31 अनुगुणालङ्कारः (८१)


जनिर्विशेषोक्तिस्सति पुष्कलकारणे’ इति तत्सामान्यलक्षणाक्रान्तत्वात् । तथाऽपि उल्लासतद्गुणप्रतिद्वन्द्विना विशेषाकारेणालङ्कारान्तरतया परिगणितावित्याहुः ॥

इत्यलङ्कारमणिहारे तद्गुणसरोऽशीतितमः.


अथानुगुणसरः (८१)


स्वसजातीयगुणवदन्यसान्निध्यतो यदि । उत्कर्षः पूर्वसिद्धस्य गुणस्यानुगुणं हि तत् ॥

स्वसमानगुणवदन्यसन्निधानात्प्राग्विद्यमानस्वकीयगुणोत्कर्षवर्णनमनुगुणालङ्कारः । अयं च जयदेवोपक्रमम् ॥

यथावा–

संसिद्धित इन्दीवरसंसद्धितरुचि ततोऽञ्जनेनाक्तम् । त्रिगुणाञ्जनमिव रमणावलोकने तद्रुचाम्ब तव नयनम् ॥ १८३४ ॥

संसिद्धितः स्वभावतः ‘संसिद्धिप्रकृती समे’ इत्यमरः । इन्दीवराणां संसत् सभा समूहः तस्याः हितं तत्सदृशमिति यावत् । अत्र प्रकृत्यैव सिद्धस्य लक्ष्मीनयनश्यामलिम्नः अञ्जनादिना उत्कर्षः ॥

यथावा–

नवपद्मरागकाञ्चीछविमसृणितकनकवसनजनितरुचा । छुरितं तव जगदम्ब स्फुरति वपुर्दिव्यमतिपिशङ्गतया ॥ १८३५ ॥

इत्यलङ्कारमणिहारे अनुगुणसर एकाशीतितमः.