अथ प्रौढोक्तिसरः (६५)
यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम् । प्रौढोक्तिरेषा कथिता जयदेवमुखैर्बुधैः ॥
किञ्चिदुत्कर्षाहेतुभूते वस्तुनि तद्धेतुताकल्पनं प्रौढोक्तिर्न्नामालङ्कारः ॥
यथा–
सारस्वतपूरोदरसूरसमुद्बुद्धसारसात्यरुणे । चरणे सुभगङ्करणे स्मरणे स्तां मे हरेः प्रियङ्करणे ॥ १६४६ ॥
अत्र सरस्वतीपूरगतारुणिमातिशयाहेतोस्तदुदरसूरसमुद्बुद्धत्वस्य तद्धेतुत्वकल्पनम् ॥
यथावा–
शरदमृतकरज्योत्स्नाच्छुरिताभ्रसरिद्विकासिकुमुदसिताः । मुरवैरियशःपूरा हरिता कर्पूरलेपमादधते ॥ १६४७ ॥
अत्रापि कुमुदसितत्वातिशयाहेतोश्शरच्चन्द्रज्योत्स्नाच्छुरितत्वादेर्हेतुत्वकल्पनम् ।
रसगङ्गाधरकारस्तु “कस्मिंश्चिदर्थे किञ्चिद्धर्मकृतातिशयप्रतिपिपादयिषया प्रसिद्धतद्धर्मवता संसर्गस्योद्भावनं प्रौढोक्तिः’ इति अस्यालङ्कारस्य लक्षणमाह । तदेदमुदाहरणम्-
इन्दुकरव्यतिकरितैश्चन्दनगिरिगन्धवाहसारांशैः । जलनिधिकन्ये मन्ये जलरुहजन्माऽसृजत्तवापाङ्गान् ॥ १६४८ ॥
अत्रापाङ्गेषु न केवलं शैशिर्यादयो मलयानिलकिशोरमात्रगुणा एव कवेः प्रतिपिपादयिषिताः, किन्तु सकलजगदुज्जीवयितृत्वादयोऽन्येऽपीति मलयानिलसारांशेषु चन्द्रकरसंसर्गो विशेषणतयाऽतिशयार्थमुपात्तः । उत्पाद्योत्पादकभावश्चात्र न लोकप्रसिद्धः । किन्तु कविप्रतिभामात्रनिबद्धः । अत्र च धर्मिविशेषसंसर्गादतिशयो धर्म्यन्तरगतो यदि व्यञ्जनाविषयः तदैवायमलङ्कारः । यदि वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिधीयते तदा समालङ्कारस्यैव विषयः ।
यथा–
पद्मे प्रादुरभूः किल पद्मे पद्मे बिभर्षि पाणिभ्याम् । असि पद्मनाभहृदयावसतिस्त्वं पद्मगन्धिरिति युक्तम् ॥ १६४९ ॥
अत्र लक्ष्म्यास्सौरभ्यातिशयस्तद्धर्मिसम्बन्धप्रयुक्तत्वेन वर्णित इति सम एवालङ्कारः । एवं चास्य मते–
‘एकोनविंशसङ्ख्यकपुराणतः किञ्च षष्ठवेदेन । हेयगुणास्तवभगवन् ख्याप्यन्ते भाविमातृगर्भभवैः’ ॥
इत्यादावेकस्य मिथ्यात्वसिद्ध्यर्थं मिथ्याभूतवस्त्वन्तरकल्पनं मिथ्याध्यवसित्यलङ्कारान्तरमिति न वक्तव्यम्, प्रौढोक्त्यैव गतार्थत्वात् । ‘कचाः कळिन्दजातरितमालस्तोममेचकाः’ इत्यादौ
प्राचीनकृतप्रौढोक्त्युदाहरणे यथा तमालेषु श्यामलिमातिशयार्थं श्यामलिमाधिकरणीभूतकालिन्दीसम्बन्ध उद्भाव्यते तथा हेयगुणेषु मिथ्यात्वातिशयसिद्धये मिथ्यात्वाधिकरणैकोनविंशसङ्ख्याकपुराणादेसम्बन्ध इत्यस्यापि सुवचत्वात् । यदिच मिथ्याध्यवसितिरेवालङ्कारान्तरं स्यात् सत्याध्यवसितिरपि तथा स्यादित्यापादयता रसगङ्गाधरकृता–
हरिश्चन्द्रेण सञ्जप्ताः प्रगीता धर्मसूनुना । खेलन्ति निगमोत्सङ्गे मातर्गङ्गे गुणास्तव ॥
इत्याद्युदाहृत्य अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसम्बन्धाद्गुणानां सत्यत्वं प्रतीयते । एवं–
मध्ये सुधासमुद्रस्य सितामयगृहोदरे । पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥
अत्रापि सुधासमुद्रादिसम्बन्धात् उक्तिषु माधुर्यातिशयः प्रतीयमानः कस्यालङ्कारस्य गोचरः स्यात् । अतोऽलङ्कारान्तरं स्यात् । मम तु प्रौढोक्त्यैव गतार्थतेत्युक्तम् ॥
इत्यलङ्कारमणिहारे प्रौढोक्तिसरः पञ्चषष्टितमः.
अथ सम्भावनासरः (६६)
सम्भावनं स्याद्यद्येवं स्यादित्यूहोऽन्यसिद्धये ॥
यत्र किञ्चित्तर्कणमन्यत्तर्कणसाधनं तत्सम्भावनम् ॥
यथा–