त्वत्कृपया यद्दर्वीकरः’ इत्यादौ दर्शितः । अत्र वक्तव्यमन्यत्सर्वमुदाहरणालङ्कारनिरूपणावसरे दर्शितमिति नात्र प्रतायते । अथ हि प्रतिज्ञाहेत्ववयवयोरिव आकाङ्क्षाक्रमप्राप्तं समर्थ्यसमर्थकवाक्ययोः पौर्वापर्यमिति न मन्तव्यम् । न ह्यत्र समर्थकं समर्थ्यानुपपत्त्युन्मीलितायामाकाङ्क्षायां सत्यामेवाभिधीयत इत्यस्ति नियमः । अनुपपत्तेरभावेऽपि प्रतीतिवैशद्यार्थं कविभिस्तस्याभिधानात् । एवं काव्यलिङ्गेऽपि । एवं च तयोर्वैपरीत्येऽपि न दोषः ॥
यथावा–
सरिदधिपे शिखरिणि वा सदृशं वर्षति घनाघनस्सलिलम् । अवधीरितनिम्नोन्नतविभागमच्युत भवादृशौदार्यम् ॥ १६४२ ॥
अत्र पूर्वार्धगत एव विशेषः उत्तरार्धगते समान्ये प्रस्तुते समर्थकः ॥
इत्यलङ्कारमणिहारे अर्थान्तरन्याससरस्त्रिषष्टितमः.
अथ विकस्वरालङ्कारसरः (६४)
सामान्येन विशेषस्य क्रियते यत्समर्थनम् । पुनस्तस्य विशेषेण स विकस्वर ईर्यते ॥
कस्यचिद्विशेषस्य समर्थनं सामान्येन विधाय तत्प्रसिद्धावपरितुष्यता कविना पुनर्विशेषेण तत्समर्थनमुपमानरीत्या अर्थान्तरन्यासविधया वा क्रियते स विकस्वरो नामालङ्कारः ॥
यथा–
न्यस्तभरं त्वयि मामिह न स्तोकं वाऽपि कर्म बाधेत । किमपि विबाधितुमीष्टे न भाग्यवन्तं यथा रविं ध्वान्तम् ॥ १६४३ ॥
किमपि वस्तु, इदं कर्तृ । ध्वान्तं तमः, इदमपि कर्तृ । इदमुपमानरीत्या विशेषान्तरन्यसने उदाहरणम् ॥
अर्थान्तरन्यासविधया यथा–
सत्स्वपि शिखरिषु बहुषु श्रीवास त्वं श्रितोऽसि वृषशैलम् । न हि सर्वे भाग्यभृतो मिषत्सु विबुधेष्ववाप हि श्रीस्त्वाम् ॥ १६४४ ॥
यथावा–
कृपया राज्यं प्रादाः कपये महतां निरङ्कुशा हि कृपा । गोपस्याप्यच्युत तव जगदीशत्वं ददौ हि जलधिसुता ॥ १६४५ ॥
अयमलङ्कारश्चन्द्रालोकानुयायिदीक्षितानुरोधेन दर्शितः । जगन्नाथादयस्तु– प्रकृतविशेषस्य सामान्येन समर्थनादेकोऽर्थान्तरन्यासः । सामान्यस्य विशेषेण समर्थनादपर इति भेदद्वयसमावेशात्मकतायाः स्फुटत्वात्तत्संसृष्ट्यैव गतार्थत्वान्नालङ्कारान्तरस्वीकार उचित इत्याहुः ॥
इत्यलङ्कारमणिहारे विकस्वरालङ्कारसरश्चतुष्षष्टितमः
अथ प्रौढोक्तिसरः (६५)
यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम् । प्रौढोक्तिरेषा कथिता जयदेवमुखैर्बुधैः ॥
किञ्चिदुत्कर्षाहेतुभूते वस्तुनि तद्धेतुताकल्पनं प्रौढोक्तिर्न्नामालङ्कारः ॥
यथा–
सारस्वतपूरोदरसूरसमुद्बुद्धसारसात्यरुणे । चरणे सुभगङ्करणे स्मरणे स्तां मे हरेः प्रियङ्करणे ॥ १६४६ ॥
अत्र सरस्वतीपूरगतारुणिमातिशयाहेतोस्तदुदरसूरसमुद्बुद्धत्वस्य तद्धेतुत्वकल्पनम् ॥
यथावा–
शरदमृतकरज्योत्स्नाच्छुरिताभ्रसरिद्विकासिकुमुदसिताः । मुरवैरियशःपूरा हरिता कर्पूरलेपमादधते ॥ १६४७ ॥
अत्रापि कुमुदसितत्वातिशयाहेतोश्शरच्चन्द्रज्योत्स्नाच्छुरितत्वादेर्हेतुत्वकल्पनम् ।
रसगङ्गाधरकारस्तु “कस्मिंश्चिदर्थे किञ्चिद्धर्मकृतातिशयप्रतिपिपादयिषया प्रसिद्धतद्धर्मवता संसर्गस्योद्भावनं प्रौढोक्तिः’ इति अस्यालङ्कारस्य लक्षणमाह । तदेदमुदाहरणम्-