अथानुपलब्धिसरः (११७)
यद्योग्यानुपलब्धेस्स्यादभावस्यावधारणम् । कृतिनोऽनुपलब्धिं तां रम्यां विदुरलङ्कृतिम् ॥
योग्यानुपलब्धिजन्यमभावावधारणमनुपलब्धिर्नामालङ्कारः । रम्यत्वं तु सर्वालङ्कारानुगतमेव ॥
यथावा–
दोषलवोऽपि यदि स्यात्त्वयि सुदृशां तदुपलब्धिरेव स्यात् । कल्याणगुणैकनिधे कलङ्क उपलभ्यते हि सकलेन्दौ ॥ २१२६ ॥
अत्र भगवतो यदि दोषलवोऽपि स्यात् तदा सुदृशां ‘श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते’ इत्युक्तश्रुतिस्मृतिरूपचक्षुष्मतां तदुपलब्धिस्स्यादेवेति तत्सानथया अनुपलब्ध्या दोषगन्धानवकाशनिर्धारणादनुपलब्धिर्नामालङ्कारः । कल्याणगुणैकनिधे इति सम्बोधनं दोषात्यन्ताभावाभिप्रायगर्भम् । सकलेन्दौ सम्पूर्णे चन्द्रमसीत्यर्थः । कलङ्क उपलभ्यते । सत्त्वादेव तदुपलब्धिः । यदि न स्यात्तर्हि नोपलभ्येतैवेति व्यतिरेकदृष्टान्तः ॥
इत्यलङ्कारमणिहारे अनुपलब्धिसरस्सप्तदशोत्तरशततमः.