[[अलङ्कारमणिहार लक्षणश्लोकाः Source: EB]]
[
** श्रीः
अलङ्कारमणिहार लक्षणश्लोकाः**
जयतु श्रीवृषाद्रिस्थं जगत्रितयरक्षणम्।
वदान्यं परमं ब्रह्म वक्षोलऽङ्कारलक्षणम्॥
(1) उपमा
उद्भूता भाति साम्यश्रीरुभयोर्यत्र सोपमा।
वाक्यार्थोपस्कारकं यत्सादृश्यं चारु सोपमा॥
पूर्णा लुप्तेत्यलङ्कारतत्त्वज्ञैस्सा द्विधोदिता।
उपमानं चोपमेयं धर्मो वाचकमित्यदः॥
चतुष्टयमुपात्तं चेत्सा हि पूर्णोपमा मता।
वर्ण्योपमानयोर्द्धर्मोपमावाचकयोरपि॥
एकद्वित्र्यनुपादाने भवेल्लुप्तोपमाऽष्टधा।
वाचकस्यात्र धर्मस्य धर्मवाचकयोस्तथा॥
वर्ण्यवाचकयोर्लोपे तत्तल्लुप्ताः खलूपमाः।
उपमानस्य लोपे तु तल्लुप्ता पञ्चमी स्मृता॥
प्रोक्ता षष्ठी वाचकोपमानलुप्तेति कोविदैः।
धर्मोपमानलुप्ताऽन्या लोपे धर्मोपमानयोः॥
अष्टमी धर्मोपमानवाचकानां विलोपने।
एवं कुवलयानन्दप्रकारेणोपमोदिता॥
प्राचां मते विभागोऽस्या उपमायाः प्रपञ्च्यते।
पूर्णा लुप्तेति भेदेन द्विविधा सा तयोः पुनः॥
श्रोत्यार्थीति द्विधा पूर्णा वाक्यगा च समासगा।
तद्धितस्थेति च त्रेधा ते द्वे स्यातां पृथक्पृथक्॥
यथेववादिशब्दानां साक्षात्सादृश्यवाचिनाम्।
उपादाने भवेच्छ्रौतीत्याहुश्शास्त्रविचक्षणाः॥
ये धर्मिव्यवधानेन सादृश्यप्रतिपादकाः।
सदृङ्निभादिशब्दानां तेषामार्थी प्रयोगतः॥
त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा।
एकरूपा त्रिलुप्तेति लुप्ता सामान्यतोऽष्टधा॥
धर्मस्याथोपमानस्य वाचकस्य विलोपने।
त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा॥
धर्मवाचकयोर्लोपे तथा धर्मोपमानयोः।
वर्ण्यवाचकयोस्तद्वद्वाचकावर्ण्ययोरपि॥
त्रिलुप्ता त्वेकधा धर्मवाचकावर्ण्यलोपतः।
क्रमेण धर्मलुप्तादेर्विभागोऽथ प्रदर्श्यते॥
पूर्णावद्धर्मलुप्ताऽपि श्रोर्त्यार्थीति द्विधा भवेत्।
तत्र श्रौती तद्धिते तु न स्यादन्वयहानतः॥
लुप्तोपमाना द्विविधा वाक्यगा च समासगा।
वादिलुप्ता समासे स्यात्कर्माधारक्यचोः क्यङि॥
कर्मकर्त्रोर्णमुलि च णिनौ क्विपि च तद्धिते।
एवं नवप्रकारैषा ज्ञेया वाचकलोपिनी॥
धर्मवाचकलुप्ता तु वर्णिता क्विप्समासयोः॥
धर्मोपमानलुप्ता तु वाक्ये वृत्तौ च तद्धिते॥
क्वचिल्लुप्ता वाचकोपमेयाभ्यामपि संमता।
क्वचित्समास एव स्याद्वाचकावर्ण्यलोपिनी॥
या धर्मवाचकावर्ण्यलुप्ता सा स्यात्समासगा।
एवमष्टविधा लुप्ताः प्राचां रीत्या निरूपिताः॥
एकस्यैवोपमेयस्य यद्यनेकोपमानता।
तदा मालोपमामेतामाहुः केचिद्विचक्षणाः॥
पूर्वपूर्वोपमेयस्य भवेद्यद्युत्तरोत्तरम्।
उपमानत्वमेषोक्ता कविभी रशनोपमा॥
(2) उपमेयोपमाः
उपमेयोपमा सा स्यादुपमानोपमेययोः।
पूर्वयोर्वैपरीत्यं चेत्परतः पुनरुच्यते॥
(3) अनन्वयः
अनन्वयो यदेकस्यैवोपमानोपमेयता॥
(4) असमः
उपमायास्सर्वथैव निषेधोऽसम उच्यते।
प्राञ्चो नेदमलङ्कारान्तरमित्येव मन्वते॥
(5) उदाहरणम्
सामान्योक्तसुबोधाय तदेकांशनिरूपणात्।
उक्ते तयोरवयवावयवित्व उदाहृतिः॥
(6) प्रतीपम्
प्रतीपमुपमानस्य वर्ण्या चेदुपमेयता।
अवर्ण्यस्योपमेयस्य लाभाद्वर्ण्यतिरस्कृतिः॥
लाभाद्वर्ण्योपमेयस्य स्यादन्यानादरश्च तत्।
उपमाया अनिष्पत्तिर्वर्ण्येनान्यस्य चापि तत्॥
उपमानस्य कैमर्थ्यं प्रतीपं पञ्चमं विदुः।
(7) रूपकं
यत्स्याद्विषयिरूपेण विषयस्योपरञ्जनम्।
रूपकं तद्द्विधाऽभेदताद्रूप्यावसितं विदुः॥
आरोपे सत्यभेदस्याभेदरूपकमुच्यते।
ताद्रूप्यरूपकं तत्स्यात्ताद्रूप्यस्य स चेद्भवेत्॥
तद्द्वयं च त्रिधाऽऽधिक्यन्यूनत्वानुभयोक्तिभिः।
पूर्वावस्थात आरोप्यमाणस्याधिक्यवर्णनम्॥
वर्ण्यायां चेदवस्थायामधिकाभेदरूपकम्।
न्यूनता प्रागवस्थातश्चेन्न्यूनाभेदरूपकम्॥
आधिक्यन्यूनताभावेऽनुभयाभेदरूपकम्।
ताद्रूप्यरूपकेऽप्येवं त्रैविध्यं सद्भिरूह्यताम्॥
प्राचां मते विभागोऽपि रूपकस्य निरूप्यते।
त्रिधा साङ्गं निरङ्गं च परम्परितमित्यदः॥
समस्तवस्तुविषयमेकदेशविवर्ति च।
इति सावयवं चापि द्विविधं तत्र रूपकम्॥
यत्परस्परसापेक्षनिप्पत्तीनां निबध्यते।
रूपकाणां तु संघातो भवेत्सावयवं हि तत्॥
निरूपणेऽवयविनोऽवयवानां च शब्दतः।
समस्तवस्तुविषयं भवेत्सावयवं हि तत्॥
आरोप्यमाणं शाब्दं चेत्क्वचिदार्थं च कुत्रचित्।
एकदेशविवर्त्याख्यमिदं सावयवं विदुः॥
निरङ्गं तद्विदुर्यत्स्यादङ्गिमात्रस्य रूपणम्।
तद्द्विधा केवलं मालारूपं चेति सतां मतम्॥
एकं विषयि यद्यन्यविषय्यन्वितमुच्यते।
कार्यकारणभावेन स्यात्परम्परितं तदा॥
श्लिष्टाश्लिष्टविभेदन तत्परम्परितं द्विधा।
केवलं मालिका चेति तद्द्वयं द्विविधं भवेत्॥
एवमष्टविधं प्राचां मते रूपकमिष्यते।
(8) परिणामः
विषयी स्वात्मना यत्र प्रकृतानुपयोगतः।
विषयात्मत्वमभ्येति परिणामस्स ईरितः॥
(9) उल्लेखः
ग्रहीतृभिरनैकैर्यदेकस्यानेकधा ग्रहः।
रुच्यादिकारणवशात् तमुल्लेखं प्रचक्षते॥
एकस्य विषयादीनामनेकत्वनिबन्धम्।
नैकधात्वं ग्रहीत्रैक्येऽप्युल्लेखस्सोऽपि संमतः॥
(10) स्मृतिः
या सादृश्यपरिज्ञानोद्बुद्धसंस्कारतस्स्मृतिः।
प्रयोज्या सा स्मृतिर्नामालङ्कृतिः कथ्यते बुधैः॥
(11) भ्रान्तिः
चमत्कृतिमती भ्रान्तिर्यस्मिन् सादृश्यहेतुका।
अनूदिता स्यात्सन्दर्भे तमाहुर्भ्रान्तिमानिति॥
(12) सन्देहः
सम्भावनानिश्चयान्यतरभिन्ना मनोरमा।
सादृश्यहेतुका बुद्धिःसन्देहालङ्कृतिर्मता॥
(13) अपह्नुतिः
आहार्याभेदबुद्धेश्चेन्निषेधोऽङ्ग्यङ्गमेव वा॥
एतां सामान्यतः प्राहुरपह्नुतिमलङ्कृतिम्॥
अन्यारोपफलो यस्स्यात्प्रकृते धर्मनिह्नवः।
अलङ्कृतिरियं शुद्धापह्नुतिर्नाम गद्यते॥
स एवापह्नवो युक्तिपूर्वश्चेद्धेत्वपह्नुतिः।
पर्यस्तापह्नुतिर्यत्र क्वचित्तद्धर्मनिह्नवः॥
वर्णनीये तदारोपफलको वर्ण्यते यदि।
भ्रान्तेर्निवारणेऽन्यस्य शङ्कायां भ्रान्त्यपह्नुतिः॥
अन्यस्य शङ्कया छेकापह्णुतिस्तथ्यनिह्नुतौ।
छलच्छद्मनिभाद्यैश्च वपुरात्मादिकैः पदैः।
निह्नुतिश्चेदभिव्यङ्ग्या कैतवापह्नुतिर्हि सा॥
(14) उत्प्रेक्षा
यदन्यधर्मसंबन्धादन्यस्यान्यत्वतर्कणम्।
सोत्प्रेक्षोक्ता त्रिधैषा स्याध्वस्तुहेतुफलात्मना॥
उक्तानुक्तास्पदत्वेन वस्तूत्प्रेक्षा द्विधा मता।
हेतुत्प्रेक्षाफलोत्प्रेक्षे सिद्धासिद्धास्पदत्वतः॥
(15) अतिशयोक्तिः
निगीर्य विषयं यत्र विषय्येवाध्यवस्यते।
रूपकातिशयोक्तिं तामलङ्कारविदो विदुः॥
उक्ता सापह्नवा सैव यद्यपह्नुतिगर्भिता।
भेदकातिशयोक्तिर्यत्प्रस्तुतस्यान्यतोच्यते॥
असंबन्धेऽपि संबन्धो वर्ण्योत्कृष्ट्यै यदीर्यते।
संबन्धातिशयोक्तिं तामलङ्कारविदो जगुः॥
योगेऽप्ययोगोऽसंबन्धातिशयोक्तिरुदीर्यते।
हेतुकार्यसहत्वे स्यात्सेयमक्रमपूर्विका॥
हेतुप्रसक्तिमात्रेण कार्यं चेद्विनिबध्यते।
चपलातिशयोक्तिस्सा निपुणैर्विनिगद्यते॥
हेतोः कार्यस्य च स्याच्चेत्पौर्वापर्यविपर्ययः।
अत्यन्तातिशयोक्तिं तामाहुः काव्यविचक्षणाः॥
(16) तुल्ययोगिता
वर्ण्यानामेव वाऽन्येषामेव वा धर्म एककः।
अन्वितो वर्ण्यते यत्र तत्र स्यात्तुल्ययोगिता॥
हितोऽहिते च यद्वृत्तेस्तौल्यं सा त्वपरा मता।
यदुत्कृष्टगुणैस्साम्यवचनं साऽपरा मता॥
(17) दीपकम्
तद्दीपकं स्याद्यद्वर्ण्यावर्ण्ययोरेकधर्मता॥
(18) आवृत्तिदीपकम्
समस्तयोर्व्यस्तयोर्वाऽऽवृत्तौ पदतदर्थयोः।
आवृत्तिदीपकं प्राहुस्त्रिविधं बुधसत्तमाः॥
(19) प्रतिवस्तूपमा
सादृश्यावसिते वाक्यद्वये चेद्धर्म एककः।
द्विरुपात्तो भवेत्सा तु प्रतिवस्तूपमोच्यते॥
(20) दृष्टान्तः
बिम्बत्वप्रतिबिम्बत्वापन्नधर्मादिकं द्वयोः।
वाक्यार्थयोश्चेदौपम्यमार्थं दृष्टान्त ईर्यते॥
(21) निदर्शना
उपात्तयोरर्थयोश्चेदार्थाभेदः प्रकीर्त्यते।
औपम्यपर्यवसितो भवेत्सेयं निदर्शना॥
पदार्थपूर्वा साऽन्या स्यादुपमानोपमेययोः।
यत्रान्यतरधर्मस्यान्यत्रारोपणमुच्यते॥
सदसद्बोधनं स्याच्चेत्क्रिययाऽन्या निदर्शना॥
(22) व्यतिरेकः
उक्तः कश्चिद्विशेषश्चेदुपमानोपमेययोः।
तमाहुर्व्यतिरेकाख्यमलंकारं विचक्षणाः॥
उपमेयस्योपमानाद्यदा गुणविशेषतः।
उत्कर्षो वर्ण्यते प्राहुर्व्यतिरेकं तदा बुधाः॥
(23) सहोक्तिः
गुणप्रधानताभाजोरर्थयोरुभयोर्यदा।
वर्ण्यस्सहार्थसंबन्धस्सहोक्तिं तां तदा विदुः॥
(24) विनोक्तिः
किंचिद्विना प्रस्तुतस्य रम्यताऽरम्यताऽपि वा।
निबध्यते यदि तदा सा विनोक्तिरलंकृतिः॥
(25) समासोक्तिः
साम्याद्भेदकमात्रस्य गम्यमप्रस्तुतं यदि।
समासोक्तिमिमां प्राहुः प्राञ्चोऽलंकारवेदिनः॥
(26) परिकरः
साभिप्राये परिकरोऽलंकारस्स्याद्विशेषणे।
(27) परिकराङ्कुरः
विशेष्यं यदि साकूतं भवेत्परिकराङ्कुरः॥
(28) श्लेषः
वर्ण्यावर्ण्योभयालम्बी श्लेषोऽनेकार्थसंश्रयः।
आद्योऽष्टधा वर्णपदलिङ्गभाषाविभक्तिभिः॥
प्रकृतिप्रत्ययाभ्यां च वचनैश्लेष ईरितः।
विभक्त्यादिवशाद्यत्र नानावर्णैकरूपता॥
श्रूयते स हि विद्वद्भिर्वर्णश्लेष इतीर्यते।
पदश्लेषस्स यश्श्लेषः पदभेदनिबन्धनः॥
लिङ्गश्लेषस्स विज्ञेयो ह्रस्वदीर्घसमासतः।
स्त्रीपुंनपुंसकानां चेच्छब्दानां तुल्यरूपता॥
भाषाश्लेषस्तु भिन्नार्थनानाभाषैक्यतो भवेत्।
सुपा तिङां च श्लेषश्चेद्विभक्तिश्लेष ईरितः॥
अश्लिष्टप्रत्ययकृता प्रकृत्योश्चेत्सरूपता।
स एष प्रकृतिश्लेषो द्विधा सुप्तिङपेक्षया॥
प्रकृतिप्रत्ययौघस्यानेकस्य प्रत्ययैर्यदि।
श्लिष्टैस्सरूपता सोऽयं प्रत्ययश्लेष उच्यते॥
स भवेद्वचनश्लेषश्श्लिष्यन्ति वचनानि चेत्॥
(29) अप्रस्तुतप्रशंसा
स्यात्प्रस्तुतस्य गमकं यत्राप्रस्तुतवर्णनम्।
अप्रस्तुतप्रशंसाख्या सैषाऽलंकृतिरुच्यते॥
कार्ये हेतौ तथा व्याप्ये व्यापके प्रस्तुतेऽन्यगीः।
समे समस्य चेत्येवं सैषा भवति पञ्चधा॥
(30) प्रस्तुताङ्कुरः
प्रस्तुतस्य प्रस्तुतेन व्यञ्जने प्रस्तुताङ्कुरः॥
(31) पर्यायोक्तम्
पर्यायोक्तं त्वन्यभङ्ग्या कथितं चेद्विवक्षितम्।
व्याजेन रमणीयेन यदि स्वस्य परस्य वा॥
साध्यतेऽभीप्सितं तच्च पर्यायोक्तं विदुर्बुधाः॥
(32) व्याजस्तुतिः
स्तुत्याऽभिव्यज्यते निन्दा निन्दया वा स्तुतिर्यदि।
तत्र व्याजस्तुतिं नाम प्राज्ञाः प्राहुरलंकृतिम्॥
स्तुत्या निन्दा निन्दया वा स्तुतिर्भिन्नैकगोचरा।
व्यङ्ग्या विभिन्नाविषया स्तुत्या व्याजस्तुतिस्स्तुतिः॥
(33) व्याजनिन्दा
व्याजनिन्दा तु निन्दाया निन्दया व्यङ्ग्यता यदि॥
(34) आक्षेपः
स आक्षेपो भवेत्स्वोक्तिनिषेधो यो विमर्शतः।
निषेधो यो बाधितस्सन् विशेषं कंचिदाक्षिपेत्॥
वक्ष्यमाणोक्तविषयं तमाक्षेपं परे जगुः।
निषेधाभासद्विध्याभासोऽप्याक्षेप इष्यते॥
(35) विरोधः
स विरोधोऽविरोधेऽपि विरोधाभासता यदि।
जात्यादीनां स्वस्वपरसंबन्धादृशधा भवेत्॥
(36) विभावना
कारणव्यतिरेकेऽपि कार्योत्पत्तिर्विभावना।
कारणानामसामग्र्ये कार्यजन्म च सा मता॥
तृतीया प्रतिबन्धेऽपि कार्योत्पत्तिर्विभावना।
विभावना चतुर्थी स्यात्कार्योत्पत्तिरकारणात्॥
कार्योत्पत्तिर्विरुद्धाच्चेत्पञ्चमी सा विभावना।
कारणस्योद्भवः कार्याद्यदि षष्ठी विभावना॥
(37) विशेषोक्तिः
विशेषोक्तिः पुष्कलेऽपि हेतौ कार्यं न चेद्भवेत्॥
(38) असंभवः
असंभाव्यत्वकथनमर्थासिद्धेरसंभवः॥
(39) असंगतिः
भिन्नाधिकरणत्वं यद्विरुद्धं हेतुकार्ययोः।
वर्ण्यते तमलंकारं प्राज्ञाः प्राहुरसंगतिम्॥
कार्यमन्यत्र यत्तस्य ततोन्यत्र क्रियापि सा॥
कर्तुमन्यत्प्रवृत्तस्य तद्विरुद्धक्रिया च सा॥
(40) विषमम्
अनारूप्यभाजोर्यद्घटनं विषमं हि तत्।
विलक्षणस्य कार्यस्योत्पत्तिं च विषमं विदुः।
इष्टार्थोद्योगतोऽनिष्टावाप्तिश्च विषमं मतम्॥
(41) समम्
यत्रानुरूपघटनं वर्ण्यते तत्समं विदुः।
समं तदपि कार्यस्य सारूप्यं कारणेन यत्॥
यत्किञ्चिदिष्टसिद्ध्यर्थं य उद्योगो वितन्यते।
अनिष्टेन विना तस्य सिद्धिश्च सममुच्यते॥
(42) विचित्रम्
इष्टैणेष्टसिद्ध्यै तद्विपरीतं क्रियेत चेत्।
प्रयत्नस्तामिमां प्राहुर्विचित्रालंकृतिं बुधाः॥
(43) अधिकम्
आधेयाधिक्यकथनमाधारान्महतोऽधिकम्।
आधाराधिक्यकथनमाधेयाद्विपुलाच्च तत्॥
(44) अल्पम्
आधारसौक्ष्म्यमाधेयात्सूक्ष्मादल्पं तदुच्यते।
सूक्ष्मादाधारतस्सौक्ष्म्यमाधेयस्य च तद्भवेत्॥
(45) अन्योन्यम्
विशेषाधानमन्योन्यमन्योन्यालंकृतिं विदुः।
(46) विशेषः
विशेषस्स्याद्विनाऽऽधारादाधेयं वर्ण्यते यदि॥
यत्रैकमेव युगपदनेकाधारसंश्रयम्।
आधेयं वर्ण्यते सोपि विशेषः परिकीर्तितः॥
किंचित्कार्यारम्भमात्रादन्यत्कार्यं सुदुष्करम्।
कृतं निबध्यते यत्र विशेषस्सोपि संमतः॥
(47) व्याघातः
तत्कार्यसाधनं वस्तु तद्विरुद्धस्य साधनम्।
क्रियते चेत्तदा ख्यातो व्याघातोऽसावलंकृतिः॥
पराभिमतकार्यस्य विरुद्धा केनचित् क्रिया।
सौकर्यतो निबद्धा चेद्व्याघातस्सोपि कथ्यते॥
यद्युत्तरोत्तरस्य स्यात्पूर्वपूर्वानुबन्धिता।
अर्थेषु पङ्क्तिबद्धेषु व्यत्ययो वाऽपि शृङ्खला॥
(48) कारणमाला
पूर्वपूर्वैर्वस्तुभिस्स्यादुत्तरोत्तरकारणैः।
गुम्भः कारणमालैषा वैपरीत्येऽपि चेष्यते॥
(49) एकावली
उत्तरस्योत्तरस्य स्यात्पूर्वं पूर्वं विशेषणम्।
विशेष्यं वा यदा प्राहुरिमामेकावलीं तदा॥
(50) मालादीपकम्
मालादीपकमेतत्स्याद्दीपकैकावलीयुतेः।
(51) सारः
सैवोत्तरोत्तरोत्कर्षे सार इत्युच्यते बुधैः।
(52) यथासंङ्ख्यम्
उद्देशक्रमतोऽर्थानां संबन्धो यत्र कथ्यते।
प्राञ्चस्तत्र यथासंख्यमपरे क्रममूचिरे॥
(53) पर्यायः
आधेयस्य क्रमादेकस्यानेकाधारसंश्रयः।
वर्ण्यते यत्र तत्रोक्ता पर्यायोऽयमलंकृतिः॥
क्रमादाधार एकस्मिन्नाधेयानेकताऽपि सः॥
(54) परिवृत्तिः
निमयः परिवृत्तिस्स्यादर्थानां स्यात्समासमैः।
(55) परिसंख्या
एकस्यानेकसंप्राप्तौ यदेकत्र नियन्त्रणम्।
परिसंख्येति तत् प्राहुरलंकाराध्वयायिनः॥
(56) विकल्पः
विकल्पः पाक्षिकप्राप्तिर्वर्ण्यते चेद्विरुद्धयोः।
(57) समुच्चयः
यौगपद्यात्पदार्थानामन्वयस्स्यात्समुच्चयः।
(58) कारकदीपकम्
क्रमिकाणां क्रियाणां चेदेककारकगामिनाम्।
गुम्भनं क्रियते तत्तु भवेत्कारकदीपकम्॥
(59) समाधिः
कारणान्तरसान्निध्यवशात्कार्यस्य कस्यचित्।
सौकर्यं वर्ण्यते यत्र समाधिस्तत्र गीयते॥
(60) प्रत्यनीकम्
बलिनि प्रतिपक्षे वा तत्पक्षे वा तिरस्कृतिः।
तत्प्रतिद्वन्द्विसाह्यं वा प्रत्यनीकमितीर्यते॥
(61) काव्यार्थापत्तिः
दण्डापूपिकया यत्रार्थान्तरापतनं भवेत्।
काव्यार्थापत्तिरेषा स्यादलंकारविदां मता॥
अर्थेन केनचित्तुल्यन्यायादर्थान्तरस्य चेत्।
आपत्तिः कथ्यते सैषा काव्यार्थापत्तिरुच्यते॥
(62) काव्यलिङ्गम्
यत्सामान्यविशेषत्वानालीढं स्यात्समर्थनम्।
समर्थनीयस्यार्थस्य काव्यलिङ्गं तदुच्यते॥
(63) अर्थान्तरन्यासः
समर्थनं विशेषस्य सामान्येनास्य तेन वा।
आहुरर्थान्तरन्यासं साधर्म्येणेतरेण वा॥
(64) विकस्वरः
सामान्येन विशेषस्य क्रियते यत्समर्थनम्।
पुनस्तस्य विशेषेण स विकस्वर ईर्यते॥
(65) प्रौढोक्तिः
यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम्।
प्रौढोक्तिरेषा कथिता जयदेवमुखैर्बुधैः॥
(66) सम्भावना
सम्भावनं स्याद्यद्येवं स्यादित्यूहोऽन्यसिद्धये॥
(67) मिथ्याध्यवसितिः
मिथ्यार्थोऽन्यः कल्प्यते चेत्किञ्चिन्मिथ्यात्वसिद्धये।
मिथ्याध्यवसितिर्नाम सालंकृतिरुदाहृता॥
(68) ललितम्
धर्मिणि प्रस्तुते वर्ण्यवृत्तान्तोल्लेखनं विना।
तत्र तत्प्रतिबिम्बस्य वर्णनं ललितं मतम्॥
(69) प्रहर्षणम्
विना यत्नादभीष्टार्थसिद्धिस्स्याच्चेत्प्रहर्षणम्।
अभीप्सितार्थादधिकलाभश्चापि प्रहर्षणम्॥
(70) विषादनम्
यदभीष्टविरुद्धार्थलाभस्तत्स्याद्विषादनम्।
(71) उल्लासः
यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः।
आधानं वर्ण्यते प्राहुरुल्लासालंकृतिं तु ताम्॥
(72) अवज्ञा
न स्यातां यदि ते ताभ्यां साऽवज्ञालंकृतिर्भवेत्।
(73) अनुज्ञा
अनुज्ञा सा गुणौत्सुक्याद्दोषस्याभ्यर्थना यदि।
(74) तिरस्कृतिः
गुणस्य दोषसंबन्धाद्दोषश्चेत्सा तिरस्कृतिः।
(75) लेशः
गुणो दोषतया दोषो गुणत्वेनाथवा यदि।
वर्ण्यते तमंलकारं लेशमाहुर्मनीषिणः॥
(76) मुद्रा
प्रकृतार्थपरैश्शब्दैर्मुद्रा सूच्यार्थसूचनम्।
(77) रत्नावली
प्रसिद्धसहपाठानामर्थानां न्यसनं यदि।
रत्नाली सा विख्याता सक्रमाक्रमताभिदा॥
(78) तद्गुणः
स्वगुणस्य परित्यागात्तद्गुणोऽन्यगुणग्रहः।
(79) पूर्वरूपम्
स्वगुणस्य पुनः प्राप्तिः पूर्वरूपमितीर्यते॥
यत्तु स्याद्विकृतेऽप्यर्थे पूर्वावस्थानुवर्तनम्।
पूर्वरूपं तमप्याहुरलंकृतिविशारदाः॥
(80) अतद्गुणः
अतद्गुणं सङ्गतान्यगुणानङ्गीकृतिं विदुः।
(81) अनुगुणः
स्वसजातीयगुणवदन्यसान्निध्यतो यदि।
उत्कर्षः पूर्वसिद्धस्य गुणस्यानुगुणं हि तत्॥
(82) मीलितम्
न दृश्यते भेद एव सादृश्याद्यदि मीलितम्।
वस्तुतुल्येन लिङ्गेन निजेनागन्तुकेन वा॥
पिधीयते वस्तुना चेन्मीलितं तदुदाहृतम्॥
(83) सामान्यम्
न गृह्यते विशेषश्चेत्साम्यात्सामान्यमीरितम्।
गुणतौल्यविवक्षातः परस्य प्रस्तुतेन यत्॥
ऐकात्म्यमुच्यते योगात्सामान्यं तदुदीरितम्॥
(84) उन्मीलितम्
स्फूर्तौ समानगुणयोर्भेदस्योन्मीलितं विदुः।
(85) विशेषकम्
द्वयोर्वेधर्म्यसंस्फूर्त्तौ तुल्ययोस्स्याद्विशेषकः।
(86) उत्तरम्
उन्नतिप्रश्नमथवा निबद्धप्रश्नमुत्तरत्।
साकूतमुच्यते यत्र तत्रोत्तरमुदीरितम्॥
चित्रोत्तरमलंकारः प्रन्नाभिन्नोत्तरं भवेत्।
यच्चोत्तरान्तराभिन्नमुत्तरं तदपीष्यते॥
(87) चित्रप्रश्नः
प्रश्नः प्रश्नान्तराभिन्नो यदि वान्यार्थगर्भितः।
निबध्यते तं कतिचिच्चित्रप्रश्नाख्यमूचिरे॥
(88) सूक्ष्मम्
अन्याशयज्ञसाकूतचेष्टितं सूक्ष्ममीर्यते ।
(89) पहितम्
परवृत्तज्ञसाकूतचेष्टितं पिहितं मतम्॥
(90) व्याजोक्तिः
हेत्वन्तरोक्त्या व्याजोक्तिर्यदाकारस्य गूहनम्।
(91) गूढोक्तिः
गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि॥
(92) विवृतोक्तिः
विवृतोक्तिश्लेषगूढं विवृतं कविना यदि।
(93) युक्तिः
युक्तिस्स्यान्मर्मणो गुप्त्यै क्रियया परवञ्चनम्॥
(94) लोकोक्तिः
लोकोक्तिस्स्यादसौ लोकप्रवादानुकृतिर्यदि।
(95) छेकोक्तिः
स्याच्चेल्लोकोक्तिरन्यार्थगर्भा छेकोक्तिरिष्यते॥
(96) वक्रोक्तिः
अन्याभिप्रायकान्योक्तमन्यथाऽन्येन योज्यते।
श्लेषेण यदि काक्वा वा सा वक्रोक्तिरितीर्यते॥
(97) स्वभावोक्तिः
जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते।
(98) भाविकम्
वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी॥
प्रत्यक्षे इव दृश्येते यत्र तद्भाविकं मतम्।
(99) उदात्तम्
तदुदात्तं वस्तु यत्र वर्ण्यते सुसमृद्धिमत्।
अन्योपलक्षणं श्लाघ्यचरित्रं वा निबध्यते॥
(100) अत्युक्तिः
अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते।
(101) निरुक्तिः
सा निरुक्तिर्योगतो यन्नाम्नोऽर्थान्तरकल्पनम्॥
(102) प्रतिषेधः
प्रतिषेधः प्रतीतस्य प्रतिषेधस्य वर्णनम्॥
(103) विधिः
सा विध्यलकृतियत्र सिद्धमेव विधीयते॥
(104) हेतुः
साकं हेतुमता हेतुरुक्तश्चेद्धेतुरीरितः।
केचिद्धेतुमतो हेतोश्चैक्यं हेतुं बुधा जगुः॥
इत्थं यथामति प्राचामर्वाचां च मतान्यलम्।
प्रविचार्य शतं साग्रमलङ्कारा निरूपिताः॥
रसभावतदाभासभावशान्तिनिबन्धनाः।
रसवत्प्रेयऊर्जस्विसमाहितमिति श्रुताः॥
अपराङ्गव्यङ्ग्यभेदा ये प्रोक्ताः प्राक्तनैर्बुधैः।
अलंकारत्वमापन्नाश्चत्वारस्तेऽतिसुन्दराः॥
भावस्य चोदयस्सन्धिश्शबलत्वमिति त्रयः।
एवं सप्ताप्यलंकारा निरूप्यन्तेऽपरेऽधुना॥
(105) रसवान्
रसे रसाङ्गे भावाङ्गेऽप्येष्वाहू रसवद्बुधाः।
(106) प्रेयः
यदि भावरसाङ्गत्वं भावस्य प्रेय इष्यते॥
(107) ऊर्जस्वी
भावाङ्गतां रसाभासो भावाभासोऽथवाऽश्नुते।
यदा तदेयमूर्जस्विनामाऽलंकृतिरुच्यते॥
(108) समाहितम्
समाहितं भावशान्तेर्भावाङ्गत्वे त्वलंकृतिः।
(109) भावोदयः
भावोदयस्य भावाङ्गभावे भावोदयो मतः॥
(110) भावसन्धिः
भावाङ्गत्वे भावसन्धेर्भावसन्धिरलंकृतिः।
(111) भावशबलता
भावाङ्गे भावशाबल्ये भावशाबल्यमुच्यते॥
प्रत्यक्षादिप्रमाणानां स्याच्चमत्कारिता यदि।
तदा प्रमाणालङ्कारानष्टौ प्राहुः परे बुधाः॥
(112) प्रत्यक्षम्
अर्थानामिन्द्रियाणां च सन्निकर्षेण यद्भवेत्।
ज्ञानं तदाहुः प्रत्यक्षं चारु चेत्तदलंकृतिः॥
(113) अनुमानम्
अनुमानं लिङ्गजन्यलिङ्गिज्ञानमुदाहृतम्।
(114) उपमानम्
संज्ञायास्संज्ञिनश्चापि संबन्धप्रत्ययो हि यः।
सादृश्यज्ञानकरण उपमानं तदुच्यते॥
(115) शब्दप्रमाणम्
स शब्दो यत्तु शब्दस्य प्रमाणत्वेन कीर्तनम्।
श्रुतिस्मृतीतिहासादिरूपः शब्द इतीर्यते॥
(116) अर्थापत्तिः
अन्यथाऽनुपपत्त्या यत्किञ्चिदर्थस्य कल्प्यते।
अर्थान्तरं तां कथयन्त्यर्थापर्त्तिं विचक्षणाः॥
(117) अनुपलब्धिः
यद्योग्यानुपलब्धेस्स्यादभावस्यावधारणम्।
कृतिनोऽनुपलब्धिः तां रम्यां विदुरलंकृतिम्॥
(118) संभवः
सम्भवोऽधिकसद्भावान्न्यूनस्थित्यवधारणम्।
(119) ऐतिह्यम्
यत्रेतिहोचुरित्याद्यमनिर्दिष्टप्रवक्तृकम्।
पारम्पर्यं प्रवादस्य तत्रैतिह्यमलंकृतिः॥
(120) संसृष्टिः
अलंकृतीनां सर्वासां यथासंभवमेलने।
लौकिकानामिवैतासां चारुताशियेक्षणात्॥
नरसिंहप्रक्रियया भात्यलंकारता पृथक्।
अतस्तन्निर्णयं प्राचां मतेनात्राभिदध्महे॥
तिलतण्डुलससंर्गरीत्या यत्रेतरेतरम्।
संसृज्येरन्नलंकारास्सा संसृष्टिरितीर्यते॥
शब्दालंकारयोरर्थालंकृत्योश्च परस्परम्।
उभयोरपि संसृष्टिरिति सा त्रिविधा मता॥
(121) सङ्करः
यत्रान्योन्यमलंकाराः क्षीरनीरनयादमी।
संकीर्येरन् संकरोऽयीमति काव्यविदो विदुः॥
सोऽयमङ्गाङ्गिभावेन समप्राधान्यतस्तथा।
संदेहेन तथा चैकवाचकानुप्रवेशतः॥
चतुर्धा सङ्करः प्रोक्तश्श्रीमदप्पयदीक्षितैः।
एवं नृसिंहाकृतयः पञ्चालंकृतयो मताः॥
अङ्गाङ्गिभावसङ्करः
अप्रधानालंक्रियया प्रधानालंक्रिया यदि।
उज्जीव्येत तदाऽङ्गाङ्गिभावसङ्कर इष्यते॥
समप्राधान्यसंकरः
अन्यालंकारगर्भैवोन्नह्यते काऽप्यलंकृतिः।
अन्यया तुल्यकालं चेत्समप्राधान्यसङ्करः॥
ऐककालिकताभावेऽप्यलंकाराद्वयं यदि।
एकेनोन्नह्यते सोपि समप्राधान्यसंकरः॥
संदेहसंकरः
साधकं बाधकं वाऽपि यत्रान्यतरसङ्ग्रहे।
प्रमाणं नैव दृश्येत स्यात्स संदेहसंकरः॥
एकवाचकानुप्रवेशसङ्करः
अभिन्नपदबोध्यास्स्युर्नानालंकृतयो यदि।
तदैकवाचकानुप्रवेशसंकर इष्यते॥
अर्थयोश्शब्दयोश्शब्दार्थयोर्वाऽप्येकवाचके।
अनुप्रवेशतस्सोऽयं त्रिविधः परिकीर्तितः॥
(122) शब्दालङ्कारः
इत्थमर्थालंकृतयो यथामति निरूपिताः।
निरूप्यन्तेऽथ दिङ्मात्रं शब्दालंकृतयः क्रमात्॥
साम्यं व्यञ्जनमात्रस्य वर्णानुप्रास ईरितः।
द्विधा भवेदयं छेकवृत्त्यनुप्रासभेदतः॥
छेकानुप्रासः
छेकानुप्रासमाहुर्यत्साम्यं व्यञ्जनयोस्सकृत्।
द्वयोर्द्व्योर्व्यञ्जनयोर्युग्मयोर्या निरन्तरा।
आवृत्तिः क्रियतो सोयं छेकानुप्रास ईर्यते॥
वृत्त्यनुप्रासः
उल्लङ्घ्य सङ्ख्यानियमं पौनरुक्त्यं भवेद्यदि।
एकद्वित्र्यादिवर्णानां वृत्त्यनुप्रासमूचिरे॥
लाटानुप्रासः
तात्पर्यमात्रभिन्ना या शब्दार्थपुनरुक्तता।
सोऽयं शाब्दः काव्यविद्भिर्लाटानुप्रास ईर्यते॥
वाक्यावृत्तौ पदावृत्तौ नामावृत्तौ च तत्रिधा।
समासैक्ये तद्धितायां स्यात्समासासमासयोः॥
नामावृत्तौ पुनस्त्रेधा लाटानुप्रास ईरितः।
पञ्चप्रकार एवं च लाटानुप्रास ईरितः॥
यमकम्
अनर्थका वा भिन्नार्थास्सार्थकानर्थकाश्च वा।
क्रमादावर्तिता वर्णा यदि तद्यमकं भवेत्॥
श्लोकार्धपादतद्भागावृत्त्या स्यात्तच्चतुर्विधम्।
आवृत्तावाद्यपादादेर्द्वितीयादौ भिदा नव॥
द्विधा विभागे पादानां प्रथमाद्यादिमा यदि।
द्वितीयाद्यादिभागेषु यम्यन्ते स्युर्भिदा दश।
प्रथमाद्यन्तिमा भागा द्वितीयाद्यन्तिमांशगाः।
भवेयुश्चेत्तदाऽपि स्युरेवमेव भिदा दश॥
एवं द्विधा विभागे तु भेदानां विंशतिर्भवेत्।
त्रिधा पादविभागे तु त्रिंशदित्यूह्यतां क्रमात्॥
एवमन्त्यादिकाद्यान्तमध्यादीन्यादिमध्यगम्।
अन्त्यमध्यं च मध्यान्त्यमेतेषां च समुच्चयाः॥
एकैकपादे नियता नियतक्रमशालिनः।
यम्यन्ते चेदादिमध्यान्तभागास्तद्भिदाश्शतम्॥
पुनरुक्तवदाभासः
पुनरुक्तवदाभाति यत्रार्थो न तु वस्तुतः।
पुनरुक्तवदाभासस्स नामाख्यातगोचरः॥
शब्दैकनिष्ठश्शब्दार्थद्वयस्थश्चेत्यसौ द्विधा।
सभङ्गाभङ्गभेदेन द्विधा शब्दैकसंश्रयः॥
अपशब्दवदाभासः
निवर्तते साधुभावज्ञानाद्यत्रापशब्दधीः।
अपशब्दवदाभासस्सोलंकारो निगद्यते॥
अव्ययाभासः
पदानां सुप्तिङन्तानामन्यार्थानां निगुम्भने।
यथाऽव्ययवदाभासश्चित्रं तन्नाम तद्विदुः॥
तिङन्तवदाभासः
यत्राभासस्तिङन्तानां स्यादर्थान्तरगैः पदैः।
तत्तिङन्तवदाभासचित्रं चित्रज्ञसंमतम्॥
गूढपादचित्रम्
अन्यपादगता वर्णा गूढाः पादान्तरेषु चेत्।
चित्रं तत् गूढपादाख्यं चतुर्थाद्यादिगूहनात्॥
क्रियावञ्चनचित्रम्
क्रियादिकं विद्यमानमपि सन्दर्भकौशलात्।
स्पष्टं न दृश्यते चेत्तत्क्रियादेर्वञ्चनं विदुः॥
सप्तविभक्तिवञ्चनचित्रम्
यत्रैकस्यैव शब्दस्य गुप्तास्सप्त विभक्तयः।
तत्र सप्तविभक्तीनां वञ्चनं चित्रमुच्यते॥
स्वरस्थानव्यञ्जनादिनियमचित्रम्
स्वरस्थानव्यञ्जनानां नियमो दुष्करो हि यः।
प्रोक्तश्चतुःप्रभृत्येषु दर्श्यते सुकरः परः॥
अपुनरुक्तव्यञ्जनचित्रम्
व्यञ्जनानां कखादीनां यत्रावृत्तिर्न दृश्यते।
चित्रमेतद्विजानीयत्तदनावृत्तवर्णकम्॥
पद्मादिचित्राणि
पद्माद्याकारमापन्ना वर्णाश्चित्रमुदाहृतम्॥
षोडशदलपद्मम्
एकं यदि भवेत्सर्वमेकान्तरितमक्षरम्।
तत्पद्मं षोडशदलं कर्णिकाश्लिष्टवर्णकम्॥
द्विचतुष्कम्
बहिरन्तर्मण्डलस्थं तावत्कोष्ठविहारि यत्।
कोणाष्टकयुतं तच्च द्विचतुष्कं विदुर्बुधाः॥
गोमूत्रिका
तत्रायुग्माक्षरैश्श्लिष्टा यदि युग्माक्षरैस्तु वा।
गोमूत्रिकेति विख्यातिमिदमेव भजेत्तदा॥
एकान्तरं तु वर्णानामेकरूपत्वमर्धयोः।
गोमूत्रिकाख्यं चित्रं तदाहुश्चित्रविदो बुधाः॥
गवाक्षबन्धः
उपर्युपरि कोष्ठानि भवेयुर्नव मध्यतः।
तिर्यक्कोष्ठान्यपि तथा भवेयुर्मध्यतो नव॥
उभयोरनयोः पार्श्वद्वये कोष्ठान्यनक्रमात्।
सप्त पञ्च तथा त्रीणि निष्पद्येरन्यथा तथा॥
तुल्यप्रमाणा विलिखेत्तिर्यगूर्ध्वं च रेखिकाः।
मध्यवीथीशिरःकोष्ठादारभ्य विलिखेद्बुधः॥
एकं त्रीन्पञ्च सप्ताथ नव सप्त च पञ्च च।
त्रीनेकं चेति पद्यस्य वर्णांस्तिर्यगनुक्रमात्॥
ऊर्ध्वमध्यमवीधीस्थवर्णैः प्रमिलितैः क्रमात्।
स्वोद्देश्यकविकाव्यादिनाम्नामुद्धृतिरिष्यते॥
गवाक्षो नाम बन्धोऽयं सरलः कविसम्मतः॥
॥समाप्ता अलंकारमणिहारलक्षणश्लोकाः॥
(84)
]