35 विशेषकालङ्कारः (८५)


अत्र नीलगुणसाम्येन भगवद्दिव्यविग्रहरुचिपूरभेदानध्यवसाये प्राप्ते शैशिर्येण निमित्तेन यमुनायास्ततो भेदस्फूर्तेरुन्मीलितम् ॥

तद्गुणरीत्या भेदानध्यवसायप्राप्तावपीदं दृश्यते । यथावा–

शीतद्युतिविद्योतैः श्वेतद्वीपति चराचरे निखिले । रासविलासे माधवमेणदृशो वेणुनादतोऽन्वबुधन् ॥ १८४८ ॥

अत्र भगवतस्स्वनीलिमपरित्यागपूर्वकचन्द्रज्योत्स्नाविशदिमगुणग्रहणलक्षणतद्गुणालङ्कारप्रापितभेदानध्यवसायोपनतौ वेणुनादेन निमित्तेन भगवतस्ततो भेदस्फुरणम् । अन्वबुधन्नित्यत्र ‘बुधिर् बोधने’ इत्यस्माद्भौवादिकाल्लङ् । इदित्त्वात् च्लेरङ् । प्रयोगश्च–-‘स च काकुत्स्थ नाबुधत्’ इति ॥

इत्यलङ्कारमणिहारे उन्मीलितसरश्चतुरशीतितमः.


अथ विशेषकसरः (८५)


द्वयोर्त्वैधर्म्यसंस्फूर्तौ तुल्ययोस्स्याद्विशेषकः ।

भेदतिरोधानाभावेऽपि सादृश्याद्विशेषास्फुरणे प्राप्ते केनचिन्निमित्तेन विशेषस्फूर्ती सामान्यप्रतिद्वन्द्वी विशेषकः ॥

यथावा–

त्वत्कृपया मुक्तानां चतुर्भुजत्वादिलक्ष्मणि समाने । वक्षस्स्थितया लक्ष्म्या त्वां किल निश्चिन्वतेऽभिनवमुक्ताः ॥ १८४९ ॥


अत्र मुक्तानां भगवतश्च भेदतिरोधानाभावेऽपि चतुर्भुजत्वेन सादृश्याद्विशेषास्फुरणे प्राप्ते लक्ष्मीस्फुरदुरस्कत्वेन भगवतो विशेषस्फूर्तेर्विशेषकः ॥

यथावा–

सममसितासु स्वरुचा कमलादिषु नाथ दिव्यमहिलासु । सरसिजसौरभविभवाभावे पद्मा त्वयाऽपि दुरवगमा ॥ १८५० ॥

अत्र भगवत्याः पद्मायाः स्वगुणत्यागपूर्वकभगवच्छ्यामलिमग्रहणरूपतद्गुणालङ्काररीत्या दिव्यमहिलान्तरसाधारणे नीलिमनि तद्धृतकमलसौरभेण विशेषस्फूर्तिरिति पूर्वस्माद्विशेषः । इमौ द्वावप्यलङ्कारौ दीक्षितोपक्रमे एव ॥

प्राञ्चस्तु– “भेदवैषम्ययोः स्फूर्तौ नालङ्कारद्वयं कल्प्यं किन्तूक्तालङ्काराभावमात्रम्, भेदवैजात्यस्फुरणयोः स्वतस्सिद्धतया कविप्रतिभागोचरतामूलकवैचित्र्यविरहात् । न च मीलितसामान्यरीतिभ्यां भेदविशेषस्फूर्तौ तदपवादवर्णनकृतवैचित्र्यसद्भावादलङ्कारान्तरकल्पनं युक्तमिति वाच्यम्, तावता वैचित्र्याभावतादवस्थ्यात्” इत्याहुः । पण्डितराजस्तु इमामनुमानेऽन्तर्भावयति स्म ॥

इत्यलङ्कारमणिहारे विशेषकसरः पञ्चाशीततमः.