वक्रोक्तिजीवितम् द्वितीयोन्मेषः
सर्वत्रैव सामान्यलक्षणे विहिते विशेषलक्षणं विधातव्यमिति काव्यस्य “शब्दार्थौ सहितौ” इत्यादि (१ ।७) सामान्यलक्षणं विधाय तदवयवभूतयोः शब्दार्थयोः साहित्यस्य प्रथमोन्मेष एव विशेषलक्षणं विहितम् ।
इदानीं प्रथमोद्दिष्टस्य वर्णविन्यासवक्रत्वस्य विशेषलक्षणमुपक्रमते—
एको द्वौ बहवो वर्णा बध्यमानाः पुनः पुनः ।
स्वल्पान्तरास्त्रिधा सोक्ता वर्णविन्यासवक्रता ॥ व्जिव्_२।१ ॥
वर्णशब्दो ऽत्र व्यञ्जनविन्यसनविच्छित्तिः त्रिधा त्रिभिः प्रकारैरुक्तावर्णिता ।
के पुनस्ते त्रयः प्रकारा इत्युच्यते—एकः केवल एव, कदाचिद् द्वौ बहवो वा वर्णाः पुनः पुनर्बध्यमाना योज्यमानाः ।
कीदृशाः—स्वल्पान्तराः ।
स्वल्पं सुतरामल्पं स्तोकमन्तरं व्यवधानं येषां ते तथोक्ताः ।
त एव त्रयः प्रकारा इत्युच्यन्ते ।
अत्र वीप्सया पुनः पुनरित्ययोगव्यवच्छेदपरत्वेन नियमः, नान्ययोगव्यवच्छेदपरत्वेन ।
तस्मात्पुनः पुनर्बध्यमाना एव, न तु पुनः पुनरेव बध्यमाना इति ।
तत्रैकव्यञ्जननिबन्धोदाहरणं यथा
धम्मिल्लो विनिवेशिताल्पकुसुमः सौन्दर्यधुर्यं स्मितं विन्यासो वचसां विदग्धमधुरः कण्ठे कलः पञ्चमः ।
लीलामन्थरतारके च नयने यातं विलासालसं को ऽप्येवं हरिणीदृशः स्मरशरापातावदातः क्रमः ॥ व्जिव्च्_२।१ ॥
एकस्य द्वयोर्बहूनां चोदाहरणं यथा
भग्नैलावल्लरीकास्तरलितकदलीस्तम्बताम्बूलजम्बूजम्बीरास्तालतालीसरलतरलतालासिका यस्य जह्रुः ।
वेल्लत्कल्लोलहेला विशकल नजडाः कूलकच्छेषु सिन्धोः सेनासीमन्तिनीनामनवरतरताभ्यासतान्तिं समीराः ॥ व्जिव्च्_२।२ ॥
एतामेव वक्रतां विच्छित्त्यन्तरेण विविनक्ति—
वर्गान्तयोगिनः स्पर्शा द्विरुक्तास्त-ल-नादयः ।
शिष्टाश्च रादिसंयुक्ताः प्रस्तुतौचित्यशोभिनः ॥ व्जिव्_२।२ ॥
इयमपरा वर्णविन्यासवक्रता त्रिधा त्रिभिः प्रकारैरुक्तेति “च”-शब्देनाभिसम्बन्धः ।
के पुनरस्यास्त्रयः प्रकारा इत्याह—वर्गान्तयोगिनः स्पर्शाः ।
स्पर्शाः कादयो मकारपर्यन्ता वर्गास्तदन्तैः ङकारादिभिर्योगः संयोगो येषां ते तथोक्ताः, पुनः पुनर्बध्यमानाः—प्रथमः प्रकारः ।
त-ल-नादयः तकार-लकार-नकार-प्रभृतयो द्विरुक्ता द्विरुच्चारिता द्विगुणाः सन्तः, पुनः पुनर्बध्यमानाः—द्वितीयः ।
तद्व्यतिरिक्ताः शिष्टाश्च व्यञ्जनसञ्ज्ञा ये वर्णास्ते रेफप्रभृतिभिः संयुक्ताः पुनः पुनर्बध्यमानाः—तृतीयः ।
स्वल्पान्तराः परिमितव्यवहिता इति सर्वेषामभिसबन्धः ।
ते च कीदृशाः—प्रस्तुतौचित्यशोभिनः ।
प्रस्तुतं वर्ण्यमानं वस्तु तस्य यदौचित्यमुचितभावस्तेन शोभन्ते ये ते यथोक्ताः ।
न पुनर्वर्णसावर्ण्यव्यसनितामात्रेणोपनिबद्धाः प्रस्तुतौचित्यम्लानत्वकारिणः ।
प्रस्तुतौचित्यशोभित्वात् कुत्रचित्परुषरसप्रस्तावे तादृशानेवाभ्यनुजानाति ।
अथ प्रथमप्राकारोदाहरणं यथा
उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा गुञ्जन्ति मञ्जु मधुपाः कमलाकरेषु ।
एतच्चकास्ति च रवेर्नवबन्धुजीव- पुष्पच्छदाभमुदयाचलचुम्बिबिम्बम् ॥ व्जिव्च्_२।३ ॥
यथा च
कदलीस्तम्बताम्बूलजम्बूजम्बीराः इति ॥ व्जिव्च्_२।४ ॥
यथा वा
सरस्वतीहृदयारविन्दमकरन्दबिन्दुसन्दोहसुन्दराणाम् ॥ व्जिव्च्_२।५ ॥
इति
द्वितीयप्रकारोदाहरणं प्रथममरुणच्छायः ॥ व्जिव्च्_२।६ ॥
इत्यस्य द्वितीयचतुर्थो पादौ ।
तृतीयप्रकारोदाहरणमस्यैव तृतीयः पादः ।
यथा वा
सौन्दर्यधुर्यं स्मितम् ॥ व्जिव्च्_२।७ ॥
यथा च “कह्लार”-शब्दसाहचर्येन “ह्लाद”-शब्दाप्रयोगः ।
परुषरसप्रस्तावे तथाविधसंयोगोदाहरणं यथा
उत्ताम्यत्तालवश्च प्रतपति तरणावांशवी तापतन्द्रीमद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयो यापयन्ति ॥ व्जिव्च्_२।८ ॥
एतमेव वैचित्र्यान्तरेण व्याचष्टे—
क्वचिदव्यवधाने ऽपि मनोहारिनिबन्धना ।
सा स्वराणामसारूप्यात् परां पुष्णाति वक्रताम् ॥ व्जिव्_२।३ ॥
क्वचिदनियतप्रायवाक्यैकदेशे कस्मिंश्चिदव्यवधाने ऽपि व्यवधानाभावे ऽप्येकस्य द्वयोः समुदितयोश्च बहूनां वा पुनः पुनर्बध्यमानानामेषां मनोहरिनिबन्धना हृदयावर्जकविन्यासा भवति ।
काचिदेवं सम्पद्यत इत्यर्थः ।
यमकव्यवहारो ऽत्र न प्रवर्तते, तस्य नियतस्थानतया व्यवस्थानात् ।
स्वरैरव्यवधानमत्र न विवक्षितम्, तस्यानुपपत्तेः ।
तत्रैकस्याव्यवधानोदाहरणं यथा
वामं कज्जलवद्विलोचनमुरो रोहद्विसारिस्तनम् ॥ व्जिव्च्_२।९ ॥
द्वयोर्यथा ।
ताम्बूलीनद्धमुग्धक्रमुकतरुलताप्रस्तरे सानुगाभिः पायं पायं कलाचीकृतकदलदलं नारिकेलीफलाम्भः ।
सेव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि- र्दात्युबव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः ॥ व्जिव्च्_२।१० ॥
यथा वा
अयि पिबत चकोराः कृत्सनमुन्नम्य कण्ठान् क्रमुकवलनचञ्चच्चञ्चवश्चन्द्रिकाम्भः ।
विरहविधुरितानां जीवितत्राणहेतोर्- भवति हरिणलक्ष्मा येन तेजोदरिद्रः ॥ व्जिव्च्_२।११ ॥
बहूनां यथा
सरलतरलतालासिका इति ॥ व्जिव्च्_२।१२ ॥
“अपि”-शब्दात् क्वचिद् व्यवधाने ऽपि ।
द्वयोर्यथा
स्वस्थाः सन्तु वसन्त ते रतिपतेरग्रेसरा वासराः ॥ व्जिव्च्_२।१३ ॥
बहूनां व्यवधाने ऽपि यथा
चकितचातकमेचकितवियति वर्षात्यये ॥ व्जिव्च्_२।१४ ॥
सा स्वराणामसारूप्यात् सेयमनन्तरोक्ता स्वरानामकारादीनामसारूप्यादसादृश्यात् क्वचित्कस्मिंश्चिदावर्तमानसमुदायैकदेशे परामन्यां वक्रतां कामपि पुष्णाति पुष्यतीत्यर्थः ।
यथा
राजीवजीवितश्वरे ॥ व्जिव्च्_२।१५ ॥
यथा वा
धूसरसरिति इति ॥ व्जिव्च्_२।१६ ॥
यथा वा
स्वस्थाः सन्तु वसन्त इति ॥ व्जिव्च्_२।१७ ॥
यथा वा
तालताली इति ॥ व्जिव्च्_२।१८ ॥
सो ऽयमुभयप्रकारो ऽपि वर्णविन्यासवक्रताविशिष्टावयवविन्यासो यमकाभासः सन्निवेशविशेषो मुक्ताकलापमध्यप्रोतमणियमयपदकबन्धबन्धुरः सुतरां सहृदयहृदयहारितां प्रतिपद्यते ।
तदिदमुक्तम्
अलङ्कारस्य कवयो यत्रालङ्कारणान्तरम् ।
असन्तुष्टा निबध्नन्ति हारादेर्मणिबन्धवत् ॥ व्जिव्च्_२।१९ ॥
इति ।
एतामेव विविधप्रकारां वक्रतां विशिनष्टि, यदेवंविधवक्ष्यमाणविशेषणविशिष्टा विधातव्येति—
नातिनिर्बन्धविहिता नाप्यपेशलभूषिता ।
पूर्वावृत्तपरित्यागनूतनावर्तनोज्ज्वला ॥ व्जिव्_२।४ ॥
नातिनिर्बन्धविहिता—“निर्बन्ध”-शब्दो ऽत्र व्यसनितायां वर्तते ।
तेनातिनिर्बन्धेन पुनः पुनरावर्तनव्यसनितया न विहिता, अप्रयत्नविरचितेत्यर्थः ।
व्यसनितया प्रयत्नविरचने हि प्रस्तुतौचित्यपरिहाणेर्वाच्यवाचकयोः परस्परस्पर्धित्वलक्षणसाहित्यविरहः पर्यवस्यति ।
यथा
भण तरुणि इति ॥ व्जिव्च्_२।२० ॥
नाप्यपेशलभूषिता न चापेशलैरसुकुमारैरक्षरैरलङ्कृता ।
यथा
शीर्णघ्राणाङ्घ्रि इति ॥ व्जिव्च्_२।२१ ॥
तदेवं कीदृशी तर्हि कर्तव्येत्याह—पूर्वावृत्तपरित्यागनूतनावर्तनोज्ज्वला पूर्वमावृत्तानां पुनः पुनर्विरचितानां परित्यागेन प्रहाणेन नूतनानामभिनवानां वर्णानामावर्तनेन पुनः पुनः परिग्रहेण च तदेवमुभाभ्यां प्रकाराभ्यामुज्ज्वला भ्राजिष्णुः ।
यथा
एतां पश्य पुरस्तटीमहि किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः ।
इत्याकर्ण्य कथाद्भुतं हिमनीधावद्रौ सुभद्रापतेर् मन्दं मन्दमकारि येन निजयोर्देर्दण्डयोर्मण्डनम् ॥ व्जिव्च्_२।२२ ॥
यथा वा
हंसानां निनदेषु इति ॥ व्जिव्च्_२।२३ ॥
यथा च
एतन्मन्दविपक्त इत्यादौ ॥ व्जिव्च्_२।२४ ॥
यथा वा
णमह दसाणणसरहसकरतुलिअवलन्तसेलभअविहलं ।
वेवतथोरथणहरहरकअकण्ठग्गहं गोरिं ॥ व्जिव्च्_२।२५ ॥
नमत दशाननसरभसकरतुलितवलच्छैलभयविह्वलाम् ।
वेपमानस्थूलस्तनभरहरकृतकण्ठग्रहां गौरीम् ॥
इति छाया ।
एवमेतां वर्णविन्यासवक्रतां व्याख्याय तामेवोपसंहरति—
वर्णच्छायानुसारेण गुणमार्गानुवर्तिनी ।
वृत्तिवैचित्र्ययुक्तेति सैव प्रोक्ता चिरन्तनैः ॥ व्जिव्_२।५ ॥
वर्णानामक्षराणां या छाया कान्तिः श्रव्यतादिगुणसम्पत्तया हेतुभूतया यदनुसरणमनुसारः प्राप्यस्वरूपानुप्रवेशस्तेन ।
गुणमार्गांश्च सुकुमारप्रभृतीननुवर्तते या सा तथोक्ता ।
तत्र गुणानामान्तरम्यात् प्रथममुपन्यसनम्, गुणद्वारेणैव मार्गानुसरणोपपत्तेः ।
तदयमत्रार्थः—यद्यषा वर्णविन्यासवक्रता व्यञ्जनच्छायानुसारेणैव, तथापि प्रतिनियतगुणविशिष्टानां मार्गाणां गुणानुवर्तनद्वारेण यथा स्वरूपानुप्रवेशं विदधाति तथा विधातव्येति ।
तत एव च तस्यास्तन्निबन्धनाः प्रवितताः प्रकाराः समुल्लसन्ति ।
चिरन्तनैः पुनः सैव स्वातन्त्र्येण वृत्तिवैचित्र्ययुक्तेति प्रोक्ता ।
वृत्तीनामुपनागरिकादीनां यद् वैचित्र्यं विचित्रभावः स्वनिष्ठसङ्ख्याभेदभिन्नत्वं तेन युक्ता समन्वितेति चिरन्तनैः पूर्वसूरिभिरभिहिता ।
तदिदमत्र तात्पर्यम्—यदस्याः सकलागुण स्वरूपानुसरणसमन्वयेन सुकुमारादिमार्गानुवर्तनायत्तवृत्तेः पारतन्त्र्यमपरिगणितप्रकारत्वं चैतदुभयमप्यवश्यम्भावि तस्मादपारतन्त्र्यं परिमितप्रकारत्वं चेति नातिचतुरस्त्रम् ।
ननु च प्रथममेको द्वावित्यादिना प्रकारेण परिमितान् प्रकारान् स्वतन्त्रत्वं च स्वयमेव व्याख्याय किमेतदुक्तमिति चेन्नैष दोषः, यस्माल्लक्षणकारैर्यस्य कस्याचित्पदार्थस्य समुदायपरायत्तवृत्तेः परव्युत्पत्तये प्रथममपोद्धारबुद्ध्या स्वतन्त्रतया स्वरूपमुल्लिख्यते, ततः समुदायान्तर्भावो भविष्यतीत्यलमतिप्रसङ्गेन ।
येयं वर्णविन्यासवक्रता नाम वाचकालङ्कृतिः स्थाननियमाभावात् सकलवाक्यविषयत्वेन समाम्नात्, सैव प्रकारान्तरविशिष्टा नियतस्थानतयोपनिबध्यमाना किमपि वैचित्र्यान्तरमाबध्नातीत्याह—
समानवर्णमन्यार्थं प्रसादि श्रुतिपेशलम् ।
औचित्ययुक्तमाद्यादिनियतस्थानशोभि यत् ॥ व्जिव्_२।६ ॥
यमकं नाम को ऽप्यस्याः प्रकारः परिदृश्यते ।
स तु शोभान्तराभावादिह नातिप्रतन्यते ॥ व्जिव्_२।७ ॥
को ऽप्यस्याः प्रकारः परिदृश्यते, अस्याः पूर्वोक्तायाः, को ऽप्यपूर्वः प्रभेदो विभाव्यते ।
को ऽसावित्याह—यमकं नाम ।
यमकमिति यस्य प्रसिद्धिः ।
तच्च कीदृशम्—समानवर्णम् ।
समानाः सरूपाः सदृशश्रुतयो वर्णा यस्मिन् तत्तथोक्तम् ।
एवमेकस्य द्वयोर्बहूनां सदृशश्रुतीनां व्यवहितमव्यवहितं वा यदुपनिबन्धनं तदेव यमकमित्युच्यते ।
तदेवमेकरूपे संस्थानद्वये सत्यपि—अन्यार्थं भिन्नाभिधेयम् ।
अन्यच्च कीदृशम्—प्रसादि प्रसादगुणयुक्तं झगिति वाक्यार्थसमर्पकम्, अकदर्थनाबोध्यमिति यावत् ।
श्रुतिपेशलमित्यतदेव विशिष्यते—श्रुतिः श्रवणेन्द्रियं तत्र पेशलं रञ्जकम्, अकठोरशब्दविरचितम् ।
कीदृशम्—औचित्ययुक्तम् ।
औचित्यं वर्ण्यमानस्य वस्तुनः स्वभावोत्कर्षस्तेन संयुक्तं समन्वितम् ।
यत्र यमकोपनिबन्धनव्यसनित्वेनाप्यौचित्यमपरिम्लानमित्यर्थः ।
तदेव विशेषणान्तरेण विशिनष्टि—आद्यादिनियतस्थानशोभि यत् ।
आदिरादिर्येषां ते तथोक्ताः प्रथममध्यान्तास्तान्येव नियतानि स्थानानि विशिष्टाः सन्निवेशास्तैः शोभते भ्राजते यत्तथोक्तम् ।
अत्राद्यादयः सम्बन्धिशब्दाः पादादि भिर्विशेषणीयाः ।
स तु प्रकारः प्रोक्तलक्षणसम्पदुपेतो ऽपि भवन् इह नातिप्रतन्यते ग्रन्थे ऽस्मिन्नातिविस्तार्यते ।
कुतः—शोभान्तराभावात् ।
स्थाननियमव्यतिरिक्तस्यान्यस्य शोभान्तरस्य छायान्तरस्यासम्भवादित्यर्थः ।
अस्य च वर्णविन्यासवैचित्र्यव्यतिरेकेणान्यत्किञ्चिदपि जीवितान्तरं न परिदृश्यते ।
तेनानन्तरोक्तालङ्कृतिप्रकारतैव युक्ता ।
उदाहरणान्यत्रशिशुपालवधे चतुर्थे सर्गे समर्पकाणि कानिचिदेव यमकानि, रघुवंशे वा वसन्तवर्णने ।
एवं पदावयवानां वर्णानां विन्यासवक्रभावे विचारिते वर्णसमुदायात्मकस्य पदस्य च वक्रभावविचारः प्राप्तावसरः ।
तत्र पदपूर्वार्धस्य तावद्वक्रताप्राकाराः कियन्तः सम्भवन्तीति प्रक्रमते—
यत्र रूढेरसम्भाव्यधर्माध्यारोपगर्भता ।
सद्धर्मातिशयारोपगर्भत्वं वा प्रतीयते ॥ व्जिव्_२।८ ॥
लोकोत्तरतिरस्कारश्लाध्योत्कर्षाभिधित्सया ।
वाच्यस्य सोच्यते कापि रूढिवैचित्र्यवक्रता ॥ व्जिव्_२।९ ॥
यत्र रूढेरसम्भाव्यधर्माध्यारोपगर्भता प्रतीयते ।
शब्दस्य नियतवृत्तिता नाम धर्मो रूढिरुच्यते, रोहणं रूढिरिति कृत्वा ।
सा च द्विप्रकारा सम्भवति–नियतसामान्यवृत्तिता नियतविशेषवृत्तिता च ।
तेन रूढिशब्देनात्र रूढिप्रधानः शब्दो ऽभिधीयते, धर्मधर्मिणोरभेदोपचारदर्शनात् ।
यत्र यस्मिन् विषये रूढिशब्दस्य असम्भाव्यः सम्भावयितुमशक्यो यो धर्मः कश्चित्परिस्पन्दस्तस्याध्यारोपः समर्पणं गर्भो ऽभिप्रायो यस्य स तथोक्तस्तस्य भावस्तत्ता सा प्रतीयते प्रतिपाद्यते ।
यत्रेति सम्बन्धः ।
सद्धर्मातिशयारोपगर्भत्वं वा ।
संश्चासौ धर्मश्च सद्धर्मः विद्यमानः पदार्थस्य परिस्पन्दस्तस्मिन् यस्य कस्यचिदपूर्वस्यातिशयस्याद्भुतरूपस्य महिम्न आरोपः समर्पणं गर्भो ऽप्रायो यस्य स तथोक्तस्य भावस्तत्त्वम् ।
तच्च वा यस्मिन् प्रतीयते ।
केन हेतुना—लोकोक्तरतिरस्कारश्लाध्योत्कर्षाभिधित्सया ।
लोकोत्तरः सर्वातिशायी यस्तिरस्कारः खलीकरणं श्लाध्यश्च स्पृहणीयो य उत्कर्षः सातिशयत्वं तयोरभिधित्सा अभिधातुमिच्छा वक्तुकामता तया ।
कस्य वाच्यस्य ।
रूढिशब्दस्य वाच्यो यो ऽभिधेयोर्ऽथस्तस्य ।
सोच्यते कथ्यते काप्यलौकिकी रूढिवैचित्र्यवक्रता ।
रूढिशब्दस्यैवंविधेन वैचित्र्येणविचित्रभावेन वक्रता वक्रभावः ।
तदिदमत्र तात्पर्यम्—यत्सामान्यविचित्रसंस्पर्शिनां शब्दानामनुमानवन्नियतविशेषालिङ्गनं यद्यपि स्वभावादेव न किञ्चिदपि सम्भवति, तथाप्यनया युक्त्या कविविवक्षितनियतविशेषनिष्ठतां नीयमानाः कामपि चमत्कारकारितां प्रतिपद्यन्ते ।
यथा
ताला जाअन्ति गुणा जालाते सहिअएहि घेप्पन्ति ।
रैकिरणाणुग्गहिआइं हाएन्ति कमलाइं कमलाइं ॥ व्जिव्च्_२।२६ ॥
तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥
इति छाया ।
प्रतीयते इति क्रियापदवैचित्र्यस्यायमभिप्रायो यदेवंविधे विषये शब्दानां वाचकत्वेन न व्यापारः, अपि तु वस्त्वन्तरवत्प्रतीतिकारित्वमात्रेणेति युक्तियुक्तमप्येतदिह नातिप्रतन्यते ।
यस्याद् ध्वनिकारेण व्यङ्ग्यव्यञ्जकभावो ऽत्र सुतरां समर्थितस्तत् किं पौनरुक्त्येन ।
सा च रूढिवैचित्र्यवक्रता मुक्यतया द्विप्रकारा सम्भवति—यत्र रूढिवाच्योर्ऽथः स्वयमेव आत्मन्युत्कर्षं निकर्षं वा समारोपयितुकामः कविनोपनिबध्यते, तस्यान्यो वा कश्चिद्वक्तेति ।
यथा
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामो ऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥ व्जिव्च्_२।२७ ॥
अत्र “राम”-शब्देन “दृढं कठोरहृदयः” “सर्वं सहे” इति यदुभाभ्यां प्रतिपादयितुं न पार्यते, तदेवंविधविविधोद्दीपनविभावविभवसहनसामर्थ्यकारणं दुःसहजनकराजपुत्रीविरह व्यथाविसंष्ठुले ऽपि समये निरपत्रपप्राणपरिरक्षावैचक्षण्यलक्षणं सञ्ज्ञापदनिबन्धनं किमप्यसम्भाव्यमसाधारणं क्रौर्यं प्रतीयते ।
वैदेहीत्यनेन जलधरसमयसुन्दरपदार्थसन्दर्शनासहत्वसमर्पकं सहजसौकुमार्यसुलभं किमपि कातरत्वं तस्याः समर्थ्यते ।
एतदेव ।
च पूर्वस्माद्विशेषाभिधायिनः “तु”-शब्दस्य जीवितम् ।
विद्यमानधर्मातिशयाध्यारोपगर्भत्वं यथा
ततः प्रहस्याह पुनः पुरन्दरं व्यपेतभीर्भूमिपुरन्दरात्मजः ।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥ व्जिव्च्_२।२८ ॥
“रघु”-शब्देनात्र सर्वत्राप्रतिहतप्रभावस्यापि सुरपतेस्तथाविधाध्यवसायव्यघातसामर्थ्यनिबन्धनः को ऽपि स्वपौरुषातिशयः प्रतीयते ।
प्रहस्येत्यनेनैतदेवोपबृंहितम् ।
अन्यो वक्ता यत्र तत्रोदाहरणं यथा
आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।
सम्भूतिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥ व्जिव्च्_२।२९ ॥
“रावण”-शब्देनात्र सकललोकप्रसिद्धदशाननदुर्विलासव्यतिरिक्तमभिजनविवेकसदाचारप्रभावसम्भोगसुखसमृद्धिलक्षणायाः समस्तवरगुणसामग्रीसम्पदस्तिरस्कारकारणं किमप्यनुपादेयतानिमित्तभूतमौपहत्यं प्रतीयते ।
अत्रैव विध्यमानगुणातिशयाव्यारोपगर्भत्वं यथा— रामो ऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम् ॥ व्जिव्च्_२।३० ॥
अत्र “राम”-शब्देन सकलत्रिभुवनातिशायी रावणानुचरविस्मयास्पदं शौर्यातिशयः प्रतीयते ।
एषा च रूढिवैचित्र्यवक्रता प्रतीयमानधर्मबाहुल्याद् बहुप्रकारा भिद्यते ।
तच्च स्वयमेवोत्प्रेक्षणीयम् ।
यथा
गुर्वर्थमर्थो श्रुतपारदृश्वा रघोः सकाशादनवाप्तकामः ।
गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥ व्जिव्च्_२।३१ ॥
“रघु”-शब्देनात्र त्रिभुवनातिशाय्यौदा र्यातिरेकः प्रतीयते ।
एतस्यां वक्रतायामयमेव परमार्थो यत् सामान्यमात्रनिष्ठतामपाकृत्य कविविवक्षितविशेषप्रतिपादनसामर्थ्यलक्षणः शोभातिशयः समुल्लास्यते ।
सञ्ज्ञाशब्दानां नियतार्थनिष्ठत्वात् सामान्यविशेषभावो न कश्चित् सम्भवतीति न वक्तव्यम् ।
यस्मात्तेषामप्यवस्थासहस्त्रसाधारणवृत्तेर्वाच्यस्य नियतदशाविशेषवृत्तिनिष्ठता सत्कविविवक्षिता सम्भवत्येव, स्वरश्रुतिन्यायेन लग्नांशुकन्यायेन चेति ।
एवं रूढिवक्रतां विवेच्य क्रमप्राप्तसमन्वयां पर्यायवक्रतां विविनक्ति—
अभिधेयान्तरतमस्तस्यातिशयपोषकः ।
रम्यच्छायान्तरस्पर्शात्तदलङ्कर्तुमीश्वरः ॥ व्जिव्_२।१० ॥
स्वयं विशेषणेनापि स्वच्छायोत्कर्षपेशलः ।
असम्भाव्यार्थपात्रत्वगर्भं यश्चाभिधीयते ॥ व्जिव्_२।११ ॥
अलङ्कारोपसंस्कारमनोहारिनिबन्धनः ।
पर्यायस्तेन वैचित्र्यं परा पर्यायवक्रता ॥ व्जिव्_२।१२ ॥
पूर्वोक्तविशेषणविशिष्टः काव्यविषये पर्यायस्तेन हेतुना यद्वैचित्र्यं यो विचित्रभावो विच्छित्तिविशेषः सा परा प्रकृष्टा काचिदेव पर्यायवक्रतेत्युच्यते ।
पर्यायप्रधानः शब्दः पर्यायो ऽभिधीयते ।
तस्य चैतदेव पर्यायप्राधान्यं यत् स कदाचिद्विवक्षिते वस्तुनि वाचकतया प्रवर्तते, कदाचिद्वाचकान्तरमिति ।
तेन पूर्वोक्तया नीत्या बहुप्रकारः पर्यायो ऽभिहितः, तत् कियन्तस्तस्य प्रकाराः सन्तीत्याह—अबिधेयान्तरतमः ।
अबिधेयं वाच्यं वस्तु तस्यान्तरतमः प्रत्यासन्नतमः ।
यस्मात् पर्यायशब्दत्वे सत्यप्यन्तरङ्गत्वात् स यथा विवक्षितं वस्तु व्यनक्ति तथा नान्यः कश्चिदिति ।
यथा
नाभियोक्तुम् अनृतं त्वमिष्यसे कस्तपस्विविशिखेषु चादरः ।
सन्ति भूभृति हि नः शराः परे ये पाक्रमवसूनि वज्रिणः ॥ व्जिव्च्_२।३२ ॥
अत्र महेन्द्रवाचकेष्वसङ्ख्येषु सम्भवत्सु पर्यायशब्देषु “वज्रिणः” इति प्रयुक्तः पर्यायवक्रतां पुष्णाति ।
यस्मात् सतसन्निहितवज्रस्यापि सुरपतेर्ये पराक्रमवसूनि विक्रमधनानीति सायकानां लोकोत्तरत्वप्रतीतिः ।
“तपस्वि”-शब्दो ऽप्यतितरां रमणीयः ।
यस्मात् सुभटसायकानामादरो बहुमानः कदाचिदुपपद्यते, तापसमार्गणेषु पुनरकिञ्चित्करेषु कः संरम्भ इति ।
यथा वा
कस्तवं ज्ञास्यसि मां स्मर स्मरसि मां दिष्ट्या किमभ्यागतस्त्वामुन्मादयितुं कथं ननु बलात् किं ते बलं पश्य तत् ।
पस्यामीत्यभिधाय पावकमुचा ये लोचनेनैव तं कान्ताकण्ठनिषक्तबाहुमदहत्तस्मै नमः शूलिने ॥ व्जिव्च्_२।३३ ॥
अत्र परमेश्वरे पर्यायसहस्त्रेष्वपि सम्भवत्सु “शूलिने” इति यत्प्रयुक्तं तत्रायमभिप्रायो यत्तस्मै भगवते नमस्कारव्यतिरेकेण किमन्यदभिधीयते ।
यत्तथाविधोत्सेकपरित्यक्तविनयवृत्तेः स्मरस्य कुपितेनापि तदभिमतावलोकव्यतिरेकेण तेन सततसन्निहितशूलेनापि कोपसमुचितमायुधग्रहणं नाचरितम् ।
लोचनपातमात्रेणैव कोपकार्यकरणाद्भगवतः प्रभावातिशयः परिपोषितः ।
अतएव तस्मै नमो ऽस्त्विति युक्तियुक्ततां प्रतिपद्यते ।
अयमपरः पदपूर्वार्धवक्रताहेतुः पर्यायः—यस्तस्यातिशयपोषकः ।
तस्याभिधेयस्यार्थस्यातिशयमुत्कर्ष पुष्णाति यः स तथोक्तः ।
यस्मात् सहजसौकुमार्यसुभगो ऽपि पदार्थस्तेन परिपोषितातिशयः सुतरां सहृदयहृदयहारितां प्रतिपद्यते ।
यथा
सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरुर् गौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः ।
सद्योमार्जितदाक्षिणात्यतरुणीदन्तावदातद्युति- श्चन्द्रः सुन्दरि दृश्यतामयमसौ चण्डी शचूडामणिः ॥ व्जिव्च्_२।३४ ॥
अत्र पर्यायाः सहजसौन्दर्यसम्पदुपेतस्यापि चन्द्रमसः सहृदयहृदयाह्लादकारणं कमप्यतिशयमूल्लासयन्तः पदपूर्वार्धवक्रतां पूष्णन्ति ।
तथा च रामेण रावणं निहत्य पुष्पकेन गच्छता सीतायाः सविस्त्रम्भं स्वैरकथास्वेतदभिधीयते यच्चन्द्रः सुन्दरि दृश्यतामिति, रामणीयकमनोहारिणि सकललोकलोचनोत्सवश्चन्द्रमा विचार्यतामिति ।
यस्मात्तथाविधानामेव तादृशः समुचितो विचारगोचरः ।
सम्बन्धी रघुभूभुजामित्यनेन चास्माकं नापूर्वो बन्धुरयमित्यवलोकनेन सम्मान्यतामिति प्रकारान्तरेणापि तद्विषयो बहुमानः प्रतीयते ।
शिष्टाश्च तदतिशयाधानप्रवणत्वमेवात्मनःप्रथयन्ति ।
तत एव च प्रस्तुतमर्थं प्रति प्रत्येकं पृथक्त्वेनोत्कर्षप्रकटनात्पर्यायाणां बहूनामप्यपौनरुक्त्यम् ।
तृतीये पादे विशेषणवक्रता विद्यते, न पर्यायवक्रत्वम् ।
अयमपरः पर्यायप्रकारः पदपूर्वार्धवक्रतानिबन्धनः—यस्तदलङ्कर्त्तुमीश्वरः ।
तदभिधेयलक्षणं वस्तु विभूषयितुं यः प्रभवतीत्यर्थः ।
कस्मात्—रम्यच्छायान्तरस्पर्शात् ।
रम्यं रमणीयं यच्छायान्तरं विच्छित्त्यन्तरं श्लिष्टत्वादि तस्य स्पर्शात्,शोभान्तरप्रतीतेरित्यर्थः ।
कथम्—स्वयं विशेषणेनापि ।
स्वयमात्मनैव, स्वविशेषणभूतेन पदान्तरेण वा ।
तत्र स्वयं यथा
इत्थं जडे जगति को नु बृहत्प्रमाण- कर्णः करी ननु भवेद् ध्वनितस्य पात्रम् ।
इत्यागतं झटिति यो ऽलिनमुन्ममाथ मातङ्ग एव किमतः परमुच्यते ऽसौ ॥ व्जिव्च्_२।३५ ॥
अत्र “मातङ्ग”-शब्दः प्रस्तुते वारणमात्रे प्रवर्तते ।
श्लिष्टया वृत्त्या चण्डाललक्षणस्याप्रस्तुतस्य वस्तुनः प्रतीतिमुत्पादयन् रूपकालङ्कारच्छायासंस्पर्शाद् गौर्वाहीक इत्यनेन न्यायेन सादृश्यनिबन्धनस्योपचारस्य सम्भवात् प्रस्तुतस्य वस्तुनस्तत्त्वमध्यारोपयन् पर्यायवक्रतां पुष्णाति ।
यस्मादेवंविधे विषये प्रस्तुतस्याप्रस्तुतेन सम्बन्धोपनिबन्धो रूपकालङ्कारद्वारेण कदाचिदुपमामुखेन वा ।
यथा स एवायं स इवायमिति वा ।
एष एव च शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यस्य पदध्वनेर्विषयः, बहुषु चैवंविधेषु सत्सु वाक्यध्वनेर्वा ।
यथा
कुसुमसमययुगमुपसंहरन्नुत्फुल्लमल्लिकाधवलाट्टहासो व्यजृम्भत ग्रीष्माभिधानो महाकालः ॥ व्जिव्च्_२।३६ ॥
यथा
वृत्ते ऽस्मिन् महाप्रलयेधरणीधारणायाधुनात्वं शेषः ॥ व्जिव्च्_२।३७ ॥
इति
अत्र युगादयः शब्दाः प्रस्तुताभिधानपरत्वेन प्रयुज्यमानाः सन्तो ऽप्यप्रस्तुतवस्तुप्रतीतिकारितया कामपि काव्यच्छायां समुन्मीलयन्तः प्रतीयमानालङ्कारव्यपदेशभाजनं भवन्ति ॥
विशेषणेन यथा
सुस्निग्धदुग्धधवलोरुदृशं विदग्ध- मालोक्य यन्मधुरमुघ्ध विलासदिग्धम् ।
भस्मीचकार मदनं ननु काष्ठमेव तन्नुनमीश इति वेत्ति पुरन्ध्रिलोकः ॥ व्जिव्च्_२।३८ ॥
अत्र काष्ठमिति विशेषणपदं वर्ण्यमानपदार्थापेक्षया मन्मथस्य नीरसतां प्रतिपादयद् रम्यच्छायान्तरस्पर्शिश्लेषच्छायामनोज्ञविन्यासमपरमस्मिन् वस्तुन्यप्रस्तुते मदनाभिधानपादपलक्षणे प्रतीतिमुत्पापयद् रूपकालङ्कारच्छायासंस्पर्शात् कामपि पर्यायवक्रतामुन्मीलयति ।
अयमपरः पर्यायप्रकारः पदपूर्वार्धवक्रतायाः कारणम्—यः स्वच्छायोत्कर्षपेशलः ।
स्वस्यात्मनश्छाया कान्तिर्या सुकुमारता तदुत्कर्षेण तदतिशयेन यः पेशलो हृदयहारी ।
तदिदमत्र तात्पर्यम्—यद्यपि वर्ण्यमानस्य वस्तुनः प्रकारान्तरोल्लासकत्वेन व्यवस्थितिस्तथापि परिस्पन्दसौन्दर्यसम्पदेव सहृदयहृदयहारितां प्रतिपद्यते ।
यथा
इत्थमुत्कयति ताण्डवलीला- पण्डिताब्धिलहरीगुरुपादैः ।
उत्थितं विषमकाण्डकुटुम्ब- स्यांशुभिः स्मरवतीविरहो माम् ॥ व्जिव्च्_२।३९ ॥
अत्रेन्दुपर्यायो “विषमकाण्डकुटुम्ब”-शब्दः कविनोपनिबद्धः ।
यस्मान्मृगाङ्कोदयद्वेषिणा विरहविधुरहृदयेन केनचिदेतदुच्यते ।
यदयमप्रसिद्धो ऽप्यपरिम्लानसमन्वयतया प्रसिद्धतमतामुपनीतस्तेन प्रथमतरोल्लिखितत्वेन च चेतनचमत्कारकारितामवगाहते ।
एष च स्वच्छायोत्कर्षपेशलःसहजसौन्दर्यसु भगत्वेन नूतनोल्लेखविलक्षणत्वेन च कविभिः पर्यायान्तरपरिहारपूर्वकमुपवर्ण्यते ।
यथा कृष्णकुटिलकेशीति वक्तव्ये यमुनाकल्लोलवक्रालकेति ।
यथा वा “गौराङ्गीवदनोपमापरिचित” इत्यत्रवनितादिवाचकसहस्त्रसद्भावे ऽपि गौराङ्गीत्यभिधानमतीवरमणीयम् ।
अयमपरः पर्यायप्रकारः पदपूर्वार्धवक्रताभिधायी—अलम्भाव्यार्थपात्रत्वगर्भं यश्चाबिधीयते ।
वर्ण्यमानस्य सम्भाव्यः सम्भावयितुमशक्यो योर्ऽथः कश्चित्परिस्पन्दस्तत्र पात्रत्वं भाजनत्वं गर्भो ऽभिप्रायो यत्राभिधाने तत्तथाविधं कृत्वा यश्चाभिधीयते भण्यते ।
यथा
अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य ॥ व्जिव्च्_२।४० ॥
अत्र महीपालेति राज्ञः सकलपृथ्वीपरिरक्षणक्षमपौरुषस्यापि तथाविधप्रयत्नपरिपालनीयगुरुगोरूपजीवमात्रपरित्राणासामर्थ्यं स्वप्ने ऽप्यसम्भावनीयं यत्तत्पात्रत्वगर्भमामन्त्रणमुपनिबद्धम् ।
यथा वा
भूतानुकम्पा तव चेदियं गौ- रेका भवेत् स्वस्तिमती त्वदन्ते ।
जीवन् पुनः शस्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥ व्जिव्च्_२।४१ ॥
अत्र यदि प्राणिकरुणाकारणं निजप्राणपरित्यागमाचरसि तदप्ययुक्तम् ।
यस्मात्त्वदन्ते स्वस्तिमती भवेदियमेकैव गौरिति त्रितयमप्यनादरास्पदम् ।
जिवन् पुनः शश्वत्सदैवोपप्लवेभ्यो ऽनर्थेभ्यः प्रजाः सकलभूतधात्रीवलयवर्तिनीः प्रजानाथ पासि रक्षसि ।
पितेवेत्यनादरातिशयः प्रथते ।
तदेवं यद्यपि सुस्पष्टसमन्वयो ऽयं वाक्यार्थस्तथापि तात्पर्यान्तरमत्र प्रतीयते ।
यस्मात् सर्वस्य कस्याचित्प्रजानाथत्वे सति सदैव तत्परिरक्षणस्याकरणमसम्भाव्यम् ।
तत्पात्रत्वगर्भमेव तदभिहितम् ।
यस्मात् प्रत्यक्षप्राणिमात्रभक्ष्ममाणगुरुहोमधेनुप्राणपरिरक्षणापेक्षानिरपेक्षस्य सतो जीवतस्तवानेन न्यायेन कदाचिदपि प्रिजापरिरक्षणं मनागपि न सम्भाव्यत इति प्रमाणोपपन्नम् ।
तदिदमुक्तम्
प्रमाणवत्त्वादायातः प्रवाहः केन वार्यते ॥ व्जिव्च्_२।४२ ॥
इति ।
अत्राभिधानप्रतीतिगोचरीकृतानां पदार्थानां परस्परप्रतियोगित्वमुदाहरणप्रत्युदाहरणन्यायेनानुसन्धेयम् ।
अयमपरः पर्यायप्रकारः पदपूर्वार्धवक्रतां विदधाति—अलङ्कारोपसंस्कारमनोहारिनिबन्धनः ।
अत्र “अलङ्कारोपसंस्कार” शब्दे तृतीयासमासः षष्ठीसमासश्च करणीयः ।
तेनार्थद्वयमभिहितं भवति ।
अलङ्कारेण रूपकादिनोपसंस्कारः शोभान्तराधानं यत्तेन मनोहारि हृदयरञ्जकं निबन्धनमुपनिबन्धो यस्य स तथोक्तः ।
अलङ्कारस्योत्प्रेक्षादेरुपसंस्कारः शोभान्तराधानं चेति विगृह्य ।
तत्र तृतीयासमासपक्षोदाहरणं यथा
यो लीलातालवृन्तो रहसि निरुपधिर्यश्च किलीप्रदीपः कोपक्रीडासु यो ऽस्त्रं दशनकृतरुजो यो ऽधरस्यैकसेकः ।
आकल्पे दर्पण यः श्रमशयनविधो यश्च गण्डोपधानं देव्याः स व्यापदं वो हरतु हरजटाकन्दलीपुष्पमिन्दुः ॥ व्जिव्च्_२।४३ ॥
अत्र तालवृन्तादिकार्यसामान्यादभेदोपचारनिबन्धनो रूपकालङ्कारविन्यासः सर्वेषामेव पर्यायाणां शोभातिशयकारित्वेनोपनिबद्धः ।
षष्ठीसमासपक्षोदाहरणं यथा
देवि त्वन्मुखपङ्कजेन शशिनः शोभातिरस्कारिणा ।
पश्याब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम् ॥ व्जिव्च्_२।४४ ॥
अत्र स्वरससम्प्रवृत्तसायंसमयसमुचिता सरोरुहाणां विच्छायताप्रतिपत्तिर्नायकेन नागरकतया वल्लभोपलालनाप्रवृत्तेन तन्निदर्शनोपक्रमरमणीयत्वमुखेन निर्जितानीवेति प्रतीयमानोत्प्रेक्षालङ्कारकारित्वेन प्रतिपाद्यते ।
एतदेव च युक्तियुक्तम् ।
यस्मात्सर्वस्य कस्यचित्पङ्कजस्य शशाङ्कशोभातिरस्कारकारिता प्रतिपद्यते ।
त्वन्मुखपङ्कजेन पुनः शशिनः शोभातिरस्कारिणा न्यायतो निर्जितानि सन्ति विच्छायतां गच्छन्तीवेति प्रतीयमानस्योत्प्रेक्षालक्षणस्यालङ्कारस्य शोभातिशयः समुल्लास्यते ।
एवं पर्यायवक्रतां विचार्य क्रमसमुचितावसरामुपचारवक्रतां विचारयति—
यत्र दूरान्तरे ऽन्यस्मात्सामान्यमुपचर्यते ।
लेशेनापि भवत् काञ्चिद्वक्तुमुद्रिक्तवृत्तिताम् ॥ व्जिव्_२।१३ ॥
यन्मूला सरसोल्लेखा रूपकादिरलङ्कृतिः ।
उपचारप्रधानासौ वक्रता काचिदुच्यते ॥ व्जिव्_२।१४ ॥
असौ काचिदपूर्वा वक्रतोच्यते वक्रभावो ऽभिधीयते ।
कीदृशी—उपचारप्रधाना ।
उपचरणमुपचारः स एव प्रधानं यस्याः सा तथोक्ता ।
किंस्वरूपा—यत्र यस्यामन्यस्मात्पदार्थान्तरात् प्रस्तुतत्वाद्वर्ण्यमाने वस्तुनि सामान्यमुपचर्यते साधारणो धर्मः कश्चिद्वक्तुमभिप्रेतः समारोप्यते ।
कस्मिन् वर्ण्यमाने वस्तुनि—दूरान्तरे ।
दूरमनल्पमन्तरं व्यवधानं यस्य तत्तथोक्तं तस्मिन् ।
ननु च व्यवधानममूर्तत्वाद्वर्ण्यमानस्य वस्तुनो देशविहितं तावन्न सम्भवति ।
कालविहितमपि नास्त्येव, तस्य क्रियाविषयत्वात् ।
क्रियास्वरूपं कारकस्वरूपं चेत्युभयात्मकं यद्यपि वर्ण्यमानं वस्तु, तथापि देशकालव्यवधानेनात्र न भवितव्यम् ।
यस्मात्पदार्थानामनुमानवत् सामान्यमात्रमेव शब्दैर्विषयीकर्तुं पार्यते, न विशेषः ।
तत्कथं दूरान्तरत्वमुपपद्यते ? सत्यमेतत्, किन्तु “दूरान्तर”-शब्दो मुख्यतया देशकालविषये विप्रकर्षे प्रत्यासत्तिविरहे वर्तमानो ऽप्युपचारात् स्वभावविप्रकर्षे वर्तते ।
सो ऽयं स्वभावविप्रकर्षो विरुद्धधर्माध्यासलक्षणः पदार्थानाम् ।
यथा मूर्तिमत्त्वममूर्तत्वापेक्षया, द्रवत्वं च घनत्वापेक्षया, चेतनत्वमचेतनत्वापेक्षयेति ।
कीदृक् तत्सामान्यम्—लेशेनापि भवत् ।
मनाङ्मात्रेणापि सत् ।
किमर्थम् —काञ्चिदपूर्वामुद्रिक्तवृत्तितां वक्तुं सातिशयपरिस्पन्दतामभिधातुम् ।
यथा
स्निग्धश्यामलकान्तिलिप्तवियतः ॥ व्जिव्च्_२।४५ ॥
अत्र यथा बुद्धिपूर्वकारिणः केचिच्चेतनवर्णच्छायातिशयोत्पादनेच्छया केनचिद्विद्यमानलेपनशक्तिना मूर्तेन नीलादिना रञ्जनद्रव्यविशेषेण किञ्चिदेव लेपनीयं मूर्तिमद्वस्तु वस्त्रप्रायं लिम्पन्ति, तद्वदेव तत्कारित्वसामान्यं मनाङ्मात्रेणापि विद्यमानं कामप्युद्रिक्तवृत्तितामभिधातुमुपचारात् स्निग्धश्यामलया कान्त्या लिप्तं वियद् द्यौरित्युपनिबद्धम् ।
“स्निग्ध”-शब्दो ऽप्युपचारवक्र एव ।
यथा मूर्तं वस्तु स्पर्शसंवेद्यं स्नेह नगुणयोगात् स्निग्धमित्युच्यते, तथैव कान्तिरमूर्ताप्युपचारात् स्निग्धेत्युक्ता ।
यथा वा
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वों तोयोत्सर्गस्तनितमुखरो मास्म भूर्विक्लवासताः ॥ व्जिव्च्_२।४६ ॥
अत्रामूर्तानामपि तमसामतिबाहुल्याद् घनत्वान्मूर्तसमुचितं सूचिभेद्यत्वमुपचरितम् ।
यथा वा
गअणं च मत्तमेहं धारालुलिअज्जुणाइं अ वणाइं ।
णिरहङ्कारमिअङ्का हरन्ति णीलाओ अ णिसाओ ॥ व्जिव्च्_२।४७ ॥
गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि ।
निरहङ्कारमृगाङ्का हरन्ति नीलाश्च निशाः ॥
इति छाया ।
अत्र मत्तत्वं निरहङ्कारत्वं च चेतनधर्मसामान्यमुपचरितम् ।
सो ऽयमुपचारवक्रताप्रकारः सत्कविप्रवाहे सहस्त्रशः सम्भवतीति सहृदयैः स्वयमेवोत्प्रेक्षणीयः अतएव च प्रत्यासन्नान्तरे ऽस्मिन्नुपचारे न वक्रताव्यवहारः, यथा गौर्वाहीक इति ।
इदमपरमुपचारवक्रतायाः स्वरूपम्—यन्मूला सरसोल्लेखा रूपकादिरलङ्कृतिः ।
या मूलं यस्याः सा तथोक्ता ।
रूपकमादिर्यस्याः सा तथोक्ता ।
का सा—अलङ्कृतिरलङ्करणं रूपकप्रभृतिरलङ्कारविच्छित्तिरित्यर्थः ।
कीदृशी—सरसोल्लेखा ।
सरसः सास्वादः सचमत्कृतिरुल्लेखः समुन्मेषोयस्याः सा तथोक्ता ।
समानाधिकरणयोरत्र हेतुहेतुमद्भावः, यथा
अतिगुरवो राजमाषा न भक्ष्या इति ॥ व्जिव्च्_२।४८ ॥
यन्मूला सती रूपकादिरलङ्कृतिः सरसोल्लेखा ।
तेन रूपकादेरलङ्करणकलापस्य सकलस्यैवोपचारवक्रता जीवितमित्यर्थः ।
ननु च पूर्वस्मादुपचारवक्रताप्रकारादेतस्य को भेदः ? पूर्वस्मिन् स्वभावविप्रकर्षात् सामान्येन मनाङ्मात्रमेव साम्यं समाश्रित्य सातिशयत्वं प्रतिपादयितुं तद्धर्ममात्राध्यारोपः प्रवर्तते, एतस्मिन् पुनरदूरविप्रकृष्टसादृश्यसमुद्भवप्रत्यासत्तिसमुचितत्वादभेदोपचारनिबन्धनं तत्त्वमेवाध्यारोप्यते ।
यथा
सत्स्वे कालश्रवणोत्पलेषु सेनावनालीविषपल्लवेषु ।
गाम्भीर्यपातालफणीश्वरेषु सङ्गेषु को वा भवतां मुरारिः ॥ व्जिव्च्_२।४९ ॥
अत्र कालश्रवणोत्पलादिसादृश्यजनितप्रत्यासत्तिविहतमभेदोपचारनिबन्धनं तत्त्वमारोपितम् ।
“आदि”-ग्रहणादप्रस्तुतप्रशसाप्रकारस्य कस्यचिदन्यापदेशलक्षणस्योपचारवक्रतैव जीवितत्वेन लक्ष्यते ।
तथा च किमपि पदार्थान्तरं प्राधान्येन प्रतीयमानतया चेतसि निधाय तथाविधलक्षणसाम्यसमन्वयं समाश्रित्य पदार्थान्तरमभिधीयमानतां प्रापयन्तः प्रायशः कवयो दृश्यन्ते ।
यथा
अनर्धः को ऽप्यन्तस्वव हरिण हेवाकमहिमा स्फुरत्येकस्यैव त्रिभुवनचमत्कारजनकः ।
यदिन्दोर्मूर्तिस्ते दिवि विहरणारण्यवसुधा सुधासारस्यन्दी किरणनिकरः शष्पकवलः ॥ व्जिव्च्_२।५० ॥
अत्र लोकोत्तरत्वलक्षणमुभयानुयायि सामान्यं समाश्रित्य प्राधान्येन विवक्षितस्य वस्तुनः प्रतीयमानवृत्तेरभेदोपचारनिबन्धनं तत्त्वमध्यारोपितम् ।
तथा चैतयोर्दूयोरप्यलङ्कारयोस्तुल्ये ऽप्युपचारवक्रताजीवितत्त्वे वाच्यत्वमेकत्र प्रतीयमानत्वमपरस्मिन् स्वरूपभेदस्य निबन्धनम् ।
एतच्चोभयोरपि स्वलक्षणव्याख्यानावसरे सुतरां समुन्मील्यते ।
एवमुपचारवक्रतां विवेच्य समानन्तरप्राप्तावकाशां विशेषणवक्रतां विविनक्ति ।
विशेषणस्य माहात्म्यात् क्रियायाः कारकस्य वा ।
यत्रोल्लसति लावण्यं सा विशेषणवक्रता ॥ व्जिव्_२।१५ ॥
सा विशेषणवक्रता विशेषणवक्रत्वविच्छित्तिरभिधीयते ।
कीदृशी—यत्र यस्यां लावण्यमुल्लसति रामणीयकमुद्भिद्यते ।
कस्य—क्रियायाः कारकस्य वा ।
क्रियालक्षणस्य वस्तुनः कारकलक्षणस्य वा ।
कस्मात्—विशेषणस्य माहात्म्यात् ।
एतयोः प्रत्येकं यद्विशेषणं भेदकं पदार्थान्तरं तस्य सातिशयत्वात् ।
भावस्वभाव सौकुमार्यसमुल्लासकत्वमलङ्कारच्छायातिशयपरिपोषकत्वम् च ।
यथा
श्रमजलसेकजनितनवलिखितनखपददाहमूर्छिता वल्लभरभसलुलितललितालकवलयचयार्धनिह्नुता ।
स्मररसविविधविहितसुरतक्रमपरिमलनत्रपालसा जयति निशात्यये युवतिदृक् तनुमधुमदविशदपाटला ॥ व्जिव्च्_२।५१ ॥
यथा वा
करन्तरालीनकपोलभित्तिर् बाष्पोच्छलत्कूणितपत्रलेखा ।
श्रोत्रान्तरे पिण्डितचित्तवृत्तिः शृणोति गीतध्वनिमत्र तन्वी ॥ व्जिव्च्_२।५२ ॥
यथा वा
शुचिशीतलचन्द्रिकाप्लुताश्चिरनिःशब्दमनोहरा दिशः ।
प्रशमस्य मनोभवस्य वा हृदि कस्या प्यथ हेतुतां ययुः ॥ व्जिव्च्_२।५३ ॥
क्रियाविशेषणवक्रत्वं यथा
सस्मार वारणपतिर्विनिमीलिताक्षः स्वेच्छाविहारवनवासमहोत्सवानाम् ॥ व्जिव्च्_२।५४ ॥
अत्र सर्वत्रैवस्वभावसौन्दर्यसमुल्लासकत्वं विशेषणानाम् ।
अलङ्कारच्छायातिशयपरिपोषकत्वं विशेषणस्य यथा
शशिनः शोभातिरस्कारिणा ॥ व्जिव्च्_२।५५ ॥
एतदेव विशेषणवक्रत्वं नाम प्रस्तुतौचित्यानुसारि सकलसत्काव्यजीवितत्वेन लक्ष्यते, यस्मादनेनैव रसः परां परिपोषपदवीमवतार्यते ।
यथा
करान्तरालीन इति ॥ व्जिव्च्_२।५६ ॥
स्वमहिम्ना विधीयन्ते येन लोकोत्तरश्रियः ।
रसस्वभावालङ्कारास्तद्विधेयं विशेषणम् ॥ व्जिव्च्_२।५७ ॥
(इति) अन्तरश्लोकः ॥
एवं विशेषणवक्रतां विचार्य क्रमसमर्पितावसरां संवृतिवक्रतां विचारयति—
यत्र संव्रियते वस्तु वैचित्र्यस्य विवक्षया ।
सर्वनामादिभिः कैश्चित् सोक्ता संवृतिवक्रता ॥ व्जिव्_२।१६ ॥
सोक्ता संवृतिवक्रता—या किलैवंविधा सा संवृतिवक्रतेत्युक्ता कथिता ।
संवृत्या वक्रता संवृतिप्रधाना वेति समासः ।
यत्र यस्यां वस्तु पदार्थलक्षणं सव्रियते समाच्छाद्यते ।
केन हेतुना—वैचित्र्यस्य विवक्षया विचित्रभावस्याभिधानेच्छया, यया पदार्थो विचित्रभावं समासादयतीत्यर्थः ।
केन संव्रियते—सर्वनामादिभिः कैश्चित् ।
सर्वस्य नाम सर्वनाम तदादिर्येषां ते तथोक्तास्तैः कैश्चिदपूर्वैर्वाचकैरित्यर्थः ।
अत्र बहवः प्रकाराः सम्भवन्ति ।
यत्र किमपि सातिशयं वस्तु वक्तुं शक्यमपि साक्षादभिधानादियत्तापरिच्छिन्नतया परिमितप्रायं मा प्रतिभासतामिति सामान्यवाचिना सर्वनाम्ना समाच्छाद्य तत्कार्याभिधायिना तदतिशयाभिधानपरेण वाक्यान्तरेण प्रतीतिगोचरतां नीयते ।
यथा
तत्पितर्यथ परिग्रहलिप्सौ स व्यधत्त करणीयमणीयः ।
पुष्पचापशिखरस्थकपोलो मन्मथः किमपि येन निदध्यौ ॥ व्जिव्च्_२।५८ ॥
अत्र सदाचारप्रवणतया गुरुभक्तिभावितान्तः करणो लोकोत्तरौदार्यगुणयोगाद्विविधविषयोपभोगवितृष्णमना निजेन्द्रियनिग्रहमसम्भावनीयमपि शान्तनवो विहितवानित्यभिधातुं शक्यमपि सामान्याभिधायिना सर्वानाम्नाच्छाद्योत्तरार्धेन कार्यान्तराभिधायिना वाक्यान्तरेण प्रतीतिगोचरतामानीयमानं कामपि चमत्कारकारितामावहति ।
अयमपरः प्रकारो यत्र स्वपरिस्पन्दकाष्ठाधिरूढेः सातिशयं वस्तु वचसामगोचर इति प्रथयितुं सर्वानाम्ना समाच्छाद्य तत्कार्याभिधायिना तदतिशयवाचिना वाक्यान्तरेण समुन्मील्यते ।
यथा
याते द्वारवती तदा मधुरिपौ तद्दत्तकम्पानतां कालिन्दीजलकेलिवञ्जुललतामालम्बय सोत्कण्ठया ।
तद् गीतं गुरुबाष्पगद्गदलसत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥ व्जिव्च्_२।५९ ॥
अत्र सर्वनाम्ना संवृतं वस्तु तत्कार्याभिधायिना वाक्यान्तरेण समुन्मील्य सहृदयहृदयहारितां प्रापितम् ।
यथा वा
तह रुण्णं कण्ह विसाहीआए रोहगग्गरगिराए ।
जह कस्स वि जम्मसए वि कोइ मा वल्लहो होउ ॥ व्जिव्च्_२।६० ॥
तथै रुदितं कृष्ण विशाखया रोधगद्गदगिरा ।
यथा कस्यापि जन्मशते ऽपि को ऽपि मा वल्लभो भवतु ॥
इति छाया ।
अत्र पूर्वार्धे संवृतं वस्तु रोदनलक्षणं तदतिशयाभिधायिना वाक्यान्तरेण कामपि तद्विदाह्लादकारितां नीतम् ।
इदमपरमत्र प्रकारान्तरं यत्र सातिशयसुकुमारं वस्तु कार्यातिशयाभिधानं विना संवृतिमात्ररमणीयतया कामपि काष्ठमधिरोप्यते ।
यथा
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया ॥ व्जिव्च्_२।६१ ॥
अयमपरः प्रकारो यत्र स्वानुभसंवेदनीयं वस्तु वचसा वक्तुमविषय इति ख्यापयितुं संव्रियते ।
यथा
तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ व्जिव्च्_२।६२ ॥
इति ।
पूर्वमेव व्याख्यातम् ।
इदमपि प्रकारान्तरं सम्भवति यत्र परानुभसंवेद्यस्य वस्तुनो वक्तुरगोचरतां प्रतिपादयितुं संवृतिः क्रियते ।
यथा
मन्मथः किमपि येन निदध्यौ ॥ व्जिव्च्_२।६३ ॥
अत्र हि त्रिभुवनप्रथितप्रतामहिमा तथाविधशक्तिव्याघातविषण्णचेताः कामः किमपि स्वानुभवसमुचितमचिन्तयदिति ।
इदमपरं प्रकारान्तरमत्र विद्यते —यत्र स्वभावेन कविविवक्षया वा केनचिदौपहत्येन युक्तं वस्तु महापातकमिव कीर्तनीयतां नार्हतीति समर्पयितुं संव्रियते ।
यथा
दुर्वचं तदथ मास्म भून्मृग- स्त्वय्यसौ यदकरिष्यदोजसा ।
नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्रिणा ॥ व्जिव्च्_२।६४ ॥
यथा वा
निवार्यतामालि किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः ।
न केवलं यो महतो ऽपभाषते शृणोति तस्मादपि यः स पापभाक् ॥ व्जिव्च्_२।६५ ॥
अत्रार्जुनमारणं भगवदपभाषणं च न कीर्तनोयतामर्हतीति संवरणेन रमणीयतां नीतमिति ।
विवक्षयो पहतं यथा
सो ऽयं दम्भधृतव्रतः प्रियतमे कर्तुं किमप्युद्यतः ॥ व्जिव्च्_२।६६ ॥
इति ।
प्रथममेव व्याख्यातम् ।
एव संवृतिवक्रतां विचार्य प्रत्ययवक्रतायाः को ऽपि प्रकारः पदमध्यान्तर्भूतत्वादिहैव समुचितावसरस्तस्मात्तद्विचारमाचरति—
प्रस्तुतौचित्यविच्छित्तिं स्वमहिम्ना विकासयन् ।
प्रत्ययः पदमध्ये ऽन्यामुल्लासयति वक्रताम् ॥ व्जिव्_२।१७ ॥
कश्चित् प्रत्ययः कृदादिः पदमध्यवृत्तिरन्यामपूर्वां वक्रतामुल्लासयति वक्रभावमुद्दीपयति ।
किं कुर्वन्—प्रस्तुतस्य वर्ण्यमानस्य वस्तुनो यदौचित्यमुचितभावस्तस्य विच्छित्तिमुपशोभां विकासयन् समुल्लासयन् ।
केन—स्वमहिम्ना निजोत्कर्षेण ।
यथा
वेल्लद्वलाका घनाः ॥ व्जिव्च्_२।६७ ॥
यथा वा
स्निह्यत्कटाक्षे दृशौ इति ॥ व्जिव्च्_२।६८ ॥
अत्र वर्तमानकालाभिधायी शतृप्रत्ययः कामप्यतीतानागतविभ्रमविरहितां तात्कालिकपरिस्पन्दसुन्दरीं प्रस्तुतौचित्यविच्छित्तिमुल्ला सयन् सहृदयहृदयहारिणीं प्रत्ययवक्रतामावहति ।
इदानीमेतस्याः प्रकारान्तरं पर्यालोचयति—
आगमादिपरिस्पन्दसुन्दरः शब्दवक्रताम् ।
परः कामपि पुष्णाति बन्धच्छायाविधायिनीम् ॥ व्जिव्_२।१८ ॥
परो द्वितीयः प्रत्ययप्रकारः कामप्यपूर्वां शब्दवक्रतामाबध्नाति वाचकवक्रतां विदधाति ।
कीदृक्—आगमादिपरिस्पन्दसुन्दरः ।
आगमो मुमादिरादिर्यस्य स तथोक्तः, तस्यागमादेः परिस्पन्दः स्वविलसितं तेन सुन्दरः सुकुमारः ।
कीदृशीं शब्दवक्रताम्—बन्धच्छायाविधायिनीं सन्निवेशकान्तिकारिणीमित्यर्थः ।
यथा
जाने सख्यास्तव मयि मनः सम्भृतस्नेहमस्मा- दित्थम्भूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगम्मन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यद् ॥ व्जिव्च्_२।६९ ॥
यथा च
दाहो ऽम्भः प्रसृतिम्पचः इति ॥ व्जिव्च्_२।७० ॥
यथा च
पायं पायं कलाचीकृतकदलिदलम् ॥ व्जिव्च्_२।७१ ॥
इति ।
अत्र सुभगम्मन्यभावप्रभृतिषु शब्देषु मुमादिपरिस्पन्दसुन्दराः सन्निवेशच्छायाविधायिनी वाचकवक्रतां प्रत्ययाः पुष्णन्ति ।
एवं प्रसङ्गसमुचितां पदमध्यवर्तिप्रत्ययवक्रतां विचार्य समनन्तरसम्भविनीं वृत्तिवक्रतां विचारयति—
अव्ययीभावमुख्यानां वृत्तीनां रमणीयता ।
यत्रोल्लसति सा ज्ञेया वृत्तिवैचित्र्यवक्रता ॥ व्जिव्_२।१९ ॥
सा वृत्तिवैचित्र्यवक्रता ज्ञेया बोद्धव्या ।
वृत्तीनां वैचित्र्यं विचित्रभावः सजातीयापेक्षया सौकुमार्योत्कर्षस्तेन वक्रता वक्रभावविच्छित्तिः ।
कीदृशी—रमणीयता यत्रोल्लसति ।
रामणीयकं यस्यामुद्भिद्यते ।
कस्य—वृत्तीनाम् ।
कासाम्—अव्ययीभावमुक्यानाम् ।
अव्ययीभावः समासः मुख्यः प्रधानभूतो यासं तास्तथोक्तास्तासां समासतद्धितसुब्धातुवृत्तीनां वैयाकरणप्रसिद्धानाम् ।
तदयमत्रार्थः—यत्र स्वपरिस्पन्दसौन्दर्यमेतासां समुचितभित्तिभागोपनिबन्धादभिव्यक्तिमासादयति ।
यथा
अभिव्यक्तिं तावद् बहिरलभमानः कथमपि स्फुरन्नन्तः स्वत्मन्यधिकतरसम्मूर्छिततरः ।
मनोज्ञामुद्वृत्तस्मरपरिमल स्पन्दसुभगा- महो दत्ते शोभामधिमधु लतानां नवरसः ॥ व्जिव्च्_२।७२ ॥
अत्र “अधिमधु”-शब्दे विभक्त्यर्थविहितः समासः समयाभिधाय्यपि विषयसप्तमीप्रतीतिमुत्पादयन् “नवरस”-शब्दस्य श्लोषच्छायाच्छुरणवैचित्र्यमुन्मीलयति ।
एतद्वृत्तिविरहिते विन्यासान्तरे वस्तुप्रतीतौ सत्यामपि न तादृक्तद्विदाह्लादकारित्वम् ।
उद्वृत्त-परिमलस्पन्द-सुभग-शब्दनामुपचारवक्रत्वं परिस्फुरद्विभाव्यते ।
यथा च
आ स्वर्लोकादुरगनगरं नूतनालोकलक्ष्मीम्- व्यातन्वद्भिः किमिव सिततां चेष्टितैस्ते न नीतम् ।
अप्येतासां दयितविरहे विद्विषत्सुन्दरीणां यैरानीता नखपदमयी मण्डना पाण्डिमानम् ॥ व्जिव्च्_२।७३ ॥
अत्र पाण्डुत्व-पाण्डुता-पाण्डुभाव-शब्देभ्यः पाण्डिम-शब्दस्य किमपि वृत्तिवैचित्र्यवक्रत्वं विद्यते ।
यथा च
कान्त्योन्मीलति सिंहलीमुखरुचां चूर्णाभिषेकोल्लस- ल्लावण्यामृतवाहिनिर्झरजुषामाचान्तिभिश्चन्द्रमाः ।
येनापानमहोत्सवव्यतिकरेष्वेकातपत्राय्यते देवस्य त्रिदशाधिपावधिजगज्जिष्णोर्मनोजन्मनः ॥ व्जिव्च्_२।७४ ॥
अत्र सुब्धातुवृत्तेः समासवृत्तेश्च किमपि वक्रतावैचित्र्यं परिस्फुरति ।
एवं वृत्तिवक्रतां विचार्य पदपूर्वार्धभाविनीमुचितावसरां भाववक्रतां विचारयति—
साध्यतामप्यनादृत्य सिद्धत्वेनाभिधीयते ।
यत्र भावो भवेदेषा भाववैचित्र्यवक्रता ॥ व्जिव्_२।२० ॥
एषा वर्णितस्वरूपा भाववैचित्र्यवक्रता भवत्यस्ति ।
भावो धात्वर्थरूपस्तस्यै वैचित्र्यं विचित्रभावः प्रकारान्तराभिधानव्यतिरेकि रामणीयकं तेन वक्रता वक्रत्वविच्छित्तिः ।
कीदृशी—यत्र यस्यां भावः सिद्धत्वेन परिनिष्पन्नत्वेनाभिधीयते भण्यते ।
किं कृत्वा—साध्यतामप्यनादृत्य निष्पाद्यमानतां प्रसिद्धामप्यवधीर्य ।
तदिदमत्र तात्पर्यम्—यत् साध्यत्वेनाभिधानादपरिनिष्पत्तेः प्रस्तुतस्यार्थस्य दुर्बलः परिपोषः तस्मात् सिद्धत्वेनाभिधानं परिनिष्पन्नत्वात्पर्याप्तं प्रकृतार्थपरिपोषमावहति ।
यथा
श्वासायासमलीमसाधररुचेर्देः कन्दलीतानवात् केयूरायितमङ्गदैः परिणतं पाण्डिम्नि गण्डत्विषा ।
अस्याः किं च विलोचनोत्पलयुगेनात्यन्तमश्रुस्त्रुता तारं तादृगपाङ्गयोररुणितं येनोत्प्रतापः स्मरः ॥ व्जिव्च्_२।७५ ॥
अत्र भावस्य सिद्धत्वेनाभिधानमतीव चमत्कारकारि ।
एवं भाववक्रतां विचार्य प्रातिपदिकान्तर्वर्तिनीं लिङ्गवक्रतां विचारयति—
भिन्नयोर्लिङ्गयोर्यस्यां सामानाधिकरण्यतः ।
कापि शोभाभ्युदेत्येषा लिङ्गवैचित्र्यवक्रता ॥ व्जिव्_२।२१ ॥
एषा कथितस्वरूपा लिङ्गवैचित्र्यवक्रता स्त्षादिविचित्रभाववक्रताविच्छित्तिः ।
भवतीति सम्बन्धः, क्रियान्तराभावात् कीदृशी—यस्यां यत्र भिन्नयोर्विभक्तस्वरूपयोर्लिङ्गयोर्द्वयोः सामानाधिकरण्यतस्तुल्याश्रयत्वादेकद्रव्यवृत्तित्वात् काप्यपूर्वा शोभाभ्युदेति कान्तिरुल्लसति ।
यथा
यस्यारोपणकर्मणापि बहवो वीरव्रतं त्याजिताः कार्यं पुङ्खितबाणमीश्वरधनुस्तद्दोर्भिरेभिर्मया ।
स्त्रीरत्नं तदगर्भसम्भवमितो लभ्यं च लीलायिता तेनैषा मम फुल्लपङ्कजवनं जाता दृशां विंशतिः ॥ व्जिव्च्_२।७६ ॥
यथा वा
नभस्वता लासितकल्पवल्ली प्रवालबालव्यजनेन यस्य ।
उरः स्थले ऽकीर्यत दक्षिणेन सर्वास्पदं सौरभमङ्गरागः ॥ व्जिव्च्_२।७७ ॥
आयोज्य मालामृतुभिः प्रयत्न- सम्पादिताम्मंसतटे ऽस्य चक्रे ।
करारविन्दं मकरन्दबिन्दु- स्यन्दि श्रिया विभ्रमकर्णपूरः ॥ व्जिव्च्_२।७८ ॥
इयमपरा च लिङ्गवैचित्र्यवक्रता—
सति लिङ्गान्तरे यत्र स्त्रीलिङ्गं च प्रयुज्यते ।
शोभानिष्पत्तये यस्मान्नामैव स्त्रीति पेशलम् ॥ व्जिव्_२।२२ ॥
यत्र यस्यां लिङ्गान्तरे सत्यन्यस्मिन् सम्भवत्यपि लिङ्गे स्त्रीलिङ्गं प्रयुज्यते निबध्यते ।
अनेकलिङ्गत्वे ऽपि पदार्थस्य स्त्रीलिङ्गविषयः प्रयोगः क्रियते ।
किमर्थम्—शोभानिष्पत्तये कान्तिसम्पत्तये ।
कस्मात् कारणात्—यस्मान्नामैव स्त्रीति पेशलम् ।
स्त्रीत्यभिधानमेव हृदयहारि ।
विच्छित्यन्तरेण रसादिप्रयोजन योग्यत्वात् ।
उदाहरणं
यथेयं ग्रीष्मोष्मव्यतिकरवती पाण्डुरभिदा मुखोद्भिन्नम्लानानिलतरलवल्लीकिसलया ।
तटी तारं ताम्यत्यतिशशियशाः को ऽपि जलद- स्तथा मन्ये भावी भुवनवलयाक्रान्तिसुभगा ॥ व्जिव्च्_२।७९ ॥
अत्र त्रिलिङ्गत्वे सत्यपि “तट”-शब्दस्य, सौकुमार्यात् स्त्रीलिङ्गमेव प्रयुक्तम् ।
तेन विच्छिन्त्यन्तरेण भावी नायकव्यवहारः कश्चिदासूत्रित इत्यतीव रमणीयत्वाद्वक्रतामावहति ॥
इदमपरमेतस्याः प्रकारान्तरं लक्षयति—
विशिष्टं योज्यते लिङ्गमन्यस्मिन् सम्भवत्यपि ।
यत्र विछित्तये सान्या वाच्यौचित्यानुसारतः ॥ व्जिव्_२।२३ ॥
सा चोक्तस्वरूपा अन्या अपरा लिङ्गवक्रता विद्यते ।
यत्र यस्यां विशिष्टं योज्यते लिङ्गत्रयाणामेकतमं किमपि कविविवक्षया निबध्यते ।
कथम्—अन्यस्मिन् सम्भवत्यपि, लिङ्गान्तरे विद्यमाने ऽपि ।
किमर्थम्—विच्छित्तये शोभायै ।
कस्मात् कारणात्—वाच्यौचित्यानुसारतः ।
वाच्यस्य वर्ण्यमानस्य वस्तुनो यदौचित्यमुचितभावस्तस्यानुसरणमनुसारस्तस्मात् ।
पदार्थौचित्यमनुसृत्येत्यर्थः ।
यथा
त्वं रक्षसा भीरु यतो ऽपनीता तं मार्गमेताः कृपया लता मे ।
अदर्शयन् वक्तुमशक्नुवन्त्यः शाखाभिरावर्जितपल्लवाभिः ॥ व्जिव्च्_२।८० ॥
अत्र सीतया सह रामः पुष्पकेनावतरंस्तस्याः स्वयमेव तद्विरहवैधुर्यमावेदयति—तत्त्वं रावणेन तथाविधत्वरापरतन्त्रचेतसा मार्गे यस्मिन्नपनीता तत्र तदुपमर्दवशात्तथाविधसंस्थानयुक्तत्वं लतानामुन्मुखत्वं मम त्वन्मार्गानुमानस्य निमित्ततामापन्नमिति वस्तु विच्छित्त्यन्तरेण रामेण योज्यते ।
यथा—हे भीरु स्वाभाविकसौकुमार्यकातरान्तः करणे, रावणेन तथाविधक्रूरकर्मकारिणा यस्मिन्मार्गे त्वमपनीता तमेताः साक्षात्कारपरिदृश्यमानमूर्तयो लताः किल ममादर्श यन्निति ।
तन्मार्गप्रदर्शनं परमार्थतस्तासां निश्चेतनतया न सम्भाव्यत इति प्रतीयमानवृत्तिरुत्प्रेक्षालङ्कारः कवेरभिमतः ।
यथा—तव भीरुत्वं रावणस्य क्रौर्यं ममापि त्वत्परित्राणप्रयत्नपरतां पर्यालोच्य स्त्रीस्वभावादार्द्रहृदयत्वेन समुचितस्वविषयपक्षपातमाहात्म्यादेताः कृपयैव मम मार्गप्रदर्शनमकुर्वन्निति ।
केन करणभूतेन—शाखाभिरावर्जितपल्लवाभिः ।
यस्माद्वागिन्द्रियवर्जितत्वाद्वक्तुमशक्नुवन्त्यः ।
यत्किल ये केचिदजल्पन्तो मार्गप्रदर्शनं प्रकुर्वन्ति ते तदुन्मुखीभूतहस्तपल्लवैर्बाहुभिरित्येतदतीव युक्तियुक्तम् ।
तथा चात्रैव वाक्यान्तरमपि विद्यते
मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षा- स्तवागतिज्ञं समबोधयन्माम् ।
व्यापारयन्त्यो दिखि दक्षिणस्या- मुत्पक्ष्मराजीनि विलोचनानि ॥ व्जिव्च्_२।८१ ॥
हरिण्यश्च मां समबोधयन् ।
कीदृशम्—तवागतिज्ञम्, लताप्रदर्शितमार्गमजानन्तम् ।
ततस्ताः मम्यगबोधयन्निति, यतस्तास्तदपेक्षया किञ्चित्प्रबुद्धा इति ।
ताश्च कीदृश्यः—तथाविधवैशससन्दर्शनवशाद् दुःखितत्वेन परित्यक्ततृणग्रासाः ।
किं कुर्वाणाः—तस्यां दिशि नयनानि समर्पयन्त्यः ।
कीदृशानि—ऊर्ध्वोकृतपक्ष्मपङ्क्तीनि ।
तदेवं तथाविधस्थानकयुक्तत्वेन दक्षिणां दिशमन्तरिक्षेण नीतेति सञ्ज्ञया निवेदयन्त्यः ।
अत्र वृक्षमृगादिषु लिङ्गान्तरेषु सम्भवत्स्वपि स्त्रीलिङ्गमेव पदार्थौचित्यानुसारेण चेतनचमत्कारकारितया कवेरभिप्रेतम् ।
तस्मात् कामपि वक्रतामावहति ।
एवं प्रातिपदिकलक्षणस्य सुबन्तसम्भविनः पदपूर्वार्धस्य यथासम्भवं वक्रभावं विचार्येदानीमुभयोरपि सुप्तिङन्तयोर्धातुस्वरूपः पूर्वभागो यः सम्भवति तस्य वक्रतां विचारयति ।
तस्य च क्रियावैचित्र्यनिबन्धनगेव वक्रत्वं विद्यते ।
तस्मात् क्रियावैचित्र्यस्यैव कीदृशाः कियन्तश्च प्रकाराः सम्भवन्तीति तत्स्वरूपनिरूपणार्थमाह—
कर्त्तुरत्यन्तरङ्गत्वं कर्त्रन्तरविचित्रता ।
स्वविशेषणवैचित्र्यमुपचारमनोज्ञता ॥ व्जिव्_२।२४ ॥
कर्मादिसंवृतिः पञ्च प्रस्तुतौचित्यचारवः ।
क्रियावैचित्र्यवक्रत्वप्रकारास्त इमे स्मृताः ॥ व्जिव्_२।२५ ॥
क्रियावैचित्र्यवक्रत्वप्रिकारा धात्वर्थविचित्रभाववक्रताप्रभेदास्त इमे स्मृता वर्ण्यमानस्वरूपाः कीर्तिताः ।
कियन्तः पञ्च पञ्चसङ्ख्याविशिष्टाः ।
कीदृशाः—प्रस्तुतौचित्यचारवः ।
प्रस्तुतं वर्ण्यमानं वस्तु तस्य यदौचित्यमुचितभावस्तेन चारवो रमणीयाः ।
तत्र प्रथमस्तावत् प्रकारो यत्—कर्तुरत्यन्तरङ्गत्वं नाम ।
कर्तुः स्वतन्त्रतया मुख्यभूतस्य कारकस्य क्रियां प्रति निर्वर्तयितुर्यदत्यन्तरङ्गत्वम् अत्यन्तमान्तरतम्यम् ।
यथा
चूडारत्ननिषण्णदुर्वहजगद्भारोन्नमत्कन्धरो धत्तामुद्धुरतामसौ भगवतः शेषस्य मूर्धा परम् ।
स्वैरं संस्पृशतीषदप्यवनतिं यस्मिन् लुठन्त्यक्रमं शून्ये नूनमियन्ति नाम भुवनान्युद्दामकम्पोत्तरम् ॥ व्जिव्च्_२।८२ ॥
अत्रोद्धुरता धारणलक्षणक्रिया कर्तुः फणीश्वरमस्तकस्य प्रस्तुतौचित्यमाहात्म्यादन्तर्भावं यथा भजते तथा नान्या काचिदिति क्रियावैचित्र्यवक्रतामावहति ।
यथा वा
किं शोभिताहमनयेति पिनाकपाणेः पृष्टस्य पातु परिचुम्बनमुत्तर वः ॥ व्जिव्च्_२।८३ ॥
अत्र चुम्बनव्यतिरेकेण भगवता तथाविधलोकोत्तरगौरी शोभातिशयाभिधानं न केनचित् क्रियान्तरेण कर्तुं पार्यत इति क्रियावैचित्र्यनिबन्धनं वक्रभावमावहति ।
यथा च
रुद्दस्स तैअणअणं पव्वैपरिचुम्बिअं जऐ ॥ व्जिव्च्_२।८४ ॥
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥
इति छाया ।
यथा वा सिढिलिअचाओ जऐ मअरद्धओ ॥ व्जिव्च्_२।८५ ॥
शिथिलीकृतचापो जयति मकरध्वजः ॥
इति छाया ।
एतयोर्वैचित्र्यं पूर्वमेव व्याख्यातम् ।
अयमपरः क्रियावैचित्र्यवक्रतायाः प्रकारः—कर्त्रन्तरविचित्रता ।
अन्यः कर्ता कर्त्रन्तरं तस्माद्विचित्रता वैचित्र्यम् ।
प्रस्तुतत्वात् सजातीयत्वाच्च कर्तुरेव ।
एतदेव च तस्य वैचित्र्यं यद् क्रियामेव कर्त्रन्तरापेक्षया विचित्रस्वरूपां सम्पादयति ।
यथा
नैकत्र शक्तिविरतिः क्वचिदस्ति सर्वे भावाः स्वभावपरिनिष्ठिततारतम्याः ।
आकल्पमौर्वदहनेन निपीयमान- मम्भोधिमेकचुलकेन पपावगस्त्यः ॥ व्जिव्च्_२।८६ ॥
अत्रैकचुलकेनाम्भोधिपानं सतताध्यवसायाभायासकाष्ठाधिरूढिप्रौढत्वाद्वाडवाग्नेः किमपि क्रियावैचित्र्यमुद्वहत् वक्रतामुन्मीलयति ।
यथा वा
प्रपन्नार्तिच्छिदो नखाः ॥ व्जिव्च्_२।८७ ॥
यथा वा
स दहतु दुरितं शाम्भवो वः शराग्निः ॥ व्जिव्च्_२।८८ ॥
एतयोर्वैचित्र्यं पूर्वमेव प्रदर्शितम् ।
अयमन्यः क्रियावैचित्र्यवक्रातायाः प्रभेदः—स्वविशेषणवैचित्र्यम् ।
मुख्यतया प्रस्तुतत्वात् क्रियायाः स्वस्यात्मनो यद् विशेषणं भेदकं तेन वैचित्र्यं विचित्रभावः ।
यथा—
इत्युद्गते शशिनि पेशलकान्तिदूती- संलापसंवलितलोचनमानसाभिः ।
अग्राहि मण्डनविधिर्विपरीतभूषा- विन्यासहासितसखीजनमङ्गनाभिः ॥ व्जिव्च्_२।८९ ॥
अत्र मण्डनविधिग्रहणलक्षणायाः क्रियाया विपरीतभूषाविन्यासहासितसखीजनमिति विशेषणेन किमपि सौकुमार्यमुन्मीलितम् ।
यस्मात्तथाविधादरोपरचितं प्रसाधनं यस्य व्यञ्जकत्वेनोपात्तं मुख्यतया वर्ण्यमानवृत्तेर्वल्लभानुरागस्य सो ऽप्यनेन सुतरां समुत्तेजितः ।
यथा वा
मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः ॥ व्जिव्च्_२।९० ॥
अस्य वैचित्र्यं पूर्वमेवोदितम् ।
एतच्च क्रियाविशेषणं द्वयोरपि क्रियाकारकयोर्वक्रत्वमुल्लासयति ।
यस्माद्विचित्रक्रियाकारित्वमेव कारकवैचित्र्यम् ।
इदमपरं क्रियावैचित्र्यवक्रतायाः प्रकारान्तरम्—उपचारमनोज्ञता ।
उपचारः सादृश्यादिसमन्वयं समाश्रित्य धर्मान्तराध्यारोपस्तेन मनोज्ञता वक्रत्वम् ।
यथा
तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च ।
दृशोर्लोलारम्भाः स्फुटमपवदन्ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥ व्जिव्च्_२।९१ ॥
अत्र स्खलदमललावण्यजलधौ समुल्लसद्विमलसौन्दर्यसम्भारसिन्धौ परिस्फुरपरिस्पन्दतया प्लवमानत्वेन लक्ष्यमाणानि पारप्राप्तिमासादयितुं व्यवस्यन्तीवेति चेतनपदार्थसम्भविसादृश्योपचारात्तारुण्यतरलतरुणीगात्राणां तरणमुत्प्रेक्षितम् ।
उत्प्रेक्षायाश्चोपचार एव भूयसा जीवितत्वेन परिस्फुरतीत्युत्प्रेक्षावसर एव विचारयिष्यते ।
प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च (इति)-अत्र स्तनजघनं कर्तृ प्रथिम्नः प्रागल्भ्यं महत्त्वस्य प्रौढिमुन्मुद्रयत्युन्मीलयति ।
यथा कश्चिच्चेतनः किमपि रक्षणीयं वस्तु मुद्रयित्वा कमपि समयमवस्थाप्य समुचितोपयोगावसरे स्वयमुन्मुद्रयत्युद्धाटयति, तदेवं तत्कारित्वसाम्यात् स्तनजघनस्योन्मुद्रणमुपरितम् ।
तदिदमुक्तं भवति यद् तदेव शैशवदशायां शक्त्यात्मना विमीलितस्वरूपमनवस्थितमासीत्, तस्य प्रथिम्नः प्रागल्भ्यस्य प्रथमतरतारुण्यावतारावसरसमुचितं प्रथनप्रसरं समर्पयति ।
दृशोर्लोलारम्भाः स्फुटमपवदन्ते सरलताम् (इति)—अत्र शैशवप्रतिष्ठितां स्पष्टतां प्रकटमेवापसार्य दृशोर्विलासोल्लासाः कमपि नवयौवनसमुचितं विभ्रममधिरोपयन्ति ।
यथा केचिच्चेतनाः कुत्रचिद्विषये कमपि व्यवहारं समासादितप्रसरमपसार्य किमपि स्वाभिप्रायाभिमतं परिस्पन्दान्तरं प्रतिष्ठापयन्तीति तत्कारित्वसादृश्याल्लीलावतीलोचनविलासोल्लासानां सरलत्वापवदनमुपचरितम् ।
तदेवंविधेनोपचारेणैतास्तिस्त्रो ऽपि वक्रताप्रकाराः प्रतिपदं सम्भवन्तीत्यवसरान्तरे विचार्यन्ते ।
इदमपरं क्रियावैचित्र्यवक्रतायाः प्रकारान्तरम्–कर्मादिसंवृतिः ।
कर्मप्रभृतीनां कारकाणां संवृतिः संवरणम्, प्रस्तुतौचित्यानुसारेण सातिशयप्रतीतये समाच्छाद्याभिधा ।
सा च क्रियावैचित्र्यकारित्वात् प्रकारत्वेनाभिधीयते ।
कारणे कार्योपचाराद् यथा—
नेत्रान्तरे मधुरमर्पयतीव किञ्चित् कर्णान्तिके कथयतीव किमप्यपूर्वम् ।
अन्तः समुल्लिखति किञ्चिदिवासिताक्ष्या रागालसे मनसि रम्यपदार्थलक्ष्मीः ॥ व्जिव्च्_२।९२ ॥
अत्र तदनुभवैकगोचरत्वादनाख्येयत्वेन किमपि सातिशयं प्रतिपदं कर्म सम्पादयन्त्यः क्रियाः स्वात्मनि कमपि वक्रभावमुद्भावयन्ति ।
उपचारमनोज्ञताप्यत्र विद्यते ।
यस्मादर्पणकथनोल्लेखनान्युपचारनिबन्धनान्येव चेतनपदार्थधर्मत्वात् ।
यथा च—
नृत्तारम्भाद्विरतरभसस्तिष्ठ तावन्मुहूर्तं यावन्मौलौ श्लथमचलतां भूषणं ते नयामि ।
इत्याख्याय प्रणयमधुरं कान्तया योज्यमाने चूडाचन्द्रे जयति सुखिनः को ऽपि शर्वस्य गर्वः ॥ व्जिव्च्_२।९३ ॥
अत्र “को ऽपि” इत्यनेन सर्वनामपदेन तदनुभवैकगोचरत्वादव्यपदेश्यत्वेन सातिशयः शर्वस्य गर्व इति कर्तृसंवृतिः ।
जयति सर्वोत्कर्षेण वर्तते इति क्रियावैचित्र्यनिबन्धनम् ।
इत्ययं पदपूर्वार्धवक्रभावो व्यवस्थितः ।
दिङ्मात्रमेवमेतस्य शिष्टं लक्ष्ये निरूप्यते ॥ व्जिव्च्_२।९४ ॥
इति सङ्ग्रहश्लोकः ।
तदेवं सुप्तिङन्तयोर्द्वयोरपि पदपूर्वार्धस्य प्रातिपदिकस्य धातोश्च यथायुक्ति वक्रतां विचार्येदानीं तयोरेव यथास्वमपरार्धस्य प्रत्ययलक्षणस्य वक्रतां विचारयति ।
तत्र क्रियावैचित्र्यवक्रातायाः समनन्तरसम्भविनः क्रमसमन्वितत्वात् कालस्य वक्रत्वं पर्यालोच्यते, क्रियापरिच्छेदकत्वात्तस्य ।
औचित्यान्तरतम्येन समयो रमणीयताम् ।
याति यत्र भवत्येषा कालवैचित्र्यवक्रता ॥ व्जिव्_२।२६ ॥
एषा प्रक्रान्तस्वरूपा भवत्यस्ति कालवैचित्र्यवक्रता ।
कालो वैयाकरणादिप्रसिद्धो वर्तमानादिर्लट्प्रभृतिप्रत्ययवाच्यो यः पदार्थानामुदयतिरोधानविधायी, तस्य वैचित्र्यं विचित्रभावस्तथाविधत्वेनोपनिबन्धस्तेन वक्रता वक्रत्वविच्छित्तिः ।
कीदृशी—यत्र यस्यां समयःकालाख्यो रमणीयतां याति रामणीयकं गच्छति ।
केन हेतुना–औचित्यान्तरतम्येन ।
प्रस्तुतत्वात्प्रस्तावाधिकृतस्य वस्तुनो यदौचित्यमुचितभावस्तस्यान्तरतम्येनान्तरङ्गत्वेन, तदतिशयोत्पादकत्वेनेत्यर्थः ।
यथा
समविसमणिव्विसेसा समन्तओ मन्दमन्दसञ्चारा ।
ऐरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घा ॥ व्जिव्च्_२।९५ ॥
समविषमनिर्विशेषाः समन्ततो मन्दमन्दसञ्चाराः ।
अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लङ्घ्याः ॥
इति छाया ।
अत्र वल्लभाविरहवैधुर्यकातरान्तः करणेन भाविनः समयस्य सम्भावनानुमानमहात्म्यमुत्प्रेक्ष्य उद्दीपनविभावत्वविभवविलसितं तत्परिस्पन्दसौन्दर्यसन्दर्शनासहिष्णुना किमपि भयविसंष्ठुलत्वमनुभूय शङ्काकुलत्वेन केनचिदेतदभिधीयते—यदचिराद् भविष्यन्ति पन्थानो मनोरथानामप्यलङघनीया इति भविष्यत्कालाभिधायी प्रत्ययः कामपि परार्धवक्रतां विकासयति ।
यथा वा
यावत्किञ्चिदपूर्वमार्द्रमनसामावेदयन्तो नवाः सौभाग्यातिशयस्य कामपि दशां गन्तुं व्यवस्यन्त्यमी ।
भावास्तावदनन्यजस्य विधुरः को ऽप्युद्यमो जृम्भते पर्याप्ते मधुविभ्रमे तु किमयं कर्तेति कम्पामहे ॥ व्जिव्च्_२।९६ ॥
अत्र व्यवस्यन्ति जृम्भते कर्ता कम्पामहे चेति प्रत्ययाः प्रत्येकं प्रतिनियतकालाभिधायिनः कामपि पदपरार्धवक्रतां प्रख्यापयन्ति ।
तथा च–प्रथमतरावतीर्णमधुसमयसौकुमार्यसमुल्लसितसुन्दरपदाथ्रसार्थसमुन्मेषसमुद्दीपितसहजविभवविलसितत्वेन मकरकेतोर्मनाङ्मात्रमाधवसामर्थ्य समुल्लसितातुलशक्तेः सरसहृदयविधुरताविधायी को ऽपि संरम्भः समुज्जृम्भते ।
तस्मादनेनानुमानेन पुनः परं परिपोषमधिरोहति ।
कुसुमाकरविभवविभ्रमे मानिनीमानदलनदुर्ललितसमुदितसहजसौकुमार्यसम्पत्सञ्जनितसमुचितजिगीषावसरः किमसौ विधास्यतीति विकल्पयन्तस्तत्कुसुमशरनिकरनिपातकातरान्तः करणाः किमपि कम्पामहे चकितचेतसः सम्पद्यामह इति प्रियतमाविरहविधुरचेतसः सरसहृदयस्य कस्यचिदेतदभिधानम् ।
एवं कालवक्रतां विचार्य क्रमसमुचितावसरां कारकवक्रतां विचारयति—
यत्र कारकसामान्यं प्राधान्येन निबध्यते ।
तत्त्वाध्यारोपणान्मुख्यगुणभावाभिधानतः ॥ व्जिव्_२।२७ ॥
परिपोषयितुं काञ्चिद् भङ्गीभणितिरम्यताम् ।
कारकाणां विपर्यासः सोक्ता कारकवक्रता ॥ व्जिव्_२।२८ ॥
सोक्ता कारकवक्रता सा कारकवक्रत्वविच्छित्तिरभिहिता ।
कीदृशी—यत्र यस्यां कारकाणां विपर्यासः साधनानां विपरिवर्तनम्, गौणमुख्ययोरितरेतरत्वापत्तिः ।
कथम्—यत् कारकसामान्यं मुख्यापेक्षया करणादि तत् प्राधान्येन निबध्यते मुख्यभावेन प्रयुज्यते ।
कया युक्त्या तत्त्वाध्यारोपणात् ।
तदिति मुख्यपरामर्शः, तस्य भावस्तत्त्वं तदध्यारोपणात् मुख्यगुणभावाभिधानतः ।
मुख्यस्य यो गुणभावस्तदभिधानादमुख्यत्वेनोपनिबन्धादित्यर्थः ।
किमर्थम्—परिपोषयितुं काञ्चिद् भङ्गीभणितिरम्यताम् ।
काञ्चिदपूर्वां विच्छित्युक्तिरमणीयतामुल्लासयितुम् ।
तदेवमचेतनस्यापि चेतनसभविस्वातन्त्र्यसमर्पणादमुख्यस्य करणादेर्वा कर्तृत्वाध्यारोपणाद्यत्र कारकविपर्यासश्चमत्कारकारी सम्पद्यते ।
यथा
याञ्चां दैन्यपरिग्रहप्रणयिनीं नेक्ष्वाकवः शिक्षिताः सेवासंवलितः कदा रघुकुले मौलौ निबद्धो ऽञ्जलिः ।
सर्वं तद्विहितं तथाप्युदधिना नैवोपरोधः कृतः पाणिः सम्प्रति मे हठात् किमपरं स्प्रष्टुं धनुर्धावति ॥ व्जिव्च्_२।९७ ॥
अत्र पाणिना धनुर्ग्रहीतुमिच्छामीति वक्तव्ये पाणेः करणभूतस्य कर्तृत्वाध्यारोपः कामपि कारकवक्रतां प्रतिपद्यते ।
यथा वा
स्तनद्वन्द्वम् इत्यादौ ॥ व्जिव्च्_२।९८ ॥
यथा वा
निष्पर्यायनिवेशपेशलरसैरन्योन्यनिर्भर्त्सिभिर् हस्ताग्रैर्युगपन्नपत्य दशभिर्वामैर्धृतं कार्मुकम् ।
सव्यानां पुनरप्रथीयसि विधावस्मिन् गुणारोपणे मत्सेवाविदुषामहम्प्रथमिका काप्यम्बरे वर्तते ॥ व्जिव्च्_२।९९ ॥
अत्र पूर्वंवदेव कर्तृत्वाध्यारोपनिबन्धनं कारकवक्रत्वम् ।
यथा वा
बद्धस्पर्द्ध इति ॥ व्जिव्च्_२।१०० ॥
एवं कारकवक्रतां विचार्य क्रमसमन्वितां सङ्ख्यावक्रतां विचारयति, तत्परिच्छेदकत्वात् सङ्ख्यायाः—
कुर्वन्ति काव्यवैचित्र्यविवक्षापरतन्त्रिताः ।
यत्र सङ्ख्याविपर्यासं तां सङ्ख्यावक्रतां विदुः ॥ व्जिव्_२।२९ ॥
यत्र यस्यां कवयः काव्यवैचित्र्यविवक्षापरतन्त्रिताः स्वकर्मविचित्रभावाभिधित्सापरवशाः सङ्ख्याविपर्यासं वचनविपरिवर्तनं कुर्वन्ति विदधते तां सङ्ख्यावक्रतां विदुः तद्वचनवक्रत्वं जानन्ति तद्विदः ।
तदयमत्रार्थः—यदेकवचने द्विवचने प्रयोक्तव्ये वैचित्र्यार्थं वचनान्तरं यत्र प्रयुज्यते, भिन्नवचनयोर्वा यत्र सामानाधिकरण्यं विधीयते ।
यथा
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निश्वासैरयममृतहृद्यो ऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ व्जिव्च्_२।१०१ ॥
अत्र “न त्वहम्” इति वक्तव्ये, “न तु वयम्” इत्यनन्तरङ्गत्वप्रतिपादनार्थं ताटस्थ्यप्रतीतये बहुवचनं प्रयुक्तम् ।
यथा वा
वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ व्जिव्च्_२।१०२ ॥
अत्रापि पूर्ववदेव ताटस्थ्यप्रतीतिः ।
यथा वा
फुल्लेन्दीवरकाननानि नयने पाणी सरोजाकराः ॥ व्जिव्च्_२।१०३ ॥
अत्र द्विवचनबहुवचनयोः सामानाधिकरण्यलक्षणः सङ्ख्याविपर्यासः सहृदयहृदयहारितामावहति ।
यथा वा
शास्त्राणि चक्षुर्नवम् इति ॥ व्जिव्च्_२।१०४ ॥
अत्र पूर्ववदेवैकवचनबहुवचनयोः सामानाधिकरण्यं वैचित्र्यविधायि ।
एवं सङ्ख्यावक्रतां विचार्य तद्विषयत्वात् पुरुषाणां क्रमसमर्पितावसरां पुरुषवक्रतां विचारयति—
प्रत्यक्ता परभावश्च विपर्यासेन योज्यते ।
यत्र विच्छित्तये सैषा ज्ञेया पुरुषवक्रता ॥ व्जिव्_२।३० ॥
यत्र यस्यां प्रत्यक्ता निजात्मभावः परभावश्च अन्यत्वमुभ्यमप्येतद्विपर्यासेन योज्यते विपरिवर्तनेन निबध्यते ।
किमर्थम्—विच्छित्तये वैचित्र्याय ।
सैषा वर्णितस्वरूपा ज्ञेया ज्ञातव्या पुरुषवक्रता पुरुषवक्रत्वविच्छित्तिः ।
तदयमत्रार्थः—यदन्यस्मिन्नुत्तमे मध्यमे वा पुरुषे प्रयोक्तव्ये वैचित्र्यायान्यः कदाचित् प्रथमः प्रयुज्यते ।
तस्माच्च पुरुषैकयोगक्षेमत्वादस्मादादेः प्रातिपदिकमात्रस्य च विपर्यासः पर्यवस्यति ।
यथा
कौशाम्बीं परिभूय नः कृपणकैर्विद्वेषिभिः स्वीकृतां जानाम्येव तथा प्रमादपरतां पत्युर्नयद्वेषिणः ।
स्त्रीणां च प्रियविप्रयोगविधुरं चेतः सदैवात्र मे वक्तुं नोत्सहते मनः परमतो जानातु देवी स्वयम् ॥ व्जिव्च्_२।१०५ ॥
अत्र “जानातु देवी स्वयम्” इति युष्मदि मध्यमपुरुषे प्रयोक्तव्ये प्रातिपदिकमात्रप्रयोगेण वक्तुस्तदशक्यानुष्ठानतां मन्यमानस्यौदासीन्यप्रतीतिः ।
तस्याश्च प्रभुत्वात् स्वातन्त्र्येण हिताहितविचारपूर्वकं स्वयमेव कर्तव्यार्थप्रतिपत्तिः कमपि वाक्यवक्रभावमावहति ।
यस्मादेतदेवास्य वाक्यस्य जीवितत्वेन परिस्फुरति ।
एवं पुरुषवक्रतां विचार्य पुरुषाश्रयत्वादात्मनेपदपरस्मैपदयोरुचितावसरां वक्रतां विचारयति ।
धातूनां लक्षणानुसारेण नियतपदाश्रयः प्रयोगः पूर्वाचार्याणाम् “उपग्रह”-शब्दाभिधेयतया प्रसिद्धः ।
तस्मात्तदभिधानेनैव व्यवहरति—
पदयोरुभयोरेकमौचित्याद् विनियुज्यते ।
शोभायै यत्र जल्पन्ति तामुपग्रहवक्रताम् ॥ व्जिव्_२।३१ ॥
तामुक्तस्वरूपामुपग्रहवक्रतामुपग्रहवक्रत्वविच्छित्तिं जल्पन्ति कवयः कथयन्ति ।
कीदृशी—यत्र यस्यां पदयोरुभयोर्मध्यादेवकमात्मनेपदं परस्मैपदं वा विनियुज्यते विनिबध्यते नियमेन ।
कस्मात्कारणात्—औचित्यात् ।
वर्ण्यमानस्य वस्तुनो यदौचित्यमुचितभावस्तस्मात्, तं समाश्रित्येत्यर्थः ।
किमर्थम्—शोभायै विच्छित्तये ।
यथा
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तमेत्य बिभिदे निबिडो ऽपि मुष्टिः ।
त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि ॥ व्जिव्च्_२।१०६ ॥
अत्र राज्ञः सुललितविलासवतीलोचनविलासेषु स्मरणगोचरमवतरत्सु तत्परायत्तचित्तवृत्तेराङ्गिकप्रयत्नपरिस्पन्दविनिवर्तमानो मुष्टिर्बिभिदे भिद्यते स्म ।
स्वयमेवेति कर्मकर्तृनिबन्धनमात्मने पदमतीव चमत्कारकारिणीं कामपि वाक्यवक्रतामावहति ।
एवमुपग्रहवक्रतां विचार्य तदनुसम्भविनीं प्रत्ययान्तरवक्रतां विचारयति—
विहितः प्रत्ययादन्यः प्रत्ययः कमनीयताम् ।
यत्र कामपि पुष्णाति सान्या प्रत्ययवक्रता ॥ व्जिव्_२।३२ ॥
सान्या प्रत्ययवक्रता सा समाम्नातरूपादन्यापरा काचित् प्रत्ययवक्रत्वविच्छित्तिः ।
अस्तीति सम्बन्धः ।
यत्र यस्यां प्रत्ययः कामप्यपूर्वां कमनीयतां रम्यतां पुष्णाति पुष्यति ।
कीदृशः—प्रत्ययात् तिङादेर्विहितः पदत्वेन विनिर्मितो ऽन्यः कश्चिदिति ।
यथा
लीनं वस्तुनि येन सूक्ष्मसुभगं तत्त्वं गिरा कृष्यते निर्मातुं प्रभवेन्मनोहरमिदं वाचैव यो वा बहिः ।
वन्दे द्वावपि तावहं कविवरौ वन्देतरां तं पुनर्- यो विज्ञातपरिश्रमो ऽयमनयोर्भारावतारक्षमः ॥ व्जिव्च्_२।१०७ ॥
“वन्देतराम्” इत्यत्र कापि प्रत्ययवक्रता कवेश्चेतसि परिस्फुरति ।
ततएव “पुनः”-शब्दः पूर्वस्माद्विशेषाभिधायित्वेन प्रयुक्तः ।
एवं नामाख्यातस्वरूपयोः पदयोः प्रत्येकं प्रकृत्याद्यवयवविभागद्वारेण यथासम्भवं वक्रभावं विचार्येदानीमुपसर्गनिपातयोरव्युत्पन्नत्वादसम्भवद्विभक्तिकत्वाच्च निरस्तावयवत्वे सत्यविभक्तयोः साकल्येन वक्रतां विचारयति—
रसादिद्योतनं यस्यामुपसर्गनिपातयोः ।
वाक्यैकजीवितत्वेन सापरा पदवक्रता ॥ व्जिव्_२।३३ ॥
सापरा पदवक्रता—सा समर्पितस्वरूपापरा पूर्वोक्तव्यतिरिक्ता पदवकत्वविच्छित्तिः ।
अस्तीति सम्बन्धः ।
कीदृशी—यस्यां वक्रतायामुपसर्गनिपातयोर्वैयाकरणप्रसिद्धाभिधानयोः रसादिद्योतनं शृङ्गारप्रभृतिप्रकाशनम् ।
कथम्—वाक्यैकजीवितत्वेन ।
वाक्यस्य श्लोकादेरेकजीवितं वाक्यैकजीवितं तस्य भावस्तत्त्वं तेन ।
तदिदमुक्तं भवति—यद्वाक्यस्यैकस्फुरितभावेन परिस्फुरति यो रसादिस्तत्प्रकाशनेनेत्यर्थः ।
यथा
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥ व्जिव्च्_२।१०८ ॥
अत्र रघुपतेस्तत्कालज्वलितोद्दीपनविभावसम्पत्समुल्लासितः सम्भ्रमो निश्चितजनितजानकीविपत्तिसम्भावनस्तत्परित्राणकरणोत्साहकारणतां प्रतिपद्यमानस्तेदेकाग्रतोल्लिखितसाक्षात्कारस्तदाकारतया विस्मृतविप्रकर्षः प्रत्यग्ररसपरिस्पन्दसुन्दरो निपातपरम्पराप्रतिपाद्यमानवृत्तिर्वाक्यैकजीवितत्वेन प्रतिभासमानः कामपि वाक्यवक्रतां समुन्मीलयति ।
तु-शब्दस्य च वक्रभावः पूर्वमेव व्याख्यातः ।
यथा वा
अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्- भवितव्यं च निरातपत्वरम्यैः ॥ व्जिव्च्_२।१०९ ॥
अत्र द्वयोः परस्परं सुदुःसहत्वोद्दीपनसामर्थ्यसमेतयोः प्रियाविरहवर्षाकालयोस्तुल्यकालत्वप्रतिपादनपरं “च”-शब्दद्वितयं समसमयसमुल्लसितवह्निदाहदक्षदक्षिणवातव्यजनसमानतां समर्थयत् कामपि वाक्यवक्रतां समुद्दीपयति ।
“सु” -“दुः”-शब्दाभ्यां च प्रियाविरहस्याशक्यप्रतीकारता प्रतीयते ।
यथा च
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ व्जिव्च्_२।११० ॥
अत्र नायकस्य प्रथमाभिलाषविवशवृत्तेरनुभवस्मृतिसमुल्लिखिततत्कालसमुचिततद्वदनेन्दुसौन्दर्यस्य पूर्वमपरिचुम्बन स्खलितसमुद्दीपितपश्चात्तापदशावेश द्योतनपरः “तु”-शब्दः कामपि वाक्यवक्रतामुत्तेजयति ।
एतदुत्तरत्र प्रत्ययवक्रत्वमेवंविधप्रत्ययान्तरवक्रभावान्तर्भूतत्वात् पृथक्त्वेन नोक्तमिति स्वयमेवोत्प्रेक्षणीयम् ।
यथा
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विषणोः ॥ व्जिव्च्_२।१११ ॥
अत्र “अतितराम्” इत्यतीव चमत्कारकारि ।
एवमन्येषामपि सजातीयलक्षणद्वारेण लक्षणनिष्पत्तिः स्वयमनुसर्तव्या ।
तदेवमियमनेकाकारा वक्रत्वविच्छित्तिश्चतुर्विधपदविषया वावयैकदेशजीवितत्वेनापि परिस्फुरन्ती सकलवाक्यवैचित्र्यनिबन्धनतामुपयाति ।
वक्रतायाः प्रकाराणामेको ऽपि कविकर्मणः ।
तद्विदाह्लादकारित्वहेतुतां प्रतिपद्यते ॥ व्जिव्च्_२।११२ ॥
इत्यन्तरश्लोकः ।
यद्येवमेकस्यापि वक्रताप्रकारस्य यदेवंविधो महिमा, तदेते बहवः सम्पतिताः सन्तः किं सम्पादयन्तीत्याह—
परस्परस्य शोभायै बहवः पतिताः क्वचित् ।
प्रकारा जनयन्त्येतां चित्रच्छायामनोहराम् ॥ व्जिव्_२।३४ ॥
क्वचिदेकस्मिन् पदमात्रे वाक्ये वा वक्रताप्रकारा वक्रत्वप्रभेदा बहवः प्रभूताः पतिताः कविप्रतिभामाहात्म्यसमुल्लसिताः ।
किमर्थम्—परस्परस्य शोभायै, अन्योन्यस्य विच्छित्तये ।
एतामेव चित्रच्छायामनोहरामनेकाकारकान्तिरमणीयां वक्रतां जनयन्त्युत्पादयन्ति ।
यथा
तरन्तीव इति ॥ व्जिव्च्_२।११३ ॥
अत्र क्रियापदानां त्रयाणामपि प्रत्येकं त्रिप्रकारं वैचित्र्यं परिस्फुरति—क्रियावैचित्र्यं कारकवैचित्र्यं कालवैचित्र्यं च ।
प्रथिमस्तन-जघन-तरुणिम्नां त्रयाणामपि वृत्तिवैचित्र्यम् ।
लावण्यजलधि-प्रगल्भ्य-सरलता-परिचय-शब्दानामुपचारवैचित्र्यम् ।
तदेवमेते बहवो वक्रताप्रकारा एकस्मिन् पदे वाक्ये वा सम्पतिताश्चित्रच्छायामनोहरामेतामेव चेतनचमत्कारकारिणीं वाक्यवक्रतामावहन्ति ।
एवं नामाख्यातो पसर्गनिपातलक्षणस्य चतुर्विधस्यापि पदस्य यथासम्भवं वक्रताप्रकारान् विचार्येदानीं प्रकरणमुपसंहृत्यान्यदवतारयति—
वाग्वल्ल्याः पदपल्लवास्पदतया या वक्रतोद्भासिनी विच्छित्तिः सरसत्वसम्पदुचिता काप्युज्ज्वला जृम्भते ।
तामालोच्य विदग्धषट्पदगणैर्वाक्यप्रसूनाश्रयं स्फारामोदमनोहरं मधु नवोत्कण्ठाकुलं पीयताम् ॥ व्जिव्_२।३५ ॥
वागेव वल्ली वाणीलता तस्याः काप्यलौकिकी विच्छित्तिर्जृस्भते शोभा समल्लसति ।
कथम्—पदपल्लवास्पदतया ।
पदान्येव पल्लवानि सुप्तिङन्तान्येव पत्राणि तदास्पदतया तदाश्रयत्वेन ।
कीदृशी विच्छित्तिः—सरसत्वसम्पदुचिता, रसवत्त्वातिशयोपपन्ना ।
किंविशिष्टा च—वक्रतया वक्रभावेनोद्भासते भ्राजते या सा तथोक्ता ।
कीदृशी—उज्ज्वला, छायातिशयरमणीया ।
तामेवंविधामालोच्य विचार्य विदग्धषट्पदगणैर्विबुधषट्चरणचक्रैर्मधु पीयतां मकरन्द आस्वाद्यताम् ।
कीदृशम्—वाक्यप्रसूनाश्रयम् ।
वाक्यान्येव पदसमुदायरूपाणि प्रसूनानि पुष्पाण्याश्रयः स्थानं यस्य तत्तथोक्तम् ।
अन्यच्च कीदृशम्—स्फारामोदमनोहरम् ।
स्फारः स्फीतो यो ऽसावामोदस्तद्धर्मविशेषस्तेन मनोहरं हृदयहारि ।
कथमास्वाद्यताम्–नवोत्कण्ठाकुलं नूतनोत्कलिकाव्यग्रम् ।
मधुकरसमूहाः खलु वल्ल्याः प्रथमोल्लसितपल्लवोल्लेखमालोच्य प्रतितचेतसःसमनन्तरोद्भिन्नवस्तु सुकुमारकुसुममकरन्दपानमहोत्सवमनुभवन्ति ।
तद्वदेव सहृदयाः पदास्पदं कामपि वक्रताविच्छित्तिमालोच्य नवोत्कलिकाकलितचेतसो वाक्याश्रयं किमपि वक्रताजीवितसर्वस्वं विचारयन्त्विति तात्पर्यार्थः ।
अत्रैकत्र सरसत्वं स्वसमयसम्भवि रसार्द्रत्वम्, अन्यत्र शृङ्गारादिव्यञ्जकत्वम् ।
वक्रतैकत्र बालेन्दुसुन्दरसंस्थानयुक्तत्वम्, इतरत्र रूढ्यादिवैचित्र्यम् ।
विच्छित्तिरेकत्र सुविभक्तपत्रत्वम्, अन्यत्र कविकौशलकमनीयता ।
उज्ज्वलत्वमेकत्र पर्णच्छायातिशय युक्तत्वम् अपरत्र सन्निवेशसौन्दर्यसमुदयः ।
आमोदः पुष्पेषुसौरभम्, वाक्येषु तद्विदाह्लादकारिता ।
मधु कुसुमेषु मकरन्दः, वाक्येषु सकलकाव्यकारणकलाप सम्पत्समुदय इति ।
इति श्रीराजानककुन्तकविरचिते वक्रोक्तिजीविते काव्यालङ्कारे द्वितीय उन्मेषः ।
====================================================================