्डाङ्कुरालानाद्यारोपणपूर्वकमर्णव—वल्ली—कुञ्जराद्यामे। पणम्॥२१॥

अथास्य कतिचिद् भेदान्तराण्याह—

सालङ्कारान्तरोल्लेखं तथा रूपकरूपकम्।
वैधर्म्यव्यतिरेकाङ्कं रसनारूपकं च तत्॥२२॥

तद् रूपकं क्वचित् सहालङ्कारान्तरस्योत्प्रेक्षा—संशयादेरुल्लेखेन परिस्फुरणेन वर्त्तते यत् तत्।यथा1420

“निर्मोकमुक्तिमिव1464 गगनोरुगस्य लीलाललाटिकामिव त्रिविष्टपविटस्य"इत्यादि।

अत्र ‘मुखमिन्दुः’इत्यादिवत् तथाविधप्रसिद्धेरभावात् कविभिर्न1465 निष्कम्पतया रूपकमेव1466 व्यवहर्तुं शक्यते, इत्युत्प्रेक्षां सहायीकृत्य निबद्धम्।

यथा वा—

किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी1467?
लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः?।
उद्गाढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः
किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः?॥७१०॥”

अत्राप्यनेनैव न्यायेन ससंशयमुपनिबद्धम्।

रूपकरूपकं यथा—

“मुख—पङ्कज—रङ्गेऽस्मिन् भ्रू—लता—नर्तकी तव1468
लीला—नाट्यामृतं दृष्टौ सखि! यूनां निषिञ्चति॥७११॥”

अत्र मुखमेव पङ्कजं तदेव रङ्गः। भ्रूरेव लता सैव नर्त्तकी। लीनाट्यदेवामृतमिति रूपकस्यापि रूपणेन रूपकरूपकम्।

वैधर्म्याङ्कं यथा—

“सौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गु1469ण—
ज्योत्स्नाकृष्णचतुर्द्दशी सरलतायोगश्च पुच्छच्छटा।
यैरेषाऽपि दुराशया कलियुगे राजावली सेविता
तेषां शूलिनि भक्तिमात्रसुलभेसेवा कियत् कौशलम्?॥७१२॥”

अत्राम्बुप्रभृतीनां मरुस्थल्यादावसम्भवाद् वैधर्म्यम्1470

व्यतिरेकाङ्कं यथा—

“अनाघ्रातं पुष्पं किसलयमलूनं कररुह्वै—
रनामुक्तं रत्नं मधु नवमनास्वादितरसम्।

अखण्डं पुण्यानां फलमपि च तद्रूपमनघं
न जाने भोक्तारं कमिव समुपस्थास्यति भुवि?॥७१३॥”

अत्र पुष्पादीनामनाघ्रातत्वादिभिरितराघ्रातपुष्पादिव्य1471तिरेकेण स्थितत्वाद् व्यतिरेकाङ्कम्।

रशना1472रूपकं यथा—

“किसलयकरैर्लतानां करकमलैर्मृगदृशां जगज्जयति।
नलिनीनां कमल—मुखैर्मुखेन्दुभिर्योषितां मदनः॥७१४॥”

अत्र किसलय—करैः कर—कमलैरित्यादिपदेषु करादिशब्दानां शृङ्खलाक्र1473मेण स्थितत्वाद् रशनारूपकम्।

एवम्—

“गाम्भीर्येण समुद्रोऽसि गौरवेणासि पर्वतः।
कामदत्वाच्चलोकानामसि त्वं कल्पपादपः॥७१५॥”

इति हेतुरूपकादयो भूयांसो रूपकप्रकाराः परेऽपि सम्भवन्ति, ग्रन्थगौरवभयात् तु नोदाह्रियन्ते। रूपके चात्र यद्यप्यारोप्यमाणस्य मुख्यत्वादाविष्टलिङ्गसङ्ख्यत्वम्, तथापि क्वचित् स्वतः सङ्ख्या—योगासम्भवे प्रत्येकमारोपाद् विषयसङ्ख्यत्वम्। यथा—

‘क्वचिज्जटावल्कलावलम्बिनः कपिला दावाग्नयः’इत्यादि॥२२॥

अथाभेदप्राधान्येऽप्यपह्नवालङ्कृतत्वेन रूपकपृथग्भूतामपह्नुतिं लक्षयति—

विषयेऽपह्नुतिं नीते तदन्येन त्वपहनुतिः।

विषये प्रस्तुतवस्तुनि तदन्येन विषयिणाऽप्रस्तुतेनारोप्यमाणेनापह्नुतिमपलापं नीते प्रापिते सत्यपह्नुताख्याऽलङ्कृतिः। सा च सादृश्यवती सादृश्यरहिता चेति द्विविधा। तत्रारोपपूर्वोऽपह्नवोऽपवह्नपूर्वश्वारोप इति

द्वौ भेदौ। च्छल—च्छद्मादिशब्दैर्वपुर्मूत्यादिशब्दैश्च विषयापह्नवे द्वौ भेदाविति चतुर्भेदा प्रथमा। तत्राद्यो भेदो यथा—

“शैलालङ्कृतमेतदाश्रमपदं तन्व्या न वक्षःस्थली
देवः सोऽत्र जगज्जिगीषुरिषुभिस्तीव्रं तपस्तप्यते।
नाभीपल्वलधौतवल्कलशिखानिश्च्यो1474तदम्भश्छटा1475

लेखैवेयमपेक्ष्यते1476ऽस्य सुभग! श्यामा न रोमावली॥७१७॥”

द्वितीयो यथा—

“अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये
कलंङ्को नैवायं विलसति शशाङ्कस्य वपुषि।

अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे
रतश्रान्ता शेते रजनि—रमणी गाढमुरसि॥७१८॥”

तृतीयो यथा—

“बत1477 सखि! कियदेतत् पश्य वैरं स्मरस्य

प्रियविरहकृशेऽस्मिन् रागिलोके तथाहि।
उपवनसहकारोद्भासिभृङ्ग1478च्छलेन
प्रतिविशिखमनेनोङ्कितं कालकूटम्॥७१९॥”

अत्र हि न सभृङ्गा1478नि सहकाराण्यपि तु सह कालकूटाः शरा इति प्रतीतिः।

चतुर्थो यथा—

“अमुष्मिन् लावण्यामृतसरसि नूनं मृगदृशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः।
यदङ्गाङ्गाराणां प्रशमपिशुना1479 नाभि—कुहरे

** शिखा धूमस्येयं परिणमति रोमावलिवपुः॥७२०॥”**

अत्र न रोमावलिः1480, किन्तु धूमशिखेयमिति प्रतीतिः। अत्रोभयत्राप्यारोपपूर्वोऽपह्नव इत्यादिका भङ्गिः सम्भवन्त्यपि वैचित्र्याभावान्नोदाहृता।

कचित् पुनर्नञ्—च्छलादीन् विनैव प्रकारान्तरेणाप्यपह्नवा1481रोपो दृश्यते।

यथा—

“मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रमं
चक्राङ्कं वह पादयुग्ममवनिं दोष्णा समभ्युद्धर।
लक्ष्मीं भ्रूनिकटे निवेशय भव ज्यायान् दिवौकःपते—
र्विश्वान्तःकरणैकचौर! तदपि ज्ञातो हरिः खल्वसि॥७२१॥”

अत्र न त्वं राजमात्रम्, किन्तु हरिरेवासीति नृपस्य हरित्वारोपः।

सादृश्यरहिताऽपि द्विविधा वाच्यापह्नोतव्या प्रतीयमानापह्नोतव्या च1482

तत्राद्या यथा—

“आनन्दाश्रुप्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम्?।
अक्षि मे पुष्परजसा वातोद्धूतेन दूषितम्॥७२२॥”

अत्र पूर्वार्धवाच्यमुत्तरार्द्धवाच्येनापह्नूयते।

द्वितीया यथा—

*“उरपे1483ल्लियचरकारेल्ल1484याइंउच्चेसि दइयव1485च्छलिए!।
कण्टय1486विलिहिअपीणुण्णयत्थणी हम्मए ताहे॥७२३॥”

अत्र वाच्यार्थेन प्रतीयमानमुपपतिनखक्षतमपह्नूयते। इयं च मत्तान्तराभिप्रायेण, स्वमते तु व्याजोक्तिरेवेयम्।

अथ परिणाममाह—

परिणामः स विषयो यत्र धत्तेऽन्यरूपताम्॥२३॥

यत्र यस्मिन् विषयोऽन्यरूपतां विषयि1487रूपतां धत्ते बिभर्ति विषयिणस्तथात्वेनोपयोगाद् विषयस्तद्रूपतया परिणमतीत्यर्थः स परिणामः। स1488च सामानाधिकरण्य—वैयधिकरण्याभ्यां द्विविधः। तत्राद्यो यथा—

“तीर्त्वा भूतेशमोलिस्रजममर1489धुनीमात्मनाऽसौ तृतीय—
स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानान्तरं नाविकाय।
व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं
कृच्छ्रादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे॥७२४॥”

अत्र सौमित्रिमैत्री विषयभूता सामा1490नाधिकरण्येनान्तररूपतया परिणता।

द्वितीया यथा—

“अथ पङ्क्तिमतामु1491पेयिवद्भिः सरसैर्वक्त्रपथाश्रितैर्वचोभिः।
क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैः॥७२५॥”

अत्र व्यधिकरणानि वचांस्युपायनरूपतया परिणतानि॥२३॥

अथोत्प्रेक्षामाह—

अप्रस्तुतस्य रूपेण हेतुभूतैः क्रिया—गुणैः।
सम्भाव्यते प्रस्तुतं यत् तामुत्प्रेक्षां प्रचक्षते॥२४॥

अप्रस्तुतस्याप्राकरणिकस्य वस्तुनो रूपेण प्रस्तुतं1492 प्राकरणिकं वर्ण्यंवस्तु यत् सम्भाव्यते तत्त्वेनैवाध्य1493वसीयते। किं निर्निमित्तमेवेत्याह—हेतुभूतैर्निमित्तभूतैः क्वचित् क्रियाभिः क्वचिद् गुणैश्च। बहुवचनमत्रोत्प्रेक्षाभूयस्त्वापेक्षया यावता एकेनाप्युत्प्रेक्षा भवत्येव। तामुत्प्रेक्षा1494नामालङ्कृतिं प्रचक्षते कथयन्ति। सम्भावनमध्यवसाय ऊहो वितर्क उत्प्रेक्षा इत्येकार्थाः1495॥२४॥

तद्भेदानाह—

सा च वाच्या प्रयुज्यन्ते शब्दा यस्यामिवादयः।
सैव प्रतीयमाना स्याद् यत्र ते न प्रयोगिणः॥२५॥

सा चोत्प्रेक्षा वाच्या यस्यामिवादय इव मन्ये शङ्केध्रुवं नियतमित्यादयस्तद्वाचकाः शब्दाः प्रयुज्यन्ते। उपमाया इवोत्प्रेक्षाया अपीवादिशब्दवाच्यत्वात्। यथा—

“यः समुन्मीलयन् न्यायमन्यायं च निमीलयन्।
धर्मः साक्षादिव क्षात्रो महीतलमवातरत्॥७२६॥”

अत्र समुन्मीलन—निमीलनक्रिये हेतुभूते इवशब्दप्रयोगाच्च वाच्योत्प्रेक्षा।

यथा च—

“तस्याःप्र1496विष्टा नतनाभिरन्ध्रंरराज तन्वी नवरोमराजिः।
नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः॥७२७॥”

अत्र नीलगुणः प्रतीयमानो निमित्तं वाच्यत्वं तु तथैव। सैवोत्प्रेक्षा प्रतीयमाना भवेत्, यत्र यस्यां1497 ते इवादयः शब्दा न प्रयोगिणो न प्रयुज्यन्ते। यथा—

“चन्दनासक्तभुजगनिःश्वासानिल1498मूर्च्छितः।
मूर्च्छयत्येष पथिकान् मधौ मलयमारुतः॥७२८॥”

अत्र निःश्वासानिलमूर्च्छनक्रियोत्प्रेक्षायाः पथिकमूर्च्छनक्रियानिमित्तम्।

यथा1499 वा—

“त्वं रक्षसा भीरु! यतोऽपनीता तं मार्गमेताः कृपया लता मे।
अदर्शयन् वक्तुमशक्नुवत्यःशाखाभिरावर्जितपल्लवाभिः॥७२९॥”

अत्र दर्शनक्रियैव निमित्तम्। उभयत्रापि निःश्वासानिलमूर्च्छित इत्यत्र कृपयेत्यत्र चेवशब्दप्रयोगाभावादुत्प्रेक्षायाः प्रतीयमानत्वम्॥२५॥

अथास्याः प्रभेदानाह—

जाति—क्रिया—गुण—द्रव्यैरुत्प्रेक्ष्यैः1500 सा चतुर्विधा।
भावाभावाभिमानेन तेषामष्टविधा पुनः॥२६॥

सोत्प्रेक्षा जाति—क्रिया—गुण—द्रव्यैरुत्प्रेक्षणीयैश्चतुर्विधा भवति। प्रस्तुतस्याप्येते भेदाः सम्भवन्ति। वैचित्र्याभावात् तु1501 न गणिताः। तेषां जात्यादिभेदानां भावाभावयोरभिमानेनाध्यवसायेन द्वैविध्यात् पुनरष्टविधोत्प्रेक्षा॥२६॥

तत्र भावे जात्युत्प्रेक्षा यथा—

“तां भवानीभ्र1502मान्नेत्रैरेकहेलानिपातिभिः।
भूपाः सौभाग्यभाग्याय भेजु1503रिन्दीवरैरिव॥७३०॥”

यथा वा—

“स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः
स्मरारेर्यो मूर्ध्निज्वलनकपिशो भाति निहितः।
स्रवन् मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव॥७३१॥”

अत्र द्वयोरपि श्यामत्व—दैर्घ्यादेः कुटिलत्व—श्वेतत्वादेश्व गुणान् नेत्राणि चन्द्रश्चेन्दीवरत्वेनाङ्कुरत्वेन चोत्प्रेक्षितानि तयोश्च जातिशब्दत्वात् जात्युत्प्रेक्षा।

क्रियोत्प्रेक्षा यथा—

“कश्चिदैक्षिष्ट कस्तूरीतिलकं रक्तकङ्कणे।
भालाक्षरलिपीस्तस्या लाभायेव निभालयन्॥७३२॥”

अत्र तिलकेक्षणक्रिया लिपिनिभालनक्रियात्वेनोत्प्रेक्षिता।

गुणोत्प्रेक्षा यथा—

“अभवदवनी—सारङ्गाक्षीवतंसमहोत्पलं
महितमहिमा पृथ्वीराजस्ततः पृथुविक्रमः।

अरिकरिशिरःसिन्दूरेण प्रभामरुणां वहन्
असिरपि रणे यस्य क्रोधाभिताम्र इवाबभौ॥७३३॥

अत्र सिन्दूरारुणत्वं क्रोधाभिताम्रत्वेनोत्प्रेक्षितम्।

द्रव्योत्प्रेक्षा यथा—

“दर्पणे हरदेहस्था पश्यति प्रतिमानुमा।
अन्यार्घाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम्॥७३४॥”

अत्रार्धनारीश्वरत्वस्यै1504कत्वाद् द्रव्यत्वम्।

अभावे जात्युत्प्रेक्षा यथा—

“समग्रसङ्कल्पफलेऽनुजीविनां कृतावतारे त्वयि मेदिनीतले।
राजन्निदानीं सदनं दिवौकसामकन्पशाखीन्द्रमिव प्रतीयते॥७३५॥”

अत्र कल्पद्रुमशब्दो जातिशब्दः, तस्याभावोत्प्रेक्षा1505

क्रियोत्प्रेक्षा यथा—

“स धूर्जटेर्जूटतटीशयालुतां दधत् सुधांशुर्जयतात् कृशाकृतिः।
फूत्कारघोरादुरगाधिराजतः कदापि सौस्थित्यमवाप्नुवन्निव॥७३६॥”

अत्रापि क्रियाया अभावाभ्यूहनम्।

गुणोत्प्रेक्षा यथा—

“देव ! त्वद्यशसि स्वैरं श्वेतयत्यखिलं जगत्।
सस्याः1506शून्या इवाभूवन् नील—पीतादयो गुणाः॥७३७॥”

यथा वा—

“तस्मिन्नभ्युदिते1507 विश्वस्तोतव्यभुज़सौरभे।
भूपालमण्डलं सर्वमविक्रममिवाभवत्॥७३८॥”

अनयोर्नीलादिगुणानां विक्रमगुणस्य चाभाववितर्कः।

द्रव्योत्प्रेक्षा यथा—

“देव ! त्वदीयखुरक्षतक्षमा परागपूरे परितः प्रसर्प्यति।
अशा खिशैलेन्द्रमिवावनीतलं विभात्यनादित्यमिवाम्बरं पुनः॥७३९॥”

अत्रानादित्यमिवेत्यत्रादित्यस्यैकत्वात् द्रव्यत्वम्, तस्याभावाभिमानः।

“वियति विसर्पतीव कुमुदेषु बहुभवतीच योषितां
प्रतिफलतीव जरठशरका1508ण्डपाण्डुषु गण्डभित्तिषु।
अम्भसि विकसती हसतीव सुधाधवलेषु धामसु
ध्वजपटपल्लवेषु ललतीव समीरचले1509षु चन्द्रिका॥७४०॥”

अत्र विसर्पतीत्यादिक्रियाणामभावे प्रस्तुते विविधं परिस्फुरणं निमित्तमाश्रित्य नानाप्रकारं भावोत्प्रेक्षणम्1510। यतोऽस्यामुत्प्रेक्षायां यथा जात्यादिषुप्रस्तुतेषु जात्यादीनां क्वचिद् भावोत्प्रेक्षणं क्वचिदभावोत्प्रेक्षणं च प्रोक्तम्; तथा क्वचित् तेषामभावे प्रस्तुते कुतश्चिन्निमित्तवशाद् भावोत्प्रेक्षणमित्यपि द्रष्टव्यम्। अप्रस्तुतस्य रूपेण प्रस्तुतं माव्यत1511 इति लक्षणाव्यभिचारात्। यदि वा चन्द्रिकारूपे द्रव्य एव विविध परिस्फुरणानिमित्ताश्रयणाद् विसर्पतीवेत्यादिक्रियोत्प्रेक्षा।

“लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥७४१॥”

इत्यत्रापि पूर्वार्द्ध व्यापनादिकमधःपात—श्यामत्वादिकं च निमित्तमाश्रित्य लिम्पति वर्षति क्रिययोरभावे भावः सम्भावितः। तमो—नभसोर्वा क्रियोत्प्रेक्षणमुत्तरार्द्धे पुनरुपमैव॥२६॥

गुण—क्रियाभ्यां प्रत्येकं बीजाभ्यां षोडशात्मिका।
तत्प्रयोगाप्रयोगाभ्यां सा द्वात्रिंशद्विधा स्मृता॥२७॥

सोत्प्रेक्षाऽष्टविधाऽपि गुण—क्रियाभ्यां वोजाभ्यां गुणेन क्रियया चनिमित्तभूतेन द्विधा भिन्ना सती पोडशात्मिका1512 पोडशस्वरूपा भवति। तयोश्चगुण—क्रिययोः प्रयोगाप्रयोगाभ्यां क्वचित् प्रयोगात् क्वचिदप्रयोगाच्च साऽपिषोडशात्मिका द्विधा भिन्ना सती द्वात्रिंशद्विधा स्मृता। तत्र गुणस्य निमित्तत्वंप्रयोगाद् यथा—‘नवविसलताकोटिकुटिलः’इत्युदाहृते1513 कुटिलत्वस्य।अप्रयोगाद्यथा ‘तां भवानीं भ्रमाद्’इत्युदाहृते दैर्ध्य–श्यामत्वादिगुणानाम्।

क्रियाया निमित्तत्वं प्रयोगाद् यथा—

“कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ॥७४२॥”

अत्र क्षामतागमनक्रियायाः।

अप्रयोगाद् यथा—‘चियति विसर्पति’इत्यादावुदाहृते विविध परिस्फुरणक्रियायाः। एवं शेषभेदेष्वप्यभ्यूह्यम्॥२७॥

फलस्वरूपहेतुनामुत्प्रेक्षाकर्मनिर्मितौ।
भेदाः षण्णवतिस्तस्याः

फलस्य स्वरूपस्य हेतोथ प्रत्येकमुत्प्रेक्षणात् पूर्वेषां द्वात्रिंशतो मेदानांत्रिगुणत्वेन तस्या उत्प्रेक्षायाः षण्णवतिर्भेदाः।

तत्र फलोत्प्रेक्षा यथा—

“बालस्य यद् भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः।
अद्यापि किं चानुभविष्यतीति व्यापाटयन्1514 द्रष्टुमिवाक्षराणि॥७४३॥”

अत्र विपाटन1515स्याक्षरदर्शनं फलम्।

स्वरूपोत्प्रेक्षा यथा—

“कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य।
दिग् दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज॥७४४॥”

अत्र व्यलीकनिःश्वासोत्सर्जनं वातस्य स्वरूपमेव।

हेतूत्प्रेक्षा यथा—

“सैषा स्थली यत्र विचिन्वता1516 त्वां स्रस्तं1517 मया नूपुरमेक1518मुर्व्यम्।
अदृश्यत त्वच्चरणारविन्द विश्लेषदुःखादिव बद्धमौनम्॥७४५॥”

अत्र बद्धमौनत्वस्य विश्लेषदुःखहेतुः।

अशीतिर्निकषे पुनः॥२८॥

निकषे पर्यन्ते पुनरस्या उत्प्रेक्षाया अशीतिरेव भेदाः॥२८॥

कुत इत्याह—

द्रव्ये हेतु—फलोत्प्रेक्षा न यत् सम्भविनी क्वचित्।

यद् यस्मात् कारणाद् द्रव्यविषये हेतूत्प्रेक्षा फलोत्प्रेक्षा च कुत्रापि नसम्भवति। केवलं स्वरूपोत्प्रेक्षैव तस्मिन्निति तदीयाः षोडश भेदाः पात्यन्त इति।

वाच्यैवेत्थं स्थिता सेयं द्वात्रिंशद्धा1519ऽपरा पुनः॥२९॥

सेयमुत्प्रेक्षा वाच्यैर्वैवमशीतिभेदत्वेन स्थिता। अपरा पुनः प्रतीयमानोत्प्रेक्षा द्वात्रिंशद्विधैव॥२९॥

कथमित्याह—

निमित्तस्यानुपादानं न भवत्येव तत्र यत्।
स्वरूपोत्प्रेक्षणं नापि तत्सङ्ख्या स्याद् यथोदिता॥३०॥

यद् यस्मात् कारणात् तत्र तस्यां प्रतीयमानोत्प्रेक्षायां निमित्तस्य देतोरनुपादानं न भवत्येव। इवाद्य1520नुपादाने निमित्तस्याकीर्तने चोत्प्रेक्षणस्य निष्प्रमाणत्वात्1521 तथा स्वरूपोत्प्रेक्षणमप्यस्यां न दृश्यते। ततोऽस्याः सङ्ख्या यथोदिता द्वात्रिंशत्प्रमाणैव॥३०॥

अथास्या भेदान्तराण्याह1522

उपमोपक्रमे क्वापि स्वात्मपर्यवसानिका।

उत्प्रेक्षेत्यनुवर्तते। उपमा उपक्रमे आदौ यस्याः स्वात्मनि उत्प्रेक्षात्वे पर्यवसानं यस्याः सा तथा। इयं हि क्वचित् पदार्थान्वयवेलायां सादृश्याभिधानादुपमारूपतामनुभूय पर्यन्ते वाक्यार्थतात्पर्य सामर्थ्यादुत्प्रेक्षायां पर्यवस्यतीति। यथा—

“कस्तूरी तिलकन्ति भालफलके देव्या1523 मुखाम्भोरुहे
रोलम्बन्ति तमालवालमुकुलो संसन्ति मौलिं प्रति।
याः कर्णे विकचोत्पलन्ति कुचयोरके च कालागुरु–
स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः॥७४६॥”

अत्र यद्यपि कर्तुः क्विचित्युपमानात् क्विपि प्रारम्भे उपमाप्रतीतिस्तथापि विषयौचित्येन कण्ठत्विषां तिलकादिरूपेण सम्भावनोत्थाने तस्या उत्प्रेक्षायांपर्यवसानम्॥

कापि सापह्नवा सैषा छलादीनां प्रयोगतः॥३१॥

सैषोत्प्रेक्षा वापि च्छलादीनां छल- च्छद्मप्रभृतिशब्दानां प्रयोगात् सापह्नवा।

यथा—

“गतासु तीरं तिमि1524घट्टनेन ससम्भ्रमं पौरविलासिनीषु।
यत्रोच्छलत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा ॥७४७॥”

तथाऽपर इव पाकशासन इत्यादावपरशब्दाप्रयोगे उपमैव। इवशब्दाप्रयोगेऽतिशयोक्तिरुभया1525प्रयोगे तु रूपकं सर्वप्रयोगे पुनरुत्प्रेक्षेवेत्यस्याः प्रकारवैचित्र्यम्। अस्याश्चेवशब्दवत् मन्ये शङ्के ध्रुवमित्यादयोऽपि प्रतिपादकास्तदन्यत्रपुनर्वितर्कमात्राभिधायिन एव। यथा—

“मन्ये कल्पद्रुमादिभ्यः सारैर्निर्मि(र्म) मिरेऽणुभिः।
न वहन्ते महीयांसस्तेनेदानीमदृश्यताम्॥७४८॥”

मालारूपाऽपि क्वचिदेषा दृश्यते। यथा—

“लीनेव प्रतिबिम्बितेव लिखिते वोत्कीर्णरूपेत्र च
प्रत्युतेव च वज्रलेपघटितेवान्तर्निखातेव च।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि–
श्चिन्तासन्ततितन्तुजालनिविडस्यूतेव लग्ना प्रिया॥७४९॥”

अत्र लग्नेति क्रिया लीनेवेत्यादिक्रियात्वेनोत्प्रेक्षिता।
एषा चार्था1526लङ्कृतिरपि धर्मविषये श्लिष्टशब्दजन्याऽपि क्वचिद् दृश्यते। यथा—

“प्रस्थे स्थितां हिमवतोऽपि न बाधते या—
मूर्ध्वेक्ष1527णानलभयादिव जाड्यमुद्रा।
गोष्ठीषु वः सततसन्निहिताऽस्तु देवी
सा शारदा नवसुधास्थितकामधेनुः॥७५०॥”

अत्र जाड्यशब्दः श्लिष्ट इति॥३१॥

अथ गुण—क्रियाभिसम्बन्धादेवोत्प्रेक्षानन्तरं तुल्ययोगिता1528माह—

प्रस्तुतानां क्वचिद् यस्यां क्वचिदप्रस्तुतात्मनाम्।
गुण—क्रियाभ्यां तुल्याभ्यां योगः सा तुल्ययोगिता॥३२॥

क्वचित् सर्वेषामत्र1529 प्रस्तुतानां क्वचिश्च1530 सर्वेषामप्यप्रस्तुतानां तुल्याभ्यां गुणक्रियाभ्यामेकेनैव गुणेन क्रियया वा योगः सम्बन्धो यस्यां सा यथार्था तुल्ययोगिता। तत्र प्रस्तुतानां तुल्यगुणयोगो यथा—

“योगपट्टो जटाजालं तारवी त्वम् मृगाजिनम्।
उचितानि तवाङ्गस्य यद्यसूनि तदुच्यताम्॥७५१॥”

अत्रोचितत्वं गुणः।

अप्रस्तुतानां यथा—

“स्वदङ्गमार्दवं1531 द्रष्टुः कस्य चित्ते न भासते ?।
मालती—शशभृल्लेखा - कदलीनां कठोरता॥७५२॥”

अत्र कठोरत्वं गुणः।

प्रस्तुतानां तुल्यक्रियायोगो यथा—

“सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम्।
प्रचक्रमे पल्लव गताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥७५३॥”

अत्र सन्ध्याया धेनोश्च द्वयोरपि वर्णनीयत्वेन प्रस्तुतयोः प्रचक्रमे इतितुल्यक्रियायोगः।

यथा1532वा—

“पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः।
आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः॥७५४॥”

अत्र क्षेत्रियो राजयक्ष्मा पारदारिकश्च, आवेदयतीति च तुल्यक्रियायोगः।

अप्रस्तुतानां1533 योगो यथा—

“तस्मिन्नुदग्ररिपुवर्गजये निसर्गवैयग्यवानजनि विग्रहराजदेवः।
यद्विग्रहं जगदसम्भविनं विभाव्य वैरित्रजोऽपि मदनोऽपि मदं मुमोच॥७५५॥”

अत्र वैरित्रजस्य मदनस्य चाप्रस्तुतत्वम्। मुमोचेति तुल्यक्रियायोगः॥३२॥

अथ प्रकृताप्रकृतद्योतकत्वात् पूर्वस्यापि1534 विलक्षणं दीपकमाह—

धर्मो यद् दीपयत्येकः प्रस्तुताप्रस्तुतान् बहून्।
क्रिया वा भूयसीरेकं कारकं तत् तु दीपकम् ॥३३॥

भयेषां विशेषणानां कार्याणां च साम्येन यदप्रस्तुतगम्यता यदप्रस्तुतं गम्यते। प्रस्तुतगम्यत्वे च प्रस्तुतप्रशंमा वक्ष्यते सा समासोक्तिरित्यलङ्कृतिः सम्मता। तच्च प्रतीयमानमप्रस्तुतमत्र प्रस्तुतोपस्कारकत्वेन प्रतीयते, न तिरस्कारकत्वेन। उपस्कारकत्वाच्च तद्व्यवहारसमारोपः। तिरस्कारकत्वे तु ध्वस्तद्रूपता प्रतीतप्रतीयमानरूपकस्य वा विषयः स्यान्न समासोक्तेः। तत्र तेषु त्रिषु साम्येषुमध्ये भेदकतुन्यता विशेषणसाम्यं श्लिष्टतया औपम्यगर्भित्वेन साधारण्येन चभषेत् त्रिधा त्रिविधं भवति।

तत्र श्लिष्टतया यथा—

“आगत्य सम्प्रति1535 वियोगविसंस्थुलाङ्गी–
मम्भोजिनीं क्वचिदपि क्षपितत्रियामः।
ऐतां1536 प्रसादयति पश्य शनैः प्रभाते
तन्वङ्गि!पादपतनेन सहस्ररश्मिः॥७९५॥”

अत्र श्लिष्टविशेषणमाहात्म्यादपरित्यक्त स्वस्वरूपयोरम्भोजिनी—सूर्ययोर्नायकव्यवहारप्रतीतिः। ‘सविशेषणमाख्यातं वाक्यम्’इति शब्दशास्त्रोक्तन्यायेनपादपतनादीनामपि विशेषणत्वम्।

औपम्यगर्भत्वेन यथा—

“दन्तप्रभा - पुष्प1537चिता पाणि- पल्लवशालिनी1538
केशपाशालिवृन्देन सुवेषा हरिणेक्षणां॥७९६॥”

अत्र दन्तप्रभा पुष्पाणीवेत्युपमागर्भत्वेन कृते समासे पश्चाद् दन्तप्रभासदृशैः पुष्पैचितेति शाकपार्थिवादित्वान्मध्यमपदलोपिसमासान्तराश्रयणेन विशेषणसाम्यमहिम्ना लताव्यवहारप्रतीतिः। रूपकगर्भत्वेन विशेषणसाम्यमेक1539देशविवर्त्तिरूपकस्यैव विषयो नास्याः।

साधारण्येन यथा—

“तन्वी मनोरमाबाला लोलाक्षी पुष्पहासिनी।
विकाश (स) मेति सुभग! भवद्दर्शनमात्रतः॥७९७॥”

अत्र तनुत्वादिविशेषण साधारण्यात् लोलाक्ष्या लताव्यवहारप्रतीतिलतैकगामित्वाच्च विकासोऽत्रकारणं विकासश्च प्रकृते उपचरितो ज्ञेयः।

कार्यसाम्येन यथा—

“विलिखति कुचावुचैर्गाढं करोति कच1540ग्रहं
लि1541खति ललिते वक्त्रे पत्रावलीमसमञ्जसम्।
क्षितिप! खदिरः1542श्रोणीचिम्बाद् विकर्षति चांशुकं
मरुभुवि हठान्नश्यन्तीनां तवारिमृगीदृशाम्॥७९८॥”

अत्र कुचविलेखनादिकार्यसाम्येन1543 इठकामुक व्यवहारप्रतीतिः।

उमयसाम्येन यथा—

“निर्लुनान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः
कर्णे रुग् जनिता कृतं च नयने नीला1544ब्जकान्ते क्षतम्।
यान्तीनामतिसम्भ्रमाकुलपदन्यासं मरौ नीरसैः
किं किं कण्टकिभिः कृतं न तरुभिस्त्वदुवैरिवामभ्रुवाम्?॥७९९॥”

अत्र नीरसैः कण्टक्किभिरिति विशेषणसाम्यम्। निर्लुनान्यलकानीत्यादि चकार्यसाम्यम्। व्यवहारसमारोपश्चात्र सर्वत्र1545 जीवितम्। स च लौकिके वस्तुनिलौकिकस्य वस्तुनः, शास्त्रीये शास्त्रीयस्य, लौकिके शास्त्रीयस्य, शास्त्रीये वालौकिकस्येति चतुर्धा।

तत्राद्यो यथा—

“द्यामा1546लिलिङ्ग मुखमाशु दिशां चुचुम्बरुद्धा1547म्बरं शशिकलामलिखत् कराग्रैः।
अन्तर्निमग्नचरपुष्पशरोऽतितापात् किं किं चकार तरुणो न यदीक्षणाग्निः॥८००॥”

अत्रेक्षणाग्नौ कामुक व्यवहारसमारोपः।

द्वितीयो यथा—

“येरेकरूपमखिलास्त्रापि वृत्तिषु त्वां पश्यद्भिरव्ययमसङ्ख्यतया प्रवृत्तम्।
लोपः कृतः किल परत्वजुषो विभक्तेस्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये॥८०१॥”

अत्रागमप्रसिद्धे वस्तुनि व्याकरणव्यवहारसमारोपः।

तृतीयो यथा—

“सीमानं न जगाम यन्नयनयोर्नान्येन यत् सङ्गतं
न स्पृष्टं वचसा कदाचिदपि यद् दृष्टोपमानं न यत्।
अर्थादापतितं न यन च यत् तत् किश्चिदेणीदृशो
लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकृत्॥८०२॥”

अत्र लावण्ये लौकिके तर्कशास्त्रप्रसिद्धवस्तुसमारोपः।

चतुर्थो यथा—

“पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमाभ्यन्तरी
यत्र त्रुट्यति मध्यमाऽपि मधुरध्वन्युजिगा1548सारसाद।
चाटूच्चारणचापलं वितनुतां वाक् तत्र बाह्या कथं
देव्या ते परया प्रभो ! सह रहःक्रीडा-दृढालिङ्गने॥८०३ ॥”

अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तु1549व्यवहारसमारोपः।

“ऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधानाऽऽर्द्रनखक्षताभम्।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरप्य1550धिकं चकार॥८०४॥”

इत्यादौ विशेषणसाम्याभावादेकदेशविवर्त्तिन्युपमा। यदि वा प्रसादयन्तीत्यादिकार्थसाम्यादुपमोपस्कृता समासोक्तिरेव।

“नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरः श्रियः।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव॥८०५॥”

इत्यादी पुनरेकदेशविवर्त्तिन्युपमैव गत्यन्तराभावादनुक्ताऽपि मन्तव्या।

“बालेन्दुवक्त्राण्यविकासभावाद् बभ्रुः पलाशान्यतिलोहितानि।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्॥८०६॥”

इत्यादावुत्प्रेक्षाऽलङ्का1551रालङ्कृता समासोक्तिः।
कचिदर्थान्तरन्यासान्तर्गताऽपि दृश्यते। यथा—

“अथोपगूढे शरदा शशाङ्के प्रावृद् ययौ शान्ततडित् - कटाक्षा।
कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ?॥८०७॥”

एवमानन्त्यमस्या इति॥४१-४२॥1552

अथ प्रस्तुतगम्यत्वेन समासोक्तिविपरीताम प्रस्तुतप्रशंमामाह—

अप्रस्तुतप्रशंसा सा यत्र कार्ये प्रकारणे।
सामान्ये च विशेषे च1553प्रस्तुतेऽन्यस्य शंसनम्॥४३॥

तुल्ये तुल्यस्य साधर्म्य–वैधर्म्याभ्यां तु तद् द्विधा।

** **सा अप्रस्तुतप्रशंसेत्यलङ्कृतिर्यत्र यस्यां कार्ये प्रस्तुतेऽन्यस्य कारणस्य, कारणे वा कार्यस्य, सामान्ये च1554 प्रस्तुते विशेषस्य, विशेषे वा सामान्यस्य शंसनंप्रशंसनम्। यत् पुनस्तुल्ये सदृशे प्रस्तुते तुल्यस्य सदृशस्य शंसनं तत् साधर्म्यवैधर्म्याभ्यांद्विधा। तत्र कार्ये प्रस्तुते कारणस्य यथा—

“याताः किं न मिलन्ति सुन्दरि! पुनचिन्ता त्वया मत्कृते
नो कार्या नितरां कुशाऽसि कथयत्येवं सवाष्पे माये।
लज्जामन्थरतारकेण निपतत्पीता1555श्रुणा चक्षुषा
दृष्ट्वा मां हसितेन भाविमरणो1556त्साहस्तया सूचितः॥८०८॥”

अत्र प्रस्थानात् किं निवृत्तोऽसीति कार्यप्रश्ने प्रस्तुते कारणमुक्तम्।

कारणे कार्यस्य यथा—

“इन्दुर्लिप्त इवाञ्जनेन त(ज)डिता दृष्टिर्मृगीणामिव
प्रम्लानारुणिमेव विद्रुमदलं श्यामेत्र हेमप्रभा।
कार्कश्यं कलयाऽपि कोकिलवधूकण्ठेत्रिव प्रस्तुतं
सीतायाः पुस्तथ इन्त ! शिखिनां बहीः सगर्हाइव॥८०९॥”

अत्रोत्प्रेक्षितैरिन्द्रादिगतैरञ्जनलिप्तत्वादिकार्थैरप्रस्तुतैर्लोकोत्तरं सीतावदनादिगतं सौन्दर्य कारणभूतं प्रस्तुतं प्रतीयते।

सामान्ये विशेषस्य यथा—

“एतत् तस्य मुखात् कियत् कमलिनीपत्रे कणं वारिणो
यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन् यदस्मादपि।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै-
स्तनोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा॥८१०॥”

अत्र जडानामस्थाने महत्वसम्भावना भवतीति सामान्ये प्रस्तुते विशेषः कथितः।

विशेषे सामान्यस्य यथा—

“सुहृद्वधूवाष्पजलप्रमार्जनं करोति वैर–प्रतियातनेन यः।
स एव पूज्यः स पुमान् स नीतिमान् सुजीवितं तस्य से भाजनं श्रियः॥८११॥”

अत्र कृष्णं निहत्य, नरकासुरवधूनां यदि दुःखं शमयसि तत् त्वमेव श्लाघ्य इति विशेषे प्रस्तुते सामान्यमुक्तम्।

तुल्ये प्रस्तुते तुल्याभिधानं साधर्म्येण यथा—

“पिबन् मधु यथाकामं भ्रमरः फुल्लपङ्कजे।
अप्यसन्नद्धसौरभ्यं पश्य चुम्बति कुलम्॥८१२॥”

अत्र भ्रमरः कामितुल्यः, पङ्कजं प्रौढाङ्गनातुल्यं, कुङ्खलं च मुग्धाङ्गनातुल्यम्।

वैधर्म्येण यथा—

“धन्याः खलु वने वाताः कन्दारस्पर्शशीतलाः।
राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः॥८१३॥”

अत्र वाता धन्या इत्यप्रस्तुता दद्दमधन्य इति प्रस्तुतं वैधर्म्येण प्रतीयते। एतच्च तुल्ये तुल्याभिधानं क्वचित् स्तुतिरूपं क्वापि निन्दारूपं क्वचिचोभयरूपं1557 क्वचिदनुभयरूपं च दृश्यते। तत्र स्तुतिरूपं यथा—

“उत्तुङ्गे कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि
न्यग्रोधस्य किमङ्ग! तस्य वचसा श्लाघासु पर्याप्यते।
बन्धुर्वा स पुराकृतः किमथवा सत्कर्मणां सञ्चयो
मार्गे रूक्षविपत्रशाखिनि जनो यं प्राप्य विश्राम्यति॥८१४ ॥”

निन्दारूपं यथा—

“आदाय वारि परितः मरितां शतेभ्यः1558 किं तावदर्जितमनेन दुरर्णवेन ?।
क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरेषु निवेशितं च॥८१५॥”

उभयरूपं यथा—

“निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां कमेरु1559स्थली
जम्बालाविलमम्बु कर्तुमितरा सूते चराही सुतान्।
दंष्ट्रायां चतुरर्णवोर्भिपटलैरप्ला1560वितायामियं
यस्या एव शिशोः स्थिता विपदि भूः मा पोत्रिणी पुत्रिणी॥८१६॥”

अत्र पूर्वार्द्ध निन्दा, उत्तरार्द्धे स्तुतिः।

यथा वा—

“उपाध्वं तत् पान्धाः! पुनरपि सरो मार्गतिलकं
यदासाद्य स्वेच्छं विलसथ विलीनक्लममराः।
इतस्तु क्षाराब्धेर्जरठमकरक्षुण्ण पयसो
निवृत्तिः कल्याणी न पुनरवतारः कथमपि॥८१७॥”

अत्र पूर्वार्द्धे स्तुतिरुत्तराद्वै निन्दा।

अनुभयरूपं यथा—

“इतो वसति केशवः पुरमितस्तदीयद्विपा–
मितोऽपि शरणागताः शिखरि पक्षिणः1561 शेरते।
इतोऽपि वडवानलः सह1562समस्तसंवर्त्तकै–
रहो! विततमूर्जितं भरसहं च सिन्धोर्वपुः॥८१८॥”

अत्र स्तुतिनिन्दा वा विस्मयोक्तावेवास्तमयते।

श्लेषेऽप्येषा भङ्गिः सम्भवति। यथा—

“नालस्य प्रसरो जडेष्वपि कृतावासस्य कोशे रुचि–
र्दण्डे कर्कशता मुखे च मृदुता मित्रे महान् प्रश्रयः।
आमूलं गुणसङ्ग्रहव्यसनिता द्वेषश्च दोषाकरे
यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः॥८१९॥”

अत्र पद्मे प्रस्तुते सत्पुरुषस्तुतिर्गम्या।

अथास्यामेव वाच्यार्थस्वरूपमाह—

वाच्योऽप्यर्थस्त्रिधैवास्यां सम्भवासम्भवोभयैः॥४४॥1563

अस्यामप्रस्तुतप्रशंसायां सम्भवेनासम्भवेन सम्भवासम्भवेन च त्रिधैववाच्योऽर्थस्तत्र सम्भवेनोदाहृतमेव।

असम्भवेन यथा—

“कस्त्वं भोः! कथयामि दैवहतकं मां विद्धि शाखोटकं1564
वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ?।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायाऽपि परोपकारकृतये मार्गस्थितस्यास्ति मे॥८२०॥”

अत्राचेतनेन सह प्रश्नोत्तरिकाऽनुपपन्नेति वाच्यस्यासम्भवः। प्रमुख एवप्रस्तुताध्यारोपप्रतीतेस्तु सा युक्तैव।

सम्भवासम्भवेन यथा—

“सोऽपूर्वो1565रसनाविपर्ययविधिस्तत् कर्णयोश्चापलं
दृष्टिः सा मदविस्मृत स्वपरदिक् किं भूयसोक्तेन वा ?।
सर्व विस्मृतवानसि भ्रमर हे यद् वारणोऽद्याप्यसा–
वन्तः शून्यकरो निषेव्यत इति भ्रातः! क एष ग्रहः ?॥८२१॥”

अत्र राहुवधूनां तथाविधरतोत्सव रूपेण कार्येण राहुशिरश्छेदस्तत्कारणभूतो गम्यते। विष्णुप्रभावगम्य1566त्वाच्च द्वयोरपि वर्णनीयत्वेन प्रस्तुतत्वम्।

यथा वा—

“महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः।
चकार वाणैरसुराङ्गनानां गण्डस्थली : प्रोषितपत्रलेखाः॥८२५॥”

अत्र सुराङ्गनागण्डस्थलीनां प्रोषितपत्रलेखात्वरूपेण कार्येण तद्वल्लभवधः1567कारणरूपः प्रतीयते1568। ककुत्स्थ विक्रमसूत्रितत्वाच्चोभयोरपि वर्ण्यत्वेन1569प्रस्तुतत्वमिति॥४५॥

अथ प्रतीयमानतालङ्कृतत्वसाधर्म्यात् पर्यायोक्तानन्तरमाक्षेपमाह—

उक्तस्य वक्ष्यमाणस्य वक्तुमिष्टस्य बध्यते।
विशेषाय यो निषेध इवाक्षेपः स लक्षितः॥४६॥

उक्तस्य प्रतिपादितस्य, वक्ष्यमाणस्य प्रतिपिपादयिषितस्य, वक्तुमिष्टस्यविवक्षितस्य कस्याप्यर्थस्य यो निषेध इव निषेधाभासो न तु निषेध एव वक्तुमिष्टस्यैव1570 हानिप्रसङ्गात्। कथं सोऽपि बध्यते इत्याह- विशेषाय कश्चिद्विशेषमा1571विष्कर्तुमन्यथा गजस्नानतुल्यत्वं स्यात्। तस्य च विशेषस्य शब्दानुपात्तत्वात् गम्यत्वम्। स आक्षेप इत्यलङ्कारो लक्षितो विज्ञातः। अत्र चोक्तविषये आक्षेपे क्वचिद् वस्तु निषिध्यते, क्वचिद् वस्तुकथनमिति द्वौ भेदौ। तत्रवस्तुनिषेधो यथा—

¤“वा(बा)लय1572 ! नाहं दूई तीइ पिओ सि त्ति

नम्हवाचारो।
सा मरइ तुझ अयसो एअं1573 धम्मक्खरं भणिमो॥८२६॥”

अत्रोक्तस्य दूतीत्वस्य वस्तुनो निषेधेन दूत्यः सर्वा अपि मिथ्यावादिन्योऽहं सत्यवादिनीति विशेषः प्रतीयते।

———————————————————————————
* बालक ! (बालायाः) नाहं दूती तस्याः प्रियोऽसीति नास्माकं व्यापारः।
सा म्रियते तत्रायश एतद् धर्माक्षरं भणामः॥

———————————————————————————

वस्तुकथननिषेधो यथा—

“ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः
कर्पूरं कदली–मृणालवलयान्यम्भोजिनी पल्लवाः।
अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर–
व्यापाराय भवन्ति हन्त! किमनेनोक्तेन न ब्रूमहे॥८२७॥”

अत्र त्वद्वियोगे सर्व तस्याः स्फुलिङ्गायते इति वस्तुनः कथनम्। तस्य निषेधेनतवोपसङ्ग्रहीतुमुचितैवैयम्, नान्यथा जीवतीति विशेषो द्योस्यते। वक्ष्यमाणविषये तु कथनमेव निषिध्यते। तच्च क्वापि सामान्योक्तौ विशेषनिष्ठत्वेन क्वचित् पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदौ। तत्राद्यो यथा—

¤“ए! एहि किं पि की विकएण निक्किच! भणामि अलमहवा।
अविया1574रियकज्जारंभयारिणी मरउ न1575भणिस्सं॥८२८॥”

अत्र किंपि भणामीति सामान्योक्ताबुत्तरस्य विशेषभणनीयस्य निषेधेनतस्यामीदृशीं मृत्युदशां प्राप्तायामपि न त्वमहङ्कारं त्यजसीति दूतीप्रकोप रूपोविशेषो गम्यते।

द्वितीयो यथा—

“ज्योत्स्ना तमः पिकवचस्तुषारः
क्षारो मृणालवलयानि कृतान्तदन्ताः।
सर्व दुरन्तमिदमद्य शिरीषमृद्धी
सा नूनमाः! किमथवा हतजल्पितेन ?॥८२९॥”

अत्राद्य शिरीषमृद्धी सा नूनमित्यंशोक्तावंशान्तरस्य म्रियत इति वक्ष्यमाणस्य निषेधेन तस्यैव वक्तुमशक्यत्वादिति विशेषः ख्याप्यते। एवं चात्र निषेध1576स्यविधिर्न च विहितस्य निषेधः, किन्तु विशेषाय निषेधेन विधिराक्षेप इति पर्यव–

———————————————————————
ए! एहि किमपि कस्या अपि कृते निष्कृप! भणाम्यलमथवा।
अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्यामि॥
———————————————————————

सितम्। तेन हर्षचरिते ‘अनुरूपो देव्या इत्यात्मसम्भावना’ इत्यादावुक्तविषयआक्षेपः। ‘बाल इति सुतरामपरित्याज्योऽस्मि रक्षणीय इति भवद्भुजपञ्जरं रक्षास्थानम्’ इत्यादौ त्वाक्षेपबुद्धिर्न कार्या। यतो बालत्वादेरुक्तस्य न निषेध्यत्वेनप्रतीतिः, प्रत्युत परित्यागनिषेधकत्वेन ततो व्याघातभेद एवायं नाक्षेपः ॥४६॥

तदिष्टस्य निषेध्यत्वमाक्षेपोक्तेर्निबन्धनम्।
सौकर्येणान्यकृतये न निषेधकता पुनः॥४७॥

इत्याक्षेपपिण्डार्थ इति॥४७॥

अथ प्रकारान्तरेणाक्षेपमेवाह—

यः स्याद् विधिरिवानिष्टवस्तुनः सोऽपि नापरः।

विशेषायेति वर्त्तते। अनिष्टस्यानभिम1577तस्य वस्तुनोऽर्थस्य विशेषप्रकाशनाययो विधिरिव निषेधपर्यवसायित्वाद् विध्याभासो न विधिरेव। वस्तुनोऽनिष्टस्वव्याघातात्। सोऽपि नापरः किन्तु स एवाक्षेपः। यथा—

“गच्छ गच्छसि चेत् कान्त! पन्थानः सन्तु ते शिवाः।
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान्॥८३०॥”

अत्र प्रियप्रस्थानस्यानिष्टस्याप्यनिराकरणरूपेण निषेधपर्यवसायिना विधिनात्वद्विरहे सद्यः प्राणान् त्यक्ष्यामीति विशेषः प्रकाश्यते।

“अनङ्गः पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः।
इत्यसम्भाव्यमथवा विचित्रा वस्तुशक्तयः ॥८३१॥”

तथा—

“कुतः कुवलयं कर्णे करोषि कलभाषिणि !?।
किमपाङ्गमपर्याप्तमस्मिन्1578 कर्माणि मन्यसे ?॥८३२॥”

इत्यादावप्याक्षेपमिच्छन्त्येके1579

अथ प्रतीयमानांशेन पूर्वानुयायिनीं व्याजस्तुतिमाह—

व्याजस्तुतिः सा या स्तुत्या निन्दया वाऽन्यगम्यता॥४८॥

सा व्याजरूपा स्तुतिर्व्याजेन वा स्तुतिर्व्याजस्तुतिः। या स्तुत्याऽर्थवादेननिन्दया वा गर्हया अन्यस्या निन्दायाः स्तुतेर्वा गम्यता प्रतीयमानत्वम्। तत्रस्तुत्या निन्दाया गम्यता। यथा—

“नामाप्यन्यतरोर्निमीलितमभूत् तत् तावदुन्मीलितं
प्रस्थाने स्खलतः स्ववर्त्मनि विधेरन्यैर्गृ1580हीतः करः।
लोकश्वायमष्टदर्शन कृताद् हग्वैशसादुष्टतो
युक्तं काष्ठिक!लूनवान् यदसि तामाम्रालिमाकालिकीम् ॥८३३॥”

अत्र स्तुतौ वाच्यायां निन्दा गम्यते।

निन्दया स्तुतेर्गम्यत्वं यथा—

“इन्दोर्लक्ष्म स्मरविजयिनः कण्ठपीठं मुरारि–
र्दिङ्नागानां मदमलमपीभाजि गण्डस्थलानि।
अद्याप्युर्वीवलय तिलक ! श्यामलिम्नाऽवलिप्ता–
न्यु1581द्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ?॥८३४॥”

अत्र किंशब्दवाच्यादधिक्षेपान्निन्दायां वाच्यायां कतिपयपदार्थवर्ज सर्वजगद्भवद्यशोभिर्धवलितमिति स्तुतिः प्रतीयते॥४८॥

अथार्थद्वयालङ्कृतत्व साधर्म्याद् ब्याजस्तुत्यनन्तरं श्लेषमाह—

वाक्यमेकमनेकार्थं यत्र श्लेषः स भण्यते।

यत्र यस्मिन्नेकं वाक्यं पदसमुदायरूपमनेकार्थ द्वित्राद्यर्थविभूषितं भवति1582

“उदयमयते दिग्मालिन्यं निराकुरुतेतरां
नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः।
रचयतितरां स्वैराचारप्रवर्तन कर्तनं

वैत वत1583 लसत्तेजःपुञ्जो विभाति विभाकरः॥८३५॥”

अत्राभिधाया अनियन्त्रणाद् द्वावप्यर्क–भूपैौ वाच्यौ। नियन्त्रणे तु ध्वनेरेवविषयः स्यात्।

अथ विरोधमूलानलङ्कारानभिधित्सुः प्रथमं विरोधमाह—

विरुद्धत्वमिवार्थानां विरोधो विषयैक्यतः॥४९॥

अर्थानां जाति–गुण–क्रिया–द्रव्यरूपाणां यद् विरुद्धत्वमिव विरोधस्यप्रमुख एव प्रतिभासमानत्वात्। प्ररूढस्य तु तस्य नालङ्कारता। प्रत्युत दोषत्वप्रसङ्गात्। कस्माद् विरुद्धत्वमित्याह- विषयैक्यत एकाश्रयत्वात् भिन्नाश्रयत्वविरोधि पुनरसत्यादयो वक्ष्यन्ते स विरोधो नामालङ्कारः॥४९॥

अथास्य भेदसङ्ख्यामाह—

जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्याद् गुणस्त्रिभिः।
क्रिया द्वाभ्यामथ द्रव्यं द्रव्येणैवेति ते दश॥५०॥

जातिर्जात्याद्यैर्जाति–गुण–क्रिया–द्रव्यैश्चतुर्भिर्विरुद्धा स्यादिति चत्वारोभेदाः। गुणश्च गुण–क्रिया–द्रव्यैस्त्रिभिर्विरुद्ध इति त्रयो भेदाः। क्रिया च क्रिया–द्रव्याभ्यां द्वाभ्यां विरुद्धेति द्वौ भेदौ। द्रव्यं द्रव्येणैव विरुद्धमेत्येको भेदः।इति विरोधस्य ते भेदा दश भवन्ति। तत्र दिग्मात्रमुदाह्रियते। जातेर्जात्या विरोधो यथा—

“अभिनवनलिनी किसलयमृणालवलयादि दवदहनराशिः।
सुभग! कुरङ्गदृशोऽस्या विधिवशतस्त्वद्वि1584योगपविपाते॥८३६॥”

एवं गुणादिभिर्ज्ञेयः।

गुणस्य गुणेन यथा—

“सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते !।
द्विजपत्नीनां कठिना [:] सति भवति कराः सरोजसुकुमाराः॥८३७॥”

एवं क्रिया–द्रव्याभ्यां ज्ञेयः।

क्रियायाः क्रियया यथा—‘परिच्छेदातीतः सकलवचनानामविषयः’इत्यादिः। अत्र जड इति ताप–क्रिययोर्विरोधः। एवं द्रव्येण ज्ञेयः।

द्रव्यस्य द्रव्येण यथा—

“समदमतङ्गजमदजलनिःसङ्गतरङ्गिणीपरिष्वङ्गात् ।

क्षितितिलक ! त्ययि तटजुषिशङ्करजूटापगाऽपि कालिन्दी॥८३८॥”

एतेषु नलिनीकिसलयादि–दवदहनयोर्जात्योर्विरहेण काठिन्य–सौकुमार्ययोर्गुणयोर्भूपप्रभावेण जडीकरण-तापकरणक्रिययोर्वस्तुस्वरूपेण गङ्गा–कालिन्द्योर्द्रव्ययोर्नृपमहिम्ना च विरोधः समाधीयते ।

श्लेषजन्माऽप्येष दृश्यते यथा— ‘सन्निहितवालान्धकारा भास्वन्मूर्तिश्च’इत्यादौ। यथा वा- ‘कुपतिमपि कलत्रवल्लभम्’ इत्यादि।

भिन्नविषयत्वेऽपि क्वचिद् विरोधमिच्छन्ति। यथा—

“कूजितं राजहंसानां वर्धते मदमञ्जुलम्।

क्षीयते च मयूराणां स्तमुत्क्रान्तसौष्ठवम्॥८४०॥”॥५०॥

अथासङ्गतिमाह—

कार्य–कारणयोर्भिन्नदेशतायां त्वसङ्गतिः।

इह यद्देशं कारणं तद्देशमेव कार्यमुत्पद्यमानं दृष्टम्। न हि महानसस्थो वह्निः पर्वतनितम्वस्थं धूमं जनयति। यदा पुनरेतां व्यवस्थामपास्य कार्य-कारणयोः कथश्चिद् भिन्नदेशता निवध्यते। तदा तस्यां सत्यामसङ्गतिर्नामालङ्कृतिर्भवति। तुशब्दः पूर्वस्मिन् विषयैक्यमस्यां पुनर्विषयभेद इति व्यतिरेकार्थः।

उदाहरणं यथा—

“शम्भुर्यद्गुणवल्लरीमुपनयत्याकृष्य कर्णान्तिकं

भ्रश्यन्ति त्रिपुरावरोधसुदृशां कर्णोत्पलग्रन्थयः।

स्व चास्फालयति प्रकोष्ठकमिमामुन्मुच्य तासामहो!

भिद्यन्ते वलयानि दाशरथिना तद् भग्नमीदृग् धनुः॥८४१॥”

अत्र गुणवल्लर्याः कर्णान्तिकोपनयनं प्रकोष्ठास्फालनं च कारणं शम्भुस्थं कर्णोत्पलग्रन्थिभ्रंशो वलयभङ्गश्च कार्य त्रिपुरवधूस्थमित्यनयोर्भिन्नदेशत्वम्

यथा वा—

“सा बाला वयमप्रगल्भवचसः1585 सा स्त्री वयं कातराः
** सा पीनोन्नतिमत् पयोधरयुगं धत्ते सखेदा वयम्।**
साऽऽक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
** दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम्॥८४२॥”**

अत्रापि बाल्याप्रगल्भवचस्त्वादीनां कारण-कार्याणां स्त्री-पुरुषस्थत्वेन भिन्नदेशत्वं तथा बाल्यकृत- स्मरकृतयोरप्रगल्भवचस्त्वयोरभेदाध्यवसायः।

अथ विशेषोक्तिमाह—

विशेषोक्तिः फलाभावः साकल्ये हेतुसम्पदः॥५९॥

कारणसामग्रेकार्येण भाव्यमिति व्यवस्थायां यः क्वचिद् हेतुसम्पदः कारणविभूतेः साकल्येपरिपूर्णत्वे सत्यपि कथञ्चित् फलाभावः कार्याभावः सा विशेषोक्तिरलङ्कृतिः॥५१॥

तस्या भेदानाह—

सा च त्रिधा दधत्युक्तानुक्ताचिन्त्यनिमित्तताम्।

सा च विशेषोक्तिरुक्तनिमित्ततामनुक्तनिमित्ततामचिन्त्यनिमित्ततां च दधतीति त्रिधा त्रिप्रकारा भवति।तत्राद्या यथा—

“कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने।

नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे॥८४३॥”

अत्र सत्यप्यविकले दाहरूपे कारणेऽशक्तत्वाख्यस्य कार्यस्यानुत्पत्तिः। अवार्यवीर्यत्वं च निमित्तमुक्तम्।

द्वितीया यथा—

“निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपरंम्पराप्ते1586

श्लथीकृताश्लेषरसे1587 भुजङ्गे चचाल नालिङ्गनतोऽङ्गना सा॥८४४॥”

अत्र निद्रानिवृत्यादिके कारणौघे सत्यप्यालिङ्गनाञ्चलनं कार्यंन सञ्जातम्, निमित्तं च सुखस्वादादिकं किञ्चिन्नोक्तम्।

तृतीया यथा—

स एकस्त्रीणि जयति जगन्ति कुसुमायुधः।

हरताऽपि तनुं त(य)स्य शम्भुना न हृतं बलम्॥८४५॥

अत्र तनुहरणे कारणे सत्यपि बलहरणं कार्यं नाभवदचिन्त्यं चात्र निमित्तं प्रतीत्यगोचरत्वात्।

अथ कार्याभावस्वरूपमाह—

फलाभावः क्वचित् कार्ये विरुद्धोत्पत्तिसम्भवः॥५२॥

क्वचित् कार्ये फलाभावः कार्याभावस्तस्य कार्यस्य यद् विरुद्धं कार्यं तस्य या उत्पत्तिस्तत्सम्भवो निबध्यते। यथा— ‘कर्पूर इव दग्धोऽपि’इत्यत्राशक्तत्वाख्यस्य कार्यस्याभावस्तद्विरुद्धशक्तिमन्वकार्यमुखेनोपनिबद्धः॥५२॥

अथास्या एव प्रकारान्तरमाह—

हानिकल्पनया कस्याप्येकस्यैव गुणस्य यत्।

दृढतां नीयते साम्यं विशेषोक्तिस्तु साऽपरा॥५३॥

सादृश्यहेतूनां गुणानां मध्ये कस्यचिदेकस्यैव गुणस्य हानिकल्पनया यदुपमानोपमेययोः साम्यमौपम्यं दृढत्वं प्राप्यते सा पुनरपरा विशेषोक्तिः । इयं च प्रायो रूपकसौरभ्यगर्भैवभवति। यथा—

“अव्योमव्यतिषङ्गमाननमिदं विम्बं सुधादीधिते–

रक्रीडासरसीपयःपरिचये नीलोत्पले ते दृशौ ।  

एतावप्यकलादपाणितुलितौ कल्याणकुम्भौकुचौ

सुभ्रु! त्वं पुनरत्रिविष्टपपरीरम्भाऽसि रम्मैव नः॥८४६॥”

यथा वा—

“विक्षिप्ताधोक्षजा लक्ष्मीः शची दुश्च्यवनच्युता।

अशर्वाङ्का1588 च शर्वाणी सेयमुर्वीतलोर्वशी॥८४७॥”

एवं ‘द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्।’‘हस्ती हि जङ्गमं दुर्गम्।’‘वेश्या हि नाम मूर्तिमत्येव विकृतिः1589।’इत्याद्यपि द्रष्टव्यमिति॥५३॥

अथ विभावनामाह -

जात्यादीनामभावेऽपि कारणानां फलोदयात्।

विभाव्यते चमत्कारकारणं कारणान्तरम्॥५४॥

यद्वा नैसर्गिकं यत्र सौन्दर्यं सा विभावना।

यत्र यस्यां जात्यादीनां जाति-गुण-क्रिया-द्रव्याणां प्रसिद्धानां कारणानामभावेऽप्यसत्तायामपि फलोदयात् कार्योत्पादाच्चमत्कारकारणं जगद्विस्मयहेतुस्तस्य कार्यस्याप्रसिद्धं कारणान्तरम्॥५४॥

यदि वा तस्यैव नैसर्गिकं स्वाभाविकं किञ्चित् सौन्दर्यं रामणीयकं विभाव्यते प्रतीयते सा विभावना नामालङ्कृतिः। तत्र जात्यभावे यथा—

“न देवकन्यका नापि1590 गन्धर्वकुलसम्भवा।
तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम्॥८४८॥”

अत्र देवकन्यकात्वादिजातेः कारणभूताया अभावेऽपि तपोभङ्गविधानात् कार्यान्नायिकाया रूपातिशयः कारणान्तरं भाव्यते।

गुणाभावे यथा—

“न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः।
तथापि जितमेवाभूदमुना भुवनत्रयम्॥८४९॥”

अत्र कठोरत्व–तैक्ष्ण्ययोर्गुणयोः कारणयोरभावेऽपि जगत्रयजयरूपात् कार्यात्पुष्पधन्वनः प्रभावातिशयः प्रतीयते।

क्रियाऽभावे यथा—

“न बद्धा भ्रकुटिर्नापि स्फुरितो दशनच्छदः।
न च रक्ताऽभवद् दृष्टिर्जितं च द्विषतां कुलम्॥८५०॥”

अत्र भ्रुकुटीवन्धादीनां क्रियाणां कारणभूतानामभावेऽपि द्विषञ्जयत्कार्याद्1591 राज्ञः प्रतापातिशयो गम्यते।

द्रव्याभावे यथा—

“एकचक्रो रथो यन्ता विकलो विषमा हयाः।

आक्रामत्येव तेजस्वी तथाप्यर्को जगत्रयम्॥८५१॥”

अत्र विशिष्टरथादीनां कारणानामभावेऽपि जगत्रयाक्रमणात् कार्यादर्कस्य महिमोत्कर्षो व्यज्यते।

नैसर्गिकसौन्दर्यविभावनं यथा—

“अनञ्जिताऽसिता दृष्टिस्तूरमावर्जिता मता।
अरञ्जितारुणश्चायमधरस्तव सुन्दरि!॥८५२॥”

अत्राञ्जितत्वादीनां कारणानामभावेऽप्यसितत्वादेः कार्याद् दृष्ट्यादीनामसितत्वादिसौन्दर्यं स्वाभाविकमभिव्यज्यते1592

यथा वा—

“असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य।
कामस्य पुष्पव्यतिरिक्तमस्त्रंबाल्यात् परं साऽथ वयः प्रपेदे॥८५३॥”

अत्र सम्भृतत्वादीनां कारणानामभावेऽपि मण्डनत्वादेः कार्याद् यौवनस्य स्वाभाविकं कामनीयं विद्यते।

इयं च मालारूपाऽपि दृश्यते। यथा—

“अनिद्रो दुःस्वप्नः प्रपतनमनद्रि द्रुमतटं

जराहीनः कम्पस्तिमिररहितस्त्राससमयः।

अनाघातं दुःखं विगतनिगडा बन्धनधृतिः

सजीवं जन्तूनां मरणमवनीशाश्रयरसः॥८५४॥

अथास्याः स्वरूपान्तरमाह—

अत्रापि कारणेऽभावस्तद्विरुद्धभवः क्वचित्॥५५॥

अत्राप्यस्यामपि विभावनायां कारणाभावस्तेषां कारणानां यानि विरुद्धानि प्रतिपक्षभूतानि कारणानि तत्प्रयोगसम्भवः क्वचिद् भवति। यथा—

“यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा

स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः।

सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ

रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते॥८५५॥”

अत्र च विभावना—विशेषोक्त्योरस्फुटत्वं सन्देहसङ्करश्चेत्याचक्षते। तथाहि—‘यः कौमारहरः’ इत्याद्यनुत्कण्ठाकारणभणनद्वारेणोत्कण्ठाकारणानां वल्लभसङ्गमाभावादीनामभावो निबद्ध इति विभावना। तथा ‘यः कौमारहरः’इत्यादीनां कारणानामनुत्कण्ठारूपस्य1593 कार्यस्योत्कण्ठाख्यविरुद्धकार्यभणनद्वारेणाभावनिबन्ध इति विशेषोक्तिरिह च द्वयोक्तिरपि विरुद्धकार्यकारणोपनिबन्धेन कार्यकारणाभावनिबन्धादस्फुटत्वम्।साधक—बाधकप्रमाणाभावाच्च सन्देहसङ्कर इति॥५५॥

अथ विषम1594माह—

कार्यस्याननुरूपत्वमनर्थश्चार्थमिच्छतः।

यत्र1595 तद् विषमं या च घटनाऽननुरूपयोः॥५६॥

कारणानुरूपं कार्यमुत्पद्यते इति प्रसिद्धौ यत्र कारणापेक्षया कार्यस्य गुणैः क्रियया वाऽननुरूपत्वमसादृश्यं तदेकं विषमम् । तथा कस्यचिदर्थमिच्छतोऽर्थाय प्रवृत्तस्य न केवलं तस्यार्थस्याप्रतिलम्भः, प्रत्युत कस्याप्य1596नर्थस्यावाप्तिरिति द्वितीयम्। या च परस्परमननुरूपयोरत्यन्तानुचितयोर्घटनासंयोगस्तत् तृतीयम्।

तत्राद्ये गुणैरननुरूपत्वं यथा—

“सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा।

तमालनीला शरदिन्दुपाण्डु1597 यशस्त्रिलोकाभरणं प्रसूते॥८५६॥”

अत्र श्यामवर्णात् शुक्लवर्णोत्पत्तिरननुरूपा।

क्रियया यथा—

“आनन्दममन्दमिमं1598 कुवलयदललोचने!ददासि त्वम्।

विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे॥८५७॥”

अत्रानन्ददानस्य तापक्रिया विरुद्ध्यते।

द्वितीयं यथा—

“तीर्थान्तरेषु मलपङ्कवतीर्विहाय दिव्यास्तनुस्तनुभृतः सहसा लभन्ते।

वाराणसि!त्वयि तु मुक्तकलेवराणां लामोऽस्तु मूलमपि यात्यपुनर्भवाय॥८५८॥”

अत्र कलेवरा1599त्यन्तापहारलक्षणस्थानर्थस्योत्पत्तिर्व्याजस्तुत्या च सङ्करः1600

तृतीयं यथा—

“शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना?।

अयं क्वच कुकूलाग्निकर्कशो मदनानलः?॥८५९॥”

एवम्—

“विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरेयुगक्षये।

मदविभ्रमा सकलया पपे पुनः स पुरस्त्रियैकतनयैकपा दृशा॥८६०॥”

इत्यादावपि विषमत्वं यथायोगमनुमन्तव्यम्॥५६॥

अथ विषमविपरीतं सममाह—

तत् समं सङ्गमो यत्र द्वयोरप्यनुरूपयोः।

तत् समं नामालङ्कारो यत्राभिरूपयोरनभिरूपयोर्धा द्वयोरप्यनुरूपयोः परस्परमुचितयोः सङ्गमो विज्ञश्लाघ्यो1601योगो भवति। यथा—

“धातुः शिल्पातिशयनिकपस्थानमेषा मृगाक्षी

रूपे देवोऽप्ययमनुपमे दत्तपत्रः स्मरस्य।

जातं दैवात् सदृशमनयोः सङ्गतं यत् तदेतत्

शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम्॥८६१॥”

अत्राभिरूपयोगः।

यथा वा—

“चित्रं चित्रं वत वत महच्चित्रमेतद् विचित्रं

जातो दैवादुचितरचनासंविधाता विधाता।  

यन्निम्बानां परिणतिफल1602स्फातिरास्वादनीया

यच्चैतस्याः कवलनकलाकोविदः1603काकलोकः॥८६२॥”

अत्रानभिरूपयोगः।

अथाधिकमाह—

अधिकं नानुरूपत्वमाश्रयाश्रयिणोस्तु यत्॥५७॥

आश्रयाश्रयिणोराधाराधेययोः पुनर्यन्नानु1604रूपत्वं क्वचिदाधेयापेक्षया आधारस्याधिक्यम्, क्वच्चिच्चाधारापेक्षयाऽऽधेयस्येत्यनुचितत्वं दृश्यते तदधिकं नामालङ्कारः। तत्राधाराधिक्यं यथा—

“द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचित्

क्वाप्यत्रैव धरा धराधरजलाधारावधिर्वर्तते।

स्फीतस्फतिमहो! नमः कियदिदं यस्येत्थमेवंविधै-

दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम्॥८६३॥”

अत्र द्युप्रभृतीनां महतामध्या1605धेयानामपेक्षया गगनरूपस्याधारस्याधिक्यमुक्तम्।

आधेयाधिक्यं यथा—

“युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत।

तनौ ममुस्तस्य न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः॥८६४॥”

अत्र महत्या अपि कैटभारितनोराधाररूपायाः सकाशादाधेयानां मुदां1606महत्त्वमुपनिबद्धम्॥५७॥

अथ विचित्रमाह—

“यस्मिन्निष्टस्य कार्यस्य सम्यग्निष्पत्तिहेतवे।

तद्विरुद्धक्रियारम्भस्तद् विचित्रमितीरितम्॥५८॥”

इष्टस्य वाञ्छितस्य कार्यस्य सम्यग्निष्पत्तिहेतवे सातिशयनिष्पत्तिनिमित्तं तस्य कार्यरूप या विरुद्धा क्रिया तस्या आरम्भो यस्मिन् भवति तद्विचित्रनामालङ्कारान्तरमीरितं कथितम्। यथा—

*“घित्तुं1607 मुच्चइ अहरो अन्नत्तो पिक्खिउं व(च)लह दिट्ठी।

घडिउं विहडंति भुआ रया अ सुरयम्मि वीसामो॥८६५॥”

अत्र ग्रहणादिकार्यस्य सातिशयनिष्पत्तये मोचनादिक्रियाऽऽरम्भः।

यथा वा—

“उन्नत्यै नमति प्रभुं प्रभुगृहान् द्रष्टुं बहिस्तिष्ठति

स्वद्रव्यव्ययमातनोति जडधीरागाभिवित्ताशया।

प्राणान् प्राणितुमेव मुञ्चति रणे क्लिश्नाति भोगेच्छया

सर्वं तद् विपरीतमेवकुरुते तृष्णान्धदृक्सेवकः॥८६६॥”

अत्रोन्नत्यादिकार्याणां निष्पत्तये नमत्यादिक्रियाऽऽरम्भः॥५८॥

अथ पर्यायमाह—

पर्यायोऽनेकमेकस्मिन् क्रमात् तद्व्यत्ययोऽपि यत्।

यदनेकमाधेयं द्वित्र्यादिकं1608 क्रमादेकस्मिन्नाधारे भवति स एकः पर्यायः। तद्व्यत्ययोऽप्यनेकस्मिन् आधारे क्रमादेकमाधेयमिति द्वितीयः पर्यायः। क्रमवत्त्वाच्चास्यान्वर्थता। अनेकश्चार्थोऽस्मिन्नसंहतः संहतश्चेति द्विविधः।

तत्रामंहत एकस्मिन्नाधारे यथा—

“तद् गेहं नतभित्तिमन्दिरमिदं लब्धावकाशं दिवः

 सा धेनुर्जरती न दन्तिकरिणामेता[^1602] घनाभा घटाः।  

स क्षुद्रो मुसलध्वनिः कलमिदं सङ्गीतकं योषिता1609

माश्चर्यं दिवसैर्द्विजोऽयमियतीं भूमिं परां प्रापितः॥८६७॥”

____________________________________________________________________

* गृहीतुं मुच्यतेऽधरोऽन्यतश्चलति प्रेक्षितुं दृष्टिः।
घटितुं विघटन्तेभुजौ रदा्श्चसुरते विश्रामः॥

_______________________________________________

अत्र गेह—मन्दिरादयोऽर्था असंहताः।

संहतो यथा—

“मधुरिमरुचिरं वचः खलानाममृतमहो! प्रथमं पृथु व्यनक्ति।

अथ कथयति मोहहेतुरन्तर्गतमिव हालहलं विषं तदेव॥८६८॥”

अत्रामृत—विषयो1610र्वचसि संहतत्वम्, क्रमात् तु निबन्धः॥

अनेक आधारोऽसंहतो यथा—

“न त्वाश्रयस्थितिरियं तव कालकूट! केनोत्तरोत्तरविशिष्टपदोपदिष्टा?।

प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम्॥८६९॥”

अत्रार्णव–1611हृदयादयोऽसंहता आधाराः।

संहता यथा—

“श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः

पद्भ्यां मुक्तास्तरलगतयः1612 संश्रिता लोचनाभ्याम्।

धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं

तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन॥८७०॥”

अत्र श्रोणीबन्धादयस्तनुताद्याधाराः संहताः।

अर्थ विकल्पमाह—

विकल्पः1613 स्याद् विरुद्धत्वे समानबलशालिनोः॥५९॥

एकसम्बन्धित्वेन तुल्यबल1614शालिनोर्यद् विरुद्धत्वं परस्परव्यापारासहनत्वं काञ्चित्क्रियां प्रत्येकस्य प्रवृत्तावन्यस्याप्रवृत्तिरित्यर्थस्तस्मिन् सति विकल्पो नामालङ्कारः स्यादौपम्यगर्भत्वाच्चास्य चारुत्वम्। यथा—

नमन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियन्तामाज्ञामौर्व्यो1615वा।

अत्र वैरिसम्बन्धिनां शिरसां धनुषां च नमनक्रियां प्रत्येकप्रवृत्तौ तदन्याप्रवृत्तिरिति न्यायप्राप्तो1616 विकल्पो वाशब्दश्चास्य वाचको नमनक्रियाकृतं चात्र सादृश्यम्। एवं कर्णपूरी क्रियन्तामित्यादौ योजनीयम्।

“भक्तिप्रह्नविलोकनप्रणयिनी नीलोत्पलस्पर्द्धिनी

ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये।  

लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती

युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः॥८७२॥”

अत्रापि विकल्पं कश्चिन्मन्यते तदयुक्तम्। यतो नेत्रयोस्तनोश्च न कश्चिद्विरोधः। कथञ्चिद् विरोधो वा यस्यापि क्रियां प्रत्यप्रवृत्तिस्तस्यापि प्रभावक्षतिः1617 प्रसङ्गः। वाशब्दस्य तु समुच्चयार्थस्यापि दर्शनात्॥५९॥

अथ व्याघातमाह—

साधितं यद् यथैकेन तथैवान्यस्तदन्यथा।

यत् साधयति स ज्ञेयो व्याघातः

यत् कार्यमेकेन केनचिद् यथा येनोपायेन साधितं भवति, तथैव तेनोपायेन1618 कश्चिदन्यस्तत् कार्यमन्यथा साधयति पूर्वरूपविरुद्धेन रूपेण जनयति स पूर्वरूपव्याहतिरूपत्वाद् व्याघातो ज्ञेयः। यथा—

“दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः।

विरूपाक्षस्य जयिनी1619स्ताः स्तुवे चारु1620लोचनाः॥८७३॥”

अत्र हरेण दृग्रूपोपायेन स्मरो दग्धः, स्त्रियस्तु तेनैव जीवयन्ती1621त्यनेनैव दाहरूपकार्यव्याहतेर्व्याघातोऽयम्। सोऽपि विरूपाक्षस्येत्यादिशब्दोन्मीलितव्यतिरेकनिमित्तत्वेनात्रोक्तः।

अथास्यैव लक्षणान्तरमाह—

सोऽपरः पुनः1622॥६०॥

मुख्यकार्यविरुद्धस्य या सौकर्येण निर्मितिः।

स पुनरपरो व्याघातः केनापि कारणेन समुपक्रान्तं यत् कार्यं तद्विरुद्धस्य

कार्यान्तरस्य तेनैव कारणेन या सौकर्येण निर्मितिः सुकरं निष्पादनं तस्य कारणस्यात्यन्तं तदानुगुण्यादिति मुख्यकार्यव्याहतिहेतुत्वाद्1623 व्याघातः। यथा हर्षचरिते राज्यवर्द्धनं प्रति हर्षोक्तिषु1624

“यदि बाल इति सुतरामपरित्याज्योऽस्मि, रक्षणीय इति भवद्भुजपञ्जरं रक्षास्थानम्।”इत्यादि।अत्र बाल्य-रक्षणीयत्वादिकमवस्थानकारणत्वेन यत् सम्भावितं तत् प्रत्युत सुकरतया प्रस्थानकारणत्वेन समर्थितम्।

अथान्योन्यमाह—

अन्योन्यमुपकारित्वं वस्तुनोः क्रियया मिथः॥६१॥1625

वस्तुनोः पदार्थयोः क्रियया क्रियाद्वारेण मिथः परस्परं यदुपकारित्वमुपकारभावस्तदन्योन्यं नामालङ्कारः। यथा—

“कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तुलस्य ।
अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः ॥८७४॥”

प्रतीयमानोपकारमप्येतद् दृश्यते। यथा—

*“

उद्धच्छो पिअइ जलं जह जह विरलंगुली चिरं पहिओ।

पावालिआ वि तह तह धारं तणुअं पि. तणुएइ॥८७५॥”

अत्र मिथोऽनुरागेऽङ्गुलीविरलीकरणेन धारातनूकरणेन च परस्परोपकारः1626 प्रतीयमानः॥६१॥

अथ विशेषमाह—

“अनाधारं यदाधेयमेकं वाऽनेकगोचरम्।

विशेषोऽयमशक्यस्य कृतिश्चान्यस्य वस्तुनः॥६२॥”

प्रसिद्धमाधारं विना न खल्वाधेयं स्थातुमर्हति। न चैकं वस्तु तेनैव स्वरूपेण युगपदनेकेषु विषयेष्ववतिष्ठते। नापि किञ्चित् कार्यं कुर्वता केनचिद—

________________________________________

* ऊर्ध्वाक्षः पिबति जलं यथा यथा विरलाङ्गुलिश्चिरं पथिकः।
प्रपापालिकाऽपि तथा तथा धारां तलुकामपि तनयति॥

________________________________________

शक्यस्या1627प्यन्यस्य वस्त्वन्तरस्य तेनैव संरम्भेण कृतिश्च1628 सम्भवति विरोधप्रसङ्गात्1629।तानि च किञ्चिद्1630विशेषमाविष्कर्तु यत् क्वचिद् वध्यन्ते1631 स विशेषो नामालङ्कारः।

तत्राद्यो भेदो यथा—

“दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः?॥८७६॥”

अत्र कवीनामाधाराणामभावेऽपि गिरामवस्थानम्।

द्वितीयो यथा—

“प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा

पर्यङ्के सा दिशि दिशि च सा तद्वियोगाकुलस्य।

हंहो चेतः! प्रमितिरपरा नास्ति ते काऽपि सा सा

सा सा सा सा जगति सकले कोऽयमद्वैतवादः?॥८७७॥”

अत्रैकस्या अपि नायिकाया अनेकेषु1632 प्रासादादिष्ववस्थानम्।

तृतीयो यथा—

“स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजताऽनवद्यविद्यम्1633
विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च॥८७८॥”

अत्र त्वत्सर्गसंरम्भेणैव स्मरादिसर्गः॥६२॥

अथ विरोधप्रधानानलङ्कारानभिधाय शृङ्खलाकमालङ्कारान1634भिधित्सुः प्रथमं कारणमालामाह—

सा तु कारणमाला स्यादुत्तरोत्तरहेतुता।

पूर्वपूर्वस्य यत्

सा पुनः कारणमाला1635 नामालङ्कृतिर्यत् पूर्वस्यपूर्वस्यात्तरमुत्तरं प्रति हेतुता निमित्तत्वम्। यथा—

“जितेन्द्रियत्वं विनयस्य साधनं1636 गुणप्रकर्षो विनयादवाप्यते।
गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः॥८७९॥”

अत्र जितेन्द्रियत्वादीनां विनयादीन् प्रति हेतुत्वादेव चारुत्वप्रतीतिः।

अति(थ) सारमाह—

सारः प्रकर्षस्तूत्तरोत्तरम्॥६३॥

पूर्वपूर्वापेक्षया उत्तरोत्तरस्य1637 यः पुनः प्रकर्षः स सारनामालङ्कारः। यथा—

“राज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम्।
सौधे तल्पंतल्पे वराङ्गनाऽनङ्गसर्वस्वम्॥८८०॥,॥६३॥”

अथैकावलीमाह—

“परं1638 परं यथापूर्वं स्थाप्यतेऽपोह्यतेऽथवा।
विशेषणतया यस्यामाहुरेकावलीति ताम्॥६४॥”

यस्यां यत्र पूर्वं पूर्वं प्रति क्रमेण परं परं विशेषणतया व्यवच्छेदकत्वेन स्थाप्यतेऽपोह्यते निषिध्यते वा तामेकावलीति नाम्नाऽलङ्कृतिमाहुः कथयन्ति।

तत्र स्थापनं यथा—

“पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः।

रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य॥८८१॥”

अत्र पुराणां वराङ्गनास्तत्प्रभृतीनां च रूपादीनि विशेषणानि स्थापितानि।

अपोहनं यथा—

“न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद् यदलीनषट्पदम्।

न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः॥८८२॥”

अत्र जलस्या1639सुचारुपङ्कजत्वं व्यपोहितम्, पङ्कजादीनां चालीनषट्पदत्वादीनि॥६४॥

अथ मालादीपकमाह—

तन्मालादीपकं ज्ञेयमुत्तरोत्तरसम्पदे।

पूर्वंपूर्वं भवेद् यत्र यत्र तद्व्यत्ययोऽपि वा॥६५॥

यत्र यस्मिन् पूर्वं पूर्वं वाच्यमुत्तरोत्तरस्य वाच्यस्य सम्पदे विभूतये भवति, तदेकं मालादीपकम्। यत्र वा तद्व्यत्ययोऽप्युत्तरोत्तरं1640 पूर्वस्य पूर्वस्य सम्पदे जायते, तदपि तदेव। तत्रायं यथा—

“सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते

देवाकर्णय येन येन सहसा यद् यत् समासादितम्।

कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं

तेन त्वं भवता च कीर्तिरमला कीर्त्या च सप्ताब्धयः॥८८३॥”

अत्र कोदण्डादिभिः क्रमेण शरादीनामुत्कर्षः कृतः। समासादनक्रियारूपं च दीपकम्1641

यथा वा—

“राका वर्द्धयते विधुं स कुमुदारामेषु लक्ष्मीमियं

भृङ्गालीषु मदोदयं स मधुरोद्गारं तदीयध्वनिम्1642

सोऽपि त्रीणि जगन्ति जेतुमनसो देवस्य चेतोभुवः

संरम्भं स च मानिनीपरिषदः प्रेमप्रकर्षं प्रिये॥८८४॥”

अत्र राकाऽऽदिभिः क्रमेण विधुप्रभृतयो वृद्धिं नीयन्ते। वर्द्धयन्तीतिक्रियारूपं च दीपकम्।

द्वितीयं यथा—

“स्त्रीवर्ग रूपसर्गस्तमपि तरुणिमा तं च लावण्यलक्ष्मी-

रेतां च प्रौढिमुद्रापरिचरणमदः सङ्गमश्चप्रियस्य।

तं च प्रेमोत्तरङ्गं तदिदमपि मिथो दत्तगण्डू1643पशुण्डा

तां च ज्योत्स्ना यदीन्दोस्तिलकयति ततो मन्मथैकातपत्रम्॥८८५॥”

अत्र रूपसर्गादीनां पूर्वं पूर्वं1644संस्कारकत्वं तिलकयतीति पदं1645 च दीपकं शृङ्खलाक्रमरूपम्। चारुत्वविशेषाय दीपकप्रस्तावमुल्लङ्घ्य लक्षणमत्रैवास्य कृतम्॥६५॥

अथ तर्कपरिमलालङ्कृतमलङ्कारद्वयं विमणिषुरादौ काव्यलिङ्गमाह—

पदार्थस्याविशेषेण विशेषणगति1646स्पृशः।

यत्र स्फुरति हेतुत्वं वाक्यार्थस्तु निबध्यते॥६६॥

हेतुभावं स्पृशन्नेव काव्यलिङ्गं तदुच्यते।

यत्र यस्मिन् पदार्थस्यैकानेकपदवाच्यस्याविशेषेण सामान्येन यस्यकस्यचित् कर्तृ-कर्मादेर्विशेषणगतिस्पृशो1647 विशेषणभावभृतो हेतुत्वं कञ्चिद्भणितिविशेषं प्रति कारणत्वं स्फुरति। वाक्यार्थस्तु परस्परान्वितपदसन्दोहार्थः पुनरेकानेकरूपो हेतुभावं हेतुतास्पृशन्नेव स्वीकुर्वन्नेव निबध्यते। बद्धस्य1648 हेतुत्वमर्थान्तरन्यासादस्य भेदाभावप्रसङ्गात्। तदिदं द्विप्रकारं काव्यलिङ्गमुच्यते। तत्रैकपदार्थो हेतुर्यथा—

“भस्मोद्धूलन! भद्रमस्तु भवते रुद्राक्षमाले! शुभं1649

अत्याराधनतोषितेन1650 विभुना युष्मत्सपर्यासुखा–

लोकोच्छेदिनि मोक्षनामनि महामोहेनिधीयामहे॥८८६॥”

अत्र महामोहे सुखालोकोच्छेदिनीति विशेषणपदार्थोहेतुः।

यथा वा—

“नीरागा मृगलाञ्छने मुखमपि स्वं नेक्षते1651 दर्पणे

त्रस्ता कोकिलकूजितादपि गिरं नोन्मुद्रयत्यात्मनः1652

चित्रं दुस्सहदाहदायिनि घृतद्वेषाऽपि पुष्पायुधे

तन्वङ्गी सुभग! त्वयि प्रतिदिनं प्रेमाधिकं पुष्यति॥८८७॥”

अत्र नीरागेति त्रस्तेति च विशेषणं1653 मुखानीक्षणस्य गिरोऽप्रकाशनस्य च हेतुत्वेनोपात्तमिति काव्यलिङ्गम्। मुखानीक्षणादिरूपात्1654 कार्यात् कारणभूतस्य मुखचन्द्रादिसादृश्यस्य प्रतीतिरिति पर्यायोक्तमप्यस्ति। उत्तरार्धे तु विशेषोक्तिःपर्यायोक्तयुक्तैव।

अनेकपदार्थो यथा—

“मृग्य (गा) श्चदर्भाङ्कुर निर्व्यपेक्षास्तवागतिज्ञं समबोधयन् माम्।

व्यापारयन्त्यो1655 दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि॥८८८॥”

अत्र सम्बोधनक्रियां प्रति दर्भाङ्कुरनिर्व्यपेक्षा व्यापारयन्त्य इत्याद्यनेकपदार्थो1656 विशेषणभावं प्राप्तो हेतुरुक्तः।

एको वाक्यार्थोहेतुर्यथा—

“मनीषिताः सति गृहेऽपि देवतास्तपः क्ववत्मे! क्व च तावकं वपुः1657?।

पदं सहेत भ्रमरस्य पेलवं1658 शिरीषपुष्पं न पुनः पतत्त्रिणः॥८८९॥”

अत्र वरप्राप्तिहेतुतपोनिषेधे ‘मनीषिताः सन्ति’इति वाक्यार्थो हेतुः।

अनेको यथा—

“यत् त्वनेत्रसमानकान्ति सलिले मनं तदिन्दीवरं1659

मेघैरन्तरितः प्रिये! तव मुखच्छायानुकारी शशी।

येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता–

स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥८९०॥”

अत्र पूर्वपादत्रयवाक्यार्थश्चतुर्थपादार्थस्य हेतुत्वेनोपनिबद्धः। पूर्वपादत्रये चास्मिन् विपर्यासोपमया एकवाचकानुप्रवेशरूपः संङ्करः1660। इह च पक्षधर्मतादिसर्वसामग्री रहितत्वेऽपि1661 हेतु-हेतुमद्भावसद्भावमात्रेण तर्काश्रितत्वमत एव काव्यलिङ्गमित्यत्र काव्येति विशेषणं कृतम्॥

अथानुमानमाह**—**

अनुमानं तु साध्याय साधनोक्तिर्म1662नोहरा॥६७॥1663

साध्याय साधन1664प्रत्येयवस्तुनिमित्तं साधनस्य तत्प्रतीतिहेतुवस्तुनः पक्षधर्मताऽन्वयव्यतिरेकशालिनो मनोहरा तर्कानुमानविलक्षणेन विच्छित्तिविशेषेण तद्विदाह्लादिनी या उक्तिर्भणितिः सा पुनरनुमानं नामालङ्कारः। तत्र क्वचित्कारणात् कार्यस्य प्रतीतिः, क्वचित् कार्यात् कारणस्य, क्वचित् पुनरविनाभावेन वस्त्वन्तराद् वस्त्वन्तरस्य।

तत्राद्यो भेदो यथा—

“अविरलविलोलजलदः कुटजार्जुनसुरभिव1665नवातः।

अयमायातः कालो हन्त! हताः पथिकगेहिन्यः॥८९१॥”

अत्र मेघसमयात् कारणभूतात् कार्यभूतं विरहिणीमरणम1666नुमीयते।

द्वितीयो यथा—

“यथा रन्ध्रंव्योम्नश्चलजलदधूमः स्थगयति

स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः।

यथा विद्युज्ज्वालोल्ल1667सनपरिपिङ्गाश्च ककुभ–

स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः॥८९२॥”

अत्र धूम–स्फुलिङ्ग–ज्वालोल्लसनानि कार्यकारणानि1668 दवशब्दाभिधेयं वह्निं गमयन्ति। काव्यद्वयेऽप्यत्र पूर्वत्र कार्य1669-कारणभूतयोः कालागम–पान्थस्त्रीघातयोः समकालोपनिबन्धादतिशयोक्तिगर्भत्वेनोत्तरत्र तु रूपकगर्भत्वेन विच्छित्तिविशेषप्रतीतिः।

क्वचित् तु शुद्धत्वेनापि यथा—

“यत्रैता लहरीचलाचलदृशो व्यापारयन्ति ध्रुवं

यत् तत्रैव पतन्ति सन्ततममी मर्मस्पृशो मार्गणाः।  

तच्चक्रीकृतचापमञ्चितशरप्रेङ्खत्करः क्रोधनो

धावत्यग्रत एव शासनधरः सत्यं सदाऽऽसां स्मरः॥८९३॥”

अत्र योषितां भ्रूव्यापारदेशे1670 मार्गणपतनं कार्यंस्मरपुरोगामित्वं कारणं साधयति। कविप्रौढोक्तिविच्छित्वावा (चा)त्र चारुत्वम्।

अविनाभावेन यथा—

“आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति।

सन्तापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव॥८९४॥”

अत्र विद्युदिव वृष्टिं कामन्दकी प्रथममुपलभ्यमानाऽविनाभाववलेन मालत्यागमनं गमयति। अत्रोपमागर्भत्वेन चारुता॥६७॥

अथ विशिष्टवाक्यसन्निवेशोपेतानलङ्कारान् व्याचिख्यासुरादौ यथासङ्ख्यमाह—

सम्बन्धः प्राग् निबद्धानामर्थानामुत्तरैः क्रमात्।

शाब्दश्चार्थश्च यः सम्यक् तद् यथासङ्ख्यमिष्यते॥६८॥

प्राग् निबद्धानां प्रथमं निवेशितानामर्थानामभिधेयानामुत्तरैः पुरः स्थापितैरर्थैः सह क्रमाद् यथाक्रमं यः सम्यक् समीचीनः शाब्दः शब्दावसेयः, आर्थश्चार्थावसेयः सम्बन्धो योगविशेषस्तद् यथासङ्ख्यं नामालङ्करणमिष्यते मन्यते। तत्र शाब्दः सम्बन्धः पदगतो वाक्यगतश्चेति द्विधा1671। तत्र पदगतो यथा—

“एकस्त्रिधावससि1672 चेतसि चित्रमत्र देव! द्विषां च विदुषां च मृगीदृशां च।

तापं च संमदरसंचरतिं च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च॥८९५॥”

अत्र द्विपदादीनां तापादीनां शौर्योष्मादीनां च पदानां क्रमात् सम्बन्धः।

वाक्यगतो यथा—

“इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्कः स्तने

देयाद् वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः।

संवादः प्रणवेन यस्य दलता कायैकतायां तयो–

रूर्ध्वद्वारविचिन्तितेन च हृदि ध्यातस्वरूपेण च॥८९६॥”

अत्रेन्दुर्मूर्ध्नीत्यादि1673 वाक्यं शैलदुहितुरित्यादि वाक्यं च ऊर्ध्वद्वारेत्यादिना हृदीत्यादिना च वाक्यद्वयेन क्रमेणैव सम्बध्यते।

आर्थो यथा—

“तस्याः प्रवृद्धलीलाभिरालापस्मितदृष्टिभिः।

जीयन्ते वल्लकी-कुन्द-स्रगिन्दीवरसम्पदः॥८९७॥”

अत्रालापादिपदस्य वल्लक्यादिपदस्य च समुदायापेक्षया शाब्दोऽवयवापेक्षया तु समासन्यग्भूतत्वेन तेषामर्थानुगमपर्यालोचनादार्थः सम्बन्धः। केऽप्येनमलङ्कारं1674 क्रमसंज्ञमाहुस्तलक्षणेऽप्येषैव भङ्गिः।

केचित् तु भङ्ग्यन्तरमप्युदाहरन्ति। यथा—

“पायाद् वो रचितत्रिविक्रमतनुर्देवः स दैत्यान्तको

यस्याकस्मिकवर्धमानवपुषस्तिग्मद्युतेर्मण्डलम्1675

मौलौ1676 रत्नरुचि श्रुतौ परिलसत्ताडङ्ककान्ति क्रमा-

अत्र मौलिप्रभृतिषु तिग्मद्युतेः स्थानक्रमेण रत्नादिभिरौपम्यं निबद्धम्॥६८॥

अथ परिवृत्तिमाह—

सम–न्यूनाधिकानां तु यस्यां विनिमयो भवेत्।

अर्थैः समाधिक-न्यूनैः परिवृत्तिं गृणन्ति ताम्॥६९॥

यस्यां पुनरलङ्कृतौ समस्य तुल्यगुणस्य वस्तुनः समेन तुल्यगुणेनैव न्यूनस्य तुच्छगुणस्याधिकेनोत्कृष्टगुणेनाधिकस्य च न्यूनेन वस्तुना यो विनिमय एकस्य परित्यागादन्यस्योपादानं तां परिवृत्तिं नामालङ्कृतिं1677 गृणन्ति वदन्ति।

तत्र समस्य समेन यथा—

“प्रश्च्योतन्मदसुरभीणि निम्नगानां क्रीडन्तो गजपतयः पयांसि कृत्वा।

किञ्जल्कव्यवहितताम्रदानलेखैरुत्तेरुः सरसिजगन्धिभिः कपोलैः॥८९९॥”

अत्र मदामोदस्याम्भोजरजःसौरभेण तुल्येन विनिमयः।

न्यूनस्याधिकेन यथा—

“तस्य च प्रवयसो जटायुषःस्वर्गिणः किमिव(ह) शोच्यतेऽधुना?।

येन जर्जरकलेवरव्ययात् क्रीतमिन्दुकिरणोज्ज्वलं यशः॥९००॥”

अत्र कलेवरस्य न्न गुणस्य यशसोत्कृष्टगुणेन।

अधिकस्य न्यूनेन यथा—

“किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्?।
वद प्रदोषे स्फुटचन्द्र—तारके विभावरी यद्यरुणाय कल्पते॥ १०१॥”

अत्राभरणानामधिकगुणानां वल्कलेन न्यूनगुणेन।
अन्यदीयवस्तुनोऽपरत्र सञ्चरणरूपे व्यत्ययेऽपीयं दृश्यते। यथा—

“कुमुदवनमपाश्रि श्रीमदम्भोजखण्डं
त्यजति मुदमुलुकः प्रीतिमांश्चक्रवाकः।
उदयमहिमरश्मिर्याति शीतांशुरस्तं1678
हतविधिललितानां ही ! विचित्रो विपाकः॥९०२॥”

अत्र कुमुदवनादीनां श्रीप्रभृतिवस्त्वम्भोजखण्डादिषु1679 गतम्। क्वाप्युभयवत्यप्येषा। यथा—

“लोचनाधरकृतां गतरागा वासिताननविशेषितगन्धा।
वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं तु वितेने॥९०३॥”

अत्र प्रथमे पादे व्यत्ययो द्वितीये तु विनिमय इतीयमुभयवती॥६९॥

अथ परिसङ्ख्यामाह——

एकस्यानेकसम्बन्धसम्भवे यन्नि1680यन्त्रणम्।

एकस्मिन्नितरत्यागात् परिसङ्ख्यां तु तां विदुः॥७०॥

“एकस्य वस्तुनोऽनेकेन द्व्यादिवस्तुना सम्बन्धे सम्भवति इतरत् सर्वमपि परित्यज्य यदेकस्मिन् कस्मिंश्चिद् विविक्षिते वस्तुनि नियन्त्रणं नियमनं तां पुनः परिसङ्ख्यां विदुः स्मरन्ति कवीन्द्राः॥७०॥

अथास्या भेदानहि1681

अप्रश्नपूर्विका प्रश्नपूर्विका चेति सा द्विधा।
परित्याज्यस्य शाब्दत्वादार्थत्वाच्च चतुर्विधा॥७१॥

प्रश्नाभावपुरःसरा प्रश्नपुरःसरा चेति सा द्विधा। तस्यां च द्विरूपायामपि परित्याज्यं वस्तु क्वचित् शाब्दं शब्दप्रतिपादितं क्वचिच्चार्थमर्थगम्यमिति चतुर्विधा चतुष्प्रकारा। तत्राप्रनपूर्विका शाब्दव्यवच्छेद्या यथा—

“धेहि धर्मे धनधियं मा धनेषु कदाचन।

सेवस्व सद्गुरूपज्ञां शिक्षां मा तु नितम्बिनीम्॥९०४॥”

अत्र प्रश्नो नास्ति। ‘मा धनेषु’ इत्यादिषु1682 च शाब्दं व्यवच्छेद्यम्।

अर्थे परित्याज्या यथा—

“कौटिल्यं कचनिचये कर—चरणाधरदलेषु रागस्ते।
काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति॥९०५॥

अत्र प्रश्नो नास्ति। कौटिल्यादयो नान्यत्र हृदयादौ सन्तीति व्यवच्छेद्यं गम्यम्।

प्रश्न पूर्विका शाब्दव्यवच्छेद्या यथा—

“कोऽलङ्कारः सतां शीलं न तु काञ्चननिर्मितः।
किमादेयं प्रयत्नेन धर्मो न तु धनादिकम्॥९०६॥

अत्र क इत्यादिप्रश्नः। न तु काञ्चनेत्यादि शाब्दं व्यवच्छेद्यम्। आर्थव्यवच्छेद्या यथा—

“किमासेव्यं पुंसां सविधमनवद्यं द्युसरितः
किमेकान्ते1683 ध्येयं चरणयुगलं कौस्तुभभृतः।
किमाराध्यं पुण्यं किमभिलषणीयं च करुणा
यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति॥९०७॥

अत्र किमित्यादिः प्रश्नोऽस्ति नान्यन्नारीनितम्बादिकमित्याद्यार्थ व्यवच्छेद्यम्।

विलङ्घयन्ति श्रुतवर्त्म यस्यां लीलावतीनां नयनोत्पलानि।
बिभर्त्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः॥९०८॥”

इत्यादावस्याः श्लेषसम्पृक्तत्वमत्यन्तसौन्दर्यनिवन्धनम्॥७१॥

अथार्थापत्तिमाह—

प्रस्तुतादितरस्माच्च दण्डापूपिकया बलात्।

योऽर्था1684दर्थान्तरापातः साऽर्थापत्तिर्द्विधा मता॥७२॥

इह दण्डापूपयोस्तुल्या ‘तस्य तुल्ये कः संज्ञा—प्रतिकृत्योः’ [सिद्धहेम० ७।१।१०८] इति के प्रत्यये दण्डापूपिका नाम न्यायो यत्र मूषककर्तृकेण दण्डभक्षणेन1685 तत्सहचरितमपूपभक्षणमर्थात् सिध्यति तेन न्यायेन प्रस्तुतात् प्रकृतात्, इतरस्मा1686दप्रस्तुताच्चार्थाद् यः कश्चिद् बलात् कस्यचिदर्थान्तरस्याप्रस्तुतस्य प्रस्तुतस्य च यथासङ्ख्पमापात आगमनं साऽर्थापत्तिर्नामालङ्कृतिर्द्विप्रकारा मता स्मृता। तत्राद्यः प्रकारो यथा—

“पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः।
कमपरमवशं न विप्रकुर्युर्विमपि यदमी स्पृशन्ति भावाः॥९०९॥”

अत्रेश्वरवृत्तान्तः प्रकृत इतरजनवृत्तान्तमप्रकृत1687मर्थादाक्षिपति॥१॥

द्वितीयो यथा—

“धृतधनुषि1688 बाहुशालिनि शैला न नमन्ति यत् तदाश्चर्यम्।
रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु?॥९१०॥”

अत्र शैलवृत्तान्तोऽप्रस्तुतो रिपुवृत्तान्तं प्रस्तुतमर्थादाकर्षति।
क्वचिन्न्यायसाम्ये श्लेषनिर्दिष्टेऽप्येषा दृश्यते। यथा—

“अलङ्कारः शङ्काकरनरकपाल परिकरो1689
विशीर्णाङ्गो1690 भृङ्गी वसु च वृष एको गतवयाः।
अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो1691
विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी!॥९११॥”

अत्र विधौ वक्र इति श्लिष्टम्। अप्रस्तुतश्च स्थाणुवृतान्तः। दण्डापूपिका च वाक्यविदां न्याय इत्यस्या वाक्यप्रस्तावे भणितिः॥७२॥

अथ समुच्चयमाह—

कुर्वाणे कार्यमेकस्मिन् यत्रान्यदपि तत्करम्।

असत्—सदुभयावेशात् त्रिविधः स समुच्चयः॥७३॥

एकस्मिन् कस्मिंश्चित्1692 कार्यं कुर्वाणे साध्यं साधयति स्पर्धया यत्र किमप्यन्यदपि हेत्वन्तरं तत्करं भवति। तदेव कार्य प्रति साधकतया व्याप्रियते स समुच्चयः स चासतामशोभनानां सतां शोभनानामुभयेषां शोभनाशोभनानां च समावेशात् त्रिविधः। तत्राद्यो यथा—

“दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं
गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम्।
स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् कालः कृतान्तोऽक्षमी
नो सख्यश्वतुराः कथं नु विरहः सोढव्य इत्थं मया1693?॥९९२॥”

अत्र विरहपीडां स्मरमार्गणेषु कुर्वत्सु तदुपरि प्रियतमदूरस्थित्याद्युपात्तं पीडाकारित्वाच्च सर्वेषामशोभनानां योगः।

द्वितीयो यथा—

“कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी
भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम्।
प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो
व्रजति सुतरां दर्प राजंस्त एव तवाङ्कुशाः॥९९३॥”

अत्रामलकुलादीनां शोभनानां योगः।

तृतीयो यथा—

“शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः।
प्रभुर्धनपरायणः सृततदुर्गतः सञ्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे॥९९४॥”

अत्र शशिनः स्वतः शोभनस्यापि धूसरत्वादशोभनत्वमेवमुत्तरेषामपि। अत्र सहचरभिन्नत्वदोषव्युदासाय नृपश्च खलसङ्गत इति पाठः कार्यः। एकस्मिंश्च शशिनि शल्ये शल्यान्तरापातनम्1694॥७३॥

अस्यैव प्रकारान्तरमाह—

गुण—क्रियासमावेशो युगपद् यत्र सोऽपरः।

यत्र गुणानां क्रियाणां च व्यस्तानां समस्तानां वा गुण—क्रियाणां युगपदेककालं समावेशः सङ्गमो भवतीति त्रिभेदः। सोऽपरो द्वितीयः समुच्चयः। तत्राद्यो भेदो यथा—

“विदलितसकलारिकुलं तव वलमिदमाशु देव! विमलं च।
प्रखलमुखानि नराधिप!, मलिनान्येतानि जानानि॥ ९१५॥”

अत्र वैमल्य—मालिन्यगुणयोः समुच्चयः।

द्वितीयो यथा—

प्रतिगृहीतुं प्रणयिप्रियत्वात् त्रिलोचनस्तामुपचक्रमे च।
सम्मोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त वाणम्॥९१६॥

अत्रोपक्रम—सन्धानक्रिययोः।

तृतीयो यथा—

“न्यञ्चत्1695 कुञ्चितमुन्मुखं हसितवत् साकूतमाकेकरं
व्यावृत्तं प्रसरत् प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम्।
उद्भ्रु भ्रान्तमपाङ्गवृत्ति विकचं मञ्ञत्त्तरङ्गोत्तरं
चक्षुः साश्रु च वर्त्तते रसवशादेकैकमन्यक्रियम्॥९१७॥”

अत्रा केकरादयो गुणशब्दा न्यञ्च1696दित्यादयश्च क्रियाशब्दाः।

एकाधिकरणत्वेऽप्ययं दृश्यते। यथा—

“विभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं
शल्यं यद् विदधाति सा विधुरिता साधो! तदाकर्ण्यताम्।

शेते शुष्यति ताम्यति प्रलपति प्रम्लायति प्रेङ्खति

भ्राम्यत्युल्लसति प्रणश्यति दलत्युन्मूर्च्छति बुध्यति॥९१८॥”

अत्र क्रियासमुच्चयः। एवं गुणसमुच्चयोऽप्युदाहार्यः। केचित् पुनः सर्वपदस्थितेनोत्तरपदस्थितेन वा चकारेण द्योतितं समुच्चयमेव समुच्चयालङ्कारमाहुः। तत्र सर्वपदस्थितेन यथा—

“अप्राकृतः1697 स कथमस्तु न विस्मयाय?
यस्मिन्नुवास करुणा च कृतज्ञता च।
लक्ष्मीश्च साविकगुणज्वलितं च तेजो
धर्मश्चमान—विनयौ च पराक्रमश्च॥९१९॥”

उत्तरपदस्थेन यथा—

“रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकाशि।
चाटु चाकृतकसम्भ्रममासां कार्मणत्वमगमद् रमणेषु॥९२०॥”

अथ समाधिमाह—

समाधिः कार्यसौकर्यं हेत्वन्तरसमागमात्॥७४॥

केनचित् कर्तुमारब्धस्य कार्यस्य कारणान्तरसंम्पर्कात्1698 यत् सौकर्य सुकरत्वं समाधिर्नामालङ्कारः। यथा—

“मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः।
उपकाराय दिष्ट्येदमुदीर्ण1699 घनगर्जितम्॥९२९॥”

अत्र माननिराकरणे कार्ये पादपतनं हेतुस्तत्सौकर्यार्थं घनगर्जितस्य हेत्वन्तरस्य1700 निबन्धः। अयं च1701 समुच्चये नान्तर्भवति। तत्र हि कारणान्तरसमासो न तथाविधोपकारकृदेकस्यापि कार्यकारणसामर्थ्यादत्र तु कार्यसौकर्यादत्यन्तोपकारी॥७४॥

अथ वाक्यविशेषश्रितानलङ्कारान् लक्षयित्वा लोकन्यायाश्रितान् लिलक्षयिषुः प्रथमं प्रत्यनीकमाह—

प्रतिपक्षं प्रतिक्षेप्तुमशक्तौ तत्प्रशस्तये।

यस्तदीयस्तिरस्कारः प्रत्यनीकं तदीरितम्॥७५॥

विपक्षं बलाधिकतया निराकर्तुमसामर्थ्ये सति केनचित् तस्यैव विपक्षस्य श्लाघाहेतोस्तदाश्रितस्य यस्तिरस्कारस्तदनीकप्रतिनिधिभूताभियोगतुल्यत्वात् प्रत्यनीकमीरितं कथितम्। यथा—

“त्वं विनिर्जितमनोभवरूपः सा च सुन्दर! भवत्यनुरक्ता।
पञ्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादथ कामः॥९२२॥”

अत्र तदनुरक्तायाः कस्याश्चिन्मदनशरताडनात्1702 कामिनः सौभाग्यातिशयद्योतनम्॥७५॥

अथ प्रतीपमाह—

तत्1703 प्रतीपं यदाक्षेपः कैमर्थ्यादुपमानगः।1704

तिरस्काराय तस्यैव यच्च क्वाप्युपमेयता॥७६॥

उपमेयस्यैवोपमानकार्य—कारणसामर्थ्येन किमर्थमिदमित्याद्युक्तियोगादुपमानग उपमानाश्रितो यत्कश्चिदाक्षेप स्तिरस्कारविशेषस्तदेकं प्रतीपमुपमानं प्रत्युपमेयस्य प्रतिकूलत्वात्। यच्च क्वचिदुपमेयस्योत्कर्षमाधातुं तस्यैवोपमानत्वेन प्रतीतस्य तिरस्काराय निकारार्थमुपमेयता कल्पते। तद् द्वितीयं प्रतीपम्। तत्राद्यं यथा—

“लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव! त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा।
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो! मुधैव किममी सृष्टाः1705 कुलक्ष्माभृतः?॥२२३॥”

अत्र यथासङ्ख्यमप्यस्ति लावण्यौकसीत्यादिक्रमेणैव चेन्दुः किमित्यादीनां निवेशात्।

द्वितीयं यथा—

“ए! एहि1706 दाव सुन्दरि! कन्नं दाऊण1707 सुणसु वयणिञ्जं।

तुज्झ मुहेण किसोअरि1708! चंदो उवमिञ्जइ जणेण॥९२४॥”

अत्र वदनस्योत्कर्षाय चन्द्रस्य निकर्षाय चोपमानोपमेयत्वव्यत्ययः1709। क्वचित् पुनर्निष्पन्नमेवौपम्यमनादरकारणम्। यथा—

“गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे!1710

सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि॥९२५॥

अत्रोत्कर्षभाज उपमानप्रादुर्भाव1711 एव न्यत्कारकारणम्।

अनेन न्यायेना1712त्युत्कृष्टगुणत्वादुपमानमावमपि न सहते। तस्योपमानत्वकल्पनेऽपि प्रतीपमेव1713। यथा—

“अहमेव गुरुः सुदारुणानामिति1714 हालाहल1715! तात! मा स्म हृप्यः।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम्॥९२६॥”

अत्र हालाहलं प्रकृतं प्रकृष्टदोषत्वादसम्भाव्योपमान1716भावमप्युपमानत्वेन निबद्धम्॥७६॥

अथ मीलितमाह—

समानेनैव धर्मेण स्थितेनौत्पत्तिकेन वा।

वस्त्वन्तरेण यद् वस्तु गोप्यते मीलितं तु तत्॥७७॥

स्थितेन सहजेनौत्पत्तिकेन वा पश्चादुत्पन्नेन1717 समानेनैव1718 सदृशेनैव1719 केनचिद् धर्मेण वस्त्वन्तरेण किञ्चिद् वस्तु निगूह्यते। तत् पुनर्द्विर्विधं मीलितं नामालङ्कारः। तत्राद्यं यथा—

“अपाङ्गतरले दृशौ मधुरक्त्रवर्णा1720 गिरो

विलासभरमन्थरा गतिरतीच कान्तं मुखम्।

इति स्फुरितमङ्गके मृगदृशां स्वतो लीलयां

तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते॥९२७॥”

अत्र सहजेन दृक्तरलताऽऽदिना धर्मेणे1721 लीलया तादृग्धर्मो1722 मदोदयस्तिरोधीयते।

द्वितीयो यथा—

“ये कन्दरासु निवसन्ति सदा हिमाद्रेस्त्वत्पातशङ्कितधियो विवशा द्विषस्ते।
अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो! वत भियां न1723 बुधोऽप्यमिज्ञः ९२८”

अत्र सततोत्पन्नाम्यां कम्प-पुलकाभ्यां धर्माभ्यां हिमाद्रिकन्दरानिवासाव1724सेयेन शीतेन तादृग्धर्मान्वितं भयं तिरस्क्रियते॥७७॥

अथ सामान्यमाह—

प्रस्तुतस्य तदन्येन साधारणगुणाश्रयात्।

यत्रैकात्म्यं निबध्नन्ति तत् सामान्यं निगद्यते॥७८॥

साधारणान् तुल्यान् गुणानाश्रित्य प्रस्तुतस्य प्रकृतस्य तदन्येनाप्रस्तुतेन यत्र यस्मिन्नेकात्म्यमेकरूपतां निवघ्नन्ति कवयस्तत् सामान्यमित्यलङ्करणं कथ्यते।

यथा—

“मलयजरसविलिप्ततनवो नवहार1725लताविभूषिताः
स्मिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः।
शशभृति विततधाम्नि धवलयति घरामविभाव्यतां गताः
प्रियवसतिं प्रति यान्ति सुखमेव निरस्तमियोऽभिसारिकाः॥ ९२९॥”

अत्र ज्योत्स्नया सहाभिसारिकाणामन्यूनातिरिक्तघवलत्वेनैकात्मतानिबन्धः1726

यथा वा—

“वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि।
भृङ्गाः सहेलं यदि वाऽ(ना) पतिष्यन् कोऽवेदयिष्यन्नवचम्पकानि ?॥९३०॥

अत्र निमित्तान्तरजनितायामपि भेदप्रतीतौ प्रथमप्रतिपत्त्य मेदापेक्षयाऽयमलङ्कारः॥७८॥

अथ तद्गुणमाह—

तद्गुणः स्वगुणत्यागाद् योगेऽधिकगुणस्य यत्।
धत्ते तद्गुणतां वस्तु

आत्मनः सकाशादधिकगुणस्य वस्तुनः सम्बन्धे सति स्वगुणं परित्यज्य यत् किञ्चिद् वस्तु पदार्थस्तद्गुणतां तस्याधिकगुणस्य गुणं कान्त्यादिकं घत्ते गृह्णाति स तद्गुणालङ्कारः। यथा—

विभिन्नवर्णा गरुडाग्रजेन1727 सूर्यस्य रथ्याः परितः स्फुरन्त्या।
रत्नैः पुनर्यत्र रुचं रुचा स्वामानिन्यिरे वंशकरीरनीलैः1728॥९३१॥”

अत्र रविरथाश्वानामरुणवर्णस्वीकारस्तस्यापि गारुत्मतरत्नप्रभाऽङ्गीकार इति तद्गुणत्वम्। इह चानपह्नुतस्वरूपमेव प्रकृतं वस्तु वस्त्वन्तरगुणेनोपरक्ततया प्रतीयते। मीलिते तु प्रच्छादितत्वेनेति तस्मादस्य भेदः।

अथातद्गुणमाह—

नैव चेत् तदतद्गुणः॥७९॥

सम्भवन्त्यामपि योग्यतायां यद्यधिकगुणस्य वस्तुनो गुणं किञ्चिदप1729कृष्टगुणंवस्तु न कथञ्चित् स्वीकुरुते तदतद्गुणो नाम। यथा—

धवलो1730 सि जइ वि सुंदर ! तह वि तए मज्झ रंजिअं हिअयं।
रायभरिए वि हिअए1731 सुहय ! निहित्तो न रत्तो सि॥९३२॥”

अत्रोत्तरार्द्धेऽतिरक्तेनापि मनसा संयुक्तो न रक्ततां गत इत्यतद्गुणः। पूर्वार्द्ध तु विभावना \। कार्य—कारण भावविवक्षणाभावाच्च विषमादस्य भेदः॥७९॥

अथोत्तरमाद—

तदुत्तरं भवेद् यत्र प्रश्नोन्नयनमुत्तरात्।
असकृद् वा सति प्रश्ने यत्रासम्भाव्यमुत्तरम्॥८०॥

यत्रानुपनिबद्धस्यापि प्रश्नस्य निवद्धादुत्तरादुन्नयनमभ्यूहनं तदेकमुत्तरं पक्षधर्मताऽऽदेरनिर्देशादनुमानादस्य भेदः। यदि वा प्रश्नं सति यत्र किमप्यसम्भाव्यमुत्तरं भवति तद् द्वितीयमुत्तरम्। अनयोश्च सकृत्प्रयोगान्न तथाविधं चारुत्वमित्यसकृदित्युक्तम्। व्यवच्छेद्य—व्यवच्छेदकपरत्वाभा वान्नेयं1732 परिसङ्ख्या।

तत्राद्यं यथा—

“वाणिअय !1733 हत्थिदंता कत्ती अम्हाण वग्घकत्ती अ (य)।
जा विलुलिआलयमुही घरंमि परिसक्कए सुण्हा॥९३३॥”

अत्र हस्तिदन्त—व्याघ्रकत्तीर्मम मूल्येन प्रयच्छेति क्रेतृवचनमुत्तरवाक्यादुन्नीयते।

द्वितीयं यथा—

“का विसमा1734? दिव्वगई, किं लट्टं? जं जणो गुणग्गाही।
किं सोक्खं? सुकलत्तं, किं दुग्गिज्झं? खलो लोओ॥९३४॥”॥८०॥

अथ सूक्ष्ममाह—

ज्ञात्वाऽऽकारेङ्गितादिभ्यः सूक्ष्मोऽप्यर्थः प्रकाश्यते।
यद् वैदग्ध्येन केनापि तत् सूक्ष्ममिति लक्ष्यते॥८१॥

आकारादप्र[य]त्नकृताङ्गविकृतेरिङ्गितात्प्रयत्नकृत, चेष्टाविशेषादादिशब्दादन्यस्मात् तथाविधनिमित्ताद् विज्ञाय सूक्ष्मोऽपि स्थूलमतिदुर्लक्ष्योऽप्यर्थः केनापि कुशाग्रीयबुद्धिना केनचिद् वैदग्ध्येन यत् प्रकाश्यते तत् सूक्ष्ममित्यलङ्कारो लक्ष्यते।

तत्राकाराद् यथा—

“वक्त्रस्प (स्य)न्दिस्वेदबिन्दुप्रबन्धे दृष्टा (ष्टृा) भिन्नं कुङ्कुमं काऽपि कण्ठे।
पुंस्त्वं तन्व्या व्यञ्जयन्तीव तस्याः स्मित्वा पाणौ खङ्गलेखां लिलेख॥९३५॥

अत्र स्वेदभिन्नकुङ्कुमरूपेणाकारेण विज्ञाय पुरुषायितं पाणौ पुरुषोचितखङ्गलेखालेखनवैदग्ध्येन प्रकाशितम्।

इङ्गिताद् यथा—

“सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया।
हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्॥९३६॥”

अत्रं विदस्य सङ्केतकालाभिप्रायस्तत्सम्बन्धिना ध्रुत्क्षेपादिनेङ्गितेन ज्ञात्वा रजनिभाविना लीलापद्मनिमीलनेन प्रकाशितः॥८१॥

अथ व्याजोक्तिमाह—

व्याजोक्तिर्गोपनं यत्र व्याजादुद्भिन्नवस्तुनः।

निगूढस्यापि कुतश्चिन्निमित्तान्तरादुद्भिन्नस्य व्यक्तिमायातस्य वस्तुनो व्याजात्’ कुतश्चिदपदेशाद् यत्र निगूहनं सा व्याजोक्तिर्नामालङ्कृतिः। यथा —

“शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्—रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः।

हा ! शैत्यं तुहिनाचलस्य करयोरित्युचिवान् सस्मितं

शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद् वः शिवः॥९३७॥”

अत्र रोमाञ्चादिभिरुद्भिन्नो रतिभावः शैत्यापदेशान्निगूहितः। न चेयमपह्नुतिः प्रकृताप्रकृतनिष्ठस्प साम्यस्यासम्भवात्।

अथ स्वभावोक्तिमाह—

स्वभावोक्तिः पुनः सूक्ष्मवस्तुसद्भाववर्णनम्॥८२॥

न खलु वस्तुस्वरूपमात्रवर्णनमलङ्कारस्तेत्व सर्वत्राप्यलङ्कारप्रसङ्गात्। न हि वस्तुस्वरूपमात्रवर्णनेन शून्यं किमपि काव्यमस्तीति सूक्ष्मग्रहणम्। सूक्ष्मः कविमात्रागोचरो यो वस्तुनः सन् विद्यमानो भावः परिस्पन्दविशेषस्तस्य वर्णनं सुधासोदरया गिरा प्रकाशनं सा पुनः स्व मावोक्तिः। इयं व संस्थानावस्थान—वेष—व्यापारादिभिः स्वरूपैर्मुग्धाङ्गना—डिम्भ—तिर्यग्—नीचादिभिराश्रयैर्देश—काल—शक्ति—साधनादिभिश्च हेतुभिरनेकधा भिद्यते। दिग्मात्रं तूदाहियते।

तत्र संस्थानाश्रया स्वभावोक्तिर्यथा—

“स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुश्चित सव्यपादम्।
ददर्श चकीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्॥९३८॥”

अत्र धनुर्धर संस्थानमीद्दगेव स्यादिति।

मुग्धाङ्गनाश्रया यथा—

“सहिआहिं1735 भन्नमाणी थणए लग्गं कुसुंभपुष्फं ति।
मुद्धबहूआ हसिज्जह पप्फोडंती नहवयाई॥९३९॥”

तिर्यगाश्रया यथा—

“लौढ—व्यस्र—विपाण्डुराग्रनखयोराकर्णदीर्ण मुखं
विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नद्विपः।
एतस्मिन् मदगन्धवासितसटः सावज्ञतिर्यग्वलत्—
सृक्कान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः॥९४०॥”

देशाश्रया यथा—

“इमास्ता विन्ध्याद्रेः शुक—हरितवंशीवनधना
भुवः कीडालोलद्विरदरदनारुग्णतरवः।”

लताकुञ्चे यासामुपनदि रतक्लान्तशवरी—
कपोलस्वेदाम्भःपरिचयनुदो वान्ति मरुतः॥९४१॥

एवमन्याऽपि वेदितव्या॥८२॥

अथ भाविकमाह—

अत्यद्भुतत्वादव्यस्तसम्बन्धाद् भूत—भाविनाम्।
यत् प्रत्यक्षायमाणत्वं भाविकं तद् विभाव्यते॥८३॥

अत्यद्भुतत्वादलौकिकत्वादव्यस्तो मिथः साकाङ्क्षपदसन्निधिजनितो यः सम्बन्धः परस्परान्वयस्तस्माञ्च यद् भूत—भाविनामर्थानां प्रत्यक्षायमाणत्वं साक्षादनुभूय (त) कल्पत्वं तत् कवेर्भावोऽभिप्रायः स्फुटोऽत्रास्तीति भाविकं नामालङ्कारो विभाव्यते निरूप्यते। तच्च भूत—भाव्युभयार्थविषयत्वेन त्रिधा भवति।

तत्र भूतार्थविषयं यथा—

“संवृत्ते सुभगेष्टसङ्गमकथाऽऽरम्भे सखीभिः समं
प्राचीं काश्चन तां त्वया सह रहःक्रीडाऽनुभूतां दशाम्।
प्रेमावेशवशेन विस्मितमुखी साक्षान्मुहुः [कुर्वती]

किं किं सा न करोति कस्य न दृशोर्धत्ते च कौतूहलम्?॥९४२॥”

अत्रोक्तिवैचित्र्यादतीतार्थस्य प्रत्यक्षायमाणत्वम्।

भाव्यर्थविषयं यथा—

“अद्यापि [श्रवसी] न कुण्डलचले केलिक्वणत्कङ्कणौ
बाहू नापि न हारिहारवलयालुण्ठा च कण्ठावनिः।
अस्याः पश्य तथापि पङ्कजदृशो विश्वम्प्रियम्भावुकं
पश्यामः स्फुटताविभूषणकराभोगं वपुर्वैभवम्॥९४३॥”

अत्र कविप्रौढोक्तिवशाद् भाविनोऽप्यर्थस्य प्रत्यक्षायमाणत्वम्।

उभयार्थविषयं यथा—

“मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः।
येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्य—कच्छपौ॥९४४॥”

अत्र [हि] पूर्वमगस्त्यस्य पानाय समुद्रचुलुकीकरणकाले पुराणाभिप्रायेण मत्स्यावतारस्य संवृत्तत्वादतीतत्वेऽपि, कूर्मस्य चोत्पत्स्यमानत्वाद् भविष्यत्वेऽपि कविवर्णितमुनिज्ञात (न) माहात्म्यादुभयोः प्रत्यक्षत्वम्।

यथा वा—

“आसीदञ्जनमत्रेति तवोत्पश्यामि चक्षुषी।
भाविभूषणसम्भारां साक्षात् कुर्वे तवाकृतिम्॥९४५॥

अत्राद्येऽद्धे भूतस्य, द्वितीये भाविनोऽर्थस्य दर्शनम्।

“अन्ये तु यत्र गूढस्यापि वक्तुभावस्य [पद ] सन्निवेशवशादुद्भेदो भवति;तत्र भाविकमाहुः। यथा—

“निःशेषच्युतचन्दनं स्तनतटं निर्नष्टरागोऽधरो
नेत्रे दूरमनञ्चने पुलकिता तन्वी तथेयं तनुः।

मिथ्यावादिनि—”इत्यादि।

अत्र दूतीदुश्रेष्टितज्ञानस्य गुप्तस्यापि पदसंनिवेशादुद्भेदः॥८३॥

अथोदात्तमाह—

उदात्तं तत् तु यत् काममृद्धिच(म) द्वस्तुवर्णनम्।

यथास्थितवस्तुवर्णनावतः पूर्वस्यालङ्कारद्वयस्पारोपितैश्वर्य वस्तुवर्णनस्वरूपत्वेन विपक्षभूतं तत् पुनरुदात्तं नामालङ्कारो यत् काममतिशयेन ऋद्धिमतः कविप्रतिभोत्थापितसम्पदुत्कर्षयुक्तस्य वस्तुनः कस्याप्यर्थस्य वर्णनम्। यथा—

“उच्चीयन्ते स्म वेश्मन्यस (श) नविरहिते यत्नतः श्रोत्रियाणां
यत्र श्यामाकवीजान्यपि चटकवधूचञ्चु—कोटिच्युतानि।
यस्मिन् दातर्यकस्माच्चटुलबटुकरा—कृष्टमुक्तावचूल—
भ्रष्टास्तत्रैव दृष्टा युवतिभिरलसं घूर्णिता मुक्तिकौधाः॥९४७॥

अस्यैव भेदान्तरमाह—

चरितं च महापुंसः कुत्राप्यङ्गत्वमागतम्॥८४॥

महापुंसः कस्याप्युदाराशयस्य पुरुषस्य चरितं च वृत्तं कुत्राप्यङ्गिभूते वस्तुन्यङ्गत्वमङ्गतामागतमुदात्तालङ्कारः। यथा—

“तदिदमरण्यं यस्मिन् दशरथवचनानुपालन व्यसनी।
निवसन् बाहुसहायश्चकार रक्षःक्षयं रामः॥९४८॥
अत्रारण्यवर्णनस्य प्रकर्षाधायकत्वेन रामचरितमङ्गभूतम्॥८४॥

अपराङ्गरूपतासाधर्म्यादुदात्तानन्तरं रसवदादीन् लक्षयति—

रसा भावास्तदाभासा भावशान्त्यादयोऽपि वा।
यत्रात्मानं गुणीकृत्य धारयन्त्यपराङ्गताम्॥८५॥

अलङ्काराः क्रमात् तस्मिन् अमी कैश्चिदुरीकृताः।
रसावत्—प्रेय—ऊर्जस्वि—समाहितपुरःसराः॥८६॥

रसादयः पूर्वप्रतिपादितरूपाः सर्वेऽप्येते यत्र कचिदात्मानं गुणीकृत्यापरस्य रसादेरेवाङ्गतामवयवतां धारयन्ति तस्मिन् विषये इमे रसवत्—प्रेम—ऊर्जस्वि—समाहितादिनामानोऽलङ्काराः कैश्चिदलङ्कारकारैरूरीकृता अङ्गीकृताः। इह यद्यपि भावोदयादयोऽलङ्कारत्वेन नोक्तास्तथापि केनाप्युच्येरन् इत्यादिशब्द—पुरः—सरशब्दयोर्ग्रहणम्। रसो विद्यते यत्र तद् रसवन्निबन्धनम्। एवं प्रेयः—प्रभृतीन्यपि निबन्धनविशेषणानि। तत्र रसवद् यथा—

“किं हास्येन न मे प्रयास्यसि पुरः प्राप्तश्विराद् दर्शनं
केयं निष्करुण ! प्रवासरुचिता केनासि दूरीकृतः?।
स्वाप्नान्तेष्वपि1736 वो वदन् प्रियतमव्यासक्तकण्ठग्रहो
बुध्ध्वा रोदिति रिक्तबाहुबलयस्तारं रिपुस्त्रीजनः॥९४९॥”

अत्र शृङ्गारः करुणस्य, सोऽपि राजविषयरत्याख्यभावस्य।

        प्रेयो यथा—

“तद्वक्त्रामृतपानदुर्ललितया दृष्ट्या क्व विश्रम्यतां?
तद्वाक्यश्रवणाभियोगपरयोः श्रव्यं कुतः श्रोत्रयोः?।

एभिस्तत्परिरम्भनिर्भरतरैरङ्गैः कथं स्थीयतां
कष्टं तद्विरहेण सम्प्रति वयं कृच्छ्रामवस्थां गताः ?॥९५०॥”

अत्र चिन्ताविप्रलम्भस्य।

                   ऊर्जस्वि यथा—

“बन्दीकृत्य नृप! द्विषां मृगदृशस्ताः पश्यतां प्रेयसां
श्लिष्यन्ति प्रणयन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः।
अस्माकं सुकृतैर्दृशोर्निपतितोऽस्यौचित्यवारांनिधे !
विश्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे॥९५१॥”

अत्र रसाभाव (वा) भासौ प्रथम—द्वितीयार्धद्योत्यौ रत्याख्यभावस्य।

समाहितं यथा—

“अविरलकरवालकम्पनैर्भ्रुकुटीतर्जन—गर्जनैर्मुहुः।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणेक्षणात्॥९५२॥”

अत्र मदप्रशमो रत्याख्यभावस्य॥८६॥

इत्यलङ्कारानभिधाय तेषामन्योन्यसम्पर्कजनितमलङ्कारद्वयमिदानीं विवक्षुरादौ संसृष्टिमाह—

त एते यत्र सम्पृक्तास्तिल—तन्दुलवन्मिथः।
स्वातन्त्र्येणावतिष्ठन्ते संसृष्टिः साऽभिधीयते॥८७॥

सम्पर्को हि तिल—तन्दुलन्यायेन संयोगरूपः क्षीर—नीरन्यायेन च समवायरूपस्तत्र यत्र क्वचित् त एते प्रसिद्धि काष्ठों प्राप्ता अलङ्कारास्तिलतन्दुलवन्मिथः परस्परं सम्पृक्ताः सम्मिलिताः स्वातन्त्र्येण पृथक् पृथक् प्रतीयमाना अवतिष्ठन्ते सा संसृष्टिनामाऽलङ्कृतिः। यथा मणि—मुक्ता—सुवर्णादीनां पृथक् शोभाहेतुत्वेऽपि तत्सम्पर्कविशेषकृतं शोभान्तरमुन्मीलति तद्वदेतेषामपीत्यलङ्कारान्तरमेतत्। सा च शब्दालङ्कारसंसृष्टिरर्थालङ्कारसंसृष्टिरुभयसंसृष्टिश्चेति त्रिधा। तत्राद्या यथा—

“वदनसौरभलोभपरिभ्रमद्भ्रमरसम्भ्रमसम्भृतशो मया।
वलितया विदधे कलमेखलाकलकलोऽलकलोलदृशाऽन्यया॥ ९५३॥”

अत्रानुप्रास—यमकयोर्विजातीययोर्लकलोलकलोल इति कलोल कलोल इति सजातीययोः संसृष्टिः ।

द्वितीया यथा—

“पिनष्टीव तरङ्गाग्रैरुदधिः फेनचन्दनम्।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गना [ : ]॥९५४॥”

अत्र सजातीययोरुत्प्रेक्षयोर्यथा वा ‘लिम्पतीव तमोऽङ्गानि’ इत्यादि। अत्रोत्प्रेक्षोपमयोर्विजातीययोः।

तृतीया यथा—

“आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य।
पादाम्बुजं भवतु वो विजयाय मञ्जु मञ्जीरसिञ्जितमनोहर— मम्बिकायाः॥९५५॥”

अत्रानुप्रासोपमयोः पादाम्बुजमित्यत्र ह्युपमाया मञ्जीरसिञ्जितं साधकं प्रमाणं रूपकस्य तु प्रतिकूलमम्बुजे तस्याभावात्॥८७॥

अथ संङ्क1737रमाह—

स्वीकृत्य समवायाख्यं सम्बन्धं क्षीर—नीरवत्।
संसृज्यन्ते पुनर्यस्मिन् केऽप्यमी सैष सङ्करः॥८८॥

क्षीर—नीरन्यायेन समवायाख्यमयुतसिद्धानामाधार्याधारभूतानां य इहेति प्रत्ययहेतुः ‘सम्बन्धः स समवाय इति लक्षणलक्षितं तादात्म्यरूपं सम्बन्धमङ्गीकृत्य यस्मिन् यत्र पुनः केऽप्यमी पूर्वोक्ता अलङ्काराः संसृज्यन्ते संसर्गमनुभवन्ति स एष सङ्करो नामालङ्कारः॥८८॥

अथास्य प्रकारानाह—

तेषामङ्गाङ्गिभावेन संशयानुगमेन वा।
एकस्मिन् वाचके वाऽनुप्रवेशेन स च त्रिधा॥८९॥

स च सङ्करस्त्रिप्रकारस्तद्यथा—तेषामलङ्काराणामात्मन्येव विश्रान्तिमनाप्नुवतामङ्गाङ्गिभावेन परस्परमवयवावयाविस्वरूपेणेत्येकः। यथा—

“आत्ते सीमन्तचिह्ने मरकत (ति) नि ह (हृ) ते हेमताडङ्कपत्रे
लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते।
शोणं विभ्वोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये
राजन्! गुञ्जाफलानां स्रज इति शवरा नैव हारं हरन्ति॥९५६॥”

अत्र तद्गुणमाश्रित्य भ्रान्तिमानाविर्वभूव। भ्रान्तिमदुपष्टम्भेनैव च तदुणोऽपि चेतनचमत्कारीत्यनयोः परस्परमङ्गाङ्गिभावः।

यथा वा—

“रजोभिस्तुरगोत्कीर्णैर्गजैश्व घनसन्निभैः।
भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम्॥९५७॥”

अत्र परिवृत्तिरुपमाङ्गभूता।

शब्दालङ्कारविषयेऽप्येष कैश्चिदुदाहियते यथा—

“राजति तटीयमभिहत—दानव—रासातिपातिसारावनदा।
गजता च यूथमविरत—दान—वरा सातिपाति सारा वनदा॥९५८॥”

अत्राभिहतदानवरासेति शम्भुसम्बोधनम्। अत्र यमकानुलोम—प्रतिलोमयोः सङ्करः स चाङ्गाङ्गिभावरूपोऽत्र न युक्तः। शब्दालङ्कारयोर्मिथःसापेक्ष्य(क्ष)त्वाभावाद् वक्ष्यमाणस्त्वेकवाचकानुप्रवेशसङ्करो न विरुध्यते। तथा द्वयोः प्राप्तौ यत्रैकतरपरिग्रहे साधक—बाधकप्रमाणाभावः स संशयस्तस्यानुगमेन द्वितीयो यथा—

*“जह1738 गंभीरो जह रयणनिव्भरो जह य निम्मलच्छाओ।
ता किं विहिणा सो सरसवाणिओ जलनिही न कओ?॥९५९॥”

अत्र समुद्रे प्रस्तुते विशेषण1739साम्यादप्रस्तुतार्थप्रतीतेः किमसौ समासोक्तिः ? किमव्घेरप्रस्तुतस्य मुखेन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रति1740पत्तेरियम—

प्रस्तुत—प्रशंसेति सन्देहः। यत्र तु साधकं बाधकं वा प्रमाणमस्ति, तत्रैकतर परिग्रहस्तत्र साधकं यथा—

“रोहन्मूलातिगौरैरुरगपतिफणैरत्र पातालकुक्षौ
प्रोद्यवालाङ्कुरश्रीर्दिशि दिशि दशनैरेभिराशागजानाम्।
अस्मिन्नाकाशदेशे विकसितकुसुमा राशिभिस्तार काणां
नाथ! त्वत्कीर्तिबल्ली फलति फलमिदं विम्बमिन्दोः सुधाऽऽर्द्रम्॥९६०॥”

अत्र रोहन्मूलत्वादीनि विशेषणानि कीर्तिरेव वल्लीति रूपकसाधकानि कीर्तिर्वल्लिरिवेत्युपमां प्रति तु न साधकानि न च बाधकानि प्रतीयमानोत्प्रेक्षां प्रति रूपकस्याङ्गभावः।

बाधकं यथा—

“शरदीव प्रसर्पन्त्यां तस्य कोदण्डटात्कृतौ।
विनिद्रजृम्भितहरिर्वि (वें) ध्योदधिरजायत॥९६१॥”

अत्र विनिद्रजृम्भितहरिरिति साम्योक्तिरुपमाया बाधकं प्रमाणम्। “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ” [सिद्धहेम०३।१।१०२] इति वचनादुपमासमासाभावात्। तथा एकस्मिन्नभिन्ने वाचके वा पदे द्वित्राद्यलङ्काराणामनुप्रवेशेनावस्थानेनेति।

तृतीयो यथा—

“मुरारिर्निर्गता नूनं नरकप्रतिपन्थिनी।
तवापि मूर्ध्नि गङ्गेव चक्रधारा पतिष्यति॥९६२॥”

अत्र मुरारिर्निर्गतेत्यर्थश्लेषोद्भवाया उपमाया नरकप्रतिपन्थिनीति शब्दश्लेलेषोद्भवायाश्चैकस्मिन्निवशब्दे सङ्कीर्यमाणत्वादर्थालङ्कारसङ्करः।

शब्दार्थालङ्कारसङ्करो यथा—

“स्पष्टोच्छुमत्किरणकेसरसूर्यविम्बं विस्तीर्णकर्णिकमथे दिवसारविन्दम्।
श्लिष्टाष्टदिग्दलकलापमुखावतारबद्धान्धकारमधुपावालि सञ्चुकोच॥ ९६३॥”

अत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ॥८९॥
अथालङ्कारोपसंहारपूर्वं तद्दोषाभिधानं प्रतिजानीते—

____________________________________________________________________

इत परं पत्रस्याभावाद् व. पुस्तिकाऽपि विकला।

“लक्षिता इत्यलङ्काराःकाव्यसौन्दर्यहेतवः।
दोषास्तेषामिदानीं तु कांश्चिदप्यभिदध्महे॥९०॥”

इति पूर्वोक्तप्रकारेणालङ्कारा अनुप्रासोपमादयः कविताचारुत्वकारणभूता लक्षिता लक्षणोपेतत्वेन कथिताः।इदानीं सम्प्रति तेषां कांश्चिदपि दोषानुत्कर्षव्याहतिहेतूनभिदध्महे ब्रूमइति॥९०॥

अथानुप्रासदोपानाह-

प्रसिद्ध्यभावो वैफल्यं तथा वृत्तिविरुद्धता।
एतेऽनुप्रासमाश्रित्य दोषाःसङ्कीर्तितास्त्रयः॥९१॥

प्रसिद्धेः शास्त्रीयाया लौकिक्या वाऽभावोऽविद्यमानता।वैफल्यं निष्फलता तथा वृत्तीनामुपनागरिकाऽऽदीनां विरुद्धत्वमित्येते त्रयो दोषा अनुप्रासमाश्रित्य अनुप्रासविषये सङ्कीर्तिताः कथिताः।तत्राद्यो यथा-

“चक्रीचक्रारपङ्क्तिं हरिरपि च हरीन्धूर्जटिधूर्ध्वजान्ता-
नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूवराग्रं कुवेरः।
रंहः सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य
स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात् स्यन्दनोवः॥९६४॥”

अत्रकर्तृ-कर्मनैयत्येन स्तुतिरनुप्रासानुरोधेनैवकृता,न तु पुराणेतिहासादिषु तथा प्रतीतेति प्रसिद्धिविरोधः।

वैफल्यंयथा-

“स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाऽह्नायवः।
भिद्यादुद्यदुदारदु(द)र्दुरदरीदीर्घादरिद्रद्रुम-
द्रा(द्रो)होद्रेकमयोममेन्दु (-होर्मिमेदु) रमदामन्दाकिनीमन्दताम्॥९६५॥

अत्र वाच्यस्य न किञ्चच्चारुत्वमस्तीति निष्फलत्वमेवानुप्रासस्य।वृत्तिविरुद्धत्वं यथा—

“अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि! माम्।
कम्बुकण्ठ्याः क्षणे कण्ठे कुरु कण्ठार्तिमुद्धर॥९६६॥”

अत्र शृङ्गारोचितायामुपनागरिकायां परुषवर्णत्वं विरुद्धम्॥९१॥

अथयमकदोषमाह—

पादत्रयगतत्वेनयमकं नप्रयुज्यते।

पादत्रयाश्रितमेव यमकं न प्रयोक्तव्यम्।यथा—

“भुजङ्गमस्येवमणिःसदम्भा[ग्राहावकीर्णेवनदीसदम्भाः।
दुरन्ततां निर्णयतोऽपि जन्तोः कर्षन्ति चेतःप्रमुखैः सदम्भा[:]॥९६७॥”

अत्र तृतीयपादे यमकं नास्ति।

अथोपमादोषानुपक्रमते—

अथेदमुपमादोषजातंकिमपिकथ्यते॥९२॥

अथेत्यनुप्रासदोषानन्तरम्उपमाया दोषजातं दूषणवृन्दं किमपि स्तोकं कथ्यतेऽभिधीयते॥९२॥

अथदोषजातमेवाह—

जाति-प्रमाणयोर्न्यूनाधिकत्वमुपमानगम्।
धर्माश्रितोऽधिकन्यूनभावोऽप्यस्यां नसम्मतः॥९३

उपमानगमुपमानस्थितं जातेःप्रमाणस्यचन्यूनत्वमधिकत्वंच। तथाधर्माश्रितोधर्मसङ्ख्याविषयोऽधिकभावोन्यूनभावश्चास्यामुपमायांनसम्मतोनाभीष्टः।

तत्र जातिन्यूनत्वंयथा—‘चण्डालैरिवयुष्माभिःसाहसंपरमंकृतम्’। प्रमाणन्यूनत्वं यथा—‘वह्निस्फुलिङ्गइवभानुरयंचकास्ति।’

जात्यधिकत्वंयथा—

“अयंपद्मासनासीनश्च्क्रवाकोविराजते।
युगादौभगवान्वेधा विनिर्मित्सुरिवप्रजाः॥९६८॥”

प्रमाणाधिकत्वंयथा—

“पातालमिवनाभिस्ते स्तनौ क्षितिधरोपमौ।
वेणीदण्डः पुनरयं कालिन्दीपातसन्निभः॥९६९॥”

पशु-चण्डालादिभिरुपमानैर्न्यूनाधिकैरत्यन्तमनुचितैः प्रस्तुतोऽर्थः कामंकदर्थितः।

धर्माधिकत्वंयथा—

+1741“अहिणवमणहरविरइयवलयविहूसाविहाइनववहूआ।
कुन्दलयव्वसमुप्फुल्लगुच्छपरिलीणभमरगणा॥९७०॥”

अत्र भ्रमरगणस्याधिकत्वम्।

धर्मन्यूनत्वंयथा—

*1742

“संहयचक्कायजुआविअसिअकमलामुणालसंच्छन्ना।
वावीवहुव्वरोयणविलित्तथणयासुहावेइ॥९७१॥”

अत्रनेत्रवाहूपमानपदानिवधूविशेषणत्वेनाभिहितानि॥९३॥

अथास्यादूषणान्तरमाह—

दूषयत्युपमां भेदो लिङ्गस्य वचनस्य च।
यदि साधारणं धर्ममन्यरूपं करोत्ययम्॥९४॥

उपमोपमेययोर्लिङ्गभेदोवचनभेदश्चोपमांदूषयति। यदिसाधारणंसमानंधर्ममन्यरूपमन्यादृशमयंभेदःकरोति।तत्राद्योयथा—

“वापीवविमलंव्योमहंसीवधवलःशशी।
शशिलेखेवहंसोऽयंहंसालिरिवतेयशः॥९७२॥”

अत्रविमलत्वादिधर्मालिङ्गभेदान्नोभयानुगमक्षमाः।

द्वितीयो यथा—

“सरांसीवामलं व्योम काशा इव सितः शशी।
शशीव धवला हंसा हंसीव विशदा दिशः॥९७३॥”

अत्र वचनभेदादमलत्वादिधर्मा अप्येवमेव। यदि तु लिङ्गभेदेऽपि धर्माणामेकरूपत्वं तदा नदोषस्तस्योभयत्राप्यनुगमक्षमत्त्वात्।

यथा—

“तद्वेषः सदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः।
दधते स्म परां शोभां तदीया विभ्रमा इव॥९७४॥”

अत्र सदृश इति मधुरताभृत इति चेति धर्मा उभयानुगामिनः॥९४॥

अस्या एव दोषान्तरमाह—

भजतोऽस्यामसादृश्यासम्भवावपि नेष्टताम्।

तत्रासादृश्यं यथा—

“ग्रथ्नामि काव्य-शशिनं विततार्थरश्मिम्।”

अत्र काव्यस्य शशिनाऽर्थानां च रश्मिभिः सादृश्यं क्वापि न प्रतीतम्।

असम्भवो यथा—

“निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः।
जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽर्कात्॥९७५॥”

अत्र ज्वलन्त्यो वारिधाराः सूर्यमण्डलान्निपतन्त्यो न सम्भवन्ति।

अथास्या दूषणान्तरानङ्गीकारार्थमाह—

शक्यः कालादिभेदस्तु परिहर्तुं न कैश्चन॥९५॥

“अतिथिं नाम काकुस्थात् पुत्रमाप कुमुद्वती।
पश्चिमाद्यामिनीयामात् प्रसादमिव चेतना॥९७६॥”

इत्यादौ चेतना प्रसादमाप्नोति, न त्वापेत्यादि कालभेदः।

“प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता।
विभ्राजसे मकरकेतनमर्चयन्ती वालप्रवालविटपप्रभवा लतेव॥९७७॥”

इत्यादौ लता विभ्राजते न तु विभ्राजसे इत्यादि पुरुषभेदः।‘गङ्गेव प्रवहतु ते सदैव कीर्तिः।’ इत्यादौ गङ्गा प्रवहति, न तु प्रवहत्वित्यादि॥

विध्यादिभेदश्च यः केनाप्यरयां ह(प)रिहार्यत्वेनोक्तः, स न कैश्चन कोविदैरपि शक्यः परिहर्तुमुपमानोपमेययोः प्रयाणैककालमनुत्पत्त्यासम्बोधनाशीर्वादाविषयत्वेन च कवितायां निर्विषयताप्रसङ्गादिनाऽनुचितं परिहार्यत्वादभिधानम्॥९५॥

अथोत्प्रेक्षादोषमाह —

नोत्प्रेक्षां क्षमते वक्तुं यथाशब्द इवादिवत्।
तां समर्थयितुं नार्थान्तरन्यासोऽपि युज्यते॥९६॥

इवादिवत् ध्रुवं-शङ्के-मन्ये-प्रभृतयः शब्दा यथोत्प्रेक्षां वक्तुं क्षमन्ते, न तथा यथाशब्दस्तस्य सादृश्यमेव वक्तुं क्षमत्वात्। यथा—

“उद्ययौ दीर्घिकागर्भान्मुकुलं मेचकोपमम्।
नारीलोचनचातुर्यशङ्कासङ्कुचितं यथा॥९७९॥”

तथा तामुत्प्रेक्षां समर्थयितुमर्थान्तरन्यासाश्रयणमपि न युज्यते।सम्भावितत्वादतात्त्विकरूपवत्त्वेनाकाशकुसुमप्रायायां तस्यामर्थान्तरन्यासस्य भ्रमरसं- निवेशतुल्यत्वात्। यथा—

“दिवाकराद् रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम्।
क्षुद्रेऽपि नून शरणं प्रपन्न (न्ने) ममत्वमुच्चैःशिरसामतीव॥९८०॥”

अत्राचेतनस्य तमसः सूर्यात् त्रास इ(ए)व न सम्भवति।कुतस्तद्धेतुकमद्रिणा परित्राणम्?।सम्भावितेन तु रूपेण द्वयमपि किमप्यु [प]पादयितुं शक्यते। तत्समर्थनाय यत्नस्तु व्यर्थ इ(ए) व॥९६॥

अथसमासोक्तिमाह—

तुल्यैर्विशेषणैरेव प्रतीतपथचुम्बिनः।
प्रयोगश्चोपमानस्य समासो[क्तौ]न साम्प्रतम्॥९७॥

चकारः पूर्वसमुच्चये।विशेषणसाम्यादेवोपमानस्य प्रतीतौ तत्प्रयोगःसमासोक्तौ न युक्ततां चुम्बति,अधिकप्रसङ्गाद्। यथा—

“स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया\।
अतनुमानपरिग्रहया स्थितं रुचिरया चिरयायिदिनश्रिया॥९८१॥”

अत्र यथा तिग्मरुचः ककुभां च विशेषणसाम्यादेव नायकत्वप्रतीतिस्तथा निदाघदिनश्रियोऽपि प्रतिनायकप्रतीतिरस्त्येवेति दयिताशब्दप्रयोगो न युक्तः। एवमप्रस्तुतप्रशंसामुपमेयप्रयोगोऽपि नौचितीं चुम्बति। यथा—

“आहूतेषु विहङ्गमेषु मशको नायान्पुरो वार्यते
मध्ये वायुरिवाविशंस्तृणमपी(पि)धत्ते मणीनां धुरम्।
खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां
धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम्॥९८२॥”

अप्रभुभिवेत्युपमेयं विशेषणसाम्यादेव गम्यते।प्रयोगस्त्वस्य नोचितः॥९७॥

अर्थालङ्कारसमर्थनार्थमाह—

इत्यलङ्कारवैचित्र्यमुक्तमर्थाश्रये कियत्।
अनन्ता हि कवीन्द्राणां भङ्गीभणितयोऽद्भुताः॥९८॥

इत्यमुनापूर्वोक्तप्रकारेणार्थाश्रयणंवाच्यनिष्ठंकियदल्पमलङ्कारवैचित्र्यमुक्तमभिहितम्;सामस्त्येन वक्तुमशक्यत्वात्। हिर्यस्मात् कारणात्कवीन्द्राणामद्भूतालोकोत्तराभङ्गीभणितयोविच्छित्तिविशेषोक्तयोऽनन्ताःसङ्ख्यातीतावर्तन्ते।ताएवचालङ्कारास्ततश्चानन्त्यादेवैताःसर्वाअपिवक्तुंनशक्यन्तएवेत्यर्थइति॥९८॥

इत्थं दोषपराङ्मुखी गुणपरीरम्भैकसंरम्भिणी
नानाऽलङ्कृतिशालिनी रसपरिस्पन्दामृतस्यन्दिनी।
वक्त्रे वल्गति वाक्प्रसन्नमधुरा धाम्नीव सीमन्तिनी
तस्यैव स्वगुरोः प्रसीदति परं यत्रांहिपङ्केरुहम्॥९९॥

इत्यलङ्कारमहोदधौ अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः॥८॥


[ग्रन्थकार-प्रशस्तिः]

गच्छे हर्षपुरीये गुणसेवधिरभयदेवसूरिरभूत्।
मलधारीत्यभिधाऽन्तरमधत्त यः कर्णभूपकृतम्॥१॥

शिष्यस्तदीयोऽजनि हेमसूरिरपारविद्याऽर्णव-कर्णधारः।
श्रीसिद्धराजः किल यस्य वाचं वभार शेषामिव मूर्ध्नि शश्वत्॥२॥

तस्य भुवनप्रशस्यः शिष्यः श्रीविजयसिंहसूरिरभूत्।
आन्तरविरोधिकरिकुलविजये सिंहायितं येन॥३॥

श्रीचन्द्रसूरिस्तदनुप्रदत्तमनःप्रमोदोऽजनि कोविदानाम्।
सारस्व[त]श्रो(स्रो)तसि यस्य खेलन् केषां न हर्षाय यशो-मरालः?॥४॥

जज्ञे शमाम्बुनिधिरस्य पदेजनानामानन्दभूः स भगवान्मुनिचन्द्रसूरिः।
साम्यामृतं किमपि यत्र तदाऽऽविरासीद्यञ्जन्मिनां सपदि भावरुचोऽप्यहाहार्षीत्त्॥५॥

श्रीमुनीन्द्रप्रभोर्गच्छं गुणैस्तैस्तैरभूषयन्।
वक्षो मुक्ता इव स्त्रीणां श्रीदेवानन्दसूरयः॥६॥

जगन्मनः-कैरव-शीतरश्मिः श्रीमान्यशोभद्रगुरुस्ततोऽभूत्।
जाता तपस्यभ्यधिकैव कान्तिः किन्त्वस्य सिद्धान्तसुधामयस्य॥७॥

बभूव विद्या-भ्रमरी-सरोजं प्रभुः स देवप्रभसूरिरस्मात्।
प्रसादसौरभ्यमवाप्य यस्य मादृग्विधोऽप्येष सतां मुदेऽभूत्॥८॥

ततो गुणानामधिदैवतं परं जयन्त्यमी श्रीनरचन्द्रसूरयः।
यद्वाचि विन्यस्तभराऽद्य भारती विमर्ति ला(भा)सुखसङ्गमं चिरात्॥९॥

एते काव्यकलारहस्यमतुलं शिष्यप्रकाण्डेषु यद्
व्याचक्षुर्नरचन्द्रसूरिगुरवोवात्सल्यकल्लोलिताः।
तत् किश्चित् सुधियां चमत्कृतिकृते व्युत्पत्तये चात्मन-
स्तत्पादद्वयपङ्कजालिरलिखत् सूरिर्नरेन्द्रप्रभः ॥१०॥

समाप्तेयममलङ्कारमहोदधिटीका। एतस्याः प्रमाणं चेदम्—

नयन-वसु-सूर १२८२ वर्षे निष्पन्नायाः प्रमाणमेतस्याः।
अजनि सहस्रचतुष्टयमनुष्टुभामुपरि पञ्चशती ॥ ११ ॥

समाप्तेयं टीका। ग्रन्थाग्रं ४५००॥

<MISSING_FIG href=”../books_images/U-IMG-17304674351.JPG”/>

अथैतद्गतालङ्कारानुक्रमबीजकं यथा—

अतिशयोक्तिः २८ श्लेषः
सहोक्तिः २९ विरोधः
उपमा ३० असङ्गतिः
अनन्वयः ३१ विशेषोक्तिः
उपमेयोपमा ३२ विभावना
स्मरणम् ३३ विषमम्
संशयः ३४ समम्
भ्रान्तिमान् ३५ अधिकम्
उल्लेखः ३६ पर्यायः
१० रूपकम् ३७ विकल्पः
११ अपह्नुतिः ३८ व्याघातः
१२ परिणामः ३९ अन्योन्यम्
१३ उत्प्रेक्षा ४० विशेषः
१४ तुल्ययोगिता ४१ कारणमाला
१५ दीपकम् ४२ सारः
१६ निदर्शना ४३ एकावली
१७ प्रतिवस्तूपमा ४४ दीपकम्
१८ दृष्टान्तः ४५ काव्यलिङ्गम्
१९ अर्थान्तरन्यासः ४६ अनुमानम्
२० व्यतिरेकः ४७ यथासङ्ख्यम्
२१ विनोक्तिः ४८ परिवृत्तिः
२२ परिकरः ४९ परिसङ्ख्या
२३ समासोक्तिः ५० अर्थापत्तिः
२४ अप्रस्तुतप्रशंसा ५१ समुच्चयः
२५ पर्यायोक्तम् ५२ समाधिः
२६ आक्षेपः ५३ प्रत्यनीकः
२७ व्याजस्तुतिः ५४ प्रतीपम्

अलङ्कारानुक्रम-बीजकम्।

५५ मीलितम् ६३ भाविकम्
५६ सामान्यम् ६४ उदात्तम्
५७ तद्गुणः ६५ रसवत्
५८ अतद्गुणः ६६ प्रेयः
५९ उत्तरम् ६७ ऊर्जस्वि
६० सूक्ष्मम् ६८ समाहितादि
६१ व्याजोक्तिः ६९ संसृष्टिः
६२ स्वभावोक्तिः ७० सङ्करः

इति सप्तरलङ्कारा मुख्या भेदास्तु बहवः॥

<MISSING_FIG href=”../books_images/U-IMG-17304678272.JPG”/>

परिशिष्टम्।

भावदेवसूरिविरचितः

काव्यालङ्कारसारः।

श्रीसर्वज्ञं नत्वा काव्यालङ्कारसारसङ्क1743लनाम्।
वक्ष्ये सङ्क्षेपेण स्पष्टं वालावबोधाय॥१॥

इष्टानिष्टेषु तज्ज्ञानां प्रवर्तन-निवर्तनात्1744
काव्यं गुरु-सुहृत्-तुल्यंकार्यं1745श्रेयो-यशः-श्रिये॥२॥

शक्ति1746र्व्युत्पत्ति1747रभ्यास1748स्तस्य हेतुरिति त्रयम्।
सहजा देवता वाऽ(चा)पि प्रतिभा शक्तिरुच्यते॥३॥

व्युत्पत्तिः सा तु यच्छास्त्रे व्यवहारे च नैपुणम्।
पौनःपुन्यतया1749तत्तच्छिक्षाऽभ्यासः1750स उच्यते॥४॥

शब्दार्थौ च भवेत्काव्यं तौ च निर्दोष-सद्गुणौ।
सालङ्कारौसता1751मिष्टावतएत1752न्निरूप्यते॥५॥

इति श्रीभावदेवाचार्यविरचितेअलङ्कारसारे काव्य-फल-हेतुस्वरूपनिरूपणो नाम प्रथमोऽध्यायः॥१
———————

अथ द्वितीयोऽध्यायः।

शब्दो मुख्यो लाक्षणिको व्यञ्जकश्च त्रिधामतः।
वाचकापरपर्यायं मुख्यशब्दं विदुर्बुधाः॥१॥

शब्दस्यार्थोऽपीत्यभिधा-लक्षणा-व्यञ्जना1752भिधैः।
व्यापारैर्गम्यः1753स्याद्वाच्यो लक्ष्यो व्यङ्ग्यस्त्रिधा क्रमात्॥२॥

गङ्गायां घोष इत्यत्र गङ्गावाच्यमथो तटम्।
लक्ष्यं व्यङ्ग्यं पुनःशैत्य-पावनत्वाद्ययंक्रमः1754॥३॥

मुख्यार्थनिष्ठो यः शब्दव्यापारः साऽभिधा मता।
अभिधैव ह्यमुख्यार्थाऽन्यार्थगा लक्षणा भवेत्॥४॥

व्यञ्जनं व्यज्यते येनानुक्तं व्यङ्ग्यं पुनर्द्विधा।
गौणं मुख्यं च प्राक्काक्वाक्षिप्ताद्यमितरद्धनि॥५॥

रोमाञ्चाद्याङ्किता1755ङ्गित्वं वापीं स्नातुं गतासंखि1756!\।
न तु तस्यापमस्यान्ते रतं तेऽभूदितिध्वनिः॥६॥

अघटनेतोऽनुपयोगान्मुख्यर्थे बाधिते तदासत्या।
योऽन्यार्थागमोरूढेः प्रयोजनाद्वेति लक्षणा सोक्ता॥७॥

गङ्गायां घोषस्यानुपपत्त्याऽऽसत्तितस्तटावगमः।
यद्भवति लक्षणा सा प्रयोजनं पावनत्वादि॥८॥

कुशलस्या1757नुपपत्त्याकर्मणिकुशलस्य1758दक्षइतिरूढिः।
व्यङ्ग्येन सातु1759रहिता प्रयोजनं व्यङ्ग्यरहितं तु॥९॥

रामोऽस्मीत्यत्राख्यानुपयोगात् लक्ष्यते हि तदवस्था।
निर्वेदाद्यस1760मानं प्रयोजनं व्यङ्ग्यमेतत्तु॥१०॥

षड्भेदा लक्षणा प्रोक्ता शुद्धौ भेदौ तदादिमौ।
तथोपचारमिश्रास्तु चत्वारस्तन्निरूप्यते॥११॥

कुन्ता1761विशन्तीत्यादौ यःपराक्षेपः1762स्वसिद्धये।
परोपादानतःसाऽऽद्या1763स्मृतो1764पादानलक्षणा॥१२॥

गङ्गायां घोष इत्यादौ परार्थ स्वसमर्पणात्।
लक्षणाल्लक्षणा या स्यादसौ लक्षणलक्षणा॥१३॥

गुणतो गुणसारोपा गौर्वाहीको यथोच्यते।
गौरवायामितीयं तु गौणसाध्यवसानिका॥१४॥”

सम्बन्धात् शुद्धसारोपा घृतमायुरिदं यथा।
आयुरेवेदमित्येषा शुद्धसाध्यवसानिका॥१५॥

इति श्रीभावदेवाचार्यविरचितेऽलङ्कारसारे शब्दार्थस्वरूपनिरूपणो नाम द्वितीयोऽध्यायः॥२॥

_____

अथ तृतीयोऽध्यायः।

दुष्टं पदं श्रुतिकटु1765 स्यात्तथा च्युतसंस्कृति1766
शिथिला1767नुचितार्थे1768 च नेयार्थम1769समर्थकम्॥१॥

क्लिष्टं निरर्थकं ग्राम्यं सन्दिग्धं कथितं तथा।
विकृतं निहतार्थं च ‘चिरुर्द्धमतिकृत्तथा॥२॥

समाप्त-पुनरात्तंस्यादश्लीलं चाप्रयुक्तकम्।
अविमृष्टविधेयांशमथो पतत्प्रकर्षकम्॥३॥

स्यातामुपहत-लुप्तविसर्गेचविसन्ध्यथ।
कुसन्धि हतवृत्तं च स्यान्न्यूनमधिकं तथा॥४॥

अस्थानस्थपदं भग्नप्रक्रमं गर्भितं तथा।
अप्रसिद्धं च सङ्कीर्णमक्रमं वाक्यमप्यसत्॥५॥

श्रुतिककट्वेपकार्तार्थ्यभाजी त्वद्दर्शनादभूत्।
च्युतसंस्कृति तु च्छन्दो-लिङ्ग-लक्षण-दूषणात्॥६॥

शिथिलितं मुखाब्जश्रीरलं लोलाम्बकालिनी।
अनुचितार्थं च यद्यज्ञे सुभटाः पशुतां गताः॥७॥

नेयार्थं नेयसापेक्ष्यं न जलेऽलक्षि कालियः।
असमर्थं यथा हन्ति गत्यर्थं न समर्थयेत्॥८॥

क्लिष्टं व्यवहितार्थं यन्निरर्थं चादिपूरणात्।
ग्राम्यं तु कटि-गल्लाद्यं संन्दिग्धं याति खे खगः॥९॥

कथितं तीव्ररुक्तीव्रो विकृतं यद्वदैयरुः।
निहतार्थं1770 तु रागार्थे1771 शोणिते रुधिरार्थतः॥१०॥

उपहारस्त्वया देव्या[:]शोणितप्रसवैः कृतः।[षट्पदः]
विरुद्धमतिकृत्त स्यास्यादपराधीनता यथा।
समाप्त-पुनरात्तं स्यात्शङ्खाभा1772कीर्तिरिन्दुभा॥११॥

त्रिधाऽश्लीलमकल्याण-व्रीडा-गर्हाकरोक्तिभिः।
बाला मृतेव दृष्टोरुसाधना1773 प्रक्षरन्मला॥१२॥

अप्रयुक्तं तु पुल्लिङ्गस्यादृतिर्दैवते यथा।[षट्पदः।1774]
अविमृष्टविधेयांशं समासे क्वात्र तन्नृपः?।
पतत्प्रकर्षं हीनानुप्रासादित्वे यथोत्तरम्॥१३॥

उपहत-लुप्तविसर्गे वीरो धीरा1775घना जना भविका।
माले इमे विसन्धितु कुसन्धि वटवानयस्व घटम्॥१४॥

हतवृत्तं विच्छन्दः स्यात् स्वादूत्पलसुगंधमिह1776 नीरम्।
न्यूनं हृदि गुण-कजवनमधिकं स्फटिकाकृतिप्रतिभ1777म्॥१५॥

अस्थानस्थं सिता विश्वं कीर्तिस्ते व्याप पद्मवत्।
भग्नप्रक्रममर्केऽस्तं याते1778 यातो दिनोऽपि हि॥१६॥

गर्भितं खलसंसर्गं वदामि तव मा कृथाः।
अप्रसिद्धं रवः सिंहे दर्दुरे1779 कूजितं यथा॥१७॥

सङ्कीर्णं कुरु मां रौद्राद्1780देव!रक्ष दयां भयात्।
अक्रमं तु शशी हृद्यो1781वदनं दीयते1782ऽवते॥१८॥

अर्थदोष1783स्त्वपुष्टोऽर्थः कष्टो व्याहत एव च।
विरुद्धानुचित-ग्राम्य-सन्दिग्ध-पुनरुक्तकाः॥१९॥

अपुष्टो न विशिष्टो यः कष्टो दुःखावबोधकृत्।
व्याहतार्थं मिथो घाताद् विश्वीयस्त्वं रिपूनहन्॥२०॥

विद्यया च प्रसिद्धया च विरुद्धो द्विविधो यथा।
प्रतापो वर्ण्यते श्वेतः केतकी हरमूर्धनि॥२१॥

तथा सहचराचारविरुद्धोऽपि भवेद्यथा।
ध्वाङ्क्षाः सन्तश्च मन्यन्ते परस्यापि सुतं निजम्॥२२॥

शेषं सुगममन्वर्थात्क्वचिद्दोषोऽपि हास्यतः।
कवीनां समयात् श्लेषादुक्तो भवति सद्गुणः॥२३॥

इहोदाहरणस्यादौ ग्रन्थसङ्क्षेपमात्रतः।
यथाशब्दोऽप्रयुक्तोऽपि योज्यः पूर्व-परात् पदात्॥२४॥

इति श्रीभावदेवाचार्यविरचितेऽलङ्कारसारे शब्दार्थदोषप्रकटनो नामतृतीयोऽध्यायः॥३॥

अथचतुर्थोऽध्यायः।

पूर्वं हेयतया काव्ये दोषानाख्याय कांश्चन।
अथादेयतया केचिद्वर्ण्यन्ते साम्प्रतं गुणाः॥१॥

श्लेषः1784प्रसादः1785समता1786 माधुर्यं सुकुमारता।
अर्थव्यक्तिरुदारत्वमोजः-कांन्ति-समाधयः॥२॥

श्लेषःसुश्लिष्ट1787वर्णत्वं यथा श्रव्यं गुरोर्वचः।
प्रसादः स्फुटरूढार्थो यशःकुन्देन्दुसोदरम्॥३॥

समता समवर्णत्वं मुखं स्मितसितद्युति।
माधुर्यं1788 श्रुति-हृत्प्रीति गिरस्ते दुग्धवन्धवः॥४॥

सौकुमार्यं तु लालित्यं नीरसोऽयं पुनस्तरुः।
अर्थव्यक्तिः1789 समग्रार्थो1790 हरिः पातु श्रियः पतिः॥५॥

औदार्यं तु विदग्धोक्तिः क्वार्थिनस्त्वयि दातरि?।
ओजोऽल्पवर्णैः प्रौढोक्तिर्धर्मस्तेऽसौ जगज्जयी॥६॥

कान्तिः1791 सर्वजनस्येष्टं जन्ममेऽद्य त्वदीक्षणात्।
समाधिरर्थमाहात्म्यं पद्मोन्मेषः प्रभोदयः॥७॥

माधुर्यौजः-प्रसादाख्यास्त्रय एव गुणाःपरैः।
ख्यातास्ते तन्मते शेषा एष्वेवान्तर्भवन्ति1792 ते॥८॥

शोभाऽभिमा(1793धा)न-हेतु-प्रतिषेध-निरुक्ति-युक्ति1794-कार्याख्यम्।
सिद्धिश्च काव्य-नृपतेर्लक्षणमिदमुत्तमं प्राहुः॥९॥

शोभा दोषनिषेधात्मा यत्र त्वं स शुभः कलिः।
अभिमा(धा)नस्तु वस्तूहश्चन्द्रश्चेत्1795तीव्रता कथम्?॥१०॥

हेतुस्त्य1796क्तान्यदेकोक्तिर्नेन्दुर्नार्कोगुरुर्ह्यसौ।
प्रतिषेधो न युद्धेन त्वं भ्रुवैवाजयः परान्॥११॥

निरुक्तं त्वीदृशैव1797 तौ जाने दोषाकरो भवान्।
युक्तिर्वैशिष्ट्यमब्दस्त्वं नवो यद्हेम वर्षसि॥१२॥

कार्यं फलोक्तिः स्त्रीमानच्छेदायेन्दुरुदेत्यसौ।
सिद्धिः1798 ख्यातेषु तुल्याख्याऽब्धिर्जलैस्त्वं बलैर्महान्॥१३॥

इति श्रीभावदेवाचार्यविरचितेऽलङ्कारसारे गुणप्रकाशनो नामचतुर्थोऽध्यायः॥४॥
————————

अथपञ्चमोऽध्यायः।

स्याद्वक्रोक्तिरनुप्रासो यमकं श्लेष इत्यपि।
चित्रं पुनरुक्तवदाभासः शब्देष्वलङ्कृतिः॥१॥

वक्रोक्तिः श्लेष-काकूभ्यां श्लेषे केनेदृशी तव?।
निर्मिता दारुणा बुद्धिर्न सा दारुमयी क्वचित्॥२॥

काक्वा तुगुरु1799निघ्नत्वात् विदेशं गन्तुमुद्यतः।
कोकिलारावमधुरे समये नेष्यति प्रियः॥३॥

वर्णसाम्यमनुप्रासः छेकगोलाट1800गोद्विधा।
आद्येव्यञ्जनसादृश्यं सकृदन्यत्र भूरिशः॥४॥

अत्रोदाहरणे देव! केवलालोकभास्वते।
तुभ्यं नमोऽस्तु कन्दर्पसर्पदर्पगरुत्मते॥५॥

तत्पदाख्योऽपि लाटानामनुप्रासो भवेद्यथा।
तपसा किं सरागश्चेत्तपसा किं स नो यदि?॥६॥

यमकं यत्र वर्णानां सदृशानां पुनःश्रुतिः।
श्लोकार्ध-पद-पादानामावृत्यातदनेकधा॥७॥

विपदन्तपदं तत्वंदेहि नः कमलानन!।
केवलं केवलं त(य)त्र देहिनः कमलानन!॥८॥

स श्लेषो यत्र भिन्नार्थाः शब्दाःश्लिष्य1801न्त्यभिन्नवत्।
पृथुकार्तस्वरस्थानंगृहंतेमेऽधुनाविभो!॥९॥

चित्रं मरु(मुर)जबन्धादिखड्ग1802-चक्रातपत्रगम्।
विचित्रमुदितं1803तत्र पद्मबन्धगतं यथा॥१०॥

दक्षत्वदहना1804मन्ददत्तानन्द!दयास्पद!।
दरोद्भेद दवाम्भोद ! दद्यादमद1805! मे मुदः॥११॥

न-णौ ड-लौ ब-वावेकौर1806-लावप्यस्वरौमतौ1807
स्वच्छाविदुः1808स्वसंयोगे यमके श्लेष-चित्रयोः॥१२॥

पुनरुक्त1809वदाभासः पुनरयमिह पुनरुक्तसदृशता यत्र।
यस्य सदा न त्यागो नतदन्तः1810सुमनसो विबुधाः॥१३॥

इतिश्रीभावदे1811वाचार्यविरचितेऽलङ्कारसारे शब्दालङ्कारनिर्णयोनामपञ्चमोऽध्यायः॥५॥

अथ षष्ठोऽध्यायः।

उपमोत्प्रेक्षा-रूपक-जाति-व्यतिरेक-दीपकाक्षेपाः।
अप्रस्तुतप्रशंसा विभावना-ऽर्थान्तरन्यासः॥१॥

व्याजस्तुतिः समाधिः परिवृत्तिस्तुल्ययोगिता श्लेषः।
वक्र1812-व्याज-विना-सह-पर्यायस्तदुक्तयःपञ्च॥२॥

हेतु-विरोधासङ्गति-दृष्टान्त-समासमतिशयात्युक्ती।
भ्रान्ति-स्मृति1813-सन्देहापह्नु1814र्विषम-दैवकोत्तरदात्ता॥३॥

सारान्योन्य-समुच्चय-कारणमाला-ऽऽशिषोयथासख्यम्।
तद्गुण एकावलिका रसवत् प्रेयश्च परिसङ्ख्या॥४॥

सूक्ष्मोल्लेख-विशेष-प्रतीप-संसृष्टि-भाविक-प्रमुखाः।
बहवोऽर्थालङ्काराःस्वभाव-वक्रोक्तिभेदाभ्याम्॥५॥

कीर्तिता इत्यलङ्कारास्तेषां लक्षणमुच्यते।
लक्ष्यं च केषुचित् सार्थात् केषु नाम्नैव लक्षणम्॥६॥

साम्यमुपमा बहुविधा लुप्त-प्रकटेव वद्यथानाभि1815
शब्दैः साम्यार्थैरपि यथा शशीवास्या1816भातिमुखम्॥७॥

अनन्वया शशीवेन्दुः प्रतीपो मुखवच्छशी।
प्रतिवस्तूपमा चन्द्रे ज्योत्स्ना हृद्या मुनौ क्षमा॥८॥
अन्योन्या तु शशीवास्यमस्या वदनवच्छशी।[षट्पदः]

कल्प-तुल्य-सुहृद्-बन्धु-स्पर्द्ध-द्वेषि-विडम्बिनः।
संवादि-प्रतिबिम्बाद्याःशब्दाःसादृश्यसूचकाः॥९॥

सम्भावनमुत्प्रेक्षा मन्ये शङ्के किल ध्रुवं प्रायः।
इवशब्दश्चात्र यथा गिरिः क्षितेर्मानदण्ड इव॥१०॥

गूढोत्प्रेक्षा तुसा1817न स्याद्यत्रेवाद्युपलक्षणम्।
त्वत्कीर्तिर्भुवनभ्रान्तिश्रान्ता स्वर्गापगामगात्॥११॥

उपमित्युपमेयैक्यं रूपकमास्येन्दुरु1818दयतेऽस्य पुरः।
रूपितरूपकमेषाऽङ्गयष्टिः कोदण्डवल्लीति॥१२॥

स्वभावकथनं जातिर्मुग्धास्योऽस्पष्टवाक्पुरः।
मातुः कराङ्गुलीलग्नः शिशुर्याति स्खलद्गतिः॥१३॥

व्यतिरेको विशेषो यदौपम्य1819स्योपमानतः।
मुखं ते चन्द्रवत्सौम्यं न तु मालिन्यदूषितम्॥१४॥

प्रकृतेतरधर्माणांतुल्यत्वे सति दीपकम्।
उरः सत्या अहे रत्नं जीवतो न हि गृह्यते॥१५॥

आक्षेपो विविध[:]त्वे1820 (स्वे)नोक्तस्य युक्त्या निषेधनात्।
सुधे! प्रकटयात्मानमथवाऽस्ति सतां वचः॥१६॥

अप्रस्तुतप्रशंसा स्याद्यत्रासौ प्रस्तुतानुगा।
स्थलीषु सुलभाहारा जीवन्तिहरिणाः1821सुखम्॥१७॥

प्रसिद्धहेत्वभावेऽपि फलव्यक्तिर्विभावना\।
कम्पते पवनासङ्गं विनाऽप्येषा सरोजिनी॥१८॥

भवेदर्थान्तरन्यासोऽर्थान्तरं प्रस्तुतानुगम्।
अस्तं प्रयाति सूरोऽपि दैवं हि बलवत्तरम्॥१९॥

व्याजस्तुतिर्मुखे निन्दा स्तुतिश्चार्थो1822ऽन्यथापुनः।
किं ज्ञानंतव1823यच्चित्तेनान्तरं1824शत्रु-मित्रयोः॥२०॥

समाधिः कुर्वतः कार्यंसुकरत्वं विधेर्वशात्।
दिष्ट्या मे गच्छतो ग्रामं जज्ञे सुशकुनोदयः॥२१॥

परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः।
दत्त्वा घातं द्विषामेषो यशोऽगृह्णाच्चिरार्जितम्॥२२॥

तुल्यत्वे सत्यनेकस्य क्रियाऽऽद्यैस्तुल्ययोगिता।
विकसन्ति सरोजानि प्रातर्दातृमुखानि च॥२३॥

एकं रूपमनेकार्थं यत्र सश्लेष उच्यते।
वृत्तरम्यो जनं राजा प्रीणाति मृदुभिः करैः॥२४॥

वक्रोक्तिः प्रिय! तत्रास्यमत्रेन्दुरपि तापकृत्।
व्याजोक्तिर्गोपनं दष्टः सखि! भृङ्गेणमेऽधरः॥२५॥

विनोक्तिः स्याद्यथा भाति न विना शशिना निशा।
सहोक्तिः स्याद् यथा रात्रिर्विलीना सह चिन्तया॥२६॥

पर्यायोक्तिर्यत्र कार्यं भङ्ग्यन्तरत उच्यते।
अनञ्जितदृशश्चक्रे1825स राजा द्वेषियोषितः॥२७॥

हेतुश्च मलयोद्भूतः प्रीणाति पवनो जनम्।
विरोधः त्वद्यशःशुभ्रमास्यं1826कृष्णं व्यधाद्द्विषाम्॥२८॥

असङ्गतिरसौ यत्र कार्यमन्यत्र कारणात्।
प्रतापस्त्वयि राजेन्द्र! दाहस्तु हृदि विद्विषाम्॥२९॥

दृष्टान्तोऽयं यथा दृष्टे त्वयि हृष्यति मे मनः।
विकसत्येव कुमुदमालोके शीतदीधितेः॥३०॥

समासोक्तिरभिप्रेत्य किञ्चित्तत्सदृशाभिधा।
पश्य प्रतीच्यां यातेऽर्के प्राच्या कृष्णं मुखं कृतम्॥३१॥

अतिशयोक्तिस्त्वत्कीर्तिर्नरेन्द्र! भुवनातिगा।
अत्युक्तिस्तव दानेन जाताः कल्पद्रवोऽर्थिनः॥३२॥

भ्रान्तिर्मुक्ताभ्रमं ज्योत्स्ना गुञ्जासु जनयत्यसौ।
स्मृतिस्तु शशिनं दृष्ट्वा यूना तस्याः स्मृतं मुखम्॥३३॥

सन्देहः किमिदं वक्त्र? किं वेन्दुरिति संशयात्।
अपह्नुतिरयं1827नेन्दुरिमा अङ्गारवृष्टयः॥३४॥

विषमो दैवकं यस्मिन्ननौचित्यं च वर्ण्यते।
क्व तपः कर्कशं क्वेदं सुकुमारं वपुस्तव!॥३५॥

दवभीत्या वनं हित्वा लीलासरसि पद्मिनी।
तत्र दग्धाहिमे1828नालेऽसौ(साऽ)वश्यं भावि दैवकम्॥३६॥

किं सार धर्म इत्यादि स्यात् प्रश्नोत्तरमुत्तरम्।
उदात्तं1829धीरवृत्तं यत् कर्णो वर्माप्यदान्मुदा॥३७॥

सारः सारं धनंयस्य1830दानं तत्र प्रियं वचः।
अन्योन्यंच1831यथा भाति गुणैरात्माऽऽत्मना गुणाः॥३८॥

समुच्चयो वपुर्नम्रं मिता वाग्धीस्तता सताम्।
कारणाली श्रियो धर्माद्धर्मो न्यायान्नयःश्रुतात्1832॥३९॥

आशीराशीर्वचः ख्यातं चिरं जीवन्तु सञ्जनाः।
यथासंख्यं यतिर्गेही राजते क्षमया श्रिया॥४०॥

तद्गुणो यमुनौधेऽपि श्वेता एव सितच्छदाः।
गृहीत-मुक्त-रीत्युक्तैःपदैरेकावली-भवेत्॥४१॥

रसवत् तु रसोत्कर्षात् विश्वे(श्वं)पश्यामि तन्मुखम्।
प्रेयोऽतिहर्षभावोक्तिस्त्वमेव मम जीवितम्॥४२॥

परिसङ्ख्या तु वस्तूक्तिरेकत्रान्यत्र वर्जनात्।
पुरेऽस्मिन्कुमणो त्रासः तापः स्वर्णे जने न तु॥४३॥

सूक्ष्मः परस्मिन्सङ्केतज्ञापनायेङ्गितं तु यत्।
इष्टं दृष्ट्वा जनं छेका लीलापद्मं न्यमीलयत्॥४४॥

उल्लेखोऽयं यदेकस्यानेकधा प्रतिभासनम्।
सूरो युधि नये1833 सोमो बुधः शास्त्रे विभो1834! भवान्॥ ४५॥

विशेषोक्तिस्तु कार्यस्याकथनं यत्र सत्यपि।
कारणौ1835घेयथा कामः कामं दग्धोऽपि शक्तिमान्॥ ४६॥

प्रतीपमुपमायां1836यदुपमेयप्रकृष्टता।
खला यदि विषं व्यर्थं सन्तश्चेदमृतेन किम्?॥४७॥

संसृष्टिर्यत्रालङ्कारभेदाभेदेन भूरिशः।
लिम्पतीव तमोऽङ्गानि खलसेवेव दृग्वृथा1837॥ ४८॥

भाविकं यत् स्फुटा(टी) कारो भावना (वानां) भूत-भाविनाम्।
अच्छ1838त्रोऽप्येष सच्छत्रैरिव संलक्ष्यते वटः1839॥४९॥

इति1840 श्रीभावदेवाचार्यविरचितेऽलङ्कारसारेऽर्थालङ्कारद्योतनो नाम षष्ठोऽध्यायः॥ ६॥

अथ सप्तमोऽध्यायः।

चतुरन्तैः पाञ्चाली सप्तान्तैः समसितैः पदैर्लाटी।
अष्टाद्यैर्गौडी पुनरसमस्त1841पदा तु वैदर्भी॥ १॥

इति रीतयश्चतस्रः काव्ये श्लिष्टाक्षरा1842 तु वैदर्भी।
गौडी कोमलबन्धा क्रमेण चासामुदाहृतयः॥ २॥

वादयति विततवाद्यं भरतो1843दिततार1844चारुपाञ्चाली।
नृत्यति कृतजननयनामृतरसभरनिर्भरं लाटी॥ ३॥

गायति मदकलपिककुलगलविमलालापकोमलं गौडी।
भक्त्या जिनस्य पुरतः स्तुतिं विधत्ते तु1845 वैदर्भी॥ ४॥

माधुर्यानुप्रासौ गौडेऽध्वन्योज एव वैदर्भे।
प्रायोऽल्पवाच्य-शब्दानुप्रासपरा1846पुनर्लाटी1847॥५॥

इति1848 श्रीभावदेवाचार्यविरचितेऽलङ्कारसारे रीतिस्वरूपप्ररूपणो नाम सप्तमोऽध्यायः॥७

______

अथाष्टमोऽध्यायः।

गुणालङ्कारकलितमपि काव्यं रसेन सत्।
विभावैरनुभावैश्च भावैः स च विजृम्भते॥१॥

विभावः कारणं कार्यमनुभावो यथा रसे।
आधे विभावो वध्वादिः कटाक्षाद्योऽनुभावकः॥२॥

नारी-विदूषक-सुदुःखित-शत्रु-सत्त्व-
भूयिष्ठ-सिंह-शब-वेषकरर्षि-मुख्याः।
ज्ञेया रसेषु नवसु क्रमशो विभावा-
स्तेष्वेव सम्प्रति पुनः शृणुतानुभावान्॥३॥

लीला-कटाक्ष-कुत(तु)केङ्गित-दैन्य-सिंहा-
वष्टम्भ-नाद-कुथिताभिनय-प्रसादात्।
रीत्याऽनयैतदवरेऽपि सुधीभिरुह्या
दिग्मात्रमेतदुदितं हि मतिप्रवृत्यै॥४॥

भाव [:] स्थायी व्यभिचारी तत्र रत्यादयः क्रमात्।
शृङ्गारादिरसानां स्युः स्थायिभावाः सहायकाः॥५॥

निर्वेदाद्यास्त्रयस्त्रिंशद् भावास्तु व्यभिचारिणः।
विभावाद्यैरिमैव्यङ्ग्यनिष्ठेऽर्थे व्यज्यते रसः॥६॥

काव्यस्याङ्गं शब्दगुम्फोऽपदोष-

स्तत्रात्मार्थः सद्गुणो दिव्यरूपम्1849

तेऽलङ्कारा भूषणानि ध्वनिः सत्

ज्योतिर्विश्वाह्लादकत्वं रसश्च॥७॥

आचार्यभावदेवेन प्राच्यशास्त्रमहोदधेः।
आदाय साररत्नानि कृतोऽलङ्कारसङ्ग्रहः॥८॥

इति श्रीकालिकाचार्यसन्तानीयश्रीभावदेवाचार्यविरचितेऽलङ्कारसारे भावाविर्भावो (वनो) नामाष्टमोऽध्यायः समाप्तः॥८॥
.

<MISSING_FIG href=”../books_images/U-IMG-17308706246.11.JPG”/>

अलङ्कारमहोदधि- व्याख्यायामुपयुक्तानाम् ऐतिहासिकनाम्नां सूची।

<MISSING_FIG href=”../books_images/U-IMG-17291612104.JPG”/>

ऐ. नाम ऐ. नाम
अगस्त्य आशाराज
अङ्गराज इन्द्रसूनु
अत्रि ईक्ष्वाकु
अन्धक उमा
अन्धकसूदन उमाधव
अन्ये (अपरे) उर्वशी
अभयदेव सूरि ऊ(औ)ण्ड्री
अभिज्ञानशाकुन्तल ककुत्स्थ
अभिधानकोश कच्छमू
अभिनवगुप्त कणाद मुनि
अभिमन्यु कपाल
अम्बिका कय्यट
अर्जुन कर्ण
अर्जुनचरित कर्ण भूप
अलङ्कारकार कर्पूरमञ्जरी
अलङ्कारमहोदधि कविवरौ (व्यास–वाल्मीकी)
अवन्ती काकुत्स्थ
अश्वलक्षण
अस्मन्मतम् कादम्बरीकथा
अस्माकम् कामशास्त्र
अस्माभिः कार्णाटी
आगम कार्तवीर्य
आनन्दवर्द्धन कार्तिकेय
ऐ. नाम ऐ. नाम
कालरात्रि कौशिक
कालिक (नाग) कौस्तुभभृत्
कालिन्दी खर
काव्यालङ्कार सूत्र गङ्गा
कुत्त(न्त)क गजलक्षण
कुमारसम्भव गजासुर
कुम्भकर्ण गाथिपुत्र
कुम्भसम्भव गिरिजा
कुरु गृध्र-गोमायुसंवाद
कुश गोदावरी
कृत्या गोलाणई
कृप गोवर्धन (पर्वत)
कृष्ण गौडीया
कृष्णक गौरी
कृष्णा चण्डप
केचित् चण्डप्रसाद
केनचित् चन्द्र सूरि
केशव चाणक्य
कैटभारि चाणूर (मल्ल)
कैलास चामुण्डा
कोशल चित्रकूट
कौङ्कणी चुलुक्येश्वर
कौङ्गी चौलुक्य भूमिपति
कौन्तली छन्दोऽनुशासन
कौन्तेय जटायु
कौरव जनक
कौरव्य जनकसुता
कौशाम्बी जनकात्मजा
ऐ. नाम ऐ. नाम
जह्रुकन्या (–सुता) दुहिण
जाम्बवत् देवप्रभ सूरि
जीमूतवाहन देवानन्द मुनीन्द्र (सूरि)
टीकाकृतः (नाट्यशास्त्रस्य) द्रुपदतनुभू
तर्कशास्त्र द्रोणात्मज
ताडका द्वारवती
ताडकारि धार्तराष्ट्र
तापी ध्वनिकार (–कृत)
तामलिप्तिका नन्दन
तेजःपाल नमुचिद्विष्
त्रावणी नरकासुर
त्रिपुररिपु नरचन्द्र सूरि
त्रिपुरवधू नरेन्द्रप्रभ सूरि
त्रिलोचन नल
त्रिविक्रम नागानन्द
दक्ष नायक भट्ट
दशकन्धर (दहकन्धर) नारायण
दशमुख (वदन) नारायणीय धनु.
दशानन नैयायिक
दशरथ पञ्चालतनया
दामोदर पशुपति
दारुक पाञ्चाली
दाशरथि पाण्डव
दिलीप
दुर्ग पाण्डववधू
दुर्योधन पाण्डवेय
दुःशासन पाण्ड्य
दुष्यन्त पार्थ
ऐ. नाम ऐ. नाम
पार्वती मरु
मलधारी गच्छ
पिनाकपाणि(पिनाकी) मलयवती
पुराण मल्लदेव
पुरूरवस् महाकाल
पूर्वाचार्य महादेव
पृथु महाभाष्यकार
पृथ्वीराज महिषासुर
पौण्ड्री मागधी
प्राग्वाटान्वय मात्सी
बलिजित् माथुरी
बाभ्रव्य माधव
बौद्ध मान्धाता
भरत मारी
भरत मुनि मालती
भर्ग मीमांसक
भवानी मुकुन्द
भानुमती मुकुल
भार्गव मुनिचन्द्र सूरि
मुनीन्द्र(न्दु) प्रभु
भीम मुर
भीमसेन मुरारि
भूतपति मुशली
भूरिश्रवस् मेघनाद
भैरवी मैनाक
मथुरा यशोभद्र सूरि
मधुरिपु युधिष्ठिर
मन्दाकिनी रघु
ऐ. नाम ऐ. नाम
रघुकुल वत्सराज
रघुपति वशिष्ठ
रघुवंश वस्तुपाल
रघूद्वह वाक्यपदीय
रत्नावली वात्स्यायन
राघव (राहव) वानवासिका
राज्यवर्द्धन वामन
राधा (राधिका) वाराणसी
राम वालि
विग्रहराज
विनायक
विन्ध्याद्रि
विराट
रामचरित विरूपाक्ष
रावण विश्वकर्म-तनय
रुक्मिणी विश्वनाथ
रुद्रट विष्णु
रेणुका वीरचरित
रेवा वृषलक्ष्मन्
लक्ष्मण वृष्णिन्
लक्ष्मी वेणीसंहार
लङ्का वैदर्भी
लङ्कापति वैदेही
लव व्यक्तिविवेककार
लाट व्याकरण
लाटीय शकुन्तला
लोल्लट भट्ट शङ्कर
ऐ. नाम ऐ. नाम
शङ्कुक सैंहिकेय
शत्रुघ्न सोम
शबरयुवति सौगत
शम्भु सौमित्रि
शल्य सौरि
शाम्भव स्थाणु
शारदा हनूमान्
शार्ङ्गपाणि हम्मीर
शिव हयग्रीव
शिशुपाल हयग्रीववध
शिशुपालवध हर
शौरि
श्रीकण्ठ (जनपद) हरि
श्रीवल्लभ
सरयू
सरस्वती हर्ष
सागरिका हर्षचरित
सिप्रा हर्षपुरीय गच्छ
सीता हार्दिक्य
हिमवान्
सुनन्दा हिमालय (हिमाद्रि)
सुन्द हूण
सुयोधन हूणतरुणी
सुराष्ट्र हृदयदर्पणकार

<MISSING_FIG href=”../books_images/U-IMG-17291678545.JPG”/>

अलङ्कारमहोदधिविवरणोदाहृत–गद्य–पद्यानां मूलस्थलादिज्ञापिका सूची।

[TABLE]

पद्य-प्रारम्भः अन्यत्र पद्य-प्राप्ति-स्थलम्
अद्यापि तत्कनककुण्डल– बिह्लणपञ्चाशिकायाम् १२
अद्यापि [श्रवसी] न कुण्डल–
अद्यापि स्तनशैलदुर्गविषमे पद्यवेण्याम् ५, हनुमन्नाटके २
अद्यावस्कन्दलीला—
अद्राक्षुर्ये नरेन्द्रा
अद्रावत्र प्रज्वलत्यग्निरुच्चैः काव्यप्रकाशे उ.८,३४५
अधिकरतलतल्पम् काव्यप्रकाशे ७, २२३
अध्यासामासुरुत्तुङ्ग— शिशुपालवधे स. २, श्लो.५
अनङ्गः पञ्चभिः पौष्पैः अलङ्कारचूडामणौ अ. २, १५३
अनङ्गमङ्गलगृहापाङ्ग— काव्यप्रकाशे उ. ७, १४१
अनङ्गरङ्गप्रतिमं तदङ्गम् काव्यप्रकाशे उ. ८, श्लो.३४७
अनञ्जिताऽसिता दृष्टिः काव्यादर्शे २, २०१
अनाघ्रातं पुष्पम् शाकुन्तले २, १०
अनिद्रो दुःस्वप्न
अनुत्तमानुभावस्य सरस्वतीकण्ठाभरणे परि. १, १३
अनुदुघुष्टः शब्दैः
अनुरागवती सन्ध्या ध्वन्यालोके १, १३
अनेन सार्द्ध विहराम्बुराशेः रघुवंशे ६, ५७
अनौचित्याद् ऋते नान्यद् ध्वनिकृतः उद्योते ३
अन्त्रप्रोतबृहत्कपाल— महावीरचरिते अं. १, २६
अन्नं(ण्णं) लडहत्तणयं वक्रोक्तिजीविते उ. १, ९६
अन्यत्र यूयं कुसुमावचायम् काव्यप्रकाशे उ. ३, श्लो.२०
अन्यत्र व्रजतीति का खलु काव्यप्रकाशे उ.४, ३३
अन्यास्ता गुणरत्नरोहण– काव्यप्रकाशे उ.७, २१८
अपसारय घनसारं कुरु कुट्टनमिते १०२
अपाङ्गतरले दृशौ काव्यप्रकाशे उ.१०, ५४६
अपि जनकसुतायाः उत्तररामचरिते ६, २६

[TABLE]

पद्य-प्रारम्भः अन्यत्र पद्य-प्राप्ति-स्थलम्
अलं स्थित्वा स्मशानेऽस्मिन् महाभारते शान्ति आअ.१५३, श्लो.११
अलङ्कारः शङ्काकरनर– काव्यप्रकाशे उ. ९,३६९
अलङ्कारान्तराणाम्
अलमतिचपलत्वात् बिल्हणपञ्चाशिकायाम्
अलमलमतिमात्रम् रत्नावल्याम् अं. ३, श्लो० १७
अलसच(व)लितैः प्रेमार्द्रार्द्रैः अमरुशतके श्लो.४
अलसलु(व)लितमुग्धस्निग्ध– मालतीमाधवे १,३१
अलसलु(व)विमुग्धान्यध्व– उत्तररामचरिते अं.१, श्लो० २४
अलिवलयैरलकैरिव रुद्रटकाव्यालङ्कारे ८, ३०
अवन्ध्यकोपस्य निहन्तुरापदाम् किरातार्जुनीये स.१. श्लो.३३
अवाप्त प्रागल्भ्यम् काव्यप्रकाशे १०, ४३०
अवितथमनोरथ पथ- काव्यप्रकाशे उ. १०, ३९९
अविरलकरवालकम्पनैः काव्यप्रकाशे उ. ५, १२०
अविरलविलोलजलदः रुद्रटकाव्यालङ्कारे ७, ६०
अव्योमव्यतिषङ्ग माननमिदम्
अष्टौ स्थानानि वर्णानाम् नाट्यशास्त्रे अ,१४, श्लो.१०
असंशयं क्षत्रपरिप्रक्षमा अभिज्ञानशाकुन्तले अ.१, श्लो.१९
असम समरसम्पत्
असम्भृतं मण्डनमङ्गयष्टेः कुमारसम्भवे १,३१
असारं संसारम् मालतीमाधवे ५, ३०
असावनुपनीतोऽपि काव्यादर्शे ३, १७८
असावुदय मारूढः काव्यादर्शे परि २, श्लो.३११
असिमात्रसहायस्य काव्यप्रकाशे उ. १०, ४६३
असौ मरुच्चुम्बित— हनुमन्नाटके अ.६, पद्यवेण्याम् ५
अस्तं भास्वान् प्रयातः
अस्त्युत्तरस्यां दिशि कुमारसम्भवे स.१, श्लो.१

गद्य—पद्यानां मूलस्थलादिज्ञापिका सूची।

[TABLE]

**अलङ्कारमहोदधि—विवरणोदाहृत—**                
पद्य—प्रारम्भः अन्यत्र पद्य—प्राप्ति—स्थलम्
आलानं जयकुञ्जरस्य (व्यक्तिविवेके ‘भट्टश्यामलस्य'७२—काव्यप्रकाशे १०, ४२६)
आविर्भवन्ती प्रथमं प्रियायाः (मालतीमाधवे ३, ४)
आशु लङ्घितवतीष्टकराग्रे (शिशुपालवधे स. १०, श्लो. ६४)
आश्लिष्टभूमिं रसितारमुच्चैः (शिशुपालवधे स. ३, श्लो. ७२)
आश्वपेहि मम सीधुभाजनाद् ( )
आसाइअं अणाएण जित्तिअं (सरस्वतीकण्ठाभरणे४, २३४)
आसीदञ्जनमत्रेति (काव्यप्रकाशे उ. १०, ५००)
आहारे विरतिः समस्तविषय— (शा. सू० राजशेखरस्य स. क. ४, ७३)
इतो वस(तः स्वपि)ति केशवः (नीतिशतके ७; स. क. ४, ९५)
इतो विपिनपङ्क्तयः ( )
इत्युद्गते शशिनि पेशल— (काव्यमीमांसायाम् १३, ६९)
इदं ते केनोक्तं कथय (काव्यप्रकाशे उ. ७, २६४)
इदमनुश्चितमक्रमश्च (काव्यप्रकाशे उ. ७, २२२)
इ(ए)द्दहभित्तत्थणिया (काव्यप्रकाशे उ. २, ११)
इन्दुबिम्बादिवोत्कीर्णम् ( )
इन्दुर्मूर्ध्नि शिवस्य शैल— (स. क. १, ११७, ४, २०८)
इन्दुर्लिप्त इवाञ्जनेन (बालरामायणे १, ४२)
इन्दोर्लक्ष्म स्मरवि(त्रिपुर)जयिनः (राजशेखरस्य ?)
इमास्ता विन्ध्याद्रेः (सरस्वतीकण्ठाभरणे ३, ९)
इयं गेहे लक्ष्मीरियममृत— (उत्तररामचरिते १, ३८)
इयं महेन्द्रप्रभृतीनाधिश्रियः (कुमारसम्भवे ५, ५३)
इयं सुनयना दासी (उद्भटालङ्कारे)
इह मुहुर्मुदितैः कलभैः (शिशुपालवधे ४, ६०)
उच्चारणज्ञोऽथ गिराम् (शिशुपालबधे स. ४, श्लो. १८)
उच्चीयन्ते स्म वेश्मन्य— ( )
उच्छलन्मत्स्य पुच्छाग्र— (सरस्वतीकण्ठाभरणे २, १७१)

गद्य—पद्यानां मूलस्थलादिज्ञापिका सूची।

पद्य—प्रारम्भः अन्यत्रपद्य—प्राप्ति—स्थलम्
उज्झसि पियाइ समयं (गाथा सप्तशत्याम्३, ७५)
उत्कम्पिनी भयपरिस्खलितांशुकान्ता (तापस्रवत्सराजे अ.२, १६)
उत्कृत्योत्कृत्य कृत्तिम् (मालतीमाधवे अं. ५, श्लो०१६)
उत्क्षिप्तं सह कौशिकस्य (ह. महानाटके १, ३२)
उत्तानोच्छूनमण्डूक— (काव्यप्रकाशे ७, ३०४)
उत्तालतालीवनसम्प्रवृत्त— (शिशुपालवधे३, ८०)
उत्तिष्ठन्त्या रतान्ते (वेणीसंहारे१, ३)
उत्तिष्ठमानस्तु परः (शिशुपालवधे२, १०)
उत्तुङ्गे कृतसंश्रयस्य (शाकुन्तले४, ११४)
उत्पक्ष्मणोर्नयनयोरुपरुद्ध— (शाकुन्तलेअं. ४, श्लो. १४)
उदञ्चन्तां वाचो मधुरिम— (शृङ्गारप्रकाशे१०)
उदन्वच्छि(च्छ )ना भूः (बालरामायणे अ. १, श्लो० ८)
उदयमयते दिग्मालिन्यम् (काव्यप्रकाशे उ. १०, ४३३)
उदेति सविता ताम्रः (काव्यप्रकाशे७, २४४)
उद्गर्भहूणतरुणीरमणोपमर्द— (वामनका ० ४, २, २)
उद्दामोत्कलिका विपाण्डुररुचम् (रत्नावल्याम् अं. २, ०४)
उद्देशोऽयं सरसकदलि— (काव्यप्रकाशे ३, १७)
उद्धच्छो पिअइजलं (गाथासप्तशत्याम् २, ६१)
उद्यतस्य परं हन्तुम (सरस्वतीकण्ठाभरणे १, ६५)
उद्यद्बर्हिषिदु( द )र्दुरारवपुषि (शा. ‘सू०’ बाणस्य, स. क. २, २१५)
उन्नत्यै नमति प्रभुम् ( )
उन्नमय्य सकचग्रहमास्यम् (सु. विज्जिकायाः, स. क. १, १२३; १, ८५)
उन्निद्दं(ओण्णिद्दं)दोबल्लं (काव्यप्रकाशे ३, १४)
उपकृतं बहु य( त )त्र किमुच्यते (काव्यप्रकाशे ४, २४)
उपप्लुतं पातुमदो मदोद्धतैः (शिशुपालवधे १, ३८)
’ उपमेयं व्याघ्राद्यैः साम्यानुक्तौ’ (सिद्धहेम अ. ३, पा. १, सू. १०२)

अंलङ्कारमहोदधिविवरणोदाहृत—

पद्य—प्रारम्भः अन्यत्र पद्य—प्राप्ति—स्थलम्
उपाध्यं तत् पान्थाः (‘सू० यायाकस्य’ स.क, ४, ९७)
उपोढरागेण विलोलतारकम् (ध्वन्यालोके उ. १, पृ. ३५)
उभौ भुवनजङ्घाल— ( )
उभौ यदि व्योम्नि पृथक् (शिशुपालवधे ३, ८)
उरपेल्लियवरकारेल्लयाइं (सरस्वतीकण्ठाभरणे ४, ८४)
उल्लासयति लोकस्य ( )
ए एहि किं पि कीइ (काव्यप्रकाशे १०, ४७१)
ए एहि दाव सुन्दरि! (काव्यप्रकाशे १०, ५५४)
एकचक्रोरथो यन्ता (काव्यादर्शे२, ३२८)
एकस्त्रिधा वससिचेतसि (काव्यप्रकाशे १०, ४७७)
एकस्मिन् शयने पराङ्मुखतया (अमरुशतके श्लो० २३)
एकस्मिन् शयने विपक्षरमणी (अमरुशतके श्लो० २२)
एतत् तस्य मुखात् कियत् (भल्लटशतके)
एतासां राजति सुमनसाम् (अलङ्कारचूडामणौ अ. ३, २४९)
एवंवादिनि देवर्षौ (कुमारसम्भवे ६, ८४)
एष राजा यदा लक्ष्मीम् (काव्यादर्शे १, ५३
एष्यत्युत्सुकमागते विचलितम् ( )
एहि गच्छ पतोत्तिष्ठ (पञ्चतन्त्रे, सु. ३१६८, ध्वन्यालोके३)
ऐन्द्रं धनुः पाण्डुपयेोधरेण (व्यक्तिविवेके७५)
ओसुयइ दिन्नपडिवक्ख— (सरस्वतीकण्ठा. ५, ६४)
औत्सुक्येन कृतत्वरा (रत्नावल्याम् अ. १, श्लो० २)
कइकेसरी पयाणं ( )
कण्ठस्य तस्याः स्तनबन्धुरस्य (कुमारसम्भवे१, ४२)
कनककलशस्वच्छे राधा— (स. क. ३, १११, ५, १७ क. व. स. ४९)
कन्या काचिदिद्दापि ( )
कपा(पो)ले मार्जारः पय इति (‘भास्रस्य’, काव्यमीमांसायाम् अ. १३)
कपोलफलकावस्याः (उद्भटालङ्कारे, व. को ३)

गद्य—पद्यानां मूलस्थला दिज्ञापिका सूची।

[TABLE]

अलङ्कारमहोदधिविवरणोदाहृत—

पद्य—प्रारम्भः अन्यत्र पद्य—प्राप्ति—स्थलम्
कालं कपालमालाङ्कम् ( )
का विसमा दिव्वगई (काव्यप्रकाशे १०, ५२९)
‘काव्यशोभायाः कर्तारो धर्मा गुणा.’ (वामनीये का. अ. १, अधि. ३, सू. १)
काव्यस्यात्मा ध्वनिरिति (ध्वन्यालोके उ. १, लो० १)
किं तारुण्यतरोरियम् (वक्रोक्तिजीविते १, ९२, १०३; ३, १९)
किं पद्मस्य रुचिंन हन्ति (रत्नावल्याम् अ. ३, श्लो० १३)
किं ब्रूमो जलधेः श्रियम् ( )
किं भाषितेन बहुना (वामनीये२, १, ८)
किं लोभेन विलङ्क्षितः (काव्यप्रकाशे ७, १९५)
किं हास्येन न मे (ध्वन्यालोके २, ५; व्यक्तिविवेके ३४)
किन्वस्ति काचिदपराऽपि ( )
किमासेव्यं पुंसां सविधम् (काव्यप्रकाशे १०, ५२१)
किमिति न पश्यसि कोपम् (रुद्रटालङ्कारे ६, ४२)
किमित्यपास्याभरणानि यौवने (कुमारसम्भवे ५, ४४)
किमुच्यतेऽस्य भूपाल— (काव्यप्रकाशे७, २०६)
किवणाण धणं नागाण (काव्यप्रकाशे१०, ४५७)
किसलयकरैर्लतानाम् (रुद्रटालङ्कारे८,५०)
किसलयमिव मुग्धम् (उत्तररामचरिते अं. ३, श्लो० ५)
कुतः कुवलयं कर्णे (काव्यादर्शे २, १२३)
‘कुपतिमपि कलत्रवल्लभम्’ (कादम्बर्यांपूर्वभागेपृ. १९)
कुबेरगुप्तां दिशमुष्णरश्मौ (कुमारसम्भवे३, २५)
कुमुदवनमपश्रि (शिशुपालवधे स.११, श्लो० ६४)
कुम्भकूटाट्टकुट्टाक— (सरस्वतीकण्ठाभरणे२, १८०)
कुरङ्गीवाङ्गानि स्तिमितयति (काव्यप्रकाशे १०, ४२३)
कुर्वन्तोऽमी कलकलम् (सरस्वतीकण्ठाभरणे २, २२८)
कुलममलिनं भद्रा मूर्तिः (स. क. ५, ३६९ काव्यप्रकाशे १०, ५०८)
कुविन्दस्त्वं तावत् (काव्यप्रकाशे७, १७३)

गद्य—पद्यानां मूलस्थलादिज्ञापिका सूची।

पद्य—प्रारम्भः अन्यत्र पद्य—प्राप्ति—स्थलम्
कूजितं राजहंसानाम् ( )
कृतं च वर्गा(गर्वा)भिमुखम् (काव्यप्रकाशे ४, १०८)
कृष्णेनाम्ब ! गतेन (औचित्य० कृष्णकर्णामृते २,६४)
कैलासालयभाललोचनरुचा (काव्यप्रकाशे ५, ११७)
कोकिलालापमधुराः (काव्यादर्शे२, ३५४)
कोदण्डं यस्य गाण्डीवम् (अलङ्कारचूडामणौअ. १, ४४)
को नाम केशवः के वा ( )
कोपात् कोमललोलबाहु— (अमरुशतके ९)
कोपो यत्र भ्रकुटिघटना (अमरुशतके ३८)
कोऽलङ्कारः सतां शीलम् (अलङ्कारचूडामणौअ.६,६४९)
कौटिल्यं कचनिचये (रुद्रटालङ्कारे अ. ७, श्लो० ८१)
कौन्तेयादिपुराणपार्थिव— ( )
कौशाम्बींपरिभूय (तापसवत्सराजे, नाट्यशास्त्रवि. अ. १६)
क्रमादेक—द्वि—त्रिप्रभृति (वक्रोक्तिजीविते १, १४)
क्रमेण चार्ध्दोदितमिन्दु— ( )
क्रामन्त्यः क्षतकोमलाङ्गुलि— (ध्वन्यालोके उ. ३, श्लो० २०)
क्रीडारसेन रहसि स्मित— (वक्रोक्तिजीविते१, ८१)
क्रोडे मा डिम्भमादाय (सरस्वतीकण्ठाभरणे२, १७२)
क्रोधं प्रभो ! संहर संहरेति (कुमारसम्भवे स. ३, श्लो० ७२)
क्वचिज्जटावल्कलावलम्बिनः ( )
क्वसूर्यप्रभवो वंशः (रघुवंशेस. १, श्लो० २)
क्वाकार्यंशशलक्ष्मणः (विक्रमोर्वशीये ४, ३३—३४)
क्षिप्तं पुरो न जगृहे (शिशुपालवधे५, ५०)
क्षिप्तो हस्तावलग्नः (अमरुशतकेश्लो० २)
क्षीणः क्षीणोऽपि शशी (रुद्रटालङ्कारे अ.७, श्लो० ९०)
क्षुदाःसन्त्रासमेते (काव्यादर्शे २; हनूमन्नाटके)
खमिव जलं जलमिव खम् (बामनीये ४, ३, १५)

अलङ्कारमहोदधि—विवरणोदाहृत—

पद्य—प्रारम्भः अन्यत्र पद्य—प्राप्ति—स्थलम्
गङ्गातीरे हिमगिरिशिला— (भ. वैराग्यशतके श्लो० १८)
गङ्गीयत्यसितापगा ( )
गच्छ गच्छसि चेत् कान्त ! (काव्यादर्शे२, १४१, शृ. प्र. १०)
XXXगजैरसम्बाधमयाम्बभूवे (शिशुपालवधे ३, ६७)
गतासु तीरं तिमिघट्टनेन ( )
गय(अ)णं च मत्तमेहं धारा— (ध्वन्यालोके २, १; व्यक्तिविवेके ११९)
गर्वमसंवाह्यमिमम् (रुद्रटालङ्कारे ८, ७८)
गाढकान्तदशनक्षतव्यथा (काव्यप्रकाशे ४, ६३)
गाढालिंगणरहसुज्जयंमि (काव्यप्रकाशे ४, ६६)
गाम्भीर्यगरिमा तस्य (काव्यप्रकाशे १०, ३९६)
गाम्भीर्येण समुद्रोऽसि ( )
गाहन्तां महिषा निपान— (शाकुन्तले अं. २, श्लो० ६)
गुणः कृतात्मसंस्कारः ( )
गुरुअणपरवस पिय ! (स. श. ८५१, काव्यप्रकाशे ३, २१)
गुरुगर्भभरक्लान्ताः (अलङ्कारचूडामणौ अ. २, १५९)
गुरु[जन]परतन्त्रतया बत (काव्यप्रकाशे ९, ३५४)
गुरुर्वचसि पृथुरुरसि ( )
गृहाणि नाम तान्येव (काव्यादर्श १, ८६)
गृहीतं येनासीः परिभव— (वेणीसंहारे अं. ३, श्लो० १९)
गेयं श्रोत्रैकपेयम् ( )
ग्रध्नामि काव्य—शशिनम् (वामनीये ४, २)
ग्रन्थिमुद्ग्रथयितुं हृदयेशे (शिशुपालवधे १०, ६३)
ग्रामतरुणं तरुण्या नव— (रुद्रटालङ्कारे अ. ७, श्लो. ३९)
ग्रामैरक्रमलूयमानकलमै— ( )
ग्रीवाभङ्गाभिरामम् (शाकुन्तले अं. १, श्लो० ७)
घरिणिघणत्थणपेल्लण— (गाथा सप्तशत्याम् ३, ६१)
घित्तुं मुञ्चइ अहरो ( )

** गद्य—पद्यानां मूलस्थलादिज्ञापिका सूची।**

पद्य—प्रारम्भः अन्यत्र पद्य—प्राप्ति—स्थलम्
घूर्णमाननयनं स्खलत्कथम् (सरस्वतीकण्ठाभरणे ५, ४५)
चकार काचित् सितचन्दनाङ्के (सरस्वतीकण्ठाभरणे ५, १५५)
चकासे पनसप्रायैः (अलङ्कारचूडामणौ अ.३, २०९)
चकितहरिणलोललोचनायाः (काव्यप्रकाशे १०, ३९३)
चकोर्यएव चतुराः ( )
चक्राभिघातप्रसभाज्ञयैव (ध्वन्यालोके उ. २, श्लो० २३)
चक्री चक्रारपङ्क्तिम् (सूर्यशतके श्लो० ७१)
चञ्चत्काञ्चनकान्तयो लयचलत् (पञ्चस्तव्याम् १, १०)
चण्डालैरिव युष्माभिः (वामनीये ४, २)
चतुरसखीजनवचनैः (अलङ्कारचूडामणौ अ. ३, ३२९)
चत्वारो वयमृत्विजः (वेणीसंहारे १, २५)
चन्दनासक्तभुजग— (ध्वन्यालोके उ. २, ३०)
चंदमऊहेहिं निसा नलिणी (ध्वन्यालोके उ. २, ३०)
चन्द्रं गता पद्मगुणान्न (कुमारसम्भवे स. १, श्लो० ४३)
चन्द्रारविन्दयोः कक्षाम् (काव्यादर्शे २)
चन्द्रास्तत्र चलन्ति खेलति ( )
चरणत्रपरित्राणरहिताभ्यामपि (काव्यप्रकाशे७, २९३)
चरन्ति चतुरम्भोधि— (काव्यादर्शे२, ९९)
चलापाङ्गा दृष्टिं स्पृशसि (शाकुन्तले अ. १, श्लो० २०)
चापं पुष्पितचूतपादपलता ( )
चापाचार्यस्त्रिपुरविजयी (बालरामायणे अ. २, श्लो० ३७)
चित्ते चहुट्टदि न खुट्टदि (कर्पूरमञ्जर्याम् २, ४)
चित्ते निवेश्य परिकल्पित— (शाकुन्तले २, ९)
चित्रं चित्र बत बत महत् (काव्यप्रकाशे १०, ५३६)
चिंता (चित्ता) णियदइयसमागमंमि (गाथासप्तशत्याम् १, ६०)
चिरविरहिणोरु—कण्ठार्त्या (अमरुशतके ४४)
चूअंकुरावयंसं छणपसर (ध्वन्यालोके उ. ३)

अलङ्कारमहोदधिविवरणोदाहृत—

[TABLE]

गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची ।

[TABLE]

अलङ्कार महोदधिविवरणोदाहृत–

पद्य–प्रारम्भः अन्यत्र पद्य–प्राप्ति–स्थलम्
तरुणिमनि कृतावलोकना ( काव्यप्रकाशे१०, ४०९ )
तव प्रसादात् कुसुमायुधोऽपि ( कुमारसम्भवे स.३, श्लो. १० )
तव प्रिया सच्चरिताप्रमत्त– ( काव्यादर्शे ३, ४१ )
तवाननमिदं पूर्णम् ( )
तवाईतो नागमनेन तृप्तम् ( रघुवंशे ५, ११)
तस्मिन्नभ्युदिते विश्व– ( )
तस्मिन्नुदग्ररिपुवर्गजये ( )
तस्मै हिमाद्रेः प्रयताम् ( कुमारसम्भवे ३, १६६ )
तस्य च प्रवयसो जटायुषः ( रामचरिते २, ७ )
‘तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः ' ( सिद्धहेमचन्द्रे अ. ७,पा.१,सू १०८)
तस्याः प्रविष्टा नतनाभिरन्ध्रं ( कुमारसम्भवे १, ३८ )
तस्याः प्रवृद्धलीलाभिः (वामनीये ४, ६, १७; स。कः४, २०७)
ताण. गुणग्गहणाणं ( काव्यप्रकाशे ४, १०२ )
तापी नेयं नियतमथवा ( अलङ्कारचूडामणौअ. १, श्लो. ७१ )
ताम्बूलभृतगल्लोऽयम् ( काव्यप्रकाशे ७, १८० )
‘तां भवानीं (नी) भ्रमाद् ( )
ता राघवं दृष्टिभिरापिबन्त्यः ( रघुवंशे ७,१२ )
ताला जायन्ति गुणा ( विषमबाणलीलायां ध्वन्यालोके उ. १ )
तिग्मरुचिरप्रतापः ( काव्यप्रकाशे ४, ५५. )
तिष्ठेत् कोपवशात् प्रभाव– ( विक्रमोर्वशीये अं. ४, श्लो. २ )
तीर्त्वा भूतेशमौलि– ( अनर्घराघवे अं. ५, श्लो. २ )
तीर्थान्तरेषु मलपङ्कवतीः ( )
तीर्थान्तरेषु स्नानेन ( काव्यप्रकाशे ७,१४४ )
तीर्थे तोयव्यतिकरभवे ( रघुवंशे स. ८, श्लो. ९५)
तीव्राभिषङ्गप्रभवेन (ण) ( कुमारसम्भवे स. ३, श्लो. ७३ )
तुरङ्गमथ मातङ्गम् ( वामनीये २. २, २२ )
तुइ वजहस्स गोसंमि ( काव्यप्रकाशे ४, ८३ )

गद्य–पद्यानां मूलस्थलादिज्ञापिका सूची ।

पद्य–प्रारम्भः अन्यत्र पद्य–प्राप्ति–स्थलम्
तेन सार्द्ध विगृह्णाति ( )
तेऽन्यैर्वान्तं समश्नन्ति ( काव्यप्रकाशे७, १७६ )
ते रत्नाकरसीमभूतल– ( )
ते विरला सप्पुरिसा (सेतुबन्धे३, ९ )
त्यज करिकलभ ! ( अलङ्कारचूडामणौअ. ३, ३९४ )
‘त्रिरूपालिङ्गालिङ्गिनि ज्ञानमनुमानम्’ ( प्रमाणसमुच्चये १ )
त्वं तास्ताः स्मृतवान् ( )
त्वं रक्षंसा भीरु ! यतः ( रघुवंशे १३, २४ )
त्वं विनिर्जितमनोभवरूपः ( काव्यप्रकाशे अ. १०, ५४४ )
त्वं समुद्रश्च दुर्वारौ ( अलङ्कार चूडामणी अ. ५, ६६३ )
त्वं हालाहलभृत् करोषि ( )
त्वक् तारवी निवसनं मृगचर्म ( व्यक्तिविवेके २ )
त्वत्कटाक्षावलोलोलाम् (अलङ्कारचूडामणौ अ. २, श्लो. १६४)
त्वदङ्गमार्दवं द्रष्टुः ( उद्भटकाव्यालङ्कारे ५, ५ )
त्वन्मुखं त्वन्मुखमिव ( स. क. २, २४१, ४, २४ )
त्वन्मुखं पुण्डरीकं च ( काव्यादर्श २, १९० )
त्वमेवंसौन्दर्या स च ( वामनीये३, २, १३ )
त्वयि दृष्ट एव तस्याः ( रुद्रटीये ८, ९५; उद्भटीये २ )
त्वय्येवत्वन्मुखं दृष्टम् ( )
दण्डे चुम्बति पद्मिन्याः ( काव्यादर्शे ३, ११० )
दधतमाकरिभिः करिभिः ( किरातार्जुनीये स. ५, श्लो० ७ )
दधत्यार्त्तंसुखाकर्तुम् ( )
दन्तक्षतानि करजैश्च ( ध्वन्यालोके उ.३, )
दन्तप्रभा पुष्पचिता ( )
दर्पणे हरदेहस्था ( )
दर्पान्धगन्धगजकुम्भ– ( काव्यप्रकाशे ४, ६२ )
दामोदरकराघात– ( )

अलङ्कारमहोदधि–विवरणोदाहृत–

[TABLE]

गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची ।

पद्य-प्रारम्भः अन्यत्रपद्य–प्राप्ति–स्थलम्
द्यौरत्र क्वचिदाश्रिता ( )
द्वयं गवं सम्प्रति ( कुमारसम्भवे स. ५, श्लो, ७१ )
द्वयोर्गुणत्वे व्यापार– ( )
द्वारोपान्तनिरन्तरे ( काव्यप्रकाशे ३, २२ )
द्वित्रैः पाणिसरोरुहम् ( )
द्विरुक्तिः क्षीरोदः स्फुरति ( )
धत्ते पत्युः प्रभाणाम् ( )
धन्याः खलु वने वाताः ( )
धवलो सि जइ वि सुंदर ! ( गाथा सप्तशत्याम् ७, ६१ )
धातुः शिल्पातिशयनिकष– ( काव्यप्रकाशे १०, ५३५ )
घी ( वी ) राणं रमइ घुसिणारुणंमि ( ध्वन्यालोके २, १११ )
धीरेण समं जामा (सेतुबन्धे ५, ७ )
धृतधन्रुपि बाहुशालिनि ( )
धृतायुधो यावदहम् ( वेणीसंहारे३, ४६ )
धेहि धर्मे धनधियम् ( )
धैर्येण विश्वास्यतया महर्षेः ( किरातार्जुनीये स. ३, श्लो. ३४ )
ध्वान्तानां दण्डधारः ( )
न कठोरं न वा तीक्ष्णम् ( काव्यादर्शे २, ३२४ )
न तज्जलं यत्र सुचारु– ( भट्टिकाव्ये स. २, श्लो. १९ )
न त्वा (न्वा ) श्रयस्थितिरियम् ( भल्लटशतके श्लो.४ )
न देवकन्यका नापि ( काव्यादर्शे २, ३२५ )
न नाम्नामावृत्त्या ( )
न बद्धा भ्रकुटिर्नापि ( काव्यादर्श २, ३२६ )
‘नमन्तु शिरांसि धनूंषि वा’ ( हर्षचरिते उ. ६, २६४ )
नमस्तुङ्गशिरश्चुम्बी– ( हर्षचरिते २ )
न मालतीदाम विमर्द्दयोग्यम् (सरस्वतीकण्ठाभरणे २,२०५;४,६७)

अलङ्कारमहोदधिविवरणोदाहृत–

पद्य - प्रारम्भः अन्यत्रपद्य-प्राप्ति-स्थलम्
नवजलधरः सन्नद्धोऽयम् ( विक्रमोर्वशीये४, )
नवपलाशपलाशवनं पुरः ( शिशुपालवधे६, २ )
नवबिसलताकोटिकुटिलः ( )
नाभियोक्तुमनृतं त्वमिष्यसे ( किरातार्जुनीये स.१३, श्लो. ५८ )
नामाप्यन्यतरोर्निमीलित– ( वक्रोक्तिजीविते १, ९१,१०५ )
नारायणु (णो ) त्ति परिणयवयाहिं ( )
नालस्यप्रसरो जडेष्वपि ( सरस्वतीकण्ठाभरणे४.९६ )
नाल्पकविरिव स्वल्पश्लोकः ( काव्यप्रकाशे९, ३८१ )
निजदोषावृतमनसाम् ( काव्यप्रकाशे१०, ४७८ )
नितम्बगुर्वी गुरुणा प्रयुक्ता ( रघुवंशेस. ७. श्लो. २५ )
निद्दालसपरिघुम्भिर– ( गाथासप्तशत्याम्२, ४८ )
निद्रानिमीलितदृशः ( वक्रोक्तिजीविते १,५१, सू. कलशकस्य )
निद्रानिवृत्तावुदिते ( काव्यप्रकाशे १०,४७४ )
निपीतः पातालैः पशुपति– ( )
निपीयमानस्तबका ( किरातार्जुनीये स. ८, श्लो. ६).
निपेतुरास्यादिव तस्य ( काव्यप्रकाशे १०, ५९८ )
निमूलकाषंकषति ( सरस्वतीकण्ठाभरणे २, २३४ )
निरर्थकं जन्म गतंनलिन्याः ( सरस्वतीकण्ठाभरणे २, ३४१ )
निरानन्दः कौन्दे मधुनि ( वामनीये ३, १,१३ ‘सू. छित्तपस्य’ )
निर्माल्यं नयनश्रियः ( बालरामायणे१, ४० )
निर्मोकमुक्तिमिव गगनोरुगस्य ( अलङ्कारचूडामणौ अ. ३, २२८ )
निर्लूनान्यलकानि पाटितमुरः ( )
निर्विभुज्य दशनच्छदं ततः ( कुमारसम्भवे८, ४९ )
निवेशयति वाग्देवी ( )
निःशेषच्युतचन्दनम् ( अमरुशतके१०५)
निष्कन्दामरविन्दिनीम् ( सरस्वतीकण्ठाभरणे४, ९४ )
नीते निर्व्याजदीर्घामघवति ( चण्डीशत के ४ )

गद्य-पद्यानां मूलस्थला दिज्ञापिका सूची \।

पद्य-प्रारम्भः अन्यत्र पद्य–प्राप्ति–स्थलम्
नीरागा मृगलान्छने ( ’ बिल्हणस्य ’ सू.)
नीललोहितमूर्तिर्यः ( सरस्वतीकण्ठाभरणे १, १२ )
नीलेन्दीवरशङ्कया नयनयोः ( सरस्वतीकण्ठाभरणे - ३, ११६ )
नृत्तारम्भाद् विस्तरभसः ( वक्रोक्तिजीविते २, ९३ )
नेत्राम्भोरुहविभ्रमेषु ( )
नेत्रेन्दीवरिणी मुखाम्बुरुहिणी ( )
नेत्रैरिवोत्पलैः पद्मः ( उद्भटीये काव्यालङ्कारे १, १९ )
न्यञ्चत्कुचितमुत्सुकम् ( अलङ्कारचूडामणौ अ. १, श्लो. १२)
न्यञ्चत्कुञ्चितमुन्मुखम् ( )
पङ्क्तौ विशन्तु गणिताः प्रति– (अलङ्कारचूडामणौ अ. २, श्लो. १७८)
पत्युः शिरश्चन्द्रकलामनेन ( कुमारसम्भवे ७, १९ )
पदं सपदि कस्य न ( )
पदार्थे वाक्यवचनम् ( )
पद्भ्यां गता यौवनिनश्च ( )
पद्मान्यर्काशुनिष्ठ्यूताः ( काव्यादर्श १, ९६ )
पद्मिनी नक्तमुन्निद्रा ( काव्यादर्शे ३, १६७ )
परिच्छेदातीतः सकल– ( मालतीमाधवे अं. १ )
परिमृदितमृणाली ( मालतीमाधवे अं. १ )
परिम्लानं पीनस्तनजघन– ( रत्नावल्याम्अ. २,श्लो. १२ )
परिस्फुरन्मीनविघट्टितोरवः ( किरातार्जुनीये ८, ४५ )
परिहरति रति ग (म)र्ति लुनीते ( काव्यप्रकाशे ७, ३२६ )
पर्याप्तपुष्पस्तवकस्तनाभ्यः ( कुमारसम्भवे ३, ३९ )
पशुपतिरपि तान्यहानि ( कुमारसम्भवे ६, ९५ )
पश्चात् पर्यस्य किरणान् ( काव्यादर्शेस २, २५७ )
पश्यतैष गवित्याह ( )
पश्यन्ती त्रपयेव यत्र ( )
पाणौ कङ्कणमुत्फणः (अलङ्कार चूडामणौ अ. २, १०९ रुद्रस्य)

अलङ्कारमहोदधिविवरणोदाहृत–

पद्य-प्रारम्भः अन्यत्र पद्य-प्राप्ति-स्थलम्
पाण्डुक्षामं वक्त्रं हृदयम् ( काव्यप्रकाशे ७, ३३२; १०, ४६०)
पाण्ड्योऽयमंसार्पित– ( रघुवंशे ६, ६० )
पातालमिव नाभिस्ते (वामनीये ४, २ )
पात्रे पुरोवर्तिनि (स० क० १, १०७ )
पायात् स शीतकिरणा– ( अलङ्कारचूडामणौ अ. ३, श्लो. ३८६)
पायाद्वो रचितत्रिविक्रम– (स० क० ४, २१० )
पारेजलं नीरनिधेरपश्यन् ( शिशुपालवधे ३, ७० )
पिनष्टीव तरङ्गाग्रैः ( स० क० २, १९८; ४, २३८ )
पि पि प्रिय ! स स स्वयम् ( स० क० २, ४२; ५, २६ )
पिबन् मधु यथाकामम् ( काव्यादर्शे २, २०६ )
पीनश्रोणि ! गभीरनाभि– ( स० क० ३, ३७; ५, ८ )
पुराणि यस्यां सवराङ्गनानि ( नबसाइसाङ्कचरिते स. १,२२ )
पुरीमवस्कन्द लुनीहि ( शिशुपालवधे १,५१ )
पुरुषायुषजीविन्यः ( रघुवंशे १,६३ )
पुलयं जणंति दहकंधरस्स (सेतुबन्धे स० क०़ ५, १३ )
पूर्णेन्दुकल्पवदना ( सरस्वतीकण्ठाभरणे ४, ६ )
पूर्णेन्दोस्तव संवादि ( )
‘पूर्वांप्रतिपत्तिमुत्तरा प्रतिपत्तिवधते’ ( )
पृथुकार्त्तस्वरपात्रम् ( काव्यप्रकाशे ७, ३०६; ९, ३७० )
पृथुरसि गुणैर्मूर्त्या रामः ( अभिनवभारस्याम् १६, ९ )
प्रज्ञा नवनवोल्लेख– ( )
प्रणयिसखीसलील– ( मालतीमाधवे ५, ३० )
प्रणवः प्रवणो ( णे ) यत्र ( सरस्वतीकण्ठाभरणे २, २०८ )
प्रतिगृहीतुं प्रणयिप्रियत्वात् ( कु. सं. स. ३, श्लो. ६६ )
प्रतीच्छत्याशोकीम् ( का .मी. ५, सरस्वतीकण्ठाभरणे १,८८)
प्रत्यप्रोन्मेष–जिह्मा ( मुद्राराक्षसे ३, २१ )

गद्य—पद्यानां मूलस्थलादिज्ञापिका सूची ।

पद्य-प्रारम्भः अन्यत्र पद्य-प्राप्ति-स्थलम्
प्रधनाध्वनि धीर धनुः– ( काव्यप्रकाशे ४, १०५ )
प्रभामहत्या शिखयेव दीपः ( कुमारसम्भवे १,२८ )
प्रयत्नपरिबोधितः ( वेणीसंहारे अं. ३, श्लो. , ३४ )
प्रवासयति या कान्तम् ( सरस्वतीकण्ठाभरणे १,२० )
प्रवृत्त एव स्वयमुज्झितश्रमः ( शिशुपालवधे१, ४० )
प्रवृद्धतापाश्चिरविप्रयोगतः ( )
प्रश्च्योतन्मदसुरभीणि ( किरातार्जुनीये ७, ३५)
प्रसादे वर्त्तश्व प्रकटय ( शा. सू० चन्द्रकस्य का. प्र. ७, ३२७)
प्रस्थानं वलयैः कृतम् ( अमरुशतके ३५ )
प्रस्थे स्थितां हिमवतोऽपि ( )
प्रहितः प्रधनाय माधवान् ( शिशुपालवधे१६, ५२ )
’ प्राकरणिकाप्राकरणिकयोर्वा ' ( )
प्रागप्राप्तनिशुम्भशाम्भव– ( महावीरचरिते अं. २, श्लो. ३३ )
प्राणेश्वरपरिष्वङ्ग– (वामनीये २,२;काव्यप्रकाशे ७,२९० )
प्राप्तश्रीरेष कस्मात् ( ध्वन्यालोके२, ३० )
प्राप्ताः श्रियः सकलकामदुघाः ( भ० वैराग्यशतके श्लो. ६७ )
प्राभ्रभ्राड् विष्णुधामाप्य– ( काव्यप्रकाशे ७, १७४ )
प्रासादे सा पथि पथि च ( अमरुशतके १०२ )
प्रेङ्खद्भिश्चन्द्रपादैः ( )
प्रेयान् सा (सोऽ) यमपाकृतः ( वामनीये ३, २, १५ )
प्रौढच्छेदानुरूपः ( छलितरामे सू० ’ यशोवर्मणः ’ )
फुल्लुकरं कलमकुरसमं ( कर्पूरमञ्जर्याम् जवनिका १, श्लो. १९)
बत सखि ! कियदेतत् ( काव्यप्रकाशे १०, ४३१ )
बघ्नन्नङ्गेषु रोमाञ्चम् ( काव्यादर्शे २, ११ )
बन्दीकृत्य नृप ! द्विषाम् ( काव्यप्रकाशे ५, ११९)
बभुर्वसन्ते रमणीषु विभ्रमम् ( )

अलङ्कारमहोदधिविवरणोदाहृत—

पद्य–प्रारम्भः अन्यत्र पद्य–प्राप्ति–स्थलम्
बभूव भस्मैव सिताङ्गरागः ( कुमारसम्भवे स. ७, श्लो. ३२ )
बहलतमा हयराई ( गाथासप्तशत्याम् ४, ३५ )
बाणैः क्षुण्णेषु सैन्येषु ( सरस्वतीकण्ठाभरणे २, १७५ )
‘बाल इति सुतरामपरित्याज्यः’ ( हर्षचरिते उ. ६ )
बालय ! नाहं दूई ( )
बालस्य यद् भीतिपलायितस्य ( )
बाले ! नाथ ! विमुच मानिनि ! ( अमरुशतके५७ )
बालेन्दुवक्राण्यविकास– ( कुमारसम्भवे३, २९ )
बाले !मालेयमुचैर्न ( सु. १७१६ धाराकदम्बस्य )
बिभर्ति यश्च देहार्धे ( सरस्वतीकण्ठाभरणे १, ४ )
विभ्राणा हृदये त्वया ( )
बुधो भौमश्चतस्योच्चैः ( अलङ्कारचूडामणौ अ. १, श्लो. ४० )
ब्रह्माण्डकारणं योऽप्सु ( )
भक्तिप्रह्वविलोकनप्रणयिनी ( ‘सु.सू.’ भागवतामृतदत्त (वर्धन )स्य)
भद्रात्मनो दुरधिरोहतनोः ( काव्यप्रकाशे २, १२ )
भद्रे मारि ! प्रशस्तं वद ( सरस्वतीकण्ठाभरणे १, १४४ )
भम धम्मिअ ! वीसत्थो ( गाथासप्तशत्याम् २, ७५ )
भस्मोध्धूलन ! भद्रमस्तु ( काव्यप्रकाशे १०, ५०३ )
भित्त्वा सद्यः किशलय– ( मेघदूते ११०)
भीष्मग्रीष्मप्रगुणितवपुः ( )
भुजङ्गकुण्डली व्यक्तः ( )
भुजङ्गमस्येव मणिः ( काव्यप्रकाशे १०, ५८३ )
भुजविटपमदेन व्यर्थ– ( )
भुवनश्रियमङ्कुरयति ( )
भूपतेरुपसर्पन्ती ( काव्यप्रकाशे ७, १७५ )
भूरिभारभराक्रान्त ! ( सरस्वतीकण्ठाभरणे १, १ )
भूरेणुदिग्धान् नषपारिजात– ( ध्वन्यालोके ३, २७ )

गद्य—पद्यानां मूलस्थलादिज्ञापिका सूची ।

पद्य–प्रारम्भ अन्यत्र पद्य–प्राप्ति–स्थलम्
भ्रमिमरतिमलसहृदयताम् ( ध्वन्यालोके २, ३ )
भ्रश्यद्विश्वम्भराणि ( )
भ्रातः कोक! विमुञ्च ( )
भ्रूभेदे सहसोद्गतेऽपि ( रत्नावल्याम् अ. २, श्लो. २० )
मण्डलीकृत्य बर्हाणि ( काव्यादर्शे १,७० का मी. १४ )
मथ्नामि कौरवशतम् ( वेणसिंहारे अं. १, श्लो. १५ )
मदनदारुण उत्थित ( सरस्वतीकण्ठाभरणे २, १०९ )
मधु द्विरेफः कुसुमैकपात्रे ( कुमारसम्भवे ३, ३६ )
मधु[रा]राग[वि]वर्द्धिन्यः ( काव्यादर्शे २, ३१७ )
मधुरिमरुचिरं वच ( काव्यप्रकाशे १०, ५१६ )
मधुर्मधूनि गान्धर्वम् ( सरस्वतीकण्ठाभरणे २, १८१ )
मनः समाधिस्थिरताम् ( )
मनीषिताः सन्ति गृहेऽपि ( कुमारसम्भवे ५, ४ )
मनोरथप्रियालोक- ( काव्यादर्शे ३, १४० )
मनोरागस्तीव्रम् ( मालतीमाधवे अं. २, श्लो.१ )
‘मन्त्रो हीनः स्वरतो वर्णतो वा’ ( पा. महाभाष्ये १, १, १ )
मन्थायस्तार्णवाम्भः ( वेणीसंहारे अं. १, श्लो. २२ )
मन्ये कल्पद्रुमादिभ्यः ( )
मय्येवास्या मुखश्रीः ( काव्यादर्शे २, २३ )
मलयजरस्रविलिप्ततनवः ( वामनीये )
महति समरे शत्रुघ्नस्त्वम् ( )
महदे सुरसंघंमे तमवसमा— ( देवीशतके ७६ )
महिलासहस्सभरिए ( गाथा सप्तशत्याम् २, ८२ )
महेन्द्रमास्थाय महोक्षरूपम ( रघुवंशे ६, ७२ )
माए! घरोवयरणं ( काव्यप्रकाशे २, २६ )
माकन्दालीमरन्दप्रसरभर— ( )
मा गर्वमुद्वह कपोलतले ( दशरूपके २, २२ )

अलङ्कारमहोदधि—विवरणोदाहृत—

पद्य–प्रारम्भः अन्यत्र पद्य–प्राप्ति–स्थलम्
माता नतानां संघट्टः ( रुद्रटालङ्कारे ५, ७ )
मात्सर्यमुत्सार्य विचार्य ( भ. शृङ्गारशतके ३६ )
माधुर्य व्यञ्जकैर्वणैः ( काव्यप्रकाशे ९, ८० )
मानमस्या निराकर्तुम् ( काव्यादर्शे २, २९९ )
मानिनीजनविलोचन- ( किरातार्जुनीये ९, २६ )
मा भवन्तमनलः पवनो वा (वामनीये ५, १, १४ )
मारारिशक्ररामेभ- ( रुद्रटालङ्कारे ९, ६ )
मिता भूः पत्याऽपाम् ( )
मित्र क्वापि गते सरोरुह- ( भट्टवामनस्य का. प्र.८, ३४४ )
मुक्तिभुक्तिकृदकान्त- ( अलङ्कारचूडामणौ अ. १, श्लो. १८ )
मुखपङ्कजरङ्गेऽस्मिन्- ( काव्यादर्शे २, ९३, स. क. ४, ३२)
मुखमम्भोरुहं तावत् ( )
मुखमद्दह! मृगाक्ष्याः ( )
मुखमिन्दुसुन्दरं ते ( रुद्रटकाव्यालङ्कारे ८, १८ )
मुखं ते शशिनैवेदम् ( )
मुखं विकसितस्मितम् ( सू. रुमस्य, काव्यप्रकाशे २, ९ )
मुखांशवन्तमास्थाय ( सरस्वतीकण्ठाभरणे १, ११ )
मुग्धे ! मुग्धतयैव नेतुमखिलः ( अमरुशतके ७० )
मुनिरपि गुरुर्दिव्यास्त्राणाम् ( )
सुनिर्जयति योगीन्द्रः ( ध्वन्यालोके उ. ४ )
मुरारिनिर्गता नूनम् ( )
मृगलोचनया विना ( काव्यप्रकाशे १०, ४९७ )
मृगा (ग्य)श्च दर्भादकुरनिर्व्यपेक्षा : ( रघुवंशे १३, २५ )
मृदुपवनविभिन्नः ( विक्रमोर्वशीये अ ४, श्लो. १०)
मृधे निदाघधर्मांशु- ( काव्यप्रकाशे १०, ४०४ )
मेघानिलेन अमुना ( वामनीये २, २, ८ )
मैनाकः किमयं रुणद्धि ( महानाटके ३, ७३; दशरूपके ४,२९ )

गद्य—पद्यानां मूलस्थलादिज्ञापिका सूची ।

[TABLE]

अलङ्कारमहोदधिविवरणोदाहृत—

[TABLE]

गद्य–

पद्यानां मूलस्थलादिज्ञापिका सूची।

[TABLE]

अलङ्कारमहोदधिविवरणोदाहृत—

[TABLE]

अलङ्कारमहोदधि–

विवरणोदाहृत—

[TABLE]

गद्य–

पद्यानां मूलस्थलादिज्ञापिका सूची।

[TABLE]

अलङ्कारमहोदधिविवरणोदाहृत—

[TABLE]

गद्य–पद्यानां मूलस्थलादिज्ञापिका सूची ।

[TABLE]

अलङ्कारमहोदधिविवरणोदाहृत—

[TABLE]

गद्य–पद्यानां मूलस्थलादिज्ञापिका सूची ।

[TABLE]

अलङ्कारमहोदधिविवरणोदाहृत सूची ।

[TABLE]

<MISSING_FIG href=”../books_images/U-IMG-1730042749Screenshot2024-10-27205254.png”/>

परिशिष्टम् [४]
मलधारिश्रीनरचन्द्रसूरिरचिता
वस्तुपाल—प्रशस्तिः (१)

स वः श्रेयः शत्रुञ्जयशिखर(रि)शीर्षैकमुकुटःप्रदोषान्तध्वान्तव्यतिकरनिकाराम्बरमणिः।
भवभ्रान्तिश्रान्तिव्यपनयनदीष्णामृतसरः सनाभिःश्रीनाभिप्रभवजिननाथः प्रथयतु॥१॥

श्रीप्राग्वाटकुलेऽत्र चण्डपसुताच्चण्डप्रसादादभूत्
पुत्रः सोम इति प्रसिद्धमहिमा तस्याश्वराजोऽङ्गजः।
तस्माल्लूणिग—मल्लदेव—सचिवौ श्रीवस्तुपालस्तथा
तेजःपाल इति श्रुतास्तनुभुवश्चत्वार एतेऽभवन्॥२

चेतः! कि कलिकालसालसमहो! कि मोह! नो हस्यते?
तृष्णे! कृष्णमुखाऽसि कि कथय कि विघ्नौघ! मोघो भवान्?।
ब्रुमःकि नु सखे! न खेलसि किमप्यस्माकमुज्जृम्भितं
सैन्य यत् किल वस्तुपालकृतिना धर्मस्य संवर्मितम्॥३॥

दुर्गःस्वर्गगिरिः स कल्पतरुभिर्भेजे न चक्षुष्पथे
तस्थौ कामगवी जगाम जलधेरन्तः स चिन्तामणिः।
कालेऽस्मिन्नवलोक्य याचकचमू तिष्ठेत कोऽन्यस्ततः?
स्तुत्यः सोऽस्तु न वस्तुपालसुकृती दानैकवीरः कथम्?॥४॥

स श्रीजिनाधिपतिधर्मध(धु)राधुरीणःश्लाध्या(घा)ऽऽस्पदं कथमिवास्तु न वस्तुपालः?।
श्री—शारदा—सुकृतकीर्तिमय—त्रिवेण्याःपुण्यः परिस्फुरति जङ्गमसङ्गमो यः॥५॥

स्वच्छन्दं हरि—शङ्करः स भगवान् यत्कीर्तिविस्फूर्तिभि-
बिभ्रद् भस्मकृताङ्गरागमिव तद् भूतेशभूत वपुः।
सर्वाङ्गं घटितां गिरीश्वरसुता दुग्धाब्धिपुत्री जवाद्
व्यावृत्ता च सहस्ततालहसितैर्वैलक्ष्यमध्यापयत्॥६॥

दायादा कुमुदावलिर्विचकिलश्रेणी सहाध्यायिनी
सध्रीची सुरसिन्धुवीचिवितति …….. की चन्द्रिका।

शीतांशुः सहपांशुखेलनसुहृत् सब्रह्मचारी हरः
प्रालेयाद्रितटी च कौतुकनटी यत्कीर्ति—वामभ्रुवः॥७॥

प्रतापस्याद्वैतं रिपुनृपतिलक्ष्म्याःक्षणिकतां विभुं नित्यां स(तृ)ष्णां गिरिशगिरिगौरस्य यशसः।
क्रुघोऽनेकान्तत्वं महिम निजबुद्धेश्चदधता वितेने येनात्मा किल सकलसद्दर्शनमय॥८॥

प्रेयस्यपि न्यायविदाऽप्यनेन दोषं विनाऽहं निहिताऽस्मि दूरे।
इतीव दोषाद्गुणरत्नकोशं यस्यारिभिर्ग्राहयते स्म कीर्तिः॥९॥

प्रताप—तपनो यस्य प्रतपन्नवनीतले।
विपक्षवाहिनीखड्गधारानीराण्यशोषयत्॥१०॥

येनारिनारीनेत्राम्भःसम्भारोद्गारसम्भृतम्।
विश्वसौरभ्यकृच्चक्रे यशः—कुसुम—पादपम्॥११॥

भ्रमन्ती भृशमन्यायतपनोत्तापिताऽधुना।
न्यायलक्ष्मीर्विशश्राम यद्भुजादण्डमण्डपे॥१२॥

स वैकुण्ठः कुण्ठः कलुषधिषणः सोऽपि धिषणःक्षतारम्भः शम्भुर्न तिमिरहरः सोऽपि मिहिरः।
धराभारोद्धारे वचनरचनायां परपुरस्थितिप्लोषे दोषोदयविदलने चास्य पुरतः॥१३॥

रणे वितरणे चात्र शस्त्रैर्वस्त्रैश्च वर्षति।
अमित्र—मित्रयोः सद्यो भिद्यते हृदयावनिः॥ १४॥

इमां समयवैषम्याद् भ्रश्यन्तीं गूर्जरक्षितिम्।
दोर्दण्डेनोद्धरन् वीरः सैष शेषं व्यशोषयत्॥१५॥

एतस्मिन् वसुधासुधाजलधरे श्रीवस्तुपाले जग-
ज्जीवातौ सिचयोच्चयैर्नवनवैर्नक्तदिवं वर्षति।
आस्तामन्यजनो घनोज्झितशशिज्योत्स्नाच्छवल्गद्गुणोद-
भूतैरद्यदिगम्बराद्यपि यशो—वासोभिराच्छादितम्॥१६॥

विश्वस्मिन्नपि वस्तुपाल! जगति त्वत्कीर्तिविस्फूर्तिभिः
श्वेतद्वीपति कालिका कलयति स्वर्मालिकानां मुखम्।
यात्नै(यत् तै)स्तावककीर्तिसौरभमदान्मन्दारमन्दादरे
वर्गे स्वर्गसदां सदा च्युतनिजव्यापारदुःस्थैः स्थितम्॥१७॥

भाग्यभूः किमसावस्तु वस्तुपालः स्तुतेः पदम्?।
येनार्थ—कामावप्येतौ धर्मकर्मकृतौ कृतौ॥१८॥

तमः सर्वान्नीने प्र[म] दलहरीनर्तितभुजं भुजङ्गीभिर्गीते जितसितकरे यस्य यशसि।
शिरः क्रोडक्रीडद्धरणिभरभुग्नोऽपि भजते भुजङ्गेशः क्लेशव्ययमुदयदानन्दमुदितः॥१९॥

यद्यात्रासु तुरङ्गनिष्ठुरखुरैः क्षोणीतल ताडितं
कम्पः सम्पदमाससाद हृदये किन्तु प्रतिक्ष्माभृताम्।

उद्भूतानि रजांसि मांसलतमान्याकाशमाशिश्रियु—
स्तेषामेव मुखावनौ पुनरहो! मालिन्यमुन्मीलितम्॥२०॥

काले यत्खड्गदण्डे रिपुकरटिशिरःस्यन्दसिन्दूरपूरैः
सन्ध्याबन्ध दधाने विरचितमुचितं मौक्तिकैस्तारकत्वम्।
शीतज्योतिःप्रकाश तदनु समुदित तद्यशो येन तेने
शश्वद्विस्तारि राकारजनिमहमहो! विश्वतो विश्वमेतत्॥२१॥

चण्डांशोरपि चण्डतामगमयदू यस्य प्रतापोदयः
शीतागोरपि शीत(ति) मानमभजद् यस्य प्रसादोत्सवः।
ब्रह्मास्वादनतोऽपि तोषमपुषद् यस्यावदात यश—
स्तल्लोकोत्तरमस्य कस्य वचसा पात्र चरित्राद्भुतम्?॥२२॥

यस्मिन् धर्म पुरस्कृत्य विषद्भ्यो रक्षति क्षितिम्।
जने जन्यमजन्यं च द्वयमप्राप्यता गतम्॥२३॥

तस्मिन् काञ्चनकोटिभिः प्रणयिना दारिद्यमुद्राद्रुहि
व्यक्तं काञ्चनशैलखण्डनविधावाखण्डलः शङ्कितः।
भ्राम्यत्येव निदेशतोऽस्य तद्यराजा ससूरः सदा
नक्षत्रे परिवारितश्च परितोऽप्यद्याप्यमुं रक्षति॥२४॥

नभस्ये निर्वृष्टा शरदि नहि वर्षन्ति जलदाः
फलव्रातैरात्तैर्न खलु फलवृक्षाश्च फलिनः।
प्रदुग्धा वा गावः पुनरपि न दुग्धानि ददते
कदाऽप्येतस्योच्चैर्न तु वितरणे श्राम्यति मति॥२५॥

दोपः स्फूर्जति सज्जकज्जलमलःस्नेह मुहुः सहर—
न्निन्दुर्मण्डलवृत्तखण्डनपरःप्रद्वेष्टि मित्रोदयम्।
सूरः क्रूरकरः परस्य सहते तेजो न तेजस्विन—
स्तत् केन प्रतिम ब्रुवीमहि महः श्रीवस्तुपालाभिधम्?॥२६॥

इति मलधारिश्रीनरचन्द्रसूरिकृता श्रीवस्तुपालप्रशस्तिः।

_______

परिशिष्टम् [५]

मलधारिश्रीनरेन्द्रप्रभसूरिनिर्मिता

वस्तुपालप्रशस्तिः (२)

स मङ्गलं वो वृषभध्वजः क्रियाज्जटावलीसंवलितांसमण्डलः।
यदीयमङ्गंकिल सर्वमङ्गलाश्रितं प्रमोदाय न कस्य जायते?॥१॥

समूलमुन्मूलयितुं सुरद्रुहः सन्ध्यासमाधौ चुलुकीकृतेऽम्भसि।
दूरंभ(स्वयम्भु)वा यः[स]सृजे भटाग्रणीःसमग्रशक्तिः स चुलुक्य [इ]त्यभूत्॥२॥

तदन्वयाम्भोधिविधुर्विधूतविरोधिमूलोऽजनि मूलराजः।
न क्वापि दोषोक्तिरभूत् तु यस्य यशःप्रकाशैर्विशदेऽपि विश्वे॥३॥

य(त)स्यात्मभूः समभवद् भुजदण्डचण्डश्चामुण्डराज इति राजकमौलिरत्नम्।
भूवल्लभस्तदनु वल्लभराजदेवस्तन्नन्दनो मुदमुदञ्चितवान् प्रजानाम् ॥४

तस्यानुजन्मा समभूत् परस्त्रीसुदुर्लभो दुर्लभराजदेवः।
बभूव भीमो रणभूमिभीमस्ततोऽपि सीमा जगतीपतीनाम्॥५॥

तदात्मजः संयति लब्धवर्णः कर्णोऽभवत् कर्णसमप्रतापः।
श्रीसङ्गमाद् वीररसोऽपि यस्य बभार शृङ्गारमयत्वमेव॥६॥

सूनुस्तदीयोऽजनि वैरिवीरद्विपेन्द्रसिहो जयसिंहदेवः।
नवेन्दु—कुन्दद्यतिभिर्धरित्री यः कीर्तिमुक्ताभिरलञ्चकार॥७॥

अयं हि राकासु विलासकौतुकी रिपुस्तदस्यास्तु विपर्ययोऽधुना।
इतीव यो मालवमेदिनीश्वरं चकार काराविनिवेशदुःस्थितम्॥८

ततोऽभवत् कीर्तिलतालवालःकुमारपालः क्षितिपालभास्वान्।
यस्य प्रतापःशिशिरेऽप्यरीणां स्वेदोदबिन्दूनधिकांश्चकार॥९

उदग्रतेजःसुकृतैकमन्दिरं धराधरेन्द्रः स गिरामगोचरः।
व्यधत्त यः शत्रुकलत्रमण्डली महीमशेषां च विहारभूषणाम्॥१०॥

तस्मादभूदजयपाल इति क्षितीशःप्रत्यर्थिपार्थिबकुलप्रलयाश्र्नयाशः।
श्रीमूलराज इति वैरिसमासराजन्निर्व्याजविक्रमनयस्तनयस्तदीयः॥११॥

बन्धुः कनीयान् विजयी तदीयःश्रीभीमदेवोऽस्ति महीमहेन्द्रः।
प्रवासदायिन्यपि वैरिवर्गोबभूव यस्मिन्नवनाभिलाषी॥१२॥

श्रियं चौलुक्यानां प्रकृतिमतिभेदेन विवशां वशीकृत्यामुष्मिन्नसमविनिवेशा[म]कृत यः।
स नेताऽर्णोराजः समभवदिहैवान्वयवरे वरेण्यश्रीशाखा[म्बरम]णिरद्वैतसुभटः॥१३॥

भूयांस एव प्रथितप्रतापा यशस्विनस्तस्य सुता बभूवुः।
प्रदीप्यते तेषु जयी विनिद्ररुद्रप्रसादो लवणप्रसादः॥१४॥

अपास्य शौण्डीर्यमद परेषा यद्विक्रमो मानसमध्युवास।
तदङ्गनानां च दृशो विकृष्य बलान् विलासान् विदधेऽश्रुवारि॥१५॥

तन्नन्दनः कुमुदकुन्दनिभैर्यगोभिर्विश्वानि वीरधवलो धवलीकरोति।
यद्विक्रमः क्रमनिरस्तसमम्तशत्रुर्मन्येऽद्यताम्यतितमामहितानपश्यन्॥१६॥

चित्रं विवल्गन्नपि यत्प्रतापः प्रचण्डमार्तण्डमहोमहीयान्।
विरोधिवर्गस्य निसर्गसिद्ध भुजामहोष्माणमपाकरोति॥१७॥

इतश्च—प्राग्वाटवंशध्वजकल्पकीर्तिः श्रीचण्डपः खण्डितचण्डिमाऽभूत्।
उवास यस्मिन् गुणवारिराशौ चिराय लक्ष्मीप्रभुरेव धर्मः॥१८॥

गुणौघहसालिसरोजखण्डश्चण्डप्रसादोऽस्य सुतो बभूव।
यत्कीर्तिसौरभ्यतरङ्गितानि जगन्मुदेऽद्यापि दिगन्तराणि॥१९॥

पत्युर्नदीनामिव विश्वनन्दनो बभूव सोमोऽस्य सुतः कलानिधिः। एकाऽपि..॥२०॥

आशाराजः शस्यधीस्तस्य सूनुर्जज्ञे विज्ञश्रेणिसीमन्तरत्नम्।
येनाऽऽतेने [न] क्वचिद् वालसङ्गश्चित्र चक्रे नाप्यलीकप्रसक्तिः॥२१॥

तस्याभवन्निर्मलकर्मकारिणी कुमारदेवीति सधर्मचारिणी।
असूत सा नीतिरिवातिवाञ्छितप्रदानुपायांश्चतुरस्तनूरुहान्॥२२॥

लूणिगः प्रथमस्तेषु मल्लदेवस्ततोऽपरः।
वस्तुपालः सुधीरस्मात् तेजःपालोऽथ धीनिधिः॥२३॥

वशश्रीमौलिधम्मिल्ल मल्लदेवं कथ स्तुवे?।
यस्य धर्मधुरीणस्य विवेकः सारथीयते॥२४॥

सरस्वतीकेलिकलामरालः स वस्तुपालः किमुताभिनन्द्यः?।
जिताः पदन्यासमनन्यतुल्यं वितन्वता के कवयो न येन?॥२५॥

दानं दुर्गतवर्गसर्गललितव्यत्यासवैहासिकं
शौण्डीर्य भुजदण्डचण्डिमकथासर्वङ्कषंविद्विषाम्।
बुद्धिर्यस्य दिगन्तभूतलभुवामाकृष्टिविद्या श्रियां
कस्यासौ न जगत्यमात्यतिलकः श्रीवस्तुपालो मुदे?॥२६॥

तेजःपालः सचिवतिलको नन्दताद् भाग्यभूमिर्यस्मिन्नासीद् गुणविटपिनामव्यपोहः [प्ररोहः]।
यच्छायासु त्रिभुवनवनप्रेङ्खणीषु प्रगल्भं प्रक्रीडन्ति प्रसूमरमुदःकीर्त्तय श्रीसहायाः॥२७॥

धन्यः स वीरधवलः क्षिति कैटभारिर्यस्येदमद्भुतमहो महिमप्ररोहम्।
दोप्रोष्णदोधिति—सुधाकिरणप्रवीणं मन्त्रिद्वयं किल विलोचनतामुपैति॥२८॥

प्रेक्ष्यास्थैर्य प्रभुप्रीति-विभूति-वपुरायुषाम्।
वस्तुपालः स्थिरे धर्म कर्मण्येव धियं दधौ॥२९॥

अगण्यपुण्योदयशस्यकाश्यपीमघौघनिर्घातनकर्मकर्मठाम्।
सहैव सङ्घेन नमस्यकर्मणा यस्तीर्थयात्रामकरोन्महामतिः॥३०॥

अभ्यर्च्य देवान्पथि साधुमण्डलीमाराध्य शुद्धाशन—पानकादिभिः।
उद्धृत्य दीनानुपकृत्य धार्मिकान् यो यात्रया प्राप पवित्रतां पराम्॥३१॥

उद्धृत्य पञ्चासरजैनवेश्म यस्तत्र संस्थाप्य च पार्श्वनाथम्।
चकार चौलुक्यपुरे स्वकीर्ति—सखीत्वसुस्थां वनराजकीर्तिम्॥३२॥

श्रीयुगादिप्रभोर्वेश्मन्यर्बुदाचलमूर्ध्नि यः।
श्रेयसे मल्लदेवस्य मल्लिदेवमतिष्ठिपत्॥३३॥

बिभ्राणं परितो जिनेन्द्रभवनान्युच्चैश्चतुर्विंशतिं तापोत्तीर्णसुवर्णदण्डकलशालङ्कारतारश्रियम्।
यः शत्रुञ्जयदेवसेवनमनाः शत्रुञ्जयाख्यं जिनप्रासादं धवलकनामनि पुरे निर्मापयामासिवान्॥३४॥

गोग्रहप्रोज्झितासूना देवभूयमुपेयुषाम्।
राणभट्टारकाणां यस्तत्रागारमकारयत्॥३५॥

वार्ष(पार्श्वे) तस्य परः स्मेरपद्मां पीयूषबान्धवीम्।
प्रपां चाप्रतिमां विश्वप्रीतिदां यो व्यधापयत्॥३६॥

पौषधशालाद्वितयं यस्यास्ते तत्र मुनिभटाकीर्णम्।
कलिशत्रुभीतिभङ्गुरधर्मघराधीशदुर्गनिभम्॥३७॥

पुरोत्तमे स्तम्भनकाभिधाने निवेशने पार्श्वजिनेश्वरस्य।
योऽकारयत् काञ्चनकुम्भदण्डमखण्डधर्मा शिखर गरीयः॥३८॥

नाभेयं नेमिनाथं च तदीये गूढमण्डपे।
सरस्वतीं जगत्यां च स्थापयामास यः कृती॥३९॥

अकारयन्नगाकारं प्राकारं परितोऽत्र यः।
निदाघदमनक्रीडाप्रवृत्तं च प्रपाद्वयम्॥४०॥

यश्चकार नवोद्धारधा(वा)रि[म्]दभुतवैभवाम्।
सुधासहचरी तत्र वापीं व्याकोशपङ्कजाम्॥४१॥

भृगुनगरमौलिमण्डनमुनिसुव्रततीर्थनाथभवने यः।
देवकुलिकासु विंशतिमितासु हैमानकारयद् दण्डान्॥४२॥

तस्य गर्भगृहोत्सङ्गे यस्त्रैलोक्यदिवाकरौ।
पार्श्वनाथ-महावीरौ क्षान्तिधीरो न्यवीविशत्॥४३॥

नगराख्ये महास्थाने चैत्यमाद्यजिनेशितुः।
येनोद्धृत्य समुद्दध्रेकीर्तिर्भरतचक्रिणः॥४४॥

व्याघ्ररो(प)ल्ल्यभिधे ग्रामे पूर्वजैकारितं पुरा।
येन तत्पुण्यवृद्ध्यर्थमुध्धृतं जिनमन्दिरम्॥

४५॥

निरीन्द्रग्रामे वोडाख्यवालीनाथस्य मन्दिरम्।
विघ्नसङ्घातघाताय प्रजानामुद्दधार यः॥४६॥

स्थापयन् सींहुलग्राममण्डने जिनवेश(श्म)नि।
यः श्रीवीरजिनं विश्वप्रमोदमुदजीवयत्॥४७॥

श्रीवैद्यनाथवरवेश्मनि दर्भवत्यां यान्
दुर्मदी सुभटवर्मनृपो जहार।
तान् विंशतिं द्युतिमतस्तपनीयकुम्भानारोपयत्
प्रमुदितो हृदि वस्तुपालः॥४८

श्रीवीरधवलमूर्तिर्जयतलदेव्याश्च मूर्तिरसमश्रीः।
श्रीमल्लदेवमूर्त्तिः स्वमूर्तिरनुजस्य मूर्तिश्च॥४९॥

श्रीवैद्यनाथगर्भद्वारबहिभिर्त्तिसम्भवे निलये। अन्तर्भक्तिनिमीलितकरकमलाः कारिता येन। युग्मम्
स्वविरोधिनी शुचिर्ध्रुवमुमारशय्ये च वदरकूपे च। यस्य प्रपां प्रपश्यन् कलयत्यधिकाधिक तापम्॥
उद्दधारानुजो यस्य तीर्थे कासद्द्रदाभिधे। नाभेयभवनं तुङ्गं स्वयमम्बाऽऽलयं पुन॥५२॥

स्तम्भतीर्थे नगोत्तुङ्गे धाम्नि भीमेश्वरस्य य।
शातकुम्भमयकुम्भं केतने चाध्यरोपयत्॥५३॥

तत्र लोलाकृति दोला(लां) कालाधो(कालधौ)ती च मेखलाम्।
यो वृषंच तुषारांशुकान्तिकल्पमकल्पयत्॥५४॥

यः स्फुरन्मेदुरामोदे तस्य गर्भगृहोदरे।
मृर्त्ती न्यवेशयद् धीमानात्मनश्चानुजस्य च॥५५॥

तस्य जगत्यां प्रीत्यै ललितादेव्याः स्ववल्लभाया यः।
सूत्रयति स्म पवित्रां वटसावित्रीं सदनसहिताम्॥५६॥

कि च कारयता तत्र तक्रविक्रयवेदिकाम्।
स्वस्य प्रकटिता येन कृत्याकृत्यविवेकिता॥५७॥

उध्धृत्य वैद्यनाथस्य वेश्म योऽत्रैव मण्डपे।
मूर्त्तिंश्रीमल्लदेवस्य शस्यकीर्त्तिरतिष्ठिपत्॥५८॥

पुण्यं प्रतापसिंहस्य यः स्वपौत्रस्य वर्धयन्।
तत्रैव रचयामास ध्वस्तग्रीष्मातपां प्रपाम्॥५९॥

प्रभूतभूतराजस्य यशोराजस्य मन्दिरम्।
रम्यं निर्मापयामास कीर्त्तीनां वासवेश्म यः॥६०॥

असौ भुवनपालस्य शिवाय शिवमन्दिरम्।
अस्थापयत् समं रम्यैर्दशभिर्देवताऽऽलयैः॥६१॥

तज्जगत्यां च यः काम्यं चण्डिकायतनं नवम्।
वेश्म रत्नाकरस्यापि निस्सपत्नमसूत्रयत्॥६२॥

पञ्च पौषधशालाश्च तत्र येन वितन्वता।
पञ्चोत्तरविमानश्रीपात्रमात्मा व्यतन्यत॥६३॥

पुण्यायाजयसिंहस्य रोहडीजिनधाम्नियः।
नाभेयप्रतिमां तस्य मूर्त्तिं च निरमापयत्॥६४॥

इहैवाष्टापदोद्धारं श्रीशालिगजिनालये।
लक्ष्मीधर[स्य] पुण्यार्थमुपकारी चकार यः॥६५॥

तत्रैकं राणकश्रीमदम्बडस्य तथाऽपरम्।
पुण्यार्थं वैरिसिंहस्य यस्तीर्थेशं न्यवीविशत्॥६६॥

श्रीकुमारविहारेऽत्र वृत्रारातिनतक्रमौ।
पार्श्वनाथ—महावीरौ प्रीत्या यः प्रत्यतिष्ठिपत्॥६७॥

ग्रामेऽर्कपालितकनाम्नि जिनेश्वरस्य वीरस्य मन्दिरमुदारमकारि येन।
भूतेशवेश्म च मनोहरमध्वनीन—सजीविनी तपनतापरिपुः प्रपा च॥६८॥

येनात्रैव वियच्चुम्बिवीचिवाचालकूलभूः।
कासारः कारयाञ्चक्रे क्षीरनीरधिबान्धवः॥६९॥

मन्येऽस्मिन्नमताम्बुदेन ववृषे पीयूषवर्षैर्मुहुः केनाप्येतदवश्यमम्बरसरित्पङ्केरुहैः पूरितम्।
व्यक्त ब्रह्मसुतामरालकुलजैकीर्ण मरालैरिदं तेनैतस्य न वस्तुपालसरसः स्तोतुं गुणानीश्महे॥

वलभ्यां पुण्यलम्यश्रीः प्रासादो वृषभप्रभोः।
येनोद्दध्रे मुदा मल्लदेवस्य सुकृतश्रिये॥७१॥

ललितादेव्याः पत्न्याः सुकृताय जिनेन्द्रभवनभासितटम्।
तत्र नवकमलललितं ललितसरः कारितं येन॥७२॥

शत्रुञ्जयनगोत्सङ्गे श्रीयुगादिजिनेशितुः।
कार्तस्वरमयं रम्यं पृष्ठपट्टमतिष्ठिपत्॥७३॥

तस्यैवाऽऽद्यविभोश्चैत्यप्रवेशे येन वामतः।
सुव्रतस्वामिनं न्यस्य भृगुकच्छविभूषणम्॥७४॥

वीरं दक्षिणतःसत्यपुराधीश निवेश्य च।
तदन्ते भारतीदेवी विश्वाराध्या न्यधीयत॥७५॥ युग्मम्

तत्रैवाकारयद् धाम्निकाञ्चनान् मण्डपत्रये।
पौत्रप्रतापसिंहस्य श्रेयसे कलशानसौ॥७६॥

स्तोतु नाभिनरेन्द्रनन्दनगुणान् गोत्रं च कीर्ति समं
व्याहारं सचिवारविन्दतरणेरेतस्य दानाम्बुधेः।
यत्रोवास विकस्वरोभयमुखी प्रीत्यैव देवीन्दिरा
तद् येनास्य विभोरकार्यत पुरो दृक्पारणं तोरणम्॥७७॥

अत्रैव शैले रचयाञ्चकार मनोज्ञमाखण्डलमण्डपं यः।
प्रयान्ति वैलक्ष्यमवेक्ष्य यस्य लक्ष्मी सहस्राक्षदृशोऽप्यवश्यम्॥७८॥

तत्र रैवतकाधीशः प्रभुश्चस्तम्भनेश्वरः।
वस्तुपाले विधृत्येव प्रीतिमागत्य तस्थतुः॥७९॥

श्रीवस्तुपालस्य कयाऽतिभक्त्या नेमिः समाकृष्यत कौतुकं नः।
इतीव तस्मिन्नवलोकनाम्बा—प्रद्युम्न—शाम्बाः सममभ्युपेयुः॥८०॥

तत्राऽऽत्मस्वामिनो वीरधवलस्य धराषतेः।
स्वर्द्विषाभद्विषारूढां मूर्ति स्थापयति स्म यः॥८१॥

अत्रैव शत्रुञ्जयशैलमौलौ नन्दीश्वरद्वीपगतान् जिनेन्द्रान्।
तस्यानुजः स्थापयति स्म तेजःपालाभिधानो यशसां निधानम्॥८२॥

धर्मस्थानमिदं विलोक्य जगतामानन्दकन्दोदय—
प्रावृट्कल्पमनल्पसम्भ्रमभरान्नन्दीश्वराख्यं जनः
तेजःपालयशांसि-मांसलरसं गायन् मुहुर्गायते
मन्ये नूतनवस्तुसंस्तववशोट्भूतां प्रभूतां मुदम्॥८३॥

अनुपमदेव्यास्तेन स्वप्रेयस्याः प्रभूतसुकृताय।
आदिजिनेश्वरपुरतो विदधेऽनुषमासरश्च नवम्॥८४॥

विशेषके रैवतकस्य भूभृतःश्रीनेमिचैत्ये जिनवेश्मसु त्रिषु।
श्रीवस्तुपालः प्रथमं जिनेश्वरं पार्श्वं च वीरं च मुदान्यवीविशत्॥८५॥

तदन्तिके च निःशेषसुरासुरनिषेविताम्।
कारयामास यः काव्य—कामधेनुं सरस्वतीम्॥८६॥

येनाऽऽत्मनः स(स्व)पत्न्याश्च स्वस्य भ्रातुः कनीयसः।
तद्भार्यायाश्च शैवेयचैत्येऽकार्यन्त मूर्त्तयः॥८७॥

अम्बिकाभवने येन मूर्त्तिः स्वस्यानुजस्य च।
जगन्नेत्रसुधावृष्टिः कारिता चारिमास्पदम्॥८८॥

तदीये शिखरे नेमि चण्डपश्रेयसे च यः।
मूर्ति रम्यां तदीयां च मल्लदेवस्य च व्यघात्॥८९॥

चण्डप्रसादपुण्यं वर्द्धयितुं योऽवलोकनाशिखरे।
स्थापितवान् नेमिजिनं तन्मूर्तिं स्वस्य मूर्तिं च॥९०॥

प्रद्युम्नशिखरे सोमश्रेयसे नेमिनं जिनम्।
सोममूर्त्तिं तथा तेजःपालमूर्तिं च योऽतनोत्॥९१॥

यः शाम्बशिखरे नेमिजिनेन्द्रं श्रेयसे पितुः।
…तन्मूर्तिं च कारयामास भक्तितः॥९२॥

वस्त्रापथे जगत्यां भवनाम्नः शूलिनो भवनमतुलम्।
उद्धरति स्म विवेकी तेजःपालस्तदनुजन्मा॥९३॥

पुरतः कालमेघस्य क्षेत्रपालस्य कारितः।
आश्व(अश्वि)नोर्मण्डपस्तत्रते नैव मतिशालिना॥९४॥

प्रीतो वस्त्रापथभुवि पुरा यद् ददौ तापसानां
सङ्घः किञ्चित् तदिदमधुना प्रापितं तैः करत्वम्।
ग्रामोद्धारादखिलमपि तन्मोचयामास तेभ्य-
स्तेजःपालः सुकृतकृतधीर्वस्तुपालानुजन्मा॥९५॥

स्ववंश्यमूर्त्तिभिः श्रीमन्नेमिनाथेन चान्वितः।
मुखोद्घाटनकस्तम्भे वस्तुपालेन निर्ममे॥९६॥

आशाराजस्य पितुः पितामहस्यापि सोमराजस्य।
मूर्त्तियुगमत्र मन्त्री-व्यधापयत् तुरगपृष्ठस्थम्॥९७॥

द्वारे यत् किल दक्षिणामनुगत यच्च प्रतीच्यां स्थितं
यत् कौवेरदिगाश्रितं च सदनं श्रीनेमिनाथप्रभोः।
कामं मण्डयति स्म तानि सचिवोत्तंसः स यैस्तोरणै—
र्दृष्टिस्तद्विभव विभाव्य जगतो नान्यत्र विश्राम्यति॥९८॥

गुरुः कुलेऽस्य नागेन्द्रगच्छव्योमार्यमाऽभवत्।
श्रीमहेन्द्रप्रभः श्रीमान् शान्तिसूरिस्ततः श्रुतः॥९९॥

आनन्दामरसूरी तदीयगच्छाब्धिकौस्तुभप्रतिमौ।
तदनु हरिभद्रसूरिः शमरत्नमहोदधिः समभूत्॥१००॥

तत्पदे विजयसेनसूरयः पूरयन्ति कृतिना मनोरथान्।
वस्तुपाल-जिनबिम्बपद्धतिर्जृम्भते जगति यत्प्रतिष्ठिता॥१०१॥

अत्यद्भुतैः कृत्यर्शतैरज योऽसाधयद् धर्ममतुल्यकर्म।
श्रीवस्तुपालः सचिवावतंसः प्रकल्पता कल्पशतायुरेषः॥१०२॥

यो विद्वद्भिरप्येवं स्तूयते—

त्यागाराधिनि राधेयेऽप्येककर्णैव भूरभूत्।
उदिते वस्तुपाले तु द्विकर्णा वर्ण्यतेऽधुना॥१०३॥


जज्ञे हर्षपुरीयगच्छतिलकः श्रीमन्मुनीन्दुप्रभु—
र्देवानन्दगुरुस्ततस्तदपरः सूरिश्चदेवप्रभः।
तच्छिप्यैर्नरचन्द्रसूरिगुरुभिर्दत्तप्रतिष्ठोदय—
स्तामेतामतनोत् प्रशस्तिमतुलां सूरिर्नरेन्द्रप्रभः॥१०४॥

इति मन्त्रीश्वरवस्तुपालप्रशस्तिः श्रीनरेन्द्रप्रभसूरिविरचिता।

परिशिष्टम् [६]

नरेन्द्रप्रभसूरिनिर्मिता

मन्त्रीश्वरवस्तुपालप्रशस्तिः (३)

स्वस्ति श्रोवल्लिसालाय वस्तुपालाय मन्त्रिणे।
यद्यशः शशिनः शत्रुदुष्कीर्त्या शर्वरीयितम्॥१॥

शौण्डीरोऽपि विवेकवानपि जगत्त्राताऽपि दाताऽपि वा
सर्वः कोऽपि पथीह मन्थरगतिः श्रीवस्तुपालाश्रिते।
स्वज्योतिर्दहनाहुतीकृततमः स्तोमस्य तिग्मधुतेः
कः शीतांशुपुरःसरोऽपि पदवीमन्वेतुमुत्कन्धरः?॥२॥

श्रीवस्तुपालसचिवस्य यशःप्रकाशे विश्वं तिरोदधति धूर्जटिहासभासि।
मन्ये समीपगतमप्यविभाव्य हंसं देवःस [प]द्मवसतिश्चलितः समाधेः॥३॥

वास्तवं वस्तुपालस्य वेत्ति कश्चरिताद्भुतम्?।
यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि॥४॥

शून्येषु द्विषतां पुरेषु विपुलज्वालाकरालोदयाः
खेलन्ति स्म दवानलच्छलभृतो यस्य प्रतापाग्नयः।
जृम्भन्ते स्म च पर्वगर्वितसितज्योतिःसमुत्सेकित—
ज्योत्स्नाकन्दलकोमलाः शरवणव्याजेन यत्कीर्तयः॥५॥

कुन्दं मन्दप्रतापं गिरिशगिरिरपाहङ्कृतिः साश्रुबिन्दुः
पूर्णेन्दुः सिद्ध…….विधुरिमा पाञ्चजन्यः समन्युः।
शेषाहिर्निर्विशेषः कुमुदमपमदं कौमुदी निष्प्रमोदा
क्षीरोदः सापनोदः क्षतमहिम हिमं यस्य कीर्तेः पुरस्तात्॥६॥

यस्योर्वीतिलकस्य किन्नरगणोद्गीतैर्यशोभिर्मुहुः
स्मेरदूविस्मयलोलमौलिविगलञ्चन्द्रामृतोज्जीविनाम्।
सृष्टिर्नाभवदीदृशी मम न मेऽप्य… वाप्येति गां
मुण्डस्रक्परिणाद्धधातृशिरसां शम्भुः परं पिप्रिये॥७॥

राकाताण्डवितेन्दुमण्डलमहः सन्दोहसंवादिभि—
र्यत्कीर्तिप्रकरैर्जगत्त्रयतिरस्कारैकहेवाकिभिः।
अन्योन्यानवलोकनाकुलितयोः शैलात्मजा-शूलिनोः

क्व त्वं क्व त्वमिति प्रगरभरभसं वाचो विचेरुर्मिथः॥८॥

बाढं प्रौढयति प्रतापशिखिनं कामं यशःकौमुदी
सामोदां तनुते सतां विकचयत्यास्यारविन्दाकरान्।
शत्रुस्त्रीकुचपत्रवल्लिविपिनं निःशेषतः शोषय—
त्यन्यः कोऽप्युदितो रणाम्बरतले यस्यासि—धाराधरः॥९॥

तत् सत्य कृतिभिर्यदेष भुवनोद्धारकेधौरेयतां
बिभ्राणो भृशमच्युतस्थितिरिति प्रेमोत्तरं गीयते।
यत्र प्रेम निरर्गलं कमलया सर्वाङ्गमालिङ्गिते
केषां नाम न जज्ञिरे सुमनसामौर्जित्यवत्यो मुदः?॥१०॥

न यस्य लक्ष्मीपतिरप्युपैति जनार्दनत्वात् समतां मुकुन्द।
वृषप्रियोऽप्युग्र इति प्रसिद्धि दधत् त्रिनेत्रोऽपि न चास्य तुल्यः॥११॥

स्वस्ति श्रीवलये नमोऽस्तु नितरां कर्णाय दाने ययो—
रस्पष्टेऽपि दिशां यशः कियदिदं वन्द्यास्तदेताः प्रजाः।
दृष्टे सम्प्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः
कीर्ति काञ्चन या पुनः स्फुटमियं विश्वेऽपि नो मास्यति॥१२॥

यस्मिन् विश्वजनीनवैभवभरे विश्वम्भरां निर्भर—
श्रीसम्भारविभाव्यमानपरमप्रेमोत्तरां तन्वति।
प्राणिप्रत्ययकारि केवलमभूद् देहीति सङ्कीर्तनं
लोकानां न कदाऽपि दानविषयं नाप्रार्थनागोचरम्॥१३॥

दृश्यन्ते मणि—मौक्तिकस्तवकिता यद् विद्वदेणीदृशो
यज्जीवन्त्यनुजीविनोऽपि जगतश्चिन्ताश्मविस्मारिणः।
यच्च ध्यानमुचः स्मरन्ति गुरवोऽप्यश्रान्तमाशीर्गिरः
प्रादुष्षन्त्यमला यशःपरिमलाः श्रीवस्तुपालस्य ते॥१४॥

कोटीरैः कटकाङ्गुलीय—तिलकैः केयूर—हारादिभिः
कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितै।
विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृत—
स्तैस्तैः स्वं शपथैः कथं कथमपि प्रत्याययाञ्चक्रिरे॥१५॥

]


  1. “व ३ॐ नम सरस्वत्यै आ०।” ↩︎

  2. “प रहसे। " ↩︎

  3. " प. निर्नान।” ↩︎

  4. “अ. नींदुप्रभो दे०।” ↩︎

  5. “व ०प्रभुसू०।” ↩︎

  6. “प० जाने०” ↩︎

  7. “प०.र्मित्रर्मि०” ↩︎

  8. “प पीयूष०” ↩︎

  9. “व ०हर०” ↩︎

  10. “अ. सर्वक०” ↩︎

  11. “अ द्वीपा०” ↩︎

  12. “व ० रिपु पु०” ↩︎

  13. “प. अ ० दचन” ↩︎

  14. " प ० चिज्ज् ०" ↩︎

  15. “ब्ल्वना च” ↩︎

  16. “अ० न्वहे” ↩︎

  17. “अ०विस्कृ” ↩︎

  18. “अ ० तिप्तद्व०” ↩︎

  19. " व ० स्त्रपतनप्र०" ↩︎

  20. “प. शब्द एव” ↩︎

  21. " व ० देवस्व ०" ↩︎

  22. “व ०पीति क०” ↩︎

  23. " व. स कृ०" ↩︎

  24. “क हृपादा” ↩︎

  25. " व व्वर्त" ↩︎

  26. “व पल०” ↩︎

  27. “प ०भात् छ०” ↩︎

  28. " प. माल्हाद०" ↩︎

  29. " व ०गम क०" ↩︎

  30. “अ सोऽयमित्य०” ↩︎

  31. “व ङ्काररूपा०” ↩︎

  32. “व ० पूर्णो भ०” ↩︎

  33. “व मदरा०” ↩︎

  34. “प सुप्राप्ता” ↩︎

  35. “प. ०न्योऽमृतव०” ↩︎

  36. “व वर्तप।” ↩︎

  37. “प. न्यो मतव।” ↩︎

  38. “प ०दृशा पि०” ↩︎

  39. “प. अमन्दानन्दसन्दोहप्राप्त” ↩︎

  40. “व प्राग्मारै सप्राप्य” ↩︎

  41. “प. ०स्त्राद्द-वात् न " ↩︎

  42. “प परिश्रान्ति” ↩︎

  43. " अव्स्य कि०” ↩︎

  44. " प ० पाद ०" ↩︎

  45. “प ०र्थरूपस्त्रि०” ↩︎

  46. “प ० तिरूपाद् वि०” ↩︎

  47. “अ ०भ्योपिर्थो०” ↩︎

  48. “प ०पि कामर०” ↩︎

  49. “व निस्यादिनो” ↩︎

  50. “प ० नाहि क० अ ०दीना अद्य०” ↩︎

  51. " प. समत०" ↩︎

  52. " अ ०ल्येभ्य पु०" ↩︎

  53. " प वर्त्तव्य" ↩︎

  54. “व० न्यतत्र” ↩︎

  55.  ↩︎
  56. “व द्वयोर्व्या०” ↩︎

  57. “प का०” ↩︎

  58. “व व्व नत्रा०” ↩︎

  59. “व ०पाथ कि०” ↩︎

  60. “अ ०णैवोप०” ↩︎

  61. “प ०स्य हास्यता।” ↩︎

  62. “० त्मको” ↩︎

  63. “अ ०नात्म०” ↩︎

  64. “व ते लो०” ↩︎

  65. " व तद्वदा" ↩︎

  66. “अ ०त्ति क०” ↩︎

  67. " प वा" ↩︎

  68. " प ०लु अ०" ↩︎

  69. “अ मतो वि०” ↩︎

  70. " व. पुष्पफलस्याशोके" ↩︎

  71. “अ चदने द्रु ०” ↩︎

  72. “व. अ द्रव्यस्य यथा कुन्द०” ↩︎

  73. " व हरितत्वस्य कि०" ↩︎

  74. " प यथा, व. तथा बन्धोऽन्यस्य जा०" ↩︎

  75. " व लाना" ↩︎

  76. " अ ०लश्रिय०" ↩︎

  77. " अ रत्नसुवर्णादी०" ↩︎

  78. “अ. ष्पशु०” ↩︎

  79. “ब. ०चक्षु०” ↩︎

  80. " अ. ०स्यं ० चद्रस्य" ↩︎

  81. “प. चेति " ↩︎

  82. “अ. व्यति।” ↩︎

  83. “अ. ० केचना०” ↩︎

  84. " व. चैच्छि०” ↩︎

  85. " अ. काव्य सोऽपि" ↩︎

  86. “अ व्य स०” ↩︎

  87. " व. प्रतीयन्ते" ↩︎

  88. " अ. ०थाघे०" ↩︎

  89. “व ० त्र्यहे० " ↩︎

  90. " व स्थानस्थैरे०” ↩︎

  91. “अ ० स्तदित्या०” ↩︎

  92. “प. व. ॰ङ्कृति” ↩︎

  93. “व. ०र्थस्य” ↩︎

  94. “व० त्व य०।” ↩︎

  95. “व. तथापि” ↩︎

  96. “प. न” ↩︎

  97. " अ०द्वय०" ↩︎

  98. “व लभ्यते” ↩︎

  99. “व. तोद्धतो” ↩︎

  100. “वालिन” ↩︎

  101. “अ. तद्द०। प ०ना वि०” ↩︎

  102. “प. ०क्षामस्येत्य०, अ ०क्षामस्य चे०” ↩︎

  103. " प. ०स्यापि" ↩︎

  104. “प, सीयंति” ↩︎

  105. “कोपि नेष्यते” ↩︎

  106. “अ श्रुत” ↩︎

  107. " व. शस्त्रद्ध०। " ↩︎

  108. “अ प्रेषद्भि०।” ↩︎

  109. " प. इत्यलङ्कारमहोदधौ काव्यस्य प्रयोजन—कारण—स्वरूपभेदवर्णनो नाम प्रथमस्तरङ्ग॥१॥२ प भेदाद्यस्त०, व. भेदाय नि०।" ↩︎

  110. ../books_images/U-IMG-1731930689Screenshot2024-11-18171905.png ↩︎

  111. " व ० पूर्वमुप०" ↩︎

  112. " व. शब्दरू०" ↩︎

  113. “अ. ०त्यादौ वि०” ↩︎

  114. “व. ०भूतक्रि०” ↩︎

  115. “व. वक्तृयदृच्छयोर्डि०” ↩︎

  116. “अ व्यापिर्डि०” ↩︎

  117. “अ. तुजा०” ↩︎

  118. “अ. तिकागु०” ↩︎

  119. " व ० नुप्रवृ०" ↩︎

  120. " प ० वृत्तिक ०" ↩︎

  121. “भ. ०का डि०” ↩︎

  122. “प. व्स्यता” ↩︎

  123. “प. शब्दस्य सा” ↩︎

  124. “प. वाच्यागं। " ↩︎

  125. “प शब्दस्य, अ शब्दगतस्य वै०। " ↩︎

  126. " व. यत् पुनः शब्दवै ०। " ↩︎

  127. “व. न. ०ष्यति। " ↩︎

  128. " अ ते अथ। " ↩︎

  129. “अ. • अस०।” ↩︎

  130. “अ. यस्त०।” ↩︎

  131. " प ० शिशेपु, व ० शेपेषु।” ↩︎

  132. " अ. ०रार्धमू०।” ↩︎

  133. “अ ० तिर्य०। " ↩︎

  134. " व. च यत् सीतोपा०।” ↩︎

  135. " प. अ. कत्सभु०।” ↩︎

  136. “अ प्रीताश्व०। " ↩︎

  137. " व ० न्यथा प्र०।” ↩︎

  138. " व. ० निष्ठे।" ↩︎

  139. " व. अ. ०क्षा०। " ↩︎

  140. " अ. कान्ति०।" ↩︎

  141. “व. ० प्रीति” ↩︎

  142. “प ० प्याऽनवस्थापनीयोऽसौ” ↩︎

  143. “तनौ म०” ↩︎

  144. " व ०शस्त्रिपु०" ↩︎

  145. " प.०रत्रये " ↩︎

  146. " प०नभे०।" ↩︎

  147. “तथा” ↩︎

  148. “प ०प्यस्मिन् " ↩︎

  149. “नी लि०” ↩︎

  150. “व यन्तो दि” ↩︎

  151. “१प.शब्दव्य०” ↩︎

  152. “२ अ.मूलौ निबद्धो” ↩︎

  153. “३ व मोहधान्” ↩︎

  154. “व स्रष्टु” ↩︎

  155. “५प०णान्य०” ↩︎

  156. “६ व ०दुभ०” ↩︎

  157. " व ० वद्विषा०” ↩︎

  158. " प अ ०धि स्थि" ↩︎

  159. “अ. लक्षीम०” ↩︎

  160. “च. ०गुणीत०” ↩︎

  161. “प. ०पमा” ↩︎

  162. “व कर्मक” ↩︎

  163. " अ ०दप०" ↩︎

  164. " व. ०लाश०" ↩︎

  165. “अ.०सिप्रा०” ↩︎

  166. “च. महा०” ↩︎

  167. “अ. तृतीयास” ↩︎

  168. “अ ० त्रीहिप्रभृतयो” ↩︎

  169. " व. ०तिव०" ↩︎

  170. “अ व ध्वी प्र” ↩︎

  171. " अ षश्च० " ↩︎

  172. " व ०भ्यः पर ।" ↩︎

  173. “व. ०प्यसूत । " ↩︎

  174. " भ. रस ।” ↩︎

  175. “व. ०त् प्र० ।” ↩︎

  176. " व. ० त्वाम० ।" ↩︎

  177. “प० स्मार०” ↩︎

  178. “प व मूल्यम्” ↩︎

  179. " व किचित्" ↩︎

  180. “व ० स्तद्व्र०” ↩︎

  181. “व ० षजीवयो” ↩︎

  182. “व ०टमिवा” ↩︎

  183. " व. नाभिगमेन" ↩︎

  184. “अ. प. हर्दिव " ↩︎

  185. “अ र्थाना स०” ↩︎

  186. “प चैनं " ↩︎

  187. “व कृपया " ↩︎

  188. " प किविशिष्टो " ↩︎

  189. “व. ०भातीति” ↩︎

  190. “अ प. त्रृष्टि” ↩︎

  191. “प. चतुर्भि कुलकम् " ↩︎

  192. “प. यामलम् " ↩︎

  193. " प. प्रमाणेन” ↩︎

  194. “व किम०” ↩︎

  195. “व ० न्नान्य०” ↩︎

  196. “व. शब्द सव्या०” ↩︎

  197. " व. रूपल०” ↩︎

  198. " प. युगलम्” ↩︎

  199. “अ. ०वकार्य० " ↩︎

  200. " प ० कमा० " ↩︎

  201. “प. ० सामान्यरू० " ↩︎

  202. “अ माद्यजा” ↩︎

  203. “व. सादृश्य०” ↩︎

  204. “व ०कस्थि०” ↩︎

  205. “व. अ. ०त्रभे०” ↩︎

  206. “व. ०प्यवि०।” ↩︎

  207. “प. व्यवि०” ↩︎

  208. “अ. ०क् प्र०” ↩︎

  209. " व. ० दिसा०।” ↩︎

  210. “प. गौणेति " ↩︎

  211. “व. लक्ष०” ↩︎

  212. “व. ० चारि०। " ↩︎

  213. “व. ०णा च” ↩︎

  214. “अ ०रिणो भे०” ↩︎

  215. “ये भे०” ↩︎

  216. “प शुद्धा।” ↩︎

  217. “प तथा” ↩︎

  218. “अ न व्य०” ↩︎

  219. " प ० नूव०” ↩︎

  220. " व ० भिग०।” ↩︎

  221. " प. ०णा नो०” ↩︎

  222. “अ वितु” ↩︎

  223. “व ० त्यादिव्य०” ↩︎

  224. “अ प. व ०न न ल०” ↩︎

  225. “व. दिस्वश०” ↩︎

  226. “व्यकस्य।” ↩︎

  227. “व. ०क्षणे” ↩︎

  228. “व. ०स्थोत क्ष” ↩︎

  229. " व ० यशु०” ↩︎

  230. “व. ० शब्द " ↩︎

  231. “अ व प्रतिप०” ↩︎

  232. “व. ०श्नस्य” ↩︎

  233. “अ. ०णमि०” ↩︎

  234. “अ न्नस्य " ↩︎

  235. “अ ०पदार्थो न ०” ↩︎

  236. " व. ०न्तरसका तोत्यंततिरस्कृत एव वा” ↩︎

  237. “अ. प. तस्यार्प० " ↩︎

  238. " अ. हवंति " ↩︎

  239. “व. ० व्दे पौनरुक्त्येऽनु " ↩︎

  240. " प. ०नाप० " ↩︎

  241. “व सवा०” ↩︎

  242. “अ ० श्रिया०” ↩︎

  243. “व ०त्रम” ↩︎

  244. " व. ०त्रात०” ↩︎

  245. “व ०पपद्यमा०” ↩︎

  246. " व.०र्थच्छा•” ↩︎

  247. " व वाचिशयमाकि र्तु प्रवर्ध” ↩︎

  248. " व ०स्य वा०” ↩︎

  249. " व योग्ये" ↩︎

  250. “प तवेन्दु०” ↩︎

  251. “व ०पस्य स०” ↩︎

  252. " व ०पशक०" ↩︎

  253. “व. स्वाधाव०” ↩︎

  254. " व. ०स्य प्रत्यक्षो०" ↩︎

  255. “व ०मरूपस्य” ↩︎

  256. “प ० भाव०” ↩︎

  257. “प आरो०” ↩︎

  258. “प ० वृत्तत्व०” ↩︎

  259. “व. ०जनवि०” ↩︎

  260. “अ. व्वर्तित्व० " ↩︎

  261. “अ. प ०ष्णुता” ↩︎

  262. “प ० मितादि० " ↩︎

  263. " व ० सित सितपु०” ↩︎

  264. " व चिरं " ↩︎

  265. " प. धतीदृ०” ↩︎

  266. " प ०कृतत्वाद०" ↩︎

  267. “अ ०र्वेदास्मा०” ↩︎

  268. “व. ०न्धेन का०” ↩︎

  269. “प प्रविश्याह” ↩︎

  270. “अ ०णानु०” ↩︎

  271. “व न र०” ↩︎

  272. “प स्वा वाध्य संक्रा०” ↩︎

  273. “व. लक्षमा०” ↩︎

  274. “व. तत्न वा०” ↩︎

  275. “अ व ०स्य विवक्षापि” ↩︎

  276. “अ ०स्य तज्जा०” ↩︎

  277. “व.० क्तौ वा०” ↩︎

  278. " व. स्मृत" ↩︎

  279. " प. ०ता ल०, व. ०स्ते व ल०" ↩︎

  280. “व. ० विवृतिर्यार्वा।” ↩︎

  281. “अ ०क्षणल०” ↩︎

  282. “व्यंजनादि०” ↩︎

  283. “व तरामपि चर०” ↩︎

  284. " अ. ०हित" ↩︎

  285. “अ ०बाधः,व.०बोध.” ↩︎

  286. “व. सङ्गत्वे।” ↩︎

  287. “व. ०कश्रव्यत्व०,अ ०क अव्यक्तत्व०।” ↩︎

  288. “प. ०पने वि।” ↩︎

  289. “अ. व. ० बाधि०।” ↩︎

  290. “अ. चारोपवि०” ↩︎

  291. " प. सोप०। " ↩︎

  292. “व. तयोर्व्य०।” ↩︎

  293. “प ०भूता।” ↩︎

  294. “व ० मुन्निद०।” ↩︎

  295. “प.व. निस्य।” ↩︎

  296. “अ. ० चारमू०।” ↩︎

  297. “अ. शब्दसा०।” ↩︎

  298. “अ ०धाय मू०।” ↩︎

  299. “अ० ञ्जनध्व०।” ↩︎

  300. “अ. प्रतिभा०।” ↩︎

  301. “भ. न. व्यज्यते।” ↩︎

  302. “अ. माने पूजने।” ↩︎

  303. “व.०ब्दस्य श०।” ↩︎

  304. “प. ०स्यैवाभिधा।” ↩︎

  305. “प त्रिभि. कुलकम्।” ↩︎

  306. “अ. तन्या।” ↩︎

  307. “अ. प. ०भातीति।” ↩︎

  308. “व.तदर्थ०।” ↩︎

  309. “व. शातयिता–जा०, प. शमयतिशातयता चेति।” ↩︎

  310. “अ. ०स्ते इन्द्र०।” ↩︎

  311. “अ ०व वृ॒त्रस्य शातयिता।” ↩︎

  312. “प. इत्तह०। " ↩︎

  313. “प. अ. •थणिभा।” ↩︎

  314. “व. दियए०।” ↩︎

  315. “च.०सामाना भि०।” ↩︎

  316. “अ. ०त्वात् सस०।” ↩︎

  317. “प. ०दिति।” ↩︎

  318. “व.बोद्भुतै।” ↩︎

  319. “व. पांसु०।” ↩︎

  320. “प. यथा।” ↩︎ ↩︎

  321. “प. राजा।” ↩︎

  322. “अ.०दमु०।” ↩︎

  323. “प सौकर्मम०।” ↩︎

  324. “ब०विच्छित्तिभू०।” ↩︎

  325. “प. युगली।” ↩︎

  326. “प.०णता” ↩︎

  327. “व. ०शालिप्र०, प ०प्रतिभा।” ↩︎

  328. “व. ०हयति।” ↩︎

  329. “व. चाद्य।” ↩︎

  330. “व. ०मीय०।” ↩︎

  331. “म०भूमी।” ↩︎

  332. “अ यस्य वि०।” ↩︎

  333. “व कला।” ↩︎

  334. “अ. काव्यस्य च्छा०।” ↩︎

  335. “प. मता।” ↩︎

  336. “अ. एवार्थ।” ↩︎

  337. “अ. तदसम्भवे अप०।” ↩︎

  338. “अ. प्रायो०। " ↩︎

  339. “प. बिभ्रन्।” ↩︎

  340. “व. ०भूषि०।” ↩︎

  341. “प. यदप्य०।” ↩︎

  342. “प. व्यञ्जनादि०।” ↩︎

  343. “अ. व्यञ्जना०।” ↩︎

  344. “प. व. त्वात् व्य०।” ↩︎

  345. “प. ०सन्निधिः।” ↩︎

  346. “प. युगलम्।” ↩︎

  347. “व. ०साहिय।” ↩︎

  348. “प. ज्ञा स्वै०” ↩︎

  349. “प. ०सहिअ, व ०तास्वैरिणी बहुरू०।” ↩︎

  350. “प. गुरु।” ↩︎

  351. “प. वाक्य०।” ↩︎

  352. “प. सरसि।” ↩︎

  353. “व कदलि०।” ↩︎

  354. “अ बुल्ले०।” ↩︎

  355. “प. सयल ति।” ↩︎

  356. “प. ०मेतं।” ↩︎

  357. “अ व.०मेअ०।” ↩︎

  358. “अ ०अज्जे०।” ↩︎

  359. “अ व ०मरणहे०।” ↩︎

  360. “अ.पिअ।” ↩︎

  361. “अ विशेषाद्।” ↩︎

  362. “प. ०कामुक०।” ↩︎

  363. “प. तजनित०।” ↩︎

  364. “प दिय, अ दिअ०।” ↩︎

  365. “अ एहि र०।” ↩︎

  366. “अ. व्यक्तिवैचित्र्याद् व०।” ↩︎

  367. “प०क्षिता०, अ. क्षतादि ध्व०।” ↩︎

  368. “अ. व साहिती।” ↩︎

  369. “व. ०मिया।” ↩︎

  370. “अ करिज्ज।” ↩︎

  371. “अ. ०रथिय।” ↩︎

  372. “प ०दिति।” ↩︎

  373. “प. ०सभ्या०।” ↩︎

  374. “व. ०रियसी०।” ↩︎

  375. “अ. निर्नष्ट•।” ↩︎

  376. “अ. ०त्रापि वि०।” ↩︎

  377. “प. ० तस्व०।” ↩︎

  378. “अ. व स्यान्य०।” ↩︎

  379. “प. ०यो वि०।” ↩︎

  380. “अ. व ०मित्र।” ↩︎

  381. “प. ०नुसर०।” ↩︎

  382. “अ. ०द्योऽसं०।” ↩︎

  383. “प. ०चरितः।” ↩︎

  384. “प. रथवी०।” ↩︎

  385. “व. ०काना ग०।” ↩︎

  386. “प. ०दिपदन्या०।” ↩︎

  387. “न. कटरि।” ↩︎

  388. “अ. ०नि ज्ञा०, व. ०पाल्लिङ्गिज्ञा०।”

     ↩︎
  389. “व स्वव्यक्तिव्य०।” ↩︎

  390. “प.०स्यानवस्थाप्रसङ्गात्न च प्र०। " ↩︎

  391. “अ. ०ङ्गात् कि। " ↩︎

  392. “अ. ०न्धिवि०, प. •न्धिविशेषिस्वी०। " ↩︎

  393. “अ. •व स्फु०।” ↩︎

  394. “अ. व. नात्यवि०।” ↩︎

  395. “अ. च नि०।” ↩︎

  396. “अ. ०रः प्रार्थना नि.।” ↩︎

  397. “व च।” ↩︎

  398. “व. विचलि०।” ↩︎

  399. “अ. ०डाको०।” ↩︎

  400. “अ. व. व्याक्षेपकत्वे स०। " ↩︎

  401. “अ ०णरौ०।” ↩︎

  402. " प. व. निवृत्तिघ०।” ↩︎

  403. “अ ०व प्र०।” ↩︎

  404. “अ. ०भ्या माल्यर्तु०।” ↩︎

  405. “व ०दीर्घि०।” ↩︎

  406. “व श्रिता का०।” ↩︎

  407. “पसयो०।” ↩︎

  408. “प. ०त्माय०।” ↩︎

  409. “प. • नय०।” ↩︎

  410. “व. ०न्याम०।” ↩︎

  411. “प. ०नन्दम०।” ↩︎

  412. “अ व. पुरो वक्ष्यते।” ↩︎

  413. “व ०बनेक०।” ↩︎

  414. “व. •ष्टेऽधरपल्लवे।” ↩︎

  415. “प. ०से जा०।” ↩︎

  416. “प. ०र्जाते०।” ↩︎

  417. “अ. सहसा।” ↩︎

  418. “अ ०थमाप०।” ↩︎

  419. “अ ०श. त विना।” ↩︎

  420. “व. तत्रापि।” ↩︎

  421. “व. ०लिम०।” ↩︎

  422. “अ. प. रख०।” ↩︎

  423. “प. ०आइ।” ↩︎

  424. “प दुष्क०, अ. दुष्ट०।” ↩︎

  425. “प ०क्ष्यामः।” ↩︎

  426. “अ. प क्षिपा०।” ↩︎

  427. “अ. ०अतो।” ↩︎

  428. “व. ०इय।” ↩︎

  429. “म. नियोगः।” ↩︎

  430. “अ. •रमिदं।” ↩︎

  431. “अ. ०री हा०।” ↩︎

  432. “व. गंगोल्ल•।” ↩︎

  433. “व. च्युति।” ↩︎

  434. “ब. व्रजेत्।” ↩︎

  435. “अ. प ०रोगा०, व ०कारादि०।”

     ↩︎
  436. “प ०रणै” ↩︎

  437. “अ द्ररसी, व. ०द्रोर०।” ↩︎

  438. “प. ०रोग०।” ↩︎

  439. “व ०दिभिर्व्य०।” ↩︎

  440. “प. अ. व. रसीभ०” ↩︎

  441. “प ०त्राद्यो य०।” ↩︎

  442. “प. विक्र०।” ↩︎

  443. “अ. व. विहि०।” ↩︎

  444. “व. ०क्रंदत०।” ↩︎

  445. “व स्वैर स्व०।” ↩︎

  446. “व. •ल्लसि०।” ↩︎

  447. “अ. •रि भया•” ↩︎

  448. “अ. ०क्वण०, प. ०क्वरण०।” ↩︎

  449. “व. ०न्युग्रपूर०, अ. ०न्यतपू०।” ↩︎

  450. “प. ०कारो ने०।” ↩︎

  451. “अ. ०त. चि०।” ↩︎

  452. “अ. ०दिकारी।” ↩︎

  453. “व मण्डलेन।” ↩︎

  454. “प अ. ०ष्टत०, व. ०ष्कत।” ↩︎

  455. “व. ०स्मित०। " ↩︎

  456. “अ. च।” ↩︎

  457. “अ. ०रन्तु०।”

     ↩︎
  458. “ब ०व्यरूप०।” ↩︎

  459. “अ ०यंध।” ↩︎

  460. “अ व सुह०।” ↩︎

  461. “व ०वक्षे०।” ↩︎

  462. “अ. ०कास्ते।” ↩︎

  463. “व. ०न धत्त।” ↩︎

  464. “अ ०स्वन्नोक्नो०, व. ०क्नोपनों०।” ↩︎

  465. “अ करमरि।” ↩︎

  466. “अ. ०कंखिर, व. ० काखिरि।” ↩︎

  467. “अ. करमरी।” ↩︎

  468. “व. ०चले।” ↩︎

  469. “अ. कातःस्वह०, प. कातस्व०।” ↩︎

  470. “अ सखि न।” ↩︎

  471. “अ. पहायंमि, प. पचायमि।” ↩︎

  472. " अ. बिअ।” ↩︎

  473. “व. को वि, प सा मुही।” ↩︎

  474. “व ०स्पक्षिणो०।” ↩︎

  475. “व. ०ष्पाकुर०।” ↩︎

  476. “व. ०गमा०।” ↩︎

  477. “व. ०मीषलानि।” ↩︎

  478. “अ. एते श०।” ↩︎

  479. “व. ०जतुरू०।” ↩︎

  480. “ब. क्षणवि०।” ↩︎

  481. “व. ०हता।” ↩︎

  482. “व. यथा।” ↩︎

  483. “अ. अल्पबहुवि०, व ०ये ब०।” ↩︎

  484. “ब दृष्टे।” ↩︎

  485. “अ. प्रेक्ष, व. प्रेंख०।” ↩︎

  486. “प. ०जीवित०।” ↩︎

  487. “अ. ०लयति।” ↩︎

  488. “व. ०निधौ।” ↩︎

  489. “प ०कृतानु०।” ↩︎

  490. “अ निअंसि०।” ↩︎

  491. “प दियहोर, अ दीहो दीओ।” ↩︎

  492. “व. ०कारि।” ↩︎

  493. “अ ०शेखरस्य।” ↩︎

  494. “अ ०जयमा०।” ↩︎

  495. “प रस.प०।” ↩︎

  496. “व ०णत्क०।” ↩︎

  497. “व ०ध्यामपि।” ↩︎

  498. “व. ०नत०।” ↩︎

  499. “व. ०हु जृ०।” ↩︎

  500. “व. ०लप्य।” ↩︎

  501. “प. अ. ०ल्भ्यमा०।” ↩︎

  502. “प. अ. भवसीत्य०।” ↩︎

  503. “प. युग्मम्।” ↩︎

  504. “प. कुलकम्।” ↩︎

  505. “प. त्रिभिः कुलकम्।” ↩︎

  506. “अ. व्रीडा यथा।”

     ↩︎
  507. “प ०नितः।” ↩︎

  508. “प ०दिभ०।” ↩︎

  509. “प ० ड्क्रि०।” ↩︎

  510. “व. सप्रांत०।” ↩︎

  511. “अ. खेदशि०।” ↩︎

  512. “अ. ०ङ्गादि क०।” ↩︎

  513. “ब ०प्रत्ययो०।” ↩︎

  514. “अ. संदेश०।” ↩︎

  515. “अ. ०हासग०।” ↩︎

  516. “व. तव शि०।” ↩︎

  517. “प. •नि करोति।” ↩︎

  518. “व प्रिया०” ↩︎

  519. “व. ० सिया०” ↩︎

  520. “अ. मय वय, व. मया चैव " ↩︎

  521. " प ० नृत्यादी०, अ नृतानि” ↩︎

  522. “प. प्रसूयते " ↩︎

  523. “प. किशल०” ↩︎

  524. “अ ०गन्घप०” ↩︎

  525. “अ. अस्स” ↩︎

  526. “अ यास्यते” ↩︎

  527. “अ ०कृदुद्वे०” ↩︎

  528. “प अ ०त्पादादि०” ↩︎

  529. “व तेश” ↩︎

  530. “अ.व. ० हित०” ↩︎

  531. “प व्य भोः” ↩︎

  532. “प हत्वा " ↩︎

  533. “प ०त्र स्वे०” ↩︎

  534. “प. ०न यो०” ↩︎

  535. “अ ०रोति” ↩︎

  536. “अ. ० कार्य०” ↩︎

  537. “अ णिअदइअ०, व ०तामणियदय० " ↩︎

  538. “अ. प्रलयो०” ↩︎

  539. “व.ष्ठन्ति” ↩︎

  540. “व हिते,अ. महाहितो " ↩︎

  541. “अ. ०णि मु०” ↩︎

  542. “प. उसु०” ↩︎

  543. “अ. ० भवक्ख०” ↩︎

  544. “अ. ०र्थस्मृ०” ↩︎

  545. “अ इह व०” ↩︎

  546. “प.ऽद्भुत” ↩︎

  547. “व पशसूया” ↩︎

  548. “प करोति” ↩︎

  549. “प. ०दयं” ↩︎

  550. “व १० थैषा०” ↩︎

  551. “प ०था तत्” ↩︎

  552. “प ०ष्ट०” ↩︎

  553. “अ ०स्य रू०” ↩︎

  554. “अ.व. ०त्रात् र०” ↩︎

  555. “वतथा” ↩︎

  556. “प रह०” ↩︎

  557. “पछिना०” ↩︎

  558. “प ० चसाव०” ↩︎

  559. “अ. तु सुप्र०” ↩︎

  560. “अ ०मन्त्र०” ↩︎

  561. “प. व. ०न स्था०” ↩︎

  562. “अ. रति पुनः पुनरुत्पन्नेन बलिनक०” ↩︎

  563. “प०लाक्षा” ↩︎

  564. “प. ० धृतिरति” ↩︎

  565. “अ. ०न्तस०” ↩︎

  566. “प ०दाऽपि०” ↩︎

  567. “अ.० सोप्रा०” ↩︎

  568. “प. ०शाव०” ↩︎

  569. “प ० कीर्ण०” ↩︎

  570. “प. ०द्रतिरति” ↩︎

  571. “प. व्यंतियांति” ↩︎

  572. “व तथ्वोन्मेषा०” ↩︎

  573. “व. च सु०, खलु कृ० " ↩︎

  574. “प, व्यक्तः” ↩︎

  575. “व. ०मुपेत्य” ↩︎

  576. “व. कूटस्थ०, अ ०स्थेवे०” ↩︎

  577. “व चारी०” ↩︎

  578. “प. ०त्र न०” ↩︎

  579. “अ. गतैर्य० " ↩︎

  580. “अ. दड०” ↩︎

  581. “प ० रोपनि०” ↩︎

  582. “अ. निर्वहि०” ↩︎

  583. “व ० मानातदहेतुग्रा० " ↩︎

  584. “प ०त्ययै०, व.०त्युक्ते ०” ↩︎

  585. “व सखे ना०” ↩︎

  586. “अ. ०भावाभा०” ↩︎

  587. “अं. पर०” ↩︎

  588. “अ. क्षिप०” ↩︎

  589. “व. ० जलदृष्टिम्०” ↩︎

  590. “अ. •मुम्मरे” ↩︎

  591. “व. ०लऐ” ↩︎

  592. " प. ०स्तपु०” ↩︎

  593. “व०मिजीर्ण०, प. ०पत्रै” ↩︎

  594. “अ ०शदिवि०” ↩︎

  595. “व. ० न्यवि०” ↩︎

  596. “अ. ० पूर्वस्थि” ↩︎

  597. “प. प्रेच्छेति” ↩︎

  598. “प शिशुल०” ↩︎

  599. “व ० न्याघ०” ↩︎

  600. “प. व्यो मु०” ↩︎

  601. “व तथा०।” ↩︎

  602. “अ.भावाद्य।” ↩︎

  603. “अ ०री रति।” ↩︎

  604. " प तवाप्यु०।” ↩︎

  605. “अ ०चितम०।” ↩︎

  606. “प व.पावनै. सुभि.।” ↩︎

  607. “अ ०शति, प ०स्पृह।” ↩︎

  608. “अ. भ्रांत०।” ↩︎

  609. “प ०तं लक्ष्यो ल०।” ↩︎

  610. “अ. ०मो व्य०।” ↩︎

  611. “अ. ०त् च तत्राश०।” ↩︎

  612. “प. ०त्वादुभ०।” ↩︎

  613. “प. ०र्थमू०।” ↩︎

  614. “अ. ०पक्त्वात्।” ↩︎

  615. “अ. ०लो वाच्यस्तस्मिन् पुनरर्थ-शक्तिमूलो व्य०।” ↩︎

  616. “व. ०तुर्विध।” ↩︎

  617. “प ०तस्तु कविप्रौ०।” ↩︎

  618. “अ वत्कृतप्रौ०।” ↩︎

  619. “अ. ०पालं०।” ↩︎

  620. “अ. ०रं व्य०।” ↩︎

  621. “प. ०हियते।” ↩︎

  622. “अ. ०वभ०।” ↩︎

  623. “प त्रिमि· कुलकम्।” ↩︎

  624. “प. ०साना।” ↩︎

  625. “प ०नचु०।” ↩︎

  626. “अ व. ०यर्तु०।” ↩︎

  627. “प ० षट्व०।” ↩︎

  628. “व. ०त्व च।” ↩︎

  629. “भ. ०कर०।” ↩︎

  630. “प. ०त्युदय०।” ↩︎

  631. “अ.प. तुर्भेदः।” ↩︎

  632. “प. निस्पन्दं, अ निष्पदं व निष्पन्नं।” ↩︎

  633. “प व. समाग०।” ↩︎

  634. “प. ०न्तः स्था०।” ↩︎

  635. “अ. ०ण सा०।” ↩︎

  636. “अ. शस वि०, व. शसने वि०।” ↩︎

  637. “प. ०णेन।” ↩︎

  638. “अ प. ०राण।” ↩︎

  639. “प. ०यातगुच्छगे, अ ०समुच्छ्गे।” ↩︎

  640. “अ. कुभस्य।” ↩︎

  641. “अ. भूअ० व. भ्रूअं।” ↩︎

  642. “प. ०मोय।” ↩︎

  643. “अ इअ।” ↩︎

  644. “अ ०नुह, प.ष. तुह।” ↩︎

  645. “व. इक्क०।” ↩︎

  646. “प. च्चेय।” ↩︎

  647. “अ. तो क०।” ↩︎

  648. “प. ०काश” ↩︎

  649. “प खव।” ↩︎

  650. “प. ०र्शनव्या०।” ↩︎

  651. “प. ०निय०।” ↩︎

  652. “अ. ०ति ध्व०।” ↩︎

  653. “प. सहि।” ↩︎

  654. “अ. ०स्स ग०, प. ०स्स गव्विणी।” ↩︎

  655. “प ०इय०।” ↩︎

  656. “प ०जक०।” ↩︎

  657. “प. ०न् द०।” ↩︎

  658. “प. ०योग्यता।” ↩︎

  659. “व. ०यमित०।” ↩︎

  660. “प. निहितद्वारि।” ↩︎

  661. “अ प. ०हस्सुज्ज०।” ↩︎

  662. “अ हिंअया०।” ↩︎

  663. “अ. प. शक्तः कर्तु।” ↩︎

  664. “प. ०मनव०।” ↩︎

  665. “प. ०वाभा०।” ↩︎

  666. “प. रंभ०।” ↩︎

  667. “प.तचारिमाय०।” ↩︎

  668. “अ. ०दनम०।” ↩︎

  669. “व. कुसुमेहि।” ↩︎

  670. “प. ०एहि।” ↩︎

  671. “अ. स्वरू०।” ↩︎

  672. “अ. स्यात्।” ↩︎

  673. “प.हृद एव, अ. तमेव।” ↩︎

  674. “प. प्रसादे।” ↩︎

  675. “प ०क्ष्यध्वमव०।” ↩︎

  676. “अ. ०पादन०।” ↩︎

  677. “प ०मायो०।” ↩︎

  678. “अ अत्र, व व्यजनादीना रसास्पदाना०।” ↩︎

  679. “प. व ०त।” ↩︎

  680. “प रसना०।” ↩︎

  681. “प ०व्यग्यन०।” ↩︎

  682. “अ ०भिव्यञ्जनव्या०।” ↩︎

  683. “प. ०बधादिषु।” ↩︎

  684. “अ. ०ते व्य०।” ↩︎

  685. “अ सोयमुपागत.।” ↩︎

  686. “व ०समुल्लस०।” ↩︎

  687. “अ. ●आण।” ↩︎

  688. “अ. ०न त०।” ↩︎

  689. “प. व. ०दिनव्या०।” ↩︎

  690. “व. ०शालविवरोदीर्णै.।” ↩︎

  691. “प. ०लोद्भूताना।” ↩︎

  692. “प. ०त्वान्य०।” ↩︎

  693. “अ. ०प्रतिपा०।” ↩︎

  694. “प ०वर्णना०।” ↩︎

  695. “प ०पवर्णने।” ↩︎

  696. “अ. व्य।” ↩︎

  697. “प. स्थानेव०।” ↩︎

  698. “अ. ०दै. स०।” ↩︎

  699. “अ.व. ०कप०।” ↩︎

  700. “प. घटा।” ↩︎

  701. “प. च. ०सहो।” ↩︎

  702. “व. प. ति।” ↩︎

  703. “प. व. भविष्य०” ↩︎

  704. “अ. ०तन्यत्वे मै०।” ↩︎

  705. “अ. ० नत्त्वरूपाद्, व ०नरूपाद्।” ↩︎

  706. “प ०वलिप्त०।” ↩︎

  707. “अ. ०च्यरू०।” ↩︎

  708. “प. त्रत्वरू०।” ↩︎

  709. “अ. ०कानुरू०, व. ०कानु०।” ↩︎

  710. “अ ०णिआ।” ↩︎

  711. “अ रुअइ।” ↩︎

  712. “प. ०ई अत्र स्व०।” ↩︎

  713. “अ. ०नप्र०।” ↩︎

  714. “अ. ०व्यम०।” ↩︎

  715. “अ. व. हीयते।” ↩︎

  716. “अ. ०ना कमनीयकहे०,व.०ताक०।” ↩︎

  717. “अ. तत्रैवा० व. ०सोप्यत्रै०।” ↩︎

  718. “व. ०ति कि०।” ↩︎

  719. " व. ०च्यादधि०।” ↩︎

  720. “अ. ०तं भि०।” ↩︎

  721. “भ्रम धार्मिक ! विश्रब्धः। " ↩︎

  722. “अ. ०स्मिअ।” ↩︎

  723. " श्वश्रूरत्र निमज्जति।” ↩︎

  724. “प. ०इगा०।” ↩︎

  725. “मा पथिक।” ↩︎

  726. “अ. अहो।”

     ↩︎
  727. “प. ०इयं।” ↩︎

  728. “अ रह०।” ↩︎

  729. “प. वज्ज।” ↩︎

  730. “प. ०हसि।” ↩︎

  731. “प. त्थणि।” ↩︎

  732. “प. देसाए०।” ↩︎

  733. “प. निय०।” ↩︎

  734. “प. व्याण।” ↩︎

  735. “अ. नेपि।” ↩︎

  736. “अ. ०मिद वदतु।” ↩︎

  737. “अ.०षो ग०।” ↩︎

  738. “अ. पिआइ।” ↩︎

  739. “प. ०यरि।” ↩︎

  740. “अ ०रिय०।” ↩︎

  741. “अ भून्म०।”

     ↩︎
  742. “अ ०दो हे०।” ↩︎

  743. “प ०कप०।” ↩︎

  744. " व. ०टतक्ष० अ ०सुतटल०।” ↩︎

  745. “प. ०दप्यर्था०। " ↩︎

  746. “प. व्यसिद्धिः।” ↩︎

  747. “व. याचदेव।” ↩︎

  748. “प. व. ०रार्थे०।” ↩︎

  749. “प. ०र्थ. ता०।” ↩︎

  750. “अ. ०ते सि०।”

     ↩︎
  751. “अ. प. ०र्थाव्य०।” ↩︎

  752. “प ०चिदर्था०।” ↩︎

  753. “प. ०माल०।” ↩︎

  754. “प. ०स्य प्र०।” ↩︎

  755. “प. संति म०।” ↩︎

  756. “अ. तस्या।” ↩︎

  757. “अ. ०अ वी०। " ↩︎

  758. “प. ०क्यमानत्वात् पुन.।” ↩︎

  759. “१ अ ०परीअर०।” ↩︎

  760. “२ अ. ०त्र ६०।” ↩︎

  761. “३ प० तिरेको।” ↩︎

  762. “४ अ.०नुभावान्त०।” ↩︎

  763. “५ प. ०धर्म०। ।” ↩︎

  764. “६ व ० प्युक्त०।” ↩︎

  765. “७ अ ०च्प्रय०,व ०माने।” ↩︎

  766. “८ व ०पि व०।” ↩︎

  767. “९प. न, व०।” ↩︎

  768. “१० प ०भेति भी०।” ↩︎

  769. “१ अ. रसाद्य०।” ↩︎

  770. “३ अ. ० नाकि०।” ↩︎

  771. “४ व. ० ते चात्मा।” ↩︎

  772. “५ व.०त्रात्म०।” ↩︎

  773. “२ प.युगली।” ↩︎

  774. “६ अ. ०द्धये।” ↩︎

  775. “७ प इत्य० काव्यं सुगमं इ०।” ↩︎

  776. “१ प.०तवै०।” ↩︎

  777. “२ प. यथा।” ↩︎

  778. “३ प ०क्ष्यते।” ↩︎

  779. “४ प त्रिभि कुलकम्।” ↩︎

  780. “५ अ.०र्थस्य कि०।” ↩︎

  781. “६ अ०ता या०।” ↩︎

  782. “७ प ०ङ्कारो व्य०।” ↩︎

  783. “१ प ०ढेन।” ↩︎

  784. “२ प०नत्व।” ↩︎

  785. “३ अ. ०मत्वा०, प. ० मत्वादगूढं य०।” ↩︎

  786. “४ अ. ० य उज्जूअ०।” ↩︎

  787. “५ अ. प व. माः।” ↩︎

  788. “६ अ.व. ० यितया०।” ↩︎

  789. “७ अ. ०या मा।” ↩︎

  790. “८ अ. तु र०।” ↩︎

  791. “१ प. ०गिना।” ↩︎

  792. “२ व ०पस्य सि०।” ↩︎

  793. “३ अ. ०स्य न।” ↩︎

  794. “४ अ काक्वा म०।” ↩︎

  795. “५ अ.०रकत्वा०, प ० राभा०।” ↩︎

  796. “६ अ ०अए।” ↩︎

  797. “७ प यमा, व यगा०।” ↩︎

  798. “८ व चा०।” ↩︎

  799. “९ अ.•तत्वा, प.व. ०तस्वाद्।” ↩︎

  800. “१० प ०नीता०।” ↩︎

  801. “१ अ. गुणि०।” ↩︎

  802. “२ अ. ०स्याक्र०।” ↩︎

  803. “३ प. ०देरण०।” ↩︎

  804. “४ प ० बंध० अ० श्रद्धाबंध।” ↩︎

  805. “५ प. ०त्रग०। " ↩︎

  806. “६ अ. ०भुगेविषये, व. अविषयो।” ↩︎

  807. “७प व ०ख्यभा०।” ↩︎

  808. “१ अ ०ने न० । " ↩︎

  809. “२ अ व ० ति च ।” ↩︎

  810. “३ प०चन० ।” ↩︎

  811. “४ प. त्रिभि. कुलकम् । " ↩︎

  812. “५ प. संयुतैश्च य० ।” ↩︎

  813. “६ अ. स्फुरति ।” ↩︎

  814. “७ व सयु० ।” ↩︎

  815. “८ अ व सङ्गे ।” ↩︎

  816. “१ अ. व. ०न्धिस ०, ० न्धे इ० । " ↩︎

  817. “२ प. स्फटिकक० ।” ↩︎

  818. “३ प. व.० ण तु ।” ↩︎

  819. “४ अ. ०त्य यः ।” ↩︎

  820. “१ अ. ०दि त०।” ↩︎

  821. “२ अ. ०णा हा०।” ↩︎

  822. “३ प. ० वे दो०। " ↩︎

  823. “४ अ. बा० यथा।” ↩︎

  824. “१ अ. ०३लु इ० ।” ↩︎

  825. “२ अ. ०ताप० ।” ↩︎

  826. “३ अ. ० क० ।” ↩︎

  827. “१ प ० कुडो ०, व. अक्ठों० ।” ↩︎

  828. “२ अ ०तघ० ।” ↩︎

  829. “३ व अत्र ।” ↩︎

  830. “४ प. चन्द० ।” ↩︎

  831. “१ अ. सक्० ।” ↩︎

  832. “२ अ. स्यात् ।” ↩︎

  833. “३ अ. यथा ।” ↩︎

  834. “४ प न यु० ।” ↩︎

  835. “१ अ. अत्र ।” ↩︎

  836. “२ व. ०तो ।” ↩︎

  837. “३ अ. व. सुते० ।” ↩︎

  838. “४ व. वेति० ।” ↩︎

  839. “१ अ. ०मान्य० ।” ↩︎

  840. “२ व. ०क्षति ।” ↩︎

  841. “३ प शूक० ।” ↩︎

  842. “४ अ. अपाङ्ग० ।” ↩︎

  843. “५ प. ०ल।” ↩︎

  844. “१ प ० ति यु० ।” ↩︎

  845. “२ व. वा ।” ↩︎

  846. “३ व ०दि । " ↩︎

  847. “४ प ० तेत्थं ।” ↩︎

  848. “५ प ०ध्यस्य प० ।” ↩︎

  849. “१ प. ०द्धं य० ।” ↩︎

  850. “२ प. ०र्द्धप० ।” ↩︎

  851. “३ अ. ०ति क० । " ↩︎

  852. “४ प. ०वाच्य० । " ↩︎

  853. “५ व. ० विशेत् ।” ↩︎

  854. “१ अ. व किश० ।” ↩︎

  855. “२ अ पदा० ।” ↩︎

  856. “३ प ति पा० ।” ↩︎

  857. “१ अ. ०धिर्व्य० ।” ↩︎

  858. “२अ.व. वा० ।” ↩︎

  859. “३ अ. लंडा० ।” ↩︎

  860. “१ अ. लंडा ।” ↩︎

  861. “२ प ० क प० । " ↩︎

  862. “३ प ० ये ।” ↩︎

  863. “४ अ. ० नू दू० ।” ↩︎

  864. “५ प.०स० ।” ↩︎

  865. “६ प, ०ने स० । " ↩︎

  866. “७ प, ०म० ।” ↩︎

  867. “८ प ०र्षो यया ।” ↩︎

  868. “१ व. क्ष्वेडा ।” ↩︎

  869. “२ व. ०पु कू० ।” ↩︎

  870. “३ व स्तनि० ।” ↩︎

  871. “३ व. ०चितवि०।” ↩︎

  872. “४ अ. प्रत्येकं प०।” ↩︎

  873. “५ अ. निहि०।” ↩︎

  874. “६ अ क्लिष्ट च।” ↩︎

  875. “७ प. च ० गमं।” ↩︎

  876. “१ अ निहि०। " ↩︎

  877. “२ व. ०वर०।” ↩︎

  878. “३ व. अ. ०रिरभ्य चु०।” ↩︎

  879. “१ अ. षा ना०।” ↩︎

  880. “२ प. षा य०।” ↩︎

  881. “३ व. यथा। " ↩︎

  882. “४ व र्ये दहन्यंते जगत्यपि।” ↩︎

  883. “५ व. ०स्त्रिलो०।” ↩︎

  884. “६ अ. प सुर०।” ↩︎

  885. “१ अ. भङ्ग०, व सनूत०। " ↩︎

  886. “२ व प. कदा। " ↩︎

  887. “३ व. कातार्थ्य०।” ↩︎

  888. “४ व. ०नयेषु। " ↩︎

  889. “५ व ०हज्ज्यो०।” ↩︎

  890. “६ प. बधनं। " ↩︎

  891. “७ व. यथा।” ↩︎

  892. “८ व. ०रेष्य०।” ↩︎

  893. “१ अ. मयति।” ↩︎

  894. “२ व. प. ०प्नोति।” ↩︎

  895. “३ अ. ०नं च ग०।” ↩︎

  896. “४ अ. प. न यु०।” ↩︎

  897. “१ प. ०धृते। " ↩︎

  898. “२ व. वातं।” ↩︎

  899. “३ व. ०न्नोऽस्य।” ↩︎

  900. “४ अ. ०ममना०।” ↩︎

  901. “१ प वा।” ↩︎

  902. “२ वपेशा०।” ↩︎

  903. “३ व. ०हते०।” ↩︎

  904. “४ व भुव।” ↩︎

  905. “५ प ०हरण०।” ↩︎

  906. “६ अ. ०र्नमनसि०। " ↩︎

  907. “७ व ०क्षैव।” ↩︎

  908. “८ व.वै। " ↩︎

  909. “९ प. प्रतीति।” ↩︎

  910. “१ व ०ष्टो पिहि०।” ↩︎

  911. “२ व. यथा अवि०।” ↩︎

  912. “३ व. ०याशो।” ↩︎

  913. “४ व. तत्र प०। " ↩︎

  914. “५ व. ०वलमा०।” ↩︎

  915. “६ व ०त्रमा०। " ↩︎

  916. “७ अ ०क्षज०, व जन्मना। " ↩︎

  917. “८ व प्रियोचने।” ↩︎

  918. “९ व.०मशक्यत्वात्।” ↩︎

  919. “१० व. ०ताति। " ↩︎

  920. “११ व ०स्मात्। " ↩︎

  921. “१२ व. ०त्र मु०।” ↩︎

  922. “१ व. ०व प्र०।” ↩︎

  923. “२ व. ०ति च०। " ↩︎

  924. “३ प. ०ननं ।” ↩︎

  925. “४ व. ० त्यन्यप्रा०।” ↩︎

  926. “५ व.वेषो। " ↩︎

  927. “६ अ व. न वा०।” ↩︎

  928. “१ व. ० कलाशेकुल।” ↩︎

  929. “२ प. ०द्यप्र०। " ↩︎

  930. “३ व. ०तिविकृत्। " ↩︎

  931. “४ व.०श्यादे. श०।” ↩︎

  932. “५ व. प्रक्रीत०” ↩︎

  933. “६ व. यथा उत्क०।” ↩︎

  934. “१ व. ०रभू०।” ↩︎

  935. “२ व. जयति।” ↩︎

  936. “३ व. ०मुखी.।” ↩︎

  937. “४ व. ०न नापेक्षते यथा वि०।” ↩︎

  938. “५ प. हिमवानि०।” ↩︎

  939. “६ व. ० तिगो।” ↩︎

  940. “१ अ. यौ।” ↩︎

  941. “२ प. मंग०।” ↩︎

  942. “३ व शिखि०।” ↩︎

  943. “४ प. ०भूरि०, अ ०क्षपूरि०। " ↩︎

  944. “५ व. ०स्य सु०।” ↩︎

  945. “६ व. ०त्रैव।” ↩︎

  946. “७ अ. ०मित्यु०। " ↩︎

  947. “८ व. ब्दस्यापि।” ↩︎

  948. “९ अ. व रक्षितात् कृता ।” ↩︎

  949. “१० प श्लिष्टं।” ↩︎

  950. “११ व. ०के द०।” ↩︎

  951. “१ व. कुण्डे०। " ↩︎

  952. “२ अ ०सोनि०।” ↩︎

  953. “३ व. ०वलि०।” ↩︎

  954. “४ अ. ०था अलम०।” ↩︎

  955. “५ प. कस्य।” ↩︎

  956. “६ व. ०र्व साधुषु।” ↩︎

  957. “१ प ०नाङ्गनायाः।” ↩︎

  958. “२ व. ०सप्तकृत्वमा०।” ↩︎

  959. “३ अ. पर्शु०।” ↩︎

  960. “४ व. कृत्प्र०।” ↩︎

  961. “१ प. ०र्थो दु०।” ↩︎

  962. “२ अ. सामा०, प समासान्य०।” ↩︎

  963. “३ प. ०थ मुक्त-पु०।” ↩︎

  964. “४ व एषा०। " ↩︎

  965. “५ व ०जानामेकल०।” ↩︎

  966. “७ व. ०मेव।” ↩︎

  967. “८ प. ०मपिफे०।” ↩︎

  968. “१ व ०लाद०, प. ०र्थानु०।” ↩︎

  969. “२ अ. ०ने प्र०।” ↩︎

  970. “३ अ. ०पुष्टाः। " ↩︎

  971. “४ अ, ०नि पंद०। " ↩︎

  972. “५ अ. व. ०या कु०।” ↩︎

  973. “अ, ०नि पंद०। " ↩︎

  974. “६ अ. ०त्र का०।” ↩︎

  975. “१ व. व्याहृत।” ↩︎

  976. “२ व ०थक्रियार०।” ↩︎

  977. " ३ प.०क्ष्यसि।” ↩︎

  978. “४ अ. व. ०नकस्य।” ↩︎

  979. “१ व. अवि०।” ↩︎

  980. “२ अ. तु तत्र।” ↩︎

  981. “३ व. पुनरौ०। " ↩︎

  982. “४ व. ते। " ↩︎

  983. “५ प. ०न्यै।” ↩︎

  984. “६ अ. अथ न०। " ↩︎

  985. “७ अ. किमत्र तदद्भुतं।” ↩︎

  986. “८ अ. महावुधे।” ↩︎

  987. “१ अ. ०साकल्य०। " ↩︎

  988. “२ व. ०य। " ↩︎

  989. “३ अ ०गत्वेनाननु०। " ↩︎

  990. “४ व. ०क्षज०।” ↩︎

  991. “५ व. ०दे नख०।” ↩︎

  992. “६ व. अत्र।” ↩︎

  993. “७ व ०ष्ट्रेस्ति। " ↩︎

  994. “८ व ०राता।” ↩︎

  995. “९ व. ०यास्तत. प०।” ↩︎

  996. “१ व. तु ।” ↩︎

  997. “२ व. ०ष्ट्वा।” ↩︎

  998. “३ व. अवि०।” ↩︎

  999. " ४ व. श्रीयो०।” ↩︎

  1000. “अ न नि०।” ↩︎

  1001. “व. ०मपि तु।” ↩︎

  1002. “व ०त्तश्चेति, प. समासान्य०।” ↩︎

  1003. “प द्वयादनि०।” ↩︎

  1004. “अ. यात्रा०।” ↩︎

  1005. “व. ०लिमानय०। " ↩︎

  1006. “व. ०न्त्रं प्र०।” ↩︎

  1007. “व ०यतत्क्ष०।” ↩︎

  1008. “व. ०द्वस्त्र०।” ↩︎

  1009. “व यत्र।” ↩︎

  1010. “व. अत्रा०।” ↩︎

  1011. “व ०व, निर्मा०। " ↩︎

  1012. “व ०र्षयो०। " ↩︎

  1013. “व. ०त्कानको०।” ↩︎

  1014. “व ताश्मत्वमेवाद्भूत।” ↩︎

  1015. “प. ०स्तश्म०।” ↩︎

  1016. “व ०च्छांत०।” ↩︎

  1017. “व अर्थत्वाप्र०।” ↩︎

  1018. “अ. ते त्व०।” ↩︎

  1019. “व. ०दपि।” ↩︎

  1020. “व. ०रिभया०।” ↩︎

  1021. “व. यत.।” ↩︎

  1022. “अ. ०ति त०।” ↩︎

  1023. “प. ०र्व्यासेन। " ↩︎

  1024. “व. ०योप०।” ↩︎

  1025. " व ०ण्यपि तेषामकृ०।” ↩︎

  1026. " व अत्र।” ↩︎

  1027. “व. परा वै०।” ↩︎

  1028. “अ.जल्पंतो।” ↩︎

  1029. “अ. इति। " ↩︎

  1030. “व. ०मोदा प्र०।” ↩︎

  1031. “व. वा।” ↩︎ ↩︎

  1032. “अ ०ब्दरु०। " ↩︎

  1033. “प. ०हस०।” ↩︎

  1034. “अ. प. काता क०, व. का क०।” ↩︎

  1035. “अ. अत्र। " ↩︎

  1036. “व. सधिना०।” ↩︎

  1037. “अ. ०वक्षप०।” ↩︎

  1038. “प. ०नेन।” ↩︎

  1039. “व. कितु कि पु०।” ↩︎

  1040. “अ. मुँक्त।” ↩︎

  1041. “व. ०प्रकारा०।” ↩︎

  1042. " प. ०नामनौ०।” ↩︎

  1043. “प. ०र्थस्य।” ↩︎

  1044. “व. ०धूदोष०। " ↩︎

  1045. “व. ०क्राताज्ञे०। " ↩︎

  1046. “व. ०वेत०।” ↩︎

  1047. “व. ०गानि०। " ↩︎

  1048. “प. ऽति। " ↩︎

  1049. “व. ०वं माति०।” ↩︎

  1050. “व. ०न्यूनसाध्यविप्र०।” ↩︎

  1051. “अ. ०स्याति०।” ↩︎

  1052. “अ ०ते अत्र।” ↩︎

  1053. “प. व ०थोद्ग०।” ↩︎

  1054. “व. साधिक०।” ↩︎

  1055. “अ प. ०थत व०, व स्विति,गर्भ०, अ. ०स्वति।” ↩︎

  1056. “व. ०युक्तः।” ↩︎

  1057. “व. ०गुण।” ↩︎

  1058. “व. ०णा य०।” ↩︎

  1059. “व. ०धि च०।” ↩︎

  1060. “अ सप्र०।” ↩︎

  1061. “प. ०दृष्ट्वा। " ↩︎

  1062. “अ. भुक्तजे। " ↩︎

  1063. “व. ०रणेका०।” ↩︎

  1064. “अ. ० हिअएं०।” ↩︎

  1065. “अ. ०हिआइ।” ↩︎

  1066. “व. विनियम्य।” ↩︎

  1067. “व.०ग प्रवहि।” ↩︎

  1068. “व. अरि०।” ↩︎

  1069. “अ. ०मति व०।” ↩︎

  1070. “व.कल०।” ↩︎

  1071. “व. ०तेषु।” ↩︎

  1072. “व. ०दौभ०। " ↩︎

  1073. “व. ० कूवस०।” ↩︎

  1074. " व. ये सिदूरार०।” ↩︎

  1075. “प. ०गुणत्वम्।” ↩︎

  1076. “व. प. जित्प्र०।” ↩︎

  1077. " व. यथा ।” ↩︎

  1078. “अ ०नर०। " ↩︎

  1079. “प. प्रापं।” ↩︎

  1080. “व. ०प्राघार०।” ↩︎

  1081. “अ.०वपु द०।” ↩︎

  1082. “प. ०द्धुर।” ↩︎

  1083. “प. ०त्र रौ०।” ↩︎

  1084. “प ०ष्टेति। " ↩︎

  1085. “व. ०घन०। " ↩︎

  1086. “व क्मि०।” ↩︎

  1087. “अ. न मनसां।” ↩︎

  1088. “प. ०स्मात्। " ↩︎

  1089. “व. ०र्प्यर्थत०।” ↩︎

  1090. “अ. ०निहता०। " ↩︎

  1091. “प. ०द्धत०।” ↩︎

  1092. “व. ०रोह। " ↩︎

  1093. “१० व.व नामा नरा.।” ↩︎

  1094. “व. ०क्षपक्षक०।” ↩︎

  1095. “अ. ०यक०।” ↩︎

  1096. “अ. ०त. का०।” ↩︎

  1097. “व. शिशिरमृन्मृ०।” ↩︎

  1098. “प. विनाश।” ↩︎

  1099. “व. ०रोति।” ↩︎

  1100. “व. ०रा व०, प. पुरा मरु०। " ↩︎

  1101. “व. नल०।” ↩︎

  1102. “व. ०मस्थिरोह०।” ↩︎

  1103. “व. ० युनि०।” ↩︎

  1104. “अ. ०हिता०।” ↩︎

  1105. “व ०णभूतो।” ↩︎

  1106. “प. रातै०। " ↩︎

  1107. “व. ०त्त्वं तत्र। " ↩︎

  1108. “व.०तलो०। " ↩︎

  1109. “व. ०द्धो नार्थमाप्र०।” ↩︎

  1110. “व. न मु०। " ↩︎

  1111. “व.०मार्धे।” ↩︎

  1112. “व. याता०।” ↩︎

  1113. “प. ०तस्य।” ↩︎

  1114. “व. सुते, अ स तेन ने०।” ↩︎

  1115. “व. ०मो न स०।” ↩︎

  1116. “अ ना० य०।” ↩︎

  1117. “व. सबोध०। " ↩︎

  1118. “अ. ०मत०।” ↩︎

  1119. “व ०वोभि०।” ↩︎

  1120. “अ. ०मानाः।” ↩︎

  1121. “अ. स पुरु०।” ↩︎

  1122. “अ. व. ०स्य य०। " ↩︎

  1123. “अ व. प. ०जाया।” ↩︎

  1124. “व.र्व्ययस्य।” ↩︎

  1125. “प. ०दीर्य।” ↩︎

  1126. “अ. वक्तुं।” ↩︎

  1127. “अ.०वम०।” ↩︎

  1128. “व. घृष्टमा०।” ↩︎

  1129. “प. साम्यं।” ↩︎

  1130. “व. अ. ०त्यथ।” ↩︎

  1131. “प. ०कुल्प०। " ↩︎

  1132. “अ. रक्ष्य०।” ↩︎

  1133. “व. मह०। " ↩︎

  1134. “प. ससन्देहालस्य।” ↩︎

  1135. “व. ०तर०।” ↩︎

  1136. “व. ०त या।” ↩︎

  1137. “प. व. ०घोरान्।” ↩︎

  1138. “प. ०ब्दोक्ति। " ↩︎

  1139. “प ०रागि०।” ↩︎

  1140. “व ०र्वत्र र०।” ↩︎

  1141. “व. सश०।” ↩︎

  1142. “अ. संहा०।” ↩︎

  1143. “प ० मlत्रा०।” ↩︎

  1144. “व विभावय०।” ↩︎

  1145. “व. ०ब्द इ०।” ↩︎

  1146. “अ. ०ता च०। " ↩︎

  1147. “प. ०दूभ्रू। " ↩︎

  1148. “अ. व. ०चर०I " ↩︎

  1149. “प. हसिता, व. सहसा।” ↩︎

  1150. “प ० वौत्सुक्य०।” ↩︎

  1151. “व ० क्नौ सा।” ↩︎

  1152. " प. ०स्थायि०।” ↩︎

  1153. “व.०वाना य०।” ↩︎

  1154. “प. व व्यक्ति।” ↩︎

  1155. “अ. लुनाति। " ↩︎

  1156. “व. ०रिहरति०।” ↩︎

  1157. “प. यत्र। " ↩︎

  1158. “व. सुद त्य०।” ↩︎

  1159. “अ.वीणासं०।” ↩︎

  1160. “व. ०त्याह। " ↩︎

  1161. “व. ०वर्णान्।” ↩︎

  1162. “१ व ० प्राधान्यस्या० ।” ↩︎

  1163. “२ व, ०वस्य।” ↩︎

  1164. “३ व पि व०।” ↩︎

  1165. “४ प. ०क्ष्ये भू०।” ↩︎

  1166. “५ व ०न स्म०।” ↩︎

  1167. “६ व अय ।” ↩︎

  1168. “७ व. ०यो दिव्यादि०।” ↩︎

  1169. “८ अ ०न प०।” ↩︎

  1170. “९ व.०ना च।” ↩︎

  1171. “१० व.०ति प्र० ।” ↩︎

  1172. “१ व. नायिकाया स्वात्मना ।” ↩︎

  1173. “२ व ०र्णितस्य रा० ।” ↩︎

  1174. “३ अ. व ०चित् पुन।” ↩︎

  1175. “४ प.• नंत्यम०।” ↩︎

  1176. “५ व. क्षत्रि०।” ↩︎

  1177. “६ प ०ना तु।” ↩︎

  1178. “७ व ०त्व प्र०।” ↩︎

  1179. “८ व ०ति स०।” ↩︎

  1180. “१ च क्षत्रीयो।” ↩︎

  1181. “२ अ. व कामा।” ↩︎

  1182. “३ अ लोलाङ्ग०।” ↩︎

  1183. “४ व. ० द्विर०।” ↩︎

  1184. “५ अ. व.०नेन जी०।” ↩︎

  1185. “६ प०दङ्गनाना०।” ↩︎

  1186. “७ प. ०रित्रे।” ↩︎

  1187. “८ व ०रं का०।” ↩︎

  1188. “१ व भूतेषु दि०।” ↩︎

  1189. “२ प. दग्धान्।” ↩︎

  1190. “३ अ. मलोर०।” ↩︎

  1191. “४ अ सुशो०।” ↩︎

  1192. “५ अ ०मपवी०।” ↩︎

  1193. “६ प. र्व्यन्त०।” ↩︎

  1194. “७ व. वीरस्य।” ↩︎

  1195. “८ प. निदे०।” ↩︎

  1196. “९ प. ०हयन्न।” ↩︎

  1197. “१० व. ०कृता०।” ↩︎

  1198. “१ र. ०थप्रा०।” ↩︎

  1199. “२ प. ०प्यक्क०।” ↩︎

  1200. “३ व ०रं वि०।” ↩︎

  1201. “४ व. कृत०।” ↩︎

  1202. “५ व ०षया र० ।” ↩︎

  1203. “६ व. ०ङ्गमपि।” ↩︎

  1204. “७ व ०दे की०।” ↩︎

  1205. “८ प. तस्यापि।” ↩︎

  1206. “१ ध. • कारो।” ↩︎

  1207. “२ व. ० ति कश्चिन्न।” ↩︎

  1208. “३ प. स्वच्छ०।” ↩︎

  1209. “४ प. •रेंद्रः।” ↩︎

  1210. “१ प. अ. ०पुषि यौ०।” ↩︎

  1211. “१ प ० वर०।” ↩︎

  1212. “२ अ. वस०।” ↩︎

  1213. “१ प. चक्रे केन।” ↩︎

  1214. “२ व. प. ०त्मत्वा०।” ↩︎

  1215. “१ अ. पृथक्पृथक्।” ↩︎

  1216. “२ प ० विगा०।” ↩︎

  1217. “१ अ ०नात्मक।” ↩︎

  1218. “२ अ दृष्टेका०।” ↩︎

  1219. “३ अ. सगते।” ↩︎

  1220. “४ व. •वर्तितः ।” ↩︎

  1221. “५ व. ० प्रेमोक०।” ↩︎

  1222. “१ व विय०।” ↩︎

  1223. “२ अ. व्दरे०।” ↩︎

  1224. “३ व सव०।” ↩︎

  1225. “४ व कालका०।” ↩︎

  1226. “१ व झटित्य०।” ↩︎

  1227. “१ अ. ०सक०।” ↩︎

  1228. “२ अ. ० चंद्रकर०।” ↩︎

  1229. “३ व सा सम०।” ↩︎

  1230. “४ अ ०रब०।” ↩︎

  1231. “५ अ.०मपो०।” ↩︎

  1232. “१ व ०षाणामा०।” ↩︎

  1233. “२ अ. जठर०।” ↩︎

  1234. “३ व. अपि।” ↩︎

  1235. “४ व तदिति।” ↩︎

  1236. “१ अ. ०ते क०।” ↩︎

  1237. “२ अ, वर्गा नि०।” ↩︎

  1238. “३० व कंठो।” ↩︎

  1239. “४ व. कलं।” ↩︎

  1240. “१ व ० नुप्रासोचि०।” ↩︎

  1241. “१ अ० अथ य०।” ↩︎

  1242. “२ व. ० कगु०।” ↩︎

  1243. “१ अ.रप०। र अ. ये नव० ।” ↩︎

  1244. “व. ०णात्मना” ↩︎

  1245. “अ. ०ना वैष०” ↩︎

  1246. “अ. ०फादि०” ↩︎ ↩︎

  1247. “व. वाच्यं” ↩︎ ↩︎

  1248. “व. ०पेक्ष्य” ↩︎

  1249. “प ०षोषि” ↩︎

  1250. “अ०र्णै पु०” ↩︎

  1251. “प. प्रकीर्तित” ↩︎

  1252. “अ. मध्ये” ↩︎

  1253. “अ. ०न का” ↩︎

  1254. “अ. च प०” ↩︎

  1255. “प ०सु धराधरो ब०” ↩︎

  1256. “चरण द०” ↩︎

  1257. “प प्रविशेष” ↩︎

  1258. “व यथा” ↩︎

  1259. “अ.च सति” ↩︎

  1260. “अ. ०त्मजे०” ↩︎

  1261. “प. ०तिव०” ↩︎

  1262. “व. ०धानप्र०” ↩︎

  1263. “अ. ०स्पदीकृ०” ↩︎

  1264. “अ. ०गंडु०” ↩︎

  1265. “प. क्रमात्ययी क्र०” ↩︎

  1266. “व. प्रणवो” ↩︎

  1267. “व. ०थमे०” ↩︎

  1268. “प.युग्मं” ↩︎

  1269. “अ. त्रिधात्व०” ↩︎

  1270. “क्ष.०कृदाष्ट०, व. ०देक०” ↩︎

  1271. “अ. व दिग्भ्यः” ↩︎

  1272. “अ. व. ०क्षिति०” ↩︎

  1273. “प. ०देकवर्ण०” ↩︎

  1274. “प ०कारमा०” ↩︎

  1275. “प. ०र्हषि दुर्दराव०” ↩︎

  1276. “प. ०जुषि” ↩︎

  1277. “अ.०मुखि” ↩︎

  1278. “अ ०बाकु०” ↩︎

  1279. “प.०प्रासप्र०” ↩︎

  1280. “अ.व.पुरु०” ↩︎

  1281. “प.०जश्चा०” ↩︎

  1282. “प. ०चुंचु०” ↩︎

  1283. “अ.कर्णा०” ↩︎

  1284. “अ. एकं चै०” ↩︎

  1285. “अ. कर्णा०” ↩︎

  1286. “प. च. ०क.कु०” ↩︎

  1287. “प नष्टु०” ↩︎

  1288. “प. व. ०रिदी०” ↩︎

  1289. “अ ०त्रिप०” ↩︎

  1290. “व.०वर्णाह” ↩︎

  1291. “अ. स्वरू० उ०” ↩︎

  1292. “प.०म्येन” ↩︎

  1293. “अ.०ना स” ↩︎

  1294. “अ. ०त्रऐ०” ↩︎

  1295. “प. ०तां त०” ↩︎

  1296. “प. युगली” ↩︎

  1297. “प. मुनिपु०” ↩︎

  1298. “अ. व. ०र्गुलु०” ↩︎

  1299. “व. दिशि दिशि” ↩︎

  1300. “अ. व या चाभी०” ↩︎

  1301. “अ. ०क्ष्यये” ↩︎

  1302. “अ व सोपि धन्यस्त०” ↩︎

  1303. “प. क्वीद्रा” ↩︎

  1304. “प.युग्म” ↩︎

  1305. “प. ०भययो०” ↩︎

  1306. “अ. ०कतु०” ↩︎

  1307. “अ. यति” ↩︎

  1308. “प.सौ०” ↩︎

  1309. “प.काति०” ↩︎

  1310. “प. ०म–वार०” ↩︎

  1311. “अ. प. व. नदी” ↩︎

  1312. “निर्नि०,व. न. नि०” ↩︎

  1313. “अ. ०रुणि” ↩︎

  1314. “प.०नान०” ↩︎

  1315. “अ. प. व.धूर्ज०” ↩︎

  1316. “प०याका०” ↩︎

  1317. “अ ०यात०” ↩︎

  1318. “प.०रुण०” ↩︎

  1319. “प.युग्मम्.” ↩︎

  1320. “प. ०स्ते” ↩︎

  1321. “व.अत्र” ↩︎

  1322. “व. ०द्विजा प. युग्मम्” ↩︎

  1323. “अ.०च्छद०” ↩︎

  1324. “अ.यथा” ↩︎

  1325. “प. भिन्नवि०” ↩︎

  1326. “प.च य०” ↩︎

  1327. “व.बहुव०।” ↩︎

  1328. “अ. यत्राम०।” ↩︎

  1329. “प. व. ०विधिश्व।” ↩︎

  1330. “प. ०पद०।” ↩︎

  1331. “प. व. ०सर०।” ↩︎

  1332. “अ.व. प्रा० न०।” ↩︎

  1333. “प. प्रथम०।” ↩︎

  1334. “प.०चित्तप्र०।” ↩︎

  1335. “अ. •षुभङ्गश्लेषोऽप्य०।” ↩︎

  1336. “अ. ०षस्यार्थश्लेषत्व०, प. ०षस्य इ०।” ↩︎

  1337. “प.०नुप्रासो।” ↩︎

  1338. “अ. न च।” ↩︎

  1339. “अ. ०प्यद०।” ↩︎

  1340. “प.तत्र व्य०।” ↩︎

  1341. “अ. प. ० तंसि०।” ↩︎

  1342. “अ ०षोत्प०।” ↩︎

  1343. “प ०ष्वलं०।” ↩︎

  1344. “अ. ०णवि०।” ↩︎

  1345. “प ०शिरो।” ↩︎

  1346. “अ. लक्ष०।” ↩︎

  1347. “अ. ०कत्वे।” ↩︎

  1348. “प. प्राकरणिकादि०।” ↩︎

  1349. “अ. ०लवि०, व विशेष्य०।” ↩︎

  1350. “प ०लल०, व. ०ललिते।” ↩︎

  1351. “अ. यत्क०, व. स्यात्क०।” ↩︎

  1352. “अ. अथ भ०।” ↩︎

  1353. “प. पु०।” ↩︎

  1354. “व ०व्दा भा०।” ↩︎

  1355. “प.०राभा०।” ↩︎

  1356. “प. ०क्ष्येन।” ↩︎

  1357. “प.०रौ।” ↩︎

  1358. “अ.व. ०रं इ०।” ↩︎

  1359. “प ०क्तश०।” ↩︎

  1360. “प.०रइत्यु०।” ↩︎

  1361. “व. शब्दनिष्ठा०।” ↩︎

  1362. “प. ०लीव।” ↩︎

  1363. “प. ०मः।” ↩︎

  1364. “अ.व ०क्ति ल०।” ↩︎

  1365. “व प्रागल्भ्य०।” ↩︎

  1366. “प वदत्य०।” ↩︎

  1367. “व. मानानि व०I” ↩︎

  1368. “प.अति.।” ↩︎

  1369. “प. ०द् मे०।” ↩︎

  1370.  ↩︎
  1371.  ↩︎
  1372.  ↩︎
  1373. “अ. ०के म०।” ↩︎

  1374. “प.०भिरिति।” ↩︎

  1375. “प०पु त०।” ↩︎

  1376. “अ च,प.तथा च।” ↩︎

  1377. “प. हरिण्म०।” ↩︎

  1378. “प ०स्य यो।” ↩︎

  1379. “प. ०त्वाद्वि०।” ↩︎

  1380. “प. ०स्य का०।” ↩︎

  1381. “प.०कारव्य०।” ↩︎

  1382. “अ.य कार्यस्य का०; प ०स्य काल•।” ↩︎

  1383. “प. ०यावि०।” ↩︎

  1384. “प.०कप०।” ↩︎

  1385. “व. स्मृता।” ↩︎

  1386. “प. ०ह सार्था०।” ↩︎

  1387. “प. व. ०नं का०।” ↩︎

  1388. “प.०रावम०।” ↩︎

  1389.  ↩︎
  1390. “प.०यत्ति।” ↩︎

  1391. “प.ओ।” ↩︎

  1392. “अ०णु मु०। व.मुअइ।” ↩︎

  1393. “अ.व. ०पं त्वे०।” ↩︎

  1394. “प. जन्मो।” ↩︎

  1395. “प. उ पए०।” ↩︎

  1396. “प. भुमा, व. सम०।” ↩︎

  1397. “अ च उ०।” ↩︎

  1398. “व ०क्ति स्फु०।” ↩︎

  1399. “प ०स्त्ये ०।” ↩︎

  1400. “अ.०णहा०।” ↩︎

  1401. “व. ०विदं ध०।” ↩︎

  1402. “प भगवा०।” ↩︎

  1403. “अ.०इव०।” ↩︎

  1404. “व.०तकलो०।” ↩︎

  1405. “प मृगाय०।” ↩︎

  1406. “अ च।” ↩︎

  1407. “प.सा न स्व०।” ↩︎

  1408. “प. दीपकं।” ↩︎

  1409. “प ०पगामि०।” ↩︎

  1410. “प ०पात्म०।” ↩︎

  1411. “व वग्मिश्चि०।” ↩︎

  1412. “प ०तत्वाम्०।” ↩︎

  1413. “प. ०हार०।” ↩︎

  1414. “प.यामलम्।” ↩︎

  1415. “प ०ति प०।” ↩︎

  1416. “व तथा।” ↩︎

  1417. “५ व. तथा।” ↩︎

  1418. “प.अ ०भिराम।” ↩︎

  1419. “अ.०नानि।” ↩︎

  1420. “प तथा।” ↩︎ ↩︎

  1421. “व. ०बद्ध०।” ↩︎

  1422. “प यै.।” ↩︎

  1423. “प णोष्मधर्म०।” ↩︎

  1424. “प. च।” ↩︎

  1425. “अ व. ०मुद्रि०।” ↩︎

  1426. “प द्रष्टव्या।” ↩︎

  1427. “व ०पर्यासे।” ↩︎

  1428. “प. ०गत्वाञ्च।” ↩︎

  1429. “अ.वा।” ↩︎

  1430. “प ०शालो०।” ↩︎

  1431. “अ. ०ना स्मृ०।” ↩︎

  1432. “प ०तैरपनी०।” ↩︎

  1433. “प अत्रादौ।” ↩︎

  1434. “अ. यद्।” ↩︎ ↩︎

  1435. “व नैव।” ↩︎

  1436. “अ. गगने।” ↩︎

  1437. “प सन्मा०।” ↩︎

  1438. “व०पव०।” ↩︎

  1439. “अ ०त्र क०।” ↩︎

  1440. “अ व.कु०, प. न।” ↩︎

  1441. “प. ०पविरोपवि०।” ↩︎

  1442. “प ०यगतत्वे०।” ↩︎

  1443. “व क्वरान्।” ↩︎

  1444. “*हसितं सहस्ततालं शुष्कवटमागतै. पथिकै। पत्र—फलसदृशे उड्डीने शुकवृन्दे॥” ↩︎

  1445. “व पल्ल०।” ↩︎

  1446. “+स मुग्धमृगो मृगतृष्णिकाभिस्तथा दूनो हताशाभिः। यथा सद्भाववतीभ्योऽपि नदीभ्योऽपि परादमुखो जात॥” ↩︎

  1447. “अ.० आएहि।” ↩︎

  1448. “प. ०धुरा।” ↩︎

  1449. “अ ०ष्यते।” ↩︎

  1450. “प ०र्थत्व।” ↩︎

  1451. “व ०वृत्ताकी०।” ↩︎

  1452. " प ०भावरतु।” ↩︎

  1453. “अ ०दभेद०।” ↩︎

  1454. “अ ०धिक०।” ↩︎

  1455. “अ अत्रा०।” ↩︎

  1456. “अ ०रुच।” ↩︎

  1457. “अ. अवचय०।” ↩︎

  1458. “प ०मित्येतत्।” ↩︎

  1459. “अ. प.वा।” ↩︎

  1460. “अ. नात्र लो०।” ↩︎

  1461. “अ ०रण०।” ↩︎

  1462. “प यया आ०।” ↩︎

  1463. “प वेरिवीर०।” ↩︎

  1464. “प. ०रिव।” ↩︎

  1465. “व. ०भिर्नि०।” ↩︎

  1466. “व ०मेक।” ↩︎

  1467. “प मंजरी।” ↩︎

  1468. “व इव।” ↩︎

  1469. “व ०खद्युतिर्निर्गु०।” ↩︎

  1470. “अ. ०र्म्यकं।” ↩︎

  1471. “अ. ०प्पव्य०।” ↩︎

  1472. “प. रसमा०।” ↩︎

  1473. “प ०विक्र०।” ↩︎

  1474. “व. ०निश्चो०।” ↩︎

  1475. “व. ०स्तटा।” ↩︎

  1476. “प व. ०क्षते।” ↩︎

  1477. “व. वद।” ↩︎

  1478. “प. ०शृंग०।” ↩︎ ↩︎

  1479. “व. प्रथभपिशुने।” ↩︎

  1480. “प ०लिवपु।” ↩︎

  1481. “अ प.० पौ ०श्ये०।” ↩︎

  1482. “प च यथा।” ↩︎

  1483. “*उरः पीडितवरकारेल्लकान्युच्चयसिदयितवत्सलिके!। कण्टकविलिखितपीनोन्नतस्तनी हन्यसे तदा॥” ↩︎

  1484. “अ ०ल्लिअवयकारेल्ल०।” ↩︎

  1485. “अ. प. ०इअव०।” ↩︎

  1486. “अ. कंटअ०।” ↩︎

  1487. “प व ०यित्व।” ↩︎

  1488. “अ स सामान्यवै०।” ↩︎

  1489. “अ. प ०मजरवुना०।” ↩︎

  1490. “अ. समा०।” ↩︎

  1491. “अ ०मतमु०।” ↩︎

  1492. “अ. प्रस्थितं।” ↩︎

  1493. “अ. ०त्त्वेनाध्य०।” ↩︎

  1494. “व. ०क्षाम०।” ↩︎

  1495. “अ ०कोर्थः।” ↩︎

  1496. “प.प्रति०।” ↩︎

  1497. “व ०स्यामिवा०।” ↩︎

  1498. “प ०नल०।” ↩︎

  1499. “अ ०थात्वं।” ↩︎

  1500. “अ. •क्षैः।” ↩︎

  1501. “प तु ग०।” ↩︎

  1502. “प.०भवा०।” ↩︎

  1503. “प. भेक्षु०।” ↩︎

  1504. “प० रस्यै०” ↩︎

  1505. “च० चात उ०।” ↩︎

  1506. “पे सत्ताशुः।” ↩︎

  1507. “प. ०द्यते " ↩︎

  1508. “अ. ०सरसा०” ↩︎

  1509. “अ. ०त्रले०” ↩︎

  1510. “अ. ०णं च प्रो” ↩︎

  1511. “अ.संमा०” ↩︎

  1512. “प. ०त्मका” ↩︎

  1513. “प.इत्याद्यदा०” ↩︎

  1514. “प. व्यपा०” ↩︎

  1515. “प. ०टस्था०” ↩︎

  1516. “अ. ०वित०” ↩︎

  1517. “प. श्रस्तं” ↩︎

  1518. “प. ०मेव०” ↩︎

  1519. “प. ०श प०” ↩︎

  1520. “अ. ०वाध्यु०” ↩︎

  1521. “अ. ०णकत्वात्” ↩︎

  1522. “प ०हु” ↩︎

  1523. “प दीवे” ↩︎

  1524. “व यमघ०” ↩︎

  1525. “अ ०भयो प्र०” ↩︎

  1526. “प ०षार्था०” ↩︎

  1527. “प या पूर्वेक्ष०” ↩︎

  1528. “प ०योग्यता०” ↩︎

  1529. “प. ०मपि” ↩︎

  1530. “प. ०चित् स०” ↩︎

  1531. “च ०वे दृष्टे” ↩︎

  1532. “प.०था पा०” ↩︎

  1533. “अ. प ०ना य०” ↩︎

  1534. “प.०स्यावि०” ↩︎

  1535. “पप्रियविप्रयो” ↩︎

  1536. “प स ता” ↩︎

  1537. “अ. ०ष्पपा०” ↩︎

  1538. “अ. ०शोभिनी” ↩︎

  1539. “अ ०म्यदे०” ↩︎

  1540. “व. कुच०” ↩︎

  1541. “व. विलि०” ↩︎

  1542. “प. ०रश्रो०” ↩︎

  1543. “अ ०म्ये ह०” ↩︎

  1544. “प. लीला०” ↩︎

  1545. “व. सर्वजी०” ↩︎

  1546. “अ. यामा०” ↩︎

  1547. “प.०रशि०” ↩︎

  1548. “प ०जगा०” ↩︎

  1549. “प. ०कव्य०, व ०करतुल्यव्य०” ↩︎

  1550. “अ. व. ०रभ्य०” ↩︎

  1551. “प न ०लकृ०” ↩︎

  1552. “प युगली” ↩︎

  1553. “ववा” ↩︎

  1554. “प च वि०” ↩︎

  1555. “व. पीना०” ↩︎

  1556. “व.०रमणो०” ↩︎

  1557. “अ ०प च दृ०” ↩︎

  1558. “व. मुखेभ्यः” ↩︎

  1559. “प. कुशेरु०” ↩︎

  1560. “व. ०राप्ला०” ↩︎

  1561. “प.पत्रिणः” ↩︎

  1562. “व.सहस्रस०” ↩︎

  1563. “प युगलं” ↩︎

  1564. “अ. ०दक” ↩︎

  1565. “प. ०र्वोवि०” ↩︎

  1566. “अ०जन्य०” ↩︎

  1567. “अ. ०वधू” ↩︎

  1568. “प प्रतीते” ↩︎

  1569. “अ ०मानत्वे०” ↩︎

  1570. “अ. व.०ष्टत्वस्यैव” ↩︎

  1571. “प ०माधातुमा०” ↩︎

  1572. “प.वालाय” ↩︎

  1573. “अ एयं, व एवं” ↩︎

  1574. “अ. ०आरिअ०” ↩︎

  1575. “व. ण” ↩︎

  1576. “प ०षेवे” ↩︎

  1577. “प. ०तव०” ↩︎

  1578. “प किमपर्याप्तमपागम०” ↩︎

  1579. “प. ०च्छंत्येते " ↩︎

  1580. “अ प. ०न्यगृ०” ↩︎

  1581. “प ०म्नानु०” ↩︎

  1582. “अ प.नयति” ↩︎

  1583. “प तव ब०” ↩︎

  1584. “प. ०स्तव” ↩︎

  1585. “अ. ०मनस।” ↩︎

  1586. “प. ०पद प०।” ↩︎

  1587. “प. ०शेष०।” ↩︎

  1588. “अ शर्माका।” ↩︎

  1589. “अ निकृति।” ↩︎

  1590. “अ कापि।” ↩︎

  1591. “अ. याद्राज्ञः।” ↩︎

  1592. “प० तेअ०।” ↩︎

  1593. “अ. त्कंठनो०।” ↩︎

  1594. “व. विशेष०।” ↩︎

  1595. “व. अत्र।” ↩︎

  1596. “अ. स्यान०।” ↩︎

  1597. “व. पाडुरं।” ↩︎

  1598. “प. ०मिद।” ↩︎

  1599. “अ णां ता०।” ↩︎

  1600. “प. अ. शंक०।” ↩︎

  1601. “अ. विश्वा०।”

     ↩︎
  1602. “प.णतक०। " ↩︎

  1603. “प. ०दका०।” ↩︎

  1604. “प. ०रूपं।” ↩︎

  1605. “अ ० मप्या०।” ↩︎

  1606. “व तु सुहृदां०।” ↩︎

  1607. “व वेत्तु।” ↩︎

  1608. “प द्वित्रादि०।” ↩︎

  1609. “प योगिता।” ↩︎

  1610. “प. षययो०।” ↩︎

  1611. “प अर्ण०।” ↩︎

  1612. “प. ०रणग०।” ↩︎

  1613. “प. विरुद्धत्वे विकल्पः स्यात्।” ↩︎

  1614. “प व ०लशोभिनो०।” ↩︎

  1615. “अ भूर्व्यो।” ↩︎

  1616. “प. व प्राप्तौ।” ↩︎

  1617. “प. ० क्षिति०।” ↩︎

  1618. “प तेनैवोपा।” ↩︎

  1619. “अ जय०।” ↩︎

  1620. “प वामलो०।” ↩︎

  1621. “प. ०यंत्यनेन।” ↩︎

  1622. “प. सोपर, परः।” ↩︎

  1623. “प ०तित्वाद्।” ↩︎

  1624. " प. व श्रीह०।” ↩︎

  1625. “प युगलं।” ↩︎

  1626. “प. ० पस्कारः।” ↩︎

  1627. “अ. ०वयस्य व०। " ↩︎

  1628. “प. कृत०।” ↩︎

  1629. “प. ०संभवात्।” ↩︎

  1630. " व. ०दशे०।” ↩︎

  1631. “प. विष्यते।” ↩︎

  1632. “अ. अपि तेषु स्थानेषु अ०।” ↩︎

  1633. “प. ० द्यहृद्य।” ↩︎

  1634. “व. अ. प. ०लकृतान०।” ↩︎

  1635. “प. ०णनामा मालाल०।” ↩︎

  1636. “प. कारण।” ↩︎

  1637. “व ०रस्योत्त०।” ↩︎

  1638. “प. परंपरा।” ↩︎

  1639. “प. ०स्य सु०।”

     ↩︎
  1640. “प. ० रमुक्त०।” ↩︎

  1641. “अ ०प दी०।” ↩︎

  1642. " प ० ध्वनि,।” ↩︎

  1643. “प दंतग०।” ↩︎

  1644. “प ० पूर्वकं।” ↩︎

  1645. “प. च पद। " ↩︎

  1646. “प ०षग०।” ↩︎

  1647. “प ० षगग०।” ↩︎

  1648. “व न व०।” ↩︎

  1649. “अ शुभे।”

    हा! सोपानपरम्परां गिरिसुता–कान्ताऽऽलयालङ्कृतिम्॥ ↩︎

  1650. “अ. प. ० रोषि०।” ↩︎

  1651. “अ. प.क्ष्यते।” ↩︎

  1652. “प. नो मु०।” ↩︎

  1653. “प. णस्य।” ↩︎

  1654. " प. कार्यादका०।” ↩︎

  1655. “प. यतो।” ↩︎

  1656. " प. ०र्थवि०।” ↩︎

  1657. “अ पुन।” ↩︎

  1658. “व पेशलं।” ↩︎

  1659. “अ प. ०र इत्यादि अत्र।” ↩︎

  1660. “प अ. शं०।” ↩︎

  1661. “अ त्वे हे०।” ↩︎

  1662. “प ० नोक्तैर्म०।” ↩︎

  1663. “प. यमल।” ↩︎

  1664. “अ. साध्यमानप्र०।” ↩︎

  1665. “व न-नीपसु०।” ↩︎

  1666. “प. विरहिणा।” ↩︎

  1667. " प. ० जालो०। " ↩︎

  1668. “अ. प.भूतानि।” ↩︎

  1669. “अ प. कारणकार्य०।” ↩︎

  1670. “अ० भ्रूविकार०।” ↩︎

  1671. “अ द्वेधा।” ↩︎

  1672. “प ०सति।” ↩︎

  1673. “प. ०दिना।” ↩︎

  1674. “०लकाल।” ↩︎

  1675. “अ. ० र्मडनं। " ↩︎

  1676. “अ. मूलौ।”

    ज्जातं वक्षसि कौस्तुभाभमुदरे नाभीसरोजोपमम्॥८९८॥” ↩︎

  1677. “प. नाम्ना गृ०, च. नाम गृ०।” ↩︎

  1678. " प. चास्त हिमाशुह०।” ↩︎

  1679. “प ० दिग०।” ↩︎

  1680.  ↩︎
  1681. “प. ०न् कथयति।” ↩︎

  1682. “अ. ०दि च।” ↩︎

  1683. " व. ०तभ्ये०।” ↩︎

  1684. " प ०र्यार्यात” ↩︎

  1685. “प. चड०” ↩︎

  1686. “प ०स्माच्चा० " ↩︎

  1687. “व. ० प्रस्तुत।” ↩︎

  1688. “प पवा०। " ↩︎

  1689. “अ ०जनो।” ↩︎

  1690. " प. व प्रशी०।” ↩︎

  1691. “अ यत्राम०।” ↩︎

  1692. “अ. कश्चत्। " ↩︎

  1693. " प. व. शठः। " ↩︎

  1694. " व ० भवन।” ↩︎

  1695. “प. न्युचित् कु।” ↩︎

  1696. “व मालोकित।” ↩︎

  1697. " प. अपा०” ↩︎

  1698. “अ प्सौकर्यात्” ↩︎

  1699. “व. तद्।” ↩︎

  1700. " अ ०रनि०।” ↩︎

  1701. " व च—न—स” ↩︎

  1702. “अ. व. ०नता०।” ↩︎

  1703. “प. प्रत्प्र०।” ↩︎

  1704. “प ० भाग.” ↩︎

  1705. " अ. श्लिष्टा।” ↩︎

  1706. “अयि! एहि तावत् सुन्दरि! कर्ण दत्त्वा शृणु वचनीयम्। तव मुखेन कृशोदरि! चन्द्र उपमीयते जनेन॥” ↩︎

  1707. “प काऊ०” ↩︎

  1708. " व. व्यरि।” ↩︎

  1709. “अ • यव्य०। " ↩︎

  1710. “प भग्ने।” ↩︎

  1711. “अ. ०र्भावन्य०। " ↩︎

  1712. “अ. ० नोत्कृ०।” ↩︎

  1713. " प ०तीतमे०।” ↩︎

  1714. " प ०रुणामि।” ↩︎

  1715. “अ ०ल मा०।” ↩︎

  1716. “प. नो भा०” ↩︎

  1717. “प. ० न्नेनैव।” ↩︎

  1718. “प. ० नेन।” ↩︎

  1719. “प. ०ण ता०।” ↩︎

  1720. “अ. वक्त्रि, व. ०वक०।” ↩︎

  1721. “प ०ण ता०। " ↩︎

  1722. " प व धर्मा। " ↩︎

  1723. “अ. विद्यु०” ↩︎

  1724. " अ ०रावा०” ↩︎

  1725. " प ० रवि०।” ↩︎

  1726. “प ०त्मकता।” ↩︎

  1727. “अ. गुरुडात्मजेन।” ↩︎

  1728. “अ. ०रैरनी०।” ↩︎

  1729. “व कंचि०।” ↩︎

  1730. “धवलोऽसि यद्यपि सुन्दर ! तथापि त्वया मम रञ्जितं हृदयम् । रागभृतेऽपि हृदये सुभग ! निहितो न रक्तोऽसि॥” ↩︎

  1731. “व. प. हिय०।” ↩︎

  1732. “प. पुस्तिका इत परं पत्राणामभावादपूर्णा।” ↩︎

  1733. “वणिक् ! हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तिश्व ?। यावद् विलुलितालकमुखी गृहे परिष्वष्कते स्नुषा॥” ↩︎

  1734. “का विषमा ? दैवगतिः, किं लष्टं ? यज्जनो गुणग्राही। किं सौरूपं ? सुकलत्रं, किं दुर्ग्राह्यं ? खलो लोकः॥” ↩︎

  1735. “सखीभिर्भण्यमाना स्तनके लग्नं कुसुम्भपुष्पमिति। मुग्धवधूर्हस्यते प्रस्फोटयन्ती नखपदानि॥ " ↩︎

  1736. " व ०ध्विति ।” ↩︎

  1737. “अ. शक.” ↩︎

  1738. “यथा गम्भीरो यथा रत्ननिर्भरो यथा च निर्मलच्छायः। तत् किं विधिना स सरसपानीयो जलनिधिर्न कृतः ?॥” ↩︎

  1739. “अ ०षसा०” ↩︎

  1740. “अ प्रप०” ↩︎

  1741. “अभिनवमनोहरविरचितवलयविभूषा विभाति नववधूका। कुन्दलतेव समुत्फुल्लगुच्छपरिलोनभ्रमरगणा॥” ↩︎

  1742. “संहतचक्रवाकयुगा विकसितकमला मृणालसंछन्ना। वापी वधूरिव रोचनविलिप्तस्तना सुखयति॥” ↩︎

  1743. “अ प ● मगलाना " ↩︎

  1744. “का. विव०” ↩︎

  1745. “अ. प सुख०” ↩︎

  1746. “अ प. ण्यात् या यत्र " ↩︎

  1747. “अ.प. ०भ्यास उ०” ↩︎

  1748. “अ. समाषि०, प. समावि०” ↩︎

  1749. “अ. प एव त०” ↩︎

  1750. “अ प अलङ्कारे” ↩︎

  1751. “अ. प. प्ररू० " ↩︎

  1752. “अ. प ० विधे” ↩︎ ↩︎

  1753. “अ. प. वर्गः” ↩︎

  1754. “का. क्रमात्” ↩︎

  1755. “का. ०जिता” ↩︎

  1756. “अ. प. सखे” ↩︎

  1757. “का ० लानानु०” ↩︎

  1758. “अ प. ० मृदक्ष” ↩︎

  1759. “का ०त्व०” ↩︎

  1760. “अ अ. प. ० दिस०” ↩︎

  1761. “अ.प.०त.वि०” ↩︎

  1762. “का.०स्य सि०” ↩︎

  1763. “अ.प० तु” ↩︎

  1764. “का. इति” ↩︎

  1765. “अ.प.०प्ररू०।” ↩︎

  1766. “अ.प.कर्ता।” ↩︎

  1767. “का.स्व०। " ↩︎

  1768. “अः प.यज्जज्ञे।” ↩︎

  1769. “अ.प. सापेतं।” ↩︎

  1770. “का.निहि०।” ↩︎

  1771. “अ.प.रागे०।” ↩︎

  1772. “का शखभा।” ↩︎

  1773. “का० कसा०।” ↩︎

  1774. “का.०दी।” ↩︎

  1775. " का.०रोथमा।” ↩︎

  1776. “अ. प. ०गंधि०।” ↩︎

  1777. “अ. प. ०मा।” ↩︎

  1778. " का. गते।” ↩︎

  1779. “अ.प. दुर्दरे।” ↩︎

  1780. “अ. प. रौद्र दै०।” ↩︎

  1781. “अ. प. रद्यो।” ↩︎

  1782. “अ. प. दयते च।” ↩︎

  1783. " अ. ०दोष०।” ↩︎

  1784. “अ प रिपु०” ↩︎

  1785. “अ. प. ह्यास्य०” ↩︎

  1786. “अ. प. इति० श०।” ↩︎

  1787. “का.०वस्तु।” ↩︎

  1788. “अ.प.कश्चित्, का.तस्मिन्।” ↩︎

  1789. “को. ०रस्त०।” ↩︎

  1790. “का. ग्रोऽ०।” ↩︎

  1791. “अ. प. ०न्तं।” ↩︎

  1792. “का. न्त्यत्।” ↩︎

  1793. “का. ०दये।” ↩︎

  1794. " अ. प. नियु०।” ↩︎

  1795. “अ. प. ०स्तवस्तु दृश्वे०।” ↩︎

  1796. “अ. प. ०स्तै।” ↩︎

  1797. “का. त्वादृशैर्मृतैर्जनो।” ↩︎

  1798. “अ. प. इति०गु०।” ↩︎

  1799. “अ प ० रुनिशे मित्रे च सहजप्राकृतावापि। ३६ उपकर्त्रान०” ↩︎

  1800. “अ. प. वृत्तिगो” ↩︎

  1801. “का. क्लिश्यति” ↩︎

  1802. “अ. प. रथ च०” ↩︎

  1803. “अ. प ० दिवं” ↩︎

  1804. “अ. प. ददना० ०बंधमया०” ↩︎

  1805. “मदद” ↩︎

  1806. “अ प. चला०” ↩︎

  1807. “का नमौ” ↩︎

  1808. “का बिंदु” ↩︎

  1809. “का.• रुक्काभा० .” ↩︎

  1810. “का. ०दते” ↩︎

  1811. “अ प इति श०” ↩︎

  1812. " अ. चक्र०” ↩︎

  1813. “अ. प. स्मृत०” ↩︎

  1814. “का.ह्मुतिर्विषमोत्त०” ↩︎

  1815. “का वाच्यै श०” ↩︎

  1816. “, प. ॰स्य भा०” ↩︎

  1817. “का मान स्याद् यत्र वाच्यु०” ↩︎

  1818. “अ. प.मुद” ↩︎

  1819. “अ.प.पमस्यो” ↩︎

  1820. “अ.प.धौ.स्वे०” ↩︎

  1821. “अ प ०रिणा” ↩︎

  1822. “का ० तिर्वाऽ” ↩︎

  1823. “का बत” ↩︎

  1824. “अ. प. तोन्त०” ↩︎

  1825. “अ. प. ०दृशाश्च०” ↩︎

  1826. “का ० मथास्य कृष्णयेत्” ↩︎

  1827. “अ प.०रियं” ↩︎

  1828. “का नलेनालो सा” ↩︎

  1829. “अ प ०रं धीरवत्त्त्र” ↩︎

  1830. “प धस्य, अ तस्य” ↩︎

  1831. “का. तु” ↩︎

  1832. “अ श्रितात्” ↩︎

  1833. “का नरे” ↩︎

  1834. “का. विदुर्भ०” ↩︎

  1835. “प.अ. ०णौधैर्य०” ↩︎

  1836. “प.अ” ↩︎

  1837. “का. व्यथा” ↩︎

  1838.  ↩︎
  1839. “का वृतः, अ. प वतः” ↩︎

  1840. “प इति० अर्था०” ↩︎

  1841. “प.अ.०समास०” ↩︎

  1842. “अ प श्लष्टा०” ↩︎

  1843. “प.भिरनो०” ↩︎

  1844. “प ०तलिरूपपं० " ↩︎

  1845. “भ. प. च” ↩︎

  1846. “का ० पराः” ↩︎

  1847. “का ०लाटा” ↩︎

  1848. “प इति० री०” ↩︎

  1849. “अ.प.व्यंज्य०” ↩︎