10 संसृष्ट्यलङ्कारः (१२०)

अथ संसृष्टिसरः (१२०)


अलङ्कृतीनां सर्वासां यथासम्भवमेळने । लौकिकीनामिवैतासां चारुताऽतिशयेक्षणात् ॥ नरसिंहप्रक्रियया भात्यलङ्कारता पृथक् । अतस्तन्निर्णयं प्राचां मतेनात्राभिदध्महे ॥

ननूक्तानामलङ्काराणामनेकेषामेकत्रावस्थाने किं तत्तदलङ्कारतैव? उताहो नरसिंहन्यायेन समवायकृतमलङ्कारत्वम्? इति


चेत् अत्र केचित्– नालङ्कारान्तरं युक्तमभ्युपगन्तुम्, प्रातिस्विकतत्तदलङ्कारतातिरेकेण सञ्ज्ञान्तरस्य विच्छित्तिविशेषस्य चाभावादित्याहुः । अन्ये तु– नरसिंहन्यायेनालङ्कारान्तरमेव । न च सञ्ज्ञान्तरविच्छित्तिविशेषयोरभावः, असिद्धेः । संसृष्टिसङ्करसञ्ज्ञयोर्लौकिकालङ्काराणां कनकमुक्ताप्रवाळहरिनीलमरकतादीनामन्योन्यविलक्षणशोभाधायकानां मेळनकृतशोभातिशयवदिहापि मेळने विच्छित्तिविशेषसद्भावस्य च सहृदयहृदयैकसाक्षिकत्वात् । अतो नरसिंहाकारेण मेळनमलङ्कारान्तरमेवेति । तदेतन्मतमवलम्ब्योक्तं ‘भात्यलङ्कारता पृथक्’ इति ॥

तिलतण्डुलसंसर्गरीत्या यत्रेतरेतरम् । संसृज्येरन्नलङ्कारास्सा संसृष्टिरितीर्यते ॥

तिलतण्डुलन्यायेन स्फुटावगम्यभेदालङ्कारमेळने संसृष्टिरित्यर्थः ॥

शब्दालङ्कारयोरर्थालङ्कृत्योश्च परस्परम् । उभयोरपि संसृष्टिरिति सा त्रिविधा मता ॥

तत्राद्या यथा–

कलिकलुषशबलितमतिक्षितिपतिसेवातिवाहितायुरहम् । अधुना तव मधुनाशन विधुनानि क्लमभरं चरितमधुना ॥ २१३२ ॥

अत्र शब्दालङ्कारयोर्वक्ष्यमाणयोरनुप्रासयमकयोः पूर्वोत्तरार्धगतयोरन्योन्यनिरपेक्षयोस्संसृष्टिः ॥

द्वितीया यथा–

वृषभूमिभृद्वतंसेन्दीवरमिन्दीवराप्तजैत्रमुखम् । श्रीवासनामधेयं तज्जगतां भागधेयमव्यान्नः ॥


अत्र परम्परितरूपकोपमाकैतवापह्नुतीनामितरेतरनिरपेक्षाणामर्थालङ्काराणां संसृष्टिः ॥

तृतीया यथा–

पन्नगनगपावनवनराजीराजी तमालसालश्रीः । पापातुरमार्तं मां पापातु रमात्तमानसस्स पुमान् ॥

पन्नगनगस्य पावनानि यानि वनानि तेषां राज्यां श्रेण्यां राजत इति तथोक्तः । तमालसालस्य श्रीरिव श्रीः यस्य स तथोक्तः । रमया श्रिया आत्तं वशीकृतं मानसं यस्य स तथोक्तः स पुमान् परमपुरुषः पापैः आतुरं मां पापातु भृशं पातु । यङ्लुक् । अत्र छेकानुप्रासवृत्त्यनुप्रासयमकानां शब्दालङ्काराणां उपमापर्यायोक्तयोरर्थालङ्कारयोश्च संसृष्टिः ॥

यथावा–

शरणं तमेव रमया भजामहे हेमजाभयाऽऽश्लिष्टम् । त्वां विपदि महत्यामपि वदेम वा वामदेव शरणमिति ॥ २१३५ ॥

हेमजा स्वर्णजन्या आभा प्रभा यस्यास्तथोक्तया हिरण्यवर्णयेत्यर्थः । रमया आश्लिष्टं तमेव श्रीमन्तं नारायणमेव शरणं भजामहे प्रपद्यामहे । हे वामदेव विरूपाक्ष! त्वां महत्यां विपद्यपि शरणमिति वदेम वा । न वदेमैवेत्यर्थः । शरणमित्युक्तेरपि सम्भावना न कार्या । किमुत शरणवरणकथेति भावः ‘महत्यापदि सम्प्राप्ते स्मर्तव्यो भगवान् हरिः’ इत्युक्तरीत्या तं श्रियःपतिमेव भजामो न तु भवन्तम्प्रति रक्षेति वचनमपि वा वदामः । ‘नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः’ इत्यम्बरीषव्रतनिष्णाता वयमिति भावः । रमयाऽऽश्लिष्टमित्यनेन भग


वतस्सरसत्वं वामदेवेत्यनेन तद्व्यतिरेकि वक्रत्वं च सूच्यते । अत्र पूर्वार्धोत्तरार्धयोः अक्षरपञ्चकानुलोम्यप्रातिलोम्यलक्षणशब्दालङ्कारौ परिसङ्ख्यया अर्थालङ्कारेण संसृष्टौ ॥

इत्यलङ्कारमणिहारे संसृष्टिसरो विंशत्युत्तरशततमः.