कदावा दैवसम्पदभिजातत्वादिगुणसम्भवसम्भावनयेति ध्येयम् । इयमप्यलङ्कृतिर्दीक्षितोपज्ञमेव ॥
इत्यलङ्कारमणिहारे अनुज्ञालङ्कारसरस्त्रिसप्ततितमः.
अथ तिरस्कारसरः (७४)
गुणस्य दोषसम्बन्धाद्द्वेषश्चेत्सा तिरस्कृतिः ॥
दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषश्चेत् स तिरस्कारो नामालङ्कारः ॥
यथावा–
मधुसूदन मम जात्वपि माहेन्द्र्यस्सम्पदोऽपि मा भूवन् । यासु निमग्नो नर्छति यदृच्छया वाऽपि तावकस्मरणम् ॥ १७२९ ॥
अत्र । भगवद्विस्मरणदोषसम्बन्धान्माहेन्द्रसम्पत्सु गुणत्वेन षसिद्धास्वपि द्वेषः । अयमलङ्कारः पण्डितराजोपज्ञम् । स हि–“दोषविशेषानुबन्धादित्याद्युक्तरीत्या अमुं लक्षयित्वा अमुं च तिरस्कारमलक्षयित्वा अनुज्ञां लक्षयतः कुवलयानन्दकृतो विस्मरणमेव शरणम्, अन्यथा–
भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसम्पद प्रमथनाथ नाथामहे ।
भवद्भवनदेहळीविकटतण्डुदण्डाहति- स्फुटन्मकुटकोटिभिर्मघवदादिभिर्भूयते ॥
इति तदुदाहृते पद्ये तिरस्कारस्य स्फुरणानापत्तेः” इत्यभाणीत् ॥
इत्यलङ्कारमणिहारे तिरस्कारसरश्चतुस्सप्ततितमः.
अथ लेशालङ्कारसरः (७५)
गुणो दोषतया दोषो गुणत्वेनाथवा यदि । वर्ण्यते तमलङ्कारं लेशमाहुर्मनीषिणः ॥
यत्र गुणोऽनिष्टसाधनतया दोषत्वेन, दोषश्चेष्टसाधनतया गुणत्वेन वर्ण्यते स लेशो नामालङ्कारः ॥
यथा–
भूयस्सु समुल्लासिषु भूभृत्सु धरातले निरातङ्कम् । हरिधृतिफलमिदमहिधर तव यत्सर्वे शिरोऽधिरोहन्ति ॥ १७३० ॥
अत्र प्रथमार्धे शैलान्तराणां भगवद्धारणाभावदोषस्य निरातङ्कोल्लासानुकूलतया गुणत्वं कल्पितम् । द्वितीयार्धे श्रीनिवासधारणगुणस्य सर्वजनकर्तृकशिरोधिरोहणकारणतया दोषत्वं कल्पितम् । अयं च निर्गुणेषु भूयस्सु भूपालेषु सुखवत्तयाऽवस्थितेषु निरतिशयौदार्यादिसुगुणशालिनो राज्ञः अर्थिजनकर्तृकसम्मर्दादिक्लेशो भविष्यतीत्यप्रस्तुतव्यवहारपरिस्फूर्तिरूपसमासोक्त्यास्तुत्या