08 सम्भवालङ्कारः (११८)


अथ सम्भवसरः (११८)


सम्भवोऽधिकसद्भावान्न्यूनस्थित्यवधारणम् ।

शते पञ्चाशन्न्यायेनाधिकसद्भावे न्यूनसद्भावावधारणं सम्भवः ॥

यथा–

कति कति वा तव करुणा व्यतिकरतो नाप्नुवञ् श्रियं नित्याम् । तेनैव ममापि श्रीजाने सा सम्भवेन्न किं ब्रूयाः ॥ २१२७ ॥

तेनैव करुणाव्यतिरेकेणैव । सा नित्यश्रीः ॥

यथावा–

कृष्णघन वर्षति त्वयि भुवनाभ्युदयाय दिव्यतमममृतम् । कथमिव न सम्भविष्यति चातकवृत्तेर्ममापि तल्लाभः ॥ २१२८ ॥

उदाहरणद्वयेऽपि अधिकसद्भावान्न्यूनसद्भावावधारणरूपसम्भवप्रमाणं प्रदर्शितम् ।

यथावा–

स्फुरतां भवजलधौ चिरमुरुतान्तानां हठात्तव स्मरताम् । परताराप्तौ सत्यां परितापं त्यज भवेत्तवाप्येषा ॥ २१२९ ।।

अत्र–

ज्ञानतोऽज्ञानतो वाऽपि वासुदेवस्य कीर्तनात् । तत्सर्वं विलयं याति तोयस्थं लवणं यथा ॥


सकृत् स्मृतोऽपि गोविन्दो नृणां वर्षशतैश्चितम् । पापराशिं दहत्याशु तूलराशिमिवानलः ॥ अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान्विमुच्यते सद्यस्सिंहत्रस्तैर्मृगैरिव ॥ हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । यदृच्छयाऽपि संस्पृष्टो दहत्येव हुताशनः ॥

इत्याद्युक्तप्रक्रियया श्रीहरिं हठात् स्मरतामपि संसारसागरपरतीराप्तौ सम्भवन्त्यां तवाप्येषा भवितेति सम्भवप्रमाणप्रदर्शनम् । परतारेत्यत्र ‘दिक्छब्देभ्यस्तीरस्य तारभावो वा वाच्यः’ इति तीरशब्दस्य तारादेशः ॥

इत्यलङ्कारमणिहारे सम्भवसरोऽष्टादशोत्तरशततमः.