वक्रोक्तिजीवितम् चतुर्थोन्मेषः

एवं सकलसाहित्यसर्वस्वकल्पवाक्यवक्रताप्रकाशनानन्तरमवसरप्राप्तां प्रकरणवक्रतामवतारयति—


यत्र निर्यन्त्रणोत्साहपरिस्पन्दोपशोभिनी ।
वृत्तिर्व्यवहर्तॄणां स्वाशयोल्लेखशालिनी ॥ व्जिव्_४।१ ॥
अप्यामूलादनाशङ्क्यसमुत्थाने मनोरथे ।
काप्युन्मीलति निःसीमा सा प्रबन्धांशवक्रता ॥ व्जिव्_४।२ ॥

यत्रेत्यादि ।
—“प्रबन्धांशवक्रता” (प्रकरण) वक्रभावो भवतीति सम्बन्धः ।
कीदृशी—“निःसीमा”—निरवधिः, “यत्र”—यस्यां “व्यवहर्तॄणां”—तत्तद्व्यापारपरिग्रहव्यग्राणां प्रवृत्तिः “कापि”—अलौकिकी “उन्मीलति”—उद्भिद्यते ।
किंविशिष्टा—“निर्यन्त्रणोत्साहपरिस्पन्दोपशोभिनी”—निरर्गलव्यवसायस्फुरितस्फारविच्छित्तिः, अत एव “स्वाशयोल्लेखशालिनी” निरुपमनि (ज) हृदयोल्लासितालङ्कृतिः, कस्मिन् सति—“अप्यामूलादनाशङ्क्यसमुत्थाने मनोरथे”—कन्दात् प्रभृत्यसम्भाव्यसमुद्भेदे समीहिते ।
तदयममत्रार्थः—यत्र मनाङ्मात्रमप्यनुन्मीलितमनोरथे कथामध्ये निरुपधिमानधनानामध्यवसायपद्धतिः निरन्तरव्यवसायातिस्फारा चेतनचमत्कारिणी तद्विहितवक्रताविच्छित्तिः प्रिकरणस्यालङ्करणायते, प्रबन्धस्य च ।
यथा अभिज्ञानजानकीनाम्नि नाटकेतृतीये ऽङ्के सेतुबन्धे ऽनाकलितविद्याबलानामविदितवैदेहीदयितदिव्यास्त्र प्रभावसम्पदां वानरप्रवीराणां प्रथममेव मकराकरमालोकयतां बन्धाध्यवसायः ।
तथाहि—तत्र नीलस्य सेनापतेर्वचनम्—

शैलाः सन्ति सहस्त्रशः प्रतिदिशं वल्मीककल्पा इमे दोर्दण्डाश्च कठोरविक्रमरसक्रीढासमुत्कण्ठिताः ।
कर्णास्वादितकुम्भसम्भवकथाः किं नाम कल्लोलिनी- कान्ते गोष्पदपूरणे ऽपि कपयः कौतूहलं नास्ति वः ॥ व्जिव्च्_४।१ ॥

वानराणामुत्तरवाक्यं नेपथ्ये कलकलानन्तरम्—

आन्दोल्यन्ते कति न गिरयः कन्दुकानन्दमुद्रां व्यातन्वानाः कपिपरिसरे कौतुकोत्कर्षतर्षात् ।
लोपामुद्रापरिवृढकथाभिज्ञताप्यस्ति किं तु व्रीडावेशः पवनतनयोच्छिष्टसंस्पर्शनेन ॥ व्जिव्च्_४।२ ॥

अत्रैव पवनतनयोच्छिष्टे अधिवाचिनि पर्यायवक्रताप्रिकारः स्मर्तव्यः ।
आर्य, दुष्करो ऽयमेभिर्मकराकरबन्धाध्यवसाय इति रामेण पर्यनुयुक्तस्य जाम्बवतो ऽपि वाक्यम्—

अनङ्कुरितनिस्सीममनोरथपथेष्वपि ।
कृतिनः कृत्यसंरम्भमारभन्ते जयन्ति च ॥ व्जिव्च्_४।३ ॥

एवंविधमपरमपि तत एव विभावनीयमभिनवाद्भुताभोगभङ्गीसुभगं सुभाषितसर्वस्वम् ।
यथा वा रघुवंशे पञ्चमे सर्गे चतुरु (द) धिकाञ्चीकलापालङ्करणकाश्यपीपरिवृढस्य विश्वजिदाख्यमखदीक्षादक्षिणीकृतसमस्तसम्पदः सहजौदार्यरहस्योदाहरणस्य रघोरर्घसम्पादितमृण्मयपात्रसमालोकनसमुन्मूलितमनोरथाडम्बरे वरतन्तोरन्तेवासिनि निषिद्धगमने मुनौ

“किं वस्तु विद्वन् गुरवे प्रदेयं त्वया कियद्वेति” ॥ व्जिव्च्_४।४ ॥

प्रश्नसमनन्तरं समावेदितचतुर्दशकोटिपरिमाणचामीकरामाचार्यप्रददक्षिणा (माकलय्य)

द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥ व्जिव्च्_४।५ ॥

इति निरर्गलगम्भीरतो दारगरिमागोपायितान्तर्गतया गिरग्न्यगारमलङ्कुर्वति कुबेरं प्रति सामन्तसम्भावनया जयाध्यवसायः कामपि सहृदयहृदयाह्लादकारितां प्रतिपद्यते ।
सूक्तिसुधावीचयो ऽप्यत्र तत (एवा) स्वादनीयाः ।
एतत्प्रकरणप्राणपरिस्पन्दसुन्दरं च किञ्चिदुदाह्रियते ।
यथा—

तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् ।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥ व्जिव्च्_४।६ ॥

अत्र दम्भोलिदलितकाञ्चनाचलपादसादृश्यप्रतीयमानापरिमितस्य तपनीयकूटस्य सर्वस्यापि (विश्रा)णनात्, अन्य एव तादृशद्रविणव्यसनवर्तिनो दिलीपनन्दनस्य, कल्पनाकलङ्ककदर्थितार्थवितरणानुच्चतरान् कल्पतरूपनपि तिरस्कुर्वाणः स कोष्यौदार्यसीमाविशेषः समुज्जृम्भते, येन गर्भोकृतगर्वगरिमग्रन्थीशिथिलाद्वितीययशस्सन्दोहदोहदस्य दात्रन्तरासहिष्णोः “गुर्वर्थम्” इत्यादेः प्रथमोदितवाक्यप्रकाण्डस्य प्राणपरिस्पन्दपरिपोषणमेवाधीयते ।
अन्यच्च—

जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ ।
गुरुप्रेदयाधिकनिस्पृहोर्ऽथो नृपो ऽर्थिकामादधिकप्रदश्च ॥ व्जिव्च्_४।७ ॥

इत्यादि ।
अत्रापि गुरुप्रदेयदक्षिणातिरिक्तं कार्तस्वरमप्रतिगृह्णतः कौत्सस्य, रघोरपि प्राथितात् शतगुणं सहस्त्रगुणं वा प्रयच्छतः (परस्परं कलहायमानयो) र्निरवधि(नि) स्पृहत्वौदार्यसम्पत् साकेतनिवासिनाम् अश्रुतपूर्वां कामपि महोत्सवमुद्रामाततान ।
एवमेषा महाकविप्रबन्धेषु प्रकरणवक्रताविच्छित्तिः रसनिष्यन्दिनी सहृदयैः स्वयमुत्प्रेक्षणीया ।
इमामेव प्रकारान्तरेण प्रकाशयति—


इतिवृत्तप्रयुक्ते ऽपि कथावैचित्र्यवर्त्मनि ।
उत्पाद्यलवलावण्यादन्या लसति वक्रता ॥ व्जिव्_४।३ ॥
तथा यथा, प्रबन्धस्य सकलस्यापि जीवितम् ।
भाति प्रकरणं काष्ठाधिरूढरसनिर्भरम् ॥ व्जिव्_४।४ ॥

इतिवृत्तेति ।
—“तथा उत्पाद्यलवलावण्यादन्या भवति वक्रता” = तेन प्रकारेण कृत्रिसंविधानकामनीयकादलौकिकी वक्रभावभङ्गी समुज्जृम्भते सहृदयानावर्जयतीति यावत् ।
(कस्मिन्–) “कथावैचित्र्यवर्त्मनि”—काव्यस्य कथाविचित्रभावमार्गे ।
किंविशिष्टे “इतिवृत्तप्रयुक्ते ऽपि”—इतिहासपरिग्रहे ऽपि ।
तथेति तथाप्रयोगमपेक्षत अत आह—“यथा प्रबन्धस्य सकलस्यापि जीवितम् ।
भाति प्रकरणम्” येन प्रकारेण सर्गबन्धादेः समग्रस्यापि प्राणप्रदं भासते ऽङ्गम् ।
कीदृग्भूतं—“काष्ठाधिरूढरसनिर्भर (म्) = प्रथमधारोद्भासितशृङ्गारादिपरिपूर्णम् ।
तदयमत्र परमार्थः = विख्यातविचित्ररुचिरकथाकरण्डकायमा(ने)महाभारतादौ रससमुद्रमुद्रितायामपि कथायां कस्यचिदुत्तराधरविच्छित्तिकारणविकल्पकाभावात्, सवि(शेष)रसभावजनकाश्चर्यजननकार्यजातानि अतिबन्धुरनिजप्रतिभासमुन्मीलितसमुचितनिरुपमाननिमित्तानि निबन्धनीयानीति ।
तदतिशयवक्रताप्रकारेण प्रकरणेन व्यवहरन् कविः सकलकविरसिकपरिषत्परितोषणमावहति ।
प्रबन्धे ऽपि प्रवरनवसंस्कारकारणरमणीयकान्तिपरिपोषः रेखाराजमानपुरातनत्रुटितचित्रदशास्पदसौभाग्यमनुभवति ।
अभिज्ञानशाकुन्तले नाटके इतरतरुणीतिरस्कारकारणाविरोधकत्वेनेक्षणक्षणाकलितललितलावण्यलक्ष्मीललामनिरुपमरूपरेखा सुखप्रत्यभिज्ञा समुज्जृम्भते ।
विस्त्रम्भसम्भावनासनाथकथारहस्यरम्यपरस्परानुरूपप्रेमप्रकर्षप्रवर्तितचिरतरविचित्रविहरणव्यापारसुप्राप्तप्रत्यभिज्ञां तांशकुन्तलां प्रति दुष्यन्तस्य विस्मरणकारणमितिवृत्तागदितमपि अल्पमात्रापराधप्रवर्तमानक्रूरक्रुधः करुणापराङ्मुखस्यमुनेर्दुवाससः शापमुत्पादितवान् कविः ।
तत्र हि प्रकरणप्रकाण्डे शकुन्तला किल प्रथमप्रियप्रवासवासरवितीर्णविरहदुःसहदुःखावेशविवशान्तःकरणवृत्तिरुटज(सन्निहिता) पर्याकुलेन प्राङ्गणप्रान्ते स्थिते (न) महर्षिणा मन्युसङ्गात्—

विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपस्थितम् ।
स्मरिष्यति त्वां स न बोधितो ऽपि सन् कथां प्रमत्तः प्रथमं कृतामिव ॥ व्जिव्च्_४।८ ॥

इत्थं शप्ता ।
तच्छ्रवणपर्याकुलाभ्यां सखीभ्यां (अनुनीतः) प्रवास्यमानो ऽपि मुनिप्रवरः प्रियतमन्यासाङ्गुलीयकविलोकनं (शापा) वसाना (वधि) मकार्षोत् ।
प्रियं प्रति यान्त्याश्च मुनिदुहितुरलङ्कृताङ्गुलीकिसलयस्याङ्गलीयकस्य कुत्रचित् कुटिलतरतरङ्गिणीपयोवतारादन्तर्जलमलक्षितं परिभ्रष्टस्य ससम्भ्रममदभ्रमरीचिमण्डलमाणिक्यसमुल्लसितसरसामिषविशङ्काकुलशकलीकवलितस्य कालान्तरे तदन्तकारिणा कैवर्तनेन पुनरपि (समर्पणम्) ।
एवंविधस्य संविधानकस्य रसनिधानकलशायमानस्य माहात्म्यादिखिलस्यापि नाटकस्य कापि (विच्छित्तिः) समये चञ्चरीकोपालम्भगर्भगीत्यवगमनात् मुनिशापापसारितप्रेयसीस्मृतेरपि तदधिवासवासनापि च परिस्फुरन्ती पौरवस्य पारवश्यं निश्चयामास ।
तथा च

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुकीभवति यत्सुखितो ऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥ व्जिव्च्_४।९ ॥

अत्र सम्मुग्धसुभगमेनकानन्दिनीस्मरणलेखालावण्यमन्यदेव चमत्कारकारणं सहृदयानां समुद्योतते ।
अपरं च परावर्तितायामपि व्यलीकमभिज्ञकं च, महर्षिशिष्यसमाख्यातकरग्रहणगर्भाधानायां महामन्युसमुन्मेषः ।
मनागुल्लङ्घितसहजलज्जावतारतापसशीघ्रापनीतावगुण्ठनेन (पराङ्गनारचित)तथाविधसकलललनालावण्यावलेपसम्पदि सम्पादितविपञ्चिटङ्कारवल्गुवाग्विलासव्याहृतवनविहरणरहस्याभि ज्ञायां भरतमातरि तथारूपं प्रत्याख्यानपारुष्यमपि राज्ञः शापस्य सम्पत्स्यमानानुतापं परस्परं प्रकाशीभवदनर्गलानुरागप्रग्भारसङ्गादतीव सहृदयाह्लादकारि ।
शापावसानसमुत्पत्तये प्रसिद्धस्यरणसमुल्लासिदुःसहविरहज्वरपातावेगविकलत्वं च समनन्तरमेवाङ्गुलीयसङ्गमादतीव सहृदयानाह्लादयति ।
नरपतेस्तत्र कञ्चुकिनो वचनम्—

प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः ।
चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणो ऽपि नालक्ष्यते ॥ व्जिव्च्_४।१० ॥

रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तः पुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥ व्जिव्च्_४।११ ॥

अत्र राज्ञो विशेषणवक्रता, गोत्रेष्विति वचनवक्रत्वं च किमपि चित्तचमत्कारकारि ।
राज्ञो ऽपि स्वयंलिखितालेख्यालोकमानविलोचनस्य स्मरणात्मक दयितात्ममुद्रामुद्रितं सहृदयवचनम् ।

अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु ।
बिम्बाधरं स्पृशसि चेत् भ्रमर प्रियायाः त्वां कारयामि कमलोदरबन्धनस्थम् ॥ व्जिव्च्_४।१२ ॥

इत्युदित एवास्वादनीयः ।
अविद्यमाने पुनरेतस्मिन् तत्पाद्यलवलावण्यल्लाम्नि प्रकरणे निष्कारणविस्मरणवैरस्यमितिहासांस्येव रूपकस्यापि विरूपकतापत्तिनिमित्ततामवगाहते ।
उत्पाद्यलवलावण्यादिति द्विधा व्याख्येयम् = यथा क्वचिदसदेवोत्पाद्यम्, क्वचिदौचित्यत्यक्तं सदप्यन्यथासम्पाद्यम् सहृदयहृदयाह्लादनाय ।
यथादात्तराघवे मारीचवधः ।
तच्च प्रागेव व्याख्यातम् ।
एवमन्यदप्यस्या वक्रताविच्छित्तेरुदाहरणं महाकविप्रबन्धेषु स्वयमुत्प्रेक्षणीयम् ।

निरन्तररसोद्गारगर्भसन्दर्भनिर्भराः ।
गिरः कवीनां जीवन्ति न कथामात्रमाश्रिताः ॥ व्जिव्च्_४।१३ ॥

(इत्यन्तरश्लोकः) ।
अपरमपि प्रकरणवक्रताप्रकारमाविर्भावयति—


प्रबन्धस्यैकदेशानां फलबन्धानुबन्धवान् ।
उपकार्योपकर्तृत्वपरिस्पन्दः परिस्फुरन् ॥ व्जिव्_४।५ ॥
असामान्यसमुल्लेखप्रतिभाप्रतिभासिनः ।
सूते नूतनवक्रत्वरहस्यं कस्यचित्कवेः ॥ व्जिव्_४।६ ॥

“सूते”—समुन्मीलयति ।
(किम्) “नूतनक्रत्वरहस्यं”—अभिनववक्रभावोपनिषदं ।
“कस्याचित्”—(न) सर्वस्य ।
“कवेः”—कवयितुः, प्रस्तुतौ (चित्य) चारुरचनाविचक्षणस्येति यावत् ।
कः “उपकार्योपकर्तृत्वपरिस्पन्दः”—अनुग्राह्यनुग्रहकत्वमहिमा ।
किं कुर्वन् “परिस्फुरन्”—समुन्मीलयन् ।
किंविशिष्टः—“फलबन्धानुबन्धवान्” = प्रधानकार्यानुसन्धानवान् कार्यानुसन्धाननिपुण(इति भावः) ।
कथमेवंविधस्य हत्याह—“असामान्यसमुल्लेखप्रतिभाप्रतिभासिनः”—निरुपमोन्मीलितशक्ति विभवभ्राजिष्णोः ।
केषां “प्रबन्धस्यैकदेशानाम्” = प्रकरणानाम् ।
तदिदमुक्तं भवति—प्रातिस्विकसन्निवेशशोभिनामपि प्रबन्धावयवानां प्रधानफलसम्बन्धनिबन्धानुग्राह्यानुग्राहकभावः स्वभावसुभगप्रतिभाप्रकाश्यमानः कस्यचिद्विचक्षणस्य वक्रताचमत्कारिणः कवेरलौकिकं (कथाप्राणप्रौढिप्ररूढ) वक्रतोल्लेखलावण्यं समुल्लासयति ।
यथा पुष्पदूषितके द्वितीये ऽङ्के— प्रस्थानात् प्रतिनिवृत्य निबिडानुरागात् (अन्धकारावृतायाम्) विभावर्याममन्दमदनोन्मादमुद्रेण समुद्रदत्तेन निजभार्यानिकेतनं तुल्यदिवसं नन्दयन्तीसङ्गमाय मलीम्लुचेनेव प्रविशता प्रकम्पावेगविकलालसकायनिपातननिहतनिद्रस्य द्वारदेशशायिनः कलहायमानस्य कुवलयस्योत्कोचकारणं स्वकरादङ्गुलीयकदानं यत् कृतम्, तच्चतुर्थे ऽङ्के मथुराप्रतिनिवृत्तेन तेनैव श्वशुरस्य समावेदितसमुद्रदत्तवृत्तान्तेन कुलकलङ्कातङ्ककदर्थ्यमानस्य सार्थवाहसागरदत्तस्य स्वतनयस्पर्श (समाहित) मान (सस्य) स्नुषाशीलशुद्धिमुन्मीलयत्तदुपकाराय कल्पते ।
तथा च सागरदत्तस्य वचनम्

तदङ्गुलीयं सुतनामचिह्नं चरित्रसुद्धिं विशदीकरोति ।
ममापि सामान्यसमुद्यतो ऽनु- तापस्तु पापस्य भवेत्स शुद्धिः ॥ व्जिव्च्_४।१४ ॥

अत्र भृत्य, किमिति त्वया प्रथममस्माकं (नोक्तमिति पृष्टस्य) कुवलयस्योत्तरं—

तदोपणिकमन्ते राम पणि यात त हिं एव्व पविसन्ति ।
द्ग्धाच्छादितं च मए स अं एव्व पेख्खिअं छन्वाहनसम्पदं पुतन वेदैस्सदि ॥ व्जिव्च्_४।१५ ॥

तत एवावधार्यम् ।
यथोत्तररामचरिते— पृथुगर्भभरखेदितदेहाया विदेहराजदुहितुर्विनोदाय दाशरथिना चिरन्तनराजचरितचित्ररुचिं दर्शयता निर्व्याजविजयविजृम्भमाणजृम्भकास्त्राण्युद्दिश्य “सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति” इति यदभिहितं तत्पञ्चमाङ्के प्रवीरचर्याचतुरेण चन्द्रकेतुना क्षणं समरकेलिमाकाङ्क्षता तदन्तरायकलितकलकलाडम्बराणां वरूथिनीनां सहजजयोत्कण्ठाभ्राजिष्णोर्जानकीनन्दनस्य जृम्भकास्त्रव्यापारेण कमप्युपकारमुत्पादयति ।
तथा च तत्र लवः— “भवतु, कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत् सैन्यानि संस्तम्भयामि” सुमन्त्रः—तत्किमकस्मादुल्लोलाः सैन्ययोधाः प्रशाम्यन्ति ।
लवः—पश्याम्येनमधुना प्रगल्भम् ।
सुमन्त्रः—(ससम्भ्रमम्) वत्स, सुमारेणानेन जृम्भकास्त्रमभिमन्त्रितम् ।
चन्द्रकेतुः—आर्य, कः सन्देहः—

व्यतिकर इव भीमो वैद्युतस्तामसश्च प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति ।
अबिलिखितमिवैतत् सैन्यमस्पन्दमास्ते नियतमजितवीर्यं जृम्भते जृम्भकास्त्रम् ॥ व्जिव्च्_४।१६ ॥

आर्श्चर्यम् (आश्चर्यम्)—

पातालोदरकुञ्जपुञ्जिततमः श्यामैर्नभो जृम्भकै- रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः ।
कल्पक्षेपकठोरभैरवमरुद्ध्वस्तैरवस्तीर्यते नीलाम्भोदतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ व्जिव्च्_४।१७ ॥

इत्यादि ।
एक एवायमेकदेशानामिति बहुवचनम् ।
अत्र द्वयोरपि बहूनामुपकार्योपकारकत्वं स्वयमुत्प्रेक्षणीयम् ।

एकप्रकरणप्राप्तप्रकारान्तरशोभितः ।
प्रबन्धो भासते नूत्नपरिस्पन्द इवोदितः ॥ व्जिव्च्_४।१८ ॥

(इत्यन्तरश्लोकः) ।
अस्या एव प्रकारान्तरं प्रकाशयति—


प्रतिप्रकरणं प्रौढप्रतिभाभोगयोजितः ।
एक एवाभिधेयात्मा बध्यमानः पुनः पुनः ॥ व्जिव्_४।७ ॥
अन्यूननूतनोल्लेखरसालङ्करणोज्ज्वलः ।
बध्नाति वक्रतोद्भेदभङ्गीमुत्पादिताद्भुताम् ॥ व्जिव्_४।८ ॥

“बध्नाति”—नियन्त्रयति निबन्धयतीति यावत् ।
कां—“वक्रतोद्भेदभङ्गीम्”—गम्भीरवक्रभावाविर्भावितां शोभाम् ।
किंविशिष्टां—“उद्भाविताद्भुताम्” = कन्दलितकुतूहलाम् ।
कः “एक एवाभिधेयात्मा”—तदेव वस्तुस्वरूपम् ।
किं क्रियमाणः—“बध्यमानः”—प्रस्तुतौचित्यचारुरचनामात्रस्पन्दमानः ।
कथं “पुनः पुनः”—वारं वारं ।
क्व—“प्रतिप्रकारणम्” = प्रकरणे प्रकरणे, स्थाने स्थाने इति यावत् ।
नन्वेवं पुनरुक्ततापात्रतां समासादयतीत्याह—“अन्यूननूतनोल्लेखरसालङ्करणोज्ज्वलः”—अविकलाभिनवोल्लासशृङ्गाररूपकादिपरिस्पन्दभ्राजिष्णुः ।
कीदृशः—“प्रौढप्रतिभाभोगयोजितः” प्रगल्भतरप्रज्ञाप्रकारप्रकाशितः ।
अयमस्य परमार्थः—तदेवं सकलचन्द्रोदया (दि) प्रकरणप्रकारेषु वस्तु प्रस्तुतकथासंविधानकानुरोधात् मुहुर्मुहुरुपनिबध्यमानं यदि परिपूर्णपूर्वविरूपरसालङ्काररामणीयकनिर्भरं भवति तदा कामपि रामणीयकमर्यादां वक्रतामवतारयति ।
यथा हर्षचरिते–अभिनवभङ्गीपरिग्रहग्रथितसौभाग्योपसम्पत् (धरा) धर-विभावरीविराम्(दि) रामणीयककर्त्रो नैकस्थानेषु चमत्कुरुते ।
तत एव च तदास्वादनीयम् ।
बहुत्वादत्र वर्णयितुमशक्यम् ।
राजा—(सकरुणं पुरो ऽवलोक्य) हा देवि पादपैरप्यपगतासि

कुरवकतरुर्गाढाश्लेषम्, मुखासवलालनां बकुलविटपी, रक्ताशोकस्तथा चरणाहतिम् ।
तव सुकृतिनः सम्भाव्यैते प्रसादमहोत्सवान् अनुगतदशाः सर्वे, सर्वश्शठो न यथा वयम् ॥ व्जिव्च्_४।१९ ॥

यथा अन्यत्र हि— प्रदीप्तान्तः पुरेण कृशानुना कवलितान् विलासशाखिनः पश्यन्नभिनवशोकावेशविवशान्तः करण; “साक्षाद्देवीमनुसरन्तस्ते” इति समुत्पन्नमतिनिर्विकल्पमवयवैकैकप्रसादपात्रेभ्यो ऽपि अविद्वद्भ्यो ऽपि समनुष्ठितसमुचितसाहसेभ्यः समुचिततादृशप्रसादसाधनमभ्यस्ततदास्वादानुभवसर्वस्वमप्यात्मानं तत्समय एव प्रियानुगमनमनाचरन्तमधमं मन्यमानो निरुपमव्रीडानिवेशनिर्भरं निर्भर्त्सयति वत्सराजः ।
“धारावेश्म” इत्यादि, “कर्ण” इत्यादि च श्लोकद्वयं प्रागुदाहृतमत्र योज्यम् ।
तृतीये ऽङ्के राजा—(सास्त्रं निश्वस्य)

सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्रुते त्रासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तदा ।
हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तथा शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे ॥ व्जिव्च्_४।२० ॥

अत्र शान्तेनापि निर्वाणेनापि तेनाम्लानमालतीमुकुलकोमलदेहविदाहानुमीयमाननैर्घृण्येन दहनेनाप्येकव्यापारा(नपगत)करणा वयमद्यापि दह्यामहे इति नूतनोल्लेखविरोधालङ्कारेण करुणा पूर्वं निविष्टापि वक्रतां नीयते ।
अपि च तथा विधातुं कोमलत्वादेव देव्या तदैव दग्धम्, वयं पुनर्वज्रसारातिकटोरिमाणो ऽद्यापि दह्यामहे न भस्मीभवाम इति विशेषणं प्रस्तुतमेवोल्लासयति ।
चतुर्थे ऽङ्के राजा—(सकरुणमात्मगतम्) हा देवि

चक्षुर्यस्य तवाननादपगतं नाभूत्क्वचिन्नर्वृतं येनैषा सततं त्वदेकशयनं वक्षःस्थली कल्पिता ।
येनोक्तासि विना त्वया बत जगच्छून्यं क्षणाज्जायते सो ऽयं दम्भधृतव्रतः प्रियतमे कर्तुं किमप्युद्यतः ॥ व्जिव्च्_४।२१ ॥

इति सखेदमास्ते ।
अत्र हि क्वचिदिति केलिक्लमापनोदननिमित्तं निकेतपृष्ठसञ्चारणीयासु लीलासु अप्रयत्नसुलभदर्शने तनुमात्रोन्मीलितसम्पातबिम्बलावण्यलेशशङ्कमानत्वदाननान्तेवासित्वे चन्द्रमसि दर्शितनिजवाक्योपारूढपदार्थत्वात् पर्यालोचनया (करुणमेव) प्रत्याययति ।
येनेति पर्यङ्कार्धशयनमपि प्रवासपदमिव परिहरतीति तदेव व्यनक्ति ।
क्षणादिति एतावन्तमपि कालं त्वया विरहितस्य जीवतः कियदौग्यं मम ।
(एवम्) पुनः सकलो ऽप्यलीक एवायं प्रेमबन्धो ऽवधार्यतामिति तथैव प्रतिपादयति ।
सो ऽयमित्यादि प्रागेव व्याख्यातम् ॥
एवमेतत्, अन्तरवाक्यकदम्बकाभिव्यक्तयाभिनवभङ्ग्या पूर्वस्मात्स्वादादास्वादान्तरसम्पदं कामपि करुणस्य कुरुते ।
पञ्चमे ऽङ्के— राजा–(सविशेषोत्कण्ठं निश्वस्य)

भ्रूभङ्गं रुचिरे ललाटफलके तारं समारोपयेत् बाष्पाम्बुप्लुतपीतपत्ररचनां कुर्यात्कपोलस्थलीम् ।
व्यावृत्तैर्विनिबद्धचाटुमहिमामालोक्य लज्जानता तिष्ठेत् किं कृतकोपचारकरुणैराश्वासयैनां प्रियाम् ॥ व्जिव्च्_४।२२ ॥

अत्राधिगमप्रत्याशासम्भावितपद्मावतीपाणिपीडस्यानङ्कुरितमनोरथलेशस्यापि तत्कालकन्दलितौत्सुक्यपरवशीकृतान्तः करणवृत्तेरुन्माद्यत इव प्राप्तामेव प्रद्योतराजपुत्रीं (मन्वानस्य) राज्ञः प्रसादसमयसमुचितप्रकार (चिन्तनं काष्ठाम्) करुणस्यावतारयति ।
तत्रैवाङ्के
किं प्राणा न मया तवानुगमनं कर्तुं समुत्साहिता बद्धा किं न जटा न वा प्ररुदितं भ्रान्तं वने निर्जने ।
त्वत्सम्प्राप्तिविलोभनेन पुनरप्यूनेन पापेन किं किङ्कृत्वा कुपिता यदद्य न वचस्त्वं मे ददासि प्रिये ॥ व्जिव्च्_४।२३ ॥

“इति रोदिति” इत्यन्तेन मनागुन्मादमुद्राप्युन्मीलिता तमेव प्रोद्दीपयति ।
षष्ठे ऽङ्के राजा—हा देवि !

त्वत्सम्प्राप्तिविलोभनेन सचिवैः प्राणा मया धारिताः तन्मत्वात्यजतः शरीरकमिदं मे नास्ति निःस्नेहता ।
आसन्नो ऽवसरस्तदानुगमने जाता धृतिः किं त्वयं खेदो यच्छतधा गतं न हृदयं तद्वत्क्षणे दारुणे ॥ व्जिव्च्_४।२४ ॥

अत्र नैराश्येन राशीभूतभूरितरशोकावेगवेदनादह्यमानमानसप्रतीकारकारणं कालिन्दीनामनिम्नगासङ्गमनम् ।
तस्य प्रियानुगममपि वस्तु वाच्यविस्तरं प्रकरणाभरणायते ।
“प्रोच्यते कियत्” इत्युक्त्या विविधैर्वा विलासैः, कुतः कथोपकारकादिति कथायाः समाशङ्कितविच्छेदायाः प्ररोहयतीति (?) ।
किमुक्तं भवति—स्वल्पो ऽपि वाच्यविशेषः सविशेषविस्फारितः समुद्धाटितरसकवाटद्वारसरसोक्तिविसरविकासिन्या प्रकरणविच्छित्त्या वितन्यमानः कमपि वक्रिमाणमासादयति ।
यथा रघुवंशे मृगयाप्रकरणे— अत्र हि तरङ्गिणीतीरलेखास्वाखेटवाटोद्यतेन प्रमाद्यता दशरथेन राज्ञा स्थविरान्धतपस्विबालवधो व्यधीयतेति एकवाक्यशक्यप्रतिपादनो ऽप्ययमर्थः पुनः परमार्थसरससरस्वतीसर्वस्वायमानप्रतिभाविधानकुशले कविना तादृश्या प्रकरणविच्छित्त्या विस्फारितश्चेतनचमत्कारकारणतामधितिष्ठति ।
तथाहि—यद्यत्रानेकनक्तन्दिनानुबन्धिविविधमृगयाव्यापारपरवशीकृतान्तः करणकवलितसकलतदितर (व्यापार) व्यावृत्त्यवसरप्रसरदभ्यासरससोदरात्मकमृगयानुरागगरिमातः प्राण्येतादृग्रूपो न प्रतिहन्येत, तदा सदाचारसम्पादनचणे त्रिभुवनाभयदीक्षाधिकारिणि किरणमालिनः कुले तिलकायमानस्याखिलविद्यापारावारपारदृश्वनः कीर्तिधनस्य धन्य(दशरथ) नाम्नो धरित्रीपतेः पवित्रितत्रिदिवाधिपार्धासनस्य तथाविधाकरणीयकरणं महर्षिणाप्युदाह्रियमाणमनुपपन्नप्रायमेव प्रतिभासेतापाततः ।
इदं च तत्रैव सकलमुन्मीलितं मनागुदाह्रियते ।

व्याघ्रानभीरभिमुखोत्पतितान् गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान् ।
शिक्षाविशेषलघुहस्ततया स धन्वी तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥ व्जिव्च्_४।२५ ॥

अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार ।
सपदि गतमनस्कश्छिन्नमाल्यानुकीर्णे रतिविगलितबन्धे केशहस्ते प्रियायाः ॥ व्जिव्च्_४।२६ ॥

लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहात् ।
आकर्णकृष्टमपि कामितया स धन्वी बाणं कृपामृदुमनाः प्रतिसञ्जहार ॥ व्जिव्च्_४।२७ ॥

इत्यादि ।
एतैर्हि विचित्रवाच्यवाचकौचित्यचारुभिर्वाक्यविशेषैर्विवधव्यापारपारवश्यमति तरां प्रतीयते ।
यथा—

स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् ।
वनरति रतिवाहयाम्बभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥ व्जिव्च्_४।२८ ॥

अत्र वनरतिरिति विशेषणवक्रता वने स्थित्या विलासगृहकेलीपर्यङ्के प्रेयसी समेत्य मधुगोष्ठीप्रभृत्युपभोगप्रतीतिप्रत्याख्यातप्रतीतिं प्रतिपादयन्त्या प्रस्तुतरसावेश एव वितन्यते ।
त्रियामेति वचनवक्रतोल्लेखेन चिरतरसमयमन्ध (कारः) समुन्मील्यते ।
रूढिवक्रतामहिम्ना च निर्भरान्धकारनिवारितरुचिरव्यापारप्रकारान्तरसान्तरायकारित्वात् तत्प्रतिकूलता प्रतिपाद्यते ।
अत एवातिवाहयाम्बभूवेति क्रियावक्रत्ववैचित्र्येण दारुणदेहवेदनां शयनगतः अपगमयामास, परमपरिश्रमविधाने निद्रा रसदायिनीत्यभिननन्द ।
यथा च

इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धरापतिम् ।
परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥ व्जिव्च्_४।२९ ॥

अत्र जहारेति क्रियावक्रत्वविच्छित्त्या, मृगयाया करणीयेतरभावनासुविकलान्तः करणत्वमङ्कुरितं महीभर्तुः ।
तथा

अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः ।
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरङ्गमेण ॥ व्जिव्च्_४।३० ॥

अत्र तपस्विगाढामिति विशेषणवक्रतया विविधधर्माचारपरायणतापससङ्कुलां तमसां पश्यन्नपि शब्दश्रवणमात्रात् शरं व्याकृष्य शरमोक्षमविकलान्तः करणः कथमकुर्वतेति प्रकाश्यते ।
“अपथे पदमर्पयन्ति हि श्रुतवन्तो ऽपि रजोनिमीलिताः” इत्यनेन न्यायेन परधाराधिरूढदुर्धरव्यसनरागान्दकारकवलितविवेकदृष्टयस्तथाविधा अशुद्धाध्वनि सञ्चरन्त इत्युपपत्तिरप्युपपादिता ।
उत्तरकथोपकारो ऽप्येकदेशस्यास्त्येव ।
तथा हि—

दिष्टान्तमाप्स्यति भवानपि पुत्रशोका- दन्ते वयस्यहमिवेति तमुक्तवन्तम् ॥ व्जिव्च्_४।३१ ॥

इति विशीर्णतापसवितीर्णशापस्य तापसं प्रति प्रतिवचनं कौसल्यापतेः—तथा हि

शापो ऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितो ऽयम् ।
कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धः बीजप्ररोहजननीं दहनः करोति ॥ व्जिव्च्_४।३२ ॥

अत्र शाप इति एवंविधापचारप्राग्भारप्रभवो भवतु नाम ।
सानुग्रह इति अनुग्रहः पुनरयमनुपपन्न एवास्यामवस्थायाम् ।
भगवतेत्यनर्थदर्शनेन सहजदयालुना ।
यदि वा भगवता शापो ऽपि इति शापानुग्रहयोर्दहनवारिणोरिवैककालमेकविषयवर्तित्वमसतोरपि भगवत्(स्वरूप)सम्पत्सामर्थ्यादेव सम्भाव्यते, अदृष्टतनयाननपद्मशोभे मयि एतस्मादेवानुग्रहादवश्यम्भाविनः सुचिरकालाभिकाङ्क्षितस्य सुतावलम्बनतनोर्जोवितफलस्य विलोकनोत्कण्ठापारवश्यात् (सार्थक्यम्) इत्यलमतिप्रसङ्गेन ।
अस्या एव प्रभेदान्तरमुन्मीलयति—


कथावैचित्र्यपात्रं तद्वक्रिमाणं प्रपद्यते ।
यदङ्गं सर्गबन्धादेः सौन्दर्याय निबध्यते ॥ व्जिव्_४।९ ॥

“तद्वक्रिमाणं(प्रपद्यते)” किंविसिष्टं—“कथवैचित्र्यपात्रम्” = प्रस्तुतसंविधानकभङ्गीभाजनं ।
किं तत् ? “यदङ्कंसर्गबन्धादेः सौन्दर्याय निबध्यते” = “यत्”—जलक्रीडादिप्रकरणं (“सर्गबन्धादेः”) महाकाव्यप्रभृतेः (“सौन्दर्याय”)—उपशोभानिषपत्त्यै (“निबध्यते”) निवेश्यते ।
अयमस्य परमार्थः—प्रबन्धेषु जलकेलिकुसुमापचयप्रभृति प्रकरणं प्रक्रान्तसंविधानकानुबन्धि निबध्यमानं निधानमिव कमनीयसम्पदः सम्पद्यते ।
यथा रघुवंशे—

अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः ।
विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥ व्जिव्च्_४।३३ ॥

इत्यादि ।
जलक्रीडास्पर्शानन्तरलक्षितत्वात् अखिलमदविकल(ललना)विलासमूलाध्यास्यमानोत्सवाकुलस्य(कुमुदकन्या)कन्दुकक्रीडालक्षणमुत्सवान्तरमुत्तरकथोपकार्युपपद्यते, तद्विदामाह्लादमावैति च ।
तथा हि राज्ञः करा(स्फालनाभ्युक्षणा)दिवारिविहाररसपरवशान्तः करणस्य (करारविन्दा) दलङ्करणमलक्षितपतनमुत्पन्नकुतूहला कुमुद्वती नाम नागकन्या जगृहे ।
ततस्तस्मिन्नादरोद्रेकादन्विष्टे ऽप्यनासादिते पाथोन्तर्वर्तिनं नागनायकमानीय निवेदितं कुमुदमुद्दिश्य दशाननान्तकनन्दनः समधत्त धनुषि धन्वी गारुत्मतमस्त्रम् ।
अथ परित्राणपर्याकुलः कुमुदः कुमुद्वतीं स्वसारमाभरणेन समं करकमलालङ्कारिणा विदेहनन्दिनीनन्दनस्यार् (पयामास) ।
अत्र सूक्तानि कानिचिदुदाह्रियन्ते ।

अवैमि कार्यन्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् ।
सो ऽहं कथं नाथ तवाचरेय- माराधनीयस्य धृतेर्विघातम् ॥ व्जिव्च्_४।३४ ॥

कराभिघातोत्त्थितकन्दुकेय- मालोक्य बालातिकुतूहलेन ।
ह्रदात्पतज्ज्योतिरिवान्तरिक्षा- ददत्त जैत्राभरणं त्वदीयम् ॥ व्जिव्च्_४।३५ ॥

तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन ।
भुजेन रक्षापरिघेण भूमे- रुपैतु योगं पुनरंसलेन ॥ व्जिव्च्_४।३६ ॥

इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् ।
आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते ॥ व्जिव्च्_४।३७ ॥

एतेषु भुजङ्गराजवाक्येषु आद्ये “विष्णोऽरिति रूढिवक्रतया वक्तृप्रभावात् पर्यङ्कीभूय भुवनाधारेण अनन्तेन निषेव्यमाणस्य सकलाज्ञापालनसम्पादने सज्जो भुजङ्गान्तरो भविष्यतीति प्रतिपाद्यते ।
“स” इति संवृतिवक्रत्वेन यः सततमेव तव वास्तव्यविषयः स एवेत्यभिव्यज्यते ।
कथम् इति पदवक्रतया (त्वयि) भक्तिरिति विधेयतानियन्त्रितस्य मम न केनापि प्रकारेण दुश्चरितापन्नं शीलमाशङ्क्यमिति ।
द्वितीये ऽपि “औत्पातिकज्योतिरिवान्तरिक्षात्” इत्युपमया न कथं किसलयितदिगन्तरालतरलितमरीचिमण्डलतया यावदस्माकं अकारणकमहाभयसंशयसम्पादनमपीत्यवगम्यते ।
तृतीये ऽपि तदेतदिति संवृतिवक्रतया यस्य त्वत्पितुरुरस्थलमिव कौस्तुभस्य भद्रजयविभूष्यताविषयः इति “रक्षापरिघेण भूमेः” इति रूपकेण निवारितनिखिलवसुन्धरादुःखस्य त्वद्वाहोरलङ्करणम्, “शुश्रूषया पादयो” रिति चरणशुश्रूषापवित्रेण पाणिनां सम्पादितपरिणयोत्सवां “यवियसी” मिति द्रुततरतारुण्यावतारितत्वदनुरागप्राग्भाराम् ।
अत एव नार्हसि नानुमन्तुमपि ।
तर्ह्यर्हस्यैव गत्यन्तराभावादिति प्रतीयते ।

“अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती” ॥ व्जिव्च्_४।३८ ॥

इत्यनन्तरप्रकरणे कथोपकारो ऽपि प्रकटमेव वारिविहारस्य दर्शितः ।
नस्मादेव च तदवसरनिदानतया निदाघवर्णनमपि अत्र—

अथास्य रत्नग्रथितोत्तरीय- मेकान्तपाण्डुस्तनलम्बिहारम् ।
निश्वासहार्यांशुकमाजगाम घर्मः प्रियावेषमिवोपदेष्टुम् ॥ व्जिव्च्_४।३९ ॥

इत्यादिना निबध्यमानं न कथावैचित्र्यमात्रमतिक्रामति ।
(अस्मिन् समस्त) प्रबन्धे प्रकरणं प्रक्रान्तसंविधानमपि (नानाप्रियकार्यतन्तुमिलितरूपकारणं प्रसक्तम् ।
अस्या निदर्शनान्यपि स्वयमन्यान्युदाहरणणीयानि ।

जलक्रीडादिकाख्यानमपि सन्दर्भसुन्दरम् ।
प्रबन्धस्य कथाप्राणपरिस्पन्दपरं सुखम् ॥ व्जिव्च्_४।४० ॥

(इत्यन्तरश्लोकः) पुनरप्यस्याः प्रभेदान्तरमुद्भावयति—


यत्राङ्गिरसनिष्यन्दनिकषः को ऽपि लक्ष्यते ।
पूर्वोत्तरैरसम्पाद्यः साङ्कादेः कापि वक्रता ॥ व्जिव्_४।१० ॥

“साङ्कादेः कापि वक्रता” “अङ्कादेः” = अङ्कसर्गादेः प्रकरणस्य “सा कापि” = अलौकिकी “वक्रता” = वक्रभावो भवतीति सम्बन्धः ।
“यत्राङ्गिरसनिष्यन्दनिकषः को ऽपि” लक्ष्यते” “यत्र”—यस्यां अङ्गी यः “रसः” प्राणरूपः, तस्य निष्यन्दः प्रवाहः तस्य, काञ्चनस्येव निकषः परीक्षोपलवद्विषयविशेषः “को ऽपि” अभूत—निर्माणनिरुपमो लक्ष्यते (निकष) योजने (काञ्चनस्य रेखो) दयैरिव विशेषः ।
किं विशिष्टः “पूर्वोत्तरैरसम्पाद्यः”—प्रक्परवृत्तिभिरङ्काद्यैः सम्पादयितुमशक्यः ।
इदमत्र तात्पर्यम् ।
प्रधानरससर्वस्वक्रीडानिकेतनं तात्किमपि प्रकरणं (यत्र) प्रकटतरं च वक्रताविच्छित्तिर्विद्योतते ।
यदीयलावण्यातिशयं मनाङ्मात्रमपि पूर्वाण्यपराणि वा प्रकरणान्तराणि नानुकर्तुं शक्रुवन्ति ।
यथा विक्रमोर्वश्यामुन्मत्ताङ्कः— तत्र हि प्रस्तुतरसासाधारण(विभावानुभाव) माधुर्यसम्पत्त्या विप्रलम्भशृङ्गारस्याङ्गिनः स को ऽपि (सहृदयहृदया) देः रसनिष्यन्दपरिस्पन्दः परिस्तीर्यते, यः न केवलं प्रकरणान्तरे प्रबन्धान्तरे ऽप्यशक्यकामनीयककणिकानुकारः ।
तथा च तदुपक्रम एव— राजा (ससम्भ्रमम्)—आ दुरात्मन्, तिष्ठ तिष्ठ ! क्व नु खलु प्रियतमामादाय गच्छिसि ?(विलोक्य) कथं शैलशिखरात् गगनमुत्प्लुत्य बाणैर्मामभिवर्षति ? (विभाव्य सबाष्पम्) कथं विप्रलब्धो ऽस्मि—

नवजलधरः सन्नद्धो ऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥ व्जिव्च्_४।४१ ॥

अनेनोन्मीलितोन्माददशावैशसस्य राज्ञः, कवचितः शिञ्चितकोदण्डदण्डो दर्पादापतन् नक्तञ्चरो ऽपि शक्यप्रतीकारो न त्वसौ नवाम्भोद इति, नाराचनिचयो ऽपि न तथा मर्माणि कृन्तति यथायमासारधारानिकर इति ।
किं च नभसि वा भूयः सौदामिन्याः अन्वीक्षणदृष्टनष्टायाः क्षणान्तरे दर्शनमासाद्यते, तथाविधस्थैर्यासम्भावितभूमेरपि प्रियायाः तत्किमिदमिति चाभिप्रायो वाक्येन प्रतिपाद्यते ।
“तिष्ठेत्कोपवशादि"त्यादि, “पद्भ्या”-मिति, “तरङ्गे” त्यादिकं (च) प्रागुदाहृतमस्माभिरनुसन्धेयम् ।
यथा वा किरातार्जुनीये बाहुयुद्धप्रकरणम्—तत्रापि कवचादिकायरक्षणाद्युपकरणमन्तरेणापि सहजबाहुबलावलेपप्रकाशनप्रस्तावप्राप्तिप्रमोदमानमानसस्य निरुपमनियुद्धनिर्माणनिर्मर्यादनिवेद्यमानसाहससाहाय्यस्य पाण्डुसूनोः स को ऽपि वीररसस्योत्कर्षः प्रकाशते ।
(तिष्ठतु तावत् सर्वमितरं सचेतसामित्यभिप्रायः) ।
परमेश्वरस्यापि केवलमानुषस्य बाहुबलादेवं दूरमुत्क्षिप्य वियत्यान्दोल्यमानस्य कविकल्पितचमत्कारान्तरकारणम् (स्पष्टम्) ।
एवमन्यदप्युदाहार्यम् ।
पुनरिमामेवान्यथा प्रथयति—


प्रधानवस्तुनिष्पत्त्यै वस्त्वन्तरविचित्रता ।
यत्रोल्लसति सोल्लेखा सापराप्यस्य वक्रता ॥ व्जिव्_४।११ ॥

“अपराप्यस्य” प्रकरणस्य “वक्रता” वक्रभावो भवतीति सम्बन्धः ।
“यत्रोल्लसति” = उन्मीलति ।
(कीदृशी) “सोल्लेखा”—अभिनवोद्भेदभङ्गी ।
(सुभगा चासौ सुन्दरप्रतिरूपा) “वस्त्वन्तरविचित्रता” = वस्त्वन्तरमितरद्वस्तु, तस्य विचित्रता वैचित्र्यं नूतनचमत्कार इति यावत् ।
किमर्थं “प्रधानवस्तुनिष्पत्त्यै” ।
प्रधानमधिकृतं प्रकरणं कमपि वक्रिमाणमाक्रामति ।
यथा मुद्राराक्षसे षष्ठे ऽङ्के “ततः प्रविशति रज्जुहस्तः पुरुषः” इत्यादि प्रकरणम् ।
तत्र हि स पुमान् निरुपमाननयकेलिकुशलकौटिल्यप्रयोज्यमानो निपुणमतिर्जोर्णोद्याने मुद्रोद्गलनसमुच्चलितविपक्षतारूक्षं राक्षसमाकृष्टकृपाणपाणिमापतन्तमपश्यन्निव स्वयमुदग्रग्रीवावलम्बिना रज्जुवलयेन व्यापादयितुम् (आत्मानम्) आरेभे ।
राक्षसेनापि कौतुककरुणाक्रान्तमनसा भद्रमुख किमिदमिति पृष्टम् ।
आः किं मम महादुःखप्रशमकारणे मरणे ऽन्तरायमाचरसीत्याचचक्षे ।
तन्निर्बन्धाच्च वध्यभूमिमानीतस्य महासत्त्व(मुकुट)मणेर्मणिकारश्रेष्ठिनश्चन्दनदासस्य प्रियसुहृदो दुःखावेगमसहिष्णुर्विष्णुदासो ऽपि मत्प्रियमित्रं पुरो ऽस्य पावकं प्रविष्टुमुद्यतः ।
ततो ऽहमपि तद्वदेव शोकावेगमसहमानः प्रथममेवात्मानं व्यापादयामीत्यावेदयामास ।
किं बहुना, विचित्रसम्भावनागहने नीतिवर्त्मनि विचक्षणम्मन्यस्य राक्षसस्यापि तथा सम्भ्रमः सन्तापमुज्जनयाम्बभूवे, यथा वा सः स्वदेहदानेन चन्दनदासदेहमोचनायोपचक्रमे ।
अत्रापि किञ्चिदुदाह्रियते यथा—

छग्गुणसञ्जोअदिढा उवाअपरिवाडिधडिअपासमुही ।
चाणक्कणीतिरज्जू रिपुसञ्जमअज्जआ जअदि ॥ व्जिव्च्_४।४२ ॥
षङ्गणसंयोगदृढा उपायपरिपाटिघचितपाशमुखी ।
चाणक्यनीतिरज्जू रिपुसंयमनोद्यता जयति ॥
इति छाया ॥

विशेषणवक्रताविशिष्टेन रूपकेण पुरुषस्यायमभिप्रायः प्रकाश्यते ।
यथा— त एव गुणास्त एवाभ्युपायास्तदेव च नीतितन्त्रम्, तथापि कस्यचिदेवाविकलकौशलप्रसारिता रिपुकुलसंयमनाय सङ्घटना अविदितविविधबन्धयुक्ता नीतिप्रयुक्ता तद्विदामपि विमोहमावहति, अत एव जयतीति ।
तथा च— “राक्षसः—भद्रमुख अस्याग्निप्रवेशे सुहृदस्ते को हेतुः ? किमौषधपथातिगैरुपहतो महाव्याधिभिः ? पुरुषः—अज्ज णहि णहि (आर्य न हि न हि) राक्षसः—किमग्निविषकल्पया नरपतेर्निरस्तः क्रुधा ? पुरुषः—सन्तं पावं सन्तं पावम्, चन्दौत्तस्स जणवदे ण णिसंसा पडिवत्ती ।
(शान्तं पापम्, शान्तं पापम् ।
चन्द्रगुप्तस्य जनपदेष्वनृशंसा प्रतिपत्तिः) राक्षसः—अलभ्यमनुरक्तवान् कथय किं नु नारीजनम् ? पुरुषः—(कर्णौ पिधाय) सन्तं पावम्, अभूमि क्खु एसो अविणअस्स ।
(शान्तं पापम् ।
अभूमिः खल्वेष अविनयस्यः राक्षसः—

किमस्य भवतो यथा सुहृद एव नाशो विषम् ॥ व्जिव्च्_४।४३ ॥

पुरुषः—अज्ज अह इं ? (आर्य अथ किम्)” अत्र महाव्याधिभिरिति बहुवचनवक्रत्वम्, अग्निविषकल्पयेति च (विशेषणवक्रत्वम्) तथाविधाराजापथ्यविधायी वध्यस्थानस्थापितो ऽपि चन्दनदासः तत्कलत्रमद्यापि याचितो न समर्पयतीति व्यापाद्यत इत्यस्य वक्ष्यमाणस्य प्रधानाभिधेयस्य निमित्तमादत्ते ।
अस्येति सहजसौहार्दनिबर्हणनिहन्यमानस्य ।
“भवतो यथा” विततव्यतिकरोत्सेककारिणः सावत्महत्येच्छा ।
अनेनैव विविधविकल्पनेन यो ऽयमर्थः समुद्दीप्यमानो नवताभाजनं विभूष्यमाणः सन् प्रिकाशते ।
एवमन्यदपि तत एव विभाव्य व्याख्येयम् ।
प्रधानफलसिद्धश्चात्र “॥।व्यापत्तिं ज्ञातमस्य स्वतनुमहमिमां निष्क्रयं कल्पयमि” इत्युन्मीलिता ततस्तदनन्तरप्रकरणे “तस्येयं मम मृत्युलोकपदवी वध्यस्त्रगाबध्यताम्” इत्यादिना निष्पादिता ।
तामेव भङ्ग्यन्तरेण व्याचष्टे ।


सामाजिकजनाह्लादनिर्माणनिपुणैर्नटैः ।
तद्भूमिकां समास्थाय निर्वर्तितनचान्तरम् ॥ व्जिव्_४।१२ ॥
क्वचित्प्रकरणस्यान्तः स्मृतं प्रकरणान्तरम् ।
सर्वप्रबन्धसर्वस्वकल्पां पुष्णाति वक्रताम् ॥ व्जिव्_४।१३ ॥

“सर्वप्रबन्धसर्वस्वकल्पां पुष्णाति वक्रताम्” = सकलरूपकप्राणरूपं समुल्लासयति वक्रिमाणम् ।
“क्वचित्प्रकरणस्यान्तः स्मृतं प्रकरणान्तरम्” कस्मिम्मश्चित् कविकौशलोन्मेषशालिनि नाटके, न सर्वत्र ।
एकस्य मध्यवर्त्यङ्कान्तरगर्भोकृतं गर्भो वा नामेति यावत् ।
किंविशिष्टं “निर्वर्तितनटान्तरम्” = विभावितान्यनर्तकं ।
नटैः कीदृग्भिः “सामाजिकजनाह्लादनिर्माणनिपुणैः”—सहृदयपरिषत्परितोषपोषणनिष्णातैः ।
(किं कृत्वा) “तद्भूमिकां समास्थाय” सामाजिकीभूय ।
इदमत्र तात्पर्यम्–कुत्रचिदेव निरङ्कुशकौशलाः कुशीलवाः स्वीयभूमिकापरिग्रहेण रङ्गमलङ्कुर्वाणा नर्तकान्तरप्रयुज्यमाने प्रकृतार्थजीवित इव गर्भवर्तिन्यङ्कान्तरे तरङ्गितवक्रतामहिम्नि सामाजिकीभवन्तो विविधाभिर्भावनाभङ्गीभिः साक्षात्सामाजिकानां किमपि चित्तचमत्कारवैचित्र्यमासूत्रयन्ति ।
यथा बालरामायणे चतुर्थे ऽङ्केलङ्केश्वरानुकारी प्रहस्तानुकारिणा नटो नटेनानुवर्तमानः—

कर्पूर इव दग्धो ऽपि शक्तिमान् यो जने जने ।
नमः शृङ्गारबीजाय तस्मै कुसुमधन्वने ॥ व्जिव्च्_४।४४ ॥

इत्यादिना नटान्तराभिनीयमान (विविधभावनाः भङ्गीतरङ्गितवक्रतागरिमणि गर्भाङ्के सामाजिकीभूय (सीता) सखीभिर्विभावनविक्रियाभिरभिनीयमानो मनोरथातिरिक्तमानन्दमुत्पादयति सहृदयानाम् ।
तत्सूक्तिसर्वस्वं च स्वयमेवोत्प्रेक्ष्य व्याख्येयम् ।
प्रबन्धान्तः प्रकरणवक्रताप्यस्य प्रकरणस्य तत्रैव—

श्रवणैः पेयमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः ।
भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम् ॥ व्जिव्च्_४।४५ ॥

इत्यनेन प्रकाश्यते ।
यथा वा उत्तररामचरिते सप्तमे ऽङ्के रामभद्रा (नुकारी) लक्ष्मणासहकारिणा नर्तको नर्तकेनोपास्यमानः

“(नेपथ्ये) अज्जौत्त, हा कुमार उक्खण, एआइणिं असरणं अरण्णे आसण्णपसववेअणं हदासं सावदा मं अहिलसन्ति ।
साहं दाणिं मन्दभाइणी भारिररिए अत्ताणं णिक्खिविस्सामि” ॥ व्जिव्च्_४।४६ ॥

(हा अर्यपुत्र, हा कुमारलक्ष्मण्, एकाकिनीं मन्दभागिनीमशरणामरण्ये आसन्नप्रसववेदनां हताशांश्वापदा मामभिलषन्ति ।
साहमिदानीं मन्दभागिनी भागीरथ्यामात्मानं निक्षिपामि) ।
इत्यादिना नटान्तरेत्यादि पूर्ववत् ।
अपरमपि प्रकरणवक्रतायाः प्रकारमाविष्करोति—


मुखाभिसन्धिसंह्लादि संविधानकबन्धुरम् ।
पूर्वोत्तरादिसङ्गत्यादड्गानां विनिवेशनम् ॥ व्जिव्_४।१४ ॥
न त्वमार्गग्रहग्रस्तवर्णकाङ्गैः कदर्थितम् ।
वक्रतोल्लेखलावण्यमुल्लासयति नूतनम् ॥ व्जिव्_४।१५ ॥
“वक्रतोल्लेखलावण्यमुल्लासयति नूतनम्” = वक्रतोन्मेषकामनीयकमुन्मीलयत्यभिनवम् ।
“अड्गानां विनिवेशनम्”—प्रकरणानां विशेषेण न्यासः ।
कस्मात्—“पूर्वोत्तरादिसाङ्गत्यात्”—पूर्वस्य पूर्वस्योत्तरोत्तरेण यत्साङ्गत्यमतिशयितसम्बन्धत्वमुपजीव्योपजीवकभावलक्षणं तस्मात् ।
किम्भूतं “मुखाभिसन्धिसंह्लादि” = मुखानि च तानि अभिसन्धीनि, तैः संह्लादि सुन्दरं हृदयहारि ।
(पुनः कीदृशं)“संविधानकबन्धुरम्” = प्रस्तुतसंविधानरमणीयम् ।
इदमुक्तं भवति—प्रबन्धेषु पूर्वं पूर्वं प्रकरणं परस्य परस्य प्रकरणान्तरस्य सरससम्पादितसन्धिसम्बन्धसंविधानकसमर्प्यमाण(कामनीयक)ताप्राणप्रौढिप्ररूढवक्रतोल्लेखमाह्लादयति ।
यथा पुष्पदूषितके प्रथमं प्रकरणम्–अतिदारुणाभिनवविप्रवासवेदनानिरानन्दस्य नन्दयन्तीमसम्मान्य समागतस्य समुद्रतीरे समुद्रदत्तस्योत्कण्ठाप्रकारप्रकाशनम् ।
द्वितीयमपि–प्रस्थानात् प्रतिनिवृत्य निशीथिन्यामुत्कोचालङ्कारदानमूकीकृतकुवलयस्य कुसुमवाटिकायामनाकलिताननस्य सहचरीसङ्गमनम् ।
तृतीयमपि—सम्भावितदुर्विन्यविजयदत्तनन्दिनीनिर्वासनव्यसननि बन्धनम् ।
चतुर्थमपि–मथुराप्रतिनिवृत्तकुवलयप्रदर्श्यमानाङ्गुलीयकसमावेदितविमलशीलसम्पदः कठोरतरगर्भभारखिन्नायाः स्नुषाया निष्कारणनिष्कासनादनासादिततत्प्रवृत्तेर्महापातकिनमात्मानं मन्यमानस्य सार्थवाहसागरदत्तस्य तीर्थयात्राप्रवर्तनम् ।
पञ्चममपि—वनान्तरे वनपालपालिताया नन्दयन्त्याः कुवलयेन समुद्रदत्तकुशलोदन्तकथनम् ।
षष्ठमपि—विचित्रसरण्या समागमाभ्युपायसम्पादनमिति ।
एवमेतेषामनन्तोपायानां कथारसनिष्यन्दतत्पराणां परिपाटिः कामपि कामनीयकसम्पदमुद्भावयति ।
यथा वा कुमारसम्भवे— पार्वत्याः प्रथमतारुण्यावतारवर्णनम्, शङ्करशुश्रूषा, दुस्तरतारकपराभवपारावारोत्तारकारणमरविन्दसूतेरुपदेशः, कुसुमाकरसुहृदः कन्दर्पस्य पुरन्दरोद्देशात् गौर्याः सौन्दर्यबलाद्विप्रहरतो हरविलोचनविचित्रभानुना भस्मीकरणम्, दुःखावेशविवशाया रत्या विलापनम्, विक्षतविकलमनसो मेनात्मजायास्तपश्चरणम्, आदृतवृद्धा (चारया सह) मनसिजविषूदनसंवादनिरूपणम्, चित्रशिखण्डिभिः शिखरिनाथाभ्यर्थनम्, निरर्गलानुरागप्राग्भारपरिमृष्टचेतसा (परमेश्वरेण) पाणिपीडनम्, इति प्रकरणानि पौर्वापर्यपर्यवसितसुन्दरसमावेशसम्बन्धबन्धुराणि रामणीयकधारमधिरोहन्ति ।
एवमन्येष्वपि महाकविप्रबन्धेषु प्रकरणवैचित्र्यमेवमेव विवेचनीयम् ।
अस्यैव प्राधान्यमभिधातुं व्यतिरेकमाह— “न त्वमार्गग्रहग्रस्तवर्णकाङ्गैः कदर्थितम्”—न त्वङ्गानां विनिवेशनं वक्रतोल्लासभाग्भवति ।
किं भूतम्—अमार्गग्रहग्रस्तवर्णकान्तरकदर्थितम् ।
उत्तरोत्तरपरस्परान्वयलक्षणसम्बन्धनिबन्धनम् एतद्वाक्यार्थतात्पर्यमिति वाक्यविचारलक्षणस्योपयोगः, प्रमाणेन प्रत्यक्षादिनैतत्, उपपन्नमिति प्रमाणलक्षणस्योपयोगः ।
युक्तियुक्तत्वं नाम ग्रथनावेशकलितं भरतादिलक्षणयोजनाविलम्बितम्, सन्ध्यङ्गप्रभृतिप्रतिपादनाय कथानुपयुक्तैर्वर्णकैराकीर्णम् ॥
यथा वेणीसंहारे प्रतिमुखसन्ध्यङ्गभागिनि द्वितीये ऽङ्के भानुमत्याः स्वप्नवृत्तान्तश्रवणसमुत्पन्नदुर्विनयबुद्धेर्दुर्योधनस्य विविधविपक्षवैलक्ष्ये तादृशि समरसम्मर्दे समुद्वृत्ते, शरशय्याशायिनि मन्दाकिनीनन्दने, निहन्यमानेषु च कुमारसोदरसम्बन्धिसुहृत्सु, तथाविधवीरवृत्तेरभिमानिनो ऽस्पन्दमवस्थितिरप्यनुचिता किं पुनर्विलासव्यापृतिः, तत्रापि वेश्यायामिव विलासः महाराजस्य महिष्याम्, (वि) चारमन्तरेण तदुचितचित्तपरिचितिं विना च दुर्विनयाध्यासः सकलमिदमसमञ्जसताभाजनमुपेक्ष्यमेव ।
यथा शिशुपालवधे— उपेन्द्रस्येन्द्रप्रस्थं प्रति प्रतिष्ठमानस्य द्वारवतीव्यावर्णनम् ।

औचित्यचारुवचनैरन्यैः प्रकरणैः कवेः ।
रत्नैरलङ्कार इव प्रबन्धः पुष्यति श्रियम् ॥ व्जिव्च्_४।४७ ॥

विचित्रभङ्गीसञ्चारकथामूर्त्येकजीवितम् ।
रसायनं रसस्येव स्वानुप्रकरणं विदुः ॥ व्जिव्च्_४।४८ ॥

(इत्यन्तरश्लोकौ) एवमनेकप्रकारां प्रकरणवक्रतां प्रतिपाद्य समुदायात्मकस्य प्रबन्धस्य तामभिदधाति—


इतिवृत्तान्यथावृत्तरससम्पदुपेक्षया ।
रसान्तरेण रम्येण यत्र निर्वहणं भवेत् ॥ व्जिव्_४।१६ ॥
तस्या एव कथामूर्तेरामूलोवनमीलिताश्रियः ।
विनेयानन्दनिष्पत्त्यै सा प्रबन्धस्य वक्रता ॥ व्जिव्_४।१७ ॥

“सा” “प्रबन्धस्य”—नाटकसर्गबन्धादेः “वक्रता”—वक्रभावो भवतीति सम्बन्धः ।
“यत्र निर्वहणं भवेत्” = यस्यामुपसंहरणं स्यात् ।
“रसान्तरेण रम्येण” इतरेण रसेन रामणीयक (त्व) विधायिना ।
कया “इतिवृत्तान्यथावृत्तरससम्पदुपेक्षया”—“इतिवृत्ते” इतिहासे ऽन्यथा—अपरेणप्रकारेण “वृत्ता” निर्व्यूढा या “रससम्पत्” शृङ्गारादिभङ्गी “तदुपेक्षया”—तदनादरेण तां परित्यज्येति यावत् ।
कस्याः “तस्या एव कथामूर्तेः” तस्यैव काव्यशरीरस्य ।
किम्भूतायाः—“आमूलोन्मीलितश्रियः”—“आमूलम्” प्रारम्भात् उन्मीलिता श्रीः = वाच्यवाचकरचनावैचित्र्यसम्पत् यस्याः सा तथोक्ता तस्याः ।
किमर्थं “विनेयानन्दनिष्पत्त्यै” = प्रतिबोध्यपार्थिवादिप्रमोदसम्पादनाय ।
अनेनेदमभिहितं भवति–इतिवृत्तान्तर्वृत्तायाः कस्याश्चिदेकस्याः कथायाः कविस्तन्निबन्धनिर्वहणगतरसपद्धतिं परित्यज्याभिजातानामाह्लादकारिणा कामनीयकेन केनाप्यन्येन रसेनोपसंहरणमुपपादयन् प्रबन्धे कमपि वक्रिमाणमादधाति ।
यथा वेणीसंहारे– स हि कामान्तरकवलितसकलभावभावनावारितनिःसारसंसारवासनामहिमनि महाभारते शान्तरसविनासिना निबन्धनि र्(वहण)पद्धतौ पाण्डवकथायास्तथाविधाद्भुताभोगशोभिना वीरेण रणप्राङ्गणनिहताखिलारातिचक्रधाराधिष्ठितराजधर्मधर्मराजाभ्युदयसम्पादितां समाप्तमुपपादयन् प्रबन्धप्ररूढप्रौढवक्रताविच्छित्त्याच्छिन्नमभिजातानामाह्लादमावहति ।
ते हि तथाविधव्यसनक्षेत्रीभूतैरपि पुनः स्वपक्षोपबृंहितपराक्रमपराजितपरिपन्थिभिर्भुज्यत एषा राज्यश्रीरिति अखिद्यमाना विपत्स्वपि विपुलोत्साहभाजो भवन्ती ।
यथा वोत्तररामचरितम्–रामायणे ऽप्यङ्गिना करुणेन दारुणविरहवेदनाभाजनजनकराजपुत्रीपातालप्रवेशात्, प्रबाहोदर (पतितस्य) सोदरसहितस्य रघुपतेर्निबन्धनिर्वहणविपर्यस्तकथायाः सकलदिव्यास्त्रकुशललवबलदर्शनोत्सवान्तरोपबृंहितत्वेन विदेहनन्दिनीसम्भोगशृङ्गारः उपसंहरणमात्रे विच्छित्तिविशेषपोषण (पदवीम्) भजन् अभिजातानामभिनन्दनीयो भवति ।
एवमन्यदपि स्वयमूह्यम् ।

विध्वस्तव्यसनानां यो नायकाभ्युदयावहः ।
प्रबन्धः प्रतिपाद्यानां प्रीतिबन्धाय जायते ॥ व्जिव्च्_४।४९ ॥

(इत्यन्तरश्लोकः) रामायणमहाभारतयोश्च करुणशान्ताङ्गित्वं पूर्वसूरिभिरेव निरूपितम् ।
अस्याः प्रकारान्तरमप्यवतारयतिः—


त्रैलोक्याभिनवोल्लेखनायकोत्कर्षपोषिणा ।
इतिहासैकदेशेन प्रबन्धस्य समापनम् ॥ व्जिव्_४।१८ ॥
तदुत्तरकथावर्तिविरसत्वजिहासया ।
कुर्वोत यत्र सुकविः सा विचित्रास्य वक्रता ॥ व्जिव्_४।१९ ॥

“सा विचित्रा”—विविधभङ्गीभ्राजिष्णुः ।
“अस्य”—प्रबन्धस्य ।
“वक्रता”—वक्रभावो भवतीति सम्बन्धः ।
“कुर्वोत यत्र सुकविः” “कुर्वोत”—विदधीत ।
“यत्र”—यस्यां ।
“सुकविः”—औचित्यपद्धति-प्रभावचतुरः ।
“प्रबन्धस्य समापनम्” (“प्रबन्धस्य”)सर्गबन्धादेः, “समापनम्”–उपसंहरणं समर्थनमिति यावत् ।
“इतिहासैकदेशेन” इतिवृत्तस्यावयवेन ।
किम्भूतेन “त्रैलोक्याभिनवोल्लेखनायकोत्कर्षपोषिणा” जगदसाधारणस्फुरितनेतृप्रकर्षप्रकाशकेन ।
किमर्थं—तदुत्तरकथावर्तिविरसत्वजिहीर्षया–तस्मादुत्तरा या कथा तद्वृत्ति तदन्तर्गतं यद्विरसत्वं वैरस्यमनार्जवम्, तस्य “जिहासया” परिजिहीर्षया ।
इदमुक्तं भवतिः—इतिहासोदाहृतां काञ्चन महाकविः सकलां कथां प्रारभ्यापि, तदवयवेन त्रैलोक्यचमत्कारकारणनिरुपमाननायकयशः समुत्कर्षोदयदायिना तदग्रिमग्रन्थप्रसङ्गतः सम्भावितविरसभावभयात् उपसंहारमाणः तस्य प्रबन्धस्य कामनीयकनिकेतनायमानं वक्रिमाणमादधाति ।
यथा किरातार्जुनीये—

स हि सर्गबन्धः द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः ॥ व्जिव्च्_४।५० ॥

॥। रिपुतिमिरमुदस्योदीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥ व्जिव्च्_४।५१ ॥

एते दुरापं समवाप्य वीर्यमुन्मूलितारः कपिकेतनेन ॥ व्जिव्च्_४।५२ ॥

इत्यादिना दुर्योधननिधनान्तां धर्मराजाभ्युदयदायिनीं सकलामपि कथामुपक्रम्य कविना निबध्यमानत्वात् तेजस्विवृन्दारकस्य दुरोदरद्वारा दूरीकृतविभूतेः प्रभूतद्रुपदात्मजानिकारनिरतिशयोद्दीपितमन्योः कृष्णद्वैपायनोपदिष्टविद्यायोगसम्पदः पाशुपतादिदिव्यास्त्रप्राप्तये तपस्यतो गाण्डीवसुहृदः पाण्डुनन्दनस्यान्तरा किरातराजसम्प्रहरणात् समुन्मीलितानुपमविक्रमोल्लेखं कमप्यभिप्रायं प्रकाशयति ।
तथाहि— यत्प्रथमम्—प्राप्तपाशुपतप्रभृतिपरमास्त्रसम्भारेणाप्येकाकिना (पार्थेन) पिनाकिना (सह) महाहवः, यस्मिन् भुजयोरादायान्दोल्यमानो वियति विषमलोचनो ऽपि विस्मयावेशविकलतां विलक्षतां चालब्धपूर्वां लम्भितः ।
तस्य प्रत्यक्षीकृतत्र्यक्षस्य तत्प्रसादासादितदिव्यास्त्रसम्पदो व्यापदापातरक्षणविचक्षणचक्रधरसारथेस्तथाविधरथोत्तममास्थ् इतस्य स्थिरतरसमरसंरम्भभीमसेनाद्युपेतानीकिनीपरम्परापरिवारितस्य पुरुस्कृतशिखण्डिनः पराङ्मुखे वर्षोयस्यपि पितामहे, महादयालोः"अर्जुनस्य इमे बाणाः नेमे बाणाः स्यपि पितामहे, महादयालोः “अर्जुनस्य हमे बाणाः नेमे बाणाः शिखण्डिनः” इत्यादिनार्षेण वचसा सूचितम् श्वपचादपि (नृशंसवृत्ताचारणम्) ।
औच्तियप्रधानपद्धतिप्रवर्धमानवीररसपरिवृढप्रबन्धनिबध्यमानमयशस्यमेवान्यथा व्यापृतस्य पृथिवीपतेः भूरिश्रवसो ऽप्यधीरवर्त्मना भुजदण्डोच्छेदनम् ।
तद्वन्मेदिनीनिमग्नस्यन्दनाभ्युद्धरणव्यापृतस्य व्याहृतविरोधिताहवपद्धतेरप्यङ्गभर्तुरुत्तमाङ्गकर्तनम् ।
एवमन्यदप्यूह्यम् ।

सातिरेकरसोत्सेककर्मनिर्माणकर्मणः ।
प्रत्युहदूरीकरणात् कान्तिं पुष्णाति नायकः ॥ व्जिव्च्_४।५३ ॥

इत्यन्तरश्लोकः ।
भूयो ऽपि भेदान्तरमस्यां सम्भावयति—


प्रधानवस्तुसम्बन्धतिरोधानविधायिना ।
कार्यान्तरान्तरायेण विच्छिन्नविरसा कथा ॥ व्जिव्_४।२० ॥
तत्रैव तस्य निष्पत्तेर्निर्निबन्धरसोज्ज्वलाम् ।
प्रबन्धस्यानुबध्नाति नवां कामपि वक्रताम् ॥ व्जिव्_४।२१ ॥

“प्रबन्धस्य”—सर्गबन्धादेः, “अनुबध्नाति”—द्रढयति ।
“नवाम्”—अपूर्वोल्लेखाम्, “कामपि” सहृदयानुभूयमानां न पुनरभिधागोचरचमत्काराम्, “वक्रतां”—वक्रिमाणं ।
कासौ “कार्यान्तरान्तरायेण विच्छिन्नविरसा कथा” “कार्यान्तरान्तरायेण”—अन्यकार्यकृतेन आधिकारिककथाप्रत्यूहेन “विच्छिन्नविरसा” विच्छिन्ना चासौ विरसा च सा, विच्छिद्यमान (रस) त्वात् अनावर्जनसञ्ज्ञेत्यर्थः ।
किमभूतेन “प्रधानवस्तुसम्बन्ध(तिरोधान) विधायिना”—आधिकारिकफलसिद्धयुपायनिरोधिना ।
कुतः “तत्रैव तस्य निष्पत्तेः” “नत्रैव” कार्यान्तरानुष्ठाने “तस्या” धिकारिकस्य “निष्पत्तेः”—संसिद्धेः ।
तत एव “निर्निबन्धरसोज्ज्वलाम्”—निरन्तरायतरङ्गिताङ्गिरसप्राग्भारभ्राजिष्णुम् ।
अयमस्य परमार्थः—या किलाधिकारिककथानिषेधिकार्यान्तरव्यवधानात् झगिति विघटमानालब्धावकाशापि विकाश्यमाना सा प्रस्तुतेतरव्यापारादेव प्रस्तुतवस्तुनिष्पन्नेन्दीवरसितरसनिर्भरा प्रबन्धस्य रामणीयकवक्रिमाणमादधाति ।
यथा शिशुपालवधे ।
स हि सर्गबन्धः ।
त्रैलोक्यरक्षाधिकारव्यापृतबाहुना वासुदेवेन देवर्षिमुखात्

“तदिन्द्रसन्दिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते” ॥ व्जिव्च्_४।५४ ॥

इत्यादिना पुरन्दरसन्देशं

“ओमित्युक्तवतो ऽथशार्ङ्गिणः ॥ व्जिव्च्_४।५५ ॥

इत्यादिना तत्कालकन्दलितक्रोधानुभावभङ्ग्या निशम्याङ्गीकृतमाधिकारिकं माहिष्मतीनाथमनादृत्य, इन्न्द्रप्रस्थं प्रति प्रतिष्ठास्यमानेन निमग्ननिखिलवीरस्थितिर्विषयतामनीयत ।
ततस्तस्मिन्नेव संश्रितसकलराजके धर्मराजस्य राजसूयमण्डपे मधुरिपोर (ग्रपूजासम्) मानमसहमानेनातिदुःसहवाक्यपारुष्यावरोधपरम्पराविरचनचतुरेण चेदिराजेन “कृतार्थोकृत” इत्यन्तेन च ।
प्रबन्धवक्रतामेव प्रिकारान्तरेण व्याचष्टे—


यत्रैकफलसम्पत्तिसमुद्युक्तो ऽपि नायकः ।
फलान्तरेष्वनन्तेषु तत्तुल्यप्रतिपत्तिषु ॥ व्जिव्_४।२२ ॥
धत्ते निमित्ततां स्फारयशः सम्भारभाजनम् ।
स्वमाहात्म्यचमत्कारात् सा पराप्यस्य वक्रता ॥ व्जिव्_४।२३ ॥

“सा परापि”–अन्यापि न केवलं प्रागुक्ता, “अस्य” रूपकादेः, “वक्रता”—वक्रभावो भवतीति सम्बन्धः ।
“यत्रैकफलसम्पत्तिसमुद्युक्तो ऽपि नायकः”, “यत्र”—यस्याम्, “एकफलसम्पत्तिसमुद्युक्तो ऽपि”–पराभिमतवस्तुसाधनव्यवसितो ऽपि नायकः, “फलान्तरेष्वनन्तेषु” “फलान्तरेषु”—साध्यरूपेषु वस्तुषु, “अनन्तेषु”—गणनातीतेषु ।
“तत्तुल्यप्रतिपत्तिषु धत्ते निमित्तताम्” “तत्तुल्यप्रतिपत्तिषु”—आधिकारिकफलसमानोपपत्तिषु, प्रस्तुतार्थसिद्धेरेवाधिगतसिद्धिष्वति (यावत्) ।
किम्भूतः “स्फरायशःसम्भारभाजनम्” “स्फारस्य” ब्रह्माण्डोदरभरित्वादतिरिक्तस्य, “यशसः”—कीर्तेः यः “सम्भारः”—समुदयः, तस्य “भाजनम्” पात्रं भूमिरिति यावत् ।
कुतो हेतोः “स्वमाहात्म्यचमत्कारात्” “स्वमाहात्म्यम्” स्वस्य प्रभावः, तस्य “चमत्कारः” आश्चर्यकारित्वम्, तस्मात् ।
एतदुक्तं भवति–निःसीममनोरथमलङ्करिष्णुनैकेनांशकेन फलेन संयुतो ऽप्यपरिमितानि तादृशस्वरूपाणि फलान्यगम्यान्यध्यवसायादनिच्छन्नपि स्वप्रभावसम्पदा सम्पादयन्नायकः कमपि कामनीयकनिधानकलशं प्रबन्धस्य वक्रिमाणमावहति ।
यथा नागानन्दे तत्र दुर्निवारवैरादपि वैनतेयान्तकादे (काकिनम्) सकलकारुणिकचूचमणिः शङ्खचूडं जीमूतवाहनो निजदेहदानादभिरक्षन्न (केवलं तम्) रक्षितवान् अपितु सकलं तत्कुलमेव—


आस्तां वस्तुषु वैदग्धी काव्ये कामपि वक्रताम् ।
प्रधानसंविधानाङ्कनाम्नापि कुरुते कविः ॥ व्जिव्_४।२४ ॥

“आस्तां वस्तुषु वैदग्धी” “आस्ताम्”—दूरत एव वर्तताम्, “वस्तुषु”—अभिधेयेषु प्रकरणप्रतिपाद्येषु, “वैदग्धी”–विच्छित्तिः, “काव्यं कामपि वक्रतां कुरुते कविः” ठकाव्ये”—नाटके सर्गबन्धादौ च, कामपि वक्रतां “कुरुते”—विदधाति ।
“कविः”—अद्भुतप्रतिभाप्रसारप्रकाशकः ।
केन—“प्रधानसंविधानाङ्कनाम्नापि” “प्रधानं”–प्रबन्धप्राणप्रायम्, “यत्संविधानं”—कथायोजनम्, “नदङ्कः” चिह्नमुपलक्षणं यस्य यत्र वा तत्तथोक्तम्, तच्च तन्नाम च, तेनापि ।
अपिशब्दो विस्मयमुद्द्योतयति ।
इदमस्य रहस्यम्—विचारितविचित्रवस्तुविच्छित्तेः प्रबन्धस्य वक्रताविर्भवति (इति) किमद्भुतम् ।
अद्भुतं पुनरिदं यत्सारतरसंविधानकनिबन्धलक्षणा (योजितसर) साक्षरेण नाम्नापि सा निवेश्यते ।
यथा—अभिज्ञानशाकुन्तल–मुद्राराक्षस–प्रतिमानिरुद्ध—मायापुष्पक—कृत्यारावण–छलितराम—पुष्पदूषितकादीनि नामानि ।
एवंविधानि काव्यबन्धानां नामधेयान्यपि निरुपमोल्लेखानि (विलक्षणवक्रतासरसा) क्षराणि निवेदितान्तर्गतविशिष्टसम्बन्धतया निबध्नन्त्येव वक्रिमाणम्, न पुनर्हयग्रीववध–शिशुपालवध–पाण्डवाभ्युदय–रामानन्द–रामचरितप्रायाणि सरलस्वरूपाणि ।


अप्येककक्षया बद्धाः काव्यबन्धाः कवीश्वरैः ।
पुष्णन्त्यनर्घामन्योन्यवैलक्षण्येन वक्रताम् ॥ व्जिव्_४।२५ ॥

“पुष्णन्ति”–उल्लासयन्ति, “अनर्घाम्”—अपरिच्छेद्याम्, “वक्रतां”—वक्रभवम् ।
केन–“अन्योन्यवैलक्षण्येन”—परस्परवैसादृश्येन ।
के ते “काव्यबन्धाः”—रूपकपुरःसराः ।
किंविशिष्टाः—“अप्येककक्षया बद्धाः”—एकेनापीतिवृत्तेन योजिताः ।
कैः—“कवीश्वरैः”—अन्यत्र विस्तीर्णं वस्तु सङ्क्षिपद्भिः सङ्क्षिप्तं वा विस्तारयद्भिः, विचित्रवाच्यवाचकालङ्करणसङ्कलनया नवतां नयाद्भिरित्यर्थः ।
इदमत्र तात्पर्यम्—एकामेव कामपि कन्दलितकामनीयकां कथां निर्वहद्भिर्बहुभिरपि कविकुञ्जरैर्निबध्यमाना बहवः प्रबन्धा मनागप्यन्योन्यसंवादमनासादयन्तः सहृदयहृदयाह्लादकं कमपि वक्रिमाणमादधति ।
यथा एकस्यामेव दाशरथिकथायां रामाभ्युदय—उदात्तराघववीरचरित–बालरामायण—कृत्यारावण–मायापुष्पकप्रभृतयः ।
ते हि प्रबन्धप्रवरास्तेनैव कथामार्गेण निरर्गलरसासारगर्भसन्दर्भसम्पदा प्रतिपदं प्रतिवाक्यं प्रतिप्रकरणं च प्रकाशमानाभिनवभङ्गीप्रायाः भ्राजिष्णवो नवोनबोन्मीलितनायकाद्भुतगुणोत्कर्षाकर्षाः हर्षातिरेकमनेकशो ऽप्यास्वाद्यमानाः समुत्पादयन्ति सहृदयानाम् ।
एवमन्यदपि निदर्शनान्तरमुद्भावनीयम् ।

कथोन्मेषे समाने ऽपि वपुषीव निजैर्गुणैः ।
प्रबन्धाः प्राणिन इव प्रभासान्ते पृथक् पृथक् ॥ व्जिव्च्_४।५६ ॥

इत्यन्तरश्लोकः ।
भूयो ऽप्यस्या भेदमुपपादयति—


महाकविप्रबन्धानां सर्वेषामस्ति वक्रता ।
नूतनोपायनिष्पन्ननयवर्त्मोपदेशिनाम् ॥ व्जिव्_४।२६ ॥

“महाकविप्रबन्धनाम्”—नवनिर्माणनिपुणनिरुपमकविप्रकाण्ड (विरचितानाम्) “सर्वेषाम्” ।
(किम्भूतानां)–“नूतनोपायनिषपन्ननयवर्त्मो पदेशिनां”—“नूतनाः”—प्रत्यग्राः, “उपायाः”—सामादिप्रयोगप्रकाराः तद्विदां गोचरा ये “तैर्निष्पन्नम्” सिद्धं यत् “नयवर्त्म” नीति (मार्गः) तदुपदिशन्ति शिक्षयन्ति ये (ते) तथोक्तास्तेषाम् ।
किमुक्तं भवति—सकलेष्वपि सत्कविप्रबन्धषु अभिनवभङ्गीनिवेशपेशलिन्या नीत्याः फलमुपपद्यमानं प्रतिपाद्योपदेशद्वारेण किमपि चमत्कारणमुपलभ्यत एव ।
यथा मुद्राराक्षसे— तत्र हि प्रवरप्रज्ञाप्रभावप्रपञ्चितविचित्रनीतिव्यापाराः प्रगल्भन्त एव ।
यथा च तापसवत्सराजोद्देश एव व्याख्यातः ।
एवमन्यदप्युत्प्रेक्षणीयम् ।

वक्रतोल्लेखवैकल्य (मसत्काव्ये वि) लोक्यते ।
प्रबन्धेषु कवीन्द्राणां कीर्तिकन्देषु किं पुनः ॥ व्जिव्च्_४।५७ ॥

इत्यन्तरश्लोकः ।
समाप्तप्रायो ऽयं ग्रन्थः ।