यथावा-
पश्यति हरिरुपसर्पति तिष्ठत्यालपति हसति परिहसति । सल्लपति स्पृशति समालिङ्गति गोपीमुपैति तदभेदम् ॥ १४९८ ॥
आलापः आभाषणम्, सल्लापः मिथोभाषणम् । अत्राद्ये कृतिरूपकर्तृकारकस्य एकस्यैव अधिरोहणादिक्रियास्वन्वयः क्रमिको निबद्धः । द्वितीये हरिरूपकर्तृकारकस्य एकस्यैव दर्शनादिक्रियास्वन्वयः क्रमिक इति प्रथमसमुच्चयप्रतिद्वन्द्वीदम् ॥
इत्यलङ्कारमणिहारे कारकदीपकसरोऽष्टापञ्चाशः
अथ समाध्यलङ्कारसरः (५९)
कारणान्तरसान्निध्यवशात्कार्यस्य कस्यचित् । सौकर्यं वर्ण्यते यत्र समाधिस्तत्र गीयते ॥
एककारणजन्यस्य कार्यस्याकस्मिककारणान्तरसमवधानाहितं यत्सौकर्यं तस्य सम्यगाधानात्समाधिरलङ्कारः । तच्च कार्यस्यानायासेन सिद्ध्या साङ्गसिद्धा च । समुच्चयविशेषापेक्षयाऽस्य वैलक्षण्यं त्वभिहितमेव प्राक् ॥
यथावा–
यादृच्छिकसुकृतवशान्मादृक्षं त्वं समुद्दिधीर्षुरसि । तादृशसाधुसमागम ईदृशसमये हठादुपनतो मे ॥ १४९९ ॥
अत्र यादृच्छिकसुकृतादेव सिद्ध्यन्त्या भगवत्कर्तृकोद्दिधीर्षायास्साधुसमागमादनायासेन सिद्धिः ॥
यथावा–
काङ्क्षन्त्या व्रजसुदृशश्शैरेर्दातुं स्वयङ्ग्रहाश्लेषम् । आननसौरभलोभादापतदळिबृन्दमकृत साहाय्यम् ॥ १५०० ॥
अत्रोत्कण्ठिताया गाोपललनाया आकस्मिकमिळिन्दवृन्दापतनरूपकारणान्तरसमवधानेन शौरिकर्मकस्वयङ्ग्रहाश्लेषस्यानायासेन सिद्धिः ॥
शौरिनवचाटुभङ्गीमङ्गीचक्रे यदा व्रजलताङ्गी । श्लथमपि तदोपगूहनमकार्यकस्मात्पिकारवैस्सान्द्रम् ॥ १५०१ ॥
अत्र पिकनिनादैरुपगूहनस्य साङ्गत्वसिद्धिः ॥
इत्यलङ्कारमणिहारे समाधिसर एकोनषष्टितमः.
अथ प्रत्यनीकालङ्कारसरः (६०)
बलिनि प्रतिपक्षे वा तत्प्रक्षे वा तिरस्कृतिः। तत्प्रतिद्वन्द्विसाह्यं वा प्रत्यनीकमितीर्यते ॥