[[अलङ्कारशेखरः Source: EB]]
[
[TABLE]
[TABLE]
काव्यमाला
।
श्रीमाणिक्यचन्द्रकारितः श्रीमत्केशवमिश्रकृतः
अलंकारशेखरः \।
प्रथमो मरीचि ।
प्राणान्कृशोदरीणा राधानयनान्तसर्वस्वम् ।
तेजस्तमालनीलं शरणागतवज्रपञ्जरं वन्दे \।\।
स्वप्रकाशचिदानन्दमयाय परमात्मने ।
अविद्यानिबिडध्वान्तभास्कराय नमोऽन्वहम्1 \।\।
ग्रन्थाः काव्यकृता हिताय विहिता ये सप्त पूर्व मया
ते तर्कार्णवसप्लवव्यसनिभिः शक्याः परं वेदितुम् \।
इत्यालोच्य हृदा मदालसवधूपादारविन्दक्वण-
न्मञ्जीरध्वनिमञ्जुलोऽयमधुना प्रस्तूयते प्रक्रमः \।\।
आसीत्प्रत्यर्थिपृथ्वीरमणकमलिनीवृन्दहेमन्तमासः
कीर्तिभ्राजत्सुशर्मान्वयकुमुदवनीयामिनीजीवनाथः ।
राजद्राजन्यराजीमुकुटमणिगणप्रोल्लसत्पादपीठः
प्रोद्यत्साम्राज्यलक्ष्मीशिथिलितनहुपो रामचन्द्रोऽवनीन्द्रः ॥
मित्राणि प्रतिपालयंस्त्रिजगती कीर्तीन्दुना ह्लादय-
ञ्शत्रूणा हृदय प्रतापदहनै रात्रिदिवं ज्वालयन् ।
सर्वस्वेन कृतार्थयन्द्विजगणान्देवान्मखैस्तोषय-
न्नेष प्रौढमनाश्चिराय बुभुजे सप्तार्णवां मेदिनीम् \।\।
सूत्रामोद्दामढिल्ली2परिवृढविलसत्काबिलक्षोणिभर्त्रोः
प्रक्रान्ते प्रौढयुद्धे समदलयदसौ कोटिशो वैरिवीरान् ।
पश्चान्मासास्थिमेदःकलुषितवसुधां प्रोज्झ्य तांश्चाकलय्य
द्या यातान्वैरिवर्गान्दिवमपि सहसा जेतुकामो जगाम \।\।
क्षीराम्भोधेः शशीव श्रुतिरिव वदनाद्वेधसो रामचन्द्रा-
दस्मादुद्यत्प्रतापः समजनि सुमना धर्मचन्द्रो नरेन्द्रः ।
यस्याद्यापि प्रसन्नस्मितसुभगमुखाः स्विद्यदञ्चत्कपोला
रोमाञ्चस्तम्भभव्यास्त्रिदशयुवतयो हन्त गायन्ति कीर्तीः ॥
निष्क्रान्तं सदनादुदैक्षि भगवानम्भोजिनीवल्लभ-
स्ते वाताः परिशीलिताः कमलिनीसौरभ्यमेदस्विनः \।
विश्रान्तं गिरिकाननेषु निबिडच्छायेषु भाग्योदया-
दित्थं स्मेरमुखाः स्तुवन्ति विपदं यद्वैरिवामभ्रुवः \।\।
प्रत्यर्थिभूपतिपरिग्रहराज्यलक्ष्मी-
धम्मिल्लमाल्यसुरभीकृतपाणिपद्मः ।
तस्मादजायत समस्तगुणाभिरामो
माणिक्यचन्द्र इति राजकचक्रशक्रः ॥
काव्यालंकारपारंगममतिरखिलक्ष्माभृतां चक्रवर्ती
सर्वेषामस्तु काव्ये मतिरतिनिपुणेत्याशये सनिवेश्य ।
वेदान्तन्यायविद्यापरिचयचतुर केशवं संनियुज्य
श्रीमन्माणिक्यचन्द्रः क्षितिपतितिलको ग्रन्थमेनं विधत्ते ॥
बहुदोषोऽपि विदोषः क्रियते सुजनेन बाण इव हरिणा ।
गुणवदपि निर्गुणीयति दुर्जनतो मूषिकात इव पुस्तम् ॥
परोद्वेगे परानन्दे खलसज्जनयोर्द्वयोः ।
स्वभाव एव शरणं विषपीयूषयोरिव ॥
अलंकारविद्यासूत्रकारो भगवाञ्शौद्धोदनिः परमकारुणिकः स्वशास्त्रेप्रवर्तयिष्यन्प्रथमं काव्यस्वरूपमाह-
काव्यं रसादिमद्वाक्यं श्रुतं सुखविशेषकृत् ।
आदिपदेनालंकारपरिग्रहः । तथा च तदुभयान्यतरवत्वं3 लक्षणम् ।
अन्यतरत्त्वं च तदन्यान्यत्वम् । सुखविशेषसाधनत्वं4 वा लक्षणम् । समुदायार्थशून्ये5ऽपि तदुभयमस्त्येवेति वृद्धाः । अदृष्टद्वारा तद्धेतुशब्देऽतिव्याप्तिराह – श्रुतमिति । सदिति शेषः । सुखे वैजात्यं सर्वानुभवसिद्धमेव \।\।
केचित्तु—
‘तददोषौ शब्दार्थौसगुणावनलंकृती पुनः क्वापि ।’
इत्याहुः ॥ ‘रसप्रतिपत्ति6द्वारा सुखविशेषसाधनं वाक्यं काव्यम्’ इत्यपरे \।\।केचित्तु – ‘पदावली काव्यम्’ । न तु निर्दोषगुणवदादि, काव्यदोषाणामपरिगणनापत्तेः । न च— दोषाभावघटितकाव्यत्वज्ञानार्थमेव प्रतियोगिपरिगणनम् — इति वाच्यम्, ‘न चैतत्काव्यं दुष्टम्’ इत्यनुद्भावनापत्तेः ‘इदकाव्यमेव न’ इत्यभिधानस्यैवोचितत्वात् —इत्याहुः । तन्न \। तवायं हेतुराभास इतिवदुपपत्तेः । व्याप्तिविशिष्टपक्षधर्मस्यैव हेतुत्वात् । न च हेतुत्वेनाभिमत इति वाच्यम् ॥ तुल्यत्वादिति ॥ वस्तुतस्त7त्काव्यं पृथगेव यत्र दोषगुणादि8चिन्ता । नहि । दुष्ट शरीरं शरीरमेव न भवति, इत्यन्ये ॥ कीर्त्यादिरूपफलसाधनता तु विशिष्टस्य \। यदाह —
‘साधुशब्दार्थसदर्भं गुणालंकारभूषितम् ।
स्फुटरीतिरसोपेतं काव्यं कुर्वीत कीर्तये ॥’
आहुश्च—
‘निर्दोषं गुणवत्काव्यमलंकारैरलंकृतम् ।
रसान्वितं कविः कुर्वन्प्रीति कीर्ति च विन्दति’ ॥ इति ॥
प्रवृत्त्यौपयिकं फलमाह—
हिताय सुकविः कुर्यात्
सुकवेरेव हितम्, अन्यस्य तु प्रतिकूलं9 तत् ॥
उक्त10 च—
‘गौर्गौः कामदुघासम्यक्प्रयुक्ता स्मर्यते बुधैः ।
दुष्प्रयुक्ताः पुनर्गोत्वं प्रयोक्तुःसैव शंसति \।\।
श्लाघ्यःपामरपरिषदि कवयति दोलीककर्तापि ।
यस्मै स्पृहयति विद्वाँस्तत्काव्यं काव्यमित्याहुः \।\।
अर्थैः कृतार्थयन्त्येके घटनापटवः परे ।
उभयत्र प्रवीणा ये त एव कवयो मताः ॥’
हितमाह श्रीपादः—
‘लाभः पूजाख्यातिर्धर्म कामश्च मोक्षश्च ।
इष्टानिष्टप्राप्तित्यागौ ज्ञानं फलानि काव्यस्य \।\।’
इष्टेति गोवृषन्यायात् \।\।
आहुश्च—
‘काव्य यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥’
वृद्धास्तु—
‘श्रोतॄणां द्राग्महानन्दः स स्वस्मिन्नाभिमानिकः ।
तत्कालफलमेतावत्क्रमात्कीर्तिधनादिकम् ॥’
नन्वेवं सर्वः सुकविरेव स्यात् । अत आह—
तद्धेतुः प्रतिभादिकम् ॥ १ ॥
तदाह—
‘प्रतिभा कारणं तस्य11 व्युत्पत्तिस्तु विभूषणम् ।
भृशोत्पत्तिकृदभ्यासः12 काव्यस्यैषा व्यवस्थितिः ॥’
व्युत्पत्तिर्नानातन्त्रज्ञानम् \।\।
आहुश्च—
‘शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥’
शक्तिः पुण्यविशेषः । स एव प्रतिभेत्युच्यते ।
‘व्युत्पत्तिः शक्तिरभ्यासस्त्रितयं काव्यसाधनम् ।’
इत्यपि ॥
श्रीपादस्तु—
‘परिशीलितकाव्यवर्त्मनां कविसंसर्गविशुद्धचेतसाम् ।
परिभावयतामनुक्षणं कविता पाणितले निषीदति ॥’
वृद्धास्तु13 -
‘नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम् ।
अमन्दश्चाभियोगोऽस्याः कारणं काव्यसंपदः ॥
मनःप्रसत्तिः प्रतिभा प्रातःकालेऽभियोगिता \।
अनेकशास्त्रदर्शित्वमित्यर्थालोकहेतवः ॥
द्वित्र14कोपपरिज्ञानं द्वित्र14व्याकरणज्ञता \।
छन्दोविद्याप्रवीणत्वं काव्येऽवश्यमपेक्ष्यते15 \।\।’
आदिपदात्प्रकारज्ञानम् । तथा हि — सा खल्वेषा भारती सुरसरिदिव सहस्रमुख्यपि संक्षेपेण चतुर्धा प्रवर्तते । तदाहुः—
‘संस्कृतं प्राकृतं चैव पैशाची मागधी तथा ।
विद्याश्चतस्त्र एवैताः सक्षेपात्काव्यवर्त्मनः ॥
देवाद्याः संस्कृतं प्राहुः प्राकृतं किन्नरादयः ।
पैशाची तु16 पिशाचाद्या मागधी हीनजातयः \।\।
चतसृष्वपि मूर्धन्यं संस्कृतं मुनयो विदुः ।
गद्यं पद्यं च मिश्रं च तत्रिधैव व्यवस्थितम् ।
गद्यमुत्कलिकाप्रायं पद्यगन्धीति च द्विधा \।
तत्रापि पद्यं तदपि वृत्तकं वर्णमात्रयोः ।
समवैपम्यभेदेन तदानन्त्याय कल्पते ॥’
दण्डिनस्तु—
‘तदेतद्वाङ्मयं भूयः संस्कृतं प्राकृतं तथा ।
अपभ्रंशश्च मिश्रं चेत्याहुरार्याश्चतुर्विधम् \।\।
प्राकृतं तज्जतत्तुल्यदेश्यादिकमनेकधा ।
अपभ्रशश्च यच्छुद्धं तत्तद्देशेषु भाषितम् ॥
सस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादिकम् ।
आसारादि त्वपभ्रशो नाटकादि तु मिश्रकम् \।\।
यथामति यथाशक्ति यथौचित्यं यथारति ।
कवेः पात्रस्य चैतासां प्रयोग उपपद्यते \।\। "
इत्यलकारशेखर उपक्रमरत्ने काव्यस्वरूपफलकारणमरीचिः ॥ १ ॥
द्वितीयो मरीचि \।
शरीर17कल्पस्य काव्यस्य रूपान्तरमाह—
रीतिरुक्तिस्तथा मुद्रा वृत्तिः काव्यस्य जीवनम् ।
त्रिविधस्यापि दोषास्तु त्याज्याः श्लाघ्या ॥" णाः ॥ १ ॥
अलंकारस्तु शोभायै रस आत्मा परे
द्वय इति शब्दार्थभेदात्रितयान्वयि \।परे रसदोषनिकः \। लवर्णादयः \।\।
तत्र रीतिमाह—
तत्तद्रसोपकारिण्यस्तत्तद्देशसमुद्भवाः
पद्येषु रीतयो गौडी वैदर्भी मागधीकम् \।\।
तदेतत्पल्लवयन्ति श्रीपादाः—
‘गौडी समासभूयस्त्वाद्वैदर्भी च तदल्पतः ।
अनयोः संकरो यस्तु मागधी सातिविस्तरा \।\।
गौडीयैः प्रथमामध्यावदैर्भैर्मैथिलैस्तथा ।
अन्यैस्तु चरमा रीतिः स्वभावादेव सेव्यते ॥’
तत्र गौडी यथा—
‘उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-
क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः \।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण-
प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥’
वैदर्भी यथा—
‘मनीषिताः18 सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः ।
पद सहेत भ्रमरस्य पेलवं शिरीषपुष्प न पुनः पतत्रिणः ॥’
मागधी यथा—
‘पाणौ पद्मधिया मधूककुसुमभ्रान्त्या पुनर्गण्डयो-
र्नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे ।
लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा
दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि19 \।\।’
इयं बहुधा विस्तृतमन्यत्र ॥
** भोजराज**स्तु—
‘शस्ता विदग्धगोष्ठीषु वैदर्भी रीतिरुत्तमा ।
मागधी मध्यमा गौडी गौडस्त्रीकलहायते ॥’
यदाह—
‘ब्रह्मन्विज्ञापयामि त्वां स्वाधिकारजिहासया \।
गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती ॥’
उक्ति विभजते—
लोकच्छेकार्भकोन्मत्तभेदादुक्तिश्चतुर्विधा ॥ ३ ॥
तत्र लोकोक्तिर्यथा —
‘शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
शेषान्मासान्गमय चतुरो लोचने मीलयित्वा \।
पश्चादावा विरहगुणितं तं तमात्माभिलाषं
निर्वेक्ष्यावःपरिणतशरच्चन्द्रिकासु क्षपासु \।\।"
छेको विदग्धस्तस्योक्तिर्यथा —
‘योऽतिदीर्घासिताक्षस्य विलासवलितभ्रुवः20 \।
कान्तामुखस्यावशगस्तस्मै नृपशवे नमः ॥’
अत्र ‘नृपशवे नमः21’ इति ॥
अर्भकोक्तिर्यथा—
‘स कि स्वर्गतरुः कोऽपि यस्य पुष्पं निशाकरः ।
मातरते कीदृशा वृक्षा येषा मुक्ताफलं फलम् ॥’
अत्र पुष्प निशाकरः, फलं मुक्ताफलमिति ॥
उन्मत्तोक्तिर्यथा—
‘क्वाकार्य शशलक्ष्मणः क्व च कुल भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय नः श्रुतमहोकोपेऽपि कान्त मुखम् ।
कि वक्ष्यन्त्यपकल्मपाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपेहि कः खलु युवा धन्योऽधर धास्यति ॥’
अत्र विरहोन्मत्तस्यैवमभिधानम् ॥
विन्यासविशेषवशाद्यत्राभिप्रायविशेषलाभेन मुदो हर्षस्योत्पत्तिः सा मुद्रा \।\।
तामिदानी विभजते—
‘मुद्रा पदस्य वाक्यस्य विभक्तेर्वचनस्य च ॥’
तत्र22 पदमुद्रा यथा—
‘निर्माल्यं नयनश्रियः कुवलयं, वक्त्रस्य दासः शशी
भ्रूयुग्मस्य सनाभि मन्मथधनुर्ज्योत्स्नास्मितस्याञ्चलम्
सगीतस्य च मत्तकोकिलरुतान्युच्छिष्टमेणीदृशः
सर्वाकारमहो विधेः परिणतं विज्ञानशिल्पं चिरात् ॥’
अत्र निर्माल्यादि पदाना गौणवृत्त्याभिप्रायविशेषान्मुत्प्रदायिता \।\।
वाक्यमुद्रा यथा—
‘रामे तटान्तवसतौ कुशतल्पशायि-
न्यद्यापि नाम भवतो भगवन्ननास्था \।
स्मृत्वा तदेहि सगरं च भगीरथं च
दृष्ट्वाथ वा मम धनुश्च शिलीमुखाँश्च ॥"
अत्र सगरं च भगीरथं चेत्यादिवाक्यस्य प्रागुपकाराभिप्रायेण दृष्ट्वा यावदपकारसामर्थ्याभिप्रायेण निवेशनान्मुत्प्रदायिता ॥
विभक्तिमुद्रा यथा—
‘श्रियं प्रदुग्धे विपदो रुणद्धि यशांसि सूतेऽविनयं प्रमार्ष्टि।
सस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः ॥’
अत्र प्रदुग्ध इत्यादि तिड्विभक्तीना द्वयोर्द्विकर्मकयोर्निवेशनान्मङ्गल्यामङ्गल्यार्थकानामपि मङ्गल्य एवाभिप्रायवशाद्विभक्तिमुद्रा \।\।
वचनमुद्रा यथा—
‘विश्वंभरा भगवती भवतीमसूत
राजा प्रजापतिसमो जनकः पिता ते ।
तेषां वधूस्त्वमसि नन्दिनि पार्थिवाना
येषा गृहेषु सविता च गुरुर्वयं च ॥’
अत्र वयमिति वचनेन सवितुरहं महानित्यभिप्रायाद्वचनमुद्रा \।\।
‘प्रयोजनं यथैतासा रसमैत्री च विस्तरः ।
तथालंकारसर्वस्खे
सप्रपञ्चमदर्शयम् \।\।’
इत्यलंकारशेखर उपक्रमरत्ने रीत्यादिबहिरङ्गत्रयमरीचिः ॥ २ ॥
तृतीयो मरीचिः \।
अथ वृत्तिं विभजते —
पदानां वृत्तयस्तिस्रः
तिस्रो वृत्तयः पदानां भवन्ति, शक्तिर्लक्षणा व्यञ्जना चेति । तत्र – शक्तिरीश्वरेच्छा या संकेत इत्युच्यते । सा पदेषु प्रसिद्धैव ॥ सा च—
‘कोशव्याकरणाप्तोक्तिवाक्यशेषोपमादितः ।
प्रसिद्धपदसंबन्धाद्व्यवहाराच्च बुद्ध्यते ॥’
लक्षणा शक्यसंबन्धः। सा च तात्पर्यानुपपत्त्या मुख्यार्थानुपपत्त्या वा प्रवर्तते ॥ यथा ‘निर्माल्यं नयनश्रियः’ इत्यादौ निर्माल्यदासादिपदे ॥
तृतीया वृत्तिर्व्यञ्जना यथा—
‘निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेय ‘तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥’
अत्राधमपदेन रन्तुं गतासीति व्यज्यते ॥
ननु ‘रविरस्तं गतः’ इत्यादौ तान्येव पदानि कथं श्रोतॄणां विचित्रबुद्धीरुत्पादयन्तीत्यत आह—
विचित्रसहकारिणाम् \।
तदेव हि पदं स्वरससमभिव्याहारप्रकरणतात्पर्यज्ञानादिरूपसहकारिभेदात्तत्तद्धियमुत्पादयति दण्ड इव गवाभ्याजनघटौ \।\।
ननु शक्त्यादि23कमानुपूर्वीविशेषविशिष्टवर्णसमुदाये, तत्कथमेकदेशस्यबोधकतात आह—
स्वभाववैचित्र्यजुषाम्
विचित्रस्वभावानि खलु पदानि भवन्ति । क्वचिदेकदेशस्याद्यस्य बोधकता । यथा भीमसेनबलदेवादिपदादौ ॥ क्वचिच्चरमस्य । यथा — मतंगजवसुंधरा धराधरपदादौ । सा च तत्तत्पदस्मरणेन प्रकारान्तरेण चेत्यन्यदेतत् \।\। किं च कर्णावतंसपदवत् शक्यतावच्छेदकस्य पृथगुपादानेनापि24 नपौनरुक्त्यं भवति । यथा — करिबृंहितमयूरकेकादौ । क्वचित्—शक्यस्यापि ।यथा—‘उदयाचलकारागृहादौ । उदयपदस्य पूर्वाचले, कारापदस्य वन्दिगृहे शक्यत्वात् । कि च परस्परविरुद्धतया तिरस्कृततृतीयकोटिकमिवान्यतरप्रतिक्षेपे परस्यैव लाभं जनयति । यथा—‘शीतेतरानुष्णकरा हिमाशोः’इत्यादौ ‘अपांसुलाना धुरि कीर्तनीया’ ‘स नन्दिनीस्तन्यमनिन्दितात्मा’इत्यादौ प्रकर्षलाभवदित्यवधेयम् । किचित्पदमनपेक्ष्यरूढिकम्, यथा— ‘सिंहादवाप द्विपदं नृसिहः’ इत्यादौ । किचिच्चानपेक्ष्ययौगिकम्, यथा—क्षीराम्भोधेरित्यादौ, अन्यथानन्वयापत्तिः । किं च वामनयना वामोरुरितिभवति न तु वामवदना वामपाणिरिति । सर्व चेदं क्वचिदेव पदे । अतउक्तं स्वभावेति ॥
तत्कि यद् व्यञ्जनापि पदमात्रवृत्तिरेव नेत्यत आह—
व्यञ्जनार्थत्रयेऽपि च ॥ १ ॥
शक्यलक्ष्यव्यङ्ग्यात्मक इत्यर्थः \।\। शक्यार्थस्य व्यञ्जकता यथा—
‘अवलोकय निष्पन्दो विशिनीपत्रे वको भाति ।
निर्मलमरकतभाजनपरिस्थितो विमलशङ्ख25इव ॥’
अत्र निष्पन्दशब्दस्यार्थेन क्रियाविरहेण वकगतमाश्वस्तत्वं व्यज्यते ॥
लक्ष्यार्थस्य यथा—
‘मुखं विकसितस्मितं वसितवक्रिम26 प्रेक्षितं
समुच्छलितविभ्रमा गतिरपास्तसस्था मतिः ।
उरो मुकुलितस्तनं जघनमंसबन्धोद्धुर27
बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ॥’
अत्र विकासः पुष्पधर्मो मुखेऽनुपपन्न इति लक्षितेन प्रसृतत्वेन लोकोत्तररमणीयतात्मकातिशयो व्यज्यते॥ एवमग्रेऽपि । व्यङ्ग्यार्थस्य यथा ‘अवलोकय —’ इत्यादावेव व्यङ्ग्येनाश्वस्तत्वेन देशस्य सकेतयोग्यत्वं व्यज्यते ॥
त्रिविधस्यापीति \।\।
उत्तममध्यमाधमात्मकस्य । तत्र—
वाच्यनिरूपितव्यङ्ग्यप्रकर्षाधारत्वमुत्तमत्वम् ।’ यथा—‘निःशेषच्युतचन्दनम्’ इत्यादौ वाच्यार्थापेक्षया28 व्यङ्गयार्थ एव झटिति चमत्कारविशेषमारोहति ॥
वाच्यनिरूपितव्यङ्ग्यप्रकर्षानाधारत्वं
मध्यमत्वम्
।’ यथा—
‘ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरा मलिना मुखच्छाया ॥’
अत्र वञ्जुलकुञ्जेदत्तसकेता तरुणी न गतेति व्यज्यते । तच्च गुणीभूतंतदपेक्षया वाच्यस्यैव चमत्कारकारित्वात्29 \।\।
चमत्कृतिहेतुव्यङ्ग्यरहितत्व
मधमत्वम्
\। यथा—
‘वन्दामहे महेशानचण्डकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥’
अत्र व्यङ्ग्यः कोऽप्यर्थस्तादृशो नास्ति । अत्र सर्वत्र30 व्यञ्जनासु वक्तुरेवतात्पर्यं नियामकम् \। तज्ज्ञानमेव बोधोपयोगि । तदभावादधममित्युच्यते ।प्रपञ्चितं चेदं मयैव वाक्यरत्ने \।\। ननु व्यञ्जना वृत्त्यन्तरमित्यत्र किं मानमिति । उच्यते —
‘भद्रात्मनो दुरधिरोहतनोर्विशाल-
वंशोन्मतेः कृतशिलीमुखसंग्रहस्य \।
यस्यानुपप्लुतगतेः परवारणस्य
दानाम्बुसेकसुभगः सततं करोऽभूत् ॥’
अत्र प्रकरणेन भद्रात्मन इत्यादि पदाना राज्ञि तदन्वययोग्ये चार्थेऽभिधानियन्त्रणेऽपि गजस्य तदन्वययोग्यस्य चार्थस्य व्यञ्जनयैव प्रतीतिः ॥
वस्तुतस्तु—
‘अद्यारभ्य चिरं साधो निःशङ्कमिह सचर ।
रेवाकुञ्जे मृगेन्द्रेण स दुष्टश्चाद्य घातितः ॥’
अत्र भिक्षुकं प्रत्येवं वदन्त्याः प्रतिवेशिनं प्रति निःशङ्करत्यभिधानं स्फुटमिति ॥ कि च रेवाकुञ्जस्य रतस्थानत्वं लभ्यते, सिहबुद्ध्या परेण न गन्तव्यम्, सिहस्तु वस्तुगत्या नात्येव तदेतद्व्यञ्जना विना प्रकारान्तरेण लब्धव्यमित्याशङ्कैव नास्तीति31\।
इत्यलंकारशेखर उपक्रमरत्ने वृत्तिमरिचि ॥ ३ ॥
इति श्रीमहाराजाधिराजश्रीमाणिक्यचन्द्रकारिते श्रीकेशवमिश्रविरचितेऽलंकारशेखरउपक्रमरत्नम् ॥१॥
चतुर्थो मरीचि ।
‘दोषास्त्याज्याः’ इत्युक्तम् । युक्तं चैतत् ॥ यदाह —
‘दोपः सर्वात्मना त्याज्यो रसहानिकरो हि सः ।
अन्यो गुणोऽस्तु मा वास्तु महान्निर्दोषता गुणः \।\।’
दण्डी च —
‘तदल्पमपि नोपेक्ष्यं काव्ये32 दुष्टं कथंचन \।
स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन33 दुर्भगम् ॥’
दोषत्वं च रसोत्पत्तिप्रतिबन्धकत्वम् । रसकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वम् इति यावत्॥
अत्र प्रथमं पददोषानाह—
कष्टाप्रयुक्तसंदिग्धव्यर्थाश्लीलाप्रतीतकाः ।
असाध्ववाचकौ दोषाः पदेऽष्टावेव भाषिताः ॥ १ ॥
कष्टं श्रुतिकटु यथा—
‘बर्हिनिर्ह्रादनार्हेऽस्मिन्काले जीमूतमालिनि ।
आलिङ्गितः स तन्वङ्ग्याकार्तार्थ्यं लभता चिरात् ॥’
अत्र बर्हिनिर्ह्रादनकार्तार्थ्यादि शब्दाः ॥
** अप्रयुक्तं** तथाम्नातमपि कविभिर्नादृतम् \। यथा—
‘यतोऽयं दारुणाचारो न हन्ति सुरनिम्नगाम् ।
अतो मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ॥’
अत्र हन्तीति गमने, दैवतशब्दः पुंसि कविर्न प्रयुक्तः ॥
** संदिग्धं** संदेहजनकम् \। यथा—
‘अपिधानेन हे वत्स किमर्थमिह वर्तसे ।
आरादेवास्ति स प्रायो यतस्ते भयमुत्थितम् \।\।
अत्रापिधानाराच्छब्दौ॥
व्यर्थं प्रकृतार्थानुपयुक्तम् । यथा—
‘बिभर्ति यश्च देहार्धे प्रियामिन्दुं हि मूर्धनि ।
स वै देवः खलु त्वा तु पुनातु मदनान्तकः ॥’
अत्र च-हि-वै-खलु-तु-शब्दाः ॥
अश्लीलमौज्ज्वल्याभाववत् । तदपि त्रिविधम्, अमङ्गलव्रीडाजुगुप्साभेदात् ॥ क्रमेणोदाहरणम्—
‘विनाशान्मारुतेस्तस्यसुमहत्सा34धनोऽपि सन् ।
नासाग्रेण स सुग्रीवो वायुं त्यजति केवलम् \।\।"
अत्र विनाशसाधनवायुशब्दाः \।\।
अप्रतीतं
स्वशास्त्रमात्रविरुद्धम् । यथा—
‘त्रुटौ विश्रान्तिरित्येके पीलाव35स्तीति चापरे ।
त्वन्मध्यमाणिमा तन्वि न केनापि विभाव्यते \।\।"
अत्र त्रुटिपीलुशब्दौ \।\।
असाधु
अनुशासनविरुद्धम् । यथा—
‘शातोदरि कथंकार मानमेतच्चिकीर्षति ।
मानिनीमानदलनो विजयत्येष चन्द्रमाः ॥’
अत्र मानमेतद्विजयतीति ।
अवाचकं
प्रकृतार्थाशक्तम् । यथा—
‘भूयोमत्तद्विरदगमनां हारकेयूरयुक्ता
पीनोत्तुङ्गस्तनभरनमन्मध्यभागाभिरामाम् ।
स्मेरोदञ्चन्नवकिसलयस्पर्धिताम्राधरौष्ठी
लक्ष्मीमक्षिस्फुरितवदनामन्वहं सस्मरामि ॥’
अत्र लक्ष्मीपदमङ्गनायाः ।
ग्राम्यं
त्ववाचकाश्लीलान्यतरान्तर्भावान्न पृथगिति ॥
इत्यलंकारशेखरे दोषरत्ने परदोषमरीचि ॥ ४ ॥
पञ्चमो मरीचि ।
अथेदानीमसाधारणान्वाक्यदोषानाह—
न्यूनं विसंधि व्याकीर्णं समाप्तपुनरात्तकम् ।
भग्नः क्रमयतिच्छन्दो वाक्यगर्भमरीतिमत् ॥ १ ॥
अभिमृष्टविधेयांशं समुदायार्थवर्जितम् ।
विरुद्धमतिकृद्वाक्ये दोषा द्वादश कीर्तिताः ॥ २॥
तत्र न्यूनमन्वयबोधप्रयोजकपदशून्यम् । यथा—
‘तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां
वने व्याधैःसार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने भजति मयि नाद्यापि कुरुषु \।\। "
अत्र स्थितमित्यन्तरमस्माभिरिति, खिन्न इत्यस्मात्पूर्वमित्थमिति चदातुमर्हति ॥
विसंधिः संधिविरहो विरुद्धसधिश्च । आद्योऽपि द्विविधः । ऐच्छिकःप्रगृह्यादिनिबन्धनश्च । ऐच्छिकः सकृदपि दोषः । उभयोरुदाहरणम्—
‘मेघानिलेन अमुना एतस्मिन्नद्रिकानने ।
पादपा उत्तमा उच्चा इदानीमेव पातिताः \।\।"
चरमश्चतुर्विधः । अश्लीलः कष्ट उत्वप्राप्तविसर्गो36 लुप्तविसर्गश्च । क्रमेणोदाहरणानि—
‘ववुरिन्दीवरश्रेणिबान्धवा यत्र वायवः ।
मञ्जर्युद्गमगर्भासौ तर्वाल्युर्वी विधूयते ॥’
‘धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः ।
यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः ॥"
** व्याकीर्णं** व्यवहितान्वयम् । यथा—
‘मसृणचरणपातं गम्यता भूः सदर्भा
विरचय सिचयान्तं मूर्ध्नि धर्मः कठोर ।
तदिति जनकपुत्री लोचनैरश्रुपूर्णैः
पथि पथिकवधूभिर्वीक्षिता शिक्षिता च ॥’
अत्र ‘तद्गम्यताम्, तद्विरेचय’ इत्यन्वये तदिति व्यवहितम् \।\।
** समाप्तपुनरात्तकं** समाप्तौ प्रधानवाक्यार्थबोधे जाते पुनरुपात्तम् । यथा ‘निर्माल्यं नयनश्रियः’ इत्यादौ चिरादिति । यथा च—
‘क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवो
झङ्कारो रतिमञ्जरीमधुलिहा लीलाचकोरध्वनिः ।
तन्व्या कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण-
क्वाणःप्रेम तनोतु वो नववयोलास्याय वेणुस्वनः \।\। '
अत्र वेणुस्वन इति \।\।
भग्नक्रमं यत्रार्थः शाब्दो37 वा क्रमेनास्ति । उभयं यथा—
‘तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् ।
कान्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समो \।\। "
भग्नयतिर्यथा —‘रामे तटान्तवसतौ कुशतल्पशायिन्यद्यापि’ इत्यादौ । अत्रावश्यकी पदशेषयतिर्नास्ति \।\।
भग्नछन्दो यथा—
‘ततः परमोमित्युक्त्वा प्रतस्थे मुनिमण्डलम् ।
भगवानपि संप्राप्तः प्रथमोद्दिष्टमाश्रमम् ॥
अत्र पञ्चमं लघु कर्तुमर्हति ॥
यत्रापर्यवसितवाक्यमध्ये तदनपेक्षवाक्यान्तरमनुप्रविशति तद्वाक्यगर्भम् । यथा—
‘योग्यो यस्ते पुत्रः सोऽयं दशवदन लक्ष्मणेन मया ।
रक्षैन यदि शक्तिर्मृत्युवशं नीयते विवशः ॥’
अत्र तृतीयपादगर्भता38 ॥
अरीतिमत् या रीतिमुपक्रम्य प्रवृत्तं तद्भङ्गवत् \। यथा—
‘गाहन्ता महिषा निपानसलिलं शृङ्गै39र्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुल रोमन्थमभ्यस्यतु ।
विश्रब्धैः क्रियता वराहततिभि40र्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथिलज्याबन्ध41मस्मद्धनुः ॥’
अत्र तृतीयपादेऽनभिहितकर्त्रादरातद्भङ्गः ।
अभिमृष्टविधेयांशं
प्राधान्यानिर्दिष्टविधेयकम् । यथा—
‘वपुर्विरूपाक्षमलक्ष्य42जन्मता दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति कि व्यस्तमपि त्रिलोचने ॥’
अत्र जन्मोद्दिश्यालक्ष्यत्वं43 विधेयम् । तच्च समासप्रविष्टतया न प्राधान्येननिर्दिष्टम् ॥
समुदायार्थवर्जितं
यथा—
‘जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि ।
तं ब्राह्मणी पृच्छति पुत्रकामा राजनुमायां लशुनस्य कोऽर्थः ॥
अथ
विरुद्धमतिकृत्
—
‘कुबेरस्येव भगवान्भवानीरमणो हरः ।
अकार्यमित्रमेकोऽसौ वासुदेवः
किरीटिनः
॥’
अत्र भवानीरमणाकार्यमित्रशब्दौ विरुद्धां मतिं कुरुतः ॥
‘असमर्थसमासो44 दोषान्तरम्’45 इति गोवर्धनः । यथा46—
‘प्राक्प्रत्यक्पृथिवीभृतोः परिषदि प्रख्यातसख्यावता-
मह्नायाद्भुततर्ककर्कशतया विच्छिद्य विद्यामदम् ।
ये केऽप्युत्कलभूपते तव सभासभाविताः पण्डिताः
पत्रं श्रीजयदेवपण्डितकविस्तमूर्ध्नि विन्यस्यति \।\।
इत्यलंकारशेखरे वाक्यदोषमरीचिः ॥ ५ ॥
षष्ठो मरीचिः ।
अथार्थदोषानाह—
अष्टार्थदोषा विरसग्राम्यव्याहतखिन्नताः ।
हीनाधिकासदृक्साम्यं देशादीनां विरोधि च ॥ १ ॥
६. ‘वाग्दोष’ ख.
अत्र
विरसं
प्रस्तुतरसविरुद्धम् \। यथा—
‘किं रोदिषि हा रावैः सुतमरणशुचं जहीहि किं म्रियसे ।
सफलय यौवनमधुना सममनुरक्तेन सुतनु मया \।\।"
अत्र करुणशृङ्गारयोर्महान्विरोधः ॥
ग्राम्य
मविदग्धोक्तिनिष्पन्नम् । यथा—
‘स्वपिम्यद्यानवद्याङ्गि संप्रत्याप्तस्तवान्तिके47 \।
मनागूरुद्वयं बाले कुञ्चितं समुदञ्चय \।\।
व्याहतम्
उपात्तविरुद्धम् । यथा—
‘विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्बालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन \।\।
अत्र शैलदुहितृत्वभावप्रकाशनत्वे विरुद्धे । एकेन प्रस्तरप्रकृतित्वस्यापरेणविदग्धत्वस्य लाभात् ॥
खिन्नमपुष्टम्
। यथा—
‘त्वत्प्रयाणसमद्भूतधूली लुम्पति भास्करम् ।
कृपाणं पाणिना धत्से शूरो न त्वत्समो भुवि ॥’
अत्र धूल्युत्थापनकृपाणधारणयोरशूरसाधारण्याच्छौर्यस्यापुष्टिः ॥
हीनोपेमं
यथा—
‘क्वचिदग्रेप्रसरता क्वचिदापद्यनिघ्नता ।
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषांबलम् \।\।’
अधिकोपमं48 यथा—
‘वसिष्ठवदयं दासो हनूमानिव मूषिका ।
सरस्वानिव कूपोऽयं शुनीयं श्रीरिव स्वयम् ॥’
अत्र यद्यप्युपमेयानां प्रकर्ष एव, तथाप्यात्यन्तिकरसहानेःसोऽपि नप्रतीयते49 ॥
असदृशोपमं यथा —
‘निर्ययौ रुद्रनयनात्सस्फुलिङ्गो महानलः ।
वर्षन्ती शीकरासारं गङ्गा हिमगिरेरिव50 \।\।"
अत्र स्फुटमसादृश्यम् ॥
देशादिविरोधि
यत्र51 तत्तद्देशकालवयोवस्थादिविरोधः प्रतीयते ।
यथा —
‘प्रवेशे चैत्रस्य स्फुटकुटजराजिस्मितदिशि
प्रचण्डे मार्तण्डे हिमकण50समानोष्ममहसि ।
जलक्रीडायातं मरुसरसि बालद्विपकुलं
मदेनान्धं विध्यन्त्यसमशरपातैः प्रशमिनः \।\।’
अत्र प्रवेशे चैत्रस्य, स्फुटकुटजेति कालस्य, मरुसरसीति देशस्य, (बाल- द्विपकुलं) मदेनान्धमिति वयसः, प्रशामिन इत्यवस्थाया विरोधः । इदं च तत्तच्छास्त्रतत्तत्प्रमाणतत्तल्लोकादिभेदादनन्तम् ॥ यत्र तु लोकस्य कवेश्च प्रसिद्ध्योर्विरोधस्तत्र कविप्रसिद्धिरेव बलीयसी इति । यथा—
‘सुसितवसनालंकारायां कदाचन कौमुदी-
महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः \।
तदनु भवतः कीर्तिः केनाप्यगीयत येन सा
प्रियगृहमगान्मुक्ताशङ्का52क्वनासि शुभप्रदः ॥’
अत्र कीर्तेर्ज्योत्स्नावत्प्रकाशता लोकविरुद्धापि कविसमयसिद्धेत्यदोषः॥ ननु कथममीषां दोषता आकाङ्क्षादिज्ञानासत्त्वे53 शाब्दज्ञानविलम्बादिति53 चेत् न वाक्यान्तरापेक्षया काव्ये सामग्रीवैलक्षण्यात् । अन्यथा प्रतीतिवैलक्षण्यानुपपत्तेः । तथा चान्वयबोधाकाङ्क्षा सत्त्वेऽपि रसोत्पत्त्यनुकूलाकाङ्क्षादिविरहो दोष इति ध्येयम् \।\।
संप्रदायानुरोधेन व्याख्यैवं मम वस्तुतः ।
तादृक्काव्यं प्रकुर्वीत यत्रोद्वेगो न धीमताम् \।\।
इत्यलकारशेखरेऽर्थदोषमरीचि ॥ ६ ॥
सप्तमो मरीचि
. ।
‘श्लाघ्या गुणाः’ इत्युक्तम् \। युक्तं चैतत् । यदाह—
‘अलंकृतमपि श्रव्यं न काव्यं गुणवर्जितम् ।
गुणयोगस्ततो मुख्यो गुणालंकारयोगयोः ॥’
तदुक्तम्—
‘अलंकारसहस्रैः किं गुणो यदि न विद्यते ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः \।\।"
उक्तं च भगवता — ‘शब्दार्थो काव्यस्य शरीरम्, आत्मा रसः, गुणाःशौर्यादिवत् । दोषा काणत्वादिवत्।अलंकाराः कुण्डलादिवत्’ इति ।
तान्विभजते—
गुणःसामान्यतो द्वेधा शब्देष्वर्थेषु च स्थितः ।
दोषाणामप्यदोषत्वं प्राहुर्वैशेषिकान्गुणान् \।\। १ \।\।
तत्र
संक्षिप्तत्वमुदात्तत्वं प्रसादोक्तिसमाधयः ।
अत्रैवान्यसमावेशात्पञ्च शब्दगुणाः स्मृताः ॥ २ ॥
तत्र स्वल्पाक्षरेण भूयोर्थकथनं संक्षेपः । यथा—
‘ते हिमाचलमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् \।
सिद्धं चास्मै निवेद्यार्थ तद्विसृष्टाः खमाययुः \।\। '
श्लाध्यविशेषणत्वमुदात्तत्वम् \। यथा—
‘श्रुत्वा यं सहसा गतं निजपुरात्रासेन निर्गच्छतां
शत्रूणामवरोधनैर्जलभरप्रस्पन्दलिम्पत्पुटाः ।
शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि
क्रीडाद्रौ नवशाद्वले विचलितग्रीवैर्वियुक्ता दृशः ॥’
अत्र शुभ्रेपल्लविनीत्यादिविशेषणानां श्लाघ्यता \।\।
झटित्यर्थप्रत्यायकत्वं
प्रसादम्
\। यथा—
‘स विश्वजितमारेमे यज्ञं सर्वस्वदक्षिणम् ।
आदानं हि विसर्गाय सतां वारिमुचामिव \।\।"
कौशलादर्थविशेषलाभ
उक्तिः
। यथा—
‘कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् ।
पुनरपि तदेव कथयसि मृतां न कथयामि या श्वसिति ॥’
अत्र कुशलमकुशलं वेत्युत्तरे कर्तव्ये जीवतीत्युक्तिविशेषाज्जीवितमात्रंलभ्यते \।\।
अन्यधर्माणामन्यत्रारोपणं
समाधिः
। यथा—
‘नीलाब्जानां नयनयुगलद्राघिमा दत्तपत्रः
कुम्भावैभौ कुचपरिकरः पूर्वपक्षी चकार ।
भूविभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी-
द्वक्त्रज्योत्स्ना सितकरचं54 दूषयामास तस्याः ॥’
अत्र पत्रदानादिपदानां चेतनधर्माणामारोपणमिति ॥
इत्यलंकारशेखरे शब्दगुणमरीचि ॥ ७ ॥
अष्टमो मरीचिः\।
इदानीमर्थगुणानाह—
भाविकत्वं सुशब्दत्वं पर्यायोक्तिः सुधर्मिता \।
चत्वारोऽर्थगुणाः प्रोक्ताः परे त्वत्रैव संगताः ॥ १ ॥
सगता अन्तर्भूताः । तदाहुः—
अलंकाराश्रिताः केचिददोषान्तर्गताः परे ।
चतुर्ष्वन्तर्गताः केचिदतश्चत्वार एव ते \।\।
तत्र
भाविकत्व
मभिप्रायपूर्वकाभिधानम् । स्वयं दौत्यमिति यावत् ।
यथा—
‘दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि
प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यसि ।
एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्रन्थयः \।\। '
अत्रोपपतिं प्रति संकेताभिप्रायेणैवमभिधानम् ॥
दारुणेऽर्थेऽदारुणपदता सुशब्दता । यथा—
‘देवव्रते वाञ्छति दीर्घनिद्रा द्रोणे च कर्णे च यशोवशेषे ।
लक्ष्मीसहायस्य तवाद्य वत्स वात्सल्यवान्द्रोणिरयं सहायः ॥’
अत्र मुमूर्षति मृते चेत्यर्थे ईदृवपदता ॥
येन क्रमेण यद्वस्तु, तत्क्रमाभिधान पर्यायोक्तिः । यथा—
‘प्रथममरुणच्छायस्तावत्ततः कनकप्रभ-
स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥"
यत्र विशेषणद्वारा विशेष्यलाभः सा सुधर्मिता । यथा—
‘अयमुदयति मुद्राभञ्जनः पद्मनीना-
मुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरचऋद्वन्द्वबन्धुर्विभिन्द-
न्कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥’
अत्र पद्मनीप्रकाशादीना सूर्यनियतत्वात्तल्लाभः॥
इत्यलंकारशेखरेऽर्थगुणमरीचिः ॥ ८ ॥
नवमो मरीचिः ।
इदानीं वैशेषिकान्गुणानाह-
पदवाक्यतदर्थेषु ये दोषाः पूर्वमीरिताः ।
तेषां क्वचिददोषत्वं यत्तद्वैशेषिको गुणः ॥ १ ॥
उक्तानामेव दोषाणां विषयावस्थादिभेदाद्यददोषत्वं तदेव वैशेषिको55 गुणइत्यर्थः ॥
केचित्तु—
‘एतेषामेव दोषाणां स्थानेष्वेतेष्वदोषता \।
परं न त्वस्ति गुणता पार्थक्यमनयोर्यतः ॥’
अन्ये तु —‘क्वचिददोषतामात्रं क्वचितद्गुण56तापि । तत्र सहृदयानामेवप्रतीतिः साक्षिणी’ \।\।
तदाहुः57—
‘अलंकारे गुणे दोषे रसे वा काव्यसंपदाम् ।
प्रतीतिरेव विदुषां प्रमाणमवसीयते ॥
श्रीपादस्तु—‘रसोत्पत्तिप्रतिबन्धकरतयैवैतेषां58 दोषता । यत्र केनापिनिमित्तेन न रसप्रतिबन्धः, तत्रादोषत्वमुचितमेव’ इत्याह \।\।
तत्र पदेषु यथासभवमाह—
अनुप्रासेषु नो कष्टं
यथा— ‘महाराष्ट्र्षुनोष्ट्रिण’ इत्यादौ \।\।
श्लेपादौ नाप्रयुक्तता \।
यथा—
‘येन ध्वस्तमनोभवेन बलिजित्कायः पुरस्त्रीकृतो
योगङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः ।
यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥’
अत्र क्षयशब्दो गृहे \।\।
मिथः स्तुतौ न संदिग्धं
यथा—
‘पृथुकार्तस्वरयुक्तं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं सप्रति सममावयोः सदनम् ॥’
न व्यर्थ यमकादिषु ॥ २ ॥
यथा—
‘दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशीतलम् ।
बभौ मुखेनाप्रतिमेन काचन श्रियाधिकायां प्रतिमेन काचन \।\।’
अत्र चमत्कारः ॥
नाश्लीलं भगवत्पादौ
तदाहुः—
‘भगिनीभगवत्पादौ शिवलिङ्गगुहादिषु ।
अभिप्रेतकुमार्यादावश्लीलं नैव दुष्यति ॥’
अश्लीलत्रयमत्रोक्तमिति ध्येयम् ॥
दण्डी तु—
‘निष्ठ्यूतोद्गीर्णवान्त्यादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते \।\।"
‘तद्विदेनाप्रतीतकम् ।
यथा—
‘सर्वकार्यशरीरेषुमुक्ताङ्गस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥’
‘सहायाः साधनोपाया देशकालौबलाबलौ ।
विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र उच्यते \।\।’
‘रूपं संज्ञाथ संस्कारो वेदनानुभवस्तथा ।
इति बौद्धाः शरीरेषु मन्यन्ते स्कन्धपञ्चकम् ॥’
इति भार्गवसर्वस्वे \।
नासाध्वनुकृतौ
यथा—
‘हुं हुं हुं न न म मेति युवत्याजल्पितं जयति मानधनायाः’ इत्यादौ ॥
नापि लक्षणादाववाचकम् ॥ ३ ॥
लक्षणादेरशक्य एव वृत्तित्वादिति हृदयम् \।\।
इदानी वाक्येषु यथासभवमाह—
प्रतीत्यबाधान्नन्यूनं
यथा—
‘तस्य संवृतमन्त्रस्य गूढाकारङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः सस्काराः प्राक्तना इव ॥’
यत्रान्यत्क्रियापदं नास्ति तत्र ‘अस्ति59र्भवतीपरः प्रथमपुरुषो प्रयुज्यमानोऽप्यस्ति’ इति न्यायेन यत्र तद्वयेन नोपपत्तिस्तत्र60 तदृूषणमित्यर्थः । एवंप्रकरणादिना पदान्तरस्य लाभे द्रष्टव्यम् । अत उक्तम्— ‘प्रतीत्यबाधान्नन्यूनम्’इति ।
पादभेदे विसंधि न \।
यथा—
‘यद्यपि नदति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः ।
तदपि न कुप्यति सिंहो असदृशपुरुषेषु कः कोपः ॥’
इह यद्यपि यदुल्लिखितम् ‘सधिविरहो न दोषः’ इति, तथाप्यनुशासनविरुद्धत्वात् ‘विसदृशपुरुषेषु’ इति पठनीयम् \।
न व्याकीर्णं तु सापेक्षे
यथा—
‘अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
वनाय पीतप्रतिबद्धवत्सा यशोधनो धेनुमृषेर्मुमोच ॥’
इत्यादौ ।
नान्यवाक्ये समाप्तता ॥ ४ ॥
समाप्तपुनरात्तकं वाक्यभेदेन दोषः । यथा—
‘तं शरैः प्रतिजग्राह कालिङ्गो गजसाधनः ।
पक्षच्छेदोद्यतं शक्र शिलावर्षीव पर्वतः \।\।"
यथा वा —
‘न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता \।\।’
समस्ते यतिभङ्गो न
यथा—
‘कल्याणाना त्वमसि महसां भाजनं विश्वमूर्ते
धुर्यां लक्ष्मीमलमपि भृशं धेहि देव प्रसीद ।
यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे
भद्रं भद्रं वितर भगवन्भूयसे मङ्गलाय ॥’
मत्तादौ61 नार्थवर्जितम् ।
आदिपदेन विरहिबालादिपरिग्रहः61 । यथा—‘क्वाकार्यंशशलक्ष्मणः’इत्यादौ ।
विरुद्धं न तथावाक्ये
विरुद्धां धियमुत्पादयत्वित्यभिप्रायेण प्रयोगे तन्न दोष इत्यर्थः ।
वाक्यार्येषु यथासंभवमाह—
विरसं नाप्रधानके \।
यथा—
‘क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्यददानोंऽशुकान्तं
गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सभ्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥’
न द्व्यर्थंनर्मणि ग्राम्यं
‘द्व्यर्थैः पदैः पिशुनयेच्च रहस्यवस्तु’ इति भरतोक्तेः ।
सर्वत्र हेतुमाह—
रसहानेरयोगतः ॥ ५॥
इदानी सर्वसाधारणमदोषत्वमाह—
तत्र तत्राभिधातव्ये तथानुकरणादिषु ।
उन्मत्ताद्यभिधानेषु कोऽपि दोषोन विद्यते ॥ ६॥
श्रीपादास्तु—
‘तदर्थातिशये शैघ्र्येदैन्ये कोपेऽवधारणे ।
विषादे विस्मये हर्षेपुनरुक्तं न दुष्यति ॥’
इत्यलंकारशेखरे वैशेषिकगुणमरीचिः ॥ ९ ॥
इति महाराजाधिराजश्रीमन्माणिक्यचन्द्रकारितेऽलकारशेखरे गुणरत्नम् ॥
दशमो मरीचिः \।
** ‘अलंकारास्तु शोभायै’** इत्युक्तम् । तच्च साधु । यतः—
‘गुणवत्यपि निर्दोषेऽलंकारैः काव्यराजनि ।
जायतेऽन्यैव सुषमा रत्नालंकरणैरिव ॥’
आहुश्च – ‘निर्दोषं गुणवत्काव्यम्’ इत्यादि । तत्र चमत्कारविशेषकारित्वमलंकारसामान्यलक्षणम् \। शब्दार्थनिष्ठत्वेन विशेषितं विशेषणद्वयम् \।परम्परया रसोपकारित्वं तदित्यन्ये ।
तत्र प्रथमं शब्दालकारान्विभजते—
चित्रवक्रोक्त्यनुप्रासगूढश्लेषप्रहेलिकाः ।
प्रश्नोत्तरं च यमकमष्टालंकृतयो ध्वनौ ॥ १ ॥
तत्र कौतुकविशेषकारि चित्रम् \। तच्च खड्गचक्रपद्मादिभेदादनन्तम् ।
यदाह—
‘सर्वतोभद्रधेन्वादिगोमूत्रीमुरजादि च ।
गतप्रत्यागताद्याहुश्चित्रकाव्यं मुनीश्वराः ॥’
तच्च माघादौ सुव्यक्तत्वान्नेहोदाह्रियते62 ।
अन्याभिप्रायेणोक्तं वाक्यमन्येनान्यार्थकतया यद्योज्यते सा वक्रोक्तिः ।
एतदेव वाकोवाक्यमुच्यते । यथा—
‘कोऽयं द्वारि हरिः प्रयाह्युपवनं शाखामृगस्यात्र किं
कृष्णोऽहं दयिते बिभेमि सुतरा कृष्णः कथं वानरः ।
मुग्धेऽहं मधुसूदनो व्रज लता तामेव पुष्पान्विता-
मित्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥’
वर्णसाम्यमनुप्रासः । स च द्विविधः —लाटानुप्रासश्छेकानुप्रासश्च तत्रासकृदावृत्त63वर्णत्वं लाटानुप्रासः। यथा—
‘अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः ।
आलिङ्गितः स तन्वङ्ग्या कृतार्थयतु मानसम
॥
'
अनेकस्य व्यञ्जनस्य सकृत्साम्यं छेकानुप्रासः। यथा—
‘नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविमोक्षमग्नौ\।\।’
‘पदमेकं हृदा कृत्वा तदनुप्रासकाग्यया \।
आदिक्षान्तलिपौ कादिक्षान्तशब्दं विचिन्तयेत् ॥’
इति रहस्यम् \।\।
गूढं क्रियागुप्तादिः ।
यथा—
‘पुस्कोकिलकुलस्यैतैर्नितान्तमधु64रारवैः ।
सहकारद्रुमा रम्या वसन्ते कामपि श्रियम् ॥’
इदं च नाना । यदाहुः—
क्रियाकारकसंबन्धगुप्तान्यामन्त्रितस्य च ।
गुप्तं तथा समासस्य लिङ्गस्य वचनस्य च \।\।’
एकोच्चारणापह्नुतभेदत्वं श्लेषः65।
यथा — ‘येन ध्वस्तमनोभवेन’ इत्यादौ । अयं चाष्टधा\। यदाह—
‘विभक्तिपदवर्णाना लिङ्गस्य वचनस्य च ।
भाषाप्रकृत्योर्भेदेन श्लेषाःस्युः प्रत्ययस्य च ॥’
** प्रहेलिका** सकृत्प्रश्नः। सा च च्युताक्षरादत्ताक्षरादिः ।
यथा—
‘विदग्धः सरलो रागी नितम्बोपरि सस्थितः ।
तन्वङ्ग्यालिङ्गितः कण्ठे कलं कूजति को विटः \।\।’
अत्र विट इत्यत्र विकारस्थाने घकारदानाद्वितीयोऽर्थो भवति । सा च षोढा । तदाहुः—
‘प्रहेलिका सकृत्प्रश्नः सा च षोढा च्युताक्षरा \।
दत्ताक्षरोभय मुष्टिर्विद्रुमत्यर्थवत्यपि ॥’
प्रश्नोत्तरमपि द्विविधम् — बहिरेन्तश्च66 । तत्र बहिःप्रश्नोत्तरं यथा—
‘प्रायः कार्ये नियुज्यन्ते नराः सर्वत्र कीदृशाः ।
धानेत्यय67 भवेच्छन्दो नौवाची वद कीदृशः ॥’
सावधानाः68 ।
अन्तःप्रश्नोत्तर यथा—
‘काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन्किमुत्तरम् ।
कथमुक्त न जानासि कदर्थयसि यत्सखे \।\।’
अतुल्यार्थत्वे सत्यानुपूर्वीविशेषविशिष्टनियतव्यञ्जनसमुदायाभ्यासो यमकम् । यथा—
‘नवपलाशपलाशवनं पुरः रफुटपरागपरागतपङ्कजम् ।
मृदुलतान्तलतान्तमलोकयत्ससुरभि सुरभि सुमनोभरैः ॥’
तच्चेदं संक्षेपेण सप्ताशीतिप्रकारमिति चान्यत्र विस्तरः । एतच्चित्र एवान्तर्भूतमिति गोवर्धनः ॥
इत्यलकारशेखरेऽलकाररत्ने शब्दालकारमरीचिः ॥ १० ॥
एकादशो मरीचिः \।
अथार्थालंकारान्विभजते—
उपमारूपकोत्प्रेक्षाः समासोक्तिरपह्नुतिः ।
समाहितं स्वभावश्च विरोधः सारदीपकौ ॥ १ ॥
सहोक्तिरन्यदेशत्वं विशेषोक्तिर्विभावना \।
एवं स्युरर्थालंकाराश्चतुर्दश न69चापरे ॥ २ ॥
तत्र — भेदे सति साधर्म्यमुपमा । अधिकगुणवत्तया सभाव्यमानमुपमानम् । निकृष्टगुणवत्तया सभाव्यमानमुपमेयम् \।
ता विभजते—
वाक्यार्थातिशयश्लेषनिन्दाभूतविपर्ययाः ।
संशयो नियमः स्वं च विक्रियेत्युपमा दश ॥ ३ ॥
तत्र —वाक्यार्थेनैव वाक्यार्थो यदुपमीयते सा वाक्यार्थोपमा ।
सा च द्वयी —प्रत्येकं सादृश्यानपेक्षा तत्सापेक्षा च । आद्या यथा—
‘कामिनीनयनकज्जलपङ्कादुत्थितो मदनमत्तवराहः \।
कामिमानसवनान्तरचारी कन्दमुत्खनति मानलतायाः ॥’
अन्त्या यथा—
‘त्वदाननमधीराक्षमाविर्दशनदीधिति ।
भ्रमद्भृङ्गमिवालक्ष्यकेशरं भाति पङ्कजम् ॥’
यत्रातिशयधर्मोपन्यासः सातिशयोपमा \।
यथा—
‘कल्पद्रुमो न जानाति न ददाति बृहस्पतिः ।
अयं च जगतीजानिर्जानाति च ददाति च ॥
पद श्लेषनिबन्धनसाम्यं श्लेपोपमा ।
यथा—
‘तमालपत्राभरणा राजते विलसद्वयाः70 ।
बालेवोद्यानमालेयं सालकाननशोभिनी71 ॥’
यत्रोपमानस्य निन्दया प्रतिक्षेपः सा निन्दोपमा ।
यथा—
‘नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैल्यात्कदलीविशेषाः।
लब्ध्वापि लोके परिणाहि रूपं जातास्तदुर्वोरुपमानवाह्याः ॥’
यत्रासंसृष्टज्ञानेन संसर्गमारोप्य साम्यप्रसञ्जनं सा भूतोपमा ।
यथा—
‘उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥’
यत्रोपमानस्यैवोपमेयता सा
विपर्ययोपमा
।
यथा—
‘अथ सुललितयोषिद्भ्रूलताचारुशार्ङ्गं
रतिवलयपदाङ्के चापमासज्य कण्ठे ।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा \।\।’
इत्यादौ ।
यत्रोपमानोपमेययोः संशयकोटिता सा
संशयोपमा
।
यथा—
‘किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखं
किमब्जे किं मीनौ किमु मदनबाणौ किमु दृशौ ।
खगौ72 वा गुच्छौ वा कनककलशौ वा किमु कुचौ
तडिद्वा तारा वा कनकलतिका वा किमबला \।\।’
यत्रेतरव्यावृत्त्या
साम्यलाभः सा
नियमोपमा
\।
यथा—
‘कस्ते पुरंदरादन्यः प्रतिमल्लो भविष्यति ।
ऋते सहस्रकिरणात्त्वत्प्रतापसमो हि कः ॥’
यत्रोपमानान्तरविरहतात्पर्येण स्वसाम्यं73 सा
स्वोपमा
।
यथा—
‘आघूर्णितं पक्ष्मलमक्षियुग्मं प्रान्तद्युतिश्चैत्यजितामृतांशु ।
अस्या इवास्याश्चलदिन्द्रनीलगोलामलश्यामलतारतारम् ॥’
अभेदानुमानवदिह भेदो द्रष्टव्यः ॥
यत्रोपमेयमुपमानविकारतयोच्यते सा
विक्रियोपमा
।
यथा—
‘हरिणादथ तन्नयनादथ पद्मात्पद्मपत्राच्च\।
आहृत्य कान्तिसार विधिरसृजत्सुभ्रुवो दृष्टिम् \।\।
’
श्रीपादस्तु—‘समभिव्याहारोपमाप्यस्ति’ इति ।
यथा—
‘प्रकृत्यैव मनोहारि वदनं हरिणीदृशः ।
चन्द्रे ह्लादकता कस्मात्पद्मः केन परिष्कृतः ॥’
अत्र सर्वत्र—
न्यूनाधिकत्वशङ्का चेद्विभागेषु तदिष्यताम् ।
किंचिद्विशेषमादाय भेदो भेदश्च कश्चन \।\।
काचित्समस्तान्वयिनी क्रियामात्रान्वया परा ।
विशेषणान्वया काचिदुपमा कापि तत्परा ॥
अत्र च —
न्यूनता साम्यमाधिक्यं यद्यदेवाभिधीयते ।
अहो काव्यस्य माहात्म्य समतैव प्रतीयते ॥
तदाह राजशेखरः—
‘समानमधिकं न्यूनं सजातीयं विरोधि च ।
सकुल्यं सोदरं कल्पमित्याद्याः साम्यवाचकाः \।\।
अलंकारशिरोरत्नं सर्वस्वं काव्यसंपदाम् ।
उपमा कविवंशस्य मातैवेति मतिर्मम \।\।’
इत्यलंकारशेखरेऽर्थालकारे उपमामरीचिः ॥ ११ ॥
द्वादशो मरीचिः ।
अतिसाम्यादपह्नुतभेदयोरुपमानोपमेययोरभेदप्रत्ययोरूपकम् ।
यदाह—
‘तद्रूपकमभेदो यदुपमानोपमेययोः ।’ इति ।
दण्डिनोऽप्याहुः—
‘उपमैव तिरोभूतभेदा रूपकमुच्यते ।’ इति ।
तद्विभजते—
विरुद्धं च समस्तं च व्यस्तं रूपकरूपकम् ।
श्लिष्टं च रूपकं तस्मात्संक्षेपात्पञ्चधा स्मृतम् ॥ १ ॥
तत्र — यत्रोपमानविरुद्धोऽर्थस्तद्विरुद्धम् ।
यथा—
‘दिवा न परिभूयते न च मनागपि क्षीयते
न वा चरमवारिधेः पयसि लुप्तिमाविन्दति ।
न च त्रिदशसुभ्रुवा वदनकान्तिभिर्जीयते
यशस्तुहिनदीधितिर्जयति कोऽपि भूमीपतेः74 ॥’
समस्तं यथा—
‘तस्या बाहुलता पाणिपद्म चरणपल्लवम् ।
मुखेन्दुरक्षिभ्रमरौ सर्वस्व पुष्पधन्वनः \।\।’
व्यस्तं यथा—
‘भुजौ मृणाले वदनं सुधाशु कुन्दानि दन्ताश्चरणौ सरोजे ।
स्मितं प्रसूनानि करौ प्रवाले पयोधरौ भूमिधरौ मृगाक्ष्याः ॥’
रूपकरूपकं यथा—
‘मुखपङ्कजरङ्गेऽस्मिन्भ्रूलतानर्तकी तव ।
नरीनर्ति लसत्स्वर्णकेतकीदललोचने ॥’
श्लिष्टरूपकं यथा—
‘राजहंसोपभोगार्ह भ्रमरप्रार्थ्यसोरभम् ।
पुष्णाति सुषमा काचिन्मुखपङ्केरुह तव ॥’
** **इदं च समस्तासमस्तादिभेदादनन्तम् \। लक्षणाप्यत्रैवान्तर्भवति, उपमानोपमेययोरभेदप्रतिपत्तेरत्रापि सत्त्वात \।
तदुक्तम्—
‘रूपकं लक्षणादिकम्’ इति ।
सा च द्विधा —समस्तासमस्तभेदात् ।
तत्राद्या यथा—
‘उदयति कनकाचलयोरुपरि चलत्पङ्कज75श्चन्द्रः ।
तदुपरि घनान्धकारः कस्य कृते धातुरीदृशी सृष्टिः ॥
अन्त्या यथा—
‘तामरसे सालसता76 जलमुचि कांश्चद्विपर्यास \।
निस्यन्दता लताया कथयति कस्यापि पुण्यानि \।\।’
इत्यलंकारशेखरे रूपकमरीचि ॥ १२ ॥
त्रयोदशो मरीचिः ।
अन्यनिमित्तके वस्तुन्यन्यनिमित्तकत्वारोप77उत्प्रेक्षा \।
यथा—
‘गमनमलसयातैः कुम्भलक्षी कुचाभ्या-
मविकलकरशोभामूरुकाण्डद्वयेन ।
यदि यमहरदेषा हेतुनानेन नूनं
निजवपुषि करीन्द्राः पांशुपूर क्षिपन्ति \।\।’
इयं च
सर्वालंकारसर्वस्वं कविकीर्तिविवर्धिनी ।
उत्प्रेक्षा हरति स्वान्तमचिरोढास्मितादिव \।\।
शङ्के मन्ये ध्रुवं प्रायो नूनं जानामि तर्कये ।
इवेत्यादिभिरुत्प्रेक्षा व्यज्यते काव्यवर्त्मनि ॥
अन्यदेवाभिप्रेत्यान्याभिधान समासोक्तिः ।
सैव चान्यापदेश इत्युच्यते ।
यथा—
‘त्वं पीयूष दिवोऽपि भूषणमसि द्राक्षे परीक्षेत को
माधुर्यं तव विश्वतोऽपि विदिता माध्वीक साध्वी कथा \।
एतत्किंतु तवाप्यरुंतुदमिव ब्रूमो न चेत्कुप्यसे
यः कान्ताधरपल्लवे मधुरिमा नान्यत्र कुत्रापि सः ॥’
** किंचिदपह्नुत्य यदन्यार्थप्रदर्शनं78 सापह्नुतिः ।**
यथा—
‘सीत्कार शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् ।
नागरिकः किमु मिलितो नहि नहि सखि हैमनः पवनः ॥’
‘कलमधुरं किल कूजन्यमुनाकूलेपु नीलघनदेहः ।
दृष्टः सखि गोपालो नहि नहि सखि कोकिलो दृष्ट॥
आरब्धानुकूलाकस्मिकसहकारिलाभः समाहितम् ।
यथा —
‘मानापनोदनविधौ मदिरेक्षणाया
यावन्नमामि चरणावथ तावदेव \।
नीपस्खलन्नवसमीरपुरःसराणि
प्रादुर्बभूवुरचिराद्धनगर्जितानि \।\।’
यस्य वस्तुनो यत्स्वभावता तदाख्यान स्वभावः । तदेव जातिरित्युच्यते ।
यथा—
‘चलति कथंचित्पृष्टा यच्छति वाच कथंचिदालीनाम् ।
आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥’
विरोधो द्विविधः –पारमार्थिकाविरोधेऽपि79 औचित्येन विरुद्धतया प्रतीयते यत्र80 \।
यथा— ‘मनीषिताः81 सन्ति गृहेषु देवताः’ इत्यादौ ।
द्वितीयस्तु यथाश्रुते विरोधसधानेऽपि यत्राभिप्रेतार्थमादाय विरोधः । अयमेव
विरोधाभास
इत्युच्यते।
यथा —
‘भक्तानां कामदस्तुष्टो रुषाकाम दहन्नपि ।
अपि ज्ञानमयस्थाणुर्यस्तमीशं स्तुवीमहि \।\।
उत्तरोत्तर यत्र सारोत्कर्षःस सारः ।
यथा—
‘विषयेषु तावदबलास्तास्वपि गोप्यः स्वभावमृदुवाचः ।
मध्ये तासामपि सा तस्या अपि साचि वीक्षितं किमपि ॥’
समस्तवाक्योपकरणत्व82 दीपकत्वम् \।
तच्च83 भिन्नमभिन्न च ।
अभिन्नं यथा —‘पाणौ पद्मधिया मधूककुसुमभ्रान्त्या च गण्डस्थली’इत्यादौ । तत्तत्कारकक्रियादिभेदादनन्तम् ।
भिन्नं यथा—
‘नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः ।
बध्नन्ति च पयोदेषुदृशो हर्षाश्रुगर्भिणीः ॥’
अत्र विस्तरभिया84 सर्वं नोदाह्रियते । एतच्च मालादीपकादिभेदादनन्तम् ।
अत्र पूर्वापरवाक्यार्थयोरुपकार्योपकारक85शृङ्खला मालादीपकम् ।
तत्रोत्तरस्य पूर्वोपकारकत्वं यथा—
‘चारुता वपुरभूषयदासा तामनूननवयौवनयोगः ।
त पुनर्मकरकेतनलक्ष्मीस्ता मदस्तमपि वल्लभसङ्गः ॥’
पूर्वस्योत्तरोपकारकत्वं यथा—
‘सग्रामाङ्गणमागतेन भवता चापे समासादिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डल
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् \।\।’
समानकालोक्तिः सहोक्तिः ।
सा द्वयी — उदासीनयोस्त्वराप्रतिपत्तये, कार्यकारणयोरपि ।
आद्या यथा—
‘सहदीर्घा मम श्वासैरिमाः सप्रति रात्रयः ।
सम मम शरीरेण क्षीयन्ते दिवसा अमी \।\।’
अन्त्या यथा—
‘वर्धते सह पान्याना मूर्च्छया चूतमञ्जरी ।
पतन्ति च समं तेषामश्रुभिर्मलयानिलाः ॥’
प्रयोज्यप्रयोजकयोर्वेयधिकरण्यमन्यदेशवम् \।
यथा—
‘सा बाला वयमप्रगल्भवचसः सा स्त्री वय कातराः
सा पीनोन्नतिमत्पयोधरयुग धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥’
कारणे सत्यपि कार्याभावो विशेषोक्तिः ।
यथा —
‘आवाति वारिधरशीकरवारिवर्षी
स्वैर कदम्बवनदुर्ललितसमीरः ।
अङ्गेऽर्पितानि नलिनीनवपल्लवानि
तापस्तथापि सुदृशः शिथिलो न जात॥
कारण विना कार्योदयो विभावना \।
यथा—
‘नाङ्गेषु रत्नाभरणानि सन्ति निश्वासहार्याण्यपि नाशुकानि ।
तथापि सा सप्रति सारसाक्षी दिने दिने कामपि कान्तिमेति ॥’
केचित्तु—
अन्यदेशत्वमेव विशेषोक्तिविभावने अधिकरणद्वयमादाय \।
अन्येतु—
‘अनयोरेवैकेनापरस्यान्यथासिद्धिर्व्यतिरेकमादाय’ इति ।
गोवर्धनस्त्वाभ्यामेवा86न्यथासिद्ध्यान्यदेशत्वमेव निराचकार । व्यतिरेकालंकारस्त्वतिरिच्यत इत्येके । स च यथा—
‘कादाचित्की द्युति धत्ते कलङ्की क्षीयतेऽन्वहम् ।
दोषाकरः कथंकार त्वदाननसमः प्रिये ॥’
एकेनाप्रस्तुतस्यासिद्धिराक्षेपः । सोऽपि पृथगित्यपरे।
यथा—
इन्द्रेण कि स यदि कर्णनरेन्द्रसुनु-
रैरावतेन किंमसौ87 यदि तद्द्विपेन्द्रः ।
दम्भोलिनाप्यलमयं यदि तत्प्रताप
स्वर्गोऽप्ययं ननु मुधा यदि तत्पुरी सा \।\।’
सुखबोधाय बालानामतिकोमलवर्त्मना ।
मया सक्षेपणादित्थमलकाराः प्रदर्शिताः \।\।
यथैतेषा मिथो भेदः परेषा नातिरेकिता ।
तथालकारसर्वस्वेस प्रपञ्चमदर्शयम् \।\।
इति88 केशवमिश्रकृतेऽलकारशेखरेऽलकाररत्नम्89 ।
‘उपमा काव्यसपदाम् । सर्वस्व सा च साधर्म्यम्’ इतीदानी तस्यप्रतियोग्यनुयोगिनावाह—
चन्द्रकलाम्बुजदामशिरीषं विद्युत्ताराकनकलता च ।
दमनककाञ्चनयष्टी दीपः सर्वैरेभिर्योषिद्वर्ण्या ॥ १ ॥
यथा—
‘शिखेव90 दीपस्य लतेव हैमो कलेव चान्द्री स्रगिवाम्बुजानाम् ।
शिरीषपुष्पं स्मरहेमयष्टी सा मे कदा लोचनगोचरा स्यात् ॥’
‘दमनकतरुशाखालम्बिरोलम्बयुग्मं91
तुहिनकिरणबिम्बे खञ्जरीटप्रचारः ।
विकचकमलकोशे दाडिमीबीजपङ्क्ति-
स्त्रितयमिदमपूर्व दृष्टमेकत्र चित्रम् \।\।’
‘तडिद्वा तारा वा’ इत्यादि । ‘उद्भिन्नया रत्नशलाकया वा’ इत्यादि-दर्शनात्तथात्वं वर्ण्यते इत्याहुः ।
अत्यन्तानन्दसंदोहदायिनी परिवर्ण्यते ।
योषिदित्यनुवर्तते । यथा—
‘सा कौमुदी नयनयोरमृतैकवर्ति-
रानन्दपङ्कजवतीविलसत्तडागः ।
प्राणाः स्मरस्य जनपुण्यतरोः फलानि
साफल्यमक्षिजनुषा क्व गता न जाने ॥’
‘शक्तिर्मूर्तिमयी स्मरस्य जगता नारीमयं मण्डलं
कान्तानामुपमानकल्पनकलाकान्तेः समुत्तेजनम् ।
लक्ष्मीः ससृतिसागरस्य सरसी लावण्यपुण्याम्भसां
सा राजव्रजचक्षुषाक्षणमभूदानन्दपुण्यरथली ॥’
रोचना स्वर्णविद्युद्भिर्हरिद्राभिर्वराटकैः ।
चम्पकैर्हैमकैतक्या वर्ण्यते तत्तनोर्द्युतिः ॥ २ ॥
यथा —
‘प्रत्यग्रपद्मबीजद्युति काञ्चनकेतकच्छायम् ।
गोरोचनातिगौर वपुरय साक्षात्कृत तस्याः ॥
चम्पकदामहरिद्राकाञ्चनसौदामनीना च ।
ह्रेपयति कान्तिमेषा निजवपुषा पद्मपत्राक्षी \।\।"
इदमुपलक्षणम् – ‘तामग्रतस्तामरसान्तराभाम्’ इत्यादेः ।
‘वेत्रत्वचा तुल्यरुचा वधूना कर्णान्ततो गण्डतलागतानि ।
भृङ्गाः सखेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवपङ्कजानि ॥’
इत्यादेः । ‘मोचात्वचः92 पञ्चपपाटनानाम्’ इत्यादेश्च ।
‘काश्मीरगौरवपुषामभिसारिकाणा-
माबद्धरेखमभितो मणिमञ्जरीभिः ।
एतत्तमालदलनीलतम तमिस्त्रं
तत्प्रेमहेमनिकषोपलता प्रयाति ॥’
इत्यादेश्च तत्तत्साम्यमपि बोध्यम् ।
तमःशैवालपाथोदबर्हभ्रमरचामरैः ।
यमुनावीचिनीलाश्मनीलाब्जाभ्रैःसमः कचः ॥ ३ ॥
यथा —
‘न जीमूतच्छेद स हि गगनचारी न च तमो
न चास्येन्दोर्मैत्री न च मधुकरास्ते हि मुखराः \।
न पिच्छं तत्केकिन्युचितमसितोऽयं न च मणि-
र्मृदुत्वादा ज्ञातं घनचिकुरपाशो मृगदृशः ॥’
‘जानामि जानकि कलिन्दसुताजलेऽस्मि-
न्स्नातासि हन्त यदिमास्तव कुन्तलानाम् ।
वीचीषुनीलकमलस्रजि शैवलेषु
दृश्यन्त एव रुचयःकणशो विकीर्णाः ॥’
‘तारा रदाना वदनस्य चन्द्र रुचा कचाना च नभो जयन्तीम् ।
आकण्ठमक्ष्णोर्द्वितयं मधूनि महीभुजः93 कस्य न भोजयन्तीम् ॥’
‘कूर्पासेन94 स्थगितहृदया सपुटे हाटकीयं95
मस्तन्यस्ताञ्चलनिवसना96 चामर वारिदाभम् \।
यत्रासीना रतिरिव वणिक्प्रेयसी वीथिकाया
विक्रीणीते मुकुलितमुखी सज्ञया मौक्तिकानि ॥’
इदमुपलक्षणम्^((१))।
‘पुनः पुनः काचन कुर्वती कचच्छटाधिया धूपजधूमसंग्रहम् ।
सखीस्मितैस्तर्किततन्निजभ्रमा बबन्ध तन्मूर्धनि चामरं चिरात्॥’
इति धूमसाम्यमपि बोध्यम् ।
‘पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ।’
इति रहस्यम् ।
ललाटमर्धचन्द्रेण हेमपट्टिकया तथा ।
‘केशान्धकारादथ दृश्यभालस्थलार्धचन्द्रा स्फुटमष्टमीयम् ।
एना यदासाद्य जगज्जयाय मनोभुवा सिद्धिरसाधि साधुः ॥’
‘अधस्तादन्धकाराणामुपरिष्ठात्कुरङ्गयोः ।
सिन्दूरबिन्दुसुभगा दृष्टा काचन पट्टिका \।\।’
वल्लीस्मरधनुर्वीचिभृङ्गालीपल्लवैर्भ्रुवौ ॥ ४॥
(१)
‘अङ्गुल्या यदि निर्दिशेदरुणिमा लाक्षागुटी विभ्रम वाचा यद्यथशुद्धपारदवटीबुद्धि रदस्य द्युति। दृग्भङ्ग्या यदि नीलिमा वितनुते काचस्रजः प्रत्ययविक्रेतु बत मौक्तिकानि भवति व्यग्रा वणिक्प्रेयसी॥’ इत्यपतिःप्राक्कचित
यथा—
‘अथ सुललितयोषिद्भ्रूलता चारुभृङ्गम्’97 इत्यादि ।
‘श्यामास्वङ्गं चकितहरिणीप्रेक्षणे98 दृष्टिपातं
गण्डच्छाया शशिनि शिखिना बर्हभारेषुकेशान् ।
उत्पश्यामि99 प्रतनुषु नदीवीचिषुभ्रूविलासा-
न्हन्तैकस्य क्वचिदपि न ते चण्डि100 सादृश्यमस्ति \।\।’
‘भ्रूपल्लवं मधुपराजिरुचा निधिस्ते
गण्डस्थली कनकदर्पणदर्पहन्त्री \।
हे कम्बुकण्ठि शुककिन्नरहंसवाणि
प्राणा ममासि मदनस्य च जैत्रमस्त्रम् ॥’
चन्द्रादर्शौ कपोलस्य
सुव्यक्तमव्यवहित श्लोकद्वये ।
इदमुपलक्षणम्—
मधूककुसुमभ्रान्त्या पुनर्गण्डयोः’ इत्यादेस्तथात्वमपि101 ।
मुखस्पेन्द्वब्जदर्पणाः ।
यथा—
‘किमिन्दुः किं पद्मम्’ इत्यादौ ।
तिलप्रसूनं नासायाः
यथा—
‘बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छवि-
र्गण्डश्चण्डि चकास्ति नील102नलिनश्रीमोचनं लोचनम् ।
नासान्वेति तिलप्रसूनपदवी कुन्दाभदन्ति प्रिये
प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः \।\।’
कामतूणीकृत्य नासा वर्ण्यत इति श्रीहर्षः। ‘नासावंशो मृगीदृशाम्’इत्यप्यस्ति । ‘नासानाली तिलोपमा’ इत्यपि पठन्ति ।
कण्ठः कम्बोः समः स्मृतः ॥ ५ ॥
यथा—
‘हे कम्बुकण्ठि’ इत्यादौ ‘कम्बुग्रीवे तद्वदेवाष्टमान्त्ये’ इत्यादौ ।
मृग तन्नेत्रपाथोऽज तत्पत्रझषखञ्जनैः ।
नेत्रं चकोर तन्नेत्रकेतकालिस्मराशुगैः ॥ ६ ॥
यथा—
चकोरनेत्रैणदृगुत्पलानां निमेषयन्त्रेण किमेषदृष्टः103 ।
सारःसुधोद्गारमयः प्रयत्नै104र्विधातुमेतन्नयने विधातुः ॥’
‘हरिणादथ तन्नयनादथ पद्मात्पद्मपत्राच्च105’ ।
‘किमब्जे किं मीनौ’ इत्यादि ।
‘नयने खञ्जनकमले बाहू विलसन्मृणालबिसखण्डे ।
वपुरपि शिरीषकुसुमं106 मुखमिन्दुस्त्वं शरल्लक्ष्मीः ॥’
‘चकार सा मत्तचकोरनेत्रा विलोलनेत्रा भ्रमरैर्गवाक्षान्107 ।
पूर्णान्दलैः काञ्चनकेतकीनामहो वधूना पृथगेव सृष्टिः108 ॥
केचित्तु—
‘कोशातकी पुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्वणबाणचक्षुषः।
ग्रामीणवध्वस्तमलक्षिता जनैश्चिर घृतीनामु109परि व्यलोकयन् ॥’
इति माघदर्शनात्कोशातकीत्वेन मुखम्, बाणत्वेन वर्णनीयमिति वदन्ति ।
अन्ये तु—
‘तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्याः ।
प्रसन्नचेतः सलिलः शिवोऽभूत्ससृज्यमानः शरदेव लोकः ॥’
इति दर्शनात् ‘नेत्रं कुमुदोपमेयम्’ इत्याहुः ॥
प्रवालबिम्बबन्धूकपल्लवैरधरोष्ठकौ ।
वर्ण्यौमाधुर्यमाश्रित्य यावन्मधुरवस्तुभिः ॥ ७ ॥
यथा—
‘पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्यम् \।
ततो न कुर्याद्विशदस्य तस्यास्ताम्रोष्ठपर्यस्तरुचः स्मितस्य ।’
‘तन्वी श्यामा शिखरदशना पक्कबिम्बाधरोष्ठी
मध्ये क्षामा चकितहरिणप्रेक्षणा110 निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥’
‘बन्धूकद्युतिबान्धवोऽयमधरः’ इत्यादि । जवाप्यत्र गणनीयेति गोवर्धनः \।\।
माधुर्यमाश्रित्येति ।
यथा—
‘त्वं पीयूषदिवो वि111भूषणम्112’ इत्यादौ ॥
मुक्तामाणिक्यनारङ्गदाडिमीकुन्दकोरकैः ।
तारामिश्र रदाः
यथा—
‘कूर्पासेन स्थगितहृदयः113’ इत्यादि । ‘तन्वी श्यामा शिखरदशना’इत्यादि ।
‘तद्दन्ता नागरङ्गानि च्छोलङ्गानि पयोधरौ ।
ओष्ठाधरौ च बिम्बानि सा मे फलमयी प्रिया ॥
दमनकेत्यादि । बन्धूकद्युतीत्यादि ।
तत्कोरकैर्यथा—
‘अधरः किसलयमङ्घ्रीपद्मौ कुन्दस्य कोरका दन्ताः ।
कः कौ के कं कौ कान्प्रहसति हसतो हसन्ति हरिणाक्ष्याः ॥’
‘तारा रदानाम्’ इत्यादि \।
वाणी हंसालिशुककिन्नरैः ।
वेणुकोकिलवीणाभिर्माधुर्यं मधुरैः सह ॥ ८ ॥
यथा—
‘हे कम्बुकण्ठि शुककिन्नरहंसवाणि’ इत्यादि ।
‘तस्य गोप्तुर्द्विरेफाणां कर्णोत्पलनिपातिनाम् ।
स्वरसंवादिभिः कण्ठैः शालिगोप्यो जगुर्गुणान्114 \।\।"
‘कण्ठः किमस्याः पिकवेणुवीणास्तिस्रो जिताः सूचयति त्रिरेखः।
इत्यन्तरस्तूयत यत्र कापि नलेन बाला कलमालपन्ती \।\।’
माधुर्यमिति ।
‘मधुद्रोणीव मन्दारमरन्दामन्दवृष्टिवत् ।
सुधासारद्रवद्राक्षागोणी वाणी तव प्रिये ॥
'
बाहुर्विसेन विद्युद्वल्लिमृणालैः
विसमृणालयोरकान्तरविवक्षयेदम् ।
यथा—
‘अस्या भुजाभ्यां विजिताद्बिसाक्तिं पृथक्करोऽगृह्यत तत्प्रसूनम्।
इहेक्षते तन्न गृहाः श्रियः कैर्न गीयते वा कर एव लोकैः ॥’
‘विद्युन्मृणालसुभगा बाहुवल्ली मृगीदृशः ।
यूना तु कण्ठकाण्डेषु जाता कनकशृङ्खला ॥’
करस्तु पद्मेन ।
पल्लवविद्रुमकाभ्यां
‘करकिसलयेन सुदृशां रागसरित्पङ्कजेनेव ।
शिथिलितविद्रुममहसा स्पृष्टोऽहं चेतना न लभे ॥’
चन्द्रकलाकुन्दकोरकैश्च नखाः ॥ ९ ॥
‘निर्भर्त्सिताशोकदलप्रसूति पाणिद्वयं चारुनखं तदीयम् ।
नवोदितेन्दुप्रतिमस्य लेखां व्योम्नः प्रदोपे विफलीचकार ॥’
‘निर्दोषरत्नसुभगैः कुन्दकोरककान्तिभिः ।
नखैः कमलपत्राणि चक्रे बाला पृथक्पृथक्’ \।\।
पूगाब्जतत्कोरकबिल्वतालगुच्छेभकुम्भाद्रिघटेशचक्रैः ।
सौवीरजम्बीरकबीजपूरसमुद्गछोलङ्गफलैरुरोजः ॥ १० ॥
यथा—
‘कनकक्रमुकायितं पुरस्तादथ पङ्केरुहकोरकायमाणम् ।
क्रमशः कलशायमानमास्ते सुदृशो वक्षसि कस्य भागधेये ॥"
‘कलशीयति कुचकमलं कमलीयति लोचनभ्रमरः ।
द्व्यणु115कीयति पुनरस्या हरिणदृशः प्रत्यह मध्यः \।\।’
‘स्तनबिल्वद्वयी तस्याः प्रययौ चक्रवाकताम् ।
उड्डीय पुनरद्रीणा जहार विपुला श्रियम् \।\।’
‘चिरप्रवासिंस्तव वाटिकायां बिभर्ति चत्वारि फलानि वीरुत् ।
सौवीरजम्बीरकबीजपूरतालान्यसौ धास्यति कि न जाने ॥’
‘घटौ वा गुच्छौ वा’ इति ।
‘स्वयंभूः शंभुरम्भोजलोचने त्वत्पयोधरः \।
नखेन कस्य धन्यस्य चन्द्रचूडो भविष्यति ॥’
‘संपुटं हाटकीयम्’ इत्यादि । ‘दमनकतरुशाखालम्बि छोलङ्गयुग्मम्’ इत्यादि ।
‘महतोऽपि महीयांसमणीयासमणोरपि ।
त्वत्प्रतीकं विदुर्नूनमणुमध्ये नगस्तनि ॥’
‘रेखाकारातिसुश्यामा116 रोमालिस्तेन तादृशैः ।
शैवालधूमभृङ्गालिलताद्यैरुपमीयते \।\।
सुगममिदम् ।
नाभीरसातलावर्तह्रदकूपनदादिभिः ।
यथा—
‘मदनसरितमेतां गाहमानो जनोऽयं
जघनपुलिनना
भी
मण्डलावर्तरम्यम् ।
मुखकमलसनाथामुल्लसद्भूलतोर्मि
चिरविरहहुताशा या समुज्झांचकार ॥’
‘त्वन्नाभिकूपः पातालं नितम्बस्तव मेदिनी \।
पयोधरस्ते हेमाद्रिस्त्वं ममासि जगत्रयम् \।\।’
‘ह्रदनदसरांसि नाभिस्त्रिवली तटिनी रसात्मकं च वपुः ।
तदपि तलोदरि सुन्दरि कथमिव सतापं तनुषे\।\।’
वली तटिन्या तद्रूपैः
तत्समैः पाशादिभिः ।स्तदाह — ‘त्रिवलीपाशैस्तथा तथा नद्धः’ ।‘कामेन सोपानमिव प्रयुक्तम्’ इति च ।
पृष्ठं काञ्चनपट्टकैः ॥ ११ ॥
यथा—
‘मुक्तावलिस्ते रदनाःपृष्ठं काञ्चनपट्टकम् \।
नखाशवस्ते रत्नानि मध्ये क्षीणासि कि प्रिये ॥’
शूच्यग्रतलशून्याणु वेदी सिंहादिभिः समः ।
मुष्टिग्राह्यो भवेन्मध्यः
अत्र मध्यस्यातिसूक्ष्मत्वात्तत्प्राधान्येनोपमानता । अत एव मुष्टिग्राह्यता तलपरिमाणता च । सूक्ष्मत्वादेव मध्ये शून्यतापि ।अत एव’सदसत्संशयगोचरोदरि’ इत्यपि वर्णयन्ति ।
‘जघनं पुलिनोपमम् ॥ १२ ॥
यथा—
‘मदनसरितमेताम्’ इत्यादि ।
पीठप्रस्तरभूचक्रैर्नितम्बःपरिवर्ण्यते ।
यथा—
‘नितम्बः स्वर्णपीठ ते तवाङ्गुल्यश्च पल्लवाः ।
ज्योत्स्नेन्दुपुष्पपीयूषफेनकान्ति स्मितं तव ॥’
‘तपनीयशिला शोभा’ इत्यादि । ‘नितम्बस्तव मेदिनी’ इत्यादि ।
‘चक्रेण विश्वं युधि पुष्पकेतुः पितुर्जितं वीक्ष्य सुदर्शनेन ।
जगज्जिगीषत्यमुना नितम्बमयेन कि दुर्लभदर्शनेन \।\।
‘बिभ्रम्य तच्चारुनितम्बचक्रे’ इति नैषधात् ‘रथचरणविशालश्रोणि लोलेक्षणेन’ इति माघाच्च । चक्रान्तरद्वयसाम्यमत्र ।
ऊरुस्तु करिहस्तेन कदल्या करभेण च ॥ १३ ॥
यथा—
‘कदली कदली करभः करभः करिराजकरः करिराजकरः ।
भुवनत्रितयेनबिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः ॥
चरणःपल्लवाम्भोजस्थलपद्मप्रवालकैः ।
यथा—
‘विजितप्रवालपल्लवकवलीकृतप्रोल्लसत्सुषमे ।
पदकमले कमलाया लुठदलकः पातु देवकीसूनुः ॥’
‘अभ्युन्नताङ्गुष्टनखप्रभाभिर्विक्षेपणाद्रागमिवोद्गिरन्तौ ।
आजह्नतुस्तच्चरणौ पृथिव्या स्थलारविन्दश्रियमव्यवस्थाम् ॥’
पूर्णेन्दुनाङ्गुष्ठनखौ
यथा—
‘यशः पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या ।
कलाश्चतुःषष्टिरुपैतु वासं तस्या117 कथं सुभ्रुवि नाम नास्याम् ॥’
गमनं हंसहस्तिवत् ॥ १४ ॥
‘गमनमलसयातैः’ इत्यादि ।
‘सा राजहंसैरिव सनताङ्गीगतेषु लीलाञ्चितविभ्रमेषु ।
व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नूपुरशिञ्जितानि ॥’
कटाक्षो यमुनावीचिभृङ्गावलिविषामृतैः ।
यथा—
‘हालाहलं वा विलसत्सुधा वा भृङ्गावली वा यमुनोर्मयो वा ।
निशाणघृष्टा मदनेषवो वा यद्वा कटाक्षो मदिरेक्षणायाः ॥
२. ‘तस्याम्’ ख.
ज्योत्स्नेन्दुपुष्पपीयूषफेनकैरववद्धसः ॥ १५ ॥
हसो हास्यम् ॥
यथा— ‘ज्योत्स्नेन्दुपुष्प – ‘इत्यादि \।\।
‘नूनं ते चोरिता तन्वि स्मितेक्षणमुखद्युतिः ।
स्नातुमम्भःप्रविष्टायाः कुगुदोत्पलपङ्कजैः \।\।
’
मुक्ताप्यत्र गणनीया ।
‘मुक्ताफलं वा स्फुटविद्रुमस्थम्’ इत्यादेः \।\।
दर्शनं वमदब्जादिः
यथा—
‘धवलयदिव जगदखिलं प्लावयदिव विश्वमेव विशिखौघैः118।
वमदिव कमलसहस्र लोचनमेणीदृशो जयति \।\।’
श्वासस्तु सुरभिः शनैः ।
यथा—
‘वहन्ति प्रातरम्भोजसौरभोद्गारवासिताः ।
मन्दमन्दममी वाता निश्वासास्तावका इव \।\।
हंससारसशब्दाभ्यां वर्ण्यते नूपुरध्वनिः \।\। १६ \।\।
यथा – ‘सा राजहसैः’ इवेत्यादि ।
‘लीलाचलस्त्रीचरणारुणोत्पलस्फुरत्तुलाकोटिनिनादकोमलः ।
सौरेरुपानूपमुपाहरन्मनःस्वरान्तरादुन्मदसारसारवः ॥’
अत्र श्रीपादानुसारिकविकल्पलताकार एतावदधिकमाह
‘वेण्याः सर्पासिभृङ्गाल्योर्धम्मिल्लस्य विधुंतुदः ।
सीमन्तस्याध्वदण्डौ च भ्रुवोः सर्पीकृपाणको \।\।
दन्तस्य जीरका ज्ञेया मदिरा कुमुदं दृशोः ।
जिह्वायास्त्वञ्चलो दोला नासायाःपाटली तथा ।
वल्लरी लहरी पाशः शाखा बाहुद्वयस्य च \।\।
प्रवालशाखा वाङ्गुल्याःपल्लवश्च नखस्य तु ।
रक्तपुष्पाणि नाभ्यास्तु विवराम्भोरुहे समे ।
वीचिसोपाननिश्रेण्यस्त्रिवल्ल्या इति च स्त्रियाम् ॥
पुंसां तु वृषरक्ताक्षस्कन्धौ स्कन्धस्य सनिभौ ।
भुजौ वज्रस्य गमनमुक्ष्णामित्यभिकीर्तितम् ॥
गोवर्धनस्तु शरीरतदवयवयोर्वर्णनीयान्गुणानाह—
सौन्दर्यं मृदुताकार्यमतिकोमलता तथा ।
कान्तिरौज्ज्वल्यमाबल्यमित्यमी वपुषो गुणाः \।\।
केशस्य दीर्घकौटिल्यमृदुनैबिड्यनीलता ।
कपोले स्वच्छता कण्ठे द्राघीयस्त्व त्रिरेखता ॥
नेत्रे स्नैग्ध्यं विशालत्वं लोलतापाङ्गदीर्घता ।
नीलता प्रान्तलौहित्य श्वैत्यं निबिडपक्षमता \।\।
अधरेऽत्यन्तमाधुर्यमुच्छूनत्वं सुरक्तता \।
दन्तस्य श्वैत्यलौहित्यद्वात्रिशत्तातिदीप्तता \।\।
माधुर्य स्पष्टता वाचा मृदुता समता भुजे ।
करेऽतिमृदुता शैत्य सर्वभागे च शोणता ॥
स्तने श्यामाग्रतौन्नत्यविस्तारदृढपाण्डुता ।
रौमाल्या मार्दवं सौक्ष्म्यं श्यामता नाभिगामिता ॥
कान्तिर्वृत्तानुपूर्वत्वं जङ्घयोर्नातिदीर्घता ।
अत्यन्तमन्दता शैत्यं निश्वासेऽतिसुगन्धिता \।\।
इत्यादि ।
मया सक्षेपशीलेन गच्छता मृदु वर्त्मनि ।
सर्वशिष्टानुरोधेन दिङ्यात्रमिह दर्शितम् \।\।
इत्यलंकारशेखरे वर्णकरले योषिवर्णनमरीचिः ॥ १३ ॥
चतुर्दशो मरीचिः ।
इदानीं पुरुषवर्णनमाह -
राज्ञामत्यन्तपीनत्वमुच्चता दीर्घबाहुता ।
अत्र पुंसामिति वक्तव्ये प्रायशः कवीनां राजान एव वर्णनीया भवन्तीति ताननुगृह्णता महर्षिणा राज्ञामित्युक्तम् ।
यथा —
‘व्यूढोरस्को वृषस्कन्धः शालप्रांशुः’ इत्यादौ।
युगार्गलभुजङ्गेन्द्रदण्डस्तम्भेभहस्तकैः बाहुः ॥ १ ॥
यथा—
‘युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकन्धरः ।
‘भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ।’
‘अमुष्य दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता ।
उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिरःप्रसारिता ॥’
‘नागेन्द्रगमनः पीनमैरावतकरायतम् ।
दोर्दण्डभुवनागारस्तम्भं राजा ममर्श सः ॥’
वक्षः कपाटेन शिलापट्टेन वर्ण्यते ।
यथा—
‘तस्याभवत्सूनुरुदारशीलः शलः शिलापट्टविशालवक्षाः ।
जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामाव्रजदीड्यमानः119 ॥ १॥
अंसे विपुलता
यथा—
‘युवा युगव्यायतबाहुरंसलः’ इत्यादौ ।
मध्ये कार्श्यम्
यथा—
‘अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
आरोप्य चक्रभ्रममुष्णरश्मिस्त्वष्ट्रेव यन्त्रोल्लिखितो विभाति ॥"
इत्यादौ ।
उन्नतता पदे ॥ २ ॥
यथा—
‘कूर्माकारं चरणयुगलं धूतदिग्दन्तिशुण्डा-
दण्डावूरू भुजयुगमपि व्यक्तनागेन्द्रशोभम् ।
प्रायः पृथ्वीधरणविधये तत्समर्थान्पदार्था-
नेकीकृत्य त्रिभुवनसृजा निर्मिता यस्य मूर्तिः ॥’
स्तनयोरिव नारीणामत्यन्तस्वच्छता हृदि ।
यथा—
‘सा निर्मले तस्य मधूकमाला हृदि स्थिता च प्रतिबिम्बिता च ।
कियत्यमग्ना कियती च मग्नापञ्चेषुबाणालिरिव व्यलोकि ॥’
नारीस्तनस्वच्छता यथा—
‘प्रतिफलितं गलगरलं कज्जलबुध्द्यापयोधरे देव्याः ।
प्रातः प्रोञ्छितुमिच्छुर्गिरिजाहसितो हरो जयति ॥’
कान्तिप्रयोजकं यावत्तावत्तद्वत्प्रवर्ण्यते
॥ ३ ॥
तद्वद्योषिद्वत् । यथा—
‘कृतावरोहस्य हयादुपानहौ ततः पदे रेजतुरस्य बिभ्रती ।
तैयोः120 प्रवालैर्वनयोस्तथाम्बुजैर्नियोद्धुकामे किमु बद्धवर्मणी ॥’
‘धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः ।
प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिव ॥’
‘चन्द्राननचन्द्रदिनं मृगलोचनमृगशिरश्च नक्षत्रम् ।
तिथिरतिथिप्रियं121 नवमीशुभयोगः स्वर्भग भाति भवान् ॥’
‘कामं कमलपत्राणां नेत्रे तस्यानुकारिणी ।’
इत्यादि । विस्तृतमन्यत्र \। इदमुपलक्षणम् । आह्लादकत्वपुर122स्कारेण चन्द्रादिसाम्यमुभयोरपि ।
यथा—
‘इत्थं123 द्विजेन द्विजराजकान्तिः’, ‘इन्दुप्रभामिन्दुमतीमवेत्य124’, ‘स्फुरत्कमलप्रभे’ इति श्रुतबोधे ।
प्रतापोऽर्काग्नि125वज्राद्यैः कीर्तिश्चन्द्रादिशुभ्रकैः ।
करे पद्मोर्ध्वरेखादि पदे छत्रध्वजादिकम् ।
गमनं हस्तिसिहाभ्यां कार्कश्यं च भुजादिषु ॥ ४ ॥
स्फुटमिहोदाहरणम् । गमनमिति ।
यथा—
‘पूर्व यथा देवपतेर्नि126योगं मूर्ध्ना वहन्कार्मुकबाणहस्तः ।
प्राप्तस्तथैवाशु गजेन्द्रगामी प्रोद्भिद्यमानो नवयौवनेन ॥’
‘ततो मृगेन्द्रस्य मृगेन्द्रगामी’ इत्यादौ ।
स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः ।
सिंहशार्दूलनागाद्याः पुंसि127 श्रेष्ठार्थवाचकाः ॥ ५ ॥
अत्रादिपदाद्वृषभोऽपि ।
कर्तव्या रत्नसिहाद्या नरराजादितः पदात् ।
विशेष्यभावो द्युसदा वरभूमिविशेषणात् \।\।
यद्यत्सामुद्रिकाद्युक्तं तद्वर्ण्यमुभयोरपि ।
किंतु शिष्टप्रयोगोऽत्र नियामकतयेष्यते ॥
इत्यलंकारशेखरे वर्णकरत्ने पुरुषवर्णनमरीचि ॥ १४ ॥
पश्चदशो मरीचिः \।
इदानीं सादृश्यप्रापकप्रकारमाह —
इवाद्यैः प्रतिमानाद्यैः समानाद्यैर्निमादिभिः \।
बन्धुचौरारिवंशाद्यैःसादृश्यप्रतिपत्तयः ॥ १ ॥
इवाद्यैरिति । तदाहुः —
इववद्धायथाशब्दाः समाननिभसंनिभाः ।
तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः ।
सदृक्सदृशसंवादिशब्दाः सादृश्यवाचकाः ॥ २ ॥
प्रतिमानाद्यैरिति ।
प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया ।
प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमान स्यात् ॥
समानाद्यैर्निभादिभिरिति ।
वाच्यलिङ्गाः समानश्च सदृक्षः सहशः सदृक् ।
साधारणः समस्तुल्यः स्युरुत्तरपदे त्वमी \।
निभसकाशनीकाशप्रतीकाशोपमादयः ॥
बन्ध्विति ।
बन्धुर्मित्रं वयस्यश्च प्रेयान्प्रीतः सुहृत्सखा ।
उपमानोपमेययोरेवम् । चौरेति ।
चौरैकागारिकस्तेनदस्युतस्करमोषकाः ।
प्रतिरोधिपरास्कन्दिपाटच्चस्मलिम्लुचाः \।\।
मुखकान्तिचौरश्चन्द्र इत्यादि कर्तव्यम् । अरीति \।
रिपुवैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ।
द्विट्विपक्षाहितामित्रदस्युशात्रवशत्रवः \।
अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥
चन्द्रस्य वैरि मुखमित्यादि कर्तव्यम् । वंशाद्यैरिति ।
सततिर्गोत्रजननकुलान्यभिजनान्वयौ ।
वंशोऽन्ववायः सतानः सपिण्डास्तु सनाभयः \।\।
समानोदर्यसोदर्यसगर्भ्यसहजाः समाः ।
सगोत्रबान्धवज्ञातिबन्धुश्च स्वजनः समाः \।\।
चन्द्रसगोत्रं चन्द्रसोदरं मुखमित्यादि कर्तव्यम् ।
प्रकारान्तरमाह—
भृतकाद्यैर्भृत्याद्यैर्न्यक्कारार्थक्रियापदैः ।
संदेहतत्तद्वाक्याद्यैः सादृश्यं प्रतिपद्यते ॥ ३ ॥
भृतकाद्यैरिति ।
भृतको भृतिभुक्कर्मकरो वैतनिकश्च सः ।
‘मुखस्य भृतकश्चन्द्रः’ इत्यादि कर्तव्यम् । भृत्याद्यैरिति ।
भृत्यदासेयदासेरदासगोप्यकचेटकाः ।
नियोज्यकिंकरप्रेष्यभुजिष्यपरिचारकाः ॥
मुखस्य दासः शशीत्यादि कर्तव्यम् । न्यक्कारार्थेति ।
न्यक्करोति तिरस्कुर्वन्प्रतिक्षिपति भर्त्सति ।
आक्रोशत्यवजानाति कदर्थयति निन्दति ।
विडम्बयति सरुन्धे हसतीत्यसूयति \।\।
त्वन्मुखबिम्बश्चन्द्रं न्यक्करोति, इत्यादि विधेयम् ।
तृणीकृतमधिक्षिप्तं निरस्तं च लघूकृतम् ।
अनादृतमवज्ञातमम्भोजं त्वन्मुखेन्दुना \।\।
संदेहेति —‘किमिन्दुः कि पद्मम्’ इत्यादि । तत्तद्वाक्येति ।
यथा—
तस्य पुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति ।
तेन सार्धंविगृह्णाति तुला तेनाधिरोहति ॥
तत्पदव्या पदं धत्ते तस्य कक्षां विगाहते ।
तमर्थमनुबध्नाति तच्छीलं तन्निषेधति \।\।
तस्य चानुकरोतीति तमर्थमनुधावति ।
आकारयत्याहूयते जिगीषति सरोरुहम् \।\।
विधिरम्भोजसाम्राज्ये मुखेन्दुमभिषिञ्चति ।
तस्या मुखेन सदृशं कः कर्तुं चन्द्रमीश्वरः ।
भवतीन्दुर्न दासोऽपि त्वदास्यं चेत्किमिन्दुना \।\।
चन्द्रमूर्ध्नि पदं धत्ते वृथा चन्द्र तपस्यति ।
लीयते चन्द्रमाः क्वापि बिभेति च पलायते \।\।
दण्डी तु—
प्रतिच्छन्दसरूपादिसजातीयानुवादिनः ।
सलक्षणसपक्षाभसवर्णतुलितादिकम् \।\।
कल्पदेशीयदेश्यादि ये चान्यूनार्थवादिनः ।
समासश्च बहुव्रीहिः शशाङ्कवदनादिपु ।
भवन्तीवादिशब्दाश्च सादृश्यप्रतिपत्तये \।\।
इत्याहुः ।
कवीनां घटनान्यैव चराचरविलक्षणा ।
अकर्तुमन्यथा कर्तु कर्तु या क्षमते जगत् ॥
इति केशव मिश्रकृतेऽलकारशेखरे वर्णकरत्नम् \।
इदानीं कविसंप्रदायस्य सर्वापेक्षयाभ्यर्हितत्व दर्शयन्नाह—
असतोऽपि निबन्धेन सतामप्यनिबन्धनात् ।
नियमस्य पुरस्कारात्संप्रदायस्त्रिधा कवेः ॥ १ ॥
असतोऽपीति । वस्तुगत्या यन्न भवति तदपि कविभिर्निबध्यते ।
यथा —
रत्नानि यत्र तत्राद्रौ हंसाद्यल्पजलाशये ।
जलेभाद्यं नभोनद्यामम्भोजाद्यं नदीष्वपि128\।\।
तिमिरस्य तथा मुष्टिग्राह्यत्वं सूचिभेद्यता ।
शुक्लत्वं कीर्तिपुण्यादौ कार्ष्ण्यंचाकीर्त्यघादिषु \।\।
प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः ।
ज्योत्स्नायानं चकोराणां सेवाल सर्ववारिषु \।\।
केसराशोकयोः सत्स्त्रीगण्डूषात्पादघाततः ।
मासान्तरेऽपि पुष्पाणि रोमालिस्त्रिवलिस्त्रियाम् \।\।
सतामपीति । पारमार्थिकमपि न निबध्यते ।
यथा—
वसन्ते मालतीपुष्पं फलपुष्पे च चन्दने ।
कामिदन्तेषु कुन्दानां कुड्मलेषु च रक्तता ।
नारीणां श्यामता पातः स्तनयोर्यच्च129वा ह्रिये \।\।
नियमस्येति ।
हिमवत्येव भूर्जत्वक् चन्दनं मलये परम् ।
हेमन्तशिशिरौ त्यक्त्वा सर्वदा कमलस्थितिः \।\।
सामान्यग्रहणे शौक्ल्यं पुष्पाम्भश्छत्रवाससाम् ।
ध्वजचामरहंसाना हारस्य बकभस्मनोः \।\।
कृष्णत्वं शैलवृक्षादि मेघवारिधिवीरुधाम्130 ।
भिल्लका चासुराणां च धूपपङ्कशिरोरुहाम् \।\।
लौहित्यं धातुमाणिक्यजपारत्नविवस्वताम् ।
पद्मपल्लवबन्धूकदाडिमीकरजादिषु \।\।
पीतत्वं शालिमण्डूकवल्कलेषु परागके ।
वर्षास्वेव शिखिप्रौढिर्मधावेव पिकध्वनिः \।\।
अन्यच्च—
कमला संपदोः कृष्णहरितोर्नागसर्पयोः ।
पीतलोहितयोः स्वर्णपरागाग्निशिखादिषु \।\।
चन्द्रे शशैणयोः कामध्वजे मकरमत्स्ययोः ।
दानवासुरदैत्यानामैक्यमेवाभिसंहितम् \।\।
अपि च ।
चिरंतनस्यापि तथा शिवचन्द्रस्य बालता \।
मानवा मौलितो वर्ण्या देवाश्चरणतः पुनः \।\।
भुवनानि निबध्नीयात्रीणि सप्त चतुर्दश ।
चतस्रोऽष्टौ दश दिशश्चतुरः सप्त चाम्बुधीन् \।\।
अष्टादश स्मृता विद्याश्चतस्त्रश्च चतुर्दश \।
ये स्थले ते जले जीवा भिन्दन्त्यर्कं रणे मृताः ॥
महत्त्वमादौ सर्गान्ते सूक्ष्मता जगतामपि ।
शैलादिर्भिद्यते शब्दान्नभः131 शतधनूपरि \।\।
नाम तत्तदुपाधौ स्याच्छंकरो वृषवाहनः ।
चिह्नत्वे132 च वृषाङ्कोऽयं ध्वजे सत्त्वाद्वृषध्वजः \।\।
शूली, न सर्पी गिरिशः; शशी, न हरिणी विधुः ।
इन्दुमौलिर्महादेवो गङ्गामौलिर्न तु क्वचित् \।\।
रलयोर्डलयोश्चैव बवयोः शसयोर्न भित् ।
नानुस्वारविसर्गौ च चित्रभङ्गाय संमतौ ॥
इववद्वाहिहीहस्मबतवैतुकिलैव च ।
पदान्येतानि देयानि पादस्याद्ये न जातुचित् \।\।
भूतेन्द्रभारतेशात्प्राङ्महच्छब्दो निरर्थकः ।
दुरर्थो ब्राह्मणे वृष्टिभोज्यौषधपथादिषु\।\।
इत्यलकारशेखरे कविसप्रदायरत्ने नियममरीचिः ॥ १५ ॥
षोडशो मरीचिः\।
इदानीं सक्षेपेण वर्णनीयान्याह—
वर्ण्यश्च133 राजा देवी च देशो नामः पुरी सरित् ।
सरोऽब्ध्यरण्योद्यानाद्रिप्रय रणवाजिनः \।\।
हस्त्यर्कचन्द्रावृतवो विव स्वयंवरः ।
सुरा पुष्पाम्बुसंभोगः श्लिषमृगयाश्रमाः ।
कला134 ऋतुवयःसधी धातुवृक्षाभिसारिकाः ॥
एतेषां135 विशिष्य वर्णप्रकाराः प्रदृश्यन्ते136—
नृपे कीर्तिप्रतापाज्ञादुष्टशान्तिविवेकिताः ।
धर्मप्रयाणसग्रामशस्त्राभ्यासनयक्षमाः ॥
युद्धे
तु वर्म137बलचार138रजांसि तूर्य-
निर्घातनादशरमण्डपरक्तनद्यः ।
छिन्नातपत्ररथचामरकेतुकुम्भि-
योधाः सुरीवृतभटाः सुरपुष्पवृष्टिः ॥
अश्वे
वेगित्वमौन्नत्यं तेजः सलक्षण स्थितिः ।
खुरोत्खातरजःप्रौढिर्ज्ञातिर्गतिविचित्रता ॥
गजे
सहस्रयोधित्वमुच्चता कर्णचापलम् ।
अरिव्यूहविभेदित्वं कुम्भयुक्तामदालयः ॥
सूर्ये
ऽरुणता रविमणिचक्राम्बुजपथिकलोचनप्रीतिः ।
तारेन्दुदीपकौषधिधूकतमश्चौरकुलटार्तिः ॥
चन्द्रे
कुलटाचक्राम्बुजचौर139विरहितमोर्तिरौज्ज्वल्यम् ।
जलधिजलनेत्रकैरववचकोरचन्द्राश्मदम्पतिप्रीतिः ॥
सुरभौ
दोलाकोकिलदक्षिणवातद्रुपल्लवोद्भेदाः ।
जातीतरपुष्पचयाभ्रमञ्जरीभ्रमरझाङ्काराः \।\।
ग्रीष्मे
पाटलमल्लीतापसरःपथिकशोषवातोल्काः ।
सक्तुप्रपाप्रपास्त्रीमृगतृष्णाम्रादिफलपाकाः ॥
वर्षासु
घनशिखिस्मयहंसगमाः पङ्ककन्दलोद्भेदौ ।
जातीकदम्बकेतकझञ्झानिलनिम्नगाहलिप्रीतिः ॥
शरदी
न्दुरविपटुत्वं जलाच्छतागस्त्यहंसवृषदर्पाः \।
सप्तच्छदासिताभ्राब्ज140रुचिः शिखिपक्षमदपाताः ॥
हेमन्ते
दिनलघुता मरुबकयववृद्धिशीतसंपत्तिः ।
शिशिरे
कुन्दसमृद्धिः कमलहतिर्वा गुडामोदः \।\।
विवाहे
स्नानशुद्धाङ्गभूपातूर्यत्रयीरवाः ।
वेदीसगीतहोमादिलाजमङ्गलवर्तनम् \।\।
स्वयंबरे
शचीरक्षा मञ्चमण्डपसज्जनाः
।
राजपुत्री नृपाकारान्वयचेष्टाप्रकाशनम् \।\।
सुरापाने
विकलता स्खलनं वचने गतौ ।
लज्जा मानच्युतिः प्रेमाधिक्यं रक्ताक्षता भ्रमः \।\।
पुष्पावचये
पुष्पावचयः पुष्पार्पणार्थने दयिते ।
मालागोत्रस्खलने क्रोधो वक्रोक्तिसंभ्रमाश्लेषाः ॥
जलकेलौ
सरःक्षोभश्चक्रहंसापसर्पणम् ।
पद्मज्यानिः पयःक्षेपो दग्रागो भूषणच्युतिः ॥
सुरते
सात्विका भावाः शीत्कारः कुड्मलाक्षता \।
काञ्चीकङ्कणमञ्जीररवोऽधरनखक्षते ॥
विरहे
तापनिःश्वासचिन्तामौनकृशाङ्गताः ।
अब्दसख्या निशादैर्ध्य जागरःशिशिरोष्णता \।\।
मृगयायां
च सचारो वागुरानीलवेषता \।
मृगाधिक्यं मृगत्रासो हिस्रद्रोहो गतित्वरा \।\।
आश्रमे
ऽतिथिपूजैणविश्वासो हिस्रशान्तता \।
यज्ञधूमो मुनिसुता द्रुसेको वल्कलं द्रुमाः ॥
पद्मकेकोत्सवः
प्रातर्मध्याह्ने
तापसप्लवः ।
सायं
सूर्यातिलौहित्यं चक्रपद्मादिविप्लवः ॥
पूर्वर्त्वग्रेतनत्र्वोश्च सधि व्याप्योपवर्णनम् ।
एवं शैशवतारुण्यमाध्यस्थ्यं विषमं च तत् ॥
अन्धकारे
ऽतिकाठिन्यं विश्वलोपसमर्थता ।
आकस्मिकसमारम्भो निःशङ्कमभिसारिकाः \।\।
वृक्षे
प्रचुरशाखात्वं दलादर्शितसूर्यता ।
उच्चता प्रसवोत्कर्षो वयः पथिकसेव्यता ॥
अभिसारे
भयभ्रंशो मञ्जीरादितिरस्त्रिया \।
साहसं रागितोत्कर्षः कालानुगुणवस्त्रता ॥
इत्यलकारशेखरे कविसप्रदायरत्ने वर्णनीयमरीचिः ॥ १६ ॥
सप्तदशो मरीचिः\।
इदानीं नियमान्तरमाह—
श्वेताश्चन्द्रादयो ज्ञेया नीलाःश्रीकेशवादयः ।
शोणास्तु क्षात्रधर्माद्याः पीता दीपशिखादयः ।
धूसरा रथ141धूल्याद्या ज्ञातव्याः काव्यवर्त्मनि ॥
अत्रैवं ज्ञातव्यम्—
श्वेतानि(?)चन्द्रशक्राश्वशंभुनारदभार्गवाः ।
हली शेषाहिशक्रेभौसिहसौधशरद्धनाः \।\।
सूर्येन्दुकान्तनिर्मोकमन्दारद्रुहिमाद्रयः ।
हिमहासमृणालानि स्वर्ग142ङ्गेभरदाभ्रकम् ।
शिकतामृतलोध्राणि गुणकैरवशर्कराः ॥
‘नीलानि
कृष्णचन्द्राङ्कव्यासरामधनंजयाः ।
शनिद्रुपदजा काली राजपट्टविदूरजम् \।\।
विषाकाशकुहूशस्त्रा143गुरुपापतमोनिशाः ।
रसावद्भुतशृङ्गारौ मदता144पिच्छराहवः \।\।
सीरिचीर यमो रक्षः कण्ठः खञ्जनकेकिनोः ।
कृत्या छाया गजाङ्गारखलान्तःकरणादयः \।\।’
'
शोणानि
क्षात्रधर्मश्च त्रेता रौद्ररसस्तथा ।
चकोरकोकिलापारावतनेत्रं कपेर्मुखम् \।\।
तेजः सारसमस्तं च भौमकुङ्कुमतक्षकाः ।
जिह्वेन्द्रगोपखद्योतविद्युत्कुञ्जरबिन्दवः ॥’
पीतानि
दीप145जीवेन्द्रगरुडेश्वरदृग्जटाः ।
ब्रह्मावीररसस्वर्णकपिद्वापररोचनाः ।
किञ्जल्कचक्रवाक्याद्या हरितालमनःशिलाः \।\।
धूसराणि
रजो लूता करभो गृहगोधिका ।
कपोतमूषकौ दुर्गाकाककण्ठखरादयः \।\।
इदमुपलक्षणम् ।
हरिताः सूर्यतुरगा बुधो मरकतादयः ।
इत्यपि बोध्यम् ।
द्वैरूप्ये चाप्रसिद्धौ च नियमोऽयमुदाहृतः ।
अन्यद्वस्तु यथा यत्स्यात्तत्तथैवोपवर्ण्यते ॥
इत्यलंकारशेखरे कविसप्रदायरत्नेशुक्लादिनियममरीचिः ॥ १७ ॥
अष्टादशो मरीचिः\।
इदानीं नियमान्तरमाह—
एकस्मादासहस्रं च यद्यद्वस्तु यथा भवेत् ।
तत्तत्कविप्रयोगेण ज्ञातव्यं काव्यमिच्छता ॥ १ ॥
अत्रैवं ज्ञातव्यम्—
एक ऐन्द्रः करी चाश्वो गजास्यरदशुक्रदृक् ।
द्वयं पक्षनदीकूलनरश्रुतिभुजादिकम् ॥
त्र्यं कालाग्निभुवनगङ्गामार्गेशदृग्गुणाः ।
ग्रीवारेखा महीकोणस्तथा शूलशिखावली \।\।
सध्या पुरः पुष्कराणि रामविष्णुज्वराङ्घ्रयः \।
चत्वारि
वेदब्रह्मास्यवर्णाब्धिहरबाहवः \।\।
स्वर्दन्तिदन्तसेनाङ्गोपाययामयुगाश्रमाः ।
पञ्च
पाण्डवरुद्रास्येन्द्रियस्वर्द्रुव्रताग्नयः ॥
महाभूतमहापापमहाकाव्यमहामखाः ।
पुराणलक्षणप्राणानिलवर्गेन्द्रियार्थकाः ॥
षड्
वज्रकोणत्रिशिरोनेत्रतर्काङ्गदर्शनम् \।
चक्रवर्तिमहासेनवदनानि गुणा रसाः ॥
सप्त
पातालभुवनमुनिद्वीपार्कवाजिनः ।
वाराश्च स्वरराज्याङ्गव्रीहिवह्निशिखादयः ॥
अष्टौ योगाङ्गवस्वीशमूर्तिदिग्गजसिद्धयः ।
ब्रह्मश्रुतिव्याकरणदिक्पाला हि कुलाद्रयः \।\।
नवाङ्गद्वारभूखण्डकृत्तरावणमस्तकाः ।
व्याघ्रीस्तनसुधाखण्डशेवध्यङ्करसग्रहाः ॥
दश हस्ताङ्गुलीशंभुबाहुरावणमौलयः ।
कृष्णावतारदिग्विश्वेदेवावस्थेन्दुवाजिनः ॥
एकादश
महारुद्राः सेनाश्च कुरुभूपतेः ।
द्वादशार्का
राशिमाससक्रान्तिगुहबाहवः ॥
सारिकोष्ठक सेनानीनेत्रक्ष्मापतिमण्डलाः ।
त्रयोदश
स्युस्ताम्बूलगुणा अथ
चतुर्दश
\।\।
विद्यान्वयमनुस्वराट्भुवनध्रुवतारकाः ।
तिथयः स्युः
पञ्चदश
षोडशे
न्दुकलाम्बिकाः \।\।
अष्टादश
द्वीपविद्यापुराणस्मृतिधान्यकम् ।
विंशती
रावणभुजाङ्गुलयोऽथ
शतं
यथा ॥
धार्तराष्ट्राः शतभिषक् तारकाः पुरुषायुषम् ।
रावणाङ्गुल्यब्जदलशक्रयज्ञाब्धियोजनम् \।\।
सहस्रं
जाह्नवीवक्रशेषशीर्षाम्बुजच्छदाः ।
‘रविबाणार्जुनकरवेदशाखेन्द्रदृष्टयः ॥
उदाहरणमेतेषां प्रसिद्धत्वान्न लिख्यते ।
प्रहते केवलं पान्था मादृशाः काव्यवर्त्मनि \।\।
इति संख्यानियममरीचिः ।
इति केशवमिश्रविरचितेऽलंकारशेखरे कविसप्रदायरत्नम् ॥
इदानीं प्रकारमुद्दिशन्नेव146कवीना प्रकर्षबीजमाह—
गतागतसमत्वं च संस्कृतप्राकृतैक्यताम् ।
तथा वचनयोः साम्यं धर्मिधर्माभिधायि च ॥ १ ॥
कुर्वन्ति कवयः शक्ताः समस्यापूरणादिकम् ।
आद्यं चतुष्टयं तत्र चित्रकाव्योपकारकम् ॥ २ ॥
तत्र147 गतागतेत्यादि । यथा—
‘मम रुरु मध्यम सहास कारिका-
वररव वनदानव सरसीरस गजभुजग \।
तरुणीरुत रदसोदर नदभेदन
वरभैरव कलपुलक पतदातप \।\।’
इत्यादि \।\।
चकारादसाम्येऽपि स्फुटार्थता यथा—
‘जरा नदी मालिका राजते दीनरक्षी पिनाकिना नन्दनवन सहसात्वत’ इत्यादि ।
‘रेजिरे बभूव तिष्ठति’ इत्याख्याते ।
संस्कृतेत्यादि
। यथा —
तत्र पुल्लिङ्गे—
‘हाराहारविहारसारसमराः सुंभोगरोगाम्बराः
संहारामरवारवारणरणाष्टाकार148तीराकराः \।
लोलोल्लासविलासवायसहराहंकारहीराङ्कुरा
नीहारोरगताररागतरला गोविन्दकन्दोदराः \।\। '
स्त्रीलिङ्गे—
‘घरणी धारगी गोणी रोहिणी रमणी मणी ।
कन्दरी लहरी रामा नारी भेरी वसुंधरा ॥’
नपुंसके—
‘जलपलफलमूलं वारिकीलालतूलं
वनपललदुकूलं तुङ्ग149गम्भीरकूलम् ।
सलिलकमलचीरं खण्डराजीवनीर
हलरजतकुटीरं दारुनालं पटीरम् \।\।’
(आख्याते—)
‘भण गच्छ देहि संहर कुरु रोचय मारयावगच्छैहि ।
अवलोकयावचिन्तय150 खादेति च धातुजं विद्धि ॥’
एकस्मिन्नेवार्थे बहुवचनैकवचनयोः साम्यं यथा—
ऋव्यादो देवरो वारि फलिनो बर्हिणो नरः ।
तादृशाद्या भूरुहाद्या मासफेरवसोमपाः ।
एवं रथिनमन्थानशब्दाः खुरणसादयः \।\।
धर्मिधर्माभिधायि पदं यथा—
सुषिरार्द्रप्रतीहारचुल्लपिल्लादिशात्रवाः ।
स्मेरालसौ मत्सरश्च धर्मि151धर्माभिधायकाः \।\।
चकाराद्विशेषसामान्यवाचकभावाभाववाचकपरिग्रहः ।
शकुन्तधातुमरुतो गरुत्मत्कामदर्शनम् ।
अक्षं वधूश्च गमनचेटकाद्या द्विवाचकाः \।
अपिधानाद्यपूपादिभावाभावप्रदर्शकम् \।\।
आदिपदात् आनाद152युतसिद्धावलग्नावतंसादिपरिग्रहः ।
इत्यलंकारशेखरे कविसामर्थ्यरत्ने चित्राद्युपकारमरीचि ॥ १८ ॥
ऊनविशो मरीचिः।
समस्या पूरणादिकमिति । इदं तुं कठिनसमस्याभिप्रायेण । तदुक्तम्—
‘कवयः शक्ताः’ इति । तत्रैवं प्रकारः—
यदीदं स्यात्तदेदं स्यात्कावा153स्याद्विषमेति च ।
अयोग्यः खलु कः शब्दः कुत्र संसर्गधीर्न हि ॥ १ ॥
प्रश्नोत्तरात्पदे भङ्गात्पूर्वस्मिन्नाद्ययोजनात् ।
मिथ्याभिधाय्यसावेवमेष सार्वत्रिकः क्रमः ॥ २ ॥
प्रश्नेति । ‘हारामहादेवरतातमातः’ इत्यत्र —
‘के मण्डयन्ति स्तनमण्डलानि कीदृश्युमा चन्द्रमसः कुतः श्रीः।
किमाह सीता दशवक्रनीता हारामहादेवरतातमातः ॥’
इतिवत् । पद इति । मृगात्सिंहः पलायत इत्यादौ । मृगमत्ति मृगात् ते पलाय मांसाय इत्यर्थकरणादित्यर्थः। पूर्वस्मिन्निति \। ‘प्रत्यर्थिकीर्तिनिर्जितकज्जलघवलं जपाकुसुमम्154’ इतिवत्155 ॥ यथायथमवान्तर156प्रकारस्तु—
‘एतत्स्वप्ने मया दृष्टं चित्रन्यस्तं157 विलोक्यताम् ।
अरिष्टमेतत्संजातमिन्द्रजालं विभावय \।\।’
प्रबोधयति बालांश्च यथायोग्यं प्रपूरयेत् ।
सुबोधमिदम् । प्रकारान्तरं158 तु—
देवर्षिवरशापाद्यैर्मणिमन्त्रौषधादिभिः ॥ ३ ॥
मनोरथेन तपसा पापात्पुण्यचयेन च ।
मायया शम्बरादीनां सर्व संभावयेत्कविः ॥ ४ ॥
अत्रादौ159 द्वन्द्वद्वयम् \। तपस्तात्कालिकं पुण्यम् । श्रीपादस्तु —
‘रागवात्सल्यशोकाद्यैर्वियोगेन मदेन च ।
मतिभ्रमेण शौर्येण विपरीतकरः पुमान् ॥’
इत्याह \।\। असाधारण्येन160 तत्प्रकारस्तु—
कल्पाद्यब्ध्यणुसंसर्गप्रतिचक्षुष्यणुर्महान् ।
युगान्त161तिमिदूरोच्चनिकटे महदप्यणु ॥ ५ ॥
हरेरधोमुखत्वेन बिम्बाच्च विपरीतता ।
दृक्पीडनात्तनुव्यूहाद्भावनाबिम्बतो बहु \।\। ६ \।\।
तमोकीर्त्यादिभिः कार्ष्ण्यशौक्ल्यंज्योत्स्नादिकीर्तिभिः ।
लौहित्यं रक्तपित्तादिसंध्यारत्नाधरादिभिः ॥ ७ ॥
तिमि162र्वृद्धताप्रयुक्तचक्षुर्मान्द्यंम् । इयं च ‘शैलीयति पिपीलिका’ इत्यादौ,
‘मशकीयति कुञ्जरः’ इत्यादौ । ‘विपरीतोऽभवज्जनः’ इत्यादौ । एकोऽपिस शतं नृपः’ इत्यादौ । ‘मषीयति जगत्रयम्’ इत्यादौ । ‘श्वेतद्वीपायतेजगत्’ इत्यादौ । ‘पद्मरागायते जगत्’ इत्यादौ क्रमेण बोध्यम् \।\।
कासांचित्समस्यानां नानाभुवनीयसंसर्गविषयत्वात्तत्प्रकाराः प्रदर्श्यन्ते—
जगतः प्रलये भूभिर्द्यौर्गरुत्मत्सुधोद्धता ।
वलीष्ठौ163हाटकेशी164ययात्रायां द्वौ रसातले ॥ ८ ॥
हाटकेशः पातालशंभुः । रसातल इति त्रित165यान्वयि । तथा—
द्यौर्बिम्बेन जलेशाद्योरब्धिमन्थे द्वयं भुवि ।
भुवीत्युभयान्वयि ॥ तथा—
‘पातालं वा नरोत्क्षिप्तचन्दनद्रुमपन्नगैः ।
ध्वजप्रासादधूलीभिर्भूमिः स्वर्गमुपाययौ \।\।’
अगस्त्याम्भोधिपानादिपौराणिककथाशतैः ॥ ९ ॥
शिवादिदेवसंचारैः सादृश्यैः सर्ववर्णनम् \।
श्री कृष्णस्योदरे सर्वसंसर्गः सार्वकालिकः ॥ १० ॥
पातालं भूमिश्च स्वर्ग ययावित्यर्थः । तथा —
शिवादीति । यत्र शिवो याति तत्र तत्रान्तरीयकतया सर्पचन्द्रानलादीनामपि गमनमावश्यकमित्यर्थः । सादृश्यैरिति । लक्षणया ‘सूच्यग्रे पर्वतद्वयम्’ इत्यादौ । औचित्येन—
संग्रामकुम्भिमुक्ताभिर्दिवा तारकितं नभः। इत्यादौ । राजशेखरस्तु—
उत्पाटितैर्नभोनीतैः शैलैरामूलबन्धनात् ।
तांस्तानर्थान्समालोक्य समस्यां पूरयेत्कविः ॥ ११ ॥
वृद्धास्तु—
कः प्रत्येति प्रतीमो न द्राक्प्रत्येति प्रतीहि च ।
न हि नो तत्किमित्याद्यैरुक्तिमाश्रित्य पूरयेत् \।\।
यथा—
पराजितश्चेद्भगवाञ्जरासंधेन जन्तुना ।
प्रतीतिरद्य मे जाता मृगासिंहः पलायते ॥
मा संभावय शल्येन फाल्गुनस्य पराभवम् ।
कः प्रतीयात्कुरुश्रेष्ठ मृगात्सिहः पलायते \।\।
नहि गाण्डीवकोदण्डमृगात्सिंहःपलायते ।
तत्कि कमलपत्राक्ष मृगासिंहः पलायते \।\।
सुबोधमखिलम् । तार्किकास्तु—
शब्दादुच्छलिते सिन्धौ शैलाण्डादौ च दारितं ।
त्वत्प्रतापाद्द्रवीभूते स्वर्णाद्यण्डादितैजसे \।\।
विरहे सर्वदहनः संतोषे सर्वमेव शशी ।
कामिनि सर्वंकाम्यं शान्ते लोष्ठायते विश्वम् \।\।
वैशेषिकेषु काव्येषु गणेषूत्कृष्टमन्दयोः ।
अनपेक्षया च संसर्गे स्यातामुत्कृष्टमन्दते \।\।
वैशेषिकेषु रूपरसादिषु काव्येषु शौर्यौदार्यसौन्दर्यादिषु—
शिशूनां गतयेऽस्माभिर्दिङ्मात्रमिह दर्शितम् \।
काव्यकान्तारपन्थानामीदृश्यर्थे कियान्भ्रमः ॥
अपरिकलितकाव्यसरणिमीश्वरं वशीकर्तुमनतिचिरमनुवसन्कविः ।
अव्ययैरजहल्लिङ्गैःसाधारणविशेषणैः ।
छन्दो ज्ञात्वा पृथग्वाक्यैः खैबुद्ध्या मानसीं श्रयेत् ॥
समस्यं पदवाक्यमिति स्मर्तव्यम् \।\।
इति समस्यापूरणमरीचि ॥ १९ ॥
इति महाराजाधिराजश्रीमन्माणिक्यचन्द्रकारितेऽलंकारशेखरे कविसामर्थ्यरत्नम् ॥
विशो मरीचिः ।
रस आत्मेत्युक्तम् । तस्य यथा—आत्मानं विना शरीरमप्रयोजकं तथाविना काव्यमित्यर्थः \।\।
यदाह—
‘साधुपाके विना खाद्यं भोज्यं निर्लवणं यथा ।
तथैव नीरस काव्यं स्यान्नो रसिकतुष्टये \।\।’
तत्र रसत्वमङ्गाङ्गीभावापन्नसकलविभावादि साक्षात्कारत्वम् । अङ्गाङ्गीत्यादि समूहालम्बनवारणाय \। रसत्वमपि जातिरिति वयम् । केचित्तु—
कारणेनाथ कार्येण सहकारिभिरेव च ।
व्यक्तत्वं नीयमानस्तु स्थायीभावो रसः स्मृतः ॥
कारणमङ्गनानवयौवनादि ।—
कार्याणि—
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः \।
वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥
सहकारिण उद्यानादयः । व्यभिचारिणो ग्लान्यादयः । यदाहुः—
विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
आरोप्यमाण उत्कर्ष स्थायीभावो रसः स्मृतः ॥
तमिदानी विभजते—
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताख्याः काव्ये नव रसाः स्मृताः ॥ १ ॥
शृङ्गारत्वहास्यत्वादिकं च जातिविशेष एव । व्यक्तिप्रश्नस्तु सुखज्ञानात्मकरसवादिमतेन भवत्येवेति दिक्।
तत्र शृङ्गारं विभजते—
संभोगो विप्रलम्भश्चशृङ्गारो द्विविधो मतः ।
तत्र स्त्रीपुंसलक्षणेष्टप्राप्तौ रतिरेव सभोगः । तदुक्तम्—
अनुरक्तौ निषेवेता यत्रान्योन्यं विलासिनौ ।
दर्शनस्पर्शनादीनि संभोगोऽयमुदाहृतः ॥
तत्र नायिकाश्रयः संभोगो यथा—
‘शून्यं वासगृहं विलोक्य शयनादुत्थाय किचिच्छनै-
र्निद्राव्याजमुपागतस्य सुचिर निर्वर्ण्य पत्युर्मुखम् ।
विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥’
आलोक्य नम्रमुखीत्यन्वयः ।
नायिका चतुर्विधा —
अनूढा च स्वकीया च परकीया पणाङ्गना166 \।
त्रिवर्गिणः स्वकीया स्यादन्याः केवलकामिनः ॥ २ ॥
अनुरक्तानुरक्तेन स्वयं या स्वीकृता भवेत् ।
सानूढेति यथा राज्ञो दुष्यन्तस्य शकुन्तला ॥ ३ ॥
देवतागुरुसाक्ष्येण स्वीकृता स्वीयनायिका \।
परकीयाप्यनूढेव विशेषस्तु स्फुटस्तयोः ॥ ४ ॥
सामान्यवनिता वेश्या भवेत्कपटपण्डिता \।
न हि कश्चित्मियस्तस्या दातारं पुरुषं विना ॥ ५॥
अस्याः प्रकाशः, अन्यासां प्रच्छन्नो रमण इति विशेषः । ताश्चाष्टधा । तदुक्तम्—
खण्डितोत्कण्ठिता प्रोषित्पतिका चाभिसारिका \।
कलहान्तरिता वासकसज्जा विप्रलब्धिका \।
स्वाधीनभर्तृका चान्या चतस्त्रोऽप्यष्टधा मताः \।\।
नायकाश्रयो यथा —
‘त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं
लक्ष्मीमित्यभिधातरि प्रियतमे तद्वीटिकासंस्पृशि \।
शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥’
रूपसौभाग्यसंपन्नः कुलीनः कुशलो युवा \।
अनुद्धतः सुनृतवाङ्नायकः प्रीतये स्त्रियाम् ॥ ६॥
अयं बहुप्रकारोऽपि संक्षेपेण चतुर्विधः ।
अनुकूलो दक्षिणश्च शठधृष्टौ च ते यथा ॥ ७ ॥
नीलीरागोऽनुकूलः स्यादनन्यरमणीरतः ।
दक्षिणश्चान्यचित्तोऽपि यः स्यादविकृतः स्त्रियाम् ॥ ८ ॥
प्रियं वक्त्यप्रियं तस्याः कुर्वन्यो विकृतः शठः ।
धृष्टो ज्ञातापराधोऽपि न विलक्षोऽवमानितः ॥ ९ ॥
विप्रलम्भस्तु—
भावो यदा रतिर्नाम प्रकर्षमधिगच्छति ।
नाधिगच्छति चाभीष्टं विमलम्भः स उच्यते ॥ १० ॥
इत्यनेन लक्षितः । अत्राभीष्टं स्त्रीपुंसलक्षणमेव । स च
पूर्वानुरागो मानात्मा प्रवासः करुणात्मकः ।
विमलम्भश्चतुर्धा स्यात्पूर्वपूर्वो ह्ययं गुरुः ॥ ११ ॥
तत्र
स्त्रीपुंसयोर्नवालोकादेवोल्लसितरागयोः ।
ज्ञेयः पूर्वानुरागोऽयमलाभादतिकामयोः ॥ १२ ॥
यथा—
‘प्रेमार्द्राःप्रणयस्पृशः परिचयादुद्गाढरागोदया-
स्तास्तामुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि \।
यास्यन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा-
दाशंसा परिकल्पितास्वपि भवत्यानन्दसान्द्रोदयः ॥’
अथान्यवनितासक्तमवमत्य स्ववल्लभम् ।
ईर्ष्यावशेन वैमुख्यमेष मान उदाहृतः ॥ १३ ॥
यथा—
‘सा पत्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलना वक्रोक्तिससूचनम् ।
अच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥’
प्रवासः परदेशस्थे द्वितीये विरहोद्भवः ।
यथा—
‘त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्त्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते सगमं नौ कृतान्तः ॥’
इत्यादौ ।
स्यादेकतरपञ्चत्वेदम्पत्योरनुरक्तयोः ।
शृङ्गारःकरुणाख्योऽयमजस्येव रतेरिव ॥ १४ ॥
ननु शृङ्गारस्य रतिप्रकृतित्वात्तस्याश्च सुखसंवेदनरूपत्वात्तस्य चविप्रलम्भेऽसंभवात्स कथं शृङ्गारभेद इति चेन्न । ‘धन्योऽहमस्याः कृते दशामिमामनुभवामि’ इति तत्रापि तदभिमानात् । क्वचित्संभोगपोषकत्वेनस्पृहणीयत्वाच्चेति विस्तृतं मयैव काव्यरत्ने । श्रीपादस्तु—
रतिर्भवति देवादौमुनौ पुत्रे नृपे गुरौ ।
शृङ्गारस्तु भवेत्सैव या कान्ता विषया रतिः ॥ १५ ॥
तत्र देवे यथा—
‘कण्ठकोणविनिविष्टमीश ते कालकूटमपि ते महामृतम् ।
अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥’
मुनौ यथा—
‘हरत्यघं सप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम्॥
पुत्रे यथा—
‘एह्येहि वत्स रघुनन्दन पूर्णचन्द्र
चुम्बामि मूर्ध्नि सुचिरं च परिष्वजे त्वाम् ।
आरोप्य वा हृदि दिवानिशमुद्वहामि
वन्देऽथवा चरणपुष्करकद्वयं ते ॥’
नृपे यथा—
‘ते कोपीनधनास्त एव सुचिरं धात्रीफलं भुञ्जते
तेषां द्वारि नदन्ति वाजिनिवहास्तैरेव लब्धा स्थितिः ।
तैरेतत्समलंकृतं निजकुलं कि वा बहु ब्रूमहे
ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा \।\।’
गुरौ यथा —
‘हा तात विश्वजनवत्सल मामकीन-
जीवौषध द्युमणिवंशवतंसभूत ।
स्या चेद्भवत्कुलजसद्मनि चेटकस्या
यद्वा भवच्चरणपङ्कजरेणुरेव ॥
हासमूलःसमाख्यातो हास्यनामा रमो बुधैः ।
चेष्टाङ्गवेपवैकृत्याद्वाच्यो हासस्य चोद्भवः ॥ १६ ॥
कपोलाक्षि कृतोल्लासो भिन्नोऽष्टः स महात्मनाम् ।
विदीर्णास्यश्च मध्यानामधमानां स शब्दकः ॥ १७ ॥
यथा—
‘नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः ।
तच तत्रैव रमते हताः पाणिनिना वयम् \।\।’
शोकोत्थः करुणो ज्ञेयस्तत्र भूपातरोदने ।
वैवर्ण्यमोहनिर्वेदप्रलापाश्रूणि वर्णयेत् ॥ १८ ॥
यथा—
‘मदेकपुत्रा जननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी ।
गतिस्तयोरेष जनस्तमर्दयन्नहो विधे त्वां करुणा रुणद्धि न ॥’
क्रोधात्मको भवेद्रौद्रः क्रोधः प्रौढ्या च वैरिणः ।
भीष्मवृत्तिरसामान्यो भवेदुग्रक्रियाश्रयः ॥ १९ ॥
स्वांशघातः स्वशंसास्त्रो167त्क्षेपभ्रकुटयस्तथा ।
अत्रारातिजनाक्षेपो दलनं चोपवर्ण्यते \।\। २० \।\।
यथा—
‘कृतमनुमतं दृष्टं वा यैरिदं गुरु पातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषा समं स किरीटिना-
मयमहमसृड्येदोमांसैः करोमि दिशा वलीन् \।\।’
उत्साहात्मा भवेद्वीरो बलशस्त्राश्रयश्च सः \।
नायकोऽत्र भवेत्सर्वैः श्लाघ्यैरधिगतो गुणैः ॥ २१ ॥
यथा—
‘क्षुद्राः संत्रासमेते विजहित हरयो भिन्नशक्रेभकुम्भा
युष्मद्गात्रेषु लज्जां दधति परममी सायका निष्पतन्तः ।
सौमित्रे तिष्ठ पात्रं त्वमसि नहि रुषा नन्वहं मेघनादः
किंचिद्भ्रूभङ्गलीलानियमितजलधि राममन्वेषयामि ॥’
भयानको भवेद्भीतिप्रकृतिर्घोरवस्तुनः ।
स च प्रायेण वनितानीचवालेषु दृश्यते ॥ २२ ॥
दिगालोकास्य शोषाङ्गकम्पा गद्गदसंभ्रमाः \।
स्तम्भवैवर्ण्यमोहाश्चवर्ण्यन्ते विबुधैरिह \।\। २३ \।\।
यथा—
‘ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् \।
शष्पैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥’
बीभत्सः स्याज्जुगुप्सातः सौहृद्यश्रवणेक्षणात् ।
निष्ठीवनास्यभङ्गादि स्यादत्र महतां न च ॥ २४ ॥
यथा—
‘उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा-
न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रगन्धीनि जग्ध्वा ।
आर्तः पर्यस्तनेत्रः प्रकटितदशनःप्रेतरङ्कः करङ्का-
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥’
विस्मयात्माद्भुतो ज्ञेयो स चासंभाव्यवस्तुनः ।
दर्शनाच्छ्रवणद्वापि प्राणिनामुपजायते ॥ २५ ॥
तत्र नेत्रविकारः स्यात्पुलकःस्वेद एव वा ।
निम्पन्दनेत्रता साधु साधुवादा168 तथा च गीः ॥ २६ ॥
यथा—
‘चित्रं कनकलतायां शरदिन्दुस्तत्र खञ्जनद्वितयम् ।
तत्र च मनोजधनुषी तदुपरि गाढान्धकाराणि \।\।
सम्यग्ज्ञानसमुत्थानः शान्तो निःस्पृहनायकः ।
रागद्वेषपरित्यागे सम्यग्ज्ञानस्य चोद्भवः ॥ २७ ॥
पश्चात्तापः शरीरादि यावद्वस्तुविडम्बनम् \।
विवेकचित्तस्थैर्यादि योगाद्यास्तस्य लक्षणम् ॥ २८ ॥
यथा—
‘अहौ वा हारे वा कुसुमशयने वादृषदि वा
मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः \।\।
स्त्रैणं स्त्रीसमूहः । अत्र अहिरिव हारो हेयो, न तु हारवदहिरप्युपादेय इति बोद्ध्यम् । इह सर्वत्र तत्तद्रसत्वमात्र उदाहरणमिति स्मर्तव्यम् ।
इदानीं रसानामविरोधविरोधावाह —
शृङ्गारहास्यौ करुणबीभत्सौ वीररौद्रकौ।
भयानकाद्भुतौ मित्रे मिथः शान्तो न कस्यचित् ॥ २९ ॥
शान्ते करुणबीभत्सौ न कश्चिद्द्वेष्टि चाद्भुतः ।
शृङ्गारशान्तकरुणौ हासस्य करुणो रिपुः \।\। ३०॥
अत्र करुणबीभत्सयोर्मैत्री विशेषाभिप्रायेणेति169 स्मर्तव्यम् ॥
स्थायीभावो रस इत्युक्तमतस्तानाह—
रतिर्हासश्च शोकश्चक्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयो भावा निर्वेदःस्थायिनो नव ॥ ३१ ॥
स्थायिनो भावा नवेत्यन्वयः । ननु निर्वेदस्य कथं शान्तरसस्थायिताव्यभिचारित्वादिति चेत्, न । अधिकरणभेदेनोभयाविरोधादित्यन्यत्र विस्तरः । स्थायिलक्षणं तु
विरुद्धैरविरुध्दैर्वा भावैर्विच्छिद्यते न यः ।
आत्मभावं नयत्यन्यान्स्थायीभावः स उच्यते ॥ ३२ ॥
विरुद्धैर्जुगुप्सादिभिरविरुद्धै रत्यादिभिर्यो न विच्छिद्यते । विशेषलक्षणं तु — ‘मनोऽनुकूलविषयं सुखात्मकसवेदनं
रतिः
। अङ्गक्रीडादिभिश्वेतोविकारो
हासः
। इष्टनाशादिजनितचित्तवैक्लव्यं
शोकः
। प्रतिकूलतैक्ष्ण्यस्य प्ररोहः
क्रोधः
। कार्यारम्भे संरम्भः स्थिर
उत्साहः
। व्याघ्रादिदर्शनादिजनितचित्तवैक्लव्यं
भयम्
। दोषदर्शनात्पदार्थेषु गर्हणं
जुगुप्सा
\। लोकसीमातिक्रान्तपदार्थविषयश्चित्तविकारी
विस्मयः
\। तत्त्वज्ञानादीर्ष्यादिभिः स्वावमाननं
निर्वेदः
| एते च सर्वभावेषु मुख्याः |
यदाह—
यथा नराणा नृपतिः शिष्याणां च यथा गुरुः ।
तथा सर्वेषु भावेषु स्थायीभावः स्मृतो महान् \।\।
विभावो द्विविधः —‘उद्दीपन आलम्बनश्च । तत्र कोकिलवसन्तादि
रुद्दीपनः
। नायिकादि
रालम्बनः
। योगात् । अस्माकं मते रतित्वादिकमनुभावत्वादिकं च जातिरेव । नहि वैशेषिकादिवदस्मत्प्रक्रियेति । अनुभावलक्षणं तु—
अनुभावो विकारस्तु भावसंसूचनात्मकः ।
तत्र—
हेलाविच्छित्तिबिब्बोककिलकिञ्चितविभ्रमाः ।
लीला विलासो हावश्च विक्षेपो विकृतं मदः
\।\।
३३
\।\।
मोट्टायितं कुट्टिमितं मौग्ध्यं च तपनं तथा ।
ललितं चेत्यमी हावाश्चेष्टाः शृङ्गारभावजाः ॥ ३४ ॥
एतच्चास्माभिः प्रपञ्चितमन्यत्र \। सात्विकलक्षणं तु—
रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते ।
निर्वृत्तयेऽस्य तत्त्यागात्प्रभवन्तीति सात्विकाः ॥ ३५ ॥
अस्य रसस्य । व्यभिचारिलक्षणं तु—
विशेषेणाभितः काये स्थायिनं भावयन्ति ये ।
अनुभावादिहेतूंस्तान्वदन्ति व्यभिचारिणः ॥ ३६ ॥
आदिपदात्स्वेदादिपरिग्रहः । ते च—
निर्वेदग्लानिशङ्काख्यास्तथासूयामदभ्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहःस्मृतिर्धृतिः ॥ ३७॥
व्रीडा चपलता हर्ष आवेशो जडता तथा ।
गर्वोविषाद औत्सुक्यं निद्रापस्मार एव च ॥ ३८ ॥
सुप्तंविरोधोऽमर्षश्चाप्यवहित्थमथोग्रता।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ।
त्रासश्चैव वितर्कश्य विज्ञेया व्यभिचारिणः ॥ ३९ ॥
अमी च प्रत्येकमेव श्लाघ्यन्ते । क्वचिच्छबलतापि । यथा—‘क्वाकार्यंशशलक्ष्मणः’ इत्यादौ । अत्र ‘क्वाकार्यम्’ इति वितर्कः । ‘भूयोऽपि दृश्येत’इत्यौत्सुक्यम् । ‘दोषाणाम्’ इति मतिः । ‘कोपेऽपि’ इति स्मृतिः । ‘किवक्ष्यति’ इति शङ्का। ‘स्वप्नेऽपि सा दुर्लभा’ इति दैन्यम् । ‘चेतः स्वास्थ्यमुपैहि’ इति धृतिः । ‘कः खलु’ इत्यादि चिन्ता ॥
इत्यलकारशेखरे विश्रामरत्ने रसमरीचिः ॥ २० ॥
एकविशो मरीचिः \।
‘परे रसदोषा भावानुकूलवर्णादयः काव्यशरीरे मनः’ इत्युक्तम् । अरसदोषानिदानीमाह–
त्वस्वशब्दरुपादानं भावस्य च रसस्य च \।
कष्टप्रकल्पनीयत्वमनुभावविभावयोः ॥ १ ॥
प्रक्रान्तर170सवैरित्वं तेषां व्यक्तिविपर्ययः।
अनौचिती च सर्वत्र रसे दोषाः स्युरीदृशाः ॥ २ ॥
सामान्यतो विशेषतो वा स्वस्ववाचकशब्दप्रतिपादिताना निर्वेदादीनांरत्यादीना वा रसाननुगुणत्वमिति सकलानुभवसिद्धम् । तत्र व्यभिचारिणःस्वशब्दोपादानम् \।\।
यथा—
‘सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि ।
सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे
पार्वत्या नवसगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥’
सव्री
डा प्रतिनयननिपातात् । अत्र व्रीडादीनां स्वस्वभावप्रतिपादितानांचमत्कारजनकत्वस्य सहृदयसाक्षिकतया तदभावादेव रसभङ्ग इत्युचितम् ।
एतदेव प्रत्युदाहरणेन प्रतिपादयन्ति—
‘व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे
सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि ।
मीलद्भूः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे
पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥’
स्थायिनो यथा—
‘सप्रहारे प्रहरणैः प्रहाराणा परस्परम् ।
झणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ॥’
संप्रहारः सग्रामः । अत्रोत्साहस्य \। रसस्य रसशब्दप्रतिपादितस्यरसाजनकत्वम् \।\।
यथा—
‘तामनङ्गजयमङ्गलश्रियं किंचिदुच्चभुजमूलशोभिनी ।
नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तरः ॥’
शृङ्गारादिपदप्रतिपादितस्य यथा—
‘आलोक्य कोमलकपोलतलाभिषिक्त-
व्यक्तानुरागसुभगामभिराममूर्तिम् ।
पश्यैष वाल्यमतिवर्त्यविवर्तमानः
शृङ्गारसीमनि तरङ्गितमातनोति ॥’
अनुभावस्य कष्टप्रकल्पनीयत्वं यथा—
‘कर्पूरपूरधवलद्युतिपूरधौत-
दिङ्मण्डले शिशिररोचिषि यस्य यूनः ।
लीलाशिरोंशुकनिवेशविशेषक्लृप्ति-
व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥’
अत्र चन्द्रादय उद्दीपनालम्बनविभावाः शृङ्गारयोग्या अनुभावाप्रतीत्याआस्वादनापर्यवसायिनः स्थिताः । यद्यप्यंशुकनिवेशोऽनुभावत्वयोग्यस्तथापितस्य स्तनव्यक्तिप्रयोजकत्वेनोपादानात्तस्य तदनुभावकत्वपर्यवसानम् । यद्वा पुंसि निष्ठ एवात्र शृङ्गारः प्रतिपिपादयिषितः, ‘अभून्नयनावनौ सा’इत्यनेन तस्यैवालम्बनत्वप्रतिपादनात् । न च पुंसि कश्चिदनुभाव उपात्तः, न च विभावैरप्याक्षेपार्ह इति कष्टेन प्रकल्पनीयः ॥
विभावस्य यथा—
‘परिहरति रति मति लुनीते स्खलतितरा परिवर्तते च भूयः ।
इति बत विषमा दशास्यदेहं परिभवति प्रसभं किमत्र कुर्मः ॥’
इत्यनेन प्रकारेणास्य दशा देहं परिभवतीत्यन्वयः । अत्र रतिपरिहारादीनामनुभावानां करुणादावपि सभवेन कामिनीरूपो विभावो यत्नप्रतिपाद्यः प्रकरणादिसव्यपेक्षत्वात् \।\।
प्रकृतरसविरोधिविषयको विभावादिः ।
तत्र विभावव्यभिचारिणोरुदाहरणम्—
‘प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं
प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः
निधानं सौख्याना क्षणमभिमुख स्थापय मुखं
न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥’
अत्र शृङ्गारे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावः । तत्प्रकाशितो निर्वेदश्च व्यभिचार्ययुक्तः, शान्ते निर्वेदस्य स्थायित्वात् ।व्यक्तिविपर्यय इति । यव्द्यक्तौ यद्वर्णनमनुचितं तत्र तद्वर्णनम् । व्यक्तयो दिव्या अदिव्या दिव्यादिव्याश्च तत्र दिव्यत्वममर्त्येकरूपता ।यथा — शिवादिशेषादेः । अदिव्यत्वम् मर्त्यैकरूपता । यथा —मालतीमाधवादेः । दिव्यादिव्यत्वमुभयरूपत्वम्। यथा—श्रीकृष्णादेः । त्रिविधा अप्येते चतुर्धा भवन्ति । वीररौद्रशृङ्गारशान्तरसप्रधानाः \। धीरोदात्तधीरोद्धतधीरललितधीरशान्ताः । यथा —रामभार्गवकृष्णजीमूतवाहनाः । एतेचोत्तममध्यमाधमभेदाद्बहवो भवन्ति । तत्र स्वःपातालगमनसमुद्राद्युल्लङ्घनपर्वतस्फोटनाद्युत्साहो दिव्येष्वेव वर्णनीयः । अदिव्येषु तु यावदेव लोकप्रसिद्धमुचितं तावदेव वर्णनीयम् ॥
अनौचिती च महात्रसदोषः । स च
भवानीशंकरादीना पित्रोर्वा केलिवर्णनम्
अत्युक्तिर्वा नभःसाम्यं स्तनादौ स्यादनौचिती \।\।
इत्यनेनोकास्ति171 । यद्यपि कुमारसंभवे कालिदासेन वर्णितमस्ति तथाप्यर्वाचीनेन न कर्तव्यम् । न हि गजानामुदर्यं तेजो वटकाष्ठमशितं पचतीत्यस्मदादीनामुदर्येण तेजसा तथा भवितव्यमिति न्यायात् । तस्यापि172 दोषत्वाद्वा दोषान्तरवदिति173 ॥
दोषं174 व्यक्तिविवेकेषु175 कविलोकविलोचने ।
काव्यमीमांसिषु176 प्राप्तं महिमा177 महिमादृतः ॥
यदाह महिमा—
अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् ।
प्रसिद्धौ178चित्यमूला हि रसस्योपनिषत्परा \।\।
ईदृशा इत्यनेनान्येऽप्यनौचित्यहेतवो दोषा भवन्तीति सूचितम् । यथा —नायिकाया मानादिना चरणप्रहारादिना वा नायकस्यात्यन्तिककोपवर्णनम् । व्यक्तिविपर्ययानौचित्ययोरवान्तरभेदविवक्षयेदं भेदकथनम् । अमीषाच क्वचिददोषतापि । यत्र न रसहानिर्भवति तत्र सहृदयैरेव पर्यालोचनीयमिति ग्रन्थगौरवभयान्नेह तन्यत इति ॥
इत्यलकारशेखरे विश्रामरत्ने रसदोषमरीचिः ॥ २१ ॥
द्वाविंशो मरीचिः \।
इदानीमनुकूलान्वर्णानाह—
उद्दामा वीररौद्रादौ छन्दोरीत्यक्षरादयः ।
हृद्याः शृङ्गारहास्यादौ परयोर्मध्यमा गतिः ॥ १ ॥
रौद्रादावित्यादिपदेन भयानकस्य \। हास्यादाविति करुणस्य परिग्रहः । परयोर्बीभत्साद्भुतयोः । शान्तस्य नियमो नास्तीति हृदयम् \। उद्दामं छन्दः दण्डकस्रग्धरादि । रीतिर्गौडी \। अक्षरेषुश्रीपादः—
उद्दामाःसान्तरालेन सजातीयेनरेण179 च ।
योगाष्टाद्याश्च180 चत्वारः शषौ181 विकटगुम्फना \।\।
हृद्ये उपेन्द्रादिच्छन्दः । रीतिर्वैदर्भी \। अक्षरेषु पुनः स एव ।
रणौ182 च लध्वन्तरितौ नश्चो183पर्यनुनासिकः ।
असमासोऽथ सोऽल्पो वा हृद्यं स्यात्सधिसौष्ठवम् \।\।
यथा—
‘अनङ्गरङ्गप्रतिमं यदङ्गं184 भङ्गीभिरङ्गीकृतमानताङ्ग्या।
कुर्वन्ति यूनां हृदयं यथैताः स्वान्तानि शान्तापरचिन्तनानि \।\।’
अथ वैपरीत्यं दोषायेति मनसिकृत्य क्वचिददोषतामाह—
वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् ।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ २ ॥
यथा—
‘मन्थायस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसघट्टचण्डः ।
कृष्णाक्रोधग्रदूतः185 कुरुशतनिधनोत्पातनिर्घातवातः
केनास्मत्सिहनादप्रतिरसितसखो186दुन्दुभिस्ताडितोऽयम् \।\।
अत्र हि न वाच्यमुद्दामं प्रश्नत्वात् । प्रबन्धश्चाभिनेयत्वान्न तथा ।कि तु वक्ता भीमसेन इति तदौचित्यादुद्दामा रचनादयः ॥ क्वचिद्वाच्यौचित्या \।
यथा—
‘शङ्कव्याकीर्णरङ्कुद्रुतनिशितशरक्षुण्णदीव्यत्तरक्षु
ज्याघोषक्षुब्धकण्ठीरववरचकितव्यस्तमातङ्गयूथम् ।
खड्गव्यालूनखङ्गंतुमुलकलकलं प्रान्तकूजच्छकुन्तं
भल्लाध्वस्ताच्छभल्लं वनभुवि मृगयाकर्म तेन प्रतेने ॥
अत्र हि वाच्यस्य सर्वप्राणिविप्लवात्मकमृगयाया एव तथात्वात्तथा । क्वचित्प्रबन्धौचित्यस्य यथा—कादम्बर्यादौ शृङ्गारेऽपि न मसृणवर्णा इति दिक्।
सर्वसाधारणं दोषमाह—
गृहीतयुक्तको नेष्टो हरचानां विशेषतः187 ।
मात्राभेदोऽप्यतः श्लाघ्यः पदे188 त्वेष शुभावहः ॥ ३ ॥
एकस्य पदस्य शेषे यो वर्णः सोऽपरस्याद्ये न दीयते । यथा— नाककला ।हकाररेफचकाराणां तु सुतराम् ।
यथा—
‘प्रवाहहरिता दूर्वा विहाररसितं तथा ।
स्फुरत्काचचया189 भूमिर्भूयः पुण्यैरवाप्यते ॥’
मात्राभेदे तु स्वल्पो दोषः । यथा —नाककादम्बिनी \। पदे त्वेष नदोषः, किंतु गुणः । यथा—‘वन्दामहे महेशानम्’ इत्यादौ \।\।
अन्यदप्याह—
रणयोश्च चवर्णस्य शैथिल्यायैव भूरिता \।
रेफणकारचकाराणा भूयस्त्वं शैथिल्यहेतुतया रसहानिकरमित्यर्थः ।
सधौवर्णदोषमाह—
शरहा190स्तादतिहृद्येन मशरहाःकाट्टकाराच्च ।
चछतथशरा नकारादधरा दोषाय भूयसां योगः ॥ ४ ॥
तात्तकारात् । कात्ककारात् । टाट्टकारात् । अधरा अधोवर्तिनः ।अतिहृद्ययोः शृङ्गारहास्ययो रसयोर्दोषाय भवन्ति । शब्ददोषकष्टस्यान्वयबोधविरोधिता, अस्य तु तस्मिन्नपि रसहानिरिति विशेषः । अनैकान्तिकबाधयोरिवानुमितौ । एतद्भिन्ने तु तदिति रहस्यम् । भूयसां वर्णानायोगः कार्स्यादिपदे ॥
श्रुतमेवान्यथाकारमक्षराणि कियन्त्यपि ।
काव्यालंकारविद्यायां शौद्धोदनिरसूत्रयत् \।\।
उपक्रमो दोषगुणावलंकारोऽथ वर्णकः ।
संप्रदायः कवेस्तस्य सामर्थ्यमथविश्रमः \।\।
अष्टौ रत्नानि दीप्तानि सन्त्यलंकारशेखरे ।
चत्वारः स्युरलंकारे संप्रदाये मरीचयः ।
सामर्थ्ये द्वौ परस्मिंस्तु पञ्चके स्युस्त्रयस्त्रयः ॥
मामकीनां कृतिमिमा द्विषन्तो दूषयन्ति ये ।
काव्यवार्तान जानन्ति ते नूनं पासुलाः सुताः ॥
आस्ते यद्यपि पूर्वपण्डितकृतव्याख्यैव संख्यावता-
मानन्दाय तथापि केशवकवेर्वाचामियं गुम्फना \।
सख्यासौष्ठवशब्दलाघवमिथः सबन्धपूर्वापर-
प्रत्यर्थिप्रतिबन्धनिर्मलगुणः कुत्रान्यतो लभ्यताम् ॥
तर्कप्रौढमतिः प्रशस्तकवितावल्लीवसन्तोत्सवः
कोषव्याकरणप्रपञ्चचतुरोऽलंकारपारंगमः ।
श्रीमत्केशवमिश्रमद्भुतगुणावासं नियुज्य स्वयं
चक्रे शक्रसम प्रबन्धमनघं माणिक्यचन्द्रो नृपः ॥
इति श्रीमन्महाराजश्रीमाणिक्यचन्द्रकारिते केशवमिश्रकृतेऽलंकारशेखरेविश्रामरत्नमष्टमम् ॥
समाप्तश्चायं ग्रन्थः ।
]
-
" ’ नमाम्य ’ क" ↩︎
-
“’ दिल्ली ‘” ↩︎
-
" ’ त्व वा ’ ख." ↩︎
-
“’ साधन ’ ख” ↩︎
-
“’ शून्यत्वे ’ ख” ↩︎
-
" ‘प्रतिपत्तिगुणद्वारा’ ख." ↩︎
-
“‘वस्तुतस्तु का ‘क-ख.” ↩︎
-
" ‘गुणदोषादि’ क. " ↩︎
-
“‘कूलमिदमिति भावः’ क; ‘प्रतिकूलमिति तन्न’ ख.” ↩︎
-
" ‘तदुक्तम्’ क." ↩︎
-
“‘यस्य’ क” ↩︎
-
" ‘कृतोऽम्यासः’ क." ↩︎
-
“ख- पुस्तके नास्ति” ↩︎
-
“‘क्षते’ ख” ↩︎
-
" ‘च’ ख." ↩︎
-
“‘शरीरि’ ख.” ↩︎
-
" ‘मनीषितामर्चगृहेषु देवता’ क." ↩︎
-
" ‘सरक्षसि’ क." ↩︎
-
“‘चलित’ ख.” ↩︎
-
“‘नास्ति’ ख.” ↩︎
-
“‘तासु’ क.” ↩︎
-
" ‘शक्त्यादि’ ख." ↩︎
-
" ‘पुनरुक्तत्वेऽपि’ क." ↩︎
-
" ‘शङ्खशुक्तिरिव’ ख" ↩︎
-
“’ वशित ’ ख. " ↩︎
-
“मश’ क.” ↩︎
-
“‘वाच्या’ ख.” ↩︎
-
“‘त्कारि’ ख..” ↩︎
-
“‘सर्वत्र वक्तु’ ख” ↩︎
-
“‘श्रीपाद ’ क.” ↩︎
-
" ‘काव्य’ क” ↩︎
-
" ‘श्वित्रेण’ ख." ↩︎
-
“‘मरुत्’ ख.” ↩︎
-
“‘पीलु’ क.” ↩︎
-
" ‘उपहृतविसर्गो’ क." ↩︎
-
“.‘शब्दो वा क्रमेण’ ख.” ↩︎
-
“‘पद’ क.” ↩︎
-
" ‘शृङ्गे’ ख." ↩︎
-
" ‘पतिभिः’ ख." ↩︎
-
“‘बद्ध’ ख.” ↩︎
-
" ‘मलक्ष’ क." ↩︎
-
" ‘लक्षक’ ख" ↩︎
-
“‘अत्रासम’ ख” ↩︎
-
“‘न्तर गो’ ख. " ↩︎
-
“उदाहरण क-पुस्तके नास्ति” ↩︎
-
“‘सप्रत्याशस्तवाङ्गके’ क. २-३’पमा’ क. " ↩︎
-
“पमा. क” ↩︎
-
“इति. क” ↩︎
-
" ‘यथा तत्र’ ख.” ↩︎
-
" ‘त्यक्ताशङ्का’. क” ↩︎
-
" ‘रुचि’ क." ↩︎
-
“‘कगुणत्वमित्यर्थःऽ ख.” ↩︎
-
“द्गण ख” ↩︎
-
" ‘तत्तह’ क" ↩︎
-
" ‘तयैषा’ क." ↩︎
-
" ‘अस्तिर्भवतिर्वा प्रथमपुरुषे प्रयुज्यते’ क" ↩︎
-
“‘नापपत्ति’ ख.” ↩︎
-
“‘प्राचुर्येण व्यक्त’ क” ↩︎
-
“‘वृत्तो’ ख.” ↩︎
-
“अधु’ इति क्रिया.” ↩︎
-
" ‘श्लेषत्वम्’ खं." ↩︎
-
" ‘रन्तरश्च’ ख. " ↩︎
-
" ‘नाधे’ ख;‘नावे’ क" ↩︎
-
" सौ औकारसहितः । अथाधाकाररहितश्च ना" ↩︎
-
" ‘नवा’ क." ↩︎
-
“अवस्थापक्षिवाची वय शब्दः” ↩︎
-
“सालाना काननेन, अलकसहिताननेन च.” ↩︎
-
" ‘स्वगौ’ ख." ↩︎
-
“सामान्य’ क.” ↩︎
-
" ‘भृत.’ ग." ↩︎
-
" ‘त्पङ्गज’ क." ↩︎
-
" ‘सारसता’ ख." ↩︎
-
" ‘गेपणमु’ क." ↩︎
-
" ‘प्रकाशन’ ग." ↩︎
-
“‘धोपि’ क-ग. " ↩︎
-
“‘यत्र’ नास्ति क.” ↩︎
-
" ‘तामर्च’ क” ↩︎
-
“‘कारणत्व’ क.” ↩︎
-
“‘तच्चाभिन्नतत्तत्कारक’ क.” ↩︎
-
" ‘भयात्’ क- ग" ↩︎
-
“‘पकारक माला’ ख.” ↩︎
-
" ‘स्त्वन्यामेव’ क ‘स्त्वाद्यामेव’ ग." ↩︎
-
“‘किमहो’ ग.” ↩︎
-
“‘इत्यलकार’ ग” ↩︎
-
“‘रत्न चतुर्थम्’ क.” ↩︎
-
" ‘शिखीव’ ग" ↩︎
-
" ‘जम्बीरयुग्म’ ग." ↩︎
-
“‘मोचत्वच’ क-ग.” ↩︎
-
" ‘भृत. ’ क" ↩︎
-
" ‘कुर्यासेन’ ख-ग." ↩︎
-
" ‘हाटकेयम्’ ख-ग. " ↩︎
-
“.‘हस्तन्यस्ताज्वलति वसना’ ग.” ↩︎
-
“‘शार्ङ्ग’ ग.” ↩︎
-
" ‘प्रेक्षित’ ग." ↩︎
-
" ‘तत्पश्यामि’ ख." ↩︎
-
" ‘भीरु’ ख" ↩︎
-
“‘इत्यादिदर्शनातू’ ग.” ↩︎
-
“नाल’ क.” ↩︎
-
" ‘कृष्ट ’ क." ↩︎
-
“‘प्रयासै ’ ख; ‘प्रयत्नात्’ ग.” ↩︎
-
" ‘इत्यादि’ ग" ↩︎
-
" ‘पुष्प’ग" ↩︎
-
“गवाक्षाः । पूर्णा’ ग” ↩︎
-
" ‘दृष्टि.’ ग" ↩︎
-
" ‘व्रतीना’ क; ‘वृत्तीना’ ख." ↩︎
-
“‘प्रेक्षणी’ ख.” ↩︎
-
“‘पि’ ख” ↩︎
-
“‘मासि’ ग.” ↩︎
-
“‘स्थगितहृदय’ इति न ख ; ‘हृदय’ इति न. ग.” ↩︎
-
" ‘र्यशः’ ख." ↩︎
-
" ‘अणुकीयति’ ग" ↩︎
-
“कान्ता .ग” ↩︎
-
" ‘नास्या’ ख." ↩︎
-
“‘विधै.’’ क; ‘विषैः’ ग.” ↩︎
-
" ‘शालीनतापव्रजमस्तमानः’ ख." ↩︎
-
" इदमुत्तरार्धे क-ग-पुस्तकयोर्नास्ति" ↩︎
-
" इदमर्ध क-ग-पुस्तकयोर्नास्ति" ↩︎
-
" ‘साम्येन’ ग." ↩︎
-
" ‘इति’ क-ग." ↩︎
-
" ‘तीं बभाषे ग.’" ↩︎
-
“ग्न्यादि’ ग.” ↩︎
-
“‘पतिर्नि ’ ख.” ↩︎
-
" ‘पुसः ’ ग; ‘हस’ क." ↩︎
-
" ‘नदेष्वपि’ ग." ↩︎
-
“‘र्नम्रता तथा’ ग.” ↩︎
-
“. ‘नीरधि’ ख.” ↩︎
-
" ‘नभः पूर्तिरथोद्गमम्’ ग." ↩︎
-
" ‘चिह्नत्वेन’ ख-ग." ↩︎
-
“‘वर्ण्याच’” ↩︎
-
“‘कालान्तर’ ग.” ↩︎
-
“‘एषां विशेषवर्णनमाह’ ग.” ↩︎
-
" ‘प्रदर्श्यन्ते’ ख." ↩︎
-
" ‘चर्म’ ख" ↩︎
-
“‘मीन’ क, ‘वन’ ग.” ↩︎
-
" ‘छदस्मितार्का’ ख." ↩︎
-
“छदस्मितार्का.ख” ↩︎
-
" ‘अय’ ग; ‘लिफपीताद्या ’ क" ↩︎
-
“‘स्वर्दण्डेभर’ क-ग. " ↩︎
-
" ‘शस्त्री’, ‘शस्त्या’ ख” ↩︎
-
" ‘तापिञ्छ’ ख" ↩︎
-
“‘नीप’ ख.” ↩︎
-
" ‘मुपदिशनेव’ ख. ग." ↩︎
-
“तद्यथा- ग.” ↩︎
-
“‘ष्टकार’ क-ख.” ↩︎
-
" ‘तुण्ड’ ख." ↩︎
-
" ‘चिन्त खादेत धा०’ क ;‘चिन्तय धारय खादयेति धा०’ ग " ↩︎
-
“‘ध ‘क” ↩︎
-
“‘आरात्- अयुत - भिन्न - प्र’ क-ग” ↩︎
-
“‘कर्ता विषयमेति’ ग.” ↩︎
-
“‘यावककुसुमम्’ ग. " ↩︎
-
" नास्ति, ख; ‘यावत्’ ग.” ↩︎
-
“‘भावा’ ग.” ↩︎
-
" ‘चित्र’ ग" ↩︎
-
“पुस्तके नास्ति” ↩︎
-
“‘तत्र द्वन्द्व’ ग” ↩︎
-
" ‘ण्येन तत्तत्प्रका’ क" ↩︎
-
" ‘न्तमति’ ख. घ; ‘न्ते चातिदूरो’ ख-ग. " ↩︎
-
“‘तिमिर’ ख-ग.” ↩︎
-
“‘बलेष्टौ’ ख; ‘वलीन्द्रौ’ ग” ↩︎
-
" ‘हाटकेशाय’ क" ↩︎
-
" ‘तृतीया’ ग.स्वब्धि’ ग." ↩︎
-
“पुण्यङ्गमा’ क; ‘वराङ्गना’ ग, ‘पराङ्गना’ घ. " ↩︎
-
“‘स्वय शस्त्रो’ ग.” ↩︎
-
" ‘साधुवादस्तथा मतः’ ग; ‘साधुवादास्तथा मता.’ घ.” ↩︎
-
“विषयाभिप्रायेण स्मर्तव्या’ ख; ‘विशेषाभिप्रायेण स्मर्तव्यम्’ ग.” ↩︎
-
“प्रकृते’ ग.” ↩︎
-
“अनेनास्ति वर्णनम्’ ग” ↩︎
-
" ‘तस्यापि दोषानाह—‘ख, ‘तस्यापि दोषत्वाद्वा __न्ति’ ग" ↩︎
-
" ‘दोषवदिति’ क" ↩︎
-
" ‘तेषा व्यक्ति’ ख; ‘दोषो’ ग." ↩︎
-
“कृते’ क.” ↩︎
-
“‘मीमासकप्राप्तमहिमा’ ग. " ↩︎
-
" ‘महिमाह महाकवि : ’ ख.” ↩︎
-
“प्रसिद्ध्यौग.” ↩︎
-
“‘सजातीयेतरेण’ ग, ‘सजातीयरणेन च ’ ख-घ.” ↩︎
-
“‘योगाद्याश्चैव’ ग.” ↩︎
-
“‘चाष्टौ’ ख; ‘शेषा’ ग.” ↩︎
-
" ‘हसौ’ ख, ‘नसौ’ ग; ‘हशौ’ घ." ↩︎
-
" ‘ण’ क; ‘नश्च पर्य’ ख. " ↩︎
-
“. ‘तदङ्ग’ इति काव्यप्र०. ‘यदङ्गभङ्गी’ ग.” ↩︎
-
“‘क्रोधाग्निदूतः’ क” ↩︎
-
" ‘मुखो’ ग. " ↩︎
-
" ‘न शेषता’ ग." ↩︎
-
" ‘पदोऽप्येष’ ग; ‘पदेचैष’ घ." ↩︎
-
" ‘स्फूर्जत्काच’ ग." ↩︎
-
" ‘रसहा’ ग." ↩︎