१ प्रथमोन्मेषः

जगत्त्रितयवैचित्र्यचित्रकर्मविधायिनम् ।
शिवं शक्तिपरिस्पन्दमात्रोपकरणं नुमः ॥ व्जिव्च्_१।१ ॥
यथातत्त्वं विवेच्यन्ते भावास्त्रैलोक्यवर्तिनः ।
यदि तन्नाद्भुतं नाम दैवरक्ता हि किंशुकाः ॥ व्जिव्च्_१।२ ॥
स्वमनीषिकयैवाथ तत्त्वं तेषां यथारुचि ।
स्थाप्यते प्रौढिमात्रं तत्परमार्थो न तादृशः ॥ व्जिव्च्_१।३ ॥
इत्यसत्तर्कसन्दर्भे स्वतन्त्रे ऽप्यकृतादरः ।
साहित्यार्थसुधासिन्धोः सारमुन्मीलयाम्यहम् ॥ व्जिव्च्_१।४ ॥
येन द्वितयमप्येतत्तत्त्वनिर्मितिलक्षणम् ।
तद्विदामद्भुतामोदचमत्कारं विधास्यति ॥ व्जिव्च्_१।५ ॥

ग्रन्थारम्भे ।
अभिमतदेवतानमस्कारकरणं समाचारः, तस्मात्तदेव तावदुपक्रमते—


वन्दे कवीन्द्रवक्त्रेन्दुलास्यमन्दिरनर्तकीम् ।
देवीं सूक्तिपरिस्पन्दसुन्दराभिनयोज्ज्वलाम् ॥ व्जिव्_१।१ ॥

इति ।
देवीं वन्दे देवतां स्तौमि ।
कामित्याह—कवीन्द्रवक्त्रेन्दुलास्यमन्दिरनर्तकीम् ।
कवीन्द्राः कविप्रवरास्तेषां वक्त्रेन्दुर्मुखचन्द्रः स एव लास्यमन्दिरं नाट्यवेश्म तत्र नर्तकी लासिकाम् ।
किंविशिष्टाम्—सूक्तिपरिस्पन्दसुन्दराभिनयोज्ज्वलाम् ।
सूक्तिपरिस्पन्दाः सुभाषितविलसितानि तान्येव सुन्दरा अभिनयाः सुकुमाराः सात्त्विकादयस्तैरुज्ज्वलं भ्राजमानाम् ।
या किल सत्कविवक्त्रे लास्यसद्मनीव[^२] नर्तकी स्वविलासा[^३] भिनयविशिष्टा नृत्यन्ती विराजते तां वन्दे नौमीति वाक्यार्थः ।
तदिदमत्र तात्पर्यम्—यत्किल प्रस्तुतं वस्तु किमपि काव्यालङ्कारकरणं तदधिदैवतभूतामेवंविधराणीयकहृदयहारिणीं वाग्रूपां सरस्वतीं स्तौमीति ।
एवं नमस्कृत्येदानीं वक्तव्यवस्तुविषयभूतान्यभिधानाभिधेयप्रयोजनान्यासूत्रयति ।

वाचो विषयनैयत्यमुत्पादयितुमुच्यते ।
आदिवाक्ये ऽभिधानादि निर्मितेर्मानसूत्रवत् ॥ व्जिव्च्_१।६ ॥
इत्यन्तरश्लोकः ।(?)


लोकोत्तरचमत्कारकारिवैचित्र्यसिद्धये ।
काव्यस्यायमलङ्कारः को ऽप्यपूर्वो विधीयते ॥ व्जिव्_१।२ ॥

अलङ्कारो विधीयते अलङ्कारणं क्रियते ।
कस्य—काव्यस्य ।
कवेः कर्म काव्यं तस्य ।
ननु च सन्ति चिरन्तनास्तदलङ्कारास्तत्किमर्थमित्याह—अपूर्वः, तद्व्यतिरिक्तार्थाभिधायी ।
तदपूर्वत्वं तदुत्कृष्टस्य तन्निकृष्टस्य च द्वयोरपि सम्भवतीत्याह—को ऽपि, अलौकिकः सातिशयः ।
सो ऽपि किमर्थमित्याह—लोकोत्तरमत्कारकारिवैचित्र्यसिद्धये असामान्याह्लादविधायिविचित्रभावसम्पत्तये ।
यद्यपि सन्ति शतशः काव्यालङ्कारास्तथापि न कुतश्चिदप्येवंविधवैचित्र्यसिद्धैः ।
अलङ्कार-शब्दः शरीरस्य शोभातिशयकारित्वान्मुख्यतया कटकादिषु वर्तते, तत्कारित्वसामान्यादुपचारादुपमादिषु, तद्वदेव च तत्सदृशेषु गुणेषु,४ तथैव च तदभिधायिनि ग्रन्थे ।
शब्दार्थयोरेकयोगक्षेमत्वादैक्येन व्यवहारः,यथा गौरिति शब्दः गौरित्यर्थ इति ।
तदयमर्थः—ग्रन्थस्या[^५] लङ्कार इत्यभिधानम्, उपमादिप्रमेयजातमभिधेयम्, उक्तरूपवैचित्र्यसिद्धिः प्रयोजनमिति ।
एवमलङ्कारस्यास्य प्रयोजनमस्तीति स्थापिते ऽपि तदलङ्कार्यस्य काव्यस्य प्रयोजनं विना सदपि तदपार्थकमित्याह—


धर्मादिसाधनोपायः सुकुमारक्रमोदितः ।
काव्यबन्धो ऽभिजातानां हृदयाह्लादकारकः ॥ व्जिव्_१।३ ॥

हृदयाह्लादकारकश्चित्तानन्दजनकः काव्यबन्धः सर्गबन्धादिर्भवतीति सम्बन्धः ।
कस्येत्याकाङ्क्षायामाह—अभिजातानाम् ।
अभिजाताः खलु राजपुत्रादयो धर्माद्युपेयार्थिनो विजिगीषवः क्लेशभीरवश्च, सुकुमाराशयत्वात्तेषाम् ।
तथा सत्यपि तदाह्लादकत्वे काव्यबन्धस्य क्रीडनकादिप्रख्यता प्राप्नोतीत्यभिधत्ते[^६]—धर्मादिसाघनोपायः ।
धर्मादेरुपेयस्य[^७] चतुर्वर्गस्य साधने सम्पादने तदुपदेखरूपत्वादुपायस्तत्प्राप्तिनिमित्तम् ।
तथाविध[^८] पुरुषार्थोपदेशपरैरपरैरपि शास्त्रैः किमपराद्धमित्यभिधीयते—सुकुमारक्रमोदितः ।
सुकुमारः सुन्दरः हृदयहारी[^९] क्रमः परिपाटीविन्यासस्तेनोदितः कथितः सन् ।
अभिजातानामाह्लादकत्वे सति प्रवर्तकत्वात्काव्यबन्धो धर्मादिप्राप्त्युपायातां प्रतिपद्यते ।
शास्त्रेषु पुनः कठोरक्रमाभिहीतत्वाद् धर्माद्युपदेशो दुरवगाहः ।
तथाविधे विषये विद्यमानो ऽप्यकिञ्चित्कर एव ।
राजपुत्राः खलु समासादितस्वविभवाः समस्तजगतीव्यवस्थाकारितां प्रतिपद्यमानाः श्लाघ्योपदेश[^१०]शून्यतया स्वतन्त्राः सन्तः समुचितसकलव्यवहारोच्छेदं प्रवर्तयितुं प्रभवन्तीत्येतदर्थमेव[^११] तद्व्युत्पत्तये व्यतीतसच्चरितराजचरितं तन्निदर्शनाय निबघ्नन्ति कवयः ।
तदेवं शास्त्रातिरिक्तमस्त्येव[^१२] प्रगुणं प्रयोजनं काव्यबन्धस्य ।
मुख्यं पुरुषार्थसिद्धिलक्षणं प्रयोजनमास्तां तावत् अन्यदपि लोकयात्राप्रवर्तननिमित्तं भृत्यसुहृत्स्वाम्यादिसमावर्जनमनेन विना सम्यङ् न सम्भवतीत्याह—


व्यवहारपरिस्पन्दसौन्दर्यं व्यवहारिभिः ।
सत्काव्याधिगमादेव नूतनौचित्यमाप्यते ॥ व्जिव्_१।४ ॥

व्यवहारो लोकवृत्तं तस्य परिस्पन्दो व्यापारः क्रियाक्रमलक्षणस्तस्य सौन्दर्यं रामणीयकं तद्व्यवहारिभिर्व्यवहर्तृभिः सत्काव्याधिगमादेव कमनीयकाव्यपरिज्ञानादेव नान्यस्माद् आप्यते लभ्यत इत्यर्थः ।
कीदृशं तत्सौन्दर्यम्—नूतनौचित्यम् ।
नूतनमभिनवमलौकिकमौचित्यमुचितभावो यस्य ।
तदिदमुक्तं भवति—महतां हि राजादीनां व्यवहारे वर्ण्यमाने तदङ्गभूताः सर्वे मुख्यमात्यप्रभृतयः समुचितप्रातिस्विककर्तव्यव्यवहारनिपुणतया निबध्यमानाः सकलव्यवहारिवृत्तोपदेशतामापद्यन्ते ।
ततः सर्वः क्वचित्कमनीयकाव्ये कृतश्रमः समासादितव्यवहारपरिस्पन्दसौन्दर्यातिशयः श्लाघनीयफलभाग् भवतीति ।
यो ऽसौ चतुर्वर्गलक्षणः पुरुषार्थस्तदुपार्जनविषयव्युत्पत्तिकारणतया काव्यस्य पारम्पर्येण प्रयोजनमित्याम्नातः, सो ऽपि समयान्तरभावितया तदुपभोगस्य तत्फलभूताह्लादकारित्वेन तत्कालमेव पर्यवस्यति ।
ततस्तदतिरिक्तं किमपि सहृदयहृदयसंवादसुभगं तदात्वरमणीयं प्रयोजनान्तरमभिधातुमाह—


चतुर्वर्गफलास्वादमप्यतिक्रम्य तद्विदाम् ।
काव्यामृतरसेनान्तश्चमत्कारो वितन्यते ॥ व्जिव्_१।५ ॥

चमत्कारो वितन्यते चमत्कृतिर्विस्तार्यते, ह्लादः पुनः पुनः क्रियत इत्यर्थः ।
केन—काव्यामृतरसेन ।
काव्यमेवामृतं तस्य रसस्तदास्वादस्तदनुभवस्तेन ।
क्वेत्यभिदधाति—अन्तश्चेतसि ।
कस्य—तद्विदाम् ।
तं विदन्ति जानन्तीति तद्विदस्तज्ज्ञास्तेषाम् ।
कथम्—चतुर्वर्गफलास्वादमप्यतिक्रम्य ।
चतुर्वर्गस्य धर्मादेः फलं तदुपभोगस्तस्यास्वादस्तदनुभवस्तमपि प्रसिद्धातिशयमतिक्रम्य विजित्य पस्पशप्रायं सम्पाद्य ।
तदयमत्राभिप्रायः[^१३]—यो ऽसौ चतुर्वर्गफलास्वादः प्रकृष्टपुरुषार्थतया सर्वशास्त्रप्रयोजनत्वेन प्रसिद्धः सो ऽप्यस्यकाव्यामृतचर्वणचमत्कारकलामात्रस्या[^१४] पि न कामपि साम्यकलनां कर्तुमर्हतीति ।
दुःश्रव-दुर्भण-दुरधिगमत्वादिदोषदुष्ट[^१५] त्वादध्ययनावसरे दुःसहदुःख[^१६] दायी शास्त्रसन्दर्भस्तत्कालकल्पितकमनीयचमत्कृतेः काव्यस्य न कथञ्चिदपि स्पर्धामधिरोहतीत्येतदप्यर्थतो ऽभिहितं भवति ।

कटुकौषधवच्छास्त्रमविद्याव्याधिनाशनम् ।
आह्लाद्यमृतवत्काव्यमविवेकगदापहम् ॥ व्जिव्च्_१।७ ॥ १७ ॥
आयत्यां च तदात्वे च रसनिस्यन्दसुन्दरम् ।
येन सम्पद्यते काव्यं तदितानी विचार्यते ॥ व्जिव्च्_१।८ ॥

इत्यन्तरश्लोकौ ।


अलङ्कृतिरलङ्कार्यमपोद्धृत्य विवेच्यते ।
तदुपायतया तत्त्वं सालङ्कारस्य काव्यता ॥ व्जिव्_१।६ ॥

अलङ्कृतिरलङ्करणम् अलङ्क्रियते ययेति विगृह्य ।
सा विवेच्यते विचार्यते ।
यच्चालङ्कार्यमलङ्करणीयं वाचकरूपं वाच्यरूपं च तदपि विवेच्यते ।
तयोः सामान्यविशेषलक्षणद्वारेण स्वरूपनिरूपणं क्रियते ।
कथम्—अपोद्धृत्य ।
निष्कृष्य पृथक् पृथगवस्थाप्य, यत्र समुदायरूपे तयोरन्तर्भावस्तस्माद्विभज्य ।
केन हेतुना—तदुपायतया ।
तदिति काव्यं परामृश्यते ।
तस्योपायस्तदुपायस्तस्य भावस्तदुपायता तया हेतुभूतया ।
यस्मादेवंविधो[^१८] विवेकः काव्यव्युत्पत्त्युपायतां प्रतिपद्यते ।
दृश्यते च समुदायन्तः पातिनामस्त्यभूतानामपि व्युत्पत्तिनिमित्तमपोद्धृत्य विवेचनम् ।
यथा—पदान्तर्भूतयोः प्रकृतिप्रत्यययोर्वाक्यान्तर्भूतानां पदानां चेति ।
यद्येवमसत्यभूतो ऽप्यपोद्धारस्तदुपायता क्रियते तत् किं पुनः सत्यमित्याह—तत्त्वं सालङ्कारस्य काव्यता ।
तदयमत्र[^१९] परमार्थः—सालङ्कारस्यालङ्करणसहितस्य सकलस्य निरस्तावयवस्य सतः समुदायस्य काव्यता कविकर्मत्वम् ।
तेनालङ्कृतस्य काव्यत्वमिति स्थितम्,२० न पुनः काव्यस्यालङ्कारयोग इति ।
सालङ्कारस्य काव्यतेति सम्मुग्धतया किञ्चित् काव्यस्वरूपं सूत्रितम्[^२१] निपुणं पुनर्न निश्चितम् ।
किंलक्षणं वस्तु काव्यव्यपदेशभाग् भवतीत्याह—


शब्दार्थौ सहितौ वक्रकविव्यापारशालिनि ।
बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि ॥ व्जिव्_१।७ ॥

२२ शब्दार्थौ काव्यं वाचको वाच्यं चेति द्वौ सम्मिलितौ काव्यम् ।
द्वावेकमिति विचित्रैवोक्तिः ।
तेन यत्केषाञ्चिन्मतं कविकौशलकल्पितकमनीयतातिशयः शब्द एव केवलं काव्यमिति केषाञ्चिद् वाच्यमेव रचनावैचित्र्यचमत्कारकारि काव्यमिति, पक्षद्वयमपि निरस्तं भवति ।
यस्माद्[^२३]द्वयोरपि प्रत्येकं[^२४] प्रतितिलमिव तैलं तद्विदाह्लादकारित्वं वर्तते, न पुनरेकस्मिन् ।
यथा—

भण तरुणि रमण्मन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ।
यदि सल्लीलोल्लापिनि गच्छसि तत् किं त्वदीयं मे ॥ व्जिव्च्_१।९ ॥
अणणुरणन्मणिमेखलमविरतशिञ्जाणमञ्जुमञ्जीरम् ।
परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ व्जिव्च्_१।१० ॥२५ ॥

प्रतिभादारिद्रयदैन्यादतिस्वल्पसुभाषितेन कविना वर्णसावर्ण्यरम्यतामात्रमत्रोदितम्, न पुनर्वाच्यवैचित्र्यकणिका काचिदप्यस्ति[^२६] ।
यत्किल नूतनतारुण्यतरङ्गितलावण्यलटभकान्तेः[^२७] कान्तायाः कामयमानेन केनचिदेवमु[^२८]च्यते—यदि तरुणि त्वं[^२९] रमणमन्दिरं व्रजसि तत्किं त्वदीयं परिसरणं रणरणकमकारणं मम करोतीत्यतिग्राम्येयमुक्तिः ।
किञ्च, न अकारणम्, यतस्तस्यास्तदनादरेण गमने[^३०] तदनुरक्तान्तः करणस्य विरहविधुरताशङ्काकातरता कारणं रणरणकस्य ।
यदि वा परिसरणस्य मया किमराद्धमित्याकरणतासमर्पकम्, एतदप्यतिग्राम्यतरम् ।
सम्बोधनानि च बहूनि मुनिप्रणीतस्तोत्रामन्त्रणकल्पानि न काञ्चिदपि तद्विदाह्लाद[^३१] कारितां पुष्णन्तीति यत्किञ्चिदेतत् ।
वस्तुमात्रं च शब्दशोभा[^३२] तिशयशून्यं न काव्यव्यपदेशमर्हति ।
यथा—

प्रकाशस्वाभाव्यं विदधति न भावास्तमसि यत्तथा नैते ते स्युर्यदि किल तथा यत्र न कथम् ।
गुणाध्यासाभायासव्यसनदृढदीक्षागुरुगुणो रविव्यापारो ऽयं किमथ सदृशं तस्य महसः ॥ व्जिव्च्_१।११ ॥

अत्र हि शुष्कतर्कवाक्यवासनाधिवासितचेतसा प्रतिभाप्रतिभातमात्रमेव वस्तु व्यसनितया कविना केवलमुपनिबद्धम् ।
न पुवर्वाचकवक्रताविच्छित्तिलवो ऽपि लक्ष्यते ।
यस्मात्तर्कवाक्यशय्यैव शरीरमस्य श्लोकस्य ।
तथा च—तमोव्यतिरिक्ताः पदार्था धर्मिणः, प्रकाशस्वभावा न भवन्तीति साध्यम्, तमस्यतथाभूतत्वादिति हेतुः ।
दृष्टान्तस्तर्हि कथं न दर्शितः, तर्कन्यायस्यैव चेतसि प्रतिभासमानत्वात् ।
तथोच्यते—

तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः ।
ख्याप्येते[^३३] विदुषां वाच्यो हेतुरेव हि केवलः ॥ व्जिव्च्_१।१२ ॥ ३४ ॥

इति ।
विदधतीति विपूर्वो दधातिः करोत्यर्थे वर्तते ।
स च करोत्यर्थो ऽत्र न सुस्पष्टसमन्वयः, प्रकाशस्वाभाव्यं न कुर्वन्तीति ।
प्रकाशस्वाभाव्य-शब्दो ऽपि चिन्त्य एव ।
प्रकाशः स्वभावो यस्यासौ प्रकाशस्वभावः, तस्य भाव इति भावप्रत्यये विहिते पूर्वपदस्य वृद्धिः प्राप्नोति ।
अथ स्वभावस्य भावः स्वाभाव्यमित्यत्रापि भावप्रत्ययान्ताद्भावप्रत्ययो न प्रचुरप्रयोगार्हः ।
तथा च प्रकाशश्चासौ स्वाभाव्यं चेति विशेषणसमासो ऽपि न समीचीनः ।
तृतीये च पादे ऽत्यन्तासमर्पकसमासभूयस्त्ववैशसं न तद्विदाह्लादकारितामावहति ।
रविव्यापार इतिरवि-शब्दस्य प्राधान्येनाभिमतस्य समासे गुणीभावो न विकल्पितः, पाठान्तरस्य"रवेः" इति सम्भवात् ।
ननु वस्तुमात्रस्याप्यलङ्कारशुन्यतया कथं तद्विदाह्लादकारित्वमिति चेत्तन्न;यस्मादलङ्कारेणाप्रस्तुतप्रशंसालक्षणेनान्यापदेशतयास्फुर् इतमेव कविचेतसि प्रथमं च प्रतिभाप्रतिभासमानमघटितपाषाणशकलकल्पमणिप्रख्यमेव वस्तु विदग्धकविविरचितवक्रवाक्योपारूढं शणोल्लीढमणिमनोहरतया तद्विदाह्लादकारिकाव्यत्वमधिरोहति ।
तथा चैकस्मिन्नेव वस्तुन्यवहितानवहितकविद्वितयविरचितं वाक्यद्वयमिदं महदन्तरमावेदयति—

मानिनीजनविलोचनपाता- नुष्णबाष्पकलुषाननुगृह्णन्[^३५] ।
मन्दमन्दमुदितः प्रिययौ खं भीतभीत इव शीतमयूखः ॥ व्जिव्च्_१।१३ ॥
क्रमादेकद्वित्रिप्रभृतिपरिपाटीः प्रकटयन् कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः ।
पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां कटाक्षेभ्यो बिभ्यन्निभृत इव चन्द्रो ऽभ्युदयते ॥ व्जिव्च्_१।१४ ॥

एतयोरन्तरं सहृदयसंवेद्य[^३६] मिति तैरेव विचारणीयम् ।
तस्मात् स्थितमेतत्—न शब्दस्यैव रमणीयताविशिष्टस्य केवलस्य काव्यत्वम्, नाप्यर्थस्येति ।
तदिदमुक्तम्—

रूपकादिरलङ्कारस्तस्यान्तैर्[^३७] बहुधोदितः ।
न कान्तमपि निर्भूषं विभाति वनितामुखम्[^३८] ॥ व्जिव्च्_१।१५ ॥
रूपकादिमलङ्कारं बाह्यमाचक्षते परे ।
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलङ्कृतिम् ॥ व्जिव्च्_१।१६ ॥
तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी ।
शब्दाभिधेयालङ्कारभेदादिष्टं द्वयं तु नः[^३९] ॥ व्जिव्च्_१।१७ ॥

तेन शब्दार्थौ द्वौ सम्मिलितौ काव्यमिति स्थितम् ।
एवमवस्थापिते द्वयोः काव्यत्वे कदाचिदेकस्य मनाङ्मात्रन्यूनतायां सत्यां काव्यव्यवहारः प्रवर्तेतेत्याह—सहिताविति ।
सहितौ सहितभावेन साहित्येनावस्थितौ ।
ननु च वाच्यवाचकसम्बन्धस्य विद्यमानत्वादेतयोर्न कथञ्चिदपिसाहित्यविरहः, सत्यमेतत् ।
किन्तु विशिष्टमेवेह साहित्यमभिप्रेतम् ।
कीदृशम् ?—वक्रताविचित्रगुणालङ्कारसम्पदां परस्परस्पर्धाधिरोहः ।
तेन

समसर्वगुणौ सन्तौ सुहृदाविव सङ्गतौ ।
परस्परस्य शोभायै शब्दार्थौ भवतो यथा ॥ व्जिव्च्_१।१८ ॥
ततो ऽरुणपरिस्पन्दमन्दीकृतवपु) शशी ।
दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥ व्जिव्च्_१।१९ ॥

अत्रारुणपरिस्पन्दमन्दीकृतवपुषः शशिनः कामपरिक्षामवृत्तेः कामिनीकपोलफलकस्य च पाण्डुत्वसाम्यसमर्थनादर्थालङ्कारपरिपोषः शोभातिशयमावहति ।
वक्ष्यमाणवर्णविन्यासवक्रतालक्षणः शब्दालङ्कारो ऽप्यतितरां रमणीयः ।
वर्णविन्यासविच्छित्तिविहिता लावण्यलक्षणगुण[^४०]सम्पदस्त्येव ।
यथा च

लीलाए कुवलअं कुवलअं व सीसे समुव्वहन्तेण ।
सेसेण सेसपुरिसाणं पुरिसआरो समुव्यसिओ ॥ व्जिव्च्_१।२० ॥४१ ॥
लीलया कुवलयं कुवलयमिव शीर्षे समुद्वहता ।
शेषेण शेषपुरुषाणां पुरुषकारः समुद्धसितः ॥

अत्राप्यप्रस्तुतप्रशंसोपमालक्षणवाच्यालङ्कारवैचित्र्यविहिता हेलामात्रविरचितयमकानुप्रासहारिणी समर्पकत्वसुभगा कापि काव्यच्छाया सहृदयहृदयमाह्लादयति ।
द्विवचनेनात्र वाच्यवाचकजातिद्वित्वमभिधीयते ।
व्यक्तिद्वित्वाभिधाने पुनरेकपदव्यवस्थितयोरपि काव्यत्वं स्यादित्याह—बन्धे व्यवस्थितौ ।
बन्धो वाक्यविन्यासः तत्र व्यवस्थितौ विशेषेण लावण्यादिगुणालङ्कारशोभिनां सन्निवेशेन कृतावस्थानौ ।
सहितावित्यत्रापि यथायुक्ति सजातीया[^४२] पक्षया शब्दस्य शब्दान्तरेण वाच्यस्य वाच्यान्तरेण च साहित्यं परस्परस्पर्धित्वलक्षणमेव विवक्षितम् ।
अन्यथा तद्विदाह्लादकारित्वहानिः प्रसज्यते ।
यथा

असारं संसारं परिमुषितरत्नं त्रैभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् ।
अदर्पं कन्दर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः[^४३] ॥ व्जिव्च्_१।२१ ॥

अत्र किल कुत्रचित्प्रबन्धे कश्चित्कापालिकः कामपि कामिनी[^४४] व्यापादयितुमध्यवसितो सन्नेव[^४५] मभिधीयते—यदपगतसारः संसारः, हृतरत्नसर्वस्वं त्रैलोक्यम्, आलोकनीयकमनीयवस्तुवर्जितो जीवलोकः, सकललोकलोचननिर्माणं निष्फलप्रयम्, त्रिभुवनविजयित्वदर्पविहीनः[^४६] कन्दर्पः, जगज्जीर्णारण्यकल्पमनया भवतीति किं त्वमेवंविधमकरणीयं कर्तुं व्यवसित इति ।
एतस्मिन् श्लोके महावाक्यकल्पे वाक्यान्तरण्यवान्तरवाक्यसदृशानि तस्याः सकललोकलोभनीयलावण्यसम्पत्प्रतिपादनपराणि परस्परस्पर्धोन्यतिरमणीयान्युपनिबद्धानि कमपि काव्यच्छायातिशयं पुष्णन्ति ।
मरणशरणं बान्धवजनमिति पुनरेतेषां न कलामात्रमपि स्पर्धितुमर्हतीति न तद्विदाह्लादकारि ।
बहुषु च रमणीयेष्वेकवाक्योपयोगिषु युगपत् प्रतिभासपदवीमवतरत्सु वाक्यार्थपरिपूरणार्थं तत्प्रतिमं प्राप्तुमपरं प्रयत्नेन प्रतिभा प्रसाद्यते ।
तथा चास्मिन्नेव प्रस्तुतवस्तुसब्रह्मचारिवस्त्वन्तरमपि सुप्रापमेव—“विधिमपि विपन्नाद्भुतविधिम्” इति ।
प्रथमप्रतिभातपदार्थप्रतिनिधिपदार्थान्तरासम्भवे सुकुमारतरापूर्वसमर्पणेन कामपि काव्यच्छायामुन्मीलयन्ति कवयः ।
यथा

रुद्राद्रेस्तुलनं स्वकण्ठविपिनच्छेदो[^४७] हरेर्वासनं कारावेश्मनि पुष्पकापहरणम् ॥ व्जिव्च्_१।२२ ॥

इत्युपनिबद्ध्य पूर्वोपनिबद्धपदार्थानुरूपवस्त्वन्तरासम्भवादपूर्वमेव “यस्येदृशाः कलयः” इति विन्यस्तम्,४८ येनानेये ऽपि कामपि कमनीयतामनीयन्त ।
यथा च

तद्वक्त्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठ्यैव निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः ।
तां सम्प्रत्यपि मार्गदत्तनयनां द्रष्टुं प्रवृत्तस्य मे बद्धोत्कण्ठमिदं मनः किम् ॥ व्जिव्च्_१।२३ ॥

इति सम्प्रत्यपि तामेवंविधां वीक्षितुं प्रवृत्तस्य मम मनः किमिति बद्धोत्कण्ठमिति परसमाप्ते ऽपि तथाविधो वस्तु[^४९] विन्यासो विहितः—“अथवा प्रेमासमाप्तोत्सवम्” इति,येन पूर्वेषां जीवितमिवार्पितम् ।
यद्यपि द्वयोरप्येतयोस्तत्प्राधान्येनैव वाक्यार्थोपनिबन्धः,५० तथापि कविप्रतिभाप्रौढिरेव प्राधान्येनावितष्ठते ।
शब्दस्यापि शब्दान्तरेण साहित्यविरहोदाहरणं यथा

चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङ्गमभूषः[^५१] ॥ व्जिव्च्_१।२४ ॥

दयितसङ्गमस्तामभूषयदिति वक्तव्ये कीदृशो मदः, दयतसड्गमो भूषा यस्येति दयितसङ्गमशब्दस्य प्राधान्येनाभिमतस्य समासवृत्तावन्तर्भूतत्वाद् गुणीभावो न तद्विदाह्लादकारी ।
दीपकालङ्कारस्य च काव्यशोभाकारित्वेनोपनिबद्धस्य निर्वहणावसरे त्रुटितप्रायत्वात् प्रक्रमभङ्गविहितं सहसहृदयवैरस्यमनिवार्यम् ।
“दयितसङ्गतिरेनम्” इति पाठान्तरं सुलभमेव ।
द्वयोरप्येतयोरुदाहरणयोः प्राधान्येन प्रत्येकमेकतरस्य साहित्यविरहो व्याख्यातः ।
परमार्थतः पुनरुभयोरप्येकतरस्य साहित्यविरहो ऽन्यतरस्यापि पर्यवस्यति ।
तथा चार्थः समर्थवाचकासद्भावे स्वात्मना स्फुरन्नपि मृतकल्प एवावतिष्ठते ।
शब्दो ऽपि वाक्योपयोगिवाच्यासम्भवेवाच्यान्तरवाचकः सन् वाक्यस्य व्याधिभूतः प्रतिभातीत्यलमतिप्रसङ्गेन ।
प्रकृतं तु ।
कीदृशै बन्धे—वक्रकविव्यापारशालिनि ।
वक्रो यो ऽसौ शास्त्रादिप्रसिद्धशब्दार्थोपनिबन्धव्यतिरेकी षट्प्रकारवक्रताविशिष्टः कविव्यापारस्तत्क्रियाक्रमस्तेन शालते श्लाघते यस्तस्मिन् ।
एवमपि कष्टकल्पनोपहते ऽपि प्रसिद्धव्यतिरेकित्वमस्तीत्याह—तद्वदाह्लादिकारिणि ।
तदिति काव्यपरामर्शः तद्विदन्तीति तद्विदस्तज्ज्ञास्तेषामाह्लादमानन्दं करोति यस्यस्मिन् तद्विदाह्लादकारिणि बन्धे व्यवस्थितौ ।
वक्रता[^५२] प्रकारांस्तद्विदाह्लादकारित्वं च प्रत्येकं यथावसरमेवोदाहरिष्यति[^५३] ।
एवं काव्यस्य सामान्यलक्षणे विहिते विशेषलक्षणमुपक्रमते ।
तत्र शब्दार्थयोस्तावत्स्वरूपं निरूपयति—


वाच्योर्ऽथो वाचकः शब्दः प्रसिद्धमिति यद्यपि ।
तथापि काव्यमार्गे ऽस्मिन् परमार्थो ऽयमेतयोः ॥ व्जिव्_१।८ ॥

इति एवंविधं वस्तु प्रसिद्धं प्रतीतम्—यो वाचकः प्रत्यायकः[^५४] स शब्दः, यो वाच्यश्चाभिधेयः सोर्ऽथ इति ।
ननु च द्योतकव्यञ्जकावपि शब्दौ सम्भवतः, तदसङ्ग्रहान्नाव्याप्तिः, यस्मादर्थप्रतीतिकारित्वसामान्यादुपचारात्तावपि वाचकावेव ।
एवं द्योत्यव्यङ्ग्ययोरप्यर्थयोः[^५५] प्रत्येयत्वसामान्यादुपचाराद्वाच्यत्वमेव ।
तस्माद् वाचकत्वं वाच्यत्वं च शब्दार्थयोर्लोके सुप्रसिद्धं यद्यपि लक्षणम्, तथाप्यस्मिन् अलौकिके काव्यमार्गे कविकर्मवर्त्मनि अयमेतयोर्वक्ष्यमाणः[^५६] परमार्थः किमप्यपूर्वं तत्त्वमित्यर्थः ।
कीदृशमित्याह—


विश्वास-प्रस्तुतिः

शब्दो विवक्षतार्थैक-वाचको ऽन्येषु सत्स्वपि ।
अर्थः सहृदयाह्लादकारि-स्व-स्पन्द-सुन्दरः ॥ व्जिव्_१।९ ॥

मूलम्

शब्दो विवक्षतार्थैकवाचको ऽन्येषु सत्स्वपि ।
अर्थः सहृदयाह्लादकारिस्वस्पन्दसुन्दरः ॥ व्जिव्_१।९ ॥

शब्दः काव्ये यस् तत्-समुचित-समस्त-सामग्रीकः ।
कीदृक्? विवक्षितार्थैक-वाचकः । विवक्षितो यो ऽसौ वक्तुम् इष्टोऽर्थस्, तदेकवाचकः - तस्यैकः केवल एव वाचकः ।
कथम्? अन्येषु सत्स्वपि । अपरेषु तद्वाचकेषु बहुष्व् अपि विद्यमानेषु ।

तथा च- सामान्यात्मना वक्तुम् अभिप्रेतो यो अर्थस्, तस्य विशेषाभिधायी शब्दः सम्यग्-वाचकतां न प्रतिपद्यते ।
यथा

विश्वास-प्रस्तुतिः

कल्लोल-वेल्लित-दृषत्-परुष-प्रहारै
रत्नान्य् अमूनि मकराकर मा ऽवमंस्थाः ।
किं कौस्तुभेन भवतो विहितो न नाम
याच्ञाप्रसारितकरः पुरुषोत्तमो ऽपि ॥ व्जिव्च्_१।२५ ॥

मूलम्

कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकराकर मावमंस्थाः ।
किं कौस्तुभेन भवतो विहितो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमो ऽपि[^५७] ॥ व्जिव्च्_१।२५ ॥

अत्र रत्नसामान्योत्कर्षाभिधानमुपक्रान्तम् ।
कौस्तुभेनेति रत्नविशेषाभिधायी शब्दस्तद्विशेषोत्कर्षाभिधानमुपसंहरतीति प्रक्रमोपसंहारवैषम्यं न शोभातिशयमावहति ।
न चैतद्वक्तुं शक्यते—यः कश्चिद्विशेषे गुणग्रामगरिमा विद्यते स सर्वसामान्ये ऽपि सम्भवत्येवेति ।
यस्मात्

वाजिवारणलोहानां काष्ठपाषाणवाससाम् ।
नारीपुरुषतोयानामन्तरं महदन्तरम्[^५८] ॥ व्जिव्च्_१।२६ ॥

तस्मादेवंविधे विषये सामान्याभिधाय्येव शब्दः सहृदयहृदयहारितां प्रतिपद्यते ।
तथा चास्मिन् प्रकृते पाठान्तरं सुलभमेव—“एकेन किं न विहितो भवतः स नाम” इति ।
यत्र च[^५९] विशेषात्मना वस्तु प्रतिपादयितुमभिमतं तत्र विशेषाभिधायकमेवाभिधानं निबध्नन्ति कवयः ।
यथा

द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतस् त्वमस्य लोकस्य च नेत्रकौमुदी[^६०] ॥ व्जिव्च्_१।२७ ॥

अत्र परमेश्वर-वाचक-शब्द-सहस्त्र-सम्भवे ऽपि कपालिन इति बीभत्स-रसालम्बन-विभाव-वाचकः शब्दो जुगुप्सास्पदत्वेन प्रयुज्यमानः काम् अपि वाचकवक्रतां विदधाति ।
“सम्प्रति” “द्वयम्” चेत्यतीव रमणीयम्—यत् किल पूर्वम् एका सैव दुर्व्यसन-दूषितत्वेन शोचनीया जाता,६१ सम्प्रति पुनस्त्वया तस्यास् तथाविध-दुरध्यवसाय-साहायकम् इवारब्धम् इत्य् उपहस्यते ।
“प्रार्थना”-शब्दो ऽप्यतितरां रमणीयः, यस्मात् काकतालीययोगेन तत्समागमः कदाचिन्न वाच्यतावहः ।
प्रार्थना पुनरत्रात्यन्तं कौलीनकलङ्ककारिणी ।
“सा च” “त्वं च” इति द्वयोरप्यनुभूयमानपरस्परस्पर्धिलावण्यातिशयप्रतिपादनपरत्वेनोपात्तम् ।
“कलावतः कान्तिमती” इति च मतुप्[^६२] प्रत्ययेन द्वयोरपि प्रशंसा प्रतीयत इत्य् एषां प्रत्येकं कश्चिदप्यर्थः शब्दान्तराभिधेयतां नोत्सहते ।
कविविवक्षितविशेषाभिधानक्षमत्वमेव वाचरकत्वलक्षणम् ।
यस्मात् प्रतिभायां तत्कालोल्लिखितेन केनचित् परिस्पन्देन परिस्फुरन्तः पदार्थाः
प्रकृत-प्रस्ताव-समुचितेन केनचिद् उत्कर्षेण वा समाच्छादित-स्वभावाः सन्तो
विवक्षा-विधेयत्वेन +अभिधेयता-पदवीम् अवतरन्तस्
तथाविध-विशेष-प्रतिपादन-समर्थेन +अभिधानेन +अभिधीयमानाश् चेतश् चमत्कारिताम् आपद्यन्ते [^६३]।
यथा

विश्वास-प्रस्तुतिः

संरम्भः करि-कीट-मेघ-शकलोद्देशेन सिंहस्य यः
सर्वस्यैव स जाति-मात्र-विहितो हेवाक+++(=औत्स्युक्य)+++-लेशः किल ।
इत्य् आशा–द्वि-रद–क्षयाम्बुद-घटा+++(=समूह)+++-बन्धे ऽप्य् असंरब्धवान्
यो ऽसौ कुत्र चमत्-कृतेर् अतिशयं यात्व् अम्बिका-केसरी ॥ व्जिव्च्_१।२८ ॥

मूलम्

संरम्भः करिकीटमेघशकलोद्देशेन सिंहस्य यः सर्वस्यैव स जातिमात्रविहितो हेवाकलेशः किल ।
इत्याशाद्विरदक्षयाम्बुदघटाबन्धे ऽप्यसंरब्धवान् यो ऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिकाकेसरी ॥ व्जिव्च्_१।२८ ॥

अत्र करिणां “कीट”- व्यवपदेशेन तिरस्कारः, तोयदानां च “शकल”- शब्दाभिधानेनानादरः, “सर्वस्य” इति यस्य कस्यचित्तुच्छतरप्रायस्तेत्यवहेला, जातेश्च “मात्र”- शब्दविशिष्टत्वेनावलेपः, हेवाकस्य “लेश”- शब्दाभिधानेनाल्पताप्रतिपत्तिरित्येते विवक्षितार्थैकवाचकत्वं द्योतयन्ति ।
“घटाबन्ध” - शब्दश्च प्रस्तुतमहत्त्वप्रतिपादनपरत्वेनोपात्तस्तन्निबन्धनतां प्रतिपद्यते ।
विंशेषाभिधानाकाङ्क्षिणः पुनः पदार्थस्वरूपस्य तत्प्रतिपादनपरविशेषाणशून्यतया शोभापरिहाणिरुत्प[^६४]द्यते ।

तथा

विश्वास-प्रस्तुतिः

यत्रानुल्लिखिताख्यम् एव निखिलं निर्माणम् एतद् विधेर्
उत्कर्ष-प्रतियोगि-कल्पनम् अपि न्यक्-कार-कोटिः परा ।
जाता प्राण-भृतां मनोरथ-गतीर् उल्लङ्घ्य यत् सम्पदस्
तस्याभास-मणी-कृताश्मसु +++(चिन्ता-)+++मणेर् अश्मत्वम् एवोचितम् ॥ व्जिव्च्_१।२९ ॥

मूलम्

यत्रा[^६५]नुल्लिखिताख्यमेव निखिलं निर्माणमेतद्विधेरुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा ।
जाता[^६६] प्राणभृतां मनोरथगतीरुल्लङ्घ्ययत्सम्पदस्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम् ॥ व्जिव्च्_१।२९ ॥

अत्र “आभास”- शब्दः स्वयमेव मात्रादिविशिष्टत्वम् अभिलषल्ँ लक्ष्यते ।
पाठान्तरम्—“छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिता” इति ।
एतच्च वाचकवक्रताप्रकारस्वरूपनिरूपणावसरे प्रतिपदं प्रकटीभविष्यतीत्यलमतिप्रसङ्गेन ।
अर्थश्च वाच्यलक्षणः कीदृशः—काव्ये यः सहृदयाह्लादकारिस्वस्पन्दसुन्दरः ।
सहृदयाः काव्यार्थविदस्तेषामाह्लादमानन्दं करोति यस्तेन स्वस्पन्देनात्मीयेन स्वभावेन सुन्दरः सुकुमारः ।

तद् एतद् उक्तं भवति—
यद्य् अपि पदार्थस्य नानाविध-धर्म-खचितत्वं सम्भवति,
तथापि तथाविधेन धर्मेण सम्बन्धः समाख्यायते यः, सहृदय-हृदयाह्लादम् आधातुं क्षमते ।
तस्य च तदाह्लादसामर्थ्यं सम्भाव्यते येन काचिद् एव स्वभाव-महत्ता रस-परिपोषाङ्गत्वं वा व्यक्तिम् आसादयति ।
यथा

दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः सिन्धुष्वङ्गावगाहः खुरकुहरगलत्तुच्छतोयेषु नाप्तः ।
लब्धाः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते येनोद्धारे धरित्र्याः स जयति विभुताविघ्नितेच्छोवराहः ॥ व्जिव्च्_१।३० ॥

अत्र च तथाविधः पदार्थपरिस्पन्दमहिमा निबद्धो यः[^६७] स्वभावसम्भविनस्तत्परिस्पन्दान्तरस्य संरोधसम्पादनेन स्वभावमहत्तां समुल्लासयन् सहृदयहृदयाह्लाद[^६८] कारितामापन्नः[^६९] ।
यथा च

तामभ्यगच्छद्रुदितानुसारी मुनिः कुशेध्माहरणाय यातः ।
निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः[^७०] ॥ व्जिव्च्_१।३१ ॥

अत्र को ऽसौ मुनिर्वाल्मीकिरिति पर्यायपदमात्रे वक्तव्ये परमकारुणिकस्य निषादनिर्भिन्नशकुनिसन्दर्शनमात्रलसमुत्थितः शोकः श्लोकत्वमभजत यस्येति तस्य तदवस्थजनकराजपुत्रीदशादर्शन[^७१] विवशवृत्तेरन्तः करणपरिस्पन्दः करुणरसपरिपोषाङ्गतया सहृदयहृदयाह्लादकारी कवेरभिप्रेतः ।
यथा च

भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्सन्देशाद्धृदयनिहितादागतं त्वत्समीपम् ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ व्जिव्च्_१। ३२ ॥

अत्र प्रथममान्त्रणपदार्थस्तदाश्वासकारिपरिस्पन्दनिबन्धनः भर्तुर्मित्रं मां विद्धीत्युपादेयताम् [^७२] आत्मनः प्रथयति ।
तच्च न सामान्यम्, प्रियमिति विश्रम्भपात्रताम्[^७३] ।
इति तामाश्वास्योन्मुखीकृत्य च तत्सन्देशात्त्वत्समीपमागमनमिति प्रकृतं प्रस्तौति ।
हृदयनिहितादिति सुहृत्त्वविहितं[^७४] सावधानत्वं द्योत्यते ।
ननु चान्यः कश्चिदेवंविधव्यवहारविदग्धबुद्धिः कथं न नियुक्त इत्याह—ममैवात्र कौशलं किमपि[^७५] विजृम्भते ।
अम्बुवाहमित्यात्मनस्तत्कारिताभिधानं द्योतयति ।
यः प्रोषितानां वृन्दानि त्वरयति, सञ्जातत्वराणि करोति ।
कीदृशानाम्—श्राम्यतां त्वरायामसमर्थानामपि ।
वृन्दानीति बाहुल्यात्तत्कारिताभ्यासं कथयति ।
केन—मन्द्रस्निग्धैर्ध्वनिभिः, माधुर्यरमणीयैः शब्दैर्विदग्धदूतप्ररोचनावचनप्रयैरित्यर्थः ।
क्व—पथि मार्गे ।
यदृच्छया यथाकथञ्चिदहमेतदाचरामीति किं पुनः प्रयत्नेन सुहृत्प्रेमनिमित्तिं संरम्भबुद्धिं[^७६] न करोमीति ।
कीदृशानि वृन्दानि—अबलावेणिमोक्षोत्सुकानि ।
अबला-शब्देनात्रतत्प्रेयसीविरहवैधुर्यासहत्वं भण्यते, तद्वेणिमोक्षोत्सुकानीति तेषां तदनुरक्तचित्तवृत्तत्वम् ।
तदयमत्र वाक्यार्थः—विधिविहितविरहवैधुर्यस्य परस्परानुरक्तचित्तवृत्तेर्यस्य कस्यचित्कामिजनस्य समागमसौख्यसम्पादनसौहार्दे सदैव गृहीतव्रतो ऽस्मीति ।
अत्र यः पदार्थपरिस्पन्दः कविनोपनिबद्धः प्रबन्धस्य मेघदूतत्वे परमार्थतः स एव जीवितमिति सुतरां सहृदयाह्लादकारी[^७७] ।
न पुनरेवं विधो यथा

सद्यः पुरीपरिसरे ऽपि शिरीषमृद्वी गत्वा[^७८] जवात्त्रिचतुराणि पदानि सीता[^७९] ।
गन्तव्यमद्य कियदित्यसकृद् ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्[^८०] ॥ व्जिव्च्_१।३३ ॥

अत्रासकृत्प्रतिक्षणं कियदद्य गन्तव्यमित्यभिधानलक्षणः परिस्पन्दो न स्वभावमहत्तामुन्मीलयति, न च रसपरिपोषाङ्गतां प्रतिपद्यते ।
यस्मात्सीतायाः सहजेन केनाप्यौचित्येन गन्तुमध्यवसितायाः सौकुमार्यादेवंविधं वस्तु हृदये परिस्फुरदपि वचनमारोहतीति सहृदयैः सम्भावयितुम्न पार्यते ।
न च प्रतिक्षणमभिधीयमानमपि राघवाश्रुप्रथमावतारस्य सम्यक् सङ्गतिं भजते, सकृदाकर्णनादेव तस्योपपत्तेः ।
एतच्चात्यन्तरमणीयमपि मनाङ्मात्रचलितावधानत्वेन कवेः कदर्थितम् ।
तस्माद् “अवशम्” इत्यत्र पाठः कर्तव्यः ।
तदेवंविधं विशिष्टमेव शब्दार्थयोर्लक्षणमुपादेयम् ।
तेन नेयार्थापार्थादयो दूरोत्सारितत्वात्पृथङ्न वक्तव्याः ।
एवं शब्दार्थयोः प्रसिद्धस्वरूपातिरिक्तमन्यदेव रूपान्तरमभिधाय न तावन्मात्रमेव काव्योपयोगि, किन्तु वैचित्र्यान्तरविशिष्टमित्याह—


अभावेतावलङ्कार्यौ तयोः पुनरलङ्कृतिः ।
वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते ॥ व्जिव्_१।१० ॥

उभौ द्वावप्येतौ शब्दार्थावलङ्कार्यावलङ्करणीयौ केनापि शोभातिशयकारिणालङ्करणेन योजनीयौ ।
किं तत्तयोरलङ्करणमित्यभिधीयते—तयोः पुनरलङ्कृतिः ।
तयोर्द्वित्वसङ्ख्याविशिष्टयोरप्यलङ्कृतिः पुनरेकैव, यया द्वावप्यलङ्क्रियते ।
कासौ—वक्रोक्तिरेव ।
वक्रोक्तिः प्रसिद्धाभिधानव्यतिरेकिणी विचित्रैवाभिधा ।
कीदृशी—वैदग्ध्यभङ्गीभणितिः ।
वैदग्ध्यं विदग्धभावः कविकर्मकौशलं तस्य भङ्गी विच्छित्तिः, तया भणितिः विचित्रैवाभिधा वक्रोक्तिरित्युच्यते ।
तदिदमत्र तात्पर्यम्—यत् शब्दार्थौ पृथगवस्थितौ न[^८१] केनापि व्यतिरिक्तेनालङ्करणेन योज्येते, किन्तु वक्रतावैचित्र्ययोगितयाभिधानमात्र[^८२] मवानयोरलङ्कारः, तस्यैव शोभातिशयकारित्वात् ।
एतच्च वक्रताव्याख्यानावसर एवोदाहरिष्यते ।
ननु च किमिदं प्रसिद्धार्थविरुद्धं प्रतिज्ञायते यद्वक्रोक्तिरेवालङ्कारो नान्यः कश्चिदिति, यतश्चिरन्तनैरपरं स्वभावोक्तिलक्षणमलङ्करणमाम्नातं तच्चातीवरमणीयमित्यसहमानस्तदेव निराकर्तुमाह—


अलङ्कारकृतां येषां स्वभावोक्तिरलङ्कृतिः ।
अलङ्कार्यतया तेषां किमन्यदवतिष्ठते ॥ व्जिव्_१।११ ॥

येषामलङ्कारकृतामलङ्कारकाराणां स्वभावोक्तिरलङ्कृतिः, या स्वभावस्य पदार्थधर्मलक्षणस्य परिस्पन्दस्य उक्तिरभिधा सैवालङ्कृतिरलङ्करणमिति प्रतिभाति, ते सुकुमारमानसत्वाद् विवेकक्लेशद्वेषिणः ।
यस्मात् स्वभावोक्तिरिति कोर्ऽथः ? स्वभाव एवोच्यमानः स एव यद्यलङ्कारस्तत्किमन्यत्तद्व्यतिरिक्तं काव्यशरीरकल्पं वस्तु विद्यते यत्तोषामलङ्कार्यतया विभूष्यत्वेनावतिष्ठते पृथगवस्थितिमासादयति, न किञ्चिदित्यर्थः ।
ननु च पूर्वमवस्थापितम्—यद्वाक्यस्यैवाविभागस्य सालङ्कारस्य काव्यत्वमिति (१ ।
६) तत्किमर्थमेतदभिधीयते ? सत्यम्, किन्तु तत्रासत्यभूतो ऽप्यपोद्धारबुद्धिविहितो विभागः कर्तुं शक्यते वर्णपदन्यायेन वाक्यपदन्यायेन चेत्युक्तमेव ।
एतदेव प्रकारान्तरेण विकल्पयितुमाह—


स्वभावव्यतिरेकेण वक्तुमेव न युज्यते ।
वस्तु तद्रहितं यस्मान्निरुपाख्यं प्रसज्यते ॥ व्जिव्_१।१२ ॥

स्वभावव्यतिरेकेण स्वपरिस्पन्दं विना निःस्वभावं वक्तुमभिधातुमेव न युज्यते न शक्यते ।
वस्तु वाच्यलक्षणम् ।
कुतः—तद्रहितं तेन स्वभावेन रहितं वर्जितं यस्मान्निरुपाख्यं प्रसज्यते ।
उपाख्याया निष्क्रान्तं निरुपाख्यम् ।
उपाख्या शब्दः, तस्यागोचरभूतमभिधानायोग्यमेव सम्पद्यते ।
यस्मात् स्वभावशब्दस्येदृशी व्युत्पत्तिः—भवतो ऽस्मादभिधानप्रत्ययाविति भावः, स्वस्यात्मनो भावः स्वभावः ।
तेन स एव यस्य कस्यचित्पदार्थस्य प्रख्योपाख्यावतारनिबन्धनम्, तेन वर्जितमसत्कल्पं वस्तु शशविषाणप्रायं शब्दज्ञानागोचरतां प्रतिपद्यते ।
स्वभावयुक्तमेव सर्वथाभिधेयपदवीमवतरतीति शाकटिकवाक्यानामपि सालङ्कारता प्राप्नोति, स्वभावोक्तियुक्तत्वेन ।
एतदेव युक्त्यन्तरेण विकल्पयति—


शरीरं चेदलङ्कारः किमलङ्कुरुते ऽपरम् ।
आत्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति ॥ व्जिव्_१।१३ ॥

यस्य कस्यचिद्वर्ण्यमानस्य वस्तुनो वर्णनीयत्वेन स्वभाव एव वर्ण्यशरीरम् ।
स एव चेदलङ्कारो यदि विभूषणं तत्किमपरं तद्व्यतिरिक्तं विद्यते यदलङ्कुरुते विभूषयति ।
स्वात्मानमेवालङ्करोतीति चेत्तदयुक्तम् अनुपपत्तेः ।
यस्मादात्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति, शरीरमेव शरीरस्य न कुत्रचिदप्यसमधिरोहतीत्यर्थः, स्वत्मनि क्रियाविरोधात् ।
अन्यच्चाभ्युपगम्यापि ब्रूमः—


भूषणत्वे स्वभावस्य विहिते भूषणान्तरे ।
भेदावबोधः प्रकटस्तयोरप्रकटो ऽथवा ॥ व्जिव्_१।१४ ॥
स्पष्टे सर्वत्र संसृष्टिरस्पष्टे सङ्करस्ततः ।
अलङ्कारान्तराणां च विषयो नावशिष्यते ॥ व्जिव्_१।१५ ॥

भूषणत्वे स्वभावस्य अलङ्कारत्वे परिस्पन्दस्य[^८३] यदा भूषणान्तरमलङ्कारान्तरं विधीयते तदा विहिते कृते, तस्मिन् सति, द्वयी गतिः सम्भवति ।
कासौ—तयोः स्वभावोक्त्यलङ्कारान्तरयोः भेदावबोधो भिन्नत्वप्रतिभासः प्रकटः सुस्पष्टः कदाचिदप्रकटश्चापरिस्फुटो वेति ।
तदा स्पष्टे प्रकटे तस्मिन् सर्वत्र सर्वस्मिन् कविवाक्ये संसृष्टिरेवैकालङ्कृतिः प्राप्नोति ।
अस्पष्टे तस्मिन्नप्रकटे सर्वत्रैवैकः सङ्करो ऽलङ्कारः प्राप्नोति ।
ततः को दोषः स्यादित्याह—अलङ्कारान्तराणां च विषयो नावशिष्यते ।
अन्येषामलङ्काराणामुपमादीनां विषयो गोचरो न कश्चिदप्यवशिष्यते, निर्विषयत्वमेवायातीत्यर्थः ।
ततस्तेषां लक्षणकरणवैयर्थ्यप्रसङ्गः ।
यदि च[^८४] तावेव संसृष्टिसङ्करौ तेषां विषयत्वेन कल्प्येते तदपि न किञ्चित्, तैरेवालङ्कारकारै[^८५] स्तस्यार्थस्यानङ्गीकृतत्वात् ।
इत्यनेनाकाशचर्वणप्रतिमेनालमलीकनिबन्धनेन ।
प्रकृतमनुसरामः ।
सर्वथा यस्य कस्यचित् पदार्थजातस्य कविव्यापारिविषयत्वेन वर्णनापदवीमवतरतः स्वभाव एव सहृदयाह्लादकारी काव्यशरीरत्वेन वर्णनीयतां प्रतिपद्यते ।
स एव च यथायोगं शोभातिशयकारिणा येन केनचिदलङ्कारेण योजयितव्यः ।
तदिदमुक्तम्—“अर्थः सहृदयाह्लादकारिस्वस्पन्दसुन्दरः” (१ ।९) इति ।
“उभावेतावलङ्कार्यौ” (१ ।१०) इति च ।
एवं शब्दार्थयोः परमार्थमभिधाय “शब्दार्थौ” इति (१ ।७) काव्यलक्षणवाक्ये पदमेकं व्याख्यातम् ।
इदानी “सहितौ” इति (१ ।७) व्याख्यातुं साहित्यमेतयोः पर्यालोच्यते—


शब्दार्थौ सहितावेव प्रतीतौ स्फुरतः सदा ।
सहिताविति तावेव सिमपूर्वं विधीयते ॥ व्जिव्_१।१६ ॥

शब्दार्थावभिधानाभिधेयौ सहिताववियुक्तावेव सदा सर्वकालं प्रतीतौ स्फुरतः ज्ञाने प्रतिभासेते ।
ततस्तावेव सहिताववियुक्ताविति पुनः किमपूर्वं विधीयते न किञ्चिदपूर्वं निष्पाद्यते, सिद्धं साध्यत इत्यर्थः ।
तदेवं शब्दार्थयोः स्वभावसिद्धं साहित्यं कः सचेताः पुनस्तदभिधानेन निष्प्रयोजनमात्मानमायासयति ? सत्यमेतत्, किन्तु न वाच्यवाचकलक्षणशाश्वतसम्बन्धनिबन्धनं वस्तुतः साहितामित्युच्यते ।
यस्मादेतस्मिन् साहितयशब्देनाभिधीयमाने कष्टकल्पनोपरचितानि गाङ्कुटादिवाक्यान्यसम्बद्धानि शाकटिकादिवाक्यानि च सर्वाणि साहित्यशब्देनाभिधीयेरन् ।
तेन पदवाक्यप्रमाणव्यतिरिक्तं किमपि तत्त्वान्तरं साहित्यमिति विभागो ऽपि न स्यात् ।
ननु च पदादिव्यतिरिक्तं यत्किमपि साहित्यं नाम तदपि सुप्रसिद्धमेव, पुनस्तदभिधाने ऽपि कथं न पौनरुक्त्यप्रसङ्गः ? अत एवैतदुच्यते—यदिदं साहित्यं नाम तदेतावति निःसीमनि समयाध्वनि साहित्यशब्दमात्रेणैव प्रसिद्धम् ।
न पुनरेतस्य कविकर्मकौशलकाष्ठाधिरूढरमणी यस्याद्यापि कश्चिदपि विपश्चिदयमस्य परमार्थ इति मनाङ्मात्रमपि विचारपदवीमवतीर्णः ।
तदद्य सरस्वतीहृदयारविन्दमकरन्दबिन्दुसन्दोहसुन्दराणां सत्कविवचसामन्तरामोदमनोहरत्वेन परिस्फुरदेतत् सहृदयषट्चरणगोचरतां नीयते ।


साहित्यमनयोः शोभाशालितां प्रति काप्यसौ ।
अन्यूनानतिरिक्तत्वमनोहारिण्यवस्थितिः ॥ व्जिव्_१।१७ ॥

सहीतयोर्भावः साहित्यम् ।
अनयोः शब्दार्थयोर्या काप्यलौकिकी चेतनचमत्कारकारितायाः कारणम् अवस्थितिर्विचित्रैव विन्यासभङ्गी ।
कीदृशी—अन्यूनानतिरिक्तत्वमनोहारिणी, परस्परस्पर्धित्वरमणीया ।
यस्यां द्वयोरेकतरस्यापि न्यूनत्वं निकर्षो न विद्यते नाप्यतिरिक्तत्वमुत्कर्षो वास्तीत्यर्थः ।
ननु च तथाविधं साम्यं द्वयोरुपहतयोरपि सम्भवतीत्याह—शोभाशालितां प्रति ।
शोभा सौन्दर्यमुच्यते ।
तया शालते श्लाघते यः स शोभाशाली, तस्य भावः शोभाशालिता, तां प्रति सौन्दर्यश्लाघितां प्रतीत्यर्यः ।
सैव च सहृदयाह्लादकारिता ।
तस्यां स्पर्धित्वेन यासाववस्थितिः परस्परसाम्यसुभगमवस्थानं सा साहित्यमुच्यते ।
अत्र च वाचकस्य वाचकान्तरेण वाच्यस्य वाच्यान्तरेण साहित्यमभिप्रेतम्, वाक्ये काव्यलक्षणस्य परिसमाप्तत्वादिति प्रतिपादितमेव ( १ ।
७) ।
ननु च वाचकस्य वाच्यान्तरेण वाच्यस्य वाचकान्तरेण कथं न साहित्यमिति चेत्तन्न, क्रमव्युत्क्रमे प्रयोजनाभावादसमन्वयाच्च ।
तस्मादेतयोः शब्दार्थयोर्यथास्वं यस्यां स्वसम्पत्सामग्रीसमुदयः सहृदयाह्लादकारी परस्परस्पर्धया परिस्फुरति, सा काचिदेव वाक्यविन्याससम्पत्साहित्यव्यपदेशभाग् भवति ।

मार्गानुगुण्यसुभगो माधुर्यादिगुणोदयः ।
अलङ्करणविन्यासो वक्रतातिशयान्वितः ॥ व्जिव्च्_१।३४ ॥
वृत्त्यौचित्यमनोहारि रसानां परिपोषणम् ।
स्पर्धया विद्यते यत्र यथास्वमुभयोरपि ॥ व्जिव्च्_१।३५ ॥
सा काप्यवस्थितिस्तद्विदाह्लादैकनिबन्धनम् ।
पदादिवाक्यपरिस्पन्दसारः साहित्यमुच्यते ॥ व्जिव्च्_१।३६ ॥

एतेषां च पदवाक्यप्रमाणसाहित्यानां चतुर्णामपि प्रतिवाक्यमुपयोगः ।
तथा चैतत्पदमेवंस्वरूपं गकारौकारविसर्जनीयात्मकमेतस्य चार्थस्य प्रतिपदिकार्थपञ्चकलक्षणस्याख्यातपदार्थषट्कलक्षणस्य वा वाचकमिति पदसंस्कारलक्षणस्य व्यापारः ।
पदानां च परस्परान्वयलक्षणसम्बन्धनिबन्धनमेतद्वाक्यार्थतात्पर्यम् इति वाक्यविचारलक्षणस्योपयोगः ।
प्रमाणेन प्रत्यक्षादिनैतदुपपन्नमिति युक्तियुक्तत्वं नाम प्रमाणलक्षणस्य प्रयोजनम् ।
इदमेव परिस्पन्दमाहात्म्यात्सहृदयहारितां प्रतिपन्नमिति साहित्यस्योपयुज्यमानता ।
एतेषां यद्यपि प्रत्येकं स्वविषये प्राधान्यमन्येषां गुणीभावस्तथापि सकलवाक्य परिस्पन्दजीवितायमानस्यास्य साहित्यलक्षणस्यैव कविव्यापारस्य वस्तुतः सर्वा तिशायित्वम् ।
यस्मादेतदमुख्यतयापि यत्र वाक्यसन्दर्भान्तरे स्वपरिमलमात्रेणैव संस्कारमारभवे तस्यैतदधिवासनाशून्य तामात्रेणैव रामणीयकविरहः पर्यवस्यति ।
तस्मादुपादेयतायाः परिहाणिरुत्पद्यते ।
तथा च स्वप्रवृत्तिवैयर्थ्यप्रसङ्गः ।
शास्त्रातिरिक्तप्रयोजनत्वं शास्त्राभिधेयचतुर्वर्गाधिकफलत्वं चास्य पूर्वमेव प्रतिपादितम् (१ ।३,५) ।

अपर्यालेचिते ऽप्यर्थे बन्धसौन्दर्यसम्पदा ।
गीतवद्धृदयाह्लादं तद्विदां विदधाति यत् ॥ व्जिव्च्_१।३७ ॥
वाच्यावबोधनिष्पत्तौ पदवाक्यार्थजीवितम् ।
यत्किमप्यर्पयत्यन्तः पानकास्वादवत्सताम् ॥ व्जिव्च्_१।३८ ॥
शरीरं जीवितेनेव स्फुरितेनेव जीवितम् ।
विना निर्जोवतां येन याति काव्यं विपश्चिताम् ॥ व्जिव्च्_१।३९ ॥
यस्मात्किमपि सौभाग्यं तद्विदामेव सोचरम् ।
सरस्वतीसमभ्येति तदितानी विचार्यते ॥ व्जिव्च्_१।४० ॥

इत्यन्तरश्लोकाः ।
एवं सहिताविति व्याख्याय कविव्यापारवक्रत्वं व्याचष्टे


कविव्यापारवक्रत्वप्रकाराः सम्भवन्ति षट् ।
प्रत्येकं बहवो भेदास्तेषां विच्छित्तिशोभिनः ॥ व्जिव्_१।१८ ॥

कवीनां व्यापारः कविव्यापारः काव्यक्रियालक्षणस्तस्य वक्रत्वं वक्रभावः प्रसिद्धप्रस्थानव्यतिरेकि वैचित्र्यं तस्य प्रकाराः प्रभेदाः षट् सम्भवन्ति ।
मुख्यतया तावन्त एव सन्तीत्यर्थः ।
तेषां प्रत्येकं प्रकाराः बहवो भेदविशेषाः ।
कीदृशाः—विच्छित्तिशोभिनः वैचित्र्यभङ्गीभ्राजिष्णवः ।
सम्भवन्तीति सम्बन्धः ।
तदेव दर्शयति–


वर्णविन्यासक्रत्वं पदपूर्वार्धवक्रता ।
वक्रतायाः परो ऽप्यस्ति प्रकारः प्रत्ययाश्रयः ॥ व्जिव्_१।१९ ॥

वर्णानां विन्यासो वर्णविन्यसाः लक्षराणां विशिष्टन्यसनं तस्य वक्रत्वं वक्रभावः प्रसिद्धप्रस्थानव्यतिरेकिणा वैचित्र्येणोपनिबन्धः सन्निवेशविशेषविहितस्तद्विदाह्लादकारी शब्दशोभातिशयः ।
यथा प्रथममरुणच्छायस्तावत्ततः कनकप्रभ- स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
प्रसरति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छविर्मृगलाञ्छनः ॥ व्जिव्च्_१।४१ ॥
अत्र वर्णविन्यासवक्रतामात्रविहितः शब्दशोभातिशयः सुतरां समुन्मीलितः ।
एतदेव वर्णविन्यासवक्रत्वं चिरन्तनेष्वनुप्रास इति प्रसिद्धम् ।
अस्य च प्रभेदस्वरूपनिरूपणं स्वलक्षणा वसरे करिष्यते (२ ।१) ।
पदपूर्वार्धवक्रता—पदस्य सुबन्तस्य तिङन्तस्य वा यत्पूर्वार्धं प्रातिपदिकलक्षणं धातुलक्षणं वा तस्य वक्रता वक्रभावो विन्यासवैचित्र्यम् ।
तत्र च बहवः प्रकाराः सम्भवन्ति ।
यत्र रूढिशब्दस्यैव प्रस्तावसमुचितत्वेन वाच्यप्रसिद्धधर्मान्तराध्यारोपगर्भत्वेन निबन्धः स पदपूर्वार्धवक्रतायाः प्रथमः प्रकारः ।
यथा रामो ऽस्मि सर्वं सहे ॥ व्जिव्च्_१।४२ ॥
द्वितीयः—यत्र सञ्ज्ञाशब्दस्य वाच्यप्रसिद्धस्य धर्मस्य लोकोत्तरातिशयाध्यारोपं गर्भोकृत्योपनिबन्धः ।
यथा रामो ऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा- मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् ।
वन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति- श्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः ॥ व्जिव्च्_१।४३ ॥
अत्र राम-शब्दो लोकोत्तरशौर्यादिधर्मातिशयाध्यारोपपरत्वेनोपात्तो वक्रतां प्रथयति ।
पर्यायवक्रत्वं नाम प्रकारान्तरं पदपूर्वार्धवक्रतायाः—यत्रानेकशब्दाभिधेयत्वे वस्तुनः किमपि पर्यायपदं प्रस्तुतानुगुणत्वेन प्रयुज्यते ।
तथा—

वामं कज्जलवद्विलोचनमुरो रोहद्विसारिस्तनं मध्यं क्षाममकाण्ड एव विपुलाभोगा नितम्बस्थली ।
सद्यः प्रोद्गतविस्मयैरिति गणैरालोक्यमानं मुहुः पायाद्वः प्रथमं वपुः स्मररिपोर्मिश्रीभवत्कान्तया ॥ व्जिव्च्_१।४४ ॥

अत्र “स्मररिपोः” इति पर्यायः कामपि वक्रतामुन्मीलयति ।
यस्मात्कामशत्रोः कान्तया सह मिश्रीभावः शरीरस्य न कथञ्चिदपि सम्भाव्यत इति गणानां सद्यः प्रोद्गतविस्मयत्वमुपपन्नम् ।
सो ऽपि पुनः पुनः परिशीलनेनाश्चर्यकारीति “प्रथम”–शब्दस्य जीवितम् ।
एतच्च पर्यायवक्रत्वं वाच्यांसभविधर्मान्तरगर्भोकरेणापि परिदृश्यते ।
यथा

अङ्गराज सेनापते राजवल्लभ रक्षैनं भीमाद्दुःशासनम् इति ॥ व्जिव्च्_१।४५ ॥

अत्र त्रयाणामपि पर्यायाणामसम्भाव्यमानतत्परित्राणपात्रत्वलक्षणमकिञ्चित्करत्वं गर्भोकृत्योपहस्यते—रक्षैनमिति ।
पदपूर्वार्धवक्रताया उपचारवक्रत्वं नाम प्रकारान्तरं विद्यते—यत्रामूर्तस्य वस्तुनो मूर्तद्रव्याभिधायिना शब्देनाभिधानमुपचारात् ।
यथा—निष्कारणं निकारकणिकापि मनस्विनां मानसमायासयति ।
यथा—हस्तावचेयं यशः इति ।
“कणिका”—शब्दो मूर्तवस्तुस्तोकार्थाभिधायी स्तोकत्वसामान्योपचारादमूर्तस्यापि निकारस्य स्तोकाभिधानपरत्वेन प्रयुक्तस्तद्विदाह्लादकारित्वाद्वक्रतां पुष्णाति ।
“हस्तावचेयम्” इति मूर्तपुष्पादिवस्तुसभविसंहतत्वसामान्योपचारादमूर्तस्यापि यशसो हस्तावचेयमित्यभिधानं वक्रत्वमावहति ।
द्रवरूपस्य वस्तुनो वाचकशब्दस्तरङ्गितत्वादिधर्मनिबन्धनः किमपि सादृश्यमात्रमवलम्ब्य संहतस्यापि वाचकत्वेन प्रयुज्यमानः कविप्रवाहे प्रसिद्धः ।
यथा

श्वासोत्कम्पतरङ्गिणि स्तनतटे इति ॥ व्जिव्च्_१। ४६ ॥

क्वचिदमूर्तस्यापि द्रवरूपार्थाभिधायी वाचकत्वेन प्रयुज्यते ।
यथा

एकां कामपि कालविप्रुषममी शौर्योष्मकण्डूव्यय- व्यग्राः स्युश्चिरविस्मृतामरचमूडिम्बाहवा बाहवः ॥ व्जिव्च्_१।४७ ॥

एतयोस्तरङ्गिणीति विप्रुषमिति च कामपि वक्रतामावहतः ।
विशेषणवक्रत्वं नाम पदपूर्वार्धवक्रतायाः प्रकारो सम्भवति—यत्र विशेषणमाहात्म्यादेव तद्विदाह्लादकारित्वलक्षणं वक्रत्वमभिव्यज्यते ।
यथा—

दाहो ऽम्भः प्रसृतिम्पचः प्रचयवान् बाष्पः प्रणालोचितः श्वासाः प्रेङ्खितदीप्रदीपलतिकाः पाण्डिम्नि मग्नं वपुः ।
किञ्चान्यत्कथयामि रात्रिमखिलां त्वद्वर्त्म वातायने हस्तच्छत्त्रविरुद्वचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥ व्जिव्च्_१।४८ ॥

अत्र दाहो बाष्पः श्वासा वपुरिति न किञ्चिद्वैचित्र्यमुन्मीलितम् ।
प्रत्येकं च विशेषणमाहात्म्यात् काचिदेव वक्रताप्रतीतिः ।
यथा च

व्रीडायोगान्नतवदनया सन्निधाने गुरूणां बद्धोत्कम्पस्तनकलशया मन्युमनतर्नियम्य ।
तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः ॥ व्जिव्च्_१। ४९ ॥

अत्र चकितहरिणीहारीति क्रियाविशेषणं नेत्रत्रिभागासङ्गस्य गुरुसन्निधानविहिताप्रगल्भत्वरमणीयस्य कामपि काम नीयतामावहति चकितहरिणीहारिविलोकन साम्येन ।
अयमपरः पदपूर्वार्धवक्रतायाः प्रकारो यदिदं संवृतिवक्रत्वं नाम—यत्र पदार्थस्वरूपं प्रस्तावानुगुण्येन केनापि निकर्षेणोत्कर्षेण वा युक्तं व्यक्ततया साक्षादभिधातुमशक्यं संवृतिसामर्थ्योपयोगिना शब्देनाभिधीयते ।
यथा

सो ऽयं दम्भधृतव्रतः प्रियतमे कर्तुं किमप्युद्यतः ॥ व्जिव्च्_१।५० ॥

अत्र वत्सराजे वासवदत्ताविपत्तिविधुरहृदयस्तत्प्राप्निप्रलोभनवशेन पद्मावतीं परिणेतुमीहमानस्तदेवाकरणीयमित्यवगच्छन् तस्य वस्तुनो महापताकस्येवाकीर्तनीयतां ख्यापयति किमपीत्यनेन संवरणसमर्थेन सर्वनामपदेन ।
यथा च

निद्रानिमीलतदृशो मदमन्थराया नाप्यर्थवन्ति न च यानि निर्थकानि ।
अद्यापि मे वरतनोर्मधुराणि तस्या- स्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ व्जिव्च्_१।५१ ॥

अत्र किमपीति तदाकर्णनविहितायाश्चित्तचमत्कृतेरनुभवैकगोचरत्वलक्षणमव्यपदेश्यत्वं प्रतिपाद्यते ।
तानीति तथाविधानुभवविशिष्टतया स्मर्यमाणानि ।
नाप्यर्थवन्तीति स्वसंवेद्यत्वेन व्यपदेशाविषयत्वं प्रकाश्यते ।
तेषां च न च यानि निरर्थकानीत्यलौकिकचमत्कारकारित्वादपार्थकत्वं निवार्यते ।
त्रिष्वप्येतेषु विशेषणवक्रत्वं प्रतीयते ।
इदमपरं पदपूर्वार्धवक्रतायाः प्रकारान्तरं सम्भवति वृत्तिवैचित्र्यवक्रत्वं नाम—यत्र समासादिवृत्तीनां कासाञ्चिद् विचित्राणामेव कविभिः परिग्रहः क्रियते ।
यथा

मध्ये ऽङ्कुरं पल्लवाः ॥ व्जिव्च्_१।५२ ॥

यथा च

पाण्डिम्नि मग्नं वपुः ॥ व्जिव्च्_१।५३ ॥

यथा वा सुधाविसरनिष्यन्दसमुल्लासविधायिनि ।
हिमधामनि खण्डे ऽपि न जनो नोन्मनायते ॥ व्जिव्च्_१।५४ ॥

अपरं लिङ्गवैचित्र्यवक्रत्वं नाम पदपूर्वार्धवक्रतायाः प्रकारान्तरं दृश्यते—यत्र भिन्नलिङ्गानामपि शब्दानां वैचित्र्याय सामानाधिकरण्योपनिबन्धः ।
यथा

इत्थं जडे जगति को नु बृहत्प्रमाणकर्णः करी ननु भवेद् ध्वनितस्य पात्रम् ॥ व्जिव्च्_१।५५ ॥

यथा च

मैथिली तस्य दाराः ॥ व्जिव्च्_१।५६ ॥
इति

अन्यदपि लिङ्गवैचित्र्यवक्रत्वम्—यत्रानेकलिङ्गसम्भवे ऽपि सौकुमार्यात् कविभिः स्त्रीलिङ्गमेव प्रयुज्यते, “नामैव स्त्रीति पेशलम्” (२ ।
२२) इति कृत्वा ।
यथा

एतां पश्य पुरस्तटीम् इति ॥ व्जिव्च्_१।५७ ॥

पदपूर्वार्धस्य धातौः क्रियावैचित्र्यवक्रत्वं नाम वक्रता प्रकारान्तरं विद्यते—यत्र क्रियावैचित्र्यप्रतिपादनपरत्वेन वैदग्ध्यभङ्गीभणितिरमणीयान् प्रयोगान् निबध्नन्ति कवयः ।
तत्र क्रियावैचित्र्यं बहुविधं विच्छत्तिविततव्यवहारं दृश्यते ।
यथा

रैकेलिहिअणिअंसणकरकिसलअरुद्धणअणजुअलस्य ।
रुद्दस्स तैअणअणं पव्वैपरिचुम्बिअं जऐ ॥ व्जिव्च्_१।५८ ॥

रतिकेलिहृतनिवसनकरिकिसलयरुद्धनयनयुगलस्य ।
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥
इति छाया ॥

अत्र समाने ऽपि हि स्थगनप्रयोजने साध्ये सामान्ये च लोचनत्वे, देव्याः परिचुम्बनेन यस्य निरोधः सम्पाद्यते तद्भगवतस्तृतीयनयनं जयति सर्वोत्कर्षेण वर्तत इति वाक्यार्थः ।
अत्र जयतीति क्रियापदस्य किमपि सहृदयहृदयसंवेद्यं वैचित्र्यं परिस्फुरदेव लक्ष्यते ।
यथा च

स्वेच्छाकेसरिणः स्वच्छस्वच्छायायासितेन्दवः ।
त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः ॥ व्जिव्च्_१।५९ ॥

अत्र नखानां सकललोकप्रसिद्धच्छेदनव्यापारव्यतिरेकि किमप्यपूर्वमेव प्रपन्नार्तिच्छेदनलक्षणं क्रियावैचित्र्यमुपनिबद्धम् ।
यथा च

स दहतु दुरितं शाम्भवो वः शराग्निः ॥ व्जिव्च्_१।६० ॥

अत्र च पूर्ववदेव क्रियावैचित्र्यप्रतीतिः ।
यथा च

कण्णुप्पलदलमिलिअलोअणेहिं हेलालोलणमाणिअणअणेहिं ।
लीलै लीलावरिहि णिरुद्धाओ सिढिलिअचाओ जऐ मअरद्धओ ॥ व्जिव्च्_१।६१ ॥

कर्णोत्पलदलमिलितलोचनैर्हेलालोलनमानितनयनाभिः ।
लीलया लीलावतीभिर्निरुद्धः शिथिलीकृतचापो जयति मकरध्वजः ॥

अत्र लोचनैर्लोलया लीलावतीभिर्निरुद्धः स्वव्यापारपराङ्मुखीकृतः सन् शिथिलीकृतचापः कन्दर्पो जयति सर्वोत्कर्षेण वर्तत इति किमुच्यते, यतस्तास्तथाविधविजयावाप्तौ सत्यां जयन्तीति वक्तव्यम् ।
तदयमत्राभिप्रायः—यदेलल्लो चनविलासानामेवंविधं जैत्रताप्रौढिभावं पर्यालोच्य चेतनत्वेन स स्वचापाधिरोप णायासमुपसंहृतवान् ।
यतस्तेनैव त्रिभुवनविजयावाप्तिः परिसमाप्यते ।
ममेति मन्यमानस्य तस्य सहायत्वोत्कर्षातिशयो जयतीति क्रियापदेन कर्तृतायाः कारणत्वेन कवेश्चेतसि परिस्फुरितः ।
तेन किमपि क्रियावैचित्र्यमत्र तद्विदाह्लादकारि प्रतीयते ।
यथा च

तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ व्जिव्च्_१।६२ ॥

अत्र जल्पन्ति वदन्तीत्यादि न प्रयुक्तम्, यस्मात्तानि कयापि विच्छित्त्या किमप्यनाख्येयं समर्पयन्तीति कवेरभिप्रेतम् ।
वक्रतायाः परो ऽप्यस्ति प्रकारः प्रत्ययाश्रयः इति ।
वक्रभावस्यान्यो ऽपि प्रभेदो विद्यते ।
कीदृशः—प्रत्ययाश्रयः ।
प्रत्ययः सुप्तिङ् च यस्याश्रयः स्थानं स तथोक्तः ।
तस्यापि बहवः प्रकाराः सम्भवन्ति—सङ्ख्यावैचित्र्यविहितः, कारकवैचित्र्यविहितः, पुरुषवैचिर्त्यविहितश्च ।
तत्र सङ्ख्यावैचित्र्यविहितः—यस्मिन् वचनवैचित्र्यं काव्यशोभोपनिबन्धनाय निबध्नन्ति ।
यथा वा

मैथिली तस्य दाराः ॥ व्जिव्च्_१।६३ ॥
इति

यथा वा फुल्लेन्दीवरकाननानि नयने पाणी सरोजाकराः ॥ व्जिव्च्_१।६४ ॥

अत्र द्विवचनबहुवचनयोः सामानाधिकरण्यमतीव चमत्कारकारि ।
कारकवैचित्र्यविहितः—यत्राचेतनस्यापि पदार्थस्य चेतनत्वाध्यारोपेण चेतनस्यैव क्रियासमावेशलक्षणं रसादिपरिपोषणार्थं कर्तृत्वादिकारकत्वं निबध्यते ।
यथा

स्तनद्वन्द्वं मन्दं स्नपयति बलाद्वाष्पनिवहो हठादन्तः कण्ठं लुठति सरसः पञ्चमरवः ।
शरज्ज्योत्स्नापाण्डुः पतति च कपोलः करतले न जानीमस्तस्या क इव हि विकारव्यतिकरः ॥ व्जिव्च्_१।६५ ॥

त्र[^५] ॥
अत्र बाष्पनिवहादीनामचेतवानामपि चेतनत्वाध्यारोपेण कविना कर्तृत्वमुपनिबद्धम्—यत्तस्या विवशायाः सत्यास्तेषामेवंविधो व्यवहारः, सा पुनः स्वयं न किञ्चिदप्याचरितुं समर्थेत्यभिप्रायः ।
अन्यच्च कपोलादीनां तदवयवानामेतदवस्थत्वं प्रत्यक्षतयास्मदादिगोचरतामापद्यते, तस्याः पुनर्यो ऽसावन्तर्विकारव्यतिकरस्तं तदनुभवैकविषयत्वाद्वयं न जनीमः ।
यथा च

चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः बाणव्यस्तः सदनमुदधिर्भूरियं हन्तकारः ।
अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥ व्जिव्च्_१।६६ ॥

अत्र चन्द्रहासो लज्जत इति पूर्ववत् कारकवैचित्र्यप्रतीतिः ।
पुरुषवैचित्र्यविहितं वक्रत्वं विद्यते—यत्र प्रत्यक्तापरभावविपर्यासं प्रयुञ्जते कवयः, काव्यवैचित्र्यार्थं युष्मद्यस्मदि वा प्रयोक्तव्ये प्रातिपदिकमात्रं निबध्नन्ति ।
यथा

अस्मद्भागयविपर्ययाद्यदि परं देवो न जानाति तम् ॥ व्जिव्च्_१।६७ ॥

अत्र त्वं न जानासीति वक्तव्ये वैचित्र्याय देवो न जानातीत्युक्तम् ।
एवं युष्मदादिवपर्यासः क्रियापदं विना प्रातिपदिकमात्रे ऽपि दृश्यते ।
यथा

अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥ व्जिव्च्_१।६८ ॥

अत्राहं प्रष्टुकाम इति वक्तव्ये ताटस्थ्यप्रतीत्यर्थमयं जन इत्युक्तम् ।
यथा वा ।

सो ऽय दम्भधृव्रतः इति ॥ व्जिव्च्_१।६९ ॥

अत्र सो ऽहमिति वक्तव्ये पूर्ववद् “अयम्” इति वैचित्र्यप्रतीतिः ।
एते च मुख्यतया वक्रताप्रकाराः कतिचिन्नदर्शनार्थं प्रदर्शिताः ।
शिष्टाश्च सहस्त्रशः सम्भवन्तीति महाकविप्रवाहे सहृदयैः स्वयमेवोत्प्रेक्षणीयाः ।
एवं वाक्यावयवानां पदानां प्रत्येकं वर्णाद्यवयवद्वारेण यथासम्भव वक्रभावं व्याख्यायेदानीं पदसमूहभूतस्य वाक्यस्य वक्रता व्याख्यायते—


वाक्यस्य वक्रभावो ऽन्यो भिद्यते यः सहस्त्रधा ।
यत्रालङ्कारवर्गो ऽसौ सर्वो ऽप्यन्तर्भविष्यति ॥ व्जिव्_१।२० ॥

वाक्यस्य वक्रभावो ऽन्यः ।
वाक्यस्य पदसमूहभूतस्य ।
आख्यातं साव्ययकारकविशेषणं वाक्यमिति यस्य प्रतीतिस्तस्य श्लोकादेर्वक्रभावो भङ्गीभणितिवैचित्र्यम् अन्यः पूर्वोक्तवक्रताव्यतिरेकी समुदायवैचित्र्यनिबन्धनः को ऽपि सम्भवति ।
यथा

उपस्थितां पूर्वमपास्य लक्ष्मीं वनं मया सार्धमसि प्रपन्नः ।
त्वमाश्रयं प्राप्य तया नु कोपा- त्सोढास्मि न त्वद्भवने वसन्ती ॥ व्जिव्च्_१।७० ॥

एतत्सीतया तथाविधकरुणाक्रान्तान्तः करणया वल्लभं प्रति सन्दिश्यते —यदुपस्थितां सेवासमापन्नां लक्ष्मीमपास्य श्रियं परित्यज्य पूर्वं यस्त्वं मया सार्धं प्रपन्नो विपिनं प्राप्तस्तस्य तव स्वप्ने ऽप्येतन्न सभाव्यते ।
तया पुनस्तस्मादेव कोपात् स्त्रीस्वभावसमुचितसपत्नीविद्वेषात्त्वद्गृहे वसन्ती न सोढास्मि ।
तदिदमुक्तं भवति— यत्तस्मिन् विधुरदशाविसंष्ठुले ऽपि समये तथाविधप्रसादास्पदता ।
मध्यारोप्य यदिदानीं साम्राज्ये निष्कारणपरित्यागतिरस्कारपात्रता ।
नीतास्मीत्येतदुचितमनुचितं वा विदितव्यवहारपरम्परेण भवतस्वयमेव विचार्यतामिति ।
स च वक्रभावस्तथाविधो यः सहस्त्रधा भिद्यते बहुप्रकारं भेदमासादयति ।
सहस्त्र-शब्दो ऽत्र सङ्ख्याभूयस्त्वमात्रवाची, न नियतार्थवृत्तिः, यथा—सहस्त्रमवध्यमिति ।
यस्मात् कविप्रतिभानामानन्त्यान्नियतत्वं न सम्भवति ।
यो ऽसौ वाक्यस्य वक्रभावो बहुप्रकारः, न जानीमः कीदृश इत्याह—यत्रालङ्कारवर्गो ऽसौ सर्वो ऽप्यन्तर्भविष्यति ।
यत्र यस्मिन्नसावलङ्कारवर्गः कविप्रवाहप्रसिद्धप्रतीतिरुपमादिरलङ्करणकलापः सर्वः सकलो ऽप्यन्तर्भविष्यति अन्तर्भावं गमिष्यति पृथकत्वेन नावस्थाप्यते ।
तत्प्रकारभेदत्वेनैव व्यपदेशमासादयिष्यतीत्यर्थः ।
स चालङ्कारवर्गः स्वलक्षणावसरे प्रतिपदमुदाहरिष्यते ॥
एवं वाक्यवक्रतां व्याख्याय वाक्यसमूहरूपस्य प्रकरणस्य तत्समुदायात्मकस्य च प्रबन्धस्य वक्रता व्याख्यायते—


वक्रभावः प्रकरणे प्रबन्धे ऽप्यस्ति यादृशः ।
उच्यते सहजाहार्यसौकुमार्यमनोहर) ॥ व्जिव्_१।२१ ॥

वक्रभावो विन्यासवैचित्र्यं प्रबन्धैकदेशभूते प्रकरणे यादृशो ऽस्ति यादृग् विद्यते प्रबन्धे वा नाटकादौ सो ऽप्युच्यते कथ्यते ।
कीदृशः—सहजाहार्यसौकुमार्यमनोहरः ।
सहजंस्वाभाविकमाहार्यं व्युत्पत्त्युपार्जितं यत्सौकुमार्यं रामणीयकं तेन मनोहरो हृदयहारी यः स तथोक्तः ।
तत्र प्रकरणे वक्रभावो यथा—रामायणे मारीचमायामयमाणिक्यमृगानुसारिणो रामस्य करुणाक्रन्दाकर्णनकातरन्तः- करणया जनकराजपुत्र्या व्तत्प्राणपरित्राणाय स्वजीवितपरिरक्षानिरपेक्षया लक्ष्मणो निर्भर्त्स्य प्रेषितः ।
तदेतदत्यन्तमनौचित्ययुक्तम्, यस्मादनुचरसन्निधाने प्रधानस्य तथाविधव्यापारकरणमसम्भावनीयम् ।
तस्य च सर्वातिशायिचरित युक्तत्वेन वर्ण्यमानस्य तेन कनीयसा प्राणकरित्राणसम्भावनेत्येदत्यन्तमसमीचीनमिति पर्यालोच्य उदात्तराघवे कविना वैदग्ध्यवशेन मारीचमृगमारणाय प्रयातस्य परित्राणार्थं लक्ष्मणस्य सीतया कातरत्वेनरामः प्रेरितः इत्युपनिबद्धम् ।
अत्र च तद्विदाह्लादकारित्वमेव वक्रत्वम् ।
यथा वा किरातार्जुनीये किरातपुरुषोक्तिषु वाच्यत्वेन स्वमार्गणमार्गणमात्रमेवोपक्रान्तम् ।
वस्तुतः पुनरर्जुनेन सह तात्पर्यार्थपर्यालोचनया विग्रहो वाक्यार्थतामुपनीतः ।
तथा च तत्रैवोच्यते—

प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् ।
तथाभियुक्तं च शिलीमुखार्थिना यथेतरन्न्याय्यमिवावभासते ॥ व्जिव्च्_१।७१ ॥

प्रबन्धे वक्रभावो यथा—कुत्रचिन्महाकविविरचिते रामकथोपनिबन्धे नाटकादौ पञ्चविधवक्रतासामग्रीसमुदयसुन्दरं सहृदयहृदयहारि महापुरुषवर्णनमुपक्रमे प्रतिभासते ।
परमार्थतस्तु विधिनिषेधात्मकधर्मोपदेशः पर्यवस्यति, रामवद्वर्तिव्यं न रावणवदिति ।
यथा च तापसवत्सराजे कुसुमसुकुमारचेतसः सरसविनोदैकरसिकस्य नायकस्य चरितवर्णनमुपक्रान्तम् ।
वस्तुतस्तु व्यसनार्णवे निमज्जन्निजो राजा तथाविधनयव्यवहारनिपुणैरमात्यैस्तैस्तैरुपायैरुत्तारणीय इत्युपदिष्टम् ।
एतच्च स्वलक्षणव्याख्यानावसरे व्यक्तिमाया स्यति ।
एवं कविव्यापारवक्रताषट्कमुद्देशमात्रेण व्याख्यातम् ।
विस्तुरेण तु स्वलक्षणावसरे व्याख्यास्यते ।
क्रमप्राप्तत्वेन बन्धो ऽधुना व्याख्यास्यते—


वाच्यवाचकसौभाग्यलावण्यपरिपोषकः ।
व्यापारशाली वाक्यस्य विन्यासो बन्ध उच्यते ॥ व्जिव्_१।२२ ॥

विन्यासो विशिष्टं न्यसनं यः सन्निवेशः स एव व्यापारशाली बन्ध उच्यते ।
व्यापारो ऽत्र प्रस्तुतत्वात् काव्य क्रियालक्षणः ।
तेन शालते श्लाघते यः स तथोक्तः ।
कस्य—वाक्यस्य श्लोकादेः ।
कीदृशः—वाच्यवाचकसौभाग्यलावण्यपरिपोषकः ।
वाच्यवाचकयोर्द्वयोरपि वाच्यस्याभिधेयस्य वाचकस्य च शब्दस्य वक्ष्यमाणं सौभाग्यलावण्यलक्षणं यद्गुणद्वयं तस्य परिपोषकः पुष्टतातिशयकारी ।
सौभाग्यं प्रतिभासंरम्भफलभूतं चेतनचमत्कारित्वलक्षणम्, लावण्यं सन्निवेशसौन्दर्यम्, तयोः परिपोषकः ।
यथा

दत्त्वा वामकरं नितम्बफलके लीलावलन्मध्यया प्रोत्तुङ्गस्तनमंसचुम्बिचिबुकं कृत्वा तया मां प्रति ।
प्रान्तप्रोतनवेन्द्रनीलमणिमन्मुक्तावलीविभ्रमाः सासूयं प्रहिताः स्मरज्वरमुचो द्वित्राः कटाक्षच्छटाः ॥ व्जिव्च्_१।७२ ॥

अत्र समग्रकविकौशलसम्पाद्यस्य चेतनचमत्कारित्वलक्षणस्य सौभाग्यस्य कियन्मात्रवर्णविन्यासविच्छित्तिविहितस्य पदसन्धानसम्पदुपार्जितस्य च लावण्यस्य परः परिपोषो विद्यते ।
एवं च स्वरूपमभिधाय तद्विदाह्लादकारित्वमभिधत्ते—


वाच्यवाचकवक्रोक्तित्रितयातिशयोत्तरम् ।
तद्विदाह्लादकारित्वं किमप्यामोदसुन्दरम् ॥ व्जिव्_१।२३ ॥

तद्विदाह्लादकारित्वं काव्यविदानन्दविधायित्वम् ।
कीदृशम्— वाच्यवाचकवक्रोक्तित्रितयातिशयोत्तरम् ।
वाच्यमभिधेयं वाचकः शब्दो वक्रोक्तिरलङ्करणम्, एतस्य त्रितयस्य यो ऽतिशयः को ऽप्युत्कर्षस्तस्मादुत्तरमतिरिक्तम् ।
स्वरूपेणातिशयेन च स्वरूपेणान्यत् किमपि तत्त्वान्तरमेतदतिशयेनैतस्मात्त्रितयादपि लोकोत्तरमित्यर्थः ।
अन्यच्च कीदृशम्—किमप्यामोदसुन्दरम् ।
किमप्यव्यपदेश्यं सहृदयहृदयसंवेद्यम् आमोदः सुकुमारवस्तुधर्मो रञ्जकत्वं नाम, तेन सुन्दरं रञ्जकत्वरमणीयम् ।
यथा

हंसानां निनदेषु यैः कवलितैरासज्यते कूजता- मन्यः को ऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः ।
ते सम्प्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ॥ व्जिव्च्_१।७३ ॥

अत्र त्रितये ऽपि वाच्यवाचकवक्रोक्तिलक्षणे प्राधान्येन न कश्चिदपि कवेः संरम्भो विभाव्यते ।
किन्तु प्रतिभावैचित्र्यवशेन किमपि तद्विदाह्लादकारित्वमुन्मीलितम् ।
यद्यपि सर्वेषामुदाहरणानामविकलकाव्यलक्षणपरिसमाप्तिः सम्भवति तथापि यत्प्राधान्येनाभिधीयते स एवांशः प्रत्येकमुद्रिक्ततया तेषां परिस्फुरतीति सहृदयैः स्वयमेवोत्प्रेक्षणीयम् ।
एवं काव्यसामान्यलक्षणमभिधाय तद्विशेषलक्षणविषयप्रदर्शनार्थं मार्गभेदनिबन्धनं त्रैविध्यमभिधत्ते—


सन्ति तत्र त्रयो मार्गाः कविप्रस्थानहेतवः ।
सुकुमारो विचित्रश्च मध्यमश्चोभयात्मकः ॥ व्जिव्_१।२४ ॥

तत्र तस्मिन् काव्ये मार्गाः पन्थनस्त्रयः सन्ति सम्भवन्ति ।
न द्वौ न चत्वारः स्वरादिसङ्ख्यावत्तावतामेव वस्तुतस्तज्ज्ञैरुपलम्भात् ।
ते च कीदृशाः—कविप्रस्थानहेतवः ।
कवीनां प्रस्थानं वर्तनं तस्य हेतवः, काव्यकरणस्य कारणभूताः ।
किमभिधानाः— सुकुमारो विचित्रश्च मध्यमश्चेति ।
कीदृशो मध्यमः—उभयात्मकः ।
उभयमनन्तरोक्तं मार्गद्वयमात्मा यस्येति विगृह्य छायाद्वयोपजीवीत्युक्तं भवति ।
तेषां च स्वलक्षणावसरे स्वरूपमाख्यास्यते ।
अत्र बहुविधा विप्रतिपत्तयः सम्भवन्ति ।
यस्माच्चिरन्तनैर्विदर्भादिदेशविशेषसमाश्रयणेन वैदर्भोप्रभृतयो रीतयस्तिस्त्रः समाम्नाताः ।
तासां चोत्तमाधममध्यमत्वेन त्रैविध्यम् ।
अन्यैश्च वैदर्भगौडीयलक्षणं मार्गद्वितयमाख्यातम् ।
एतच्चोभयमप्ययुक्तियुक्तम् ।
यस्माद्देशभेदनिबन्धनत्वे रीतिभेदानां देशानामानन्त्यादसङ्ख्यात्वं प्रसज्यते ।
न च विशिष्टरीतियुक्तत्वेन काव्यकरणं मातुलेयभगिनीविवाहवद् देशधर्मतया व्यवस्थापयितुं शक्यम् ।
देशधर्मो हि वृद्धव्यवहारपरम्परामात्रशरणः शक्यानुष्ठानतां नातिवर्तते ।
तथाविधकाव्यकरणं पुनः शक्त्यादिकरणकलापसाकल्यमपेक्ष्यमाणं न शक्यते यथाकथञ्चिदनुष्ठातुम् ।
न च दाक्षिणात्यगीतविषयसुस्वरत्वादि ध्वनिरामणीयकवत्तस्य स्वाभाविकं किञ्चिद् वक्तुं पार्यते ।
तस्मिन् सति तथाविधकाव्यकरणं सर्वस्य स्यात् ।
किञ्च शक्तौ विद्यमानायामपि व्युत्पत्त्यादिराहार्यकारणसम्पत्प्रतिनियतदेशविषयतया न व्यतिष्ठते, नियमनिबन्धनाभावात् तत्रादर्शनाद् अन्यत्र च दर्शनात् ।
न च रीतीनामुत्तममध्यमाधमत्वभेदेन त्रैविध्यं व्यवस्थापयितुं न्याय्यम् ।
यस्मात् सहृदयहृदया ह्लादकारिकाव्यलक्षणप्रस्तावे वैदर्भोसदृशसौन्दर्यासम्भवान्मध्यमाधमयोरुपदेशवैयर्थ्यमायाति ।
परिहार्यत्वेनाप्युपदेशो न युक्ततामालम्बते, तैरेवानभ्युपगतत्वात् ।
न चागतिकगतिन्यायेन यथाशक्ति दरिद्रदानवत् काव्यं करणीयता मर्हति ।
तदेवं निर्वचनसमाख्यामात्रकरणकारणत्वे देशविशेषाश्रयणस्य वयं न विवदामहे ।
मार्गद्वितयवादिनामप्येतान्येव दूषणान् ।
तिदलमनेन निःसारवस्तुपरिमलनव्यसनेन ।
कविस्वभावभेदनिबन्धनत्वेन काव्यप्रस्थानभेदः समञ्जसतां गाहते ।
सुकुमारस्वभावस्य हि कवेस्तथाविधैव सहजा शक्तिः समुद्भवति, शक्तिशक्तिमतोरभेदात् ।
तया च तथाविधसौकुमार्यरमणीयां व्युत्पत्तिमाबध्नाति ।
ताभ्यां च सुकुमारवर्त्मनाभ्यासतत्परः क्रियते ।
तथैवै तस्माद् विचित्रः स्वभावो यस्य कवेस्तद्विदाह्लादकारिकाव्यलक्षणप्रस्ता वात् सौकुमार्यव्यतिरेकिणा वैचित्र्येण रमणीय एव, तस्य काचिद्विचित्रैव तदनुरूपा शक्तिः समुल्लसति ।
तया च तथाविधवैदग्ध्यबन्धुरां व्युत्पत्तिमाबध्नाति ।
ताभ्यां च वैचित्र्यवासनाधिवासितमानसो विचित्रवर्त्मनाभ्यासभाग् भवति ।
एवमेतदुभयकविनिबन्धनसंवलितस्वभावस्य कवेस्तदुचितैव शबलशोभातिशयशालिनी शक्तिः समुदेति ।
तया च तदुभयपरिस्पन्दसुन्दरं व्युत्पत्त्युपार्जनमाचरति ।
ततस्तच्छायाद्वितयपरिपोषपेशलाभ्यासपरवशः सम्पद्यते ।
तदेवमेते कवयः काव्य करणकलापकाष्ठाधिरूढिरमणीयं किमपि काव्यमारभन्ते, सुकुमारं विचित्रमुभयात्मकं च ।
त एव तत्प्रवर्तननिमित्तभूता मार्गा इत्युच्यन्ते ।
यद्यपि कविस्वभावभेदनिबन्धनत्वादनन्तभेदभिन्नत्वमनिवार्यम्, तथापि परिसङ्ख्यातुमशक्यत्वात् सामान्येन त्रैविध्यमेवोपपद्यते ।
तथा च रमणीयकाव्यपरिग्रहप्रस्तावे स्वभावसुकुमारस्तावदेको राशिः, तद्व्यतिरिक्तस्यारमणीयस्यानुपादेयत्वात् ।
तद्व्यतिरेकी रामणीयकविशिष्टो विचित्र इत्युच्यते ।
तदेतयोर्द्वयोरपि रमणीयत्वादेतदीयच्छायाद्वितयोपजीविनो ऽस्य रमणीयत्वमेव न्यायोपपन्नं पर्यवस्यति ।
तस्मादेतेषां प्रत्येकमस्खलितस्वपरिस्पन्दमहिम्ना तद्विदाह्लादकारित्वपरिसमाप्तेर्न कस्यचिन्न्यूनता ।
ननु च शक्त्योरान्तरतम्यात् स्वाभाविकत्वं वक्तुं युज्यते, व्युत्पत्त्यभ्यासयोः पुनराहार्ययोः कथमेतद् घटते ? नैष दोषः, यस्मादास्तां तावत् काव्यकरणम्, विषयान्तरे ऽपि सर्वस्य कस्यचिदनादिवासनाभ्यासाधिवासितचेतसः स्वभावानुसारिणावेव व्युत्पत्त्यभ्यासौ प्रवर्तते ।
तौ च स्वभावाभिव्यञ्जनेनैव साफल्यं भजतः ।
स्वभावस्य तयोश्च परस्परमुपकार्योपकारकभावेनावस्थानात् स्वभावस्तावदारभते, तौ च तत्परिपोषमातनुतः ।
तथा चाचेतनानामपि पदार्थानां स्वभावः स्वभावसंवादिभावान्तरसन्निधानमाहात्म्यादभिव्यक्तिमासादयति, यथा चन्द्रकान्तमणयश्चन्द्रमसः किरणपरा मर्शवशेन स्पन्दमानसहजरसप्रसराः सम्पद्यन्ते ।
तदेवं मार्गानुद्दिश्य तानेव क्रमेण लक्षयति—


अम्लानप्रतिभोद्भिन्ननवशब्दार्थसुन्दरः ।
अयत्नविहितस्वल्पमनोहारिविभूषणः ॥ व्जिव्_१।२५ ॥
भावस्वभावप्राधान्यन्यक्कृताहार्यकौशलः ।
रसादिपरमार्थज्ञमनः संवादसुन्दरः ॥ व्जिव्_१।२६ ॥
अविभावितसंस्थानरामणीयकरञ्जकः ।
विधिवैदग्ध्यनिष्पन्ननिर्माणातिशयोपमः ॥ व्जिव्_१।२७ ॥
यद् किञ्चनापि वैचित्र्यं तत्सर्वं प्रतिभोद्भवम् ।
सौकुमार्यपरिस्पन्दस्यन्दि यत्र विराजते ॥ व्जिव्_१।२८ ॥
सुकुमाराभिधः सो ऽयं येन सत्कवयो गताः ।
मार्गेणोत्फुल्लकुसुमकाननेनेव षट्पदाः ॥ व्जिव्_१।२९ ॥

सुकुमाराभिधः सो ऽयम्, सो ऽयं पूर्वोफलक्षणः सुकुमारशब्दाभिधानः ।
येन मार्गेण सत्कवयः कालिदासप्रभृतयो गताः प्रियाताः, तदाश्रयेण काव्यानि कृतवन्तः ।
कथम्—उत्फुल्लकुसुमकाननैव षट्पदाः ।
उत्फुल्लानि विकसितानि कुसुमानि पुष्पाणि यस्मिन् कानने वने तेन षट्पदा इव भ्रमरा यथा ।
विकसितकुसुमकाननसाम्येन तस्य कुसुमसौकुमार्य सदृशमाभैजात्यं द्योत्यते ।
तेषां च भ्रमरसादृश्येन कुसुममकरन्दकल्पसारसङ्ग्रहव्यसनिता ।
स च कीदृशः—यत्र यस्मिन् किञ्चनापि कियन्मात्रमपि वैचित्र्यं विचित्रभावो वक्रोक्तियुक्तत्वम् ।
तत्सर्वमलङ्कारादि प्रतिभोद्भवं कविशक्तिसमुल्लसितमेव, न पुनराहार्यं यथाकथञ्चित्प्रयत्नेन निष्पाद्यम् ।
कीदृशम्—सौकुमार्यपरिस्पन्दस्यन्दि ।
सौकुमार्यमाभिजात्यं तस्य परिस्पन्दस्तद्विदाह्लादकारित्वलक्षणं रामणीयकं तेन स्यन्दते रसमयं सम्पद्यते यत्तथोक्तम् ।
यत्र विराजते शोभातिशयं पुष्णातीति सम्बन्धः ।
यथा

प्रवृद्धतापो दिवसो ऽतिमात्र- मत्यर्थमेव क्षणदा च तन्वी ।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम् ॥ व्जिव्च्_१।७४ ॥
अत्र श्लेषच्छायाच्छुरितं कविशक्तिमात्रसमुल्लसितमलङ्करणमनाहार्यं कामपि कमनीयतां पुष्णाति ।
तथा च “प्रवृद्धतापः” तन्वी" इति वाचकौ सुन्दरस्वभावमात्रसमर्पणपरत्वेन वर्तमानावर्थान्तरप्रतीत्यनुरोधपरत्वेन प्रवृत्तिं न सम्मन्येते, कविव्यक्तकौशलसमुल्लसितस्य पुनः प्रकारान्तिरस्य प्रतीतावानुगुण्यमात्रेण तद्विदाह्लादकारितां प्रतिपद्येते ।
किं तत्प्रकारान्तरं नाम ?—विरोधविभिन्नयोः शब्दयोरर्थान्तरप्रतीतिकारिणोरुपनिबन्धः ।
तथा चोपमेययोः सहानवस्थानलक्षणो विरोधः, स्वभावभेदलक्षणं च विभिन्नत्वम् ।
उपमानयोः पुनरीर्ष्याकलहलक्षणो विरोधः, कोपात् पृथगवस्थानलक्षणं विभिन्नत्वम् ।
“अतिमात्रम्” “अत्यर्थम्” चेति विशेषणद्वितयं पक्षद्वये ऽपि सातिशयताप्रतीतिकारित्वेनातितरां रमणीयम् ।
श्लेषच्छाया क्लेश सम्पाद्याप्ययत्नघटितत्वेनात्र मनोहारिणी ।
पुनश्च कीदृशः—अम्लानप्रतिभोद्भिन्ननवशब्दार्थबन्धुरः ।
अम्लाना यासावदोषोपहता प्राक्तनाद्यतनसंस्कारपरिपाकप्रौढा प्रतिभा काचिदेव कविशक्तिः, तत उद्भिन्नौ नतनाङ्कुरन्यायेन स्वयमेव समुल्लसितौ, न पुनः कदर्थनाकृष्टौ नवौ प्रत्यग्रौ तद्विदाह्लादकारित्वसामर्थ्ययुक्तौ शब्दार्थावभिधानाभिधेयौ ताभ्यां बन्धुरो हृदयहारी ।
अन्यच्च कीदृशः—अयत्नविहितस्वल्पमनोहारिविभूषणः ।
अयत्नेनाक्लेशेन विहितं कृतं यत् स्वल्पं मनाङ्मात्रं मनोहारि हृदयाह्लादकं विभूषणमलङ्करणं यत्र स तथोक्तः ।
“स्वल्प”- शब्दो ऽत्र प्रकरणाद्यपेक्षः, न वाक्यमात्रपरः ।
उदाहरणं यथा—

बालेन्दुवक्राण्यविकासभावाद् बभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ व्जिव्च्_१।७५ ॥

अत्र “बालेन्दुवक्राणि” “अतिलोहितानि” “सद्यो वसन्तेन समागतानाम्” इति पदानि सौकुमार्यात् स्वभाववर्णनामात्रपरत्वेनोपात्तान्यपि “नखक्षतानीव” इत्यलकरणस्य मनोहारिणः क्लेशं विना स्वभावोद्भन्नत्वेन योजनां भजमानानि चमत्कारकारिता मापद्यन्ते ।
यश्चान्यच्च कीदृशः— भावस्वभावप्रधान्यन्यक्कृताहार्यकौशलः ।
भावाः पदार्थस्तेषां स्वभावस्तत्त्वं तस्य प्राधान्यं मुख्यभावस्तेन न्यक्कृतं तिरस्कृतमाहार्थं व्युत्पत्तिविहितं कौशलं नैपुण्यं यत्र स तथोक्तः ।
तदयमत्राभिप्रायः—पदार्थपरमार्थमहिमैव कविशक्तिसमुन्मीलितः, तथाविधो तत्र विजृम्भते ।
येन विविधमपि व्युत्पत्तिविलसितं काव्यान्तरगतं तिरस्कारास्पदं सम्पद्यते ।
अत्रोदाहरणं रघुवंशे मृगयावर्णनपरं प्रकरणम्, यथा

तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्- व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम् ॥ व्जिव्च्_१।७६ ॥

इत्यादि ।
यथा च कुमारसम्भवे

द्वन्द्वानि भावं क्रियया विवव्रुः ॥ व्जिव्च्_१।७७ ॥

इति ।
अत) परं प्राणिधर्मवर्णनम्—

शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ व्जिव्च्_१।७८ ॥

अन्यच्च कीदृशः—रसादिपरमार्थज्ञमनः संवादसुन्दरः ।
रसाः शृङ्गारादयः ।
तदादिग्रहणेन रत्यादयो ऽपि गृह्यन्ते ।
तेषां परमार्थः पर रहस्यं तज्जानन्तीति तज्ज्ञास्तद्विदस्तेषां मनः संवादो हृदयसंवेदनं स्वानुभवगोचरतया प्रतिभासः, तेन सुन्दरः सुकुमारः सहृदयहृदयाह्लादकारी वाक्यस्योपनिबन्ध इत्यर्थः ।
अत्रोदाहरणानि रघौ रावणं निहत्य पुष्पकेणागच्छतो रामस्य सीतायास्तद्विरहविधुरहृदयेन मयास्मिन्नस्मिन् समुद्देशे किमप्येवंविधं वैशसमनुभूतमिति वर्णयतः सर्वाण्येव वाक्यानि ।
तथा

पूर्वानुभूतं स्मरता च रात्रौ कम्पोत्तरं भीरु तवोपगूढम् ।
गुहाविसारीण्यतिवाहितानि मया कथञ्चिद् घनगर्जितानि ॥ व्जिव्च्_१।७९ ॥

अत्र राशिद्वयकरणस्यायमभिप्रायो यद् विभावादिरूपेण रसाङ्गभूताः शकुनिरुततरुसलिलकुसुमसमयप्रभृतयः पदार्थाः सातिशयस्वभाववर्णनप्राधान्येनैव रसाङ्गतां प्रतिपद्यन्ते ।
तद्व्यतिरिक्ताः सुरगन्धर्वप्रभृतयः सोत्कर्षचेतनायोगिनः शृङ्गारादिरसनिर्भरतया वर्ण्यमानाः सरसहृदयाह्लादकारितामायान्तीति कविभिरभ्युपगतम् ।
तथाविधमेव लक्ष्ये दृश्यते ।
अन्यच्च कीदृशः—अविभावितसंस्थानरामणीयकरञ्जकः ।
अविभावितमनालोचितं संस्थानं संस्थितिर्यत्र तेन रामणीयकेन रमणीयत्वेन रञ्जकः सहृदयाह्लादकः ।
तेनायमर्थः—यदि तथा विधं कविकौशलमत्र सम्भवति तद् व्यपदेष्टुमियत्तया न कथञ्चिदपि पार्यते, केवलं सर्वातिशायितया चेतसि परिस्फुरति ।
अन्यच्च कीदृशः—विधिवैदग्धयनिष्पन्ननिर्माणातिशयोपमः ।
विधिर्विधाता तस्य वैदग्ध्यं कौशलं तेन निष्पन्नः परिसमाप्तो यो ऽसौ निर्मणातिशयः सुन्दरः सर्गोल्लेखो रमणीयलावण्यादिः स उपमा निदर्शनं तस्य स तथोक्तः ।
तेन विधातुरिव कवेः कौशलं यत्र विवेक्तुमशक्यम् ।
यथा

ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरम्परेण ।
कारागृहे निर्जितवासवेन दशाननेनोषितमा प्रसादात् ॥ व्जिव्च्_१।८० ॥

अत्र व्यपदेशप्रकारान्तरनिरपेक्षः कविशक्तिपरिणामः परं परिपाकमधिरूढः ।
एतस्मिन् कुलके—प्रथमश्लोके प्राधान्येन शब्दालङ्कारयोः सौन्दर्यं प्रतिपादितम् ।
द्वितीये वर्णनीयस्य वस्तुनः सौकुमार्यम् ।
तृतीये प्रकारान्तरनिरपेक्षस्य सन्निवेशस्य सौकुमार्यम् ।
चतुर्थे वैचित्र्यमपि सौकुमार्याविसंवादि विधेयमित्युक्तम् ।
पञ्चमो विषयविषयिसौकुमार्यप्रतिपादनरपरः ।
एवं सुकुमाराभिधानस्य मार्गस्य लक्षणं विधाय तस्यैव गुणान् लक्षयति—


असमस्तमनोहारिपदविन्यासजीवितम् ।
माधुर्यं सुकुमारस्य मार्गस्य प्रथमो गुणः ॥ व्जिव्_१।३० ॥

असमस्तानि समासवर्जितानि मनोहारीणि हृदयाह्लादकानि श्रुतिरम्यत्वेनार्थरमणीयत्वेन च यानि पदानि सुप्तिङन्तानि तेषां विन्यासः सन्निवेशवैचित्र्यं जीवितं सर्वस्वं यस्य तत्तथोक्तं माधृर्यं नाम सुकुमारलक्षणस्य मार्गस्य प्रथमः प्रधानभूतो गुणः ।
असमस्तशब्दो ऽत्र प्राचुर्यार्थः, न समासाभावनियमार्थः ।
उदाहरणं यथा

क्रीडारसेन रहसि स्मतपूर्वमिन्दोर् लेखां विकृष्य विनिबद् च मूर्ध्नि गौर्या ।
किं शोभिताहमनयोत शशाङ्कमौलेः पृष्टस्य पातु परिचुम्भनमुत्तरवः ॥ व्जिव्च्_१।८१ ॥

अत्र पदानामसमस्तत्वं शब्दार्थरमणीयता विन्यासवैचित्र्यं च त्रितयमपि चकास्ति ।
तदेवं माधुर्यमभिधाय प्रसादमभिधत्ते—


अक्लेशव्यञ्जिताकूतं झगित्यर्थसमर्पणम् ।
रसवक्रोक्तिविषयं यत्प्रसादः स कथ्यते ॥ व्जिव्_१।३१ ॥

झगिति प्रथमतरमेवार्थसमर्पणं वस्तुप्रतिपादनम् ।
कीदृशम्— अक्लेशव्यञ्जिताकूतम् अकदर्थनाप्रकटिताभिप्रायम् ।
किंविषयम्—रसवक्रोक्तिविषयम् ।
रसाः शृङ्गारादयः, वक्रोक्तिः सकलालङ्कारसामान्यं विषयो यस्य तत्तथोक्तम् ।
स एव प्रसादाख्यो गुणः कथ्यते भण्यते ।
अत्र पदानामसमस्तत्वं प्रसिद्धाभिधानत्वम् अव्यवहितसम्बन्धत्वं समाससद्भावे ऽपि गमकसमासयुक्तता च परमार्थः ।
“आकूत”- शब्दस्तात्पर्ये विच्छित्तौ च वर्तते ।
उदाहरणं यथा

हिमव्यपायाद्विशदाधराणा- मापाण्डुरीभूतमुखच्छवीनाम् ।
स्वेदोद्गमः किम्पुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥ व्जिव्च्_१।८२ ॥

अत्रासमस्तत्वादिसामग्री विद्यते ।
यदपि विविधपत्रविशेषकवैचित्र्यविहितं किमपि वदनसौन्दर्यं मुक्ताकणाकारस्वेदलवोपबृंहितं तदपि सुव्यक्तमेव ।
यथा वा

अनेन सार्धं विहराम्बुराशेस् तीरेषु ताडीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैर् अपाकृतस्वेदलवा मरुद्भिः ॥ व्जिव्च्_१।८३ ॥

अलङ्काख्यक्तिर्यथा

बालेन्दुवक्राणि इति ॥ व्जिव्च्_१।८४ ॥

एवं प्रसादमभिधाय लावण्यं लक्षयति—


वर्णविन्यासविच्छित्तिपदसन्धानसम्पदा ।
स्वल्पया बन्धसौन्दर्यं लावण्यमभिधीयते ॥ व्जिव्_१।३२ ॥

बन्धो वाक्यविन्यासस्तस्य सौन्दर्यं रामणीयकं लावण्यमभिधीयते लावण्यमित्युच्यते ।
कीदृशम्—वर्णानामक्षराणां विन्यासो विचित्रं न्यसनं तस्य विच्छित्तिः शोभा वैदग्ध्यभङ्गी तया लक्षितं पदानां सुप्तिङन्तानां सन्धानं संयोजनं तस्य सम्पत्, सापि शोभैव, तया लक्षितम् ।
कीदृश्या—उभयरूपयापि स्वल्पया मनाङ्मात्रया नातिनिर्बन्धनिर्मितया ।
तदयमत्रार्थः—शब्दार्थसौकुमार्यसुभगः सन्निवेशमहिमा लावण्यरूपो गुणः कथ्यते ।
यथा

स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु ।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ व्जिव्च्_१।८५ ॥

अत्र सन्निवेशसौन्दर्यमहिमा सहृदयसंवेद्यो न व्यपदेष्टुं पार्यते ।
यथा वा

चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ॥ व्जिव्च्_१।८६ ॥

अत्रापि वर्णविन्यासविच्छित्तिः पदसन्धानसम्पच्च सन्निवेशसौन्दर्यनिबन्धना स्फुटावभासैव ।
एवं लावण्यमभिधाय आभिजात्यमभिधत्ते—


श्रुतिपेशलताशालि सुस्पर्शमिव चेतसा ।
स्वभावमसृणच्छायमाभिजात्यं प्रचक्षते ॥ व्जिव्_१।३३ ॥

एवं विधं वस्तु आभिजात्यं प्रचक्षते आभिजात्याभिधानं गुणं वर्णयन्ति ।
श्रुतिः श्रवणेन्द्रियं तत्र पेशलता रामणीयकं तेन शालते श्लाघते यत्तथोक्तम् ।
सुरपर्शमिव चेतसा मनसा सुस्पर्शमिव ।
सुखेन स्पृश्यत इवेत्यतिशयोक्तिरियम् ।
यस्मादुभयमपि स्पर्शयोग्यत्वे सति सौकुमार्यात् किमपि चेतसि स्पर्शसुखमर्पयतीव ।
यतः स्वभावमसृणच्छायम् अहार्यश्लक्ष्णकान्ति यत्तद् आभिजात्यं कथयन्तीत्यर्थः ।
यथा

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रीत्या कुवलयदलप्रापि कर्णे करोति ॥ व्जिव्च्_१।८७ ॥

अत्र श्रुतिपेशलतादि स्वभावमसृणच्छायत्वं किमपि सहृदयसंवेद्यं परिस्फुरति ।
ननु च लावण्यमाभिजात्यं च लोकोत्तरतरुणीरूपलक्षणवस्तुधर्मतया यत् प्रसिद्धं तत् कथं काव्यस्य भवितुमर्हतीति चेत्तन्न ।
यस्मादनेन न्यायेन पूर्वप्रसिद्धयोरपि माधुर्यप्रसादयोः काव्यधर्मत्वं विघटते ।
माधुर्यं हि गुडादिमधुरद्रव्यधर्मतया प्रसिद्धं तथाविधाह्लादकारित्वसामान्योपचारात् काव्ये व्यपदिश्यते ।
तथैव च प्रसादः स्वच्छसलिलस्फटिकादिधर्मतया प्रसिद्धः स्फुटावभासित्वसामान्योपचाराज् झगितिप्रतीतिकारिणि काव्ये प्रवर्तितव्यहारस्तदेवंविधवैदग्ध्यविहितविचित्रविन्यासरमणीरामणीयकं यथा लावण्यशब्दाभिधेयतया प्रतीतिपेशलताम्प्रतिपद्यते ।
तद्वदेव च काव्ये कविशक्तिकौशलोल्लिखितकान्तिकमनीयं बन्धसौन्दर्यं चेतनचमत्कारकारित्वसामान्योपचाराल्लवण्यशब्दव्यतिरेकेण शब्दान्तराभिधेयतां नोत्सहते ।
तथैव च काव्ये स्वभावमसृणच्छायत्वमाभिजात्यशब्देनाभिधीयते ।
ननु च कैश्चित्प्रतीयमानं वस्तु ललनालावण्यसाम्याल्लावण्यमित्युत्पादितप्रतीति—

प्रतीयमानं पुरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् ।
यत्तत्प्रसिद्धावयवातिरिक्तम् आभाति लावण्यमिवाङ्गनासु ॥ व्जिव्च्_१।८८ ॥

तत्कथं बन्धसौन्दर्यमात्रं लावण्यमित्यभिधीयते ? नैष दोषः, यस्मादनेन दृष्टान्तेन वाच्यवाचकलक्षणप्रसिद्धावयवव्यतिरिक्तत्वेनास्तित्वमात्रं साध्यते प्रतीयमानस्य, न पुनः सकललोकलोचनसवेद्यस्य ललनालावण्यस्य ।
सहृदयहृदयानामेव संवेद्यं सत् प्रतीयमानं समीकर्तुं पार्यते ।
तस्य बन्धसौन्दर्यमेवाव्युत्पन्नपदपदार्थानामपि श्रवणमात्रेणैव हृदयहारित्वस्पर्धया व्यपदिश्यते ।
प्रतीयमानं पुनः काव्यपरमार्थज्ञानामेवानुभवगोचरतां प्रतिपद्यते ।
यथा कामिनीनां किमपि सौभाग्यं तदुपभोगोचितानां नायकानामेव संवेद्यतामर्हति, लावण्यं पुनस्तासामेव सत्कविगिरामिव सौन्दर्यं सकललोकगोचरतामायातीत्युक्तमेवेत्यलमतिप्रसङ्गेन ।
एवं सुकुमारस्य लक्षणमभिधाय विचित्रं प्रतिपादयति—


प्रतिभाप्रथमोद्भेदसमये यत्र वक्रता ।
सभ्दाभिधेययोरन्तः स्फुरतीव विभाव्यते ॥ व्जिव्_१।३४ ॥
अलङ्कारस्य कवयो यत्रालङ्कारणान्तरम् ।
असन्तुष्टा निबध्नन्ति हारादेर्मणिबन्धवत् ॥ व्जिव्_१।३५ ॥
रत्नरश्मिच्छटोत्सेकभासुरैर्भूषणैर्यथा ।
कान्ताशरीरमाच्छाद्य भूषायै परिकल्प्यते ॥ व्जिव्_१।३६ ॥
यत्र तद्वदलङ्कारैर्भ्राजमानैर्निजात्मना ।
स्वशोभातिशयान्तः स्थमलङ्कार्यं प्रकाशते ॥ व्जिव्_१।३७ ॥
यदप्यनूतनोल्लेखं वस्तु यत्र तदप्यलम् ।
उक्तिवैचित्र्यमात्रेण काष्ठां कामपि नीयते ॥ व्जिव्_१।३८ ॥
यत्रान्यथाभवत् सर्वमन्यथैव यथारुचि ।
भाव्यते प्रतिभोल्लेखमहत्त्वेन महाकवेः ॥ व्जिव्_१।३९ ॥
प्रतियमानता यत्र वाक्यार्थस्य निबध्यते ।
वाच्यवाचकवृत्तिभ्यां व्यतिरिक्तस्य कस्यचित् ॥ व्जिव्_१।४० ॥
स्वभावः सरसाकूतो भावानां यत्र बध्यते ।
केनापि कमनीयेन वैचित्र्येणोपबृंहितः ॥ व्जिव्_१।४१ ॥
विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते ।
परिस्फुरति यस्यान्तः सा काप्यतिशयाभिधा ॥ व्जिव्_१।४२ ॥
सो ऽतिदुःसञ्चरो येन विदग्धकवयो गताः ।
खड्गधारापथेनेव सुभटानां मनोरथाः ॥ व्जिव्_१।४३ ॥

स विचित्राभिधानः पन्थाः कीदृशः—अतिदुःसञ्चरः, यत्रातिदुःखेन सञ्चरन्ते ।
किं बहुना, येन विदग्धकवयः केचिदेव व्युत्पन्नाः केवलं गताः प्रयाताः, तदाश्रयेण काव्यानि चक्रुरित्यर्थः ।
कथम्—कङ्गधारापथेनेव सुभटानां मनोरथाः ।
निस्त्रैंशधारामार्गेण यथा सुभटानाम्महावीराणां मनोरथाः ।
निस्त्रिंशधारामार्गेण यथा सुभटानां महावीराणां मनोरथाः सङ्कल्पविशेषाः ।
तदयमत्राभिप्रायः—यदसिधारामार्गगमने मनोरथानामौचित्यानुसारेण यथारुचि प्रवर्तमानानां मनाङ्मात्रमपि म्लानता न सम्भाव्यते ।
साक्षात्समरसम्मर्दन समाचरणे पुनः कदाचित् किमपि म्लानत्वमपि सम्भाव्येत ।
तदनेन मार्गस्य दुर्गमत्वं तत्प्रस्थितानां च विहरणप्रौढिः प्रतिपाद्यते ।
कीदृशः सा मार्गः—यत्र यस्मिन् शब्दाभिधेययोरभिधानाभिधीयमानयोरन्तः स्वरूपानुप्रवेशिनी वक्रता भणितिविच्छित्तिः स्फुरतीव प्रस्पन्दमानेव विभाव्यते लक्ष्यते ।
कदा—प्रतिभाप्रथमोद्भेदसमये ।
प्रतिभायाः कविशक्तेरचरमोल्लेखावसरे ।
तदयमत्र परमार्थः—यत् कविप्रयत्ननिरपेक्षयोरेव शब्दार्थयोः स्वाभाविकः को ऽपि वक्रताप्रकारः परिस्फुरन् परिदृश्यते ।
यथा

को ऽयं भाति प्रकारस्तव पवन पदं लोकपादाहतीनां तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम् ।
यस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां केनापायेन सह्यो वपुषि कलुषतादोष एव त्वयैव ॥ व्जिव्च्_१।८९ ॥

अत्राप्रस्तुतप्रशंसालक्षणो ऽलङ्कारः प्राधान्येन वाक्यार्थः, प्रतीयमानपदार्थान्तरत्वेन प्रयुक्तत्वात् तत्र च विचित्रकविशक्तिसमुल्लिखितवक्रशब्दार्थोपनिबन्धमाहात्म्यात् प्रतीयमानमप्यभिधेयतामिव प्रापितम् ।
प्रक्रम एव प्रतिभासमानत्वान्न चार्थान्तरप्रतीतिकारित्वेन पदानां श्लेषव्यपदेशः शक्यते कर्तुम्, वाच्यस्य समप्रधानभावेनानवस्थानात् ।
अर्थान्तरप्रतीतिकारित्वं च पदानां प्रतीयमानार्थस्फुटताव भासनार्थमुपनिबध्यमानमतीव चमत्कारकारितां प्रतिपद्यते ।
तमेव विचित्रं प्रकारान्तरेण लक्षयति—अलङ्कारस्येत्यादि ।
यत्र यस्मिन्मार्गे कवयो निबध्नन्ति विरचयन्ति, अलङ्कारस्य विभूषणस्यालङ्कारणान्तरं भूषणान्तरम् असन्तुष्टाः सन्तः ।
कथम्—हारादेर्मणिबन्धवत् ।
मुक्ताकलापप्रभृतेर्यथा पदकादिमणिबन्धं रत्नविशेषविन्यासं वैकटिकाः ।
यथा

हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहाय्यकं यन्मरोः ॥ व्जिव्च्_१।९० ॥

अत्रात्यन्तगर्हणीयचरितं पदार्थान्तरं प्रतीयमानतया चेतसि निधाय तथाविधविलसितः सलिलनिधिर्वाच्यतयोपक्रान्तः ।
तदेतावदेवालङ्कृतेरप्रस्तुतप्रशंसायाः स्वरूपम्—गर्हणीयप्रतीयमानपदार्थान्तरपर्यवसानमपि वाक्यं श्रुत्युपक्रमरमणीयतयोपनिबध्यमानं तद्विदाह्लादकारितामायाति ।
तदेतद् व्याजस्तुतिप्रतिरूपकप्रायमलङ्करणान्तरमप्रस्तुतप्रशंसाया भूषणत्वेनोपात्तम् ।
न चात्र सङ्करालङ्कारव्यवहारो भवितुमर्हति, पृथगतिपरिस्फुटत्वेनावभासनात् ।
न चापि संसृष्टिसम्भवः समप्रधानभावेनानवस्थितेः ।
न च द्वयोरपि वाच्यालङ्कारत्वम्, विभिन्नविषयत्वात् ।
यथा वा

नामाप्यन्यतरोर्निमीलितमभूत्तत्तावदुन्मीलितं प्रस्थाने स्खलतः स्वर्त्मनि विधेरन्यद् गृहीतः करः ।
लोकश्चायमदृष्टदर्शनकृता दृग्वैशसादुद्धृतो युक्तं काष्ठिक लूनवान् यदसि तामाम्रालिमाकालिकीम् ॥ व्जिव्च्_१।९१ ॥

अत्रायमेव न्यायो ऽनुसन्धेयः ।
यथा च

किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा मञ्जरी लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारान्निधेः ।
उद्गाढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥ व्जिव्च्_१।९२ ॥

अत्र रूपकलक्षणो यो ऽयं काव्यालङ्कारः तस्य सन्देहोक्तिरियं छायान्तरातिशयोत्पदानायोपनिबद्धा चेतनचमत्कारकारिता मावहित ।
शिष्टं पूर्वोदाहरणद्वयोक्तमनुसर्तव्यम् ।
अन्यच्च कीदृक्—रत्नेत्यादि ।
युगलकम् ।
यत्र यस्मिन्नलङ्कारैर्भ्राजमानैर्निजात्मना स्वजीवितेन भासमानैर्भूषायै परिकल्प्यते शोभायै भूष्यते ।
कथम्—यथा भूषणैः, कङ्कणादिभिः ।
कीदृशैः—रत्नरश्मिच्छटोत्सेकभासुरैः मणिमयूखोल्लासभ्राजिष्णुभिः ।
किं कृत्वा—कान्ताशरीरमाच्छाद्य कामिनीवपुः स्वप्रभाप्रसरतिरोहितं विधाय ।
भूषायै कल्पनम्—यदेतैः स्वशोभातिशयान्तः स्थं निजकान्तिकमनीयान्तर्गतमलङ्कार्यमलङ्कारणीयं प्रकाश्यते द्योत्यते ।
तदिदमत्र तात्पर्यम्—तदलङ्कारमहिमैव तथाविधो ऽत्र भ्राजते तस्यात्यन्तोद्रिक्तवृत्तेः स्वशोभातिशयान्तर्गतमलङ्कार्यं प्रकाश्यते ।
यथा

आर्यस्याजिमहोत्सवव्यतिकरे नासंविभक्तो ऽत्र वः कश्चित् काप्यवशिष्यते त्यजत रे नक्तञ्चराः सम्भ्रमम् ।
भूयिष्ठेष्वपि का भवत्सु गणनात्यर्थं किमुत्ताम्यते तस्योदारभुजोष्मणो ऽनवसिता नाराच सम्पत्तयः ॥ व्जिव्च्_१।९३ ॥

अत्राजेर्महोत्सवव्यतिकरत्वेन तथाविधं रूपणं विहितं यत्रालङ्कार्यम् “आर्यः स्वशौर्येण युष्मान् सर्वानेव मारयति” इत्यलङ्कारशोभातिशयान्तर्गतत्वेन भ्राजते ।
तथा च कश्चित् सामान्यो ऽपि क्वापि दवीयस्यपि देशे नासंविभक्तो युष्माकमवशिष्यते ।
तस्मात् समरमहोत्सवसविभागलम्पटतया प्रत्येकं यूयं सम्भ्रमं त्यजत ।
गणनया वयं भूयिष्ठा इत्यशक्यानुष्ठानतां यदि मन्यध्वे तदप्ययुक्तम् ।
यस्मादसङ्ख्यसंविभागाशक्यता कदाचिदसम्पत्त्या कार्पण्येन वा सम्भाव्यते ।
तदेतदुभयमपि नास्तीत्युक्तम्—तस्योदारभुजोष्मणो ऽनवसिता नाराच सम्पत्तयः (इति) ।
यथा च

कतमः प्रविजृम्भितविरहव्यथः शन्यतां नीतो देशः ॥ व्जिव्च्_१।९४ ॥
इति ।

यथा च कानि च पुण्यभाञ्जि भजन्त्यभिख्यामक्षराणि ॥ व्जिव्च्_१।९५ ॥
इति ।

अत्र कस्मादागताः स्थ, किं चास्य नाम इत्यलङ्कार्यमप्रसुतप्रशंसालक्षणालङ्कारच्छायाच्छुरितत्वेनैतदीयशोभान्तर्गतत्वेन सहृदयहृदयाह्लादकारितां प्रापितम् ।
एतच्चव्याजस्तुतिपर्यायोक्तप्रभृतीनां भूयसा विभाव्यते ।
ननु च रूपकादीनां स्वलक्षणावसर एव स्वरूपं निर्णेष्यते तत् किं प्रयोजनमेतेषामिहोदाहरणस्य ? सत्यमेतत्, किन्त्वेतदेव विचित्रस्य वैचित्र्यं नाम यदलौकिकच्छायातिशययोगित्वेन भूषणोपनिबन्धः कामपि वाक्यवक्रतामुन्मीलयति ।
विचित्रमेव रूपान्तरेण लक्षणयति—यदपीत्यादि ।
यदपि वस्तु वाच्यमनूतनोल्लेखमनभिनवत्वेनोल्लिखितं तदपि यत्र यस्मिन्नलं कामपि काष्ठां नीयते लोकोत्तरातिशयकोटिमधिरोष्यते ।
कथम्—उक्तिवैचित्र्यमात्रेण, भणितिवैदग्ध्येनैवेत्यर्थः ।
यथा

अण्णं लडहत्तणअं अण्ण च्चिअ कावि वत्तणच्छाआ ।
सामा सामण्णापआवैणो रेह च्चिअ ण होइ ॥ व्जिव्च्_१।९६ ॥
अन्यद् लटभत्वमन्यैव च कापि वर्तनच्छाया ।
श्यामा सामान्यप्रजापते रेखैव च न भवति ॥
इति छाया ।

यथा वा उद्देशो ऽयं संरसविटपि श्रेणिशोभातिशायी कुञ्जोत्कर्षाङ्कुरितहरिणीविभ्रमो नर्मदायाः ।

किं चैतस्मिन् सुरतसुहृदस्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥ व्जिव्च्_१।९७ ॥

भणितिवैचित्र्यमात्रमेवात्र काव्यार्थः, न तु नूतनोल्लेखशालि वाच्यविजृम्भितम् ।
एतच्च भणितिवैचित्र्यं सहस्त्रप्रकारं सम्भवतीति स्वयमेवोत्प्रेक्षणीयम् ।
पुनर्विचित्रमेव प्रकारान्तरेण लक्षयति—यत्रान्यथेत्यादि ।
यत्र यस्मिन्नन्यथाभवदन्येन प्रकारेण सत् सर्वमेव पदार्थजातम् अन्यथैव प्रकारान्तरेणैव भाव्यते ।
कथम्—यथारुचि ।
स्वप्रतिभासानुरूपेणोत्पाद्यते ।
केन—प्रतिभोल्लेखमहत्त्वेन महाकवेः, प्रतिभासोन्मेषा तिशयत्वेन सत्कवेः ।
यत्किल वर्ण्यमानस्य वस्तुनः प्रस्तावमुचितं किमपि सहृदयहृदयहारि रूपान्तरं निर्मिमीते कविः ।
यथा

तापः स्वात्मनि संश्रितद्रुमलताशोषो ऽध्यवगैर्वर्जनं सख्यं दुःशमया तृषा तव मरो को ऽसावनर्थो न यः ।
एकोर्ऽथस्तु महानयं जललवस्वाम्यस्मयोद्गर्जिनः सन्नह्यन्ति न यत्तवोपकृतये धाराधराः प्राकृताः ॥ व्जिव्च्_१।९८ ॥

यथा वा

विशति यदि नो कञ्चित्कालं किलाम्बुनिधं विधेः कृतिषु सकलास्वेको लोके प्रकाशकतां गतः ।
कथमितरथा धाम्नां धाता तमांसि निशाकरं स्फुरदिदमियत्ताराचक्रं प्रकाशयति स्फुटम् ॥ व्जिव्च्_१।९९ ॥

अत्र जगद्गर्हितस्यापि मरोः कविप्रतिभोल्लिखितेन लोकोत्तरौदार्यधुराधिरोपणेन तादृक् स्वरूपान्तरमुन्मीलितं यत्प्रतीयमानत्वेनोदारचरितस्य कस्यापि सत्स्वप्युचितपरिस्पन्दसुन्दरेषु पदार्थसहस्त्रेषु तदेव व्यपदेशपात्रतामर्हतीति तात्पर्यम् ।
अवयवार्थस्तु—दुःशमयेत् “तृड्ऽविशेषणेन प्रतीयमानस्य त्रैलोक्यराज्येनाप्यपरितोषः पर्यवस्यति ।
अध्वगैर्वर्जनमित्यौदार्ये ऽपि तस्य समुचितसंविभागासम्भवादर्थिभिर्लज्जमानैरपि स्वयमेवानभिसरणं प्रतीयते ।
संश्रितद्रुमलताशोष इति तदाश्रितानां तथाविधे ऽपि सङ्कटे तदेकनिष्ठताप्रतिपत्तिः ।
तस्य च पूर्वोक्तस्वपरिकरपरिपो षाक्षमतया तापः स्वात्मनि न भोगलवलौल्येनेति प्रतिपाद्यते ।
उत्तरार्धेन—तादृशे दुर्विलसिते ऽपि परोपकाराविषयत्वेन श्लाघास्पदत्वमुन्मीलितम् ।
अपरत्रापि विधिविहितसमुचितसमयसम्भवं सलिलनिधिनिमज्जनं निजोदयन्यक्कृतनिखिलस्वपरपक्षः प्रजापतिप्रणीतसकलपदार्थप्रकाशनव्रताभ्युपगमनिर्वहणाय विवस्वान स्वयमेव समाचरतीत्यन्यथा कदाचिदपि शशाङ्कतमस्ताराप्रभृती नामभिव्यक्तिर्मनागपि न सम्भवतीति कविना नूतनत्वेन यदुल्लिखितं तदतीव प्रतीयमानमहत्त्वव्यक्तिपरत्वेन चमत्कारितामापद्यते ।
विचित्रमेव प्रकारान्तरेणोन्मीलयात—प्रतीयमानतेत्यादि ।
यत्र यस्मिन् प्रतीयमानता गम्यमानता वाक्यार्थस्य मुख्यतया विवक्षितस्य वस्तुनः कस्यचिदनाख्येयस्य निबध्यते ।
कया युक्त्या—वाच्यवाचकवृत्तिभ्यां शब्दार्थशक्तिभ्याम् ।
व्यतिरिक्तस्य तदतिरिक्तवृत्तेरन्यस्य व्यङ्ग्यभूतस्याभिव्यक्तिः क्रियते ।
“वृत्ति”–शब्दो ऽत्र शब्दार्थयोस्तत्प्रकाशनसामर्थ्यमभिधत्ते ।
एष च “प्रतीयमान”–व्यवहारो वाक्यवक्रताव्याख्यावसरे सुतरां समुन्मील्यते ।
अनन्तरोक्तमुदाहरणद्वयमत्र योजनीयम् ।
यथा वा

वक्त्रेन्दोर्न हरन्ति बाष्पपयसां धारा मनोज्ञां श्रियं निश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्यतिम् ।
तस्यास्त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी छाया कापि कपोलयोरनुदिनं तन्व्याः परं पुष्यति ॥ व्जिव्च्_१।१०० ॥

अत्रत्वद्विरहवैधुर्यसंवरणकदर्थनामनुभवन्त्यास्तस्यास्तथावि धे महति गुरुसङ्कटे वर्तमानायाः—किं बहुना—बाष्पनिश्वासमोक्षावसरो ऽपि न सम्भवतीति ।
केवलं परिणतलवलीलावण्यसंवादसुभगा कापि कपोलयोः कान्तिरशक्यसंवरणा प्रतिदिनं परं परिपोषमासादयतीति वाच्यव्यतिरिक्तवृत्ति दूत्युक्तितात्पर्यं प्रतीयते ।
उक्तप्रकारकान्तिमत्त्वकथनं च कान्तकौतुकोत्कलिकाकारणतां प्रतिपद्यते ।
विचित्रमेव रूपान्तरेण प्रतिपादयति—स्वभाव इत्यादि ।
यत्र यस्मिन् भावानां स्वभावः परिस्पन्दः सरसाकूतो रसनिर्भराभिप्रायः पदार्थानां निबध्यते निवेश्यते ।
कीदृशः—केनापि कमनीयेन वैचित्र्येणोपबृंहितः, लोकोत्तरेण हृदयहारिणा वैदग्ध्येनोत्तेजितः ।
“भाव”- शब्देनात्र सर्वपदार्थो ऽभिधीयते, न रत्यादिरेव ।
उदाहरणम्

क्रीडासु बालकुसुमायुधसङ्गताया यत्तत् स्मितं न खलु तत् स्मितमात्रमेव ।
आलोक्यते स्मितपटान्तरितं मृगाक्ष्यास् तस्याः परिस्फुरदिवापरमेव किञ्चित् ॥ व्जिव्च्_१।१०१ ॥

अत्र न खलु तत् स्मितमात्रमेवेति प्रथमार्धे ऽभिलाषसुभगं सरसाभिप्रायत्वमुक्तम् ।
अपरार्धे तु—हसितांशुकतिरोहितमन्यदेव किमपि परिस्फुरदालोक्यत इति कमनीयवैचित्र्यविच्छित्तिः ।
इदानीं विचित्रमेवोपसंहरति—विचित्रो यत्रेत्यादि ।
एवंविधो विचित्रो मार्गो यत्र यस्मिन् वक्रोक्तिवैचित्र्यम् अलङ्कारविचित्रभावो जीवितायते जीवतवदाचरति ।
वैचित्र्यादेव विचित्रे “विचित्र” शब्दः प्रवर्तते ।
तस्मात्तदेव तस्य जीवितम् ।
किं तद्वैचित्र्यं नामेत्याह—परिस्फुरति यस्यान्तः सा काप्यतिशयाभिधा ।
यस्यान्तः स्वरूपानुप्रवेशेन सा काप्यलौकिकातिशयोक्तिः परिस्फुरति भ्राजते ।
यथा—

यत्सेनारजसामुदञ्चति यदे द्वाभ्यां दवीयो ऽन्तरान् पाणिभ्यां युगपद्विलोचनपुटानष्टाक्षमो रक्षितुम् ।
एकैकं दलमुन्नमय्य गमयन् वासाम्बुजं कोशतां धाता संवरणाकुलश्चिरमभूत्स्वाध्यायवन्ध्याननः ॥ व्जिव्च्_१।१०२ ॥

एवं वैचित्र्यं सम्भावनानुमानप्रवृत्तायाः प्रतीयमानत्वमुत्प्रेक्षायाः ।
तच्च धाराधिरोहरणरमणीयतयातिशयोक्तिपरिस्पन्दस्यन्दि सन्दृश्यते ।
तदेवं वैचित्र्यं व्याख्याय तस्यैव गुणान् व्याचष्टे—


वैदग्ध्यस्यन्दि माधुर्यं पदानामत्र बध्यते ।
याति यत्तयक्तशैथिल्यं बन्धबन्धुरताङ्गताम् ॥ व्जिव्_१।४४ ॥

अत्रास्मिन् माधुर्यं वैदग्ध्यस्यान्दि वैचित्र्यसमर्पकं पदानां बध्यते वाक्यैकदेशानां निवेश्यते ।
यत्त्यक्तशैथिल्यमुज्झितकोमलभावं भवद्वन्धबन्धुरताङ्गतां याति सन्निवेशसौन्दर्योपकरणतां गच्छति ।
यथा

किं तारुण्यतरोः इत्यत्र पूर्वार्धे ॥ व्जिव्च्_१।१०३ ॥

एवं माधुर्यमभिधाय प्रसादमभिधत्ते—


असमस्तपदन्यासः प्रसिद्धः कविवर्त्मनि ।
किञ्चिदोजः स्पृशन् प्रायः प्रसादो ऽप्यत्र दृश्यते ॥ व्जिव्_१।४५ ॥

असमस्तानां समासरहितानां पदानां न्यासो निबन्धः कविवर्त्मनि विपश्चिन्मार्गेयः प्रसिद्धः प्रख्यातः सो ऽप्यस्मिन् विचित्राख्ये प्रसादाभिधानो गुणः किञ्चित् कियन्मात्रमोजः स्पृशन्नुत्तानतया व्यवस्थितः प्रायो दृश्यते प्राचुर्येण लक्ष्यते ।
बन्धसौन्दर्यनिबन्धनत्वात् ।
तथाविधस्यौजसः समासवती वृत्तिः-“ओजः”-शब्देन चिरन्तनैरुच्यते ।
तदयमत्र परमार्थः—पूर्वस्मिन् प्रसादलक्षणे सत्योजः संस्पर्शमात्रमिह विधीयते ।
यथा

अपाङ्गगततारकाः स्तिमितपक्ष्मपालीभृतः स्फुरत्सुभगकान्तयः स्मितसमुद्गतिद्योतिताः ।
विलासभरमन्थरास्तरलकल्पितैकभ्रुवो जयन्ति रमणार्पिताः समदसुन्दरीदृष्टयः ॥ व्जिव्च्_१।१०४ ॥

प्रसादमेव प्रकारान्तरेण प्रकटयति—


गमकानि निबध्यन्ते वाक्ये वाक्यान्तराण्यपि ।
पदानीवात्र को ऽप्येष प्रसादस्यापरः क्रमः ॥ व्जिव्_१।४६ ॥

अत्रास्मिन् विचित्रे यद्वाक्यं पदसमुदायस्तस्मिन् गमकानि समर्पकाण्यन्यानि वाक्यान्तरापि निबध्यन्ते निवेश्यन्ते ।
कथम्—पदानीव पदवत्, परस्परान्वितानीत्यर्थः ।
एष को ऽप्यपूर्वः प्रसादस्यापरः क्रमः बन्धच्छायाप्रकारः ।
यथा

नामाप्यन्तरोः इति ॥ व्जिव्च्_१।१०५ ॥

अथ प्रसादमभिधाय लावण्यं लक्षयति


अत्रालुप्तविसर्गान्तैः पदैः प्रोतैः परस्परम् ।
ह्रस्वैः संयोगपूर्वैश्च लावण्यमतिरिच्यते ॥ व्जिव्_१।४७ ॥

अत्रास्मिन्नेवंविधैः पदैर्लावण्यमतिरिच्यते परिपोषं प्राप्नोति ।
कीदृशैः—परस्परमन्योन्यं प्रोतैः संश्लेषं नीतैः ।
अन्यच्च कीदृशैः—अलुप्तविसर्गान्तैः, अलुप्तविसर्गाः श्रूयमाणविसर्जनीया अन्ता येषां तानि तथोक्तानि तैः ।
ह्रस्वैश्च लघुभिः ।
संयोगेभ्यः पूर्वैः ।
अतिरिच्यते इति सम्बन्धः ।
तदिदमत्र तात्पर्यम्—पूर्वोक्तलक्षणं लावण्यं विद्यमानमनेनातिरिक्ततां नीयते ।
यथा

श्वासोत्कम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलाः कीर्यन्ते कणशः कृशाङ्गि किममी बाष्पाम्भसां बिन्दवः ।
किञ्चाकुञ्चितकण्ठरोधकुटिलाः कर्णामृतस्यन्दिनो हूङ्काराः कलपञ्चमप्रणयिनस्त्रुच्यन्तिनिर्यान्ति च ॥ व्जिव्च्_१।१०६ ॥

यथा वा

एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुरप्रान्तं हन्त पुलन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना- दीनं त्वामनुनाथते कुचयुगं पत्रांशुकैर्मा पिधाः ॥ व्जिव्च्_१।१०७ ॥

यथा वा

हंसानां निनदेषु इति ॥ व्जिव्च्_१।१०८ ॥

एवं लावण्यमभिधायाभिजात्यमभिधीयते—


यन्नातिकोमलच्छायं नातिकाठिन्यमुद्वहत् ।
आभिजात्यं मनोहारि तदत्र प्रौढिनिर्मितम् ॥ व्जिव्_१।४८ ॥

अत्रास्मिन् तदाभिजात्यं यन्नातिकोमलच्छायं नात्यन्तमसृणकान्ति नातिकाठिन्यमुद्वहन्नातिकठोरतां धारयत् तत् प्रौढिनिर्मितं सकलकविकौशलसम्पादितं सन्मनोहारि हृदयरञ्जकं भवतीत्यर्थः ।
यथा

अधिकरतलतल्पं कल्पितस्वापलीलापरिमलननिमीलत्पाण्डिमा गण्डपाली ।
सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिकेलीयौवराज्याभिषेकम् ॥ व्जिव्च्_१।१०९ ॥

एवं सुकुमारविहितानामेव गुणानां विचित्रे कश्चिदतिशयः सम्पाद्यत इति बोद्धव्यम् ।

आभिजात्यप्रभृतयः पूर्वमार्गोदिता गुणाः ।
अत्रातिशयमायान्ति जनिताहार्यसम्पदः ॥ व्जिव्च्_१।११० ॥

इत्यन्तरश्लोकः ।
एवं विचित्रमभिधाय मध्यममुपक्रमते—


वैचित्र्यं सौकुमार्यं च यत्र सङ्कीर्णतां गते ।
भ्राजेते सहजाहार्यशोभातिशयशालिनी ॥ व्जिव्_१।४९ ॥
माधुर्यादिगुणग्रामो वृत्तिमाश्रित्य मध्यमाम् ।
यत्र कामपि पुष्णाति बन्धच्छायातिरिक्तताम् ॥ व्जिव्_१।५० ॥
मार्गो ऽसौ मध्यमो नाम नानारुचिमनोहरः ।
स्पर्धया यत्र वर्तन्ते मार्गद्वितयसम्पदः ॥ व्जिव्_१।५१ ॥

मार्गो ऽसौ मध्यमो नाम मध्यमाभिधानो ऽसौ पन्थाः ।
कीदृशः—नानारुचिमनोहरः ।
नानाविधा रुचयः प्रतिभासा येषां ते तथोक्तास्तेषां सुकुमारविचित्रमध्यमव्यसनिनां सर्वेषामेव मनोहरो हृदयहारी ।
यस्मिन् स्पर्धया मार्गद्वितयसम्पदः सुकुमारविचित्रशोभाः साम्येन वर्तन्ते व्यवतिष्ठन्ते, न न्यूनातिरिक्तत्वेन ।
यत्र वैचित्र्यं विचित्रत्वं सौकुमार्यं सुकुमारत्वं सङ्कीर्णतां गते तस्मिन् मिश्रतां प्राप्ते सती भ्राजेते शोभेते ।
कीदृशे—सहजाहार्यशोभातिशयशालिनी, शक्तिव्युत्पत्तिसम्भवो यः शोभातिशयः कान्त्युत्कर्षस्तेन शालेते श्लाघेत् ये ते तथोक्ते ।
माधुर्येत्यादि ।
यत्र च माधुर्यादिगुणग्रामो माधुर्यप्रभृतिगुणसमूहो मध्यमामुभयच्छायाच्छुरितां वृत्तिं स्वस्पन्दगतिमाश्रित्य कामप्यपूर्वां बन्धच्छायातिरिक्ततां सन्निवेशकान्त्यधिकतां पुष्णाति पुष्यतीत्यर्थः ।
गुणा नामुदाहरणानि ।
तत्र माधुर्यस्य यथा—

वेलानिलैर्मृदुभिराकुलितालकान्ता गायन्ति यस्य चरितान्यपरान्तकान्ताः ।
लीलानताः समवलम्ब्य लतास्तरूणां हिन्तालमालिषु तटेषु महार्णवस्य ॥ व्जिव्च्_१।१११ ॥

प्रसादस्य यथा तद्वक्त्रेन्दुविलोकनेन इत्यादि ॥ व्जिव्च्_१।११२ ॥

लावण्यस्य यथा

सङ्क्रान्ताङ्गुलिपर्वसूचितकरस्वापा कपोलस्थली नेत्रे निर्भरमुक्तबाष्पकलुषे निश्वासतान्तो ऽधरः ।
बद्धोद्भेदविसंष्ठुलालकलता निर्वेदशून्यं मनः कष्टं दुर्नयवेदिभिः कुसचिवैर्वत्सा दृढं खेद्यते ॥ व्जिव्च्_१।११३ ॥

आभिजात्यस्य यथा

आलम्ब्य लम्बाः सरसाग्रवल्लीः पिबन्ति यत्र स्तनभारनम्राः ।
स्त्रोतश्च्युतं शीकरकूणिताक्ष्यो मन्दाकिनीनिर्झरमश्वमुख्यः ॥ व्जिव्च्_१।११४ ॥


अत्रारोचकिनः केचिच्छायावैचित्र्यरञ्जके ।
विदग्धनेपथ्यविधौ भुजङ्गा इव सादराः ॥ व्जिव्_१।५२ ॥

एवं मध्यमं व्याख्याय तमेवोपसंहरति—अत्रेति ।
अत्रैतस्मिन् केचित् कतिपये सादरास्तदाश्रयेण काव्यानि कुर्वन्ति ।
यस्मात् अरोचकिनः कमनीयवस्तुव्यसनिनः ।
कीदृशे चास्मिन्—छायावैचित्र्यरञ्जके कान्तिविचित्रभावाह्लादके ।
कथम्—विदग्धनेपथ्यविधौ भुजङ्गा इव, अग्राम्याकल्पकल्पने नागरा यथा ।
सो ऽपि छायावैचित्र्यरञ्जक एव ।
अत्र गुणोदाहरणानि परिमितत्वात्प्रदर्शितानि, प्रतिपदं पुनश्छायावैचित्र्यं सहृदयैः स्वयमेवानुसर्तव्यम् ।
अनुसरणदिक्प्रदर्शनं पुनः क्रियते ।
यथा—मातृगुप्तमायुराजमञ्जीरप्रभृतीनां सौकुमार्यवैचित्र्यसंवलितपरिस्पन्दस्यन्दीनि काव्यानि सम्भवन्ति ।
तत्र मध्यममार्गसंवलितं स्वरूपं विचारणीयम् ।
एवं सहजसौकुमार्यसुभगानि कालिदाससर्वसेनादीनां काव्यानि दृश्यन्ते ।
तत्र सुकुमारमार्गस्वरूपं चर्चनीयम् ।
तथैव च विचित्रवक्रत्वविजृम्भितं हर्षचरिते प्राचुर्येण भट्टबाणस्य विभाव्यते, भवभूतिराजशेखरविरचितेषु बन्धसौन्दर्यसुभगेषुमुक्तकेषु परिदृश्यते ।
तस्मात् सहृदयैः सर्वत्र सर्वमनुसर्तव्यम् ।
एवं मार्गत्रितयलक्षणं दिङ्मात्रमेव प्रदर्शितम्, न पुनः साकल्येन सत्कविकौशलप्राकाराणां केनचिदपि स्वरूपमभिधातुं पार्यते ।
मार्गेषु गुणानां समुदायधर्मता ।
यथा न केवलं शब्दादिधर्मत्वं तथा तल्लक्षणव्याख्यावसर एव प्रतिपादितम् ।
एवं प्रत्येकं प्रतिनियतगुणग्रामरमणीयं मार्गत्रितयं व्याख्याय साधारणगुणस्वरूपव्याख्यानार्थमाह—


आञ्जसेन स्वभावस्य महत्त्वं येन पोष्यते ।
प्रकारेण तदौचित्यमुचिताख्यानजीवितम् ॥ व्जिव्_१।५३ ॥

तदौचित्यं नाम गुणः ।
कीदृक्—आञ्जसेन सुस्पष्टेन स्वभावस्य पदार्थस्य महत्त्वमुत्कर्षो येन पोष्यते परिपोषं प्राप्यते ।
प्रकारेणेति प्रस्तुतत्वादभिधावैचित्र्यमत्र “प्रकार”—शब्देनोच्यते ।
कीदृशम्—उचिताख्यानमुदाराभिधानं जीवितं परमार्थो यस्य तत्तथोक्तम् ।
एतदानुगुण्येनैव विभूषणविन्यासो विच्छत्तिमावहति ।
यथा

करतलकलिताक्षमालयोः समुदितसाध्वससन्नहस्तयोः ।
कृतरुचिरजटानिवेशयो- रपर इवेश्वरयोः समागमः ॥ व्जिव्च्_१।११५ ॥

यथा वा

उपगिरि पुरुहूतस्यैष सेनानिवेशस्तटमपरमितो ऽद्रेस्त्वद्वलान्यावसन्तु ।
ध्रुवमिह करिणस्ते दुर्धराः सन्निकर्षे सुरगजमदलेखासौरभं न क्षमन्ते ॥ व्जिव्च्_१।११६ ॥

यथा च

हे नागराज बहुधास्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः ।
सोढाविषह्यवृषवाहनयोगलीला- पर्यङ्कबन्धनविधेस्तव को ऽतिभारः ॥ व्जिव्च्_१।११७ ॥

अत्र पूर्वत्रोदाहरणयोर्भूषणगुणेनैव तद्गुणपरिपोषः, इतरत्र च स्वभावौदार्याभिधानेन ।
औचित्यस्यैव छायान्तरेण स्वरूपमुन्मीलयति—


यत्र वक्तुः प्रमातुर्वा वाच्यं शोभातिशायिना ।
आच्छाद्यते स्वभावेन तदप्यौचित्यमुच्यते ॥ व्जिव्_१।५४ ॥

यत्र यस्मिन् वक्तुरभिधातुः प्रमातुरनुभवितुर्वा स्वबावेन स्वपरिस्पन्देन व्च्यमभिधेयं वस्तु शोभातिशायिना रामणीयकमनोहरेण आच्छाद्यते संव्रियते तदप्यौचित्यमेवोच्यते ।
यथा
शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः ।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥ व्जिव्च्_१।११८ ॥

अत्र श्लाघ्यतया तथाविधमहाराजपरिस्पन्दे वर्ण्यमाने मुनिना स्वानुभवसिद्धव्यवहारानुसारेणालङ्करणयोजनमौचित्यपरिपोषमावहति ।
अत्र वक्तुः स्वभावेन च वाच्यपरिस्पन्दः संवृतप्रायो लक्ष्यते ।
प्रमातुर्यथा ।

निपीयमानस्तबका शिलीमुखैर् अशोकयष्टिश्चलबालपल्लवा ।
विडम्बयन्ती ददृशे वधूजनैर् अमन्ददष्टौष्ठकरावधूननम् ॥ व्जिव्च्_१।११९ ॥

अत्र वधूजनैर्निजानुभववासनानुसारेण तथाविधशोभाभिरामतानुभूतिरौचित्य मावहति ।
यथा वा

वापीतडे कुडुङ्गा पिअसहि ह्नाउं गएहिं दीसन्ति ।
ण धरन्ति करेण भणन्ति ण त्ति वलिउं पुण णर् देति ॥ व्जिव्च्_१।१२० ॥

वापीतटे निकुञ्जाः स्नातुं गतैर्दश्यन्ते ।
न धरन्ति करेण भजन्ति न किमपि वलितुं पुनर्न ददति ॥
इति छाया ।
अत्र कस्याश्चित्प्रमातृभूतायाः सातिशयमौग्ध्यपरिस्पन्दसुन्दरेण स्वभावेन वाच्यमाच्छादितमौचित्यपरिपोषमावहति ।
एवमौचित्यमभिधाय सौभाग्यमभिधत्ते—


इत्युपादेयवर्गे ऽस्मिन् यदर्थं प्रतिभा कवेः ।
सम्यक् संरभते तस्य गुणः सौभाग्यमुच्यते ॥ व्जिव्_१।५५ ॥

इत्येवंविधे ऽस्मिन्नुपादेयवर्गे शब्दाद्युपेयसमूहे यदर्थं यन्निमित्तं कवेः सम्बन्धिनी प्रतिभा शक्तिः सम्यक् सावधानतया संरभते व्यवस्यति तस्य वस्तुनः प्रस्तुतत्वात् काव्याभिधानस्य यो गुणः स सौभाग्यमित्युच्यते भण्यते ॥
तच्च न प्रतिभासंरम्भमात्रसाध्यम्, किन्तु तद्विहितसमस्तसामग्रीसम्पाद्यमित्याह—


सर्वसम्पत्परिस्पन्दसम्पाद्यं सरसात्मनाम् ।
अलौकिकचमत्कारकारि काव्यैकजीवितम् ॥ व्जिव्_१।५६ ॥

सर्वसम्पत्परिस्पन्दसम्पाद्यं सर्वस्योपादेयराशेर्या सम्पत्तिरनवद्यताकाष्ठा तस्याः परिस्पन्दः स्फुरितत्वं तेन सम्पाद्यं निष्पादनीयम् ।
अन्यच्च कीदृशम्—सरसात्मनामार्द्रचेतसामलौकिकचमत्कारकारि लोकोत्तराह्लादविधायि ।
किं बहुना, तच्च काव्यैकजीवितं काव्यस्य परः परमार्थ इत्यर्थः ।
यथा

दोर्मूलावधिसूत्रितस्तनमुरः स्निह्यत्कटाक्षे दशौ किञ्चित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिष भ्रूलते ।
चेतः कन्दलितं स्मरव्यतिकरैर्लाव्यमङ्गैर्वृतं तन्वङ्ग्यास्तरुणिम्निसर्पतिशनैरन्यैव काचिद्द्युतिः ॥ व्जिव्च्_१।१२१ ॥

तन्व्याः प्रथमतरतारुण्ये ऽवतीर्णे, आकारस्य चेतसश्चेष्टायाश्चवैचित्र्यमत्र वर्णितम् ।
तत्र सूत्रितस्तनमुरो लावण्यमङ्गैर्वृतमित्याकारस्य, स्मरव्यतिकरैः कन्दलितमिति चेतसः, स्निह्यत्कटाक्षे दृशाविति किञ्चित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिषु भ्रूलते इति चेष्टायाश्च ।
सूत्रित-सिक्त-ताण्डव-पण्डित-कन्दलितानामुपचारवक्रत्वं लक्ष्यते, स्निह्यदित्येतस्य कालविशेषावेदकः प्रत्ययवक्रभावः, अन्यैव काचिदवर्णनीयेति संवृतिवक्रताविच्छित्तिः, अङ्गैर्वृतमिति कारकवक्रत्वम् ।
विचित्रमार्गविषयो लावण्यगुणातिरेकः ।
तदेवमेतस्मिन् प्रतिभासंरम्भजनितसकलसामग्रीसमुन्मीलितं सरसहृदयाह्लादकारि किमपि सौभाग्यं समुद्भासते ।
अनन्तरोक्तस्य गुणद्वयस्य विषयं प्रदर्शयति—


एतत्त्रिष्वपि मार्गेषु गुणद्वितयमुज्ज्वलम् ।
पदवाक्यप्रबन्धानां व्यापकत्वेन वर्तते ॥ व्जिव्_१।५७ ॥

एतद्गुणद्वय मौचित्यसौभाग्याभिधानम् उज्ज्वलमतीव भ्राजिष्णु पदवाक्यप्रबन्धानां त्रयाणामपि व्यापकत्वेन वर्तते सकलावयवव्याप्त्यावतिष्ठते ।
क्वेत्याह—त्रिष्वपि मार्गेषु सुकुमारविचित्रमध्यमाख्येषु ।
तत्र पदस्य तावदौचित्यं बहुविधभेदभिन्नोवक्रभावः ।
स्वभावस्याञ्जसेन प्रकारेण परिपोषणमेव वक्रतायाः परं रहस्यम् ।
उचिताभिधानजीवितात्वाद् वाक्यस्याप्येकदेशे ऽप्यौचित्यविरहात्तद्विदाह्लादकारित्वहानिः ।
यथा

रघुवंशे पुरं निषादाधिपतेस्तदेत- द्यस्मिन्मया मौलिमणिं विहाय ।
जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलीतास्तवेति ॥ व्जिव्च्_१।१२२ ॥

अत्र रघुपतेरनर्घमहापुरुषसम्पदुपेतत्वेन वर्ण्यमानस्य “कैकेयि कामाः फलितास्तव” इत्येवंविधतुच्छतरपदार्थसंस्मरणं तदभिधानं चात्यन्तमनौचित्यमावहति ।
प्रबन्धस्यापि क्वचित्प्रकरणैकदेशे ऽप्यौचित्यविरहादेकदेशदाहदूषितदग्धपटप्रायता प्रसज्यते ।
यथा—रघुवंशे एव दिलीप-सिंह-संवादावसरे

अथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमाद्विभेषि ।
शक्यो ऽस्य मन्युर्भवतापि नेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥ व्जिव्च्_१।१२३ ॥

इति सिंहस्याभिधातुमुचितमेव, राजोपहासपरत्वेनाभैधीयमानत्वात् ।
राज्ञः पुनरस्य निजयशः परिरक्षणपरत्वेन तृणवल्लघुवृत्तयः प्राणाः प्रतिभासन्ते ।
तस्यैतत्पूर्वपक्षोत्तरत्वेन

कथं नु शक्यानुनयो महर्षिर्विश्राणनादन्यपयस्विनीनाम् ।
इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयास्याम् ॥ व्जिव्च्_१।१२४ ॥

इत्यन्यासां गवां तत्प्रतिवस्तुप्रदानयोग्यता यदि कदाचित्सम्भवति ततस्तस्य मुनेर्मम चोभयोरप्येतज्जीवितपरिरक्षणनैरपेक्ष्यमुपपन्नमिति तात्पर्यपर्यवसानादत्यन्तमनौचित्ययुक्तेयमुक्तिः ।
यथा च कुमारसम्भवे त्रैलोक्याक्रान्तिप्रवणपराक्रमस्य तारकाख्यस्य रिपोर्जिगीषावसरे सुरपतिर्मन्मथेनाभिधीयते—

कामेकपत्नीं व्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टाम् ।
नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयङ्ग्राहनिषक्तबाहुम् ॥ व्जिव्च्_१।१२५ ॥

इत्यविनयानुष्ठाननिष्ठं त्रिविष्टपाधिपत्यप्रतिष्ठितस्यापि तथाविधाभिप्रायानुवर्तनपरत्वेनाभिधीयमानमनौचित्यमावहति ।
एतच्चैतस्यैव कवेः सहजसौकुमार्यमुद्रितसूक्तिपरस्पन्दसौन्दर्यस्य पर्यालोच्यते, न पुनरन्येषामाहार्यमात्रकाव्यकरणकौशलश्लाघिनाम् ।
सौभाग्यमपि पदवाक्यप्रकरणप्रबन्धानां प्रत्येकमनेकाकारकमनीयकारणकलापकलितरामणीयकानां किमपि सहृदयहृदयसंवेद्यं काव्यैकजीवितमलौकिकचमत्कारकारि संवलितानेकरसास्वादसुन्दरं सकलावयवव्यापकत्वेन काव्यस्य गुणान्तरं परिस्फुरतीत्यलमतिप्रसङ्गेन ।
इदानीमेतदुपसंहृत्यान्यदवतारयति—


मार्गाणां त्रितयं तदेतदसकृत्प्राप्तव्यपर्युत्सुकैः क्षुण्णं कैरपि यत्र कामपि भुवं प्राप्य प्रसिद्धिं गताः ।
सर्वे स्वैरविहारहारि कवयो यास्यन्ति येनाधुना तस्मिन् को ऽपि स साधुसुन्दरपदान्यासक्रमः कथ्यते ॥ व्जिव्_१।५८ ॥

मार्गाणां सुकुमारादीनामेतत्त्रितयं कैरपि महाकविभिरेव, न सामान्यैः, प्राप्तव्यपर्युत्सुकैः प्राप्योत्कण्ठितैरसकृत् बहुवारमभ्यासेन क्षुण्णं परिगमितम् ।
यत्र यस्मिन् मार्गत्रये कामपि भुवं प्राप्य प्रसिद्धिं गताः लोकोत्तरां भूमिमासाद्य प्रतीतिं प्राप्ताः ।
इदानीं सर्वे कवयस्तस्मिन्मार्गत्रितये येन यास्यन्ति गमिष्यन्ति स्वैरविहारहारि स्वेच्छाविहरणरमणीयं स को ऽपि अलौकिकः साधुशोभनं कृत्वा सुन्दरपदन्यासक्रमः कथ्यते सुभगसुप्तिङन्तसमर्पणपरिपाटीविन्यासो वर्ण्यते ।
मार्ग-स्वैरविहार-पद-प्रभृतयः शब्दाः श्लेषच्छायाविशिष्टत्वेन व्याख्येयाः ।

इति श्रीराजानककुन्तकविरचिते वक्रोक्तिजीविते काव्यालङ्कारे प्रथम उन्मेषः ।

====================================================================