08 कारकदीपकालङ्कारः (५८)


अथ कारकदीपकसरः (५८)


क्रमिकाणां क्रियाणां चेदेककारकगामिनाम् । गुम्भनं क्रियते तत्तु भवेत्कारकदीपकम् ॥

एककारकगतानां क्रमिकाणां क्रियाणां गुम्भनं कारकदीपकमित्यलङ्कारः । यद्यपि निबध्यमानानां क्रियाणां प्रस्तुतत्वेन सर्वोद्देशेनैव धर्मिणः कारकस्य प्रवृत्तिः । अतः किञ्चिदुद्देशेन प्रवृत्तस्यान्यत्र प्रासङ्गिकत्वलक्षणदीपकसादृश्यविरहान्न दीपकव्यपदेशो युक्तः । तथाऽपि एकस्यानेकान्वयमात्रेण दीपकसादृश्यमाश्रित्य तथा व्यपदेशः । दण्डिना तु कारकदीपकं दीपक एवान्तर्भाव्य तुल्ययोगिताऽपि तद्भेदत्वेनैव प्रतिपादितेत्यवोचाम दीपकालङ्कारनिरूपणावसर एव । वस्तुतस्तु मालादीपकवत्पृथगेवायमलङ्कारतामर्हति न दीपकेऽन्तर्भावम्, तज्जीवातोरुपमागर्भतया इहाभावात् । समुच्चयप्रतिद्वन्द्वितया विच्छित्तिविशेषसद्भावाच्चेत्ययं पूर्वैरकृतविवेकोऽपि प्रदर्शितो दीक्षितैविकल्पालङ्कार इवालङ्कारसर्वस्वकृता ॥

उदाहरणं–

अधिरोहति वृषशिखरिणमभिमज्जति नाथ तत्र सरसि कृती । त्वामञ्चत्यथ मुञ्चति मुदाऽश्रु

तत्रैव वाञ्छति निवस्तुम् ॥ १४९७ ॥


यथावा-

पश्यति हरिरुपसर्पति तिष्ठत्यालपति हसति परिहसति । सल्लपति स्पृशति समालिङ्गति गोपीमुपैति तदभेदम् ॥ १४९८ ॥

आलापः आभाषणम्, सल्लापः मिथोभाषणम् । अत्राद्ये कृतिरूपकर्तृकारकस्य एकस्यैव अधिरोहणादिक्रियास्वन्वयः क्रमिको निबद्धः । द्वितीये हरिरूपकर्तृकारकस्य एकस्यैव दर्शनादिक्रियास्वन्वयः क्रमिक इति प्रथमसमुच्चयप्रतिद्वन्द्वीदम् ॥

इत्यलङ्कारमणिहारे कारकदीपकसरोऽष्टापञ्चाशः


अथ समाध्यलङ्कारसरः (५९)


कारणान्तरसान्निध्यवशात्कार्यस्य कस्यचित् । सौकर्यं वर्ण्यते यत्र समाधिस्तत्र गीयते ॥

एककारणजन्यस्य कार्यस्याकस्मिककारणान्तरसमवधानाहितं यत्सौकर्यं तस्य सम्यगाधानात्समाधिरलङ्कारः । तच्च कार्यस्यानायासेन सिद्ध्या साङ्गसिद्धा च । समुच्चयविशेषापेक्षयाऽस्य वैलक्षण्यं त्वभिहितमेव प्राक् ॥

यथावा–

यादृच्छिकसुकृतवशान्मादृक्षं त्वं समुद्दिधीर्षुरसि । तादृशसाधुसमागम ईदृशसमये हठादुपनतो मे ॥ १४९९ ॥