अथान्योन्यालङ्कारसरः (४५)
विशेषाधानमन्योन्यमन्योन्यालङ्कृतिं विदुः ॥
द्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यं नामालङ्कारः ॥ विशेषश्च गुणक्रियादिरूपः ॥
यथा–
करपद्मरागभूम्नाऽत्यरुणतरा कटकपद्मरागश्रीः । तत्पद्मरागधाम्नाऽत्यरुणं करपद्ममखिलजननितव ॥
करपद्मयोः रागभूम्ना आरुण्यातिशयेन । तत्पद्मरागाणां करकङ्कणकुरुविन्दानां धाम्ना महसा । अत्र करपद्मारुण्यातिशयकङ्कणकुरुविन्दारुण्ययोर्गुणयोरन्योन्यविशेषाधानम् ॥
यथावा–
उरसोऽन्तरिक्षमहसो मणेश्च फणिशयन तुलितदिवसमणेः । अन्योन्यश्रीजननात्सामान्यं भूष्यभूषणत्वमभूत् ॥ १३७२ ॥
भूष्यभूषणत्वं अलङ्कार्यालङ्कारत्वं सामान्यं उभयसाधारणं अभूत् । अत्र भगवदुरसः कौस्तुभस्य च श्रीजननरूपक्रिययोरन्योन्यं विशेषाधानम् । उपमोपस्कृतत्वं विशेषः ॥
इत्यलङ्कारमणिहारे अन्योन्यसरः पञ्चचत्वारिंशः.