04 उपमानालङ्कारः (११४)

अथोपमानसरः. (११४)


सञ्ज्ञायास्सञ्ज्ञिनश्चापि सम्बन्धप्रत्ययो हि यः । सादृश्यज्ञानकरण उपमानं तदुच्यते ॥

सादृश्यज्ञानकरणकस्सञ्ज्ञासञ्ज्ञिसम्बन्धप्रत्यय उपमानम् । तदेव चमत्कारि उपमानालङ्कारः ॥


यथा–

तं विद्धि कौस्तुभमणिं वेङ्कटगिरिनाथ हृदयमणिनिवहे । योऽत्र सखे गगनान्तरतारकनिकरस्थहिमकराकारः ॥ २०४० ॥

सुमशरमिव सुकुमारं सुरतरुमिव सन्ततं महोदारम् । जलनिधिमिव गम्भीरं विदाम देवं वृषाचलविहारम् ॥ २०४१ ॥

अत्र प्रथमोदाहरणे गगनान्तरतारकनिकरस्थहिमकरसदृशाकारताशालिवेङ्कटगिरिनाथहृदयगतमणिनिवहमध्यस्थितं वस्तु कौस्तुभमणिपदवाच्यमित्युपमानमूलभूतातिदेशवाक्योपन्यासेन तद्वाक्यार्थज्ञानादिदं वस्तु कौस्तुभमणिपदवाच्यमित्युपमितिप्रतीतेरयमुपमानालङ्कारः । द्वितीयोदाहरणे तु सुमशरमिवेत्यादिवाक्यैः कन्दर्पसदृशसौन्दर्यशालित्वसुरतरुसदृशौदार्यवत्त्वजलनिधिसमगाम्भीर्यवत्त्वानामतिदेशवाक्यार्थभूतसाद्दश्यात्मकानां वृषाचलविहारदेवशब्दवाच्यं विदामेति तत्पदशक्तिग्रहलक्षणोपमितिफलस्य प्रतिपादनादतिदेशवाक्यार्थसादृश्यप्रत्यक्षरूपमुपमानं फलेन सह दर्शितमिति विशेषः ॥

इत्यलङ्कारमणिहारे उपमानसरश्चतुर्दशोत्तरशततमः